Vedanta Dipa · Section 15 of 17
||atha caturthādhyāye dvitīyaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
४८९ वाङ्-मनसि दर्शनाच् छब्दाच् च॥४।२।१॥
Link copiedअस्य सोम्य पुरुषस्य प्रयतो वाङ्-मनसि सम्पद्यते मनः प्राणे, इत्य् आदिकोत्क्रान्ति-विषया आम्नायते। तत्र किꣳ वाग्-इन्द्रियꣳ मनसि सम्पद्यते, उत वाग्-वृत्ति-मात्रम् इति सꣳशयः। वाचो मनः-प्रकृतित्वाभावात् स्वरूप-लयस् तत्र न सम्भवतीति वाग्-वृत्ति-मात्राभिप्रायम् इति पूर्वः पक्षः। राद्धान्तस् तु--- अकारणे सम्पत्त्य्-अभावस्य वाग्-वृत्ताव् अपि तुल्यत्व-दर्शनात्, वाङ्-मनसीति वाक्-स्वरूपस्यैव सम्पत्तिः। शब्दाच् च स्वरूपम् एव सम्पद्यते, वाङ्-मनसि सम्पद्यते इति वाक्-स्वरूप-सम्पत्ताव् एव हि शब्दः न वृत्ति-मात्र-सम्पत्तौ। अकारणे लयाभावात् सम्पत्ति-शब्दः सꣳयोगाभिप्रायः। सूत्रꣳ च व्याख्यातम्॥१॥
Link copied४९० अत एव सर्वाण्य् अनु॥४।२।२॥
Link copiedयतो वाचो मनसि सꣳयोग-मात्रम् उच्यते न तु लयः। अत एव तदानीꣳ--- सर्वाणीन्द्रियाणि वाचम् अनु मनसि सम्पद्यन्ते, इति वचनꣳ, वाङ्-मनसि सम्पद्यत इति वचनवद् उपपन्नम्, तस्माद् उपशान्त-तेजाः--- पुनर्भवम् इन्द्रियैर् मनसि सम्पद्यमानैः, इति॥२॥ इति वाग्-अधिकरणम्॥१॥
Link copied४९१ तन् मनः प्राण उत्तरात्॥४।२।३॥
Link copiedमनः प्राणे, इत्य् अत्र किꣳ प्राण-शब्देनाप उच्यन्ते, उत प्राण एवेति सꣳशयः। प्राणस्य मनः-प्रकृतित्वाभावात्, अन्न-मय हि सोम्य मनः, इति मनसोऽन्न-मयत्व-श्रवणात्, अपाꣳ चान्न-प्रकृतित्वेन, तत्-सम्पत्तिर् उपपद्यत इति प्राण-शब्देनाप उच्यन्त इति पूर्वः पक्षः; आपो-मयः प्राणः इति ह्य् अम्-मयत्वात् प्राणस्य प्राण-शब्देनापो वक्तुꣳ युज्यन्ते इति। राद्धान्तस् तु--- अन्न-मयꣳ हि सोम्य मनः आपो-मयः प्राणः, इति मनः-प्राणयोर् न तत्-तत्-प्रकृतित्वम् उच्यते; अपि तु तद्-आप्यायनम्, आहङ्कारिकत्वान् मनसः, प्राणस्य चाकाश-प्रकृतित्वात्। अतः वाङ्-मनसीतिवत् तद्-उत्तरात्, मनः प्राणे इति शब्दात्, तत्-सर्वेन्द्रिय-सꣳयुक्तꣳ मनः प्राणे सꣳयुज्यते॥३॥ इति मनोधिकरणम्॥२॥
Link copied४९२ सोऽध्यक्षे तद्-उपगमादिभ्यः॥४।२।४॥
Link copiedसः प्राणः किꣳ तेजसि सꣳयुज्यते, उत जीव इति सꣳशयः। प्राणस् तेजसीति वचनात् तेजस्य् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- उत्क्रान्तौ प्राणस्य जीवोपगमादि-श्रुतेः प्राणः करणाध्यक्षे जीवे सꣳयुज्यते। एतद्-अविरोधाय जीवे सꣳयुज्य पश्चात् तेजः सꣳयोगꣳ, प्राणस् तेजसीति वदति। श्रूयन्ते हि प्राणस्य जीवोपगमादयः, एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति, तम् उत्क्रामन्तꣳ प्राणोऽनूत्क्रामति, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामि, इत्यादिषु॥४॥ इत्य् अध्यक्षाधिकरणम्॥३॥
Link copied४९३-४९४ भूतेषु तच्-छ्रुतेः॥४।२।५॥
Link copiedनैकस्मिन् दर्शयतो हि॥४।२।६॥
Link copiedप्राणस् तेजसीति किꣳ तेजो-मात्रे प्राणः सꣳयुज्यते, उत भूतान्तर-सꣳसृष्ट इति सꣳशयः तेजसीति वचनात् तेजो-मात्र इति पूर्वः पक्षः। पृथिवी-मयः, इत्य्-आदिना सञ्चरतो जीवस्य सर्व-भूत-मयत्व-श्रुते, त्रिवृत्-करण-श्रुति-स्मृतिभ्याꣳ च तेजस एकस्य कार्याक्षमत्वाद् भूतान्तर-सꣳसृष्ट इति राद्धान्तः। सूत्र-द्वयꣳ व्याख्यातम्॥५-६॥ इति भूताधिकरणम्॥४॥
Link copied४९५ समाना चासृत्य्-उपक्रमाद् अमृतत्वꣳ चानुपोष्य॥४।२।७॥
Link copiedइयम् उत्क्रान्तिः किꣳ विद्वद्-अविदुषोः समाना, उताविदुष एवेति सꣳशयः। विदुषोऽत्रैवामृतत्वप्राप्तिश्रुतेरविदुष एवेति पूर्वः पक्षः। श्रूयते हि विदुषोऽत्रैव ब्रह्म-प्राप्तिः--- यदा सर्वे प्रमुच्यन्ते कामायेऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवति, अत्र ब्रह्म समश्नुते, इति। राद्धान्तस् तु--- विदुषोऽर्चिर्-आदिकयैव ब्रह्म-प्राप्तिः, अर्चिर्-आदि-गत्य्-उपक्रमात् प्राग् इयम् उत्क्रान्तिः समाना। गतिश् च मूर्धन्य-नाड्या, शतꣳ चैका च हृदयस्य नाड्यस् तासाꣳ मूर्धानम् अभिनिःसृतैका, तयोर्ध्वम् आयन्न् अमृतत्वम् एति, इति श्रुतेः। यदा सर्वे प्रमुच्यन्ते, इत्य् अनेन गति-श्रुत्य्-अविरोधायामृतत्व-साधन-भूतोपासन-निष्पत्तिर् उच्यते, हृदि स्थिताः कामा यदा प्रमुच्यन्ते, तदैवोपासनारम्भान् मर्त्योऽमृतो भवतीति। काम-विमोक-पूर्वकोपासने स्थितोऽर्चिर्-आदिकया गत्या ब्रह्म समश्नुते इत्य् अर्थः। सूत्रार्थस् तु--- सृतिः गतिः, आगत्य्-उपक्रमाद् उत्क्रान्तिर् विदुषोऽपि समाना, विदुषोऽचिर्-आदि-गति-श्रुतेः, अथ मर्त्योऽमृतो भवति, इत्य् उच्यमानम् अमृतत्वम् अनुपोष्य च--- अदग्ध्वैव शरीरेन्द्रियादि-सम्बन्धम्, उपासनारम्भ-परिकर-रूपम् इत्य् अर्थः॥७॥
Link copied४९६ तद् आपीतेः सꣳसार-व्यपदेशात्॥४।२।८॥
Link copiedतत्--- अमृतत्वम्, उक्त-प्रकारम् एव। कुतः। आपीतेः सꣳसार-व्यपदेशात्। अपीतिः--- ब्रह्म-प्राप्तिः, अर्चिर्-आदिकया गत्या देश-विशेषꣳ गत्वा यावद् ब्रह्म प्राप्यते तावत् सꣳसारः--- शरीर-सम्बन्धो हि व्यपदिश्यते॥८॥
Link copiedगति-व्यपदेशाद् एव शरीराद् उत्क्रान्तस्य कथꣳ शरीर-सम्बन्ध इत्य् अत्राह---
Link copied४९७ सूक्ष्मꣳ प्रमाणतश् च तथोपलब्धेः॥४।२।९॥
Link copiedसूक्ष्म-शरीरम् अनुवर्तते, गति-व्यपदेशात्। न केवलꣳ गति-व्यपदेशाद् एव, प्रमाणान्तरतश् च तथा--- सूक्ष्म-शरीरवत्त्वस्योपलब्धेश् च। विदुषोऽर्चिर्-आदिकया गत्या गच्छतश् चन्द्रमसा सꣳवादोऽयम् उपदिश्यते, तꣳ प्रतिब्रूयात्, सत्यꣳ ब्रूयात्, इत्य् आदिना॥९॥
Link copied४९८ नोपमर्दनातः॥४।२।१०॥
Link copiedअतः--- उक्ताद् धेतु-कलापात्, अथ मर्त्योऽमृतो भवतीति वचनꣳ न देह-सम्बन्धोपमर्देनामृतत्वꣳ वदति, अपि तूक्तम् एवोपासनारम्भ-रूपꣳ वदतीत्य् अथः॥१०॥
Link copied४९९ अस्यैव चोपपत्तेर् ऊष्मा॥४।२।११॥
Link copiedअस्य--- सूक्ष्म-शरीरस्य विद्यमानत्वोपपत्तेश् च न देह-सम्बन्धोपमर्द्रेन। उपलभ्यते ह्य् उत्क्रममाणस्य विदुषः क्वचिद् ऊष्मा सूक्ष्म-देह-गुणः; न चायꣳ स्थूल-देह-गुणः, अन्यत्रानुपलब्धेः। अतो विद्वान् सूक्ष्म-शरीरेणोत्क्रामति॥११॥
Link copied५०० प्रतिषेधाद् इति चेन् न शारीरात् स्पष्टो ह्य् एकेषाम्॥४।२।१२॥
Link copiedस एतास् तेजो-मात्राः इत्य् आरभ्य, इति तु कामयमानः इत्य् अन्तेनाविदुषः उत्क्रान्ति-प्रकारꣳ लोकान्तर-गमनꣳ पुनर्-आवृत्तिꣳ चाभिधाय, अथाकामयमानः इत्य् आदिना, न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्मायेति इति विदुष उत्क्रान्ति-प्रतिषेधाद् उक्त-प्रकारो नोपपद्यत इति चेत् तन् न, शारीरात् प्राणानाम् अविश्लेषोऽनेनोच्यते। तस्य अकामयमानस्य विदुषः शारीरस्य, प्राणाः स्वस्मान् नोत्क्रामन्ति। देवयानेन गमनाय सहैव तिष्ठन्ति। अयम् अर्थः स्पष्टो ह्य् एकेषाꣳ--- माध्यन्दिन-शाखिनाꣳ पाठे, योऽकामो निष्काम आप्त-काम आत्म-कामो न तस्मात् प्राणा उत्क्रामन्ति, इति॥१२॥
Link copied५०१ स्मर्यते च॥४।२।१३॥
Link copiedस्मर्यते च विदुषोऽपि मूर्धन्य-नाड्योत्क्रान्तिः--- ऊर्ध्वम् एकः स्थितस् तेषाꣳ यो भित्त्वा सूर्य-मण्डलम्। ब्रह्म-लोकम् अतिक्रम्य तेन याति पराꣳ गतिम् इति॥१३॥ इत्य् आमृत्युपक्रमाधिकरणम्॥५॥
Link copied५०२ तानि परे तथा ह्य् आह॥४।२।१४॥
Link copiedप्राणस् तेजसीति तेजः-शब्द-निर्दिष्टानि भूतानि जीव-परिष्वरक्तानि परस्याꣳ देवतायाꣳ सम्पद्यन्ते, उत यथाकर्म यथाविद्यꣳ च गच्छन्तीति सꣳशयः। तदानीꣳ सुख-दुःखोप-भोगाद्य्-अभावेन पर-सम्पत्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यम् इति पूर्वः पक्षः। सर्वस्य पर-देवता-कार्यत्वेन तदात्मकत्वाद् गन्तव्य-स्थानम् इदꣳ, परस्याꣳ देवतायाम् इत्य् उच्यते। राद्धान्तस् तु--- तानि परे--- परस्मिन् ब्रह्मणि सम्पद्यन्ते; तेजः परस्याꣳ देवतायाम् इति ह्य् आह श्रुतिः। यथाश्रुति विश्रम-स्थानत्वेन कार्यꣳ परिकल्प्यम् इत्य् अर्थः सूत्रꣳ च व्याख्यातम्॥१४॥ इति पर-सम्पत्त्य्-अधिकरणम्॥६॥
Link copied५०३ अविभागो वचनात्॥४।२।१५॥
Link copiedसेयꣳ परमात्मनि सम्पत्तिः किꣳ प्राकृत-प्रलयवत् कारणापत्ति-रूपा, उत मनः-प्रभृति-सम्पत्तिवद् अविश्लेष-मात्रम् इति सꣳशयः। परमात्मनः कारणत्वात्, तत्-सम्पत्ति-वचनाच् च कारणापत्तिर् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- वाङ्-मनसि सम्पद्यते इति श्रुतस्यैव सम्पत्ति-वचनस्य सर्वत्रानुषङ्गाद् अत्रानुषक्तस्य चाभिधान-वैरूप्यासम्भवाद् अत्राप्य् अविभागः--- अविश्लेष एवोच्यते। सूत्रम् अपि व्याख्यातम्॥१५॥ इत्य् अविभागाधिकरणम्॥७॥
Link copied५०४ तद् ओकोऽग्र-ज्वलनꣳ तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया॥४।२।१६॥
Link copiedशतꣳ चैका च हृदयस्य नाड्यस् तासाꣳ मूर्धानम् अभिनिःसृतैका। तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति, इति शताधिकया मूर्धन्यया नाड्या विदुषो गमनम् इति नियमः सम्भवति, नेति सꣳशयः। नाडीनाम् अतिसूक्ष्मत्वेन दुर्विवेचत्वान् नियमो न सम्भवतीति यादृच्छिकीꣳ तया गतिम् अनुवदतीदꣳ वचनम् इति पूर्वः पक्षः। राद्धान्तस् तु--- परम-पुरुषाराधन-भूतया विद्यया तद्-अङ्ग-भूत-गति-चिन्तनेन च प्रीतेन परम-पुरुषेणानुगृहीतो जीवस् तत्-प्रसाद-प्रकाशित-द्वारस् तयैव मूर्धन्यया नाड्या गच्छतीति॥
Link copiedसूत्रार्थस् तु--- हार्द-परम-पुरुषाराधन-रूप-विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च प्रीत-हार्दानुगृहीतो भवति जीवः, ततः तद्-ओकः--- जीवस्य स्थानꣳ हृदयम्, अग्र-ज्वलनम्--- प्रकाशिताग्रꣳ भवति। एवꣳ परम-पुरुष-प्रकाशित-द्वारः शताधिकया गच्छति; तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः, सर्वस्य चाहꣳ हृदि सन्निविष्टः, इति हार्दः परमात्मा॥१६॥ इति तद्-ओकोधिकरणम्॥८॥
Link copied५०५ रश्म्य्-अनुसारी॥४।२।१७॥
Link copiedअथ यत्रैतद् अस्माच् छरीराद् उत्क्रामत्य् अथैतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते इति विद्वान् रश्म्य्-अनुसारी गच्छतीति नियमः सम्भवति नेति सꣳशयः। निशि मृतस्य विदुषः आदित्य-रश्म्य्-अनुसारासम्भवाद् अनियम इति पूर्वः पक्षः। वचनꣳ तु पक्ष-प्राप्तम् अनुवदति। राद्धान्तस् तु--- वचनस्य पक्ष-प्राप्त्य्-अनुवादित्वे, अथैतैर् एवेत्य् अवधारण-विरोधः। न च निशि रश्मयो न सन्तीति निश्य् अपि निदाघ-समये ऊष्मोपलब्धेः सूक्ष्माः सन्त्य् एवेति रश्म्य्-अनुसार्य् एव गच्छति। हेमन्तेऽनुपलब्धिर् दुर्दिन इव हिमाभिभवात्॥१७॥ इति रश्म्य्-अनुसाराधिकरणम्॥९॥
Link copied५०६ निशि नेति चेन् न सम्बन्धस्य यावद् देह-भावित्वाद् दर्शयति च॥४।२।१८॥
Link copiedविदुषो निशि मृतस्य ब्रह्म-प्राप्तिर् अस्ति, नेति सꣳशयः। दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च। मुमूर्षताꣳ प्रशस्तानि विपरीतꣳ तु गर्हितम्, इति निशा-मरणस्य गर्हितत्वेन अधो-गति-हेतुत्वान् न ब्रह्म-प्राप्तिः सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु---विद्या-माहात्म्याद् उत्तर-पूर्वाघयोर् अश्लेष-विनाश-श्रुतेर् अश्लिष्ट-विनष्टत्वात्, प्रारब्धस्यापि कर्मणः चरम-देहावधित्वाच् च, बन्ध-हेत्व्-अभावान् निशि मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एवेति। अविद्वद्-विषया निशा-मरण-निन्दा॥
Link copiedसूत्रार्थस् तु--- निशा-मरण-निन्दया निशि मृतस्य न ब्रह्म-प्राप्तिर् इति चेत्; तन् न, सम्बन्धस्य यावद् देह-भावित्वाद् अनारब्ध-कार्य-कर्म-सम्बन्धस्य विद्यया विनष्टत्वात् प्रारब्ध-कार्य-कर्म-सम्बन्धस्यापि यावच् चरम-देह-भावित्वाद् बन्ध-हेत्वभावेन ब्रह्म-प्राप्तिर् अस्त्य् एवेत्य् अर्थः। तद् एतच् छ्रुतिश् च दर्शयति--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये इति॥१८॥ इति निशाधिकरणम्॥१०॥
Link copied५०७ अतश् चायनेऽपि दक्षिणे॥४।२।१९॥
Link copiedदक्षिणायने मृतस्य विदुषो ब्रह्म-प्राप्तिर् अस्ति नेति सꣳशयः। अथ यो दक्षिणे प्रमीयते पितृणाम् एव महिमानꣳ गत्वा चन्द्रमसः सायुज्यꣳ गच्छति, इति विदुषो दक्षिणायने मृतस्य चन्द्र-सायुज्य-श्रवणात्, चन्द्रꣳ प्राप्तानाम्--- अथैतम् एवाध्वानꣳ पुनर् निवर्तन्ते इति वचनाच् च, दक्षिणायन-मृतस्य ब्रह्म-प्राप्ति न सम्भवतीति पूर्वः पक्षः। राधान्तस् तु--- पूर्वोक्ताद् बन्ध-हेत्व्-अभावाद् विदुषश् चन्द्रꣳ प्राप्तस्यापि पुनर्-आवृत्तिर् न सम्भवति। चन्द्र-सायुज्य-वचनꣳ विदुषो ब्रह्म-प्रेप्सोर् विश्रम-स्थान-मात्र-वियषम्। आवृत्ति-वचनꣳ त्व् अविदुषाम् एव। सूत्रार्थस् तु--- यतो हेतोर् निशि मृतस्यापि ब्रह्म-प्राप्तिः, तत एव बन्ध-हेत्व्-अभावाद् दक्षिणायने मृतस्यापि ब्रह्म-प्राप्तिर् अस्त्य् एव॥१९॥
Link copiedयत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः, इति मरण-काल-विशेषः स्मर्यत इति चेत् तत्राह---
Link copied५०८ योगिनः प्रति स्मर्येते स्मार्ते चैते॥४।२।२०॥
Link copiedयोगिनः--- ब्रह्म-विद्या-निष्ठान् प्रत्य् एते--- देवयान-पितृयाण-गती, स्मार्ते स्मर्येते, स्मार्ते--- स्मृति-विषय-भूते अहर् अहः स्मर्तव्ये स्मयेते इत्य् अर्थः। यत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः, इत्यादिना, नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन, इत्य् अन्तेन। न मुमूर्षुन् प्रति काल-विशेषोपादानꣳ स्मर्यते। आतिवाहिक-गणस्य कालाभिमानि-देवता-विशेष-भूयस्त्वेन, यत्र काले इत्य् उच्यते॥२०॥ इति दक्षिणायनाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य द्वितीयः पादः॥
Link copied౪౮౯ వాఙ్-మనసి దర్శనాచ్ ఛబ్దాచ్ చ॥౪।౨।౧॥
Link copiedఅస్య సోమ్య పురుషస్య ప్రయతో వాఙ్-మనసి సమ్పద్యతే మనః ప్రాణే, ఇత్య్ ఆదికోత్క్రాన్తి-విషయా ఆమ్నాయతే। తత్ర కిṁ వాగ్-ఇన్ద్రియṁ మనసి సమ్పద్యతే, ఉత వాగ్-వృత్తి-మాత్రమ్ ఇతి సṁశయః। వాచో మనః-ప్రకృతిత్వాభావాత్ స్వరూప-లయస్ తత్ర న సమ్భవతీతి వాగ్-వృత్తి-మాత్రాభిప్రాయమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అకారణే సమ్పత్త్య్-అభావస్య వాగ్-వృత్తావ్ అపి తుల్యత్వ-దర్శనాత్, వాఙ్-మనసీతి వాక్-స్వరూపస్యైవ సమ్పత్తిః। శబ్దాచ్ చ స్వరూపమ్ ఏవ సమ్పద్యతే, వాఙ్-మనసి సమ్పద్యతే ఇతి వాక్-స్వరూప-సమ్పత్తావ్ ఏవ హి శబ్దః న వృత్తి-మాత్ర-సమ్పత్తౌ। అకారణే లయాభావాత్ సమ్పత్తి-శబ్దః సṁయోగాభిప్రాయః। సూత్రṁ చ వ్యాఖ్యాతమ్॥౧॥
Link copied౪౯౦ అత ఏవ సర్వాణ్య్ అను॥౪।౨।౨॥
Link copiedయతో వాచో మనసి సṁయోగ-మాత్రమ్ ఉచ్యతే న తు లయః। అత ఏవ తదానీṁ--- సర్వాణీన్ద్రియాణి వాచమ్ అను మనసి సమ్పద్యన్తే, ఇతి వచనṁ, వాఙ్-మనసి సమ్పద్యత ఇతి వచనవద్ ఉపపన్నమ్, తస్మాద్ ఉపశాన్త-తేజాః--- పునర్భవమ్ ఇన్ద్రియైర్ మనసి సమ్పద్యమానైః, ఇతి॥౨॥ ఇతి వాగ్-అధికరణమ్॥౧॥
Link copied౪౯౧ తన్ మనః ప్రాణ ఉత్తరాత్॥౪।౨।౩॥
Link copiedమనః ప్రాణే, ఇత్య్ అత్ర కిṁ ప్రాణ-శబ్దేనాప ఉచ్యన్తే, ఉత ప్రాణ ఏవేతి సṁశయః। ప్రాణస్య మనః-ప్రకృతిత్వాభావాత్, అన్న-మయ హి సోమ్య మనః, ఇతి మనసోఽన్న-మయత్వ-శ్రవణాత్, అపాṁ చాన్న-ప్రకృతిత్వేన, తత్-సమ్పత్తిర్ ఉపపద్యత ఇతి ప్రాణ-శబ్దేనాప ఉచ్యన్త ఇతి పూర్వః పక్షః; ఆపో-మయః ప్రాణః ఇతి హ్య్ అమ్-మయత్వాత్ ప్రాణస్య ప్రాణ-శబ్దేనాపో వక్తుṁ యుజ్యన్తే ఇతి। రాద్ధాన్తస్ తు--- అన్న-మయṁ హి సోమ్య మనః ఆపో-మయః ప్రాణః, ఇతి మనః-ప్రాణయోర్ న తత్-తత్-ప్రకృతిత్వమ్ ఉచ్యతే; అపి తు తద్-ఆప్యాయనమ్, ఆహఙ్కారికత్వాన్ మనసః, ప్రాణస్య చాకాశ-ప్రకృతిత్వాత్। అతః వాఙ్-మనసీతివత్ తద్-ఉత్తరాత్, మనః ప్రాణే ఇతి శబ్దాత్, తత్-సర్వేన్ద్రియ-సṁయుక్తṁ మనః ప్రాణే సṁయుజ్యతే॥౩॥ ఇతి మనోధికరణమ్॥౨॥
Link copied౪౯౨ సోఽధ్యక్షే తద్-ఉపగమాదిభ్యః॥౪।౨।౪॥
Link copiedసః ప్రాణః కిṁ తేజసి సṁయుజ్యతే, ఉత జీవ ఇతి సṁశయః। ప్రాణస్ తేజసీతి వచనాత్ తేజస్య్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఉత్క్రాన్తౌ ప్రాణస్య జీవోపగమాది-శ్రుతేః ప్రాణః కరణాధ్యక్షే జీవే సṁయుజ్యతే। ఏతద్-అవిరోధాయ జీవే సṁయుజ్య పశ్చాత్ తేజః సṁయోగṁ, ప్రాణస్ తేజసీతి వదతి। శ్రూయన్తే హి ప్రాణస్య జీవోపగమాదయః, ఏవమ్ ఏవేమమ్ ఆత్మానమ్ అన్త-కాలే సర్వే ప్రాణా అభిసమాయన్తి, తమ్ ఉత్క్రామన్తṁ ప్రాణోఽనూత్క్రామతి, కస్మిన్ వా ప్రతిష్ఠితే ప్రతిష్ఠాస్యామి, ఇత్యాదిషు॥౪॥ ఇత్య్ అధ్యక్షాధికరణమ్॥౩॥
Link copied౪౯౩-౪౯౪ భూతేషు తచ్-ఛ్రుతేః॥౪।౨।౫॥
Link copiedనైకస్మిన్ దర్శయతో హి॥౪।౨।౬॥
Link copiedప్రాణస్ తేజసీతి కిṁ తేజో-మాత్రే ప్రాణః సṁయుజ్యతే, ఉత భూతాన్తర-సṁసృష్ట ఇతి సṁశయః తేజసీతి వచనాత్ తేజో-మాత్ర ఇతి పూర్వః పక్షః। పృథివీ-మయః, ఇత్య్-ఆదినా సఞ్చరతో జీవస్య సర్వ-భూత-మయత్వ-శ్రుతే, త్రివృత్-కరణ-శ్రుతి-స్మృతిభ్యాṁ చ తేజస ఏకస్య కార్యాక్షమత్వాద్ భూతాన్తర-సṁసృష్ట ఇతి రాద్ధాన్తః। సూత్ర-ద్వయṁ వ్యాఖ్యాతమ్॥౫-౬॥ ఇతి భూతాధికరణమ్॥౪॥
Link copied౪౯౫ సమానా చాసృత్య్-ఉపక్రమాద్ అమృతత్వṁ చానుపోష్య॥౪।౨।౭॥
Link copiedఇయమ్ ఉత్క్రాన్తిః కిṁ విద్వద్-అవిదుషోః సమానా, ఉతావిదుష ఏవేతి సṁశయః। విదుషోఽత్రైవామృతత్వప్రాప్తిశ్రుతేరవిదుష ఏవేతి పూర్వః పక్షః। శ్రూయతే హి విదుషోఽత్రైవ బ్రహ్మ-ప్రాప్తిః--- యదా సర్వే ప్రముచ్యన్తే కామాయేఽస్య హృది స్థితాః। అథ మర్త్యోఽమృతో భవతి, అత్ర బ్రహ్మ సమశ్నుతే, ఇతి। రాద్ధాన్తస్ తు--- విదుషోఽర్చిర్-ఆదికయైవ బ్రహ్మ-ప్రాప్తిః, అర్చిర్-ఆది-గత్య్-ఉపక్రమాత్ ప్రాగ్ ఇయమ్ ఉత్క్రాన్తిః సమానా। గతిశ్ చ మూర్ధన్య-నాడ్యా, శతṁ చైకా చ హృదయస్య నాడ్యస్ తాసాṁ మూర్ధానమ్ అభినిఃసృతైకా, తయోర్ధ్వమ్ ఆయన్న్ అమృతత్వమ్ ఏతి, ఇతి శ్రుతేః। యదా సర్వే ప్రముచ్యన్తే, ఇత్య్ అనేన గతి-శ్రుత్య్-అవిరోధాయామృతత్వ-సాధన-భూతోపాసన-నిష్పత్తిర్ ఉచ్యతే, హృది స్థితాః కామా యదా ప్రముచ్యన్తే, తదైవోపాసనారమ్భాన్ మర్త్యోఽమృతో భవతీతి। కామ-విమోక-పూర్వకోపాసనే స్థితోఽర్చిర్-ఆదికయా గత్యా బ్రహ్మ సమశ్నుతే ఇత్య్ అర్థః। సూత్రార్థస్ తు--- సృతిః గతిః, ఆగత్య్-ఉపక్రమాద్ ఉత్క్రాన్తిర్ విదుషోఽపి సమానా, విదుషోఽచిర్-ఆది-గతి-శ్రుతేః, అథ మర్త్యోఽమృతో భవతి, ఇత్య్ ఉచ్యమానమ్ అమృతత్వమ్ అనుపోష్య చ--- అదగ్ధ్వైవ శరీరేన్ద్రియాది-సమ్బన్ధమ్, ఉపాసనారమ్భ-పరికర-రూపమ్ ఇత్య్ అర్థః॥౭॥
Link copied౪౯౬ తద్ ఆపీతేః సṁసార-వ్యపదేశాత్॥౪।౨।౮॥
Link copiedతత్--- అమృతత్వమ్, ఉక్త-ప్రకారమ్ ఏవ। కుతః। ఆపీతేః సṁసార-వ్యపదేశాత్। అపీతిః--- బ్రహ్మ-ప్రాప్తిః, అర్చిర్-ఆదికయా గత్యా దేశ-విశేషṁ గత్వా యావద్ బ్రహ్మ ప్రాప్యతే తావత్ సṁసారః--- శరీర-సమ్బన్ధో హి వ్యపదిశ్యతే॥౮॥
Link copiedగతి-వ్యపదేశాద్ ఏవ శరీరాద్ ఉత్క్రాన్తస్య కథṁ శరీర-సమ్బన్ధ ఇత్య్ అత్రాహ---
Link copied౪౯౭ సూక్ష్మṁ ప్రమాణతశ్ చ తథోపలబ్ధేః॥౪।౨।౯॥
Link copiedసూక్ష్మ-శరీరమ్ అనువర్తతే, గతి-వ్యపదేశాత్। న కేవలṁ గతి-వ్యపదేశాద్ ఏవ, ప్రమాణాన్తరతశ్ చ తథా--- సూక్ష్మ-శరీరవత్త్వస్యోపలబ్ధేశ్ చ। విదుషోఽర్చిర్-ఆదికయా గత్యా గచ్ఛతశ్ చన్ద్రమసా సṁవాదోఽయమ్ ఉపదిశ్యతే, తṁ ప్రతిబ్రూయాత్, సత్యṁ బ్రూయాత్, ఇత్య్ ఆదినా॥౯॥
Link copied౪౯౮ నోపమర్దనాతః॥౪।౨।౧౦॥
Link copiedఅతః--- ఉక్తాద్ ధేతు-కలాపాత్, అథ మర్త్యోఽమృతో భవతీతి వచనṁ న దేహ-సమ్బన్ధోపమర్దేనామృతత్వṁ వదతి, అపి తూక్తమ్ ఏవోపాసనారమ్భ-రూపṁ వదతీత్య్ అథః॥౧౦॥
Link copied౪౯౯ అస్యైవ చోపపత్తేర్ ఊష్మా॥౪।౨।౧౧॥
Link copiedఅస్య--- సూక్ష్మ-శరీరస్య విద్యమానత్వోపపత్తేశ్ చ న దేహ-సమ్బన్ధోపమర్ద్రేన। ఉపలభ్యతే హ్య్ ఉత్క్రమమాణస్య విదుషః క్వచిద్ ఊష్మా సూక్ష్మ-దేహ-గుణః; న చాయṁ స్థూల-దేహ-గుణః, అన్యత్రానుపలబ్ధేః। అతో విద్వాన్ సూక్ష్మ-శరీరేణోత్క్రామతి॥౧౧॥
Link copied౫౦౦ ప్రతిషేధాద్ ఇతి చేన్ న శారీరాత్ స్పష్టో హ్య్ ఏకేషామ్॥౪।౨।౧౨॥
Link copiedస ఏతాస్ తేజో-మాత్రాః ఇత్య్ ఆరభ్య, ఇతి తు కామయమానః ఇత్య్ అన్తేనావిదుషః ఉత్క్రాన్తి-ప్రకారṁ లోకాన్తర-గమనṁ పునర్-ఆవృత్తిṁ చాభిధాయ, అథాకామయమానః ఇత్య్ ఆదినా, న తస్య ప్రాణా ఉత్క్రామన్తి బ్రహ్మైవ సన్ బ్రహ్మాయేతి ఇతి విదుష ఉత్క్రాన్తి-ప్రతిషేధాద్ ఉక్త-ప్రకారో నోపపద్యత ఇతి చేత్ తన్ న, శారీరాత్ ప్రాణానామ్ అవిశ్లేషోఽనేనోచ్యతే। తస్య అకామయమానస్య విదుషః శారీరస్య, ప్రాణాః స్వస్మాన్ నోత్క్రామన్తి। దేవయానేన గమనాయ సహైవ తిష్ఠన్తి। అయమ్ అర్థః స్పష్టో హ్య్ ఏకేషాṁ--- మాధ్యన్దిన-శాఖినాṁ పాఠే, యోఽకామో నిష్కామ ఆప్త-కామ ఆత్మ-కామో న తస్మాత్ ప్రాణా ఉత్క్రామన్తి, ఇతి॥౧౨॥
Link copied౫౦౧ స్మర్యతే చ॥౪।౨।౧౩॥
Link copiedస్మర్యతే చ విదుషోఽపి మూర్ధన్య-నాడ్యోత్క్రాన్తిః--- ఊర్ధ్వమ్ ఏకః స్థితస్ తేషాṁ యో భిత్త్వా సూర్య-మణ్డలమ్। బ్రహ్మ-లోకమ్ అతిక్రమ్య తేన యాతి పరాṁ గతిమ్ ఇతి॥౧౩॥ ఇత్య్ ఆమృత్యుపక్రమాధికరణమ్॥౫॥
Link copied౫౦౨ తాని పరే తథా హ్య్ ఆహ॥౪।౨।౧౪॥
Link copiedప్రాణస్ తేజసీతి తేజః-శబ్ద-నిర్దిష్టాని భూతాని జీవ-పరిష్వరక్తాని పరస్యాṁ దేవతాయాṁ సమ్పద్యన్తే, ఉత యథాకర్మ యథావిద్యṁ చ గచ్ఛన్తీతి సṁశయః। తదానీṁ సుఖ-దుఃఖోప-భోగాద్య్-అభావేన పర-సమ్పత్తౌ ప్రయోజనాభావాద్ యథాకర్మ యథావిద్యమ్ ఇతి పూర్వః పక్షః। సర్వస్య పర-దేవతా-కార్యత్వేన తదాత్మకత్వాద్ గన్తవ్య-స్థానమ్ ఇదṁ, పరస్యాṁ దేవతాయామ్ ఇత్య్ ఉచ్యతే। రాద్ధాన్తస్ తు--- తాని పరే--- పరస్మిన్ బ్రహ్మణి సమ్పద్యన్తే; తేజః పరస్యాṁ దేవతాయామ్ ఇతి హ్య్ ఆహ శ్రుతిః। యథాశ్రుతి విశ్రమ-స్థానత్వేన కార్యṁ పరికల్ప్యమ్ ఇత్య్ అర్థః సూత్రṁ చ వ్యాఖ్యాతమ్॥౧౪॥ ఇతి పర-సమ్పత్త్య్-అధికరణమ్॥౬॥
Link copied౫౦౩ అవిభాగో వచనాత్॥౪।౨।౧౫॥
Link copiedసేయṁ పరమాత్మని సమ్పత్తిః కిṁ ప్రాకృత-ప్రలయవత్ కారణాపత్తి-రూపా, ఉత మనః-ప్రభృతి-సమ్పత్తివద్ అవిశ్లేష-మాత్రమ్ ఇతి సṁశయః। పరమాత్మనః కారణత్వాత్, తత్-సమ్పత్తి-వచనాచ్ చ కారణాపత్తిర్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- వాఙ్-మనసి సమ్పద్యతే ఇతి శ్రుతస్యైవ సమ్పత్తి-వచనస్య సర్వత్రానుషఙ్గాద్ అత్రానుషక్తస్య చాభిధాన-వైరూప్యాసమ్భవాద్ అత్రాప్య్ అవిభాగః--- అవిశ్లేష ఏవోచ్యతే। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౫॥ ఇత్య్ అవిభాగాధికరణమ్॥౭॥
Link copied౫౦౪ తద్ ఓకోఽగ్ర-జ్వలనṁ తత్-ప్రకాశిత-ద్వారో విద్యా-సామర్థ్యాత్ తచ్-ఛేష-గత్య్-అనుస్మృతి-యోగాచ్ చ హార్దానుగృహీతః శతాధికయా॥౪।౨।౧౬॥
Link copiedశతṁ చైకా చ హృదయస్య నాడ్యస్ తాసాṁ మూర్ధానమ్ అభినిఃసృతైకా। తయోర్ధ్వమ్ ఆయన్న్ అమృతత్వమ్ ఏతి విష్వఙ్ఙ్ అన్యా ఉత్క్రమణే భవన్తి, ఇతి శతాధికయా మూర్ధన్యయా నాడ్యా విదుషో గమనమ్ ఇతి నియమః సమ్భవతి, నేతి సṁశయః। నాడీనామ్ అతిసూక్ష్మత్వేన దుర్వివేచత్వాన్ నియమో న సమ్భవతీతి యాదృచ్ఛికీṁ తయా గతిమ్ అనువదతీదṁ వచనమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- పరమ-పురుషారాధన-భూతయా విద్యయా తద్-అఙ్గ-భూత-గతి-చిన్తనేన చ ప్రీతేన పరమ-పురుషేణానుగృహీతో జీవస్ తత్-ప్రసాద-ప్రకాశిత-ద్వారస్ తయైవ మూర్ధన్యయా నాడ్యా గచ్ఛతీతి॥
Link copiedసూత్రార్థస్ తు--- హార్ద-పరమ-పురుషారాధన-రూప-విద్యా-సామర్థ్యాత్ తచ్-ఛేష-గత్య్-అనుస్మృతి-యోగాచ్ చ ప్రీత-హార్దానుగృహీతో భవతి జీవః, తతః తద్-ఓకః--- జీవస్య స్థానṁ హృదయమ్, అగ్ర-జ్వలనమ్--- ప్రకాశితాగ్రṁ భవతి। ఏవṁ పరమ-పురుష-ప్రకాశిత-ద్వారః శతాధికయా గచ్ఛతి; తస్యాః శిఖాయా మధ్యే పరమాత్మా వ్యవస్థితః, సర్వస్య చాహṁ హృది సన్నివిష్టః, ఇతి హార్దః పరమాత్మా॥౧౬॥ ఇతి తద్-ఓకోధికరణమ్॥౮॥
Link copied౫౦౫ రశ్మ్య్-అనుసారీ॥౪।౨।౧౭॥
Link copiedఅథ యత్రైతద్ అస్మాచ్ ఛరీరాద్ ఉత్క్రామత్య్ అథైతైర్ ఏవ రశ్మిభిర్ ఊర్ధ్వమ్ ఆక్రమతే ఇతి విద్వాన్ రశ్మ్య్-అనుసారీ గచ్ఛతీతి నియమః సమ్భవతి నేతి సṁశయః। నిశి మృతస్య విదుషః ఆదిత్య-రశ్మ్య్-అనుసారాసమ్భవాద్ అనియమ ఇతి పూర్వః పక్షః। వచనṁ తు పక్ష-ప్రాప్తమ్ అనువదతి। రాద్ధాన్తస్ తు--- వచనస్య పక్ష-ప్రాప్త్య్-అనువాదిత్వే, అథైతైర్ ఏవేత్య్ అవధారణ-విరోధః। న చ నిశి రశ్మయో న సన్తీతి నిశ్య్ అపి నిదాఘ-సమయే ఊష్మోపలబ్ధేః సూక్ష్మాః సన్త్య్ ఏవేతి రశ్మ్య్-అనుసార్య్ ఏవ గచ్ఛతి। హేమన్తేఽనుపలబ్ధిర్ దుర్దిన ఇవ హిమాభిభవాత్॥౧౭॥ ఇతి రశ్మ్య్-అనుసారాధికరణమ్॥౯॥
Link copied౫౦౬ నిశి నేతి చేన్ న సమ్బన్ధస్య యావద్ దేహ-భావిత్వాద్ దర్శయతి చ॥౪।౨।౧౮॥
Link copiedవిదుషో నిశి మృతస్య బ్రహ్మ-ప్రాప్తిర్ అస్తి, నేతి సṁశయః। దివా చ శుక్ల-పక్షశ్ చ ఉత్తరాయణమ్ ఏవ చ। ముమూర్షతాṁ ప్రశస్తాని విపరీతṁ తు గర్హితమ్, ఇతి నిశా-మరణస్య గర్హితత్వేన అధో-గతి-హేతుత్వాన్ న బ్రహ్మ-ప్రాప్తిః సమ్భవతీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు---విద్యా-మాహాత్మ్యాద్ ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశ-శ్రుతేర్ అశ్లిష్ట-వినష్టత్వాత్, ప్రారబ్ధస్యాపి కర్మణః చరమ-దేహావధిత్వాచ్ చ, బన్ధ-హేత్వ్-అభావాన్ నిశి మృతస్యాపి బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవేతి। అవిద్వద్-విషయా నిశా-మరణ-నిన్దా॥
Link copiedసూత్రార్థస్ తు--- నిశా-మరణ-నిన్దయా నిశి మృతస్య న బ్రహ్మ-ప్రాప్తిర్ ఇతి చేత్; తన్ న, సమ్బన్ధస్య యావద్ దేహ-భావిత్వాద్ అనారబ్ధ-కార్య-కర్మ-సమ్బన్ధస్య విద్యయా వినష్టత్వాత్ ప్రారబ్ధ-కార్య-కర్మ-సమ్బన్ధస్యాపి యావచ్ చరమ-దేహ-భావిత్వాద్ బన్ధ-హేత్వభావేన బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవేత్య్ అర్థః। తద్ ఏతచ్ ఛ్రుతిశ్ చ దర్శయతి--- తస్య తావద్ ఏవ చిరṁ యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే ఇతి॥౧౮॥ ఇతి నిశాధికరణమ్॥౧౦॥
Link copied౫౦౭ అతశ్ చాయనేఽపి దక్షిణే॥౪।౨।౧౯॥
Link copiedదక్షిణాయనే మృతస్య విదుషో బ్రహ్మ-ప్రాప్తిర్ అస్తి నేతి సṁశయః। అథ యో దక్షిణే ప్రమీయతే పితృణామ్ ఏవ మహిమానṁ గత్వా చన్ద్రమసః సాయుజ్యṁ గచ్ఛతి, ఇతి విదుషో దక్షిణాయనే మృతస్య చన్ద్ర-సాయుజ్య-శ్రవణాత్, చన్ద్రṁ ప్రాప్తానామ్--- అథైతమ్ ఏవాధ్వానṁ పునర్ నివర్తన్తే ఇతి వచనాచ్ చ, దక్షిణాయన-మృతస్య బ్రహ్మ-ప్రాప్తి న సమ్భవతీతి పూర్వః పక్షః। రాధాన్తస్ తు--- పూర్వోక్తాద్ బన్ధ-హేత్వ్-అభావాద్ విదుషశ్ చన్ద్రṁ ప్రాప్తస్యాపి పునర్-ఆవృత్తిర్ న సమ్భవతి। చన్ద్ర-సాయుజ్య-వచనṁ విదుషో బ్రహ్మ-ప్రేప్సోర్ విశ్రమ-స్థాన-మాత్ర-వియషమ్। ఆవృత్తి-వచనṁ త్వ్ అవిదుషామ్ ఏవ। సూత్రార్థస్ తు--- యతో హేతోర్ నిశి మృతస్యాపి బ్రహ్మ-ప్రాప్తిః, తత ఏవ బన్ధ-హేత్వ్-అభావాద్ దక్షిణాయనే మృతస్యాపి బ్రహ్మ-ప్రాప్తిర్ అస్త్య్ ఏవ॥౧౯॥
Link copiedయత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిṁ చైవ యోగినః, ఇతి మరణ-కాల-విశేషః స్మర్యత ఇతి చేత్ తత్రాహ---
Link copied౫౦౮ యోగినః ప్రతి స్మర్యేతే స్మార్తే చైతే॥౪।౨।౨౦॥
Link copiedయోగినః--- బ్రహ్మ-విద్యా-నిష్ఠాన్ ప్రత్య్ ఏతే--- దేవయాన-పితృయాణ-గతీ, స్మార్తే స్మర్యేతే, స్మార్తే--- స్మృతి-విషయ-భూతే అహర్ అహః స్మర్తవ్యే స్మయేతే ఇత్య్ అర్థః। యత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిṁ చైవ యోగినః, ఇత్యాదినా, నైతే సృతీ పార్థ జానన్ యోగీ ముహ్యతి కశ్చన। తస్మాత్ సర్వేషు కాలేషు యోగ-యుక్తో భవార్జున, ఇత్య్ అన్తేన। న ముమూర్షున్ ప్రతి కాల-విశేషోపాదానṁ స్మర్యతే। ఆతివాహిక-గణస్య కాలాభిమాని-దేవతా-విశేష-భూయస్త్వేన, యత్ర కాలే ఇత్య్ ఉచ్యతే॥౨౦॥ ఇతి దక్షిణాయనాధికరణమ్॥౧౧॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య ద్వితీయః పాదః॥
Link copied489 vāṅ-manasi darśanāc chabdāc ca||4|2|1||
Link copiedasya somya puruṣasya prayato vāṅ-manasi sampadyate manaḥ prāṇe, ity ādikotkrānti-viṣayā āmnāyate| tatra kiṁ vāg-indriyaṁ manasi sampadyate, uta vāg-vṛtti-mātram iti saṁśayaḥ| vāco manaḥ-prakṛtitvābhāvāt svarūpa-layas tatra na sambhavatīti vāg-vṛtti-mātrābhiprāyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- akāraṇe sampatty-abhāvasya vāg-vṛttāv api tulyatva-darśanāt, vāṅ-manasīti vāk-svarūpasyaiva sampattiḥ| śabdāc ca svarūpam eva sampadyate, vāṅ-manasi sampadyate iti vāk-svarūpa-sampattāv eva hi śabdaḥ na vṛtti-mātra-sampattau| akāraṇe layābhāvāt sampatti-śabdaḥ saṁyogābhiprāyaḥ| sūtraṁ ca vyākhyātam||1||
Link copied490 ata eva sarvāṇy anu||4|2|2||
Link copiedyato vāco manasi saṁyoga-mātram ucyate na tu layaḥ| ata eva tadānīṁ--- sarvāṇīndriyāṇi vācam anu manasi sampadyante, iti vacanaṁ, vāṅ-manasi sampadyata iti vacanavad upapannam, tasmād upaśānta-tejāḥ--- punarbhavam indriyair manasi sampadyamānaiḥ, iti||2|| iti vāg-adhikaraṇam||1||
Link copied491 tan manaḥ prāṇa uttarāt||4|2|3||
Link copiedmanaḥ prāṇe, ity atra kiṁ prāṇa-śabdenāpa ucyante, uta prāṇa eveti saṁśayaḥ| prāṇasya manaḥ-prakṛtitvābhāvāt, anna-maya hi somya manaḥ, iti manaso'nna-mayatva-śravaṇāt, apāṁ cānna-prakṛtitvena, tat-sampattir upapadyata iti prāṇa-śabdenāpa ucyanta iti pūrvaḥ pakṣaḥ; āpo-mayaḥ prāṇaḥ iti hy am-mayatvāt prāṇasya prāṇa-śabdenāpo vaktuṁ yujyante iti| rāddhāntas tu--- anna-mayaṁ hi somya manaḥ āpo-mayaḥ prāṇaḥ, iti manaḥ-prāṇayor na tat-tat-prakṛtitvam ucyate; api tu tad-āpyāyanam, āhaṅkārikatvān manasaḥ, prāṇasya cākāśa-prakṛtitvāt| ataḥ vāṅ-manasītivat tad-uttarāt, manaḥ prāṇe iti śabdāt, tat-sarvendriya-saṁyuktaṁ manaḥ prāṇe saṁyujyate||3|| iti manodhikaraṇam||2||
Link copied492 so'dhyakṣe tad-upagamādibhyaḥ||4|2|4||
Link copiedsaḥ prāṇaḥ kiṁ tejasi saṁyujyate, uta jīva iti saṁśayaḥ| prāṇas tejasīti vacanāt tejasy eveti pūrvaḥ pakṣaḥ| rāddhāntas tu--- utkrāntau prāṇasya jīvopagamādi-śruteḥ prāṇaḥ karaṇādhyakṣe jīve saṁyujyate| etad-avirodhāya jīve saṁyujya paścāt tejaḥ saṁyogaṁ, prāṇas tejasīti vadati| śrūyante hi prāṇasya jīvopagamādayaḥ, evam evemam ātmānam anta-kāle sarve prāṇā abhisamāyanti, tam utkrāmantaṁ prāṇo'nūtkrāmati, kasmin vā pratiṣṭhite pratiṣṭhāsyāmi, ityādiṣu||4|| ity adhyakṣādhikaraṇam||3||
Link copied493-494 bhūteṣu tac-chruteḥ||4|2|5||
Link copiednaikasmin darśayato hi||4|2|6||
Link copiedprāṇas tejasīti kiṁ tejo-mātre prāṇaḥ saṁyujyate, uta bhūtāntara-saṁsṛṣṭa iti saṁśayaḥ tejasīti vacanāt tejo-mātra iti pūrvaḥ pakṣaḥ| pṛthivī-mayaḥ, ity-ādinā sañcarato jīvasya sarva-bhūta-mayatva-śrute, trivṛt-karaṇa-śruti-smṛtibhyāṁ ca tejasa ekasya kāryākṣamatvād bhūtāntara-saṁsṛṣṭa iti rāddhāntaḥ| sūtra-dvayaṁ vyākhyātam||5-6|| iti bhūtādhikaraṇam||4||
Link copied495 samānā cāsṛty-upakramād amṛtatvaṁ cānupoṣya||4|2|7||
Link copiediyam utkrāntiḥ kiṁ vidvad-aviduṣoḥ samānā, utāviduṣa eveti saṁśayaḥ| viduṣo'traivāmṛtatvaprāptiśruteraviduṣa eveti pūrvaḥ pakṣaḥ| śrūyate hi viduṣo'traiva brahma-prāptiḥ--- yadā sarve pramucyante kāmāye'sya hṛdi sthitāḥ| atha martyo'mṛto bhavati, atra brahma samaśnute, iti| rāddhāntas tu--- viduṣo'rcir-ādikayaiva brahma-prāptiḥ, arcir-ādi-gaty-upakramāt prāg iyam utkrāntiḥ samānā| gatiś ca mūrdhanya-nāḍyā, śataṁ caikā ca hṛdayasya nāḍyas tāsāṁ mūrdhānam abhiniḥsṛtaikā, tayordhvam āyann amṛtatvam eti, iti śruteḥ| yadā sarve pramucyante, ity anena gati-śruty-avirodhāyāmṛtatva-sādhana-bhūtopāsana-niṣpattir ucyate, hṛdi sthitāḥ kāmā yadā pramucyante, tadaivopāsanārambhān martyo'mṛto bhavatīti| kāma-vimoka-pūrvakopāsane sthito'rcir-ādikayā gatyā brahma samaśnute ity arthaḥ| sūtrārthas tu--- sṛtiḥ gatiḥ, āgaty-upakramād utkrāntir viduṣo'pi samānā, viduṣo'cir-ādi-gati-śruteḥ, atha martyo'mṛto bhavati, ity ucyamānam amṛtatvam anupoṣya ca--- adagdhvaiva śarīrendriyādi-sambandham, upāsanārambha-parikara-rūpam ity arthaḥ||7||
Link copied496 tad āpīteḥ saṁsāra-vyapadeśāt||4|2|8||
Link copiedtat--- amṛtatvam, ukta-prakāram eva| kutaḥ| āpīteḥ saṁsāra-vyapadeśāt| apītiḥ--- brahma-prāptiḥ, arcir-ādikayā gatyā deśa-viśeṣaṁ gatvā yāvad brahma prāpyate tāvat saṁsāraḥ--- śarīra-sambandho hi vyapadiśyate||8||
Link copiedgati-vyapadeśād eva śarīrād utkrāntasya kathaṁ śarīra-sambandha ity atrāha---
Link copied497 sūkṣmaṁ pramāṇataś ca tathopalabdheḥ||4|2|9||
Link copiedsūkṣma-śarīram anuvartate, gati-vyapadeśāt| na kevalaṁ gati-vyapadeśād eva, pramāṇāntarataś ca tathā--- sūkṣma-śarīravattvasyopalabdheś ca| viduṣo'rcir-ādikayā gatyā gacchataś candramasā saṁvādo'yam upadiśyate, taṁ pratibrūyāt, satyaṁ brūyāt, ity ādinā||9||
Link copied498 nopamardanātaḥ||4|2|10||
Link copiedataḥ--- uktād dhetu-kalāpāt, atha martyo'mṛto bhavatīti vacanaṁ na deha-sambandhopamardenāmṛtatvaṁ vadati, api tūktam evopāsanārambha-rūpaṁ vadatīty athaḥ||10||
Link copied499 asyaiva copapatter ūṣmā||4|2|11||
Link copiedasya--- sūkṣma-śarīrasya vidyamānatvopapatteś ca na deha-sambandhopamardrena| upalabhyate hy utkramamāṇasya viduṣaḥ kvacid ūṣmā sūkṣma-deha-guṇaḥ; na cāyaṁ sthūla-deha-guṇaḥ, anyatrānupalabdheḥ| ato vidvān sūkṣma-śarīreṇotkrāmati||11||
Link copied500 pratiṣedhād iti cen na śārīrāt spaṣṭo hy ekeṣām||4|2|12||
Link copiedsa etās tejo-mātrāḥ ity ārabhya, iti tu kāmayamānaḥ ity antenāviduṣaḥ utkrānti-prakāraṁ lokāntara-gamanaṁ punar-āvṛttiṁ cābhidhāya, athākāmayamānaḥ ity ādinā, na tasya prāṇā utkrāmanti brahmaiva san brahmāyeti iti viduṣa utkrānti-pratiṣedhād ukta-prakāro nopapadyata iti cet tan na, śārīrāt prāṇānām aviśleṣo'nenocyate| tasya akāmayamānasya viduṣaḥ śārīrasya, prāṇāḥ svasmān notkrāmanti| devayānena gamanāya sahaiva tiṣṭhanti| ayam arthaḥ spaṣṭo hy ekeṣāṁ--- mādhyandina-śākhināṁ pāṭhe, yo'kāmo niṣkāma āpta-kāma ātma-kāmo na tasmāt prāṇā utkrāmanti, iti||12||
Link copied501 smaryate ca||4|2|13||
Link copiedsmaryate ca viduṣo'pi mūrdhanya-nāḍyotkrāntiḥ--- ūrdhvam ekaḥ sthitas teṣāṁ yo bhittvā sūrya-maṇḍalam| brahma-lokam atikramya tena yāti parāṁ gatim iti||13|| ity āmṛtyupakramādhikaraṇam||5||
Link copied502 tāni pare tathā hy āha||4|2|14||
Link copiedprāṇas tejasīti tejaḥ-śabda-nirdiṣṭāni bhūtāni jīva-pariṣvaraktāni parasyāṁ devatāyāṁ sampadyante, uta yathākarma yathāvidyaṁ ca gacchantīti saṁśayaḥ| tadānīṁ sukha-duḥkhopa-bhogādy-abhāvena para-sampattau prayojanābhāvād yathākarma yathāvidyam iti pūrvaḥ pakṣaḥ| sarvasya para-devatā-kāryatvena tadātmakatvād gantavya-sthānam idaṁ, parasyāṁ devatāyām ity ucyate| rāddhāntas tu--- tāni pare--- parasmin brahmaṇi sampadyante; tejaḥ parasyāṁ devatāyām iti hy āha śrutiḥ| yathāśruti viśrama-sthānatvena kāryaṁ parikalpyam ity arthaḥ sūtraṁ ca vyākhyātam||14|| iti para-sampatty-adhikaraṇam||6||
Link copied503 avibhāgo vacanāt||4|2|15||
Link copiedseyaṁ paramātmani sampattiḥ kiṁ prākṛta-pralayavat kāraṇāpatti-rūpā, uta manaḥ-prabhṛti-sampattivad aviśleṣa-mātram iti saṁśayaḥ| paramātmanaḥ kāraṇatvāt, tat-sampatti-vacanāc ca kāraṇāpattir eveti pūrvaḥ pakṣaḥ| rāddhāntas tu--- vāṅ-manasi sampadyate iti śrutasyaiva sampatti-vacanasya sarvatrānuṣaṅgād atrānuṣaktasya cābhidhāna-vairūpyāsambhavād atrāpy avibhāgaḥ--- aviśleṣa evocyate| sūtram api vyākhyātam||15|| ity avibhāgādhikaraṇam||7||
Link copied504 tad oko'gra-jvalanaṁ tat-prakāśita-dvāro vidyā-sāmarthyāt tac-cheṣa-gaty-anusmṛti-yogāc ca hārdānugṛhītaḥ śatādhikayā||4|2|16||
Link copiedśataṁ caikā ca hṛdayasya nāḍyas tāsāṁ mūrdhānam abhiniḥsṛtaikā| tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanti, iti śatādhikayā mūrdhanyayā nāḍyā viduṣo gamanam iti niyamaḥ sambhavati, neti saṁśayaḥ| nāḍīnām atisūkṣmatvena durvivecatvān niyamo na sambhavatīti yādṛcchikīṁ tayā gatim anuvadatīdaṁ vacanam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- parama-puruṣārādhana-bhūtayā vidyayā tad-aṅga-bhūta-gati-cintanena ca prītena parama-puruṣeṇānugṛhīto jīvas tat-prasāda-prakāśita-dvāras tayaiva mūrdhanyayā nāḍyā gacchatīti||
Link copiedsūtrārthas tu--- hārda-parama-puruṣārādhana-rūpa-vidyā-sāmarthyāt tac-cheṣa-gaty-anusmṛti-yogāc ca prīta-hārdānugṛhīto bhavati jīvaḥ, tataḥ tad-okaḥ--- jīvasya sthānaṁ hṛdayam, agra-jvalanam--- prakāśitāgraṁ bhavati| evaṁ parama-puruṣa-prakāśita-dvāraḥ śatādhikayā gacchati; tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ, sarvasya cāhaṁ hṛdi sanniviṣṭaḥ, iti hārdaḥ paramātmā||16|| iti tad-okodhikaraṇam||8||
Link copied505 raśmy-anusārī||4|2|17||
Link copiedatha yatraitad asmāc charīrād utkrāmaty athaitair eva raśmibhir ūrdhvam ākramate iti vidvān raśmy-anusārī gacchatīti niyamaḥ sambhavati neti saṁśayaḥ| niśi mṛtasya viduṣaḥ āditya-raśmy-anusārāsambhavād aniyama iti pūrvaḥ pakṣaḥ| vacanaṁ tu pakṣa-prāptam anuvadati| rāddhāntas tu--- vacanasya pakṣa-prāpty-anuvāditve, athaitair evety avadhāraṇa-virodhaḥ| na ca niśi raśmayo na santīti niśy api nidāgha-samaye ūṣmopalabdheḥ sūkṣmāḥ santy eveti raśmy-anusāry eva gacchati| hemante'nupalabdhir durdina iva himābhibhavāt||17|| iti raśmy-anusārādhikaraṇam||9||
Link copied506 niśi neti cen na sambandhasya yāvad deha-bhāvitvād darśayati ca||4|2|18||
Link copiedviduṣo niśi mṛtasya brahma-prāptir asti, neti saṁśayaḥ| divā ca śukla-pakṣaś ca uttarāyaṇam eva ca| mumūrṣatāṁ praśastāni viparītaṁ tu garhitam, iti niśā-maraṇasya garhitatvena adho-gati-hetutvān na brahma-prāptiḥ sambhavatīti pūrvaḥ pakṣaḥ| rāddhāntas tu---vidyā-māhātmyād uttara-pūrvāghayor aśleṣa-vināśa-śruter aśliṣṭa-vinaṣṭatvāt, prārabdhasyāpi karmaṇaḥ carama-dehāvadhitvāc ca, bandha-hetv-abhāvān niśi mṛtasyāpi brahma-prāptir asty eveti| avidvad-viṣayā niśā-maraṇa-nindā||
Link copiedsūtrārthas tu--- niśā-maraṇa-nindayā niśi mṛtasya na brahma-prāptir iti cet; tan na, sambandhasya yāvad deha-bhāvitvād anārabdha-kārya-karma-sambandhasya vidyayā vinaṣṭatvāt prārabdha-kārya-karma-sambandhasyāpi yāvac carama-deha-bhāvitvād bandha-hetvabhāvena brahma-prāptir asty evety arthaḥ| tad etac chrutiś ca darśayati--- tasya tāvad eva ciraṁ yāvan na vimokṣye atha sampatsye iti||18|| iti niśādhikaraṇam||10||
Link copied507 ataś cāyane'pi dakṣiṇe||4|2|19||
Link copieddakṣiṇāyane mṛtasya viduṣo brahma-prāptir asti neti saṁśayaḥ| atha yo dakṣiṇe pramīyate pitṛṇām eva mahimānaṁ gatvā candramasaḥ sāyujyaṁ gacchati, iti viduṣo dakṣiṇāyane mṛtasya candra-sāyujya-śravaṇāt, candraṁ prāptānām--- athaitam evādhvānaṁ punar nivartante iti vacanāc ca, dakṣiṇāyana-mṛtasya brahma-prāpti na sambhavatīti pūrvaḥ pakṣaḥ| rādhāntas tu--- pūrvoktād bandha-hetv-abhāvād viduṣaś candraṁ prāptasyāpi punar-āvṛttir na sambhavati| candra-sāyujya-vacanaṁ viduṣo brahma-prepsor viśrama-sthāna-mātra-viyaṣam| āvṛtti-vacanaṁ tv aviduṣām eva| sūtrārthas tu--- yato hetor niśi mṛtasyāpi brahma-prāptiḥ, tata eva bandha-hetv-abhāvād dakṣiṇāyane mṛtasyāpi brahma-prāptir asty eva||19||
Link copiedyatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ, iti maraṇa-kāla-viśeṣaḥ smaryata iti cet tatrāha---
Link copied508 yoginaḥ prati smaryete smārte caite||4|2|20||
Link copiedyoginaḥ--- brahma-vidyā-niṣṭhān praty ete--- devayāna-pitṛyāṇa-gatī, smārte smaryete, smārte--- smṛti-viṣaya-bhūte ahar ahaḥ smartavye smayete ity arthaḥ| yatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ, ityādinā, naite sṛtī pārtha jānan yogī muhyati kaścana| tasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna, ity antena| na mumūrṣun prati kāla-viśeṣopādānaṁ smaryate| ātivāhika-gaṇasya kālābhimāni-devatā-viśeṣa-bhūyastvena, yatra kāle ity ucyate||20|| iti dakṣiṇāyanādhikaraṇam||11||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe caturthasyādhyāyasya dvitīyaḥ pādaḥ||
Link copied