Skip to content

Vedanta Dipa · Section 17 of 17

||atha caturthādhyāye caturthaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

५२४ सम्पद्याविर्भावः स्वेन शब्दात्॥४।४।१॥

Link copied

एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इति किꣳ परꣳ ज्योतिर्-उपसम्पन्नस्य प्रत्यगात्मनः स्वरूपाविर्भावः प्रतिपाद्यते, उतान्येन साध्येन रूपेण सम्बन्ध इति सꣳशयः। स्व-स्वरूपस्य सुषुप्त्य्-आदौ निरानन्दत्व-दर्शनात्, स्वरूप-मात्रस्य नित्याविर्भूतत्वाच् च, साध्येन सुखैकान्तेन रूपेण सम्बध्यते। एवꣳ च--- अभिनिष्पद्यते इति वचनꣳ सङ्गच्छते। परꣳ ज्योतिर्-उपसम्पन्नस्य ह्य् आनन्दित्वꣳ श्रूयते--- रसꣳ ह्य् एवायꣳ लब्ध्वानन्दी भवति, स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य, इत्य् आदिषु। अतः साध्येन रूपेणेति पूर्वः पक्षः। राद्धान्तस् तु--- स्वेन रूपेणाभिनिष्पद्यते इति विशेषणात् स्वरूपाविर्भाव एव। स्वरूपस्य चापहत-पाप्मत्वादि-गुणकतया प्रजापति-वाक्योदितस्य कर्म-कृत-देह-सम्बन्ध-तत्-कृत-तिरोधानस्य पर-ज्योतिर्-उपसम्पत्त्या सूक्ष्म-देह-विनिर्मुक्तस्यासङ्कुचित-ज्ञानादि-गुणक-स्वरूपाविर्भावात् स्व-याथात्म्यानुभव-पूर्वकानवधिकातिशयानन्द-ब्रह्मानुभवः सम्पत्स्यत इति, अभिनिष्पद्यते, इति चोपपन्नतरम्। सूत्रार्थस् तु--- परꣳ ज्योतिर् उपसम्पद्य स्व-स्वरूपाविर्भावः प्रतिपाद्यते। कुतः। स्वेन-शब्दात्--- साध्यस्यापि रूपस्य स्वासाधारणत्वेन स्वेनेति विशेषणꣳ ह्य् अनर्थकम्॥१॥

Link copied

स्व-स्वरूप-मात्रस्य अहꣳ जानामीति नित्याविर्भूतत्वेन, परꣳ ज्योतिर् उपसम्पद्येत्य् अनर्थकम् इत्य् आशङ्क्याह---

Link copied

५२५ मुक्तः प्रतिज्ञानात्॥४।४।२॥

Link copied

कर्म-सम्बन्ध-तत्-कृत-देहादेर् मुक्त-स्वरूपम् अत्र, स्वेन रूपेणाभिनिष्पद्यते इत्य् उच्यते। कथम् इदम् अवगम्यते। एतꣳ त्व् एव ते भूयोऽनुव्याख्यास्यामि, इति कर्म-हेतुक-देह-सम्बन्ध-तत्-कृत-जागरिताद्य्-अवस्थाविनिर्मुक्त-स्वरूपस्यात्र वक्तव्यतया प्रतिज्ञानात्॥२॥

Link copied

एवम् अपि स्वरूप-मात्राविर्भावस्य पुरुषार्थत्वꣳ न सिद्ध्यतीत्य् आशङ्क्य् आह---

Link copied

५२६ आत्मा प्रकरणात्॥४।४।३॥

Link copied

देहादि-विनिर्मुक्तः स्वरूपेणावस्थित आत्मा अपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्त-गुणकः। तस्य ह्य् आविर्भाव उच्यते। कुतः। प्रकरणात्। य आत्मा अपहत-पाप्मा, इति प्रकृत्य हि, एतꣳ त्व् एव ते भूयोऽनुव्याख्यास्यामीत्य् आदिनोच्यते। अतोऽपहत-पाप्मत्वादि-गुणक-स्वरूपस्य कर्माख्याविद्या-तिरोहितस्य परꣳ ज्योतिर् उपसम्पद्य निवृत्त-तिरोधानस्याविर्भावः प्रतिपाद्यते॥३॥ इति सम्पद्याविर्भावाधिकरणम्॥१॥

Link copied

५२७ अविभागेन दृष्टत्वात्॥४।४।४॥

Link copied

किम् अयꣳ मुक्तः आविर्भूत-स्वरूपः प्रत्यगात्मा परꣳ ब्रह्म स्वात्मनो विभक्तम् अनुभवति, उत स्वात्मनोऽप्य् आत्मतयाविभागेन, अहꣳ ब्रह्मास्मीतीति सꣳशयः। निरञ्जनः परमꣳ साम्यम् उपैति, सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति, इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः, इति श्रुति-स्मृतिभ्यो विभक्तम् अनुभवतीति पूर्वः पक्षः। राद्धान्तस् तु--- सर्वꣳ खल्व् इदꣳ ब्रह्म, ऐतदात्म्यम् इदꣳ सर्वम्\॥॥ तत्त्वम् असि, इत्य् आदिना सामानाधिकरण्येन, यः पृथिव्याꣳ तिष्ठन्\॥॥यस्य पृथिवी शरीरꣳ, य आत्मनि तिष्ठन्\॥॥यस्यात्मा शरीरम् इत्य् आदिषु सर्वस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरतया ब्रह्म-प्रकारत्वात् तत्-तद्-वस्तु-बुद्धि-शब्दास् तत्-पर्यन्त-विषया इत्य् अवगम्य, आत्मेति तूपगच्छन्तीति न्यायेन स्वात्मनोऽप्य् आत्मतया अहꣳ ब्रह्मास्मीत्य् उपासनेन यथावस्थित-परमात्मात्मक-स्वात्मनो दृष्टत्वान् मुक्तः स्वात्मनोऽप्य् आत्म-भूतꣳ ब्रह्म अहꣳ ब्रह्मास्मीत्य् अविभागेनैवानुभवति॥

Link copied

सूत्रार्थस् तु--- अहꣳ ब्रह्मास्मीत्य् अविभागेनैव ब्रह्मानुभवति मुक्तः, स्वात्मनोऽप्य् आत्मतयोपासनेन यथावस्थित-परमात्मात्मक-स्वरूपस्य दृष्टत्वात्। साधर्म्य-श्रुतिस् तु परमात्म-शरीर-भूतस्य साधर्म्य-श्रुतिस् तु परमात्म-शरीर-भूतस्य प्रत्यगात्मनोऽपहत-पाप्मत्वादि-गुणैस् तत्-साधर्म्यꣳ प्रतिपादयति। सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चिता इति ब्रह्म-शरीरतया ब्रह्म-प्रकार-भूतत्वात् स्वात्म-भूतेन ब्रह्मणा सह तद्-गुणान् अनुभवतीति वदति। काम्यन्ते इति कामाः--- कल्याण-गुणाः, कल्याण-गुण-विशिष्टꣳ ब्रह्मानुभवतीत्य् अर्थः॥४॥ इत्य् अविभागेन दृष्टत्वाधिकरणम्॥२॥

Link copied

५२८ ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः॥४।४।५॥

Link copied

किꣳ जीवस्य स्वाभाविक रूपम् अपहत-पाप्मत्वादि-गुणकम् उत चैतन्य-मात्रम् उतोभयम् इति सꣳशयः। अपहत-पाप्मत्वादि-गुणकम् इति प्रथमः पक्षः, य आत्मापहत-पाप्मा, इति प्रतिपादनात्। चैतन्य-मात्रम् इति द्वितीयः पक्षः, एवꣳ वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव, विज्ञान-घन एव, इत्य् अवधारणात्। राद्धान्तस् तु--- ज्ञान-स्वरूपस्यैवापहत-पाप्मत्वादि-गुणकत्व-प्रतिपादनाद् अविरोधाच् चोभयꣳ स्वरूपम्। न च, विज्ञान-घन एवेत्य् अवधारणꣳ गुणान्तरासहꣳ यथा सैन्धव-घनस्य, रस-घन एवेत्य् अवधारणेऽपि रसाश्रय-द्रव्यꣳ रूप-स्पर्शादि-गुणान्तरꣳ च सहते; रस-घन एवेत्य् अवधारणꣳ तु रसवद् द्रवव्यान्तर-स्वभाव-व्यावृत्ति-परम्; द्रव्यान्तराणाꣳ हि स्वैकदेशे रसवत्त्वम्। सैन्धव-घनस्य तु सर्वत्र। एवम् अत्रापि जड-वस्तु-व्यावृत्त-स्व-स्वभावस्य सगुणस्यात्मनः स्व-प्रकाशतावधारणꣳ, विज्ञान-घन एवेति क्रियते॥

Link copied

सूत्रार्थस् तु--- ब्राह्मेण अपहत-पाप्मत्वादिना स्वरूपाविर्भावः। अपहत-पाप्मत्वादयो दहर-वाक्ये ब्रह्म-गुणाः श्रुताः। उपन्यासादिभ्यः--- तेषाꣳ ब्रह्म-गुणानाꣳ प्रत्यगात्मन्य् अपि, य आत्मापहत-पाप्मा, इत्य् आदिनोपन्यासात्। आदि-शब्दात्, जक्षत् क्रीडन् रममाणः, इत्य् आदिभ्योऽपि सत्य-सङ्कल्पत्वादयोऽवगम्यन्त इति जैमिनिर् आचार्यो मन्यते॥५॥

Link copied

५२९ चिति तन्-मात्रेण तदात्मकत्वाद् इत्य् औडलोमिः॥४।४।६॥

Link copied

चैतन्य-मात्रेण स्वरूपाविर्भावः, विज्ञान-घन एवेति तदात्मकत्वावधारणाद् इत्य् औडुलोमिर् आचार्यो मन्यते॥६॥

Link copied

५३० एवम् अप्य् उपन्यासात् पूर्व-भावाद् अविरोधꣳ बादरायणः॥४।४।७॥

Link copied

एवꣳ- विज्ञान-स्वरूपस्यैव, स्व-प्रकाश-स्वरूपस्यैव पूर्वेषाम्--- अपहत-पाप्मत्वादि-सत्य-सङ्कल्पत्व-पर्यन्तानाम् अपि, य आत्मापहत-पाप्मा, इत्य् उपन्यासात् सद्-भावावगमाद् उभयोः स्वरूपयोर् अविरोधꣳ भगवान् बादरायणो मन्यते। उभय-श्रुत्य्-अवगतस्येतरेतर-विरोधाभावान् नान्यतर-बाधे प्रमाणम् अस्तीत्य् अभिप्रायः॥७॥ इति ब्राह्माधिकरणम्॥३॥

Link copied

५३१ सङ्कल्पाद् एव तच्-छ्रुतेः॥४।४।८॥

Link copied

परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा, इत्य् आदिर् आम्नायते। किम् एते ज्ञात्य्-आदयो मुक्तस्य सङ्कल्पाद् एव भवन्ति, उत प्रयत्नान्तर-सव्यपेक्षात् सङ्कल्पाद् इति सꣳशयः। लोके राजादीनाꣳ सत्य-सङ्कल्पत्वेन व्यवह्रियमाणानाम् अपि कार्ये प्रयत्नान्तर-सापेक्षत्व-दर्शनान् मुक्तस्यापि तथैव सापेक्षत्वाद् इति पूर्वः पक्षः, सङ्कल्पाद् एवेत्य् अवधारणꣳ, विज्ञान-घन एवेतिवद् भविष्यति। राद्धान्तस् तु--- सङ्कल्पाद् एवास्य पितरः समुत्तिष्ठन्तीत्य् अवधारणान् नान्यापेक्षत्वम्। न चेह सत्य-कामत्वाद्य्-उपन्यासवन् मुक्तस्यान्यापेक्षत्वे प्रमाणम् अस्ति। लोके सत्य-सङ्कल्पत्वाभावाद् एव प्रयत्नान्तरापेक्षत्वम्; न हि परम-पुरुष-व्यतिरिक्तः कश्चित् सत्य-सङ्कल्पोऽस्ति। मुक्तश् च तत्-प्रसादात् तत्-साम्यम् उपगतस् तथैव। सूत्रम् अपि व्याख्यातम्॥८॥

Link copied

५३२ अत एव चानन्याधिपतिः॥४।४।९॥

Link copied

अतः--- श्रुतेर् एव मुक्तोऽनन्याधिपतिश् च। अन्याधिपतित्वꣳ--- कर्माधीनत्वम्। अपहत-पाप्मा\॥॥सत्य-सङ्कल्पः, इति श्रूयते। अतोऽनन्याधिपतिः॥९॥ इति सङ्कल्पाधिकरणम्॥४॥

Link copied

५३३ अभावꣳ बादरिर् आह ह्य् एवम्॥४।४।१०॥

Link copied

किꣳ मुक्तस्य शरीरेन्द्रियाद्य् अस्ति, उत न, अथ यथासङ्कल्पम् अस्ति च नेति सꣳशयः। न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः, इति मुक्तस्याशरीरत्व-श्रवणान् नास्त्य् एवेत्य् एकः पक्षः। स एकधा भवति त्रिधा भवति, इति सशरीरत्व-श्रुतेर् अशरीरत्व-श्रुतिः कर्म-गृहीत-शरीर-विषयेति शरीरेन्द्रियाद्य् अस्त्य् एवेति द्वितीयः पक्षः। राद्धान्तस् तु--- मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके, इत्य् अशरीरस्यैव भोग-श्रुतेः, स एकधा भवति त्रिधा भवति, इति श्रुतेश् च यथासङ्कल्पम् अस्ति च न चेति। सूत्रार्थस् तु--- शरीराभावꣳ बादरिर् मेने; एवम् आह हि श्रुतिः--- अशरीरꣳ वाव सन्तम् इति॥१०॥

Link copied

५३४ भावꣳ जैमिनिर् विकल्पामननात्॥४।४।११॥

Link copied

शरीरादि-भावꣳ जैमिनिर् मेने। कुतः। विकल्पामननात्--- विविधः कल्पः--- विकल्पः, स एकधा भवति त्रिधा भवतीत्य् आदिना मुक्तस्य हि विविध-कल्पनम् आम्नायते आत्मन एक-रूपस्याच्छेद्यस्य वैविध्यासम्भवाच् छरीर-द्वारेणैव हि विज्ञायते वैविध्यम्॥११॥

Link copied

५३५ द्वादशाहवद् उभय-विधꣳ बादरायणोऽतः॥४।४।१२॥

Link copied

अतः--- उभय-श्रुतेर् इच्छातः, उभय-विधम्, शरीरवत्त्वम् अशरीरत्वꣳ च भगवान् बादरायणो मेने; द्वादशाहवत्--- यथा द्वादशाह उभय-श्रुतेः सत्रम् अहीनꣳ च, द्वादशाहम् ऋद्धि-कामा उपेयुः, इति सत्रꣳ भवति, द्वादशाहेन प्रजा-कामꣳ याजयेत्, इत्य् अहीनम्॥१२॥

Link copied

५३६ तन्व्-अभावे सन्ध्यवद् उपपत्तेः॥४।४।१३॥

Link copied

स्वेनैव सृष्ट-तनु-प्रभृत्य्-उपकरणाभावे परम-पुरुष-सृष्टैर् उपकरणैर् भोगोपपत्तेः सत्य-सङ्कल्पोऽपि स्वयꣳ न सृजति, सन्ध्यवत्--- यथा स्वप्ने, अथ रथान्, इत्य् आरभ्य, स हि कर्ता, इति, य एष सुप्तेषु, इत्य् आरभ्य, तद् उ नात्येति कश्चन, इति चेश्वर-सृष्टैर् उपकरणैर् जीवो भुङ्क्ते; तथा मुक्तोऽपि लीला-प्रवृत्तेश्वर-सृष्टैः पितृ-लोकादिभिर् लीला-रसꣳ भुङ्क्ते॥१३॥

Link copied

५३७ भावे जाग्रद्वत्॥४।४।१४॥

Link copied

स्व-सङ्कल्प-सृष्ट-तनु-प्रभृत्य्-उपकरण-सद्-भावे जाग्रत्-पुरुष-भोगवन् मुक्तो लीला-रसꣳ भुङ्क्ते, परम-पुरुषोऽपि दशरथ-वसुदेवादि-पितृ-लोकादिकम् आत्मनः सृष्ट्वा तैर् मनुष्य-धर्म-लीला-रसꣳ भुङ्क्ते; तथा मुक्तश् च सत्य-सङ्कल्पत्वात् परम-पुरुष-लीलान्तर्गत-स्व-पितृ-लोकादिकꣳ स्वयम् एव सृष्ट्वा तैर् लीला-रसम् अनुभवति॥१४॥

Link copied

नन्व् आत्माणु-परिमाण इत्य् उक्तम्, कथम् अनेक-शरीरेष्वेकस्याणोर् आत्माभिमान-सम्भव इत्य् अत्राह---

Link copied

५३८ प्रदीपवद् आवेशस् तथा हि दर्शयति॥४।४।१५॥

Link copied

यथा प्रदीपस्यैकस्यैकदेश-वर्तिनः स्वया प्रभयानेक-देश-प्रवेशः, तद्वद् आत्मनोऽप्य् एक-देश-स्थस्य स्व-प्रभा-रूपेण ज्ञानेन सर्व-देहेषु यथासङ्कल्पम् आत्माभिमानानुगुणा व्याप्तिः सम्भवति। यथैकस्मिन् देहे हृदयादि-देशे वर्तमानस्याणोर् अपि सर्वस्मिन् देहे अहम् इत्य् अभिमानानुगुण-व्याप्तिः स्व-प्रभा-रूप-चैतन्येन तद्वत्। तथा दर्शयति हि श्रुतिः--- बालाग्र-शत-भागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते, इति। प्रत्यगात्मनोऽणुत्वम् एव स्वरूपम् इति सूत्र-कार-मतम्, नाणुर् अतच्-छ्रुतेर् इति चेन् नेतराधिकारात्, इति परस्यैव महत्त्व-वचनात्॥१५॥

Link copied

ननु परꣳ ब्रह्म प्राप्तस्यान्तर-बाह्य-ज्ञान-लोपꣳ दर्शयति श्रुतिः--- प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यꣳ किञ्चन वेद नान्तरम् इति; तत् कथꣳ मुक्तस्य ज्ञानानन्त्यम् उच्यत इत्य् अत्राह---

Link copied

५३९ स्वाप्यय-सम्पत्त्योर् अन्यतरापेक्षम् आविष्कृतꣳ हि॥४।४।१६॥

Link copied

नेदꣳ मुक्त-विषयम्; सुषुप्ति-मरणयोर् अन्यतरापेक्षम्। आविष्कृतꣳ हि श्रुत्या सुषुप्ति-मरणयोर् निःसम्बोधत्वम्, मोक्ष-दशायाꣳ सर्वज्ञत्वꣳ च। सुषुप्तौ तावत्, ना ह खल्व् अयम् एवꣳ सम्प्रत्यात्मानꣳ जानात्य् अयम् अहम् अस्मीति नो एवेमानि भूतानि विनाशम् एवापीतो भवति, विनाशम्--- अदर्शनम् इत्य् अर्थः। मरणे च--- एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानु विनश्यति, इति। विनश्यति--- न पश्यतीत्य् अर्थः। मोक्षे तु--- स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्म-लोके, इति; सर्वꣳ ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः, इति च॥१६॥ इत्य् अभावाधिकरणम्॥५॥

Link copied

५४० जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च॥४।४।१७॥

Link copied

किꣳ मुक्तस्य भोगः निखिल-हेय-प्रत्यनीक-कल्याणैकतान-सकलेतर-विलक्षणानवधिकातिशयानन्द-महा-विभूति-रूप-परब्रह्मानुभव एव। उत जगत्-सृष्ट्य्-आदि-जगन्-नियमन-रूप-लीलापीति सꣳशयः। निरञ्जनः परमꣳ साम्यम् उपैति, इत्य् आदि श्रुतेर् जगन्-नियमन-रूप-लीलापीति पूर्वः पक्षः। राद्धान्तस् तु--- यतो वा इमानि भूतानि जायन्ते, सद् एव सोम्येदम् अग्र आसीद् इदम् एक एवाग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीत्, एको ह वै नारायण आसीत्, इत्य् आदिषु परꣳ ब्रह्म प्रकृत्यैव जगद्-व्यापारः श्रूयते। तत्र तत्र प्रकरणे न मुक्तस्य सन्निधिर् अप्य् अस्ति। अतो जगन्-नियमन-रूप-धुरावर्जꣳ, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता, स एको ब्रह्मण आनन्दः, श्रोत्रियस्य चाकामहतस्य, इत्य् अनवधिकातिशयानन्द-ब्रह्मानुभवे मुक्तस्य साम्यम्। ब्रह्म हि स्वस्य परस्य चानुभूयमानम् अविशेषेणानवधिकातिशयानन्दꣳ भवति, आनन्द-स्वरूपत्वाविशेषात्। सूत्रम् अपि व्याख्यातम्॥१७॥

Link copied

५४१ प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिक-मण्डल-स्थोक्तेः॥४।४।१८॥

Link copied

प्रत्यक्षꣳ--- श्रुतिः; तस्य सर्वेषु लोकेषु काम-चारो भवति, इमाꣳल् लोकान् कामान्नी काम-रूप्य् अनुसञ्चरन्, इत्य् आदि श्रुत्या मुक्तस्य जगद्-व्यापारोपदेशात् सोऽपीति चेत् तन् न, आधिकारिक-मण्डल-स्थोक्तेः, आधिकारिकाः--- परम-पुरुषेण लोक-नियमनाधिकारे नियुक्ता हिरण्यगर्भादयः; मण्डलानि--- तेषाꣳ लोकाः; तत्-स्थ-भोगेषु मुक्तस्य यद् ईच्छा वर्तते, तत्र तत्र यथाकामꣳ परम-पुरुषानुग्रहेण वर्तमानस् तत्र-स्थान् भोगान् भुङ्क्ते, इति तया श्रुत्योक्तेः। कामान्नी, काम-चारो भवति, इति हि श्रूयते; न नियुङ्क्त इति॥१८॥

Link copied

उत्पत्त्य्-आदि-विकारवर्ती हेय-मिश्रोऽत्यल्पश् च कथꣳ मुक्तस्य भोगो भवति, यद्-इच्छातः सर्वेषु लोकेषु काम-चार उच्यत इत्य् अत्राह---

Link copied

५४२ विकारावर्ति च तथा हि स्थितिम् आह॥४।४।१९॥

Link copied

च-शब्दोऽवधारणे; उत्पत्त्य्-आदि-विकारेषु न वर्तत इति विकारावर्ति परꣳ ब्रह्मैव। निर्धूत-निखिल-विकारꣳ निखिल-हेय-प्रत्यनीक-कल्याणैकतानꣳ निरतिशयानन्दꣳ परब्रह्म सविभूति सकल-कल्याण-गुणꣳ मुक्तस्य भोग्यम्; तद्-विभूत्य्-अन्तर्गतत्वेन विकार-वर्तिनाꣳ लोकानाम् अपि मुक्त-भोग्यत्वम्। तथा हि परस्मिन् ब्रह्मणि मुक्तस्यानुभवितृत्वेन स्थितिम् आह श्रुतिः--- यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयꣳ प्रतिष्ठाꣳ विन्दते, अथ सोऽभयꣳ गतो भवति, रसो वै सः, रसꣳ ह्य् एवायꣳ लब्ध्वानन्दी भवति, ब्रह्म-निष्ठो ब्रह्मैव लब्ध्वानन्दी भवतीत्य् अर्थः। ब्रह्म हि निरतिशय-कल्याणानन्त-गुणकम् अनन्त-महा-विभूति च। तत्र सविभूतिक-ब्रह्मानुभवाय विभूत्य्-एकदेश-भूत-लोकेषु सञ्चरतस् तत्र तत्र काम-चारो भवतीत्य् उच्यते॥१९॥

Link copied

५४३ दर्शयतश् चैवꣳ प्रत्यक्षानुमाने॥४।४।२०॥

Link copied

उत्पत्त्य्-आदि-जगन्-नियमनꣳ परस्यैव; मुक्तस्य तु परब्रह्मानुभव एव भोग इत्य् उक्तम् एवार्थꣳ प्रत्यक्षानुमाने--- श्रुति-स्मृती दर्शयतः, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, भीषास्माद् वातः पवते, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, इत्य् आदिका श्रुतिः; स्मृतिर् अपि--- अहꣳ सर्वस्य प्रभवः, अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा, विष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत्, मत्तः सर्वꣳ प्रवर्तते, सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः प्रशासितारꣳ सर्वेषाम्, इत्य् आदिका पर-विषया। अथाकामयमानो योऽकामो निष्काम आप्त-काम आत्म-कामः, इत्य् आदिका श्रुतिः। स्मृतिर् अपि--- प्रियो हि ज्ञानिनोऽत्यर्थम् अहम्, आस्थितः स हि युक्तात्मा माम् एवानुत्तमाꣳ गतिम्, वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः, माꣳ च योऽव्यभिचारेण भक्ति-योगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते॥ ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च, इत्य् आदिका मुक्त-विषया॥२०॥

Link copied

५४४ भोग-मात्र-साम्य-लिङ्गाच् च॥४।४।२१॥

Link copied

सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता, इति मुक्तस्य ब्रह्मानुभव-भोग-मात्र-ब्रह्म-साम्य-वचनाल् लिङ्गाच् च जगद्-व्यापार-वर्जम् इति निश्चीयते॥२१॥

Link copied

यदि नियन्तृत्वꣳ परस्यैव, एवꣳ तर्हि स्वतन्त्रत्वेन मुक्तꣳ परः कदाचित् पुनर् आवर्तयिष्यतीत्य् आशङ्क्याह---

Link copied

५४५ अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्॥४।४।२२॥

Link copied

अस्य मुक्तस्यानावृत्तिः शब्दाद् अवगम्यते--- यतो वा इमानि भूतानि जायन्ते, सोऽकामयत बहु स्याꣳ प्रजायेयेति, यः पृथिवीम् अन्तरो यमयति, य आत्मानम् अन्तरो यमयति, इति शब्दात् परम-पुरुषस्य स्रष्टुत्वꣳ नियन्तृत्वꣳ चावगम्यते। तथा--- एतेन प्रतिपद्यमाना इमꣳ मानवम् आवर्तꣳ नावर्तन्ते, स खल्व् एवꣳ वर्तयन् यावद् आयुषꣳ ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते, माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम्। नाप्नुवन्ति महात्मानः सꣳसिद्धिꣳ परमाꣳ गताः॥ आब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन। माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते, इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च, इति शब्दाद् एवैनꣳ कदाचिद् अपि नावर्तयतीत्य् अवगम्यते। सूत्रावृत्तिस् तु शास्त्र-परिसमाप्तिꣳ द्योतयतीति सर्वꣳ समञ्जसम्॥२२॥ इति जगद्-व्यापार-वर्जाधिकरणम्॥८॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य चतुर्थः पादः॥

Link copied

॥समाप्तश् चाध्यायः॥

Link copied

शास्त्रꣳ च परिसमाप्तम्॥

Link copied
Join our community