Skip to content

Vedanta Dipa · Section 14 of 17

||atha caturthādhyāye prathamaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

४७० आवृत्तिर् असकृद् उपदेशात्॥४।१।१॥

Link copied

ब्रह्म-विद् आप्नोति परम्, तम् एवꣳ विद्वान् अमृत इह भवति, इत्य् आदि वेदान्त-विहितꣳ वेदनꣳ किꣳ सकृत् कृतम् एव शास्त्रार्थः, उतासकृद् आवृत्तम् इति सꣳशयः। सकृत् कृतम् एवेति पूर्वः पक्षः, स यो ह वै तत् परमꣳ ब्रह्म वेद ब्रह्मैव भवति, इत्य् आदौ वेदनस्यैव मुक्त्य्-उपायत्व-प्रतिपादनात्, सकृत् कृतेऽपि वेदने शास्त्रार्थ-निर्वृत्तेः, तस्यासकृद् आवृत्तौ प्रमाणाभावात्। राद्धान्तस् तु--- यस् तद् वेद यत् स वेद स मयैतद् उक्तः, इत्य् उपक्रम्य, अनु म एताꣳ भगवो देवताꣳ शाधि याꣳ देवताम् उपाः से, इत्य् एकस्मिन् वाक्ये विद्युपास्योर् व्यतिकरेण प्रयोग-दर्शनात्, समानार्थेषु, ब्रह्म-विद् आप्नोति परम्, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, इत्य् आदिषु ध्यान-विद्योर् व्यतिकर-दर्शनाच् च, ध्यानोपासनादि-शब्द-वाच्यम् असकृद् आवृत्तꣳ स्मृति-सन्तान-रूप-वेदनम् एव शास्त्रार्थ इति निश्चीयते। सूत्रार्थस् तु--- आवृत्तिर् असकृत्--- ब्रह्म-प्राप्ति-साधनꣳ वेदनम् असकृद् आवृत्तम् एव शास्त्रार्थः, वेदनꣳ ध्यान-शब्द-वाच्यम् इत्य् अर्थः। कुतः। उपदेशात्--- ओम् इत्य् एवꣳ ध्यायथात्मानम्, निचाय्य तꣳ मृत्यु-मुखात् प्रमुच्यते, आत्मानम् एव लोकम् उपासीत, आत्मा वा अरे द्रष्टव्यः, इत्य् आदिना उपासनोपसꣳहारोपदेशात्। उपासनꣳ चाविच्छिन्न-स्मृति-सन्तान-रूपम् इति पूर्वम् एवोक्तम्॥१॥

Link copied

४७१ लिङ्गाच् च॥४।१।२॥

Link copied

लिङ्गꣳ--- स्मृतिः। स्मर्यते चायम् अर्थः--- माꣳ ध्यायन्त उपासते, तेषाम् अहꣳ समुद्धर्ता मृत्यु-सꣳसार-सागरात्, ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तꣳ पर्युपासते, तद्-रूप-प्रत्यये चैका सन्ततिश् चान्य-निस्पृहा। तद्-ध्यानꣳ प्रथमैः षड्भिर् अङ्गैर् निष्पाद्यते तथा, इति॥२॥ इत्य् आवृत्त्य्-अधिकरणम्॥१॥

Link copied

४७२ आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥४।१।३॥

Link copied

किम् उपास्यꣳ ब्रह्मोपासितुर् अन्यत्वेनानुसन्धेयम्, उतात्मत्वेनेति सꣳशयः। अधिकꣳ तु भेद-निर्देशात्, अधिकोपदेशात्, इत्य् आदिषूपासितुर् उपास्यस्यार्थान्तरत्वेनैवोपपादनाद् यथावस्थितस्यैवोपास्यत्वाच् चान्यत्वेनोपास्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- त्वꣳ वा अहम् अस्मि भगवो देवते अहꣳ वै त्वम् असि भगवो देवते, इति पूर्वे उपासितारः उपास्यमात्मत्वेनोपगच्छन्ति। अत आत्मेत्य् एवोपास्यम्। तानुपासितॄन् प्रत्यर्थान्तर-भूतस्यापि ब्रह्मणः उपासितुरात्मत्वꣳ ग्राहयन्ति शास्त्राणि, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, इत्य् आरभ्योपासिता परमात्मनः शरीरम्, परमात्मा चोपासितुर् आत्मेति प्रतिपादनेन; तथा--- सर्वꣳ खल्व् इदꣳ ब्रह्म, तज् जलान् इति, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः\॥॥ऐतदात्म्यम् इदꣳ सर्वम् इति च तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिता-प्रतिपादनेन च। एवम् उपासितुः स्वात्मनोऽप्य् आत्मत्वाद् ब्रह्मणः यथावस्थितस्व् आत्म-शरीरक-ब्रह्मानुसन्धानेऽहम् इत्य् एषानुसन्धेयम्। यथा मनुष्योऽहम् अस्मीति स्व-शरीरस्य स्व-प्रकारतक-स्वभावतया प्रकारिणि स्वात्मनि पर्यवसानम्; तथा स्वात्मनोऽहꣳ-प्रत्ययोऽहꣳ-शब्दश् च न केवल-स्वात्म-विषयौ, परमात्म-शरीरतया तद्-विशेषणत्वेनैव स्वात्मनोऽवस्थानात्। सूत्रम् अपि व्याख्यातम्॥३॥ इत्य् आत्मत्वोपासनाधिकरणम्॥२॥

Link copied

४७३-४७४ न प्रतीके न हि सः॥४।१।४॥

Link copied

ब्रह्म-दृष्टिर् उत्कर्षात्॥४।१।५॥

Link copied

मनो ब्रह्मेत्य् उपासीत, इत्य् आदिषु प्रतीकोपासनेष्व् अप्य् आत्मत्वेनानुसन्धानꣳ कर्तव्यम् उत नेति सꣳशयः। मनो ब्रह्मेत्य् उपासीतेति ब्रह्मोपासनत्व-विशेषाद् आत्मेत्य् एवानुसन्धानम् इति पूर्वः पक्षः। राद्धान्तस् तु--- न प्रतीके आत्मत्वानुसन्धानꣳ कार्यम्। कुतः। न हि मन आदिर् उपासितुर् आत्मा न च तत्र ब्रह्मोपास्यम्, ब्रह्म-दृष्ट्या मन आदिर् उपास्यः। अपकृष्टे उत्कृष्ट-दृष्टिर् अभ्युदयाय भवति; यथा भृत्यादौ राज-दृष्टिः। सूत्र-द्वयꣳ च व्याख्यातम्॥४-५॥ इति प्रतीकाधिकरणम्॥३॥

Link copied

४७५ आदित्यादिमतयश् चाङ्ग उपपत्तेः॥४।१।६॥

Link copied

य एवासौ तपति तम् उद्गीथम् उपासीत, इत्य् आदिषु कर्माङ्गाश्रयोपासनेषु किम् उद्गीथादाव् आदित्यादि-दृष्टिः कार्या, उतादित्यादाव् उद्गीथादि-दृष्टिर् इति सꣳशयः। कर्मणः फल-साधनतयोत्कर्षाद् आदित्यादेर् देवतात्वेन तद्-गुणत्वाच् चादित्यादाव् उद्गीथादि-दृष्टिः कार्येति पूर्वः पक्षः। राद्धान्तस् तु--- कर्मणोऽपि फल-साधनत्वम् आदित्यादि-देवताराधन-द्वारेणेत्य् आदित्यादेर् एवोत्कर्षोपपत्तेर् आदित्यादिमतय एव कर्माङ्गोद्गीथादौ कार्याः। सूत्रꣳ च व्याख्यातम्॥६॥ इत्य् आदित्यादिमत्य्-अधिकरणम्॥४॥

Link copied

४७६ आसीनः सम्भवात्॥४।१।७॥

Link copied

किम् इदꣳ ब्रह्मोपासनम् आसीनः कुर्यात्, उतासीनः शयानस् तिष्ठन् गच्छन् वेत्य् अनियमः, इति सꣳशयः। विशेषाश्रवणाद् अनियम इति पूर्वः पक्षः। राद्धान्तस् तु--- आसीनस्यैवैकाग्रतासम्भवात्, एकाग्रता-मूलत्वाच् चोपासनस्य, आसीनः कुर्यात्। सूत्रम् अपि व्याख्यातम्॥७॥

Link copied

४७७ ध्यानाच् च॥४।१।८॥

Link copied

निदिध्यासितव्यः, इत्य् उपासनस्य ध्यान-रूपत्वाच् चैकाग्र-चित्ततावश्यम्भाविनी। ध्यानꣳ हि विजातीय-प्रत्ययान्तराव्यवहितꣳ तैलधारावद् अविच्छिन्न-स्मृति-सन्तति-रूपम्॥८॥

Link copied

४७८ अचलत्वꣳ चापेक्ष्य॥४।१।९॥

Link copied

निश्चलत्वꣳ चापेक्ष्य ध्यान-वाचो-युक्तिः पृथिव्य्-आदिषु दृश्यते, ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षꣳ, ध्यायतीव द्यौः, इत्य् आदिका। अतो ध्यायतः पृथिव्यादिवद् अचलत्वम् आसीनस्यैव सम्भवति॥९॥

Link copied

४७९ स्मरन्ति च॥४।१।१०॥

Link copied

स्मरन्ति चासीनस्यैव ध्यानम्--- उपविश्यासने युज्यायोगम् आत्म-विशुद्धये, इति॥१०॥

Link copied

४८० यत्रैकाग्रता तत्राविशेषात्॥४।१।११॥

Link copied

यस्मिन् देशे यस्मिꣳश् च काले मनस एकाग्रता, तत्र देशे काले चोपासनꣳ कार्यम्; शर्करादि-रहिते मनो-ऽनुकूले शुचौ देशे, इत्य् एतद्-अतिरिक्त-विशेषाग्रहणात्। यथा देश-कालयोर् एकाग्रतायाम् अविशेषः, न तथा स्थिति-गत्य्-आदौ, आसीनस्य तु विशेषोऽस्तीत्य् अभिप्रायः॥११॥

Link copied

इत्य् आसीनाधिकरणम्॥५॥

Link copied

४८१ आप्रयाणात् तत्रापि हि दृष्टम्॥४।१।१२॥

Link copied

तद् इदम् अपवर्ग-साधनम् उपासनम् एकस्मिन्न् अहनि कार्यम् उत प्रत्यहम् आप्रयाणाद् अनुवर्तनीयम् इति सꣳशयः। एकस्मिन्न् एवाहनि शास्त्रार्थस्य कृतत्वात् तावतैव परिसमापनीयम्। यावद् आयुषम् इति तु वचनꣳ विधि-शब्दस्याभावाद् विद्यायाः फलेनोपसꣳहार-परम् इति पूर्वः पक्षः। राद्धान्तस् तु--- आप्रयाणाद् अनुवर्तनीयम्। कुतः। तत्रापि हि दृष्टꣳ--- स खल्व् एवꣳ वर्तयन् यावद् आयुषꣳ ब्रह्म-लोकम् अभिसम्पद्यते, इति। अप्राप्तत्वेनानुवादत्वासम्भवाद् विधिर् एवायम् इति॥१२॥ इत्य् आप्रयाणाधिकरणम्॥६॥

Link copied

४८२ तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्॥४।१।१३॥

Link copied

विदुष उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ किꣳ सम्भवतः, उत नेति सꣳशयः। नाभुक्तꣳ क्षीयते कर्म कल्प-कोटि-शतैर् अपि, इति भोगाद् एव कर्म-क्षय-श्रवणाद् अश्लेष-विनाश-श्रुतिः कथञ्चिद् विद्या-स्तुत्य्-अर्थतया नेयेति पूर्वः पक्षः। राद्धान्तस् तु--- द्वयोः शास्त्रयोर् भिन्न-विषयत्वेन विरोधाभावात् सम्भवत एव; कर्मणाꣳ फल-जनन-सामर्थ्यꣳ द्रढयति--- नाभुक्तꣳ क्षीयते, इति। एवम् एवꣳविदि पापꣳ कर्म न श्लिष्यते, एवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते, इति च श्रुतिर् विद्यायास् तत्-सामर्थ्य-निवारण-शक्ति-विषयेति यथा अप्-तेजसोः शीत-जनन-तन्-निवारण-शक्ति-विषये प्रमाणे न विरुध्येते इति। सूत्रम् अपि व्याख्यातम्॥१३॥ इति तद्-अधिगमाधिकरणम्॥७॥

Link copied

४८३ इतरस्याप्य् एवम् असꣳश्लेषः पाते तु॥४।१।१४॥

Link copied

किम् असꣳश्लेष-विनाशौ पुण्य-कर्मणोऽपि समानौ, उत नेति सꣳशयः। पुण्य-कर्म-फलस्य सुख-रूपत्वेन विदुषोऽनिष्टत्वाभावान् न समानाव् इति पूर्वः पक्षः। राद्धान्तस् तु---मुमुक्षोर् मोक्ष-विरोधित्वेनानिष्टत्व-साम्याद् अश्लेष-विनाशौ समानाव् एव। सूत्रार्थस् तु--- इतरस्य्--- पुण्यस्याप्य् अनिष्ट-फलत्व-साम्याद् एवम्--- अश्लेष-विनाशौ; विद्यानुगुणस्य तु वृष्ट्य्-अन्नारोग्यादि-फलस्य शरीर-पाताद् ऊर्ध्वम् अनिष्टत्वाद् अश्लेषः॥१४॥ इति इतराधिकरणम्॥८॥

Link copied

४८४ अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः॥४।१।१५॥

Link copied

विद्योत्पत्तेः पूर्व-कृतयोः पुण्य-पापयोर् अविशेषेण विनाशः, उतानारब्ध-कार्ययोर् एवेति सꣳशयः। सर्वे पाप्मानः प्रदूयन्ते, इति विशेषाभावाद् अविशेषेणेति पूर्वः पक्षः। राद्धान्तस् तु--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उत्पन्न-विद्यस्यापि शरीर-मोक्षावधित्व-श्रुतेः, सर्व-विनाशे शरीर-स्थित्य्-अनुपपत्तेश् चानारब्ध-कार्ययोर् एव विनाशः। सूत्रꣳ च व्याख्यातम्॥१५॥

Link copied

इत्य् अनारब्ध-कार्याधिकरणम्॥९॥

Link copied

४८५ अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात्॥४।१।१६॥

Link copied

अग्निहोत्राद्य्-आश्रम-धर्मः किꣳ विदुषोऽनुष्ठेयः, उत नेति सꣳशयः। सुकृत-दुष्कृतयोर् अश्लेष-विनाशाभिधानाद् आश्रम-धर्मस्यापि सुकृतत्व-साम्येन कार्याश्लेषाद् अननुष्ठेय इति पूर्वः पक्षः। राद्धान्तस् तु--- आश्रम-धर्मस्य तु विद्योत्पत्तिर् एव कार्यम् इति तत्-कार्यायैवानुष्ठेयः। दृश्यते हि--- तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्तीत्य् आदिना विद्योत्पत्ति-कार्यत्वम्। विद्या चाप्रयाणाद् अहर् अहर् अभ्यासाधेयातिशयोत्पाद्यैव। सूत्रꣳ च व्याख्यातम्॥१६॥

Link copied

यद्य् अग्निहोत्रादि-साधु-कृत्या विद्योत्पत्त्य्-अर्था, पूर्व-कृता च साधु-कृत्या अनुभूत-फला प्रारब्ध-फला च, सुहृदः साधु-कृत्याम् इत्य् अस्य विषयः क इत्य् आशङ्क्याह---

Link copied

४८६ अतोऽन्यापि ह्य् एकेषाम् उभयोः॥४।१।१७॥

Link copied

अतः--- अग्निहोत्रादि-साधु-कृत्यायाः अन्यापि विद्याधिगमात् पूर्वोत्तरयोः पुण्य-कर्मणोर् उभयोश् च कारीर्य्-आदिका वृष्ट्य्-अन्नाद्य्-अर्थतया विदुषानुष्ठिता, विद्योत्पत्तेः पूर्वꣳ कृतानादि-काल-प्रवृत्ता च प्रबल-कर्मान्तर-प्रतिबद्ध-फला, साधु-कृत्यास्ति हि। अत एकेषाꣳ शाखिनाꣳ--- सुहृदः साधु-कृत्याम् इति वचनꣳ तद्-विषयम्; विद्ययाश्लेष-विनाश-श्रुतिश् च तद्-विषया॥१७॥

Link copied

अनुष्ठितस्य कर्मणः प्रबल-कर्म-प्रतिबन्ध-सम्भवꣳ पूर्वोक्तꣳ स्मारयति---

Link copied

४८७ यद् एव विद्ययेति हि॥४।१।१८॥

Link copied

उक्तꣳ ह्य् उद्गीथ-विद्यायाः क्रतोः कर्मान्तर-प्रतिबन्धाभावः फलम् इति; अतः प्रतिबद्ध-फल-साधु-कृत्यस्यैव सुहृत्-सङ्क्रमणम्॥१८॥ इत्य् अग्निहोत्राद्य्-अधिकरणम्॥१०॥

Link copied

४८८ भोगेन त्व् इतरे क्षपयित्वाथ सम्पद्यते॥४।१।१९॥

Link copied

इतरे--- आरब्ध-कार्ये पुण्य-पापे, किꣳ विद्या-योनि-शरीरावसान एव विनश्येते, उत तच्-छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति सꣳशयः। यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इति सम्पत्तेः शरीर-विमोक्ष-विलम्ब-मात्र-श्रुतेस् तच्-छरीरावसान इति पूर्वः पक्षः। राद्धान्तस् तु--- प्रारब्ध-फलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण, यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उच्यते, न शरीर-मात्रम्। कर्म-विषयौ हि बन्ध-मोक्षौ। अतः प्रारब्ध-फले पुण्य-पापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पद्यत इत्य् अनियम एव। सूत्रꣳ च व्याख्यातम्॥१९॥ इति इतर-क्षपणाधिकरणम्॥११॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य प्रथमः पादः॥

Link copied
Join our community