Vedanta Dipa · Section 16 of 17
||atha caturthādhyāye tṛtīyaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
५०९ अर्चिर्-आदिना तत्-प्रथितेः॥४।३।१॥
Link copiedकिꣳ विद्वान् अर्चिर्-आदिनैकेन मार्गेण गच्छति, उत तेन वान्येन वेत्य् अनियम इति सꣳशयः। तद्-अर्थꣳ परीक्ष्यते--- किꣳ सर्वासु श्रुतिष्व्-अर्चिर्-आदिर् एक एव मार्ग आम्नायते, उत तत्र तत्रान्य इति। यदाचिर्-आदिर् एक एव सर्वत्रोक्तस् तदा तेनैव गच्छति। यदा तत्र तत्राम्नाता अन्ये, तदान्यैर् वानेन वेत्य् अनियम इति। छान्दोग्य-वाजसनेयकादिषु नाना-विधाः गति-प्रकाराः श्रूयन्ते। छान्दोग्ये--- यथा पुष्कर-पलाश आपो न श्लिप्यन्ते इत्य् उपक्रम्य, सर्वाणि \॥॥नयति, सर्वेषु लोकेषु भाति य एवꣳ वेद, अथ यद् उ चैवास्मिञ् छव्यꣳ कुर्वन्ति यद् उ च नार्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड् उदङ्ङ् एति मासाꣳस् तान् मासेभ्यः सꣳवत्सरꣳ सꣳवत्सराद् आदित्यम् आदित्याच् चन्द्रमसꣳ चन्द्रमसो विद्युतꣳ तत्-पुरुषोऽमानवस्य एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमꣳ मानवम् आवर्तꣳ नावर्तन्ते इति। बृहदारण्यके--- य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धाꣳ सत्यम् इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षण् मासान् उदङ्ङ् आदित्य एति मासेभ्यो देव-लोकꣳ देव-लोकाद् आदित्यम् आदित्याद् वैद्युतꣳ वैद्युतात् पुरुषोऽमानवः स एत्य ब्रह्म-लोकान् गमयति, इति। तत्रैवान्यथा--- यदा वै पुरुषोऽस्माल् लोकात् प्रेति स वायु-लोकम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खꣳ तेन स ऊर्ध्वम् आक्रमते स आदित्यम् आगच्छति तस्मै स तत्र विजिहीते यथाडम्बरस्य खꣳ तेन स ऊर्ध्वम् आक्रमते स चन्द्रमसम् आगच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् इत्य् आदिषु। तेषाꣳ ब्रह्म-प्राप्तौ नैरपेक्ष्य-श्रवणात् तैर् वार्चिर्-आदिना वेति विकल्प इति पूर्वः पक्षः। राद्धान्तस् तु--- सर्वत्रार्चिर्-आद्य्-अन्तर्भूतादित्यादीनाꣳ दर्शनात् स एवेति प्रत्यभिज्ञानात्, अन्यत्रोक्तानाम् अन्यत्रोपसꣳहाराच् च, सर्वत्रार्चिर्-आदिर् एक एव मार्ग इति तेनैव गच्छति विद्वान्। सूत्रार्थस् तु--- अर्चिर्-आदिनैव गच्छति विद्वान्। कुतः। तत्-प्रथितेः। प्रथितिः--- प्रसिद्धिः; सर्वत्र तत्-प्रत्यभिज्ञानाद् इत्य् अर्थः॥१॥ इत्य् अर्चिर्-आद्य्-अधिकरणम्॥१॥
Link copied५१० वायुम् अब्दाद् अविशेष-विशेषाभ्याम्॥४।३।२॥
Link copiedतेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहर् अह्नः, इत्य् आरभ्य, मासेभ्यः सꣳवत्सरꣳ सꣳवत्सराद् आदित्यम् इति छान्दोग्ये श्रुतम्। तत्र सꣳवत्सरादित्ययोर् मध्ये देव-लोको वायुश् च श्रुतौ श्रुत्य्-अन्तरे। द्वयोः प्रकरणयोः किꣳ देव-लोको वायुश् चार्थान्तर-भूतौ, उत वायुर् एक एवेति सꣳशयः। शब्द-भेदादर्थान्तर-भूताव् इति पूर्वः पक्षः। अर्थान्तरत्वे सति, देव-लोकाद् आदित्यम् इति देव-लोकस्य, तेन स ऊर्ध्वम् आक्रमते स आदित्यम् इति वायोश् चादित्यात् पूर्वत्वेन श्रौत-क्रम-निर्दिष्टत्वाद् देव-लोक-वायू यथेष्ट-क्रमेण निवेशयितन्यौ।
Link copiedराद्धान्तस् तु--- वायुर् एव देव-लोक-शब्देन निर्दिष्ट इति तस्माद् अनन्यः। देवानाꣳ लोक इति हि देव-लोकः, देवानाꣳ वासस्थानम् इत्य् अविशेषेण निर्दिष्टम्। योऽयꣳ पवत एष एव देवानाꣳ गृहाः, इति वायोर् विशेषेण देवानाꣳ वासस्थानत्वेन श्रुतत्वाद् अविशेष-निर्दिष्टो देव-लोको वायुर् एवेति निश्चीयत इति। सꣳवत्सराद् ऊर्ध्वꣳ वायुर् वायोर् आदित्य इति क्रमश् च स्यात्॥
Link copiedसूत्रार्थस् तु--- अब्दात्--- सꣳवत्सराद् ऊर्ध्वम् आदित्यात् पूर्वꣳ वायुम् एकम् एव निवेशयेत्, देव-लोक-वायु-शब्दाभ्याम् अविशेष-विशेषाभ्याꣳ वायोर् एकस्यैव निर्दिष्टत्वात्। देवानाꣳ वासस्थानम् इत्य् अविशेषेण हि देव-लोक-शब्दो वायु-देवानाम् आवास-स्थान-भूतम् अभिदधाति, वायु-शब्दस् तम् एव विशेषेणेति द्वयोः प्रकरण-द्वय-विहितयोर् एकत्वाद् इत्य् अर्थः॥२॥ इति वाय्व्-अधिकरणम्॥२॥
Link copied५११ तटितोऽधि वरुणः सम्बन्धात्॥४।३।३॥
Link copiedछान्दोग्य-वाजसनेयक-कौषीतकी-प्रभृतिष्व् आम्नातस्यार्चिर्-आदि-मार्गस्यार्चिर् अहर् आपूर्यमाण-पक्षोत्तरायण-सꣳवत्सर-वाय्व्-आदित्य-चन्द्र-विद्युद्-वरुणेन्द्र-प्रजापति-रूपस्योपसꣳहारे वायु-पर्यन्तस्य श्रुत्यादिभिः क्रम-प्रकार उक्तः। वरुणेन्द्र-प्रजापतीनाꣳ किꣳ विद्युत उपरि निवेशः, उत वायोर् उपरीति सꣳशयः। स वायु-लोकꣳ स वरुण-लोकम् इति कौषीतकी-पाठ-क्रमेण वायोर् उपरि वरुणस्य निवेशः। इन्द्रादेर् अपि वरुण-निवेशाय वाय्व्-आदित्ययोः क्रमस्य बाधितत्वात् तत्रैव वरुणोपरीति पूर्वः पक्षः।
Link copiedराद्धान्तस् तु--- विद्युतो मेधोदर-वर्तित्वेन विद्युद्-वरुणयोर् लोके वेदे च सम्बन्धावगमात् पाठ-क्रमाद् अर्थ-क्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेशः कार्यः। इन्द्रादेर् अपि वरुण-निवेशाय विद्युतो व्यवधान-सहत्व-दर्शनाद् वरुणोपरि निवेशः। सूत्रꣳ च व्याख्यातम्॥३॥ इति वरुणाधिकरणम्॥३॥
Link copied५१२ आतिवाहिकास् तल्-लिङ्गात्॥४।३।४॥
Link copiedकिम् अर्चिर्-आदयो विदुषो ब्रह्म-प्रेप्सोर् मार्ग-चिह्न-भूताः, उत गमयितार इति सꣳशयः। अमुकꣳ वृक्षम् अमुकाꣳ नदीम् अमुकꣳ पर्वत-पार्श्वꣳ गत्वामुकꣳ ग्रामꣳ गच्छ, इत्य् आदि देशिकोपदेश-प्रकार-दर्शनान् मार्ग-चिह्न-भूताः, इति पूर्वः पक्षः। राद्धान्तस् तु--- स एनान् ब्रह्म गमयति, इति वैद्युत-पुरुषस्य गमयितृत्व-दर्शनाद् इतरेषाꣳ चाविशेष-निर्दिष्टानाꣳ स एव सम्बन्ध इति निश्चीयते। अग्नि-लोकम् इत्य् आदि लोक-शब्दोऽपि मध्ये भोगाभावाद् गमयितृत्व एवोपपद्यते। सूत्रार्थस् तु--- आतिवाहिकाः--- विदुषाम् अतिवाहे परम-पुरुषेण नियुक्ताः, अर्चिर्-आद्य्-अभिमानि-देवता-विशेषाः गमयितार इत्य् अर्थः। स एनान् ब्रह्म गमयतीति लिङ्गात्॥४॥
Link copied५१३ वैद्युतेनैव ततस् तच्-छ्रुतेः॥४।३।५॥
Link copiedततः--- विद्युत उपरि, वैद्युतेन विदुषो गमनम्, तच्-छ्रुतेः--- स एनान् ब्रह्म गमयतीति तस्यैव श्रुतेः। वरुणादीनाꣳ तद्-अनुग्राहकत्वेन गमयितृत्वम् इति निश्चीयत इत्य् अर्थः॥५॥
Link copiedइत्य् आतिवाहिकाधिकरणम्॥४॥
Link copied५१४ कार्यꣳ बादरिर् अस्य गत्य्-उपपत्तेः॥४।३।६॥
Link copiedकिम् अर्चिर्-आदिको गणः कार्यꣳ हिरण्यगर्भम् उपासीनान् नयति, उत परꣳ ब्रह्मोपासीनान्, अथ परꣳ ब्रह्मोपासीनान् प्रत्यगात्मानꣳ ब्रह्मात्मकतयोपासीनाꣳश् चेति सꣳशयः। कार्यꣳ--- हिरण्यगर्भम् उपासीनान् इति पूर्वः पक्षः, तेषाम् एव गत्य्-उपपत्तेः। न हि परिपूर्णꣳ सर्व-गतꣳ परꣳ ब्रह्मोपासीनानाꣳ तत्-प्राप्तये गतिर् उपपद्यते, नित्य-प्राप्तत्वात्। अविद्या-निवृत्तिर् एव हि कार्या। परम् एवोपासीनान् इत्य् अपरः पक्षः, स एनान् ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। अविद्या-निवृत्तेः फलाभिसन्धि-रहित-यज्ञाद्य्-अपेक्षावत् श्रवणाद्य्-अपेक्षावच् च गति-श्रुत्या देश-विशेषापेक्षा च विद्यत इति निश्चीयते। राद्धान्तस् तु--- परम् उपासीनान् अन्यान् अपि नयति, तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति, इति पञ्चाग्नि-विदाꣳ परꣳ ब्रह्मोपासीनानाꣳ चार्चिर्-आदि-गति-श्रुतेः। पञ्चाग्नि-विदो हि प्रकृति-विमुक्त-ब्रह्मात्मकात्म-स्वरूप-विदः। ते च तत् प्राप्य पुनर् न निवर्तन्ते। परꣳ ब्रह्मोपासीनास् तु यथावस्थितꣳ परिपूर्णꣳ परꣳ ब्रह्मैव प्राप्य पुनर् न निवर्तन्ते। तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति * इत्य् उभय-विधान् भेदेनोपादायार्चिर्-आदि-गति-श्रुतेर् अपुनर्-आवृत्ति-श्रुतेश् चैवम् इति निश्चीयते॥
Link copiedसूत्रार्थस् तु--- कार्यꣳ--- हिरण्यगर्भम् उपासीनम् आतिवाहिको गणो नयतीति बादरिर् आचार्यो मन्यते, अस्यैव गत्य्-उपपत्तेः। परम् उपासीनस्य हि न तत्-प्राप्तये गतिर् उपपद्यते, सर्व-गतत्वात् परस्य ब्रह्मणः॥६॥
Link copied५१५ विशेषितत्वाच् च॥४।३।७॥
Link copiedपुरुषोऽमानव एत्य ब्रह्म-लोकान् गमयति, इति, प्रजापतेः सभाꣳ वेश्म प्रपद्ये इति च प्राप्य-स्थानस्य विशेषितत्वाच् च हिरण्यगर्भम् उपासीनम् एव नयति॥७॥
Link copied५१६ सामीप्यात् तु तद्-व्यपदेशः॥४।३।८॥
Link copiedएवꣳ निश्चिते सति, स एनान् ब्रह्म गमयतीति हिरण्यगर्भस्य ब्रह्म-शब्द-व्यपदेशो ब्रह्म-सामीप्यात्। यो ब्रह्माणꣳ विदधाति पूर्वम् इति प्रथमजत्वेन ब्रह्म-सामीप्यꣳ हि विद्यते॥८॥
Link copied५१७ कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात्॥४।३।९॥
Link copiedहिरण्यगर्भ-प्राप्ताव् अप्य् अपुनर्-आवृत्तिर् उपपद्यते। कार्यस्य--- हिरण्यगर्भ-लोकस्यात्यये, तद्-अध्यक्षेण--- हिरण्यगर्भेणाधिकारिक-पुरुषेण विदुषा सह पर-प्राप्त्य्-अभिधानात्, ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे इति॥९॥
Link copied५१८ स्मृतेश् च॥४।३।१०॥
Link copiedब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परꣳ पदम्॥ इति स्मृतेश् चावगम्यते॥१०॥
Link copied५१९ परꣳ जैमिनि-मुख्यत्वात्॥४।३।११॥
Link copiedपरꣳ ब्रह्मोपासीनम् एव नयत्य् आतिवाहिको गण इति जैमिनिर् आचार्यो मन्यते, ब्रह्म गमयतीति ब्रह्म-शब्दस्य तत्रैव मुख्यत्वात्। ब्रह्म-लोकान् इति शब्दश् च ब्रह्मैव लोको ब्रह्म-लोक इति कर्मधारय-परिग्रहस्यैव न्याय्यत्वाद् उपपद्यते। एवꣳ निश्चिते सति बहुवचनꣳ च, अदितिः पाशान् इतिवद् उपपन्नम्॥११॥
Link copied५२० दर्शनाच् च॥४।३।१२॥
Link copiedअस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, इत्य् अर्चिर्-आदिना गतस्य परब्रह्म-प्राप्तिꣳ दर्शयति च॥१२॥
Link copied५२१ न च कार्ये प्रत्यभिसन्धिः॥४।३।१३॥
Link copiedप्रजापतेः सभाꣳ वेश्म प्रपद्ये इति प्रत्यभिसन्धिश् च न कार्ये, धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि, इत्य् अकृतꣳ ब्रह्म-लोकम् इति तत्रैव विशेषितत्वात्, यशोऽहꣳ भवामि ब्राह्मणानाम् इति सर्वात्म-भावाभिसन्धानाच् च॥१३॥
Link copied५२२ अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च॥४।३।१४॥
Link copiedकार्यम् उपासीनानेवेति नायꣳ नियमः, परम् एवोपासीनान् इत्य् अयम् अपि नियमो न सम्भवति। कुतः। उभयथा च दोषात्--- कार्यम् उपासीनान् एवेति नियमे, अस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्य् आदिकाः श्रुतयः, ये चेमेऽरण्ये श्रद्धा तपः, इति च प्रकुप्येयुः; परम् एति नियमे, तद् य इत्थꣳ विदुः, इति प्रकुप्येत्। तस्माद् अप्रतीकालम्बनान् नयतीति भगवान् बादरायणो मन्यते। प्रतीकालम्बनास् तु--- अचिन्-मिश्रम्, केवलम् अचिद्-वस्तु च "सिꣳहो देवदत्तः" इतिवत् ब्रह्म-दृष्ट्या स्वरूपेण वा तद् वस्तु य उपासते, ते; अप्रतीकालम्बनाः--- तद्-व्यतिरिक्ताः। सर्व-ज्ञꣳ सर्व-कारणꣳ सत्य-सङ्कल्पꣳ निखिल-हेय-प्रत्यनीकानवधिकातिशयानन्द-स्वरूपꣳ ब्रह्मोपासते ये ये च प्रत्यगात्मनꣳ भूत-सूक्ष्मैः सम्परिष्वक्तꣳ सर्वत्र वर्तमानꣳ भूत-सूक्ष्म-व्यतिरिक्तꣳ ज्ञानक-स्वरूपꣳ नित्यꣳ निर्विकारꣳ, य आत्मनि तिष्ठन्न् इत्य् आदिनावगत-ब्रह्मात्म-भावꣳ पञ्चाग्नि-विद्योदितम् उपासते, तान् उभय-विधान् नयति, तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये इत्य् उभय-विषय-श्रुतेः। तत्-क्रतुश् च--- यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवति तथेतः प्रेत्य भवति, इत्य् उभयेषाम् एवापुनर्-आवृत्तिः सम्भवति। अचिन्-मिश्रꣳ केवलम् अचिद्-वस्तु चोपासीनानाꣳ तत्-क्रतु-न्यायाद् एव पुनर्-आवृत्तिर् अवर्जनीया॥१४॥
Link copied५२३ विशेषꣳ च दर्शयति॥४।३।१५॥
Link copiedप्रतीकाद्य्-उक्त-लक्षणम् अचिन्-मिश्रꣳ केवलम् अचिद्-वस्तु चोपासीनानाꣳ सर्वेषाꣳ गत्य्-अनपेक्षꣳ परिमित-फल-विशेषꣳ च दर्शयति श्रुतिः--- यावन्न् आम्नो गतꣳ तत्रास्य यथाकाम-चारो भवति, इत्य् आदिका। अतः--- ब्रह्मणा सह ते सर्वे इति वचनꣳ नार्चिर्-आदिना गतानाꣳ गति-प्रकार-विषयम्; अर्चिरादिना गतानाꣳ देहावसान-समय एव सुकृत-दुष्कृतयोर् हानाद् धिरण्यगर्भ-लोकावाप्ति-तद्-वास-तत्र-स्थ-भोगानुभव-हेत्व्-अभावात्, तत्-क्रतु-न्याय-विरोधात्, तदानीम् एव ब्रह्म-प्राप्ति-श्रुति-विरोधाच् च। ब्रह्मणा सह ते सर्वे इति वचनꣳ तु पुण्य-कर्म-विशेषेण हिरण्यगर्भ-लोकꣳ प्राप्तानाꣳ, तद्-उपर्य् अपि बादरायणः, इति न्यायेन तत्रैव निष्पन्न-विद्यानाꣳ गति-प्रकार-विषयम्। ते ब्रह्म-लोके, इति तु ब्रह्म-लोक-शब्दस्य कर्मधारय-वृत्त्या ब्रह्म-विषयत्वाद् ब्रह्मण्य् उपास्ये वर्तमानाः परान्त-काले चरम-देहावसान-समये परामृतात्--- परस्माद् ब्रह्मण उपासन-प्रीताद् धेतोः, परिमुच्यन्ति सर्वे सर्वस्माद् बन्धाद् विमुच्यन्त इति, वेदान्त-विज्ञान-सुनिश्चितार्थाः, इति प्रकरणाद् अवगम्यते। तद् य इत्थꣳ विदुर् इति पञ्चाग्नि-विदाꣳ ब्रह्म-प्राप्त्य्-अपुनर्-आवृत्ति-श्रवणात् तत्-क्रतु-न्यायेनाचिद्-वियुक्त-ब्रह्मात्मकात्मक-स्वरूपोपासनꣳ विवक्षितम् इति निश्चीयते तथैव तत्र श्रुतिर् अपि, इति तु पञ्चम्याम् आहुतावापः पुरुष-वचसो भवन्ति, इति, रमणीय-चरणाः इति च कर्म-हेतुक-मनुष्यादि-भावोऽपाम् एव भूतान्तर-सꣳसृष्टानाम् इति चिद्-अचिद्-विवेकꣳ प्रतिपाद्य, तद् य इत्थꣳ विदुः, इति भूत-सूक्ष्म-व्यतिरिक्तात्म-स्वरूपोपासनम् एव विदधाति॥१५॥ इति कार्याधिकरणम्॥५॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयः पादः॥
Link copied౫౦౯ అర్చిర్-ఆదినా తత్-ప్రథితేః॥౪।౩।౧॥
Link copiedకిṁ విద్వాన్ అర్చిర్-ఆదినైకేన మార్గేణ గచ్ఛతి, ఉత తేన వాన్యేన వేత్య్ అనియమ ఇతి సṁశయః। తద్-అర్థṁ పరీక్ష్యతే--- కిṁ సర్వాసు శ్రుతిష్వ్-అర్చిర్-ఆదిర్ ఏక ఏవ మార్గ ఆమ్నాయతే, ఉత తత్ర తత్రాన్య ఇతి। యదాచిర్-ఆదిర్ ఏక ఏవ సర్వత్రోక్తస్ తదా తేనైవ గచ్ఛతి। యదా తత్ర తత్రామ్నాతా అన్యే, తదాన్యైర్ వానేన వేత్య్ అనియమ ఇతి। ఛాన్దోగ్య-వాజసనేయకాదిషు నానా-విధాః గతి-ప్రకారాః శ్రూయన్తే। ఛాన్దోగ్యే--- యథా పుష్కర-పలాశ ఆపో న శ్లిప్యన్తే ఇత్య్ ఉపక్రమ్య, సర్వాణి \॥॥నయతి, సర్వేషు లోకేషు భాతి య ఏవṁ వేద, అథ యద్ ఉ చైవాస్మిఞ్ ఛవ్యṁ కుర్వన్తి యద్ ఉ చ నార్చిషమ్ ఏవాభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్న ఆపూర్యమాణ-పక్షమ్ ఆపూర్యమాణ-పక్షాద్యాన్ షడ్ ఉదఙ్ఙ్ ఏతి మాసాṁస్ తాన్ మాసేభ్యః సṁవత్సరṁ సṁవత్సరాద్ ఆదిత్యమ్ ఆదిత్యాచ్ చన్ద్రమసṁ చన్ద్రమసో విద్యుతṁ తత్-పురుషోఽమానవస్య ఏనాన్ బ్రహ్మ గమయత్య్ ఏష దేవ-పథో బ్రహ్మ-పథ ఏతేన ప్రతిపద్యమానా ఇమṁ మానవమ్ ఆవర్తṁ నావర్తన్తే ఇతి। బృహదారణ్యకే--- య ఏవమ్ ఏతద్ విదుర్ యే చామీ అరణ్యే శ్రద్ధాṁ సత్యమ్ ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్న ఆపూర్యమాణ-పక్షమ్ ఆపూర్యమాణ-పక్షాద్యాన్ షణ్ మాసాన్ ఉదఙ్ఙ్ ఆదిత్య ఏతి మాసేభ్యో దేవ-లోకṁ దేవ-లోకాద్ ఆదిత్యమ్ ఆదిత్యాద్ వైద్యుతṁ వైద్యుతాత్ పురుషోఽమానవః స ఏత్య బ్రహ్మ-లోకాన్ గమయతి, ఇతి। తత్రైవాన్యథా--- యదా వై పురుషోఽస్మాల్ లోకాత్ ప్రేతి స వాయు-లోకమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథా రథ-చక్రస్య ఖṁ తేన స ఊర్ధ్వమ్ ఆక్రమతే స ఆదిత్యమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథాడమ్బరస్య ఖṁ తేన స ఊర్ధ్వమ్ ఆక్రమతే స చన్ద్రమసమ్ ఆగచ్ఛతి తస్మై స తత్ర విజిహీతే యథా దున్దుభేః ఖమ్ ఇత్య్ ఆదిషు। తేషాṁ బ్రహ్మ-ప్రాప్తౌ నైరపేక్ష్య-శ్రవణాత్ తైర్ వార్చిర్-ఆదినా వేతి వికల్ప ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- సర్వత్రార్చిర్-ఆద్య్-అన్తర్భూతాదిత్యాదీనాṁ దర్శనాత్ స ఏవేతి ప్రత్యభిజ్ఞానాత్, అన్యత్రోక్తానామ్ అన్యత్రోపసṁహారాచ్ చ, సర్వత్రార్చిర్-ఆదిర్ ఏక ఏవ మార్గ ఇతి తేనైవ గచ్ఛతి విద్వాన్। సూత్రార్థస్ తు--- అర్చిర్-ఆదినైవ గచ్ఛతి విద్వాన్। కుతః। తత్-ప్రథితేః। ప్రథితిః--- ప్రసిద్ధిః; సర్వత్ర తత్-ప్రత్యభిజ్ఞానాద్ ఇత్య్ అర్థః॥౧॥ ఇత్య్ అర్చిర్-ఆద్య్-అధికరణమ్॥౧॥
Link copied౫౧౦ వాయుమ్ అబ్దాద్ అవిశేష-విశేషాభ్యామ్॥౪।౩।౨॥
Link copiedతేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహర్ అహ్నః, ఇత్య్ ఆరభ్య, మాసేభ్యః సṁవత్సరṁ సṁవత్సరాద్ ఆదిత్యమ్ ఇతి ఛాన్దోగ్యే శ్రుతమ్। తత్ర సṁవత్సరాదిత్యయోర్ మధ్యే దేవ-లోకో వాయుశ్ చ శ్రుతౌ శ్రుత్య్-అన్తరే। ద్వయోః ప్రకరణయోః కిṁ దేవ-లోకో వాయుశ్ చార్థాన్తర-భూతౌ, ఉత వాయుర్ ఏక ఏవేతి సṁశయః। శబ్ద-భేదాదర్థాన్తర-భూతావ్ ఇతి పూర్వః పక్షః। అర్థాన్తరత్వే సతి, దేవ-లోకాద్ ఆదిత్యమ్ ఇతి దేవ-లోకస్య, తేన స ఊర్ధ్వమ్ ఆక్రమతే స ఆదిత్యమ్ ఇతి వాయోశ్ చాదిత్యాత్ పూర్వత్వేన శ్రౌత-క్రమ-నిర్దిష్టత్వాద్ దేవ-లోక-వాయూ యథేష్ట-క్రమేణ నివేశయితన్యౌ।
Link copiedరాద్ధాన్తస్ తు--- వాయుర్ ఏవ దేవ-లోక-శబ్దేన నిర్దిష్ట ఇతి తస్మాద్ అనన్యః। దేవానాṁ లోక ఇతి హి దేవ-లోకః, దేవానాṁ వాసస్థానమ్ ఇత్య్ అవిశేషేణ నిర్దిష్టమ్। యోఽయṁ పవత ఏష ఏవ దేవానాṁ గృహాః, ఇతి వాయోర్ విశేషేణ దేవానాṁ వాసస్థానత్వేన శ్రుతత్వాద్ అవిశేష-నిర్దిష్టో దేవ-లోకో వాయుర్ ఏవేతి నిశ్చీయత ఇతి। సṁవత్సరాద్ ఊర్ధ్వṁ వాయుర్ వాయోర్ ఆదిత్య ఇతి క్రమశ్ చ స్యాత్॥
Link copiedసూత్రార్థస్ తు--- అబ్దాత్--- సṁవత్సరాద్ ఊర్ధ్వమ్ ఆదిత్యాత్ పూర్వṁ వాయుమ్ ఏకమ్ ఏవ నివేశయేత్, దేవ-లోక-వాయు-శబ్దాభ్యామ్ అవిశేష-విశేషాభ్యాṁ వాయోర్ ఏకస్యైవ నిర్దిష్టత్వాత్। దేవానాṁ వాసస్థానమ్ ఇత్య్ అవిశేషేణ హి దేవ-లోక-శబ్దో వాయు-దేవానామ్ ఆవాస-స్థాన-భూతమ్ అభిదధాతి, వాయు-శబ్దస్ తమ్ ఏవ విశేషేణేతి ద్వయోః ప్రకరణ-ద్వయ-విహితయోర్ ఏకత్వాద్ ఇత్య్ అర్థః॥౨॥ ఇతి వాయ్వ్-అధికరణమ్॥౨॥
Link copied౫౧౧ తటితోఽధి వరుణః సమ్బన్ధాత్॥౪।౩।౩॥
Link copiedఛాన్దోగ్య-వాజసనేయక-కౌషీతకీ-ప్రభృతిష్వ్ ఆమ్నాతస్యార్చిర్-ఆది-మార్గస్యార్చిర్ అహర్ ఆపూర్యమాణ-పక్షోత్తరాయణ-సṁవత్సర-వాయ్వ్-ఆదిత్య-చన్ద్ర-విద్యుద్-వరుణేన్ద్ర-ప్రజాపతి-రూపస్యోపసṁహారే వాయు-పర్యన్తస్య శ్రుత్యాదిభిః క్రమ-ప్రకార ఉక్తః। వరుణేన్ద్ర-ప్రజాపతీనాṁ కిṁ విద్యుత ఉపరి నివేశః, ఉత వాయోర్ ఉపరీతి సṁశయః। స వాయు-లోకṁ స వరుణ-లోకమ్ ఇతి కౌషీతకీ-పాఠ-క్రమేణ వాయోర్ ఉపరి వరుణస్య నివేశః। ఇన్ద్రాదేర్ అపి వరుణ-నివేశాయ వాయ్వ్-ఆదిత్యయోః క్రమస్య బాధితత్వాత్ తత్రైవ వరుణోపరీతి పూర్వః పక్షః।
Link copiedరాద్ధాన్తస్ తు--- విద్యుతో మేధోదర-వర్తిత్వేన విద్యుద్-వరుణయోర్ లోకే వేదే చ సమ్బన్ధావగమాత్ పాఠ-క్రమాద్ అర్థ-క్రమస్య బలీయస్త్వేన వరుణస్య విద్యుత ఉపరి నివేశః కార్యః। ఇన్ద్రాదేర్ అపి వరుణ-నివేశాయ విద్యుతో వ్యవధాన-సహత్వ-దర్శనాద్ వరుణోపరి నివేశః। సూత్రṁ చ వ్యాఖ్యాతమ్॥౩॥ ఇతి వరుణాధికరణమ్॥౩॥
Link copied౫౧౨ ఆతివాహికాస్ తల్-లిఙ్గాత్॥౪।౩।౪॥
Link copiedకిమ్ అర్చిర్-ఆదయో విదుషో బ్రహ్మ-ప్రేప్సోర్ మార్గ-చిహ్న-భూతాః, ఉత గమయితార ఇతి సṁశయః। అముకṁ వృక్షమ్ అముకాṁ నదీమ్ అముకṁ పర్వత-పార్శ్వṁ గత్వాముకṁ గ్రామṁ గచ్ఛ, ఇత్య్ ఆది దేశికోపదేశ-ప్రకార-దర్శనాన్ మార్గ-చిహ్న-భూతాః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- స ఏనాన్ బ్రహ్మ గమయతి, ఇతి వైద్యుత-పురుషస్య గమయితృత్వ-దర్శనాద్ ఇతరేషాṁ చావిశేష-నిర్దిష్టానాṁ స ఏవ సమ్బన్ధ ఇతి నిశ్చీయతే। అగ్ని-లోకమ్ ఇత్య్ ఆది లోక-శబ్దోఽపి మధ్యే భోగాభావాద్ గమయితృత్వ ఏవోపపద్యతే। సూత్రార్థస్ తు--- ఆతివాహికాః--- విదుషామ్ అతివాహే పరమ-పురుషేణ నియుక్తాః, అర్చిర్-ఆద్య్-అభిమాని-దేవతా-విశేషాః గమయితార ఇత్య్ అర్థః। స ఏనాన్ బ్రహ్మ గమయతీతి లిఙ్గాత్॥౪॥
Link copied౫౧౩ వైద్యుతేనైవ తతస్ తచ్-ఛ్రుతేః॥౪।౩।౫॥
Link copiedతతః--- విద్యుత ఉపరి, వైద్యుతేన విదుషో గమనమ్, తచ్-ఛ్రుతేః--- స ఏనాన్ బ్రహ్మ గమయతీతి తస్యైవ శ్రుతేః। వరుణాదీనాṁ తద్-అనుగ్రాహకత్వేన గమయితృత్వమ్ ఇతి నిశ్చీయత ఇత్య్ అర్థః॥౫॥
Link copiedఇత్య్ ఆతివాహికాధికరణమ్॥౪॥
Link copied౫౧౪ కార్యṁ బాదరిర్ అస్య గత్య్-ఉపపత్తేః॥౪।౩।౬॥
Link copiedకిమ్ అర్చిర్-ఆదికో గణః కార్యṁ హిరణ్యగర్భమ్ ఉపాసీనాన్ నయతి, ఉత పరṁ బ్రహ్మోపాసీనాన్, అథ పరṁ బ్రహ్మోపాసీనాన్ ప్రత్యగాత్మానṁ బ్రహ్మాత్మకతయోపాసీనాṁశ్ చేతి సṁశయః। కార్యṁ--- హిరణ్యగర్భమ్ ఉపాసీనాన్ ఇతి పూర్వః పక్షః, తేషామ్ ఏవ గత్య్-ఉపపత్తేః। న హి పరిపూర్ణṁ సర్వ-గతṁ పరṁ బ్రహ్మోపాసీనానాṁ తత్-ప్రాప్తయే గతిర్ ఉపపద్యతే, నిత్య-ప్రాప్తత్వాత్। అవిద్యా-నివృత్తిర్ ఏవ హి కార్యా। పరమ్ ఏవోపాసీనాన్ ఇత్య్ అపరః పక్షః, స ఏనాన్ బ్రహ్మ గమయతీతి బ్రహ్మ-శబ్దస్య తత్రైవ ముఖ్యత్వాత్। అవిద్యా-నివృత్తేః ఫలాభిసన్ధి-రహిత-యజ్ఞాద్య్-అపేక్షావత్ శ్రవణాద్య్-అపేక్షావచ్ చ గతి-శ్రుత్యా దేశ-విశేషాపేక్షా చ విద్యత ఇతి నిశ్చీయతే। రాద్ధాన్తస్ తు--- పరమ్ ఉపాసీనాన్ అన్యాన్ అపి నయతి, తద్ య ఇత్థṁ విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి, ఇతి పఞ్చాగ్ని-విదాṁ పరṁ బ్రహ్మోపాసీనానాṁ చార్చిర్-ఆది-గతి-శ్రుతేః। పఞ్చాగ్ని-విదో హి ప్రకృతి-విముక్త-బ్రహ్మాత్మకాత్మ-స్వరూప-విదః। తే చ తత్ ప్రాప్య పునర్ న నివర్తన్తే। పరṁ బ్రహ్మోపాసీనాస్ తు యథావస్థితṁ పరిపూర్ణṁ పరṁ బ్రహ్మైవ ప్రాప్య పునర్ న నివర్తన్తే। తద్ య ఇత్థṁ విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి * ఇత్య్ ఉభయ-విధాన్ భేదేనోపాదాయార్చిర్-ఆది-గతి-శ్రుతేర్ అపునర్-ఆవృత్తి-శ్రుతేశ్ చైవమ్ ఇతి నిశ్చీయతే॥
Link copiedసూత్రార్థస్ తు--- కార్యṁ--- హిరణ్యగర్భమ్ ఉపాసీనమ్ ఆతివాహికో గణో నయతీతి బాదరిర్ ఆచార్యో మన్యతే, అస్యైవ గత్య్-ఉపపత్తేః। పరమ్ ఉపాసీనస్య హి న తత్-ప్రాప్తయే గతిర్ ఉపపద్యతే, సర్వ-గతత్వాత్ పరస్య బ్రహ్మణః॥౬॥
Link copied౫౧౫ విశేషితత్వాచ్ చ॥౪।౩।౭॥
Link copiedపురుషోఽమానవ ఏత్య బ్రహ్మ-లోకాన్ గమయతి, ఇతి, ప్రజాపతేః సభాṁ వేశ్మ ప్రపద్యే ఇతి చ ప్రాప్య-స్థానస్య విశేషితత్వాచ్ చ హిరణ్యగర్భమ్ ఉపాసీనమ్ ఏవ నయతి॥౭॥
Link copied౫౧౬ సామీప్యాత్ తు తద్-వ్యపదేశః॥౪।౩।౮॥
Link copiedఏవṁ నిశ్చితే సతి, స ఏనాన్ బ్రహ్మ గమయతీతి హిరణ్యగర్భస్య బ్రహ్మ-శబ్ద-వ్యపదేశో బ్రహ్మ-సామీప్యాత్। యో బ్రహ్మాణṁ విదధాతి పూర్వమ్ ఇతి ప్రథమజత్వేన బ్రహ్మ-సామీప్యṁ హి విద్యతే॥౮॥
Link copied౫౧౭ కార్యాత్యయే తద్-అధ్యక్షేణ సహాతః పరమ్ అభిధానాత్॥౪।౩।౯॥
Link copiedహిరణ్యగర్భ-ప్రాప్తావ్ అప్య్ అపునర్-ఆవృత్తిర్ ఉపపద్యతే। కార్యస్య--- హిరణ్యగర్భ-లోకస్యాత్యయే, తద్-అధ్యక్షేణ--- హిరణ్యగర్భేణాధికారిక-పురుషేణ విదుషా సహ పర-ప్రాప్త్య్-అభిధానాత్, తే బ్రహ్మ-లోకే తు పరాన్త-కాలే పరామృతాత్ పరిముచ్యన్తి సర్వే ఇతి॥౯॥
Link copied౫౧౮ స్మృతేశ్ చ॥౪।౩।౧౦॥
Link copiedబ్రహ్మణా సహ తే సర్వే సమ్ప్రాప్తే ప్రతిసఞ్చరే। పరస్యాన్తే కృతాత్మానః ప్రవిశన్తి పరṁ పదమ్॥ ఇతి స్మృతేశ్ చావగమ్యతే॥౧౦॥
Link copied౫౧౯ పరṁ జైమిని-ముఖ్యత్వాత్॥౪।౩।౧౧॥
Link copiedపరṁ బ్రహ్మోపాసీనమ్ ఏవ నయత్య్ ఆతివాహికో గణ ఇతి జైమినిర్ ఆచార్యో మన్యతే, బ్రహ్మ గమయతీతి బ్రహ్మ-శబ్దస్య తత్రైవ ముఖ్యత్వాత్। బ్రహ్మ-లోకాన్ ఇతి శబ్దశ్ చ బ్రహ్మైవ లోకో బ్రహ్మ-లోక ఇతి కర్మధారయ-పరిగ్రహస్యైవ న్యాయ్యత్వాద్ ఉపపద్యతే। ఏవṁ నిశ్చితే సతి బహువచనṁ చ, అదితిః పాశాన్ ఇతివద్ ఉపపన్నమ్॥౧౧॥
Link copied౫౨౦ దర్శనాచ్ చ॥౪।౩।౧౨॥
Link copiedఅస్మాచ్ ఛరీరాత్ సముత్థాయ పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే, ఇత్య్ అర్చిర్-ఆదినా గతస్య పరబ్రహ్మ-ప్రాప్తిṁ దర్శయతి చ॥౧౨॥
Link copied౫౨౧ న చ కార్యే ప్రత్యభిసన్ధిః॥౪।౩।౧౩॥
Link copiedప్రజాపతేః సభాṁ వేశ్మ ప్రపద్యే ఇతి ప్రత్యభిసన్ధిశ్ చ న కార్యే, ధూత్వా శరీరమ్ అకృతṁ కృతాత్మా బ్రహ్మ-లోకమ్ అభిసమ్భవామి, ఇత్య్ అకృతṁ బ్రహ్మ-లోకమ్ ఇతి తత్రైవ విశేషితత్వాత్, యశోఽహṁ భవామి బ్రాహ్మణానామ్ ఇతి సర్వాత్మ-భావాభిసన్ధానాచ్ చ॥౧౩॥
Link copied౫౨౨ అప్రతీకాలమ్బనాన్ నయతీతి బాదరాయణ ఉభయధా చ దోషాత్ తత్-క్రతుశ్ చ॥౪।౩।౧౪॥
Link copiedకార్యమ్ ఉపాసీనానేవేతి నాయṁ నియమః, పరమ్ ఏవోపాసీనాన్ ఇత్య్ అయమ్ అపి నియమో న సమ్భవతి। కుతః। ఉభయథా చ దోషాత్--- కార్యమ్ ఉపాసీనాన్ ఏవేతి నియమే, అస్మాచ్ ఛరీరాత్ సముత్థాయ పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే ఇత్య్ ఆదికాః శ్రుతయః, యే చేమేఽరణ్యే శ్రద్ధా తపః, ఇతి చ ప్రకుప్యేయుః; పరమ్ ఏతి నియమే, తద్ య ఇత్థṁ విదుః, ఇతి ప్రకుప్యేత్। తస్మాద్ అప్రతీకాలమ్బనాన్ నయతీతి భగవాన్ బాదరాయణో మన్యతే। ప్రతీకాలమ్బనాస్ తు--- అచిన్-మిశ్రమ్, కేవలమ్ అచిద్-వస్తు చ "సిṁహో దేవదత్తః" ఇతివత్ బ్రహ్మ-దృష్ట్యా స్వరూపేణ వా తద్ వస్తు య ఉపాసతే, తే; అప్రతీకాలమ్బనాః--- తద్-వ్యతిరిక్తాః। సర్వ-జ్ఞṁ సర్వ-కారణṁ సత్య-సఙ్కల్పṁ నిఖిల-హేయ-ప్రత్యనీకానవధికాతిశయానన్ద-స్వరూపṁ బ్రహ్మోపాసతే యే యే చ ప్రత్యగాత్మనṁ భూత-సూక్ష్మైః సమ్పరిష్వక్తṁ సర్వత్ర వర్తమానṁ భూత-సూక్ష్మ-వ్యతిరిక్తṁ జ్ఞానక-స్వరూపṁ నిత్యṁ నిర్వికారṁ, య ఆత్మని తిష్ఠన్న్ ఇత్య్ ఆదినావగత-బ్రహ్మాత్మ-భావṁ పఞ్చాగ్ని-విద్యోదితమ్ ఉపాసతే, తాన్ ఉభయ-విధాన్ నయతి, తద్ య ఇత్థṁ విదుర్ యే చేమేఽరణ్యే ఇత్య్ ఉభయ-విషయ-శ్రుతేః। తత్-క్రతుశ్ చ--- యథాక్రతుర్ అస్మిṁల్ లోకే పురుషో భవతి తథేతః ప్రేత్య భవతి, ఇత్య్ ఉభయేషామ్ ఏవాపునర్-ఆవృత్తిః సమ్భవతి। అచిన్-మిశ్రṁ కేవలమ్ అచిద్-వస్తు చోపాసీనానాṁ తత్-క్రతు-న్యాయాద్ ఏవ పునర్-ఆవృత్తిర్ అవర్జనీయా॥౧౪॥
Link copied౫౨౩ విశేషṁ చ దర్శయతి॥౪।౩।౧౫॥
Link copiedప్రతీకాద్య్-ఉక్త-లక్షణమ్ అచిన్-మిశ్రṁ కేవలమ్ అచిద్-వస్తు చోపాసీనానాṁ సర్వేషాṁ గత్య్-అనపేక్షṁ పరిమిత-ఫల-విశేషṁ చ దర్శయతి శ్రుతిః--- యావన్న్ ఆమ్నో గతṁ తత్రాస్య యథాకామ-చారో భవతి, ఇత్య్ ఆదికా। అతః--- బ్రహ్మణా సహ తే సర్వే ఇతి వచనṁ నార్చిర్-ఆదినా గతానాṁ గతి-ప్రకార-విషయమ్; అర్చిరాదినా గతానాṁ దేహావసాన-సమయ ఏవ సుకృత-దుష్కృతయోర్ హానాద్ ధిరణ్యగర్భ-లోకావాప్తి-తద్-వాస-తత్ర-స్థ-భోగానుభవ-హేత్వ్-అభావాత్, తత్-క్రతు-న్యాయ-విరోధాత్, తదానీమ్ ఏవ బ్రహ్మ-ప్రాప్తి-శ్రుతి-విరోధాచ్ చ। బ్రహ్మణా సహ తే సర్వే ఇతి వచనṁ తు పుణ్య-కర్మ-విశేషేణ హిరణ్యగర్భ-లోకṁ ప్రాప్తానాṁ, తద్-ఉపర్య్ అపి బాదరాయణః, ఇతి న్యాయేన తత్రైవ నిష్పన్న-విద్యానాṁ గతి-ప్రకార-విషయమ్। తే బ్రహ్మ-లోకే, ఇతి తు బ్రహ్మ-లోక-శబ్దస్య కర్మధారయ-వృత్త్యా బ్రహ్మ-విషయత్వాద్ బ్రహ్మణ్య్ ఉపాస్యే వర్తమానాః పరాన్త-కాలే చరమ-దేహావసాన-సమయే పరామృతాత్--- పరస్మాద్ బ్రహ్మణ ఉపాసన-ప్రీతాద్ ధేతోః, పరిముచ్యన్తి సర్వే సర్వస్మాద్ బన్ధాద్ విముచ్యన్త ఇతి, వేదాన్త-విజ్ఞాన-సునిశ్చితార్థాః, ఇతి ప్రకరణాద్ అవగమ్యతే। తద్ య ఇత్థṁ విదుర్ ఇతి పఞ్చాగ్ని-విదాṁ బ్రహ్మ-ప్రాప్త్య్-అపునర్-ఆవృత్తి-శ్రవణాత్ తత్-క్రతు-న్యాయేనాచిద్-వియుక్త-బ్రహ్మాత్మకాత్మక-స్వరూపోపాసనṁ వివక్షితమ్ ఇతి నిశ్చీయతే తథైవ తత్ర శ్రుతిర్ అపి, ఇతి తు పఞ్చమ్యామ్ ఆహుతావాపః పురుష-వచసో భవన్తి, ఇతి, రమణీయ-చరణాః ఇతి చ కర్మ-హేతుక-మనుష్యాది-భావోఽపామ్ ఏవ భూతాన్తర-సṁసృష్టానామ్ ఇతి చిద్-అచిద్-వివేకṁ ప్రతిపాద్య, తద్ య ఇత్థṁ విదుః, ఇతి భూత-సూక్ష్మ-వ్యతిరిక్తాత్మ-స్వరూపోపాసనమ్ ఏవ విదధాతి॥౧౫॥ ఇతి కార్యాధికరణమ్॥౫॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య తృతీయః పాదః॥
Link copied509 arcir-ādinā tat-prathiteḥ||4|3|1||
Link copiedkiṁ vidvān arcir-ādinaikena mārgeṇa gacchati, uta tena vānyena vety aniyama iti saṁśayaḥ| tad-arthaṁ parīkṣyate--- kiṁ sarvāsu śrutiṣv-arcir-ādir eka eva mārga āmnāyate, uta tatra tatrānya iti| yadācir-ādir eka eva sarvatroktas tadā tenaiva gacchati| yadā tatra tatrāmnātā anye, tadānyair vānena vety aniyama iti| chāndogya-vājasaneyakādiṣu nānā-vidhāḥ gati-prakārāḥ śrūyante| chāndogye--- yathā puṣkara-palāśa āpo na ślipyante ity upakramya, sarvāṇi ....nayati, sarveṣu lokeṣu bhāti ya evaṁ veda, atha yad u caivāsmiñ chavyaṁ kurvanti yad u ca nārciṣam evābhisambhavanty arciṣo'har ahna āpūryamāṇa-pakṣam āpūryamāṇa-pakṣādyān ṣaḍ udaṅṅ eti māsāṁs tān māsebhyaḥ saṁvatsaraṁ saṁvatsarād ādityam ādityāc candramasaṁ candramaso vidyutaṁ tat-puruṣo'mānavasya enān brahma gamayaty eṣa deva-patho brahma-patha etena pratipadyamānā imaṁ mānavam āvartaṁ nāvartante iti| bṛhadāraṇyake--- ya evam etad vidur ye cāmī araṇye śraddhāṁ satyam ity upāsate te'rciṣam abhisambhavanty arciṣo'har ahna āpūryamāṇa-pakṣam āpūryamāṇa-pakṣādyān ṣaṇ māsān udaṅṅ āditya eti māsebhyo deva-lokaṁ deva-lokād ādityam ādityād vaidyutaṁ vaidyutāt puruṣo'mānavaḥ sa etya brahma-lokān gamayati, iti| tatraivānyathā--- yadā vai puruṣo'smāl lokāt preti sa vāyu-lokam āgacchati tasmai sa tatra vijihīte yathā ratha-cakrasya khaṁ tena sa ūrdhvam ākramate sa ādityam āgacchati tasmai sa tatra vijihīte yathāḍambarasya khaṁ tena sa ūrdhvam ākramate sa candramasam āgacchati tasmai sa tatra vijihīte yathā dundubheḥ kham ity ādiṣu| teṣāṁ brahma-prāptau nairapekṣya-śravaṇāt tair vārcir-ādinā veti vikalpa iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- sarvatrārcir-ādy-antarbhūtādityādīnāṁ darśanāt sa eveti pratyabhijñānāt, anyatroktānām anyatropasaṁhārāc ca, sarvatrārcir-ādir eka eva mārga iti tenaiva gacchati vidvān| sūtrārthas tu--- arcir-ādinaiva gacchati vidvān| kutaḥ| tat-prathiteḥ| prathitiḥ--- prasiddhiḥ; sarvatra tat-pratyabhijñānād ity arthaḥ||1|| ity arcir-ādy-adhikaraṇam||1||
Link copied510 vāyum abdād aviśeṣa-viśeṣābhyām||4|3|2||
Link copiedte'rciṣam abhisambhavanty arciṣo'har ahnaḥ, ity ārabhya, māsebhyaḥ saṁvatsaraṁ saṁvatsarād ādityam iti chāndogye śrutam| tatra saṁvatsarādityayor madhye deva-loko vāyuś ca śrutau śruty-antare| dvayoḥ prakaraṇayoḥ kiṁ deva-loko vāyuś cārthāntara-bhūtau, uta vāyur eka eveti saṁśayaḥ| śabda-bhedādarthāntara-bhūtāv iti pūrvaḥ pakṣaḥ| arthāntaratve sati, deva-lokād ādityam iti deva-lokasya, tena sa ūrdhvam ākramate sa ādityam iti vāyoś cādityāt pūrvatvena śrauta-krama-nirdiṣṭatvād deva-loka-vāyū yatheṣṭa-krameṇa niveśayitanyau|
Link copiedrāddhāntas tu--- vāyur eva deva-loka-śabdena nirdiṣṭa iti tasmād ananyaḥ| devānāṁ loka iti hi deva-lokaḥ, devānāṁ vāsasthānam ity aviśeṣeṇa nirdiṣṭam| yo'yaṁ pavata eṣa eva devānāṁ gṛhāḥ, iti vāyor viśeṣeṇa devānāṁ vāsasthānatvena śrutatvād aviśeṣa-nirdiṣṭo deva-loko vāyur eveti niścīyata iti| saṁvatsarād ūrdhvaṁ vāyur vāyor āditya iti kramaś ca syāt||
Link copiedsūtrārthas tu--- abdāt--- saṁvatsarād ūrdhvam ādityāt pūrvaṁ vāyum ekam eva niveśayet, deva-loka-vāyu-śabdābhyām aviśeṣa-viśeṣābhyāṁ vāyor ekasyaiva nirdiṣṭatvāt| devānāṁ vāsasthānam ity aviśeṣeṇa hi deva-loka-śabdo vāyu-devānām āvāsa-sthāna-bhūtam abhidadhāti, vāyu-śabdas tam eva viśeṣeṇeti dvayoḥ prakaraṇa-dvaya-vihitayor ekatvād ity arthaḥ||2|| iti vāyv-adhikaraṇam||2||
Link copied511 taṭito'dhi varuṇaḥ sambandhāt||4|3|3||
Link copiedchāndogya-vājasaneyaka-kauṣītakī-prabhṛtiṣv āmnātasyārcir-ādi-mārgasyārcir ahar āpūryamāṇa-pakṣottarāyaṇa-saṁvatsara-vāyv-āditya-candra-vidyud-varuṇendra-prajāpati-rūpasyopasaṁhāre vāyu-paryantasya śrutyādibhiḥ krama-prakāra uktaḥ| varuṇendra-prajāpatīnāṁ kiṁ vidyuta upari niveśaḥ, uta vāyor uparīti saṁśayaḥ| sa vāyu-lokaṁ sa varuṇa-lokam iti kauṣītakī-pāṭha-krameṇa vāyor upari varuṇasya niveśaḥ| indrāder api varuṇa-niveśāya vāyv-ādityayoḥ kramasya bādhitatvāt tatraiva varuṇoparīti pūrvaḥ pakṣaḥ|
Link copiedrāddhāntas tu--- vidyuto medhodara-vartitvena vidyud-varuṇayor loke vede ca sambandhāvagamāt pāṭha-kramād artha-kramasya balīyastvena varuṇasya vidyuta upari niveśaḥ kāryaḥ| indrāder api varuṇa-niveśāya vidyuto vyavadhāna-sahatva-darśanād varuṇopari niveśaḥ| sūtraṁ ca vyākhyātam||3|| iti varuṇādhikaraṇam||3||
Link copied512 ātivāhikās tal-liṅgāt||4|3|4||
Link copiedkim arcir-ādayo viduṣo brahma-prepsor mārga-cihna-bhūtāḥ, uta gamayitāra iti saṁśayaḥ| amukaṁ vṛkṣam amukāṁ nadīm amukaṁ parvata-pārśvaṁ gatvāmukaṁ grāmaṁ gaccha, ity ādi deśikopadeśa-prakāra-darśanān mārga-cihna-bhūtāḥ, iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- sa enān brahma gamayati, iti vaidyuta-puruṣasya gamayitṛtva-darśanād itareṣāṁ cāviśeṣa-nirdiṣṭānāṁ sa eva sambandha iti niścīyate| agni-lokam ity ādi loka-śabdo'pi madhye bhogābhāvād gamayitṛtva evopapadyate| sūtrārthas tu--- ātivāhikāḥ--- viduṣām ativāhe parama-puruṣeṇa niyuktāḥ, arcir-ādy-abhimāni-devatā-viśeṣāḥ gamayitāra ity arthaḥ| sa enān brahma gamayatīti liṅgāt||4||
Link copied513 vaidyutenaiva tatas tac-chruteḥ||4|3|5||
Link copiedtataḥ--- vidyuta upari, vaidyutena viduṣo gamanam, tac-chruteḥ--- sa enān brahma gamayatīti tasyaiva śruteḥ| varuṇādīnāṁ tad-anugrāhakatvena gamayitṛtvam iti niścīyata ity arthaḥ||5||
Link copiedity ātivāhikādhikaraṇam||4||
Link copied514 kāryaṁ bādarir asya gaty-upapatteḥ||4|3|6||
Link copiedkim arcir-ādiko gaṇaḥ kāryaṁ hiraṇyagarbham upāsīnān nayati, uta paraṁ brahmopāsīnān, atha paraṁ brahmopāsīnān pratyagātmānaṁ brahmātmakatayopāsīnāṁś ceti saṁśayaḥ| kāryaṁ--- hiraṇyagarbham upāsīnān iti pūrvaḥ pakṣaḥ, teṣām eva gaty-upapatteḥ| na hi paripūrṇaṁ sarva-gataṁ paraṁ brahmopāsīnānāṁ tat-prāptaye gatir upapadyate, nitya-prāptatvāt| avidyā-nivṛttir eva hi kāryā| param evopāsīnān ity aparaḥ pakṣaḥ, sa enān brahma gamayatīti brahma-śabdasya tatraiva mukhyatvāt| avidyā-nivṛtteḥ phalābhisandhi-rahita-yajñādy-apekṣāvat śravaṇādy-apekṣāvac ca gati-śrutyā deśa-viśeṣāpekṣā ca vidyata iti niścīyate| rāddhāntas tu--- param upāsīnān anyān api nayati, tad ya itthaṁ vidur ye ceme'raṇye śraddhā tapa ity upāsate te'rciṣam abhisambhavanti, iti pañcāgni-vidāṁ paraṁ brahmopāsīnānāṁ cārcir-ādi-gati-śruteḥ| pañcāgni-vido hi prakṛti-vimukta-brahmātmakātma-svarūpa-vidaḥ| te ca tat prāpya punar na nivartante| paraṁ brahmopāsīnās tu yathāvasthitaṁ paripūrṇaṁ paraṁ brahmaiva prāpya punar na nivartante| tad ya itthaṁ vidur ye ceme'raṇye śraddhā tapa ity upāsate te'rciṣam abhisambhavanti * ity ubhaya-vidhān bhedenopādāyārcir-ādi-gati-śruter apunar-āvṛtti-śruteś caivam iti niścīyate||
Link copiedsūtrārthas tu--- kāryaṁ--- hiraṇyagarbham upāsīnam ātivāhiko gaṇo nayatīti bādarir ācāryo manyate, asyaiva gaty-upapatteḥ| param upāsīnasya hi na tat-prāptaye gatir upapadyate, sarva-gatatvāt parasya brahmaṇaḥ||6||
Link copied515 viśeṣitatvāc ca||4|3|7||
Link copiedpuruṣo'mānava etya brahma-lokān gamayati, iti, prajāpateḥ sabhāṁ veśma prapadye iti ca prāpya-sthānasya viśeṣitatvāc ca hiraṇyagarbham upāsīnam eva nayati||7||
Link copied516 sāmīpyāt tu tad-vyapadeśaḥ||4|3|8||
Link copiedevaṁ niścite sati, sa enān brahma gamayatīti hiraṇyagarbhasya brahma-śabda-vyapadeśo brahma-sāmīpyāt| yo brahmāṇaṁ vidadhāti pūrvam iti prathamajatvena brahma-sāmīpyaṁ hi vidyate||8||
Link copied517 kāryātyaye tad-adhyakṣeṇa sahātaḥ param abhidhānāt||4|3|9||
Link copiedhiraṇyagarbha-prāptāv apy apunar-āvṛttir upapadyate| kāryasya--- hiraṇyagarbha-lokasyātyaye, tad-adhyakṣeṇa--- hiraṇyagarbheṇādhikārika-puruṣeṇa viduṣā saha para-prāpty-abhidhānāt, te brahma-loke tu parānta-kāle parāmṛtāt parimucyanti sarve iti||9||
Link copied518 smṛteś ca||4|3|10||
Link copiedbrahmaṇā saha te sarve samprāpte pratisañcare| parasyānte kṛtātmānaḥ praviśanti paraṁ padam|| iti smṛteś cāvagamyate||10||
Link copied519 paraṁ jaimini-mukhyatvāt||4|3|11||
Link copiedparaṁ brahmopāsīnam eva nayaty ātivāhiko gaṇa iti jaiminir ācāryo manyate, brahma gamayatīti brahma-śabdasya tatraiva mukhyatvāt| brahma-lokān iti śabdaś ca brahmaiva loko brahma-loka iti karmadhāraya-parigrahasyaiva nyāyyatvād upapadyate| evaṁ niścite sati bahuvacanaṁ ca, aditiḥ pāśān itivad upapannam||11||
Link copied520 darśanāc ca||4|3|12||
Link copiedasmāc charīrāt samutthāya paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate, ity arcir-ādinā gatasya parabrahma-prāptiṁ darśayati ca||12||
Link copied521 na ca kārye pratyabhisandhiḥ||4|3|13||
Link copiedprajāpateḥ sabhāṁ veśma prapadye iti pratyabhisandhiś ca na kārye, dhūtvā śarīram akṛtaṁ kṛtātmā brahma-lokam abhisambhavāmi, ity akṛtaṁ brahma-lokam iti tatraiva viśeṣitatvāt, yaśo'haṁ bhavāmi brāhmaṇānām iti sarvātma-bhāvābhisandhānāc ca||13||
Link copied522 apratīkālambanān nayatīti bādarāyaṇa ubhayadhā ca doṣāt tat-kratuś ca||4|3|14||
Link copiedkāryam upāsīnāneveti nāyaṁ niyamaḥ, param evopāsīnān ity ayam api niyamo na sambhavati| kutaḥ| ubhayathā ca doṣāt--- kāryam upāsīnān eveti niyame, asmāc charīrāt samutthāya paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate ity ādikāḥ śrutayaḥ, ye ceme'raṇye śraddhā tapaḥ, iti ca prakupyeyuḥ; param eti niyame, tad ya itthaṁ viduḥ, iti prakupyet| tasmād apratīkālambanān nayatīti bhagavān bādarāyaṇo manyate| pratīkālambanās tu--- acin-miśram, kevalam acid-vastu ca "siṁho devadattaḥ" itivat brahma-dṛṣṭyā svarūpeṇa vā tad vastu ya upāsate, te; apratīkālambanāḥ--- tad-vyatiriktāḥ| sarva-jñaṁ sarva-kāraṇaṁ satya-saṅkalpaṁ nikhila-heya-pratyanīkānavadhikātiśayānanda-svarūpaṁ brahmopāsate ye ye ca pratyagātmanaṁ bhūta-sūkṣmaiḥ sampariṣvaktaṁ sarvatra vartamānaṁ bhūta-sūkṣma-vyatiriktaṁ jñānaka-svarūpaṁ nityaṁ nirvikāraṁ, ya ātmani tiṣṭhann ity ādināvagata-brahmātma-bhāvaṁ pañcāgni-vidyoditam upāsate, tān ubhaya-vidhān nayati, tad ya itthaṁ vidur ye ceme'raṇye ity ubhaya-viṣaya-śruteḥ| tat-kratuś ca--- yathākratur asmiṁl loke puruṣo bhavati tathetaḥ pretya bhavati, ity ubhayeṣām evāpunar-āvṛttiḥ sambhavati| acin-miśraṁ kevalam acid-vastu copāsīnānāṁ tat-kratu-nyāyād eva punar-āvṛttir avarjanīyā||14||
Link copied523 viśeṣaṁ ca darśayati||4|3|15||
Link copiedpratīkādy-ukta-lakṣaṇam acin-miśraṁ kevalam acid-vastu copāsīnānāṁ sarveṣāṁ gaty-anapekṣaṁ parimita-phala-viśeṣaṁ ca darśayati śrutiḥ--- yāvann āmno gataṁ tatrāsya yathākāma-cāro bhavati, ity ādikā| ataḥ--- brahmaṇā saha te sarve iti vacanaṁ nārcir-ādinā gatānāṁ gati-prakāra-viṣayam; arcirādinā gatānāṁ dehāvasāna-samaya eva sukṛta-duṣkṛtayor hānād dhiraṇyagarbha-lokāvāpti-tad-vāsa-tatra-stha-bhogānubhava-hetv-abhāvāt, tat-kratu-nyāya-virodhāt, tadānīm eva brahma-prāpti-śruti-virodhāc ca| brahmaṇā saha te sarve iti vacanaṁ tu puṇya-karma-viśeṣeṇa hiraṇyagarbha-lokaṁ prāptānāṁ, tad-upary api bādarāyaṇaḥ, iti nyāyena tatraiva niṣpanna-vidyānāṁ gati-prakāra-viṣayam| te brahma-loke, iti tu brahma-loka-śabdasya karmadhāraya-vṛttyā brahma-viṣayatvād brahmaṇy upāsye vartamānāḥ parānta-kāle carama-dehāvasāna-samaye parāmṛtāt--- parasmād brahmaṇa upāsana-prītād dhetoḥ, parimucyanti sarve sarvasmād bandhād vimucyanta iti, vedānta-vijñāna-suniścitārthāḥ, iti prakaraṇād avagamyate| tad ya itthaṁ vidur iti pañcāgni-vidāṁ brahma-prāpty-apunar-āvṛtti-śravaṇāt tat-kratu-nyāyenācid-viyukta-brahmātmakātmaka-svarūpopāsanaṁ vivakṣitam iti niścīyate tathaiva tatra śrutir api, iti tu pañcamyām āhutāvāpaḥ puruṣa-vacaso bhavanti, iti, ramaṇīya-caraṇāḥ iti ca karma-hetuka-manuṣyādi-bhāvo'pām eva bhūtāntara-saṁsṛṣṭānām iti cid-acid-vivekaṁ pratipādya, tad ya itthaṁ viduḥ, iti bhūta-sūkṣma-vyatiriktātma-svarūpopāsanam eva vidadhāti||15|| iti kāryādhikaraṇam||5||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe caturthasyādhyāyasya tṛtīyaḥ pādaḥ||
Link copied