Vedanta Dipa · Section 14 of 17
||atha caturthādhyāye prathamaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
४७० आवृत्तिर् असकृद् उपदेशात्॥४।१।१॥
Link copiedब्रह्म-विद् आप्नोति परम्, तम् एवꣳ विद्वान् अमृत इह भवति, इत्य् आदि वेदान्त-विहितꣳ वेदनꣳ किꣳ सकृत् कृतम् एव शास्त्रार्थः, उतासकृद् आवृत्तम् इति सꣳशयः। सकृत् कृतम् एवेति पूर्वः पक्षः, स यो ह वै तत् परमꣳ ब्रह्म वेद ब्रह्मैव भवति, इत्य् आदौ वेदनस्यैव मुक्त्य्-उपायत्व-प्रतिपादनात्, सकृत् कृतेऽपि वेदने शास्त्रार्थ-निर्वृत्तेः, तस्यासकृद् आवृत्तौ प्रमाणाभावात्। राद्धान्तस् तु--- यस् तद् वेद यत् स वेद स मयैतद् उक्तः, इत्य् उपक्रम्य, अनु म एताꣳ भगवो देवताꣳ शाधि याꣳ देवताम् उपाः से, इत्य् एकस्मिन् वाक्ये विद्युपास्योर् व्यतिकरेण प्रयोग-दर्शनात्, समानार्थेषु, ब्रह्म-विद् आप्नोति परम्, आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, इत्य् आदिषु ध्यान-विद्योर् व्यतिकर-दर्शनाच् च, ध्यानोपासनादि-शब्द-वाच्यम् असकृद् आवृत्तꣳ स्मृति-सन्तान-रूप-वेदनम् एव शास्त्रार्थ इति निश्चीयते। सूत्रार्थस् तु--- आवृत्तिर् असकृत्--- ब्रह्म-प्राप्ति-साधनꣳ वेदनम् असकृद् आवृत्तम् एव शास्त्रार्थः, वेदनꣳ ध्यान-शब्द-वाच्यम् इत्य् अर्थः। कुतः। उपदेशात्--- ओम् इत्य् एवꣳ ध्यायथात्मानम्, निचाय्य तꣳ मृत्यु-मुखात् प्रमुच्यते, आत्मानम् एव लोकम् उपासीत, आत्मा वा अरे द्रष्टव्यः, इत्य् आदिना उपासनोपसꣳहारोपदेशात्। उपासनꣳ चाविच्छिन्न-स्मृति-सन्तान-रूपम् इति पूर्वम् एवोक्तम्॥१॥
Link copied४७१ लिङ्गाच् च॥४।१।२॥
Link copiedलिङ्गꣳ--- स्मृतिः। स्मर्यते चायम् अर्थः--- माꣳ ध्यायन्त उपासते, तेषाम् अहꣳ समुद्धर्ता मृत्यु-सꣳसार-सागरात्, ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तꣳ पर्युपासते, तद्-रूप-प्रत्यये चैका सन्ततिश् चान्य-निस्पृहा। तद्-ध्यानꣳ प्रथमैः षड्भिर् अङ्गैर् निष्पाद्यते तथा, इति॥२॥ इत्य् आवृत्त्य्-अधिकरणम्॥१॥
Link copied४७२ आत्मेति तूपगच्छन्ति ग्राहयन्ति च॥४।१।३॥
Link copiedकिम् उपास्यꣳ ब्रह्मोपासितुर् अन्यत्वेनानुसन्धेयम्, उतात्मत्वेनेति सꣳशयः। अधिकꣳ तु भेद-निर्देशात्, अधिकोपदेशात्, इत्य् आदिषूपासितुर् उपास्यस्यार्थान्तरत्वेनैवोपपादनाद् यथावस्थितस्यैवोपास्यत्वाच् चान्यत्वेनोपास्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- त्वꣳ वा अहम् अस्मि भगवो देवते अहꣳ वै त्वम् असि भगवो देवते, इति पूर्वे उपासितारः उपास्यमात्मत्वेनोपगच्छन्ति। अत आत्मेत्य् एवोपास्यम्। तानुपासितॄन् प्रत्यर्थान्तर-भूतस्यापि ब्रह्मणः उपासितुरात्मत्वꣳ ग्राहयन्ति शास्त्राणि, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः, इत्य् आरभ्योपासिता परमात्मनः शरीरम्, परमात्मा चोपासितुर् आत्मेति प्रतिपादनेन; तथा--- सर्वꣳ खल्व् इदꣳ ब्रह्म, तज् जलान् इति, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः\॥॥ऐतदात्म्यम् इदꣳ सर्वम् इति च तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिता-प्रतिपादनेन च। एवम् उपासितुः स्वात्मनोऽप्य् आत्मत्वाद् ब्रह्मणः यथावस्थितस्व् आत्म-शरीरक-ब्रह्मानुसन्धानेऽहम् इत्य् एषानुसन्धेयम्। यथा मनुष्योऽहम् अस्मीति स्व-शरीरस्य स्व-प्रकारतक-स्वभावतया प्रकारिणि स्वात्मनि पर्यवसानम्; तथा स्वात्मनोऽहꣳ-प्रत्ययोऽहꣳ-शब्दश् च न केवल-स्वात्म-विषयौ, परमात्म-शरीरतया तद्-विशेषणत्वेनैव स्वात्मनोऽवस्थानात्। सूत्रम् अपि व्याख्यातम्॥३॥ इत्य् आत्मत्वोपासनाधिकरणम्॥२॥
Link copied४७३-४७४ न प्रतीके न हि सः॥४।१।४॥
Link copiedब्रह्म-दृष्टिर् उत्कर्षात्॥४।१।५॥
Link copiedमनो ब्रह्मेत्य् उपासीत, इत्य् आदिषु प्रतीकोपासनेष्व् अप्य् आत्मत्वेनानुसन्धानꣳ कर्तव्यम् उत नेति सꣳशयः। मनो ब्रह्मेत्य् उपासीतेति ब्रह्मोपासनत्व-विशेषाद् आत्मेत्य् एवानुसन्धानम् इति पूर्वः पक्षः। राद्धान्तस् तु--- न प्रतीके आत्मत्वानुसन्धानꣳ कार्यम्। कुतः। न हि मन आदिर् उपासितुर् आत्मा न च तत्र ब्रह्मोपास्यम्, ब्रह्म-दृष्ट्या मन आदिर् उपास्यः। अपकृष्टे उत्कृष्ट-दृष्टिर् अभ्युदयाय भवति; यथा भृत्यादौ राज-दृष्टिः। सूत्र-द्वयꣳ च व्याख्यातम्॥४-५॥ इति प्रतीकाधिकरणम्॥३॥
Link copied४७५ आदित्यादिमतयश् चाङ्ग उपपत्तेः॥४।१।६॥
Link copiedय एवासौ तपति तम् उद्गीथम् उपासीत, इत्य् आदिषु कर्माङ्गाश्रयोपासनेषु किम् उद्गीथादाव् आदित्यादि-दृष्टिः कार्या, उतादित्यादाव् उद्गीथादि-दृष्टिर् इति सꣳशयः। कर्मणः फल-साधनतयोत्कर्षाद् आदित्यादेर् देवतात्वेन तद्-गुणत्वाच् चादित्यादाव् उद्गीथादि-दृष्टिः कार्येति पूर्वः पक्षः। राद्धान्तस् तु--- कर्मणोऽपि फल-साधनत्वम् आदित्यादि-देवताराधन-द्वारेणेत्य् आदित्यादेर् एवोत्कर्षोपपत्तेर् आदित्यादिमतय एव कर्माङ्गोद्गीथादौ कार्याः। सूत्रꣳ च व्याख्यातम्॥६॥ इत्य् आदित्यादिमत्य्-अधिकरणम्॥४॥
Link copied४७६ आसीनः सम्भवात्॥४।१।७॥
Link copiedकिम् इदꣳ ब्रह्मोपासनम् आसीनः कुर्यात्, उतासीनः शयानस् तिष्ठन् गच्छन् वेत्य् अनियमः, इति सꣳशयः। विशेषाश्रवणाद् अनियम इति पूर्वः पक्षः। राद्धान्तस् तु--- आसीनस्यैवैकाग्रतासम्भवात्, एकाग्रता-मूलत्वाच् चोपासनस्य, आसीनः कुर्यात्। सूत्रम् अपि व्याख्यातम्॥७॥
Link copied४७७ ध्यानाच् च॥४।१।८॥
Link copiedनिदिध्यासितव्यः, इत्य् उपासनस्य ध्यान-रूपत्वाच् चैकाग्र-चित्ततावश्यम्भाविनी। ध्यानꣳ हि विजातीय-प्रत्ययान्तराव्यवहितꣳ तैलधारावद् अविच्छिन्न-स्मृति-सन्तति-रूपम्॥८॥
Link copied४७८ अचलत्वꣳ चापेक्ष्य॥४।१।९॥
Link copiedनिश्चलत्वꣳ चापेक्ष्य ध्यान-वाचो-युक्तिः पृथिव्य्-आदिषु दृश्यते, ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षꣳ, ध्यायतीव द्यौः, इत्य् आदिका। अतो ध्यायतः पृथिव्यादिवद् अचलत्वम् आसीनस्यैव सम्भवति॥९॥
Link copied४७९ स्मरन्ति च॥४।१।१०॥
Link copiedस्मरन्ति चासीनस्यैव ध्यानम्--- उपविश्यासने युज्यायोगम् आत्म-विशुद्धये, इति॥१०॥
Link copied४८० यत्रैकाग्रता तत्राविशेषात्॥४।१।११॥
Link copiedयस्मिन् देशे यस्मिꣳश् च काले मनस एकाग्रता, तत्र देशे काले चोपासनꣳ कार्यम्; शर्करादि-रहिते मनो-ऽनुकूले शुचौ देशे, इत्य् एतद्-अतिरिक्त-विशेषाग्रहणात्। यथा देश-कालयोर् एकाग्रतायाम् अविशेषः, न तथा स्थिति-गत्य्-आदौ, आसीनस्य तु विशेषोऽस्तीत्य् अभिप्रायः॥११॥
Link copiedइत्य् आसीनाधिकरणम्॥५॥
Link copied४८१ आप्रयाणात् तत्रापि हि दृष्टम्॥४।१।१२॥
Link copiedतद् इदम् अपवर्ग-साधनम् उपासनम् एकस्मिन्न् अहनि कार्यम् उत प्रत्यहम् आप्रयाणाद् अनुवर्तनीयम् इति सꣳशयः। एकस्मिन्न् एवाहनि शास्त्रार्थस्य कृतत्वात् तावतैव परिसमापनीयम्। यावद् आयुषम् इति तु वचनꣳ विधि-शब्दस्याभावाद् विद्यायाः फलेनोपसꣳहार-परम् इति पूर्वः पक्षः। राद्धान्तस् तु--- आप्रयाणाद् अनुवर्तनीयम्। कुतः। तत्रापि हि दृष्टꣳ--- स खल्व् एवꣳ वर्तयन् यावद् आयुषꣳ ब्रह्म-लोकम् अभिसम्पद्यते, इति। अप्राप्तत्वेनानुवादत्वासम्भवाद् विधिर् एवायम् इति॥१२॥ इत्य् आप्रयाणाधिकरणम्॥६॥
Link copied४८२ तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्॥४।१।१३॥
Link copiedविदुष उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ किꣳ सम्भवतः, उत नेति सꣳशयः। नाभुक्तꣳ क्षीयते कर्म कल्प-कोटि-शतैर् अपि, इति भोगाद् एव कर्म-क्षय-श्रवणाद् अश्लेष-विनाश-श्रुतिः कथञ्चिद् विद्या-स्तुत्य्-अर्थतया नेयेति पूर्वः पक्षः। राद्धान्तस् तु--- द्वयोः शास्त्रयोर् भिन्न-विषयत्वेन विरोधाभावात् सम्भवत एव; कर्मणाꣳ फल-जनन-सामर्थ्यꣳ द्रढयति--- नाभुक्तꣳ क्षीयते, इति। एवम् एवꣳविदि पापꣳ कर्म न श्लिष्यते, एवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते, इति च श्रुतिर् विद्यायास् तत्-सामर्थ्य-निवारण-शक्ति-विषयेति यथा अप्-तेजसोः शीत-जनन-तन्-निवारण-शक्ति-विषये प्रमाणे न विरुध्येते इति। सूत्रम् अपि व्याख्यातम्॥१३॥ इति तद्-अधिगमाधिकरणम्॥७॥
Link copied४८३ इतरस्याप्य् एवम् असꣳश्लेषः पाते तु॥४।१।१४॥
Link copiedकिम् असꣳश्लेष-विनाशौ पुण्य-कर्मणोऽपि समानौ, उत नेति सꣳशयः। पुण्य-कर्म-फलस्य सुख-रूपत्वेन विदुषोऽनिष्टत्वाभावान् न समानाव् इति पूर्वः पक्षः। राद्धान्तस् तु---मुमुक्षोर् मोक्ष-विरोधित्वेनानिष्टत्व-साम्याद् अश्लेष-विनाशौ समानाव् एव। सूत्रार्थस् तु--- इतरस्य्--- पुण्यस्याप्य् अनिष्ट-फलत्व-साम्याद् एवम्--- अश्लेष-विनाशौ; विद्यानुगुणस्य तु वृष्ट्य्-अन्नारोग्यादि-फलस्य शरीर-पाताद् ऊर्ध्वम् अनिष्टत्वाद् अश्लेषः॥१४॥ इति इतराधिकरणम्॥८॥
Link copied४८४ अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः॥४।१।१५॥
Link copiedविद्योत्पत्तेः पूर्व-कृतयोः पुण्य-पापयोर् अविशेषेण विनाशः, उतानारब्ध-कार्ययोर् एवेति सꣳशयः। सर्वे पाप्मानः प्रदूयन्ते, इति विशेषाभावाद् अविशेषेणेति पूर्वः पक्षः। राद्धान्तस् तु--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उत्पन्न-विद्यस्यापि शरीर-मोक्षावधित्व-श्रुतेः, सर्व-विनाशे शरीर-स्थित्य्-अनुपपत्तेश् चानारब्ध-कार्ययोर् एव विनाशः। सूत्रꣳ च व्याख्यातम्॥१५॥
Link copiedइत्य् अनारब्ध-कार्याधिकरणम्॥९॥
Link copied४८५ अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात्॥४।१।१६॥
Link copiedअग्निहोत्राद्य्-आश्रम-धर्मः किꣳ विदुषोऽनुष्ठेयः, उत नेति सꣳशयः। सुकृत-दुष्कृतयोर् अश्लेष-विनाशाभिधानाद् आश्रम-धर्मस्यापि सुकृतत्व-साम्येन कार्याश्लेषाद् अननुष्ठेय इति पूर्वः पक्षः। राद्धान्तस् तु--- आश्रम-धर्मस्य तु विद्योत्पत्तिर् एव कार्यम् इति तत्-कार्यायैवानुष्ठेयः। दृश्यते हि--- तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्तीत्य् आदिना विद्योत्पत्ति-कार्यत्वम्। विद्या चाप्रयाणाद् अहर् अहर् अभ्यासाधेयातिशयोत्पाद्यैव। सूत्रꣳ च व्याख्यातम्॥१६॥
Link copiedयद्य् अग्निहोत्रादि-साधु-कृत्या विद्योत्पत्त्य्-अर्था, पूर्व-कृता च साधु-कृत्या अनुभूत-फला प्रारब्ध-फला च, सुहृदः साधु-कृत्याम् इत्य् अस्य विषयः क इत्य् आशङ्क्याह---
Link copied४८६ अतोऽन्यापि ह्य् एकेषाम् उभयोः॥४।१।१७॥
Link copiedअतः--- अग्निहोत्रादि-साधु-कृत्यायाः अन्यापि विद्याधिगमात् पूर्वोत्तरयोः पुण्य-कर्मणोर् उभयोश् च कारीर्य्-आदिका वृष्ट्य्-अन्नाद्य्-अर्थतया विदुषानुष्ठिता, विद्योत्पत्तेः पूर्वꣳ कृतानादि-काल-प्रवृत्ता च प्रबल-कर्मान्तर-प्रतिबद्ध-फला, साधु-कृत्यास्ति हि। अत एकेषाꣳ शाखिनाꣳ--- सुहृदः साधु-कृत्याम् इति वचनꣳ तद्-विषयम्; विद्ययाश्लेष-विनाश-श्रुतिश् च तद्-विषया॥१७॥
Link copiedअनुष्ठितस्य कर्मणः प्रबल-कर्म-प्रतिबन्ध-सम्भवꣳ पूर्वोक्तꣳ स्मारयति---
Link copied४८७ यद् एव विद्ययेति हि॥४।१।१८॥
Link copiedउक्तꣳ ह्य् उद्गीथ-विद्यायाः क्रतोः कर्मान्तर-प्रतिबन्धाभावः फलम् इति; अतः प्रतिबद्ध-फल-साधु-कृत्यस्यैव सुहृत्-सङ्क्रमणम्॥१८॥ इत्य् अग्निहोत्राद्य्-अधिकरणम्॥१०॥
Link copied४८८ भोगेन त्व् इतरे क्षपयित्वाथ सम्पद्यते॥४।१।१९॥
Link copiedइतरे--- आरब्ध-कार्ये पुण्य-पापे, किꣳ विद्या-योनि-शरीरावसान एव विनश्येते, उत तच्-छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति सꣳशयः। यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इति सम्पत्तेः शरीर-विमोक्ष-विलम्ब-मात्र-श्रुतेस् तच्-छरीरावसान इति पूर्वः पक्षः। राद्धान्तस् तु--- प्रारब्ध-फलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण, यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इत्य् उच्यते, न शरीर-मात्रम्। कर्म-विषयौ हि बन्ध-मोक्षौ। अतः प्रारब्ध-फले पुण्य-पापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पद्यत इत्य् अनियम एव। सूत्रꣳ च व्याख्यातम्॥१९॥ इति इतर-क्षपणाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे चतुर्थस्याध्यायस्य प्रथमः पादः॥
Link copied౪౭౦ ఆవృత్తిర్ అసకృద్ ఉపదేశాత్॥౪।౧।౧॥
Link copiedబ్రహ్మ-విద్ ఆప్నోతి పరమ్, తమ్ ఏవṁ విద్వాన్ అమృత ఇహ భవతి, ఇత్య్ ఆది వేదాన్త-విహితṁ వేదనṁ కిṁ సకృత్ కృతమ్ ఏవ శాస్త్రార్థః, ఉతాసకృద్ ఆవృత్తమ్ ఇతి సṁశయః। సకృత్ కృతమ్ ఏవేతి పూర్వః పక్షః, స యో హ వై తత్ పరమṁ బ్రహ్మ వేద బ్రహ్మైవ భవతి, ఇత్య్ ఆదౌ వేదనస్యైవ ముక్త్య్-ఉపాయత్వ-ప్రతిపాదనాత్, సకృత్ కృతేఽపి వేదనే శాస్త్రార్థ-నిర్వృత్తేః, తస్యాసకృద్ ఆవృత్తౌ ప్రమాణాభావాత్। రాద్ధాన్తస్ తు--- యస్ తద్ వేద యత్ స వేద స మయైతద్ ఉక్తః, ఇత్య్ ఉపక్రమ్య, అను మ ఏతాṁ భగవో దేవతాṁ శాధి యాṁ దేవతామ్ ఉపాః సే, ఇత్య్ ఏకస్మిన్ వాక్యే విద్యుపాస్యోర్ వ్యతికరేణ ప్రయోగ-దర్శనాత్, సమానార్థేషు, బ్రహ్మ-విద్ ఆప్నోతి పరమ్, ఆత్మా వా అరే ద్రష్టవ్యః శ్రోతవ్యో మన్తవ్యో నిదిధ్యాసితవ్యః, ఇత్య్ ఆదిషు ధ్యాన-విద్యోర్ వ్యతికర-దర్శనాచ్ చ, ధ్యానోపాసనాది-శబ్ద-వాచ్యమ్ అసకృద్ ఆవృత్తṁ స్మృతి-సన్తాన-రూప-వేదనమ్ ఏవ శాస్త్రార్థ ఇతి నిశ్చీయతే। సూత్రార్థస్ తు--- ఆవృత్తిర్ అసకృత్--- బ్రహ్మ-ప్రాప్తి-సాధనṁ వేదనమ్ అసకృద్ ఆవృత్తమ్ ఏవ శాస్త్రార్థః, వేదనṁ ధ్యాన-శబ్ద-వాచ్యమ్ ఇత్య్ అర్థః। కుతః। ఉపదేశాత్--- ఓమ్ ఇత్య్ ఏవṁ ధ్యాయథాత్మానమ్, నిచాయ్య తṁ మృత్యు-ముఖాత్ ప్రముచ్యతే, ఆత్మానమ్ ఏవ లోకమ్ ఉపాసీత, ఆత్మా వా అరే ద్రష్టవ్యః, ఇత్య్ ఆదినా ఉపాసనోపసṁహారోపదేశాత్। ఉపాసనṁ చావిచ్ఛిన్న-స్మృతి-సన్తాన-రూపమ్ ఇతి పూర్వమ్ ఏవోక్తమ్॥౧॥
Link copied౪౭౧ లిఙ్గాచ్ చ॥౪।౧।౨॥
Link copiedలిఙ్గṁ--- స్మృతిః। స్మర్యతే చాయమ్ అర్థః--- మాṁ ధ్యాయన్త ఉపాసతే, తేషామ్ అహṁ సముద్ధర్తా మృత్యు-సṁసార-సాగరాత్, యే త్వ్ అక్షరమ్ అనిర్దేశ్యమ్ అవ్యక్తṁ పర్యుపాసతే, తద్-రూప-ప్రత్యయే చైకా సన్తతిశ్ చాన్య-నిస్పృహా। తద్-ధ్యానṁ ప్రథమైః షడ్భిర్ అఙ్గైర్ నిష్పాద్యతే తథా, ఇతి॥౨॥ ఇత్య్ ఆవృత్త్య్-అధికరణమ్॥౧॥
Link copied౪౭౨ ఆత్మేతి తూపగచ్ఛన్తి గ్రాహయన్తి చ॥౪।౧।౩॥
Link copiedకిమ్ ఉపాస్యṁ బ్రహ్మోపాసితుర్ అన్యత్వేనానుసన్ధేయమ్, ఉతాత్మత్వేనేతి సṁశయః। అధికṁ తు భేద-నిర్దేశాత్, అధికోపదేశాత్, ఇత్య్ ఆదిషూపాసితుర్ ఉపాస్యస్యార్థాన్తరత్వేనైవోపపాదనాద్ యథావస్థితస్యైవోపాస్యత్వాచ్ చాన్యత్వేనోపాస్యమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- త్వṁ వా అహమ్ అస్మి భగవో దేవతే అహṁ వై త్వమ్ అసి భగవో దేవతే, ఇతి పూర్వే ఉపాసితారః ఉపాస్యమాత్మత్వేనోపగచ్ఛన్తి। అత ఆత్మేత్య్ ఏవోపాస్యమ్। తానుపాసితౄన్ ప్రత్యర్థాన్తర-భూతస్యాపి బ్రహ్మణః ఉపాసితురాత్మత్వṁ గ్రాహయన్తి శాస్త్రాణి, య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః, ఇత్య్ ఆరభ్యోపాసితా పరమాత్మనః శరీరమ్, పరమాత్మా చోపాసితుర్ ఆత్మేతి ప్రతిపాదనేన; తథా--- సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మ, తజ్ జలాన్ ఇతి, సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః\॥॥ఐతదాత్మ్యమ్ ఇదṁ సర్వమ్ ఇతి చ తద్-ఆయత్త-స్వరూప-స్థితి-ప్రవృత్తితా-ప్రతిపాదనేన చ। ఏవమ్ ఉపాసితుః స్వాత్మనోఽప్య్ ఆత్మత్వాద్ బ్రహ్మణః యథావస్థితస్వ్ ఆత్మ-శరీరక-బ్రహ్మానుసన్ధానేఽహమ్ ఇత్య్ ఏషానుసన్ధేయమ్। యథా మనుష్యోఽహమ్ అస్మీతి స్వ-శరీరస్య స్వ-ప్రకారతక-స్వభావతయా ప్రకారిణి స్వాత్మని పర్యవసానమ్; తథా స్వాత్మనోఽహṁ-ప్రత్యయోఽహṁ-శబ్దశ్ చ న కేవల-స్వాత్మ-విషయౌ, పరమాత్మ-శరీరతయా తద్-విశేషణత్వేనైవ స్వాత్మనోఽవస్థానాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౩॥ ఇత్య్ ఆత్మత్వోపాసనాధికరణమ్॥౨॥
Link copied౪౭౩-౪౭౪ న ప్రతీకే న హి సః॥౪।౧।౪॥
Link copiedబ్రహ్మ-దృష్టిర్ ఉత్కర్షాత్॥౪।౧।౫॥
Link copiedమనో బ్రహ్మేత్య్ ఉపాసీత, ఇత్య్ ఆదిషు ప్రతీకోపాసనేష్వ్ అప్య్ ఆత్మత్వేనానుసన్ధానṁ కర్తవ్యమ్ ఉత నేతి సṁశయః। మనో బ్రహ్మేత్య్ ఉపాసీతేతి బ్రహ్మోపాసనత్వ-విశేషాద్ ఆత్మేత్య్ ఏవానుసన్ధానమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- న ప్రతీకే ఆత్మత్వానుసన్ధానṁ కార్యమ్। కుతః। న హి మన ఆదిర్ ఉపాసితుర్ ఆత్మా న చ తత్ర బ్రహ్మోపాస్యమ్, బ్రహ్మ-దృష్ట్యా మన ఆదిర్ ఉపాస్యః। అపకృష్టే ఉత్కృష్ట-దృష్టిర్ అభ్యుదయాయ భవతి; యథా భృత్యాదౌ రాజ-దృష్టిః। సూత్ర-ద్వయṁ చ వ్యాఖ్యాతమ్॥౪-౫॥ ఇతి ప్రతీకాధికరణమ్॥౩॥
Link copied౪౭౫ ఆదిత్యాదిమతయశ్ చాఙ్గ ఉపపత్తేః॥౪।౧।౬॥
Link copiedయ ఏవాసౌ తపతి తమ్ ఉద్గీథమ్ ఉపాసీత, ఇత్య్ ఆదిషు కర్మాఙ్గాశ్రయోపాసనేషు కిమ్ ఉద్గీథాదావ్ ఆదిత్యాది-దృష్టిః కార్యా, ఉతాదిత్యాదావ్ ఉద్గీథాది-దృష్టిర్ ఇతి సṁశయః। కర్మణః ఫల-సాధనతయోత్కర్షాద్ ఆదిత్యాదేర్ దేవతాత్వేన తద్-గుణత్వాచ్ చాదిత్యాదావ్ ఉద్గీథాది-దృష్టిః కార్యేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- కర్మణోఽపి ఫల-సాధనత్వమ్ ఆదిత్యాది-దేవతారాధన-ద్వారేణేత్య్ ఆదిత్యాదేర్ ఏవోత్కర్షోపపత్తేర్ ఆదిత్యాదిమతయ ఏవ కర్మాఙ్గోద్గీథాదౌ కార్యాః। సూత్రṁ చ వ్యాఖ్యాతమ్॥౬॥ ఇత్య్ ఆదిత్యాదిమత్య్-అధికరణమ్॥౪॥
Link copied౪౭౬ ఆసీనః సమ్భవాత్॥౪।౧।౭॥
Link copiedకిమ్ ఇదṁ బ్రహ్మోపాసనమ్ ఆసీనః కుర్యాత్, ఉతాసీనః శయానస్ తిష్ఠన్ గచ్ఛన్ వేత్య్ అనియమః, ఇతి సṁశయః। విశేషాశ్రవణాద్ అనియమ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆసీనస్యైవైకాగ్రతాసమ్భవాత్, ఏకాగ్రతా-మూలత్వాచ్ చోపాసనస్య, ఆసీనః కుర్యాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౭॥
Link copied౪౭౭ ధ్యానాచ్ చ॥౪।౧।౮॥
Link copiedనిదిధ్యాసితవ్యః, ఇత్య్ ఉపాసనస్య ధ్యాన-రూపత్వాచ్ చైకాగ్ర-చిత్తతావశ్యమ్భావినీ। ధ్యానṁ హి విజాతీయ-ప్రత్యయాన్తరావ్యవహితṁ తైలధారావద్ అవిచ్ఛిన్న-స్మృతి-సన్తతి-రూపమ్॥౮॥
Link copied౪౭౮ అచలత్వṁ చాపేక్ష్య॥౪।౧।౯॥
Link copiedనిశ్చలత్వṁ చాపేక్ష్య ధ్యాన-వాచో-యుక్తిః పృథివ్య్-ఆదిషు దృశ్యతే, ధ్యాయతీవ పృథివీ, ధ్యాయతీవాన్తరిక్షṁ, ధ్యాయతీవ ద్యౌః, ఇత్య్ ఆదికా। అతో ధ్యాయతః పృథివ్యాదివద్ అచలత్వమ్ ఆసీనస్యైవ సమ్భవతి॥౯॥
Link copied౪౭౯ స్మరన్తి చ॥౪।౧।౧౦॥
Link copiedస్మరన్తి చాసీనస్యైవ ధ్యానమ్--- ఉపవిశ్యాసనే యుజ్యాయోగమ్ ఆత్మ-విశుద్ధయే, ఇతి॥౧౦॥
Link copied౪౮౦ యత్రైకాగ్రతా తత్రావిశేషాత్॥౪।౧।౧౧॥
Link copiedయస్మిన్ దేశే యస్మిṁశ్ చ కాలే మనస ఏకాగ్రతా, తత్ర దేశే కాలే చోపాసనṁ కార్యమ్; శర్కరాది-రహితే మనో-ఽనుకూలే శుచౌ దేశే, ఇత్య్ ఏతద్-అతిరిక్త-విశేషాగ్రహణాత్। యథా దేశ-కాలయోర్ ఏకాగ్రతాయామ్ అవిశేషః, న తథా స్థితి-గత్య్-ఆదౌ, ఆసీనస్య తు విశేషోఽస్తీత్య్ అభిప్రాయః॥౧౧॥
Link copiedఇత్య్ ఆసీనాధికరణమ్॥౫॥
Link copied౪౮౧ ఆప్రయాణాత్ తత్రాపి హి దృష్టమ్॥౪।౧।౧౨॥
Link copiedతద్ ఇదమ్ అపవర్గ-సాధనమ్ ఉపాసనమ్ ఏకస్మిన్న్ అహని కార్యమ్ ఉత ప్రత్యహమ్ ఆప్రయాణాద్ అనువర్తనీయమ్ ఇతి సṁశయః। ఏకస్మిన్న్ ఏవాహని శాస్త్రార్థస్య కృతత్వాత్ తావతైవ పరిసమాపనీయమ్। యావద్ ఆయుషమ్ ఇతి తు వచనṁ విధి-శబ్దస్యాభావాద్ విద్యాయాః ఫలేనోపసṁహార-పరమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆప్రయాణాద్ అనువర్తనీయమ్। కుతః। తత్రాపి హి దృష్టṁ--- స ఖల్వ్ ఏవṁ వర్తయన్ యావద్ ఆయుషṁ బ్రహ్మ-లోకమ్ అభిసమ్పద్యతే, ఇతి। అప్రాప్తత్వేనానువాదత్వాసమ్భవాద్ విధిర్ ఏవాయమ్ ఇతి॥౧౨॥ ఇత్య్ ఆప్రయాణాధికరణమ్॥౬॥
Link copied౪౮౨ తద్-అధిగమ ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశౌ తద్-వ్యపదేశాత్॥౪।౧।౧౩॥
Link copiedవిదుష ఉత్తర-పూర్వాఘయోర్ అశ్లేష-వినాశౌ కిṁ సమ్భవతః, ఉత నేతి సṁశయః। నాభుక్తṁ క్షీయతే కర్మ కల్ప-కోటి-శతైర్ అపి, ఇతి భోగాద్ ఏవ కర్మ-క్షయ-శ్రవణాద్ అశ్లేష-వినాశ-శ్రుతిః కథఞ్చిద్ విద్యా-స్తుత్య్-అర్థతయా నేయేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ద్వయోః శాస్త్రయోర్ భిన్న-విషయత్వేన విరోధాభావాత్ సమ్భవత ఏవ; కర్మణాṁ ఫల-జనన-సామర్థ్యṁ ద్రఢయతి--- నాభుక్తṁ క్షీయతే, ఇతి। ఏవమ్ ఏవṁవిది పాపṁ కర్మ న శ్లిష్యతే, ఏవṁ హాస్య సర్వే పాప్మానః ప్రదూయన్తే, ఇతి చ శ్రుతిర్ విద్యాయాస్ తత్-సామర్థ్య-నివారణ-శక్తి-విషయేతి యథా అప్-తేజసోః శీత-జనన-తన్-నివారణ-శక్తి-విషయే ప్రమాణే న విరుధ్యేతే ఇతి। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౩॥ ఇతి తద్-అధిగమాధికరణమ్॥౭॥
Link copied౪౮౩ ఇతరస్యాప్య్ ఏవమ్ అసṁశ్లేషః పాతే తు॥౪।౧।౧౪॥
Link copiedకిమ్ అసṁశ్లేష-వినాశౌ పుణ్య-కర్మణోఽపి సమానౌ, ఉత నేతి సṁశయః। పుణ్య-కర్మ-ఫలస్య సుఖ-రూపత్వేన విదుషోఽనిష్టత్వాభావాన్ న సమానావ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు---ముముక్షోర్ మోక్ష-విరోధిత్వేనానిష్టత్వ-సామ్యాద్ అశ్లేష-వినాశౌ సమానావ్ ఏవ। సూత్రార్థస్ తు--- ఇతరస్య్--- పుణ్యస్యాప్య్ అనిష్ట-ఫలత్వ-సామ్యాద్ ఏవమ్--- అశ్లేష-వినాశౌ; విద్యానుగుణస్య తు వృష్ట్య్-అన్నారోగ్యాది-ఫలస్య శరీర-పాతాద్ ఊర్ధ్వమ్ అనిష్టత్వాద్ అశ్లేషః॥౧౪॥ ఇతి ఇతరాధికరణమ్॥౮॥
Link copied౪౮౪ అనారబ్ధ-కార్యే ఏవ తు పూర్వే తద్-అవధేః॥౪।౧।౧౫॥
Link copiedవిద్యోత్పత్తేః పూర్వ-కృతయోః పుణ్య-పాపయోర్ అవిశేషేణ వినాశః, ఉతానారబ్ధ-కార్యయోర్ ఏవేతి సṁశయః। సర్వే పాప్మానః ప్రదూయన్తే, ఇతి విశేషాభావాద్ అవిశేషేణేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తస్య తావద్ ఏవ చిరṁ యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇత్య్ ఉత్పన్న-విద్యస్యాపి శరీర-మోక్షావధిత్వ-శ్రుతేః, సర్వ-వినాశే శరీర-స్థిత్య్-అనుపపత్తేశ్ చానారబ్ధ-కార్యయోర్ ఏవ వినాశః। సూత్రṁ చ వ్యాఖ్యాతమ్॥౧౫॥
Link copiedఇత్య్ అనారబ్ధ-కార్యాధికరణమ్॥౯॥
Link copied౪౮౫ అగ్నిహోత్రాది తు తత్-కార్యాయైవ తద్-దర్శనాత్॥౪।౧।౧౬॥
Link copiedఅగ్నిహోత్రాద్య్-ఆశ్రమ-ధర్మః కిṁ విదుషోఽనుష్ఠేయః, ఉత నేతి సṁశయః। సుకృత-దుష్కృతయోర్ అశ్లేష-వినాశాభిధానాద్ ఆశ్రమ-ధర్మస్యాపి సుకృతత్వ-సామ్యేన కార్యాశ్లేషాద్ అననుష్ఠేయ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆశ్రమ-ధర్మస్య తు విద్యోత్పత్తిర్ ఏవ కార్యమ్ ఇతి తత్-కార్యాయైవానుష్ఠేయః। దృశ్యతే హి--- తమ్ ఏతṁ వేదానువచనేన బ్రాహ్మణా వివిదిషన్తీత్య్ ఆదినా విద్యోత్పత్తి-కార్యత్వమ్। విద్యా చాప్రయాణాద్ అహర్ అహర్ అభ్యాసాధేయాతిశయోత్పాద్యైవ। సూత్రṁ చ వ్యాఖ్యాతమ్॥౧౬॥
Link copiedయద్య్ అగ్నిహోత్రాది-సాధు-కృత్యా విద్యోత్పత్త్య్-అర్థా, పూర్వ-కృతా చ సాధు-కృత్యా అనుభూత-ఫలా ప్రారబ్ధ-ఫలా చ, సుహృదః సాధు-కృత్యామ్ ఇత్య్ అస్య విషయః క ఇత్య్ ఆశఙ్క్యాహ---
Link copied౪౮౬ అతోఽన్యాపి హ్య్ ఏకేషామ్ ఉభయోః॥౪।౧।౧౭॥
Link copiedఅతః--- అగ్నిహోత్రాది-సాధు-కృత్యాయాః అన్యాపి విద్యాధిగమాత్ పూర్వోత్తరయోః పుణ్య-కర్మణోర్ ఉభయోశ్ చ కారీర్య్-ఆదికా వృష్ట్య్-అన్నాద్య్-అర్థతయా విదుషానుష్ఠితా, విద్యోత్పత్తేః పూర్వṁ కృతానాది-కాల-ప్రవృత్తా చ ప్రబల-కర్మాన్తర-ప్రతిబద్ధ-ఫలా, సాధు-కృత్యాస్తి హి। అత ఏకేషాṁ శాఖినాṁ--- సుహృదః సాధు-కృత్యామ్ ఇతి వచనṁ తద్-విషయమ్; విద్యయాశ్లేష-వినాశ-శ్రుతిశ్ చ తద్-విషయా॥౧౭॥
Link copiedఅనుష్ఠితస్య కర్మణః ప్రబల-కర్మ-ప్రతిబన్ధ-సమ్భవṁ పూర్వోక్తṁ స్మారయతి---
Link copied౪౮౭ యద్ ఏవ విద్యయేతి హి॥౪।౧।౧౮॥
Link copiedఉక్తṁ హ్య్ ఉద్గీథ-విద్యాయాః క్రతోః కర్మాన్తర-ప్రతిబన్ధాభావః ఫలమ్ ఇతి; అతః ప్రతిబద్ధ-ఫల-సాధు-కృత్యస్యైవ సుహృత్-సఙ్క్రమణమ్॥౧౮॥ ఇత్య్ అగ్నిహోత్రాద్య్-అధికరణమ్॥౧౦॥
Link copied౪౮౮ భోగేన త్వ్ ఇతరే క్షపయిత్వాథ సమ్పద్యతే॥౪।౧।౧౯॥
Link copiedఇతరే--- ఆరబ్ధ-కార్యే పుణ్య-పాపే, కిṁ విద్యా-యోని-శరీరావసాన ఏవ వినశ్యేతే, ఉత తచ్-ఛరీరావసానే శరీరాన్తరావసానే వేత్యనియమ ఇతి సṁశయః। యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇతి సమ్పత్తేః శరీర-విమోక్ష-విలమ్బ-మాత్ర-శ్రుతేస్ తచ్-ఛరీరావసాన ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ప్రారబ్ధ-ఫలయోః కర్మణోః భోగేనైవ క్షపయితవ్యత్వాభిప్రాయేణ, యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇత్య్ ఉచ్యతే, న శరీర-మాత్రమ్। కర్మ-విషయౌ హి బన్ధ-మోక్షౌ। అతః ప్రారబ్ధ-ఫలే పుణ్య-పాపే యావతా శరీరేణ సమాపనీయే, తావతా క్షపయిత్వా అథ సమ్పద్యత ఇత్య్ అనియమ ఏవ। సూత్రṁ చ వ్యాఖ్యాతమ్॥౧౯॥ ఇతి ఇతర-క్షపణాధికరణమ్॥౧౧॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే చతుర్థస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copied470 āvṛttir asakṛd upadeśāt||4|1|1||
Link copiedbrahma-vid āpnoti param, tam evaṁ vidvān amṛta iha bhavati, ity ādi vedānta-vihitaṁ vedanaṁ kiṁ sakṛt kṛtam eva śāstrārthaḥ, utāsakṛd āvṛttam iti saṁśayaḥ| sakṛt kṛtam eveti pūrvaḥ pakṣaḥ, sa yo ha vai tat paramaṁ brahma veda brahmaiva bhavati, ity ādau vedanasyaiva mukty-upāyatva-pratipādanāt, sakṛt kṛte'pi vedane śāstrārtha-nirvṛtteḥ, tasyāsakṛd āvṛttau pramāṇābhāvāt| rāddhāntas tu--- yas tad veda yat sa veda sa mayaitad uktaḥ, ity upakramya, anu ma etāṁ bhagavo devatāṁ śādhi yāṁ devatām upāḥ se, ity ekasmin vākye vidyupāsyor vyatikareṇa prayoga-darśanāt, samānārtheṣu, brahma-vid āpnoti param, ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ, ity ādiṣu dhyāna-vidyor vyatikara-darśanāc ca, dhyānopāsanādi-śabda-vācyam asakṛd āvṛttaṁ smṛti-santāna-rūpa-vedanam eva śāstrārtha iti niścīyate| sūtrārthas tu--- āvṛttir asakṛt--- brahma-prāpti-sādhanaṁ vedanam asakṛd āvṛttam eva śāstrārthaḥ, vedanaṁ dhyāna-śabda-vācyam ity arthaḥ| kutaḥ| upadeśāt--- om ity evaṁ dhyāyathātmānam, nicāyya taṁ mṛtyu-mukhāt pramucyate, ātmānam eva lokam upāsīta, ātmā vā are draṣṭavyaḥ, ity ādinā upāsanopasaṁhāropadeśāt| upāsanaṁ cāvicchinna-smṛti-santāna-rūpam iti pūrvam evoktam||1||
Link copied471 liṅgāc ca||4|1|2||
Link copiedliṅgaṁ--- smṛtiḥ| smaryate cāyam arthaḥ--- māṁ dhyāyanta upāsate, teṣām ahaṁ samuddhartā mṛtyu-saṁsāra-sāgarāt, ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate, tad-rūpa-pratyaye caikā santatiś cānya-nispṛhā| tad-dhyānaṁ prathamaiḥ ṣaḍbhir aṅgair niṣpādyate tathā, iti||2|| ity āvṛtty-adhikaraṇam||1||
Link copied472 ātmeti tūpagacchanti grāhayanti ca||4|1|3||
Link copiedkim upāsyaṁ brahmopāsitur anyatvenānusandheyam, utātmatveneti saṁśayaḥ| adhikaṁ tu bheda-nirdeśāt, adhikopadeśāt, ity ādiṣūpāsitur upāsyasyārthāntaratvenaivopapādanād yathāvasthitasyaivopāsyatvāc cānyatvenopāsyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- tvaṁ vā aham asmi bhagavo devate ahaṁ vai tvam asi bhagavo devate, iti pūrve upāsitāraḥ upāsyamātmatvenopagacchanti| ata ātmety evopāsyam| tānupāsitṝn pratyarthāntara-bhūtasyāpi brahmaṇaḥ upāsiturātmatvaṁ grāhayanti śāstrāṇi, ya ātmani tiṣṭhann ātmano'ntaro yam ātmā na veda yasyātmā śarīraṁ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ, ity ārabhyopāsitā paramātmanaḥ śarīram, paramātmā copāsitur ātmeti pratipādanena; tathā--- sarvaṁ khalv idaṁ brahma, taj jalān iti, san-mūlāḥ somyemāḥ sarvāḥ prajāḥ sad-āyatanāḥ sat-pratiṣṭhāḥ....aitadātmyam idaṁ sarvam iti ca tad-āyatta-svarūpa-sthiti-pravṛttitā-pratipādanena ca| evam upāsituḥ svātmano'py ātmatvād brahmaṇaḥ yathāvasthitasv ātma-śarīraka-brahmānusandhāne'ham ity eṣānusandheyam| yathā manuṣyo'ham asmīti sva-śarīrasya sva-prakārataka-svabhāvatayā prakāriṇi svātmani paryavasānam; tathā svātmano'haṁ-pratyayo'haṁ-śabdaś ca na kevala-svātma-viṣayau, paramātma-śarīratayā tad-viśeṣaṇatvenaiva svātmano'vasthānāt| sūtram api vyākhyātam||3|| ity ātmatvopāsanādhikaraṇam||2||
Link copied473-474 na pratīke na hi saḥ||4|1|4||
Link copiedbrahma-dṛṣṭir utkarṣāt||4|1|5||
Link copiedmano brahmety upāsīta, ity ādiṣu pratīkopāsaneṣv apy ātmatvenānusandhānaṁ kartavyam uta neti saṁśayaḥ| mano brahmety upāsīteti brahmopāsanatva-viśeṣād ātmety evānusandhānam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- na pratīke ātmatvānusandhānaṁ kāryam| kutaḥ| na hi mana ādir upāsitur ātmā na ca tatra brahmopāsyam, brahma-dṛṣṭyā mana ādir upāsyaḥ| apakṛṣṭe utkṛṣṭa-dṛṣṭir abhyudayāya bhavati; yathā bhṛtyādau rāja-dṛṣṭiḥ| sūtra-dvayaṁ ca vyākhyātam||4-5|| iti pratīkādhikaraṇam||3||
Link copied475 ādityādimatayaś cāṅga upapatteḥ||4|1|6||
Link copiedya evāsau tapati tam udgītham upāsīta, ity ādiṣu karmāṅgāśrayopāsaneṣu kim udgīthādāv ādityādi-dṛṣṭiḥ kāryā, utādityādāv udgīthādi-dṛṣṭir iti saṁśayaḥ| karmaṇaḥ phala-sādhanatayotkarṣād ādityāder devatātvena tad-guṇatvāc cādityādāv udgīthādi-dṛṣṭiḥ kāryeti pūrvaḥ pakṣaḥ| rāddhāntas tu--- karmaṇo'pi phala-sādhanatvam ādityādi-devatārādhana-dvāreṇety ādityāder evotkarṣopapatter ādityādimataya eva karmāṅgodgīthādau kāryāḥ| sūtraṁ ca vyākhyātam||6|| ity ādityādimaty-adhikaraṇam||4||
Link copied476 āsīnaḥ sambhavāt||4|1|7||
Link copiedkim idaṁ brahmopāsanam āsīnaḥ kuryāt, utāsīnaḥ śayānas tiṣṭhan gacchan vety aniyamaḥ, iti saṁśayaḥ| viśeṣāśravaṇād aniyama iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- āsīnasyaivaikāgratāsambhavāt, ekāgratā-mūlatvāc copāsanasya, āsīnaḥ kuryāt| sūtram api vyākhyātam||7||
Link copied477 dhyānāc ca||4|1|8||
Link copiednididhyāsitavyaḥ, ity upāsanasya dhyāna-rūpatvāc caikāgra-cittatāvaśyambhāvinī| dhyānaṁ hi vijātīya-pratyayāntarāvyavahitaṁ tailadhārāvad avicchinna-smṛti-santati-rūpam||8||
Link copied478 acalatvaṁ cāpekṣya||4|1|9||
Link copiedniścalatvaṁ cāpekṣya dhyāna-vāco-yuktiḥ pṛthivy-ādiṣu dṛśyate, dhyāyatīva pṛthivī, dhyāyatīvāntarikṣaṁ, dhyāyatīva dyauḥ, ity ādikā| ato dhyāyataḥ pṛthivyādivad acalatvam āsīnasyaiva sambhavati||9||
Link copied479 smaranti ca||4|1|10||
Link copiedsmaranti cāsīnasyaiva dhyānam--- upaviśyāsane yujyāyogam ātma-viśuddhaye, iti||10||
Link copied480 yatraikāgratā tatrāviśeṣāt||4|1|11||
Link copiedyasmin deśe yasmiṁś ca kāle manasa ekāgratā, tatra deśe kāle copāsanaṁ kāryam; śarkarādi-rahite mano-'nukūle śucau deśe, ity etad-atirikta-viśeṣāgrahaṇāt| yathā deśa-kālayor ekāgratāyām aviśeṣaḥ, na tathā sthiti-gaty-ādau, āsīnasya tu viśeṣo'stīty abhiprāyaḥ||11||
Link copiedity āsīnādhikaraṇam||5||
Link copied481 āprayāṇāt tatrāpi hi dṛṣṭam||4|1|12||
Link copiedtad idam apavarga-sādhanam upāsanam ekasminn ahani kāryam uta pratyaham āprayāṇād anuvartanīyam iti saṁśayaḥ| ekasminn evāhani śāstrārthasya kṛtatvāt tāvataiva parisamāpanīyam| yāvad āyuṣam iti tu vacanaṁ vidhi-śabdasyābhāvād vidyāyāḥ phalenopasaṁhāra-param iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- āprayāṇād anuvartanīyam| kutaḥ| tatrāpi hi dṛṣṭaṁ--- sa khalv evaṁ vartayan yāvad āyuṣaṁ brahma-lokam abhisampadyate, iti| aprāptatvenānuvādatvāsambhavād vidhir evāyam iti||12|| ity āprayāṇādhikaraṇam||6||
Link copied482 tad-adhigama uttara-pūrvāghayor aśleṣa-vināśau tad-vyapadeśāt||4|1|13||
Link copiedviduṣa uttara-pūrvāghayor aśleṣa-vināśau kiṁ sambhavataḥ, uta neti saṁśayaḥ| nābhuktaṁ kṣīyate karma kalpa-koṭi-śatair api, iti bhogād eva karma-kṣaya-śravaṇād aśleṣa-vināśa-śrutiḥ kathañcid vidyā-stuty-arthatayā neyeti pūrvaḥ pakṣaḥ| rāddhāntas tu--- dvayoḥ śāstrayor bhinna-viṣayatvena virodhābhāvāt sambhavata eva; karmaṇāṁ phala-janana-sāmarthyaṁ draḍhayati--- nābhuktaṁ kṣīyate, iti| evam evaṁvidi pāpaṁ karma na śliṣyate, evaṁ hāsya sarve pāpmānaḥ pradūyante, iti ca śrutir vidyāyās tat-sāmarthya-nivāraṇa-śakti-viṣayeti yathā ap-tejasoḥ śīta-janana-tan-nivāraṇa-śakti-viṣaye pramāṇe na virudhyete iti| sūtram api vyākhyātam||13|| iti tad-adhigamādhikaraṇam||7||
Link copied483 itarasyāpy evam asaṁśleṣaḥ pāte tu||4|1|14||
Link copiedkim asaṁśleṣa-vināśau puṇya-karmaṇo'pi samānau, uta neti saṁśayaḥ| puṇya-karma-phalasya sukha-rūpatvena viduṣo'niṣṭatvābhāvān na samānāv iti pūrvaḥ pakṣaḥ| rāddhāntas tu---mumukṣor mokṣa-virodhitvenāniṣṭatva-sāmyād aśleṣa-vināśau samānāv eva| sūtrārthas tu--- itarasy--- puṇyasyāpy aniṣṭa-phalatva-sāmyād evam--- aśleṣa-vināśau; vidyānuguṇasya tu vṛṣṭy-annārogyādi-phalasya śarīra-pātād ūrdhvam aniṣṭatvād aśleṣaḥ||14|| iti itarādhikaraṇam||8||
Link copied484 anārabdha-kārye eva tu pūrve tad-avadheḥ||4|1|15||
Link copiedvidyotpatteḥ pūrva-kṛtayoḥ puṇya-pāpayor aviśeṣeṇa vināśaḥ, utānārabdha-kāryayor eveti saṁśayaḥ| sarve pāpmānaḥ pradūyante, iti viśeṣābhāvād aviśeṣeṇeti pūrvaḥ pakṣaḥ| rāddhāntas tu--- tasya tāvad eva ciraṁ yāvan na vimokṣye atha sampatsye, ity utpanna-vidyasyāpi śarīra-mokṣāvadhitva-śruteḥ, sarva-vināśe śarīra-sthity-anupapatteś cānārabdha-kāryayor eva vināśaḥ| sūtraṁ ca vyākhyātam||15||
Link copiedity anārabdha-kāryādhikaraṇam||9||
Link copied485 agnihotrādi tu tat-kāryāyaiva tad-darśanāt||4|1|16||
Link copiedagnihotrādy-āśrama-dharmaḥ kiṁ viduṣo'nuṣṭheyaḥ, uta neti saṁśayaḥ| sukṛta-duṣkṛtayor aśleṣa-vināśābhidhānād āśrama-dharmasyāpi sukṛtatva-sāmyena kāryāśleṣād ananuṣṭheya iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- āśrama-dharmasya tu vidyotpattir eva kāryam iti tat-kāryāyaivānuṣṭheyaḥ| dṛśyate hi--- tam etaṁ vedānuvacanena brāhmaṇā vividiṣantīty ādinā vidyotpatti-kāryatvam| vidyā cāprayāṇād ahar ahar abhyāsādheyātiśayotpādyaiva| sūtraṁ ca vyākhyātam||16||
Link copiedyady agnihotrādi-sādhu-kṛtyā vidyotpatty-arthā, pūrva-kṛtā ca sādhu-kṛtyā anubhūta-phalā prārabdha-phalā ca, suhṛdaḥ sādhu-kṛtyām ity asya viṣayaḥ ka ity āśaṅkyāha---
Link copied486 ato'nyāpi hy ekeṣām ubhayoḥ||4|1|17||
Link copiedataḥ--- agnihotrādi-sādhu-kṛtyāyāḥ anyāpi vidyādhigamāt pūrvottarayoḥ puṇya-karmaṇor ubhayoś ca kārīry-ādikā vṛṣṭy-annādy-arthatayā viduṣānuṣṭhitā, vidyotpatteḥ pūrvaṁ kṛtānādi-kāla-pravṛttā ca prabala-karmāntara-pratibaddha-phalā, sādhu-kṛtyāsti hi| ata ekeṣāṁ śākhināṁ--- suhṛdaḥ sādhu-kṛtyām iti vacanaṁ tad-viṣayam; vidyayāśleṣa-vināśa-śrutiś ca tad-viṣayā||17||
Link copiedanuṣṭhitasya karmaṇaḥ prabala-karma-pratibandha-sambhavaṁ pūrvoktaṁ smārayati---
Link copied487 yad eva vidyayeti hi||4|1|18||
Link copieduktaṁ hy udgītha-vidyāyāḥ kratoḥ karmāntara-pratibandhābhāvaḥ phalam iti; ataḥ pratibaddha-phala-sādhu-kṛtyasyaiva suhṛt-saṅkramaṇam||18|| ity agnihotrādy-adhikaraṇam||10||
Link copied488 bhogena tv itare kṣapayitvātha sampadyate||4|1|19||
Link copieditare--- ārabdha-kārye puṇya-pāpe, kiṁ vidyā-yoni-śarīrāvasāna eva vinaśyete, uta tac-charīrāvasāne śarīrāntarāvasāne vetyaniyama iti saṁśayaḥ| yāvan na vimokṣye atha sampatsye, iti sampatteḥ śarīra-vimokṣa-vilamba-mātra-śrutes tac-charīrāvasāna iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- prārabdha-phalayoḥ karmaṇoḥ bhogenaiva kṣapayitavyatvābhiprāyeṇa, yāvan na vimokṣye atha sampatsye, ity ucyate, na śarīra-mātram| karma-viṣayau hi bandha-mokṣau| ataḥ prārabdha-phale puṇya-pāpe yāvatā śarīreṇa samāpanīye, tāvatā kṣapayitvā atha sampadyata ity aniyama eva| sūtraṁ ca vyākhyātam||19|| iti itara-kṣapaṇādhikaraṇam||11||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe caturthasyādhyāyasya prathamaḥ pādaḥ||
Link copied