Skip to content

Vedanta Dipa · Section 15 of 17

||atha caturthādhyāye dvitīyaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

४८९ वाङ्-मनसि दर्शनाच् छब्दाच् च॥४।२।१॥

Link copied

अस्य सोम्य पुरुषस्य प्रयतो वाङ्-मनसि सम्पद्यते मनः प्राणे, इत्य् आदिकोत्क्रान्ति-विषया आम्नायते। तत्र किꣳ वाग्-इन्द्रियꣳ मनसि सम्पद्यते, उत वाग्-वृत्ति-मात्रम् इति सꣳशयः। वाचो मनः-प्रकृतित्वाभावात् स्वरूप-लयस् तत्र न सम्भवतीति वाग्-वृत्ति-मात्राभिप्रायम् इति पूर्वः पक्षः। राद्धान्तस् तु--- अकारणे सम्पत्त्य्-अभावस्य वाग्-वृत्ताव् अपि तुल्यत्व-दर्शनात्, वाङ्-मनसीति वाक्-स्वरूपस्यैव सम्पत्तिः। शब्दाच् च स्वरूपम् एव सम्पद्यते, वाङ्-मनसि सम्पद्यते इति वाक्-स्वरूप-सम्पत्ताव् एव हि शब्दः न वृत्ति-मात्र-सम्पत्तौ। अकारणे लयाभावात् सम्पत्ति-शब्दः सꣳयोगाभिप्रायः। सूत्रꣳ च व्याख्यातम्॥१॥

Link copied

४९० अत एव सर्वाण्य् अनु॥४।२।२॥

Link copied

यतो वाचो मनसि सꣳयोग-मात्रम् उच्यते न तु लयः। अत एव तदानीꣳ--- सर्वाणीन्द्रियाणि वाचम् अनु मनसि सम्पद्यन्ते, इति वचनꣳ, वाङ्-मनसि सम्पद्यत इति वचनवद् उपपन्नम्, तस्माद् उपशान्त-तेजाः--- पुनर्भवम् इन्द्रियैर् मनसि सम्पद्यमानैः, इति॥२॥ इति वाग्-अधिकरणम्॥१॥

Link copied

४९१ तन् मनः प्राण उत्तरात्॥४।२।३॥

Link copied

मनः प्राणे, इत्य् अत्र किꣳ प्राण-शब्देनाप उच्यन्ते, उत प्राण एवेति सꣳशयः। प्राणस्य मनः-प्रकृतित्वाभावात्, अन्न-मय हि सोम्य मनः, इति मनसोऽन्न-मयत्व-श्रवणात्, अपाꣳ चान्न-प्रकृतित्वेन, तत्-सम्पत्तिर् उपपद्यत इति प्राण-शब्देनाप उच्यन्त इति पूर्वः पक्षः; आपो-मयः प्राणः इति ह्य् अम्-मयत्वात् प्राणस्य प्राण-शब्देनापो वक्तुꣳ युज्यन्ते इति। राद्धान्तस् तु--- अन्न-मयꣳ हि सोम्य मनः आपो-मयः प्राणः, इति मनः-प्राणयोर् न तत्-तत्-प्रकृतित्वम् उच्यते; अपि तु तद्-आप्यायनम्, आहङ्कारिकत्वान् मनसः, प्राणस्य चाकाश-प्रकृतित्वात्। अतः वाङ्-मनसीतिवत् तद्-उत्तरात्, मनः प्राणे इति शब्दात्, तत्-सर्वेन्द्रिय-सꣳयुक्तꣳ मनः प्राणे सꣳयुज्यते॥३॥ इति मनोधिकरणम्॥२॥

Link copied

४९२ सोऽध्यक्षे तद्-उपगमादिभ्यः॥४।२।४॥

Link copied

सः प्राणः किꣳ तेजसि सꣳयुज्यते, उत जीव इति सꣳशयः। प्राणस् तेजसीति वचनात् तेजस्य् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- उत्क्रान्तौ प्राणस्य जीवोपगमादि-श्रुतेः प्राणः करणाध्यक्षे जीवे सꣳयुज्यते। एतद्-अविरोधाय जीवे सꣳयुज्य पश्चात् तेजः सꣳयोगꣳ, प्राणस् तेजसीति वदति। श्रूयन्ते हि प्राणस्य जीवोपगमादयः, एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति, तम् उत्क्रामन्तꣳ प्राणोऽनूत्क्रामति, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि, इत्यादिषु॥४॥ इत्य् अध्यक्षाधिकरणम्॥३॥

Link copied

४९३-४९४ भूतेषु तच्-छ्रुतेः॥४।२।५॥

Link copied

नैकस्मिन् दर्शयतो हि॥४।२।६॥

Link copied

प्राणस् तेजसीति किꣳ तेजो-मात्रे प्राणः सꣳयुज्यते, उत भूतान्तर-सꣳसृष्ट इति सꣳशयः तेजसीति वचनात् तेजो-मात्र इति पूर्वः पक्षः। पृथिवी-मयः, इत्य्-आदिना सञ्चरतो जीवस्य सर्व-भूत-मयत्व-श्रुते, त्रिवृत्-करण-श्रुति-स्मृतिभ्याꣳ च तेजस एकस्य कार्याक्षमत्वाद् भूतान्तर-सꣳसृष्ट इति राद्धान्तः। सूत्र-द्वयꣳ व्याख्यातम्॥५-६॥ इति भूताधिकरणम्॥४॥

Link copied

४९५ समाना चासृत्य्-उपक्रमाद् अमृतत्वꣳ चानुपोष्य॥४।२।७॥

Link copied

इयम् उत्क्रान्तिः किꣳ विद्वद्-अविदुषोः समाना, उताविदुष एवेति सꣳशयः। विदुषोऽत्रैवामृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्वः पक्षः। श्रूयते हि विदुषोऽत्रैव ब्रह्म-प्राप्तिः--- यदा सर्वे प्रमुच्यन्ते कामायेऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवति, अत्र ब्रह्म समश्नुते, इति। राद्धान्तस् तु--- विदुषोऽर्चिर्-आदिकयैव ब्रह्म-प्राप्तिः, अर्चिर्-आदि-गत्य्-उपक्रमात् प्राग् इयम् उत्क्रान्तिः समाना। गतिश् च मूर्धन्य-नाड्या, शतꣳ चैका च हृदयस्य नाड्यस् तासाꣳ मूर्धानम् अभिनिःसृतैका, तयोर्ध्वम् आयन्न् अमृतत्वम् एति, इति श्रुतेः। यदा सर्वे प्रमुच्यन्ते, इत्य् अनेन गति-श्रुत्य्-अविरोधायामृतत्व-साधन-भूतोपासन-निष्पत्तिर् उच्यते, हृदि स्थिताः कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान् मर्त्योऽमृतो भवतीति। काम-विमोक-पूर्वकोपासने स्थितोऽर्चिर्-आदिकया गत्या ब्रह्म समश्नुते इत्य् अर्थः। सूत्रार्थस् तु--- सृतिः गतिः, आगत्य्-उपक्रमाद् उत्क्रान्तिर् विदुषोऽपि समाना, विदुषोऽचिर्-आदि-गति-श्रुतेः, अथ मर्त्योऽमृतो भवति, इत्य् उच्यमानम् अमृतत्वम् अनुपोष्य च--- अदग्ध्वैव शरीरेन्द्रियादि-सम्बन्धम्, उपासनारम्भ-परिकर-रूपम् इत्य् अर्थः॥७॥

Link copied

४९६ तद् आपीतेः सꣳसार-व्यपदेशात्॥४।२।८॥

Link copied

तत्--- अमृतत्वम्, उक्त-प्रकारम् एव। कुतः। आपीतेः सꣳसार-व्यपदेशात्। अपीतिः--- ब्रह्म-प्राप्तिः, अर्चिर्-आदिकया गत्या देश-विशेषꣳ गत्वा यावद् ब्रह्म प्राप्यते तावत् सꣳसारः--- शरीर-सम्बन्धो हि व्यपदिश्यते॥८॥

Link copied

गति-व्यपदेशाद् एव शरीराद् उत्क्रान्तस्य कथꣳ शरीर-सम्बन्ध इत्य् अत्राह---

Link copied

४९७ सूक्ष्मꣳ प्रमाणतश् च तथोपलब्धेः॥४।२।९॥

Link copied

सूक्ष्म-शरीरम् अनुवर्तते, गति-व्यपदेशात्। न केवलꣳ गति-व्यपदेशाद् एव, प्रमाणान्तरतश् च तथा--- सूक्ष्म-शरीरवत्त्वस्योपलब्धेश् च। विदुषोऽर्चिर्-आदिकया गत्या गच्छतश् चन्द्रमसा सꣳवादोऽयम् उपदिश्यते, तꣳ प्रतिब्रूयात्, सत्यꣳ ब्रूयात्, इत्य् आदिना॥९॥

Link copied

४९८ नोपमर्दनातः॥४।२।१०॥

Link copied

अतः--- उक्ताद् धेतु-कलापात्, अथ मर्त्योऽमृतो भवतीति वचनꣳ न देह-सम्बन्धोपमर्देनामृतत्वꣳ वदति, अपि तूक्तम् एवोपासनारम्भ-रूपꣳ वदतीत्य् अथः॥१०॥

Link copied

४९९ अस्यैव चोपपत्तेर् ऊष्मा॥४।२।११॥

Link copied

अस्य--- सूक्ष्म-शरीरस्य विद्यमानत्वोपपत्तेश् च न देह-सम्बन्धोपमर्द्रेन। उपलभ्यते ह्य् उत्क्रममाणस्य विदुषः क्वचिद् ऊष्मा सूक्ष्म-देह-गुणः; न चायꣳ स्थूल-देह-गुणः, अन्यत्रानुपलब्धेः। अतो विद्वान् सूक्ष्म-शरीरेणोत्क्रामति॥११॥

Link copied

५०० प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्य् एकेषाम्॥४।२।१२॥

Link copied

स एतास् तेजो-मात्राः इत्य् आरभ्य, इति तु कामयमानः इत्य् अन्तेनाविदुषः उत्क्रान्ति-प्रकारꣳ लोकान्तर-गमनꣳ पुनर्-आवृत्तिꣳ चाभिधाय, अथाकामयमानः इत्य् आदिना, न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्मायेति इति विदुष उत्क्रान्ति-प्रतिषेधाद् उक्त-प्रकारो नोपपद्यत इति चेत् तन् न, शारीरात् प्राणानाम् अविश्लेषोऽनेनोच्यते। तस्य अकामयमानस्य विदुषः शारीरस्य, प्राणाः स्वस्मान् नोत्क्रामन्ति। देवयानेन गमनाय सहैव तिष्ठन्ति। अयम् अर्थः स्पष्टो ह्य् एकेषाꣳ--- माध्यन्दिन-शाखिनाꣳ पाठे, योऽकामो निष्काम आप्त-काम आत्म-कामो न तस्मात् प्राणा उत्क्रामन्ति, इति॥१२॥

Link copied

५०१ स्मर्यते च॥४।२।१३॥

Link copied

स्मर्यते च विदुषोऽपि मूर्धन्य-नाड्योत्क्रान्तिः--- ऊर्ध्वम् एकः स्थितस् तेषाꣳ यो भित्त्वा सूर्य-मण्डलम्। ब्रह्म-लोकम् अतिक्रम्य तेन याति पराꣳ गतिम् इति॥१३॥ इत्य् आमृत्युपक्रमाधिकरणम्॥५॥

Link copied

५०२ तानि परे तथा ह्य् आह॥४।२।१४॥

Link copied

प्राणस् तेजसीति तेजः-शब्द-निर्दिष्टानि भूतानि जीव-परिष्वरक्तानि परस्याꣳ देवतायाꣳ सम्पद्यन्ते, उत यथाकर्म यथाविद्यꣳ च गच्छन्तीति सꣳशयः। तदानीꣳ सुख-दुःखोप-भोगाद्य्-अभावेन पर-सम्पत्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यम् इति पूर्वः पक्षः। सर्वस्य पर-देवता-कार्यत्वेन तदात्मकत्वाद् गन्तव्य-स्थानम् इदꣳ, परस्याꣳ देवतायाम् इत्य् उच्यते। राद्धान्तस् तु--- तानि परे--- परस्मिन् ब्रह्मणि सम्पद्यन्ते; तेजः परस्याꣳ देवतायाम् इति ह्य् आह श्रुतिः। यथाश्रुति विश्रम-स्थानत्वेन कार्यꣳ परिकल्प्यम् इत्य् अर्थः सूत्रꣳ च व्याख्यातम्॥१४॥ इति पर-सम्पत्त्य्-अधिकरणम्॥६॥

Link copied

५०३ अविभागो वचनात्॥४।२।१५॥

Link copied

सेयꣳ परमात्मनि सम्पत्तिः किꣳ प्राकृत-प्रलयवत् कारणापत्ति-रूपा, उत मनः-प्रभृति-सम्पत्तिवद् अविश्लेष-मात्रम् इति सꣳशयः। परमात्मनः कारणत्वात्, तत्-सम्पत्ति-वचनाच् च कारणापत्तिर् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- वाङ्-मनसि सम्पद्यते इति श्रुतस्यैव सम्पत्ति-वचनस्य सर्वत्रानुषङ्गाद् अत्रानुषक्तस्य चाभिधान-वैरूप्यासम्भवाद् अत्राप्य् अविभागः--- अविश्लेष एवोच्यते। सूत्रम् अपि व्याख्यातम्॥१५॥ इत्य् अविभागाधिकरणम्॥७॥

Link copied

५०४ तद् ओकोऽग्र-ज्वलनꣳ तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया॥४।२।१६॥

Link copied

शतꣳ चैका च हृदयस्य नाड्यस् तासाꣳ मूर्धानम् अभिनिःसृतैका। तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति, इति शताधिकया मूर्धन्यया नाड्या विदुषो गमनम् इति नियमः सम्भवति, नेति सꣳशयः। नाडीनाम् अतिसूक्ष्मत्वेन दुर्विवेचत्वान् नियमो न सम्भवतीति यादृच्छिकीꣳ तया गतिम् अनुवदतीदꣳ वचनम् इति पूर्वः पक्षः। राद्धान्तस् तु--- परम-पुरुषाराधन-भूतया विद्यया तद्-अङ्ग-भूत-गति-चिन्तनेन च प्रीतेन परम-पुरुषेणानुगृहीतो जीवस् तत्-प्रसाद-प्रकाशित-द्वारस् तयैव मूर्धन्यया नाड्या गच्छतीति॥

Link copied

सूत्रार्थस् तु--- हार्द-परम-पुरुषाराधन-रूप-विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च प्रीत-हार्दानुगृहीतो भवति जीवः, ततः तद्-ओकः--- जीवस्य स्थानꣳ हृदयम्, अग्र-ज्वलनम्--- प्रकाशिताग्रꣳ भवति। एवꣳ परम-पुरुष-प्रकाशित-द्वारः शताधिकया गच्छति; तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः, सर्वस्य चाहꣳ हृदि सन्निविष्टः, इति हार्दः परमात्मा॥१६॥ इति तद्-ओकोधिकरणम्॥८॥

Link copied

५०५ रश्म्य्-अनुसारी॥४।२।१७॥

Link copied

अथ यत्रैतद् अस्माच् छरीराद् उत्क्रामत्य् अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते इति विद्वान् रश्म्य्-अनुसारी गच्छतीति नियमः सम्भवति नेति सꣳशयः। निशि मृतस्य विदुषः आदित्य-रश्म्य्-अनुसारासम्भवाद् अनियम इति पूर्वः पक्षः। वचनꣳ तु पक्ष-प्राप्तम् अनुवदति। राद्धान्तस् तु--- वचनस्य पक्ष-प्राप्त्य्-अनुवादित्वे, अथैतैर् एवेत्य् अवधारण-विरोधः। न च निशि रश्मयो न सन्तीति निश्य् अपि निदाघ-समये ऊष्मोपलब्धेः सूक्ष्माः सन्त्य् एवेति रश्म्य्-अनुसार्य् एव गच्छति। हेमन्तेऽनुपलब्धिर् दुर्दिन इव हिमाभिभवात्॥१७॥ इति रश्म्य्-अनुसाराधिकरणम्॥९॥

Link copied

५०६ निशि नेति चेन् न सम्बन्धस्य यावद् देह-भावित्वाद् दर्शयति च॥४।२।१८॥

Link copied

विदुषो निशि मृतस्य ब्रह्म-प्राप्तिर् अस्ति, नेति सꣳशयः। दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च। मुमूर्षताꣳ प्रशस्तानि विपरीतꣳ तु गर्हितम्, इति निशा-मरणस्य गर्हितत्वेन अधो-गति-हेतुत्वान् न ब्रह्म-प्राप्तिः सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु---विद्या-माहात्म्याद् उत्तर-पूर्वाघयोर् अश्लेष-विनाश-श्रुतेर् अश्लिष्ट-विनष्टत्वात्, प्रारब्धस्यापि कर्मणः चरम-देहावधित्वाच् च, बन्ध-हेत्व्-अभावान् निशि मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एवेति। अविद्वद्-विषया निशा-मरण-निन्दा॥

Link copied

सूत्रार्थस् तु--- निशा-मरण-निन्दया निशि मृतस्य न ब्रह्म-प्राप्तिर् इति चेत्; तन् न, सम्बन्धस्य यावद् देह-भावित्वाद् अनारब्ध-कार्य-कर्म-सम्बन्धस्य विद्यया विनष्टत्वात् प्रारब्ध-कार्य-कर्म-सम्बन्धस्यापि यावच् चरम-देह-भावित्वाद् बन्ध-हेत्वभावेन ब्रह्म-प्राप्तिर् अस्त्य् एवेत्य् अर्थः। तद् एतच् छ्रुतिश् च दर्शयति--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये इति॥१८॥ इति निशाधिकरणम्॥१०॥

Link copied

५०७ अतश् चायनेऽपि दक्षिणे॥४।२।१९॥

Link copied

दक्षिणायने मृतस्य विदुषो ब्रह्म-प्राप्तिर् अस्ति नेति सꣳशयः। अथ यो दक्षिणे प्रमीयते पितृणाम् एव महिमानꣳ गत्वा चन्द्रमसः सायुज्यꣳ गच्छति, इति विदुषो दक्षिणायने मृतस्य चन्द्र-सायुज्य-श्रवणात्, चन्द्रꣳ प्राप्तानाम्--- अथैतम् एवाध्वानꣳ पुनर् निवर्तन्ते इति वचनाच् च, दक्षिणायन-मृतस्य ब्रह्म-प्राप्ति न सम्भवतीति पूर्वः पक्षः। राधान्तस् तु--- पूर्वोक्ताद् बन्ध-हेत्व्-अभावाद् विदुषश् चन्द्रꣳ प्राप्तस्यापि पुनर्-आवृत्तिर् न सम्भवति। चन्द्र-सायुज्य-वचनꣳ विदुषो ब्रह्म-प्रेप्सोर् विश्रम-स्थान-मात्र-वियषम्। आवृत्ति-वचनꣳ त्व् अविदुषाम् एव। सूत्रार्थस् तु--- यतो हेतोर् निशि मृतस्यापि ब्रह्म-प्राप्तिः, तत एव बन्ध-हेत्व्-अभावाद् दक्षिणायने मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एव॥१९॥

Link copied

यत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः, इति मरण-काल-विशेषः स्मर्यत इति चेत् तत्राह---

Link copied

५०८ योगिनः प्रति स्मर्येते स्मार्ते चैते॥४।२।२०॥

Link copied

योगिनः--- ब्रह्म-विद्या-निष्ठान् प्रत्य् एते--- देवयान-पितृयाण-गती, स्मार्ते स्मर्येते, स्मार्ते--- स्मृति-विषय-भूते अहर् अहः स्मर्तव्ये स्मयेते इत्य् अर्थः। यत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः, इत्यादिना, नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन, इत्य् अन्तेन। न मुमूर्षुन् प्रति काल-विशेषोपादानꣳ स्मर्यते। आतिवाहिक-गणस्य कालाभिमानि-देवता-विशेष-भूयस्त्वेन, यत्र काले इत्य् उच्यते॥२०॥ इति दक्षिणायनाधिकरणम्॥११॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य द्वितीयः पादः॥

Link copied
Join our community