Vedanta Dipa · Section 13 of 17
||atha tṛtīyādhyāye caturthaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
४१९। पुरुषार्थोऽतः शब्दाद् इति बादरायणः॥३।४।१॥
Link copiedकिꣳ विद्यातः पुरुषार्थः, उत कर्मण इति सꣳशयः। कर्मण इति पूर्वः पक्षः; कर्माङ्गत्वाद् विद्याया; कर्मसु कर्तृ-भूत-प्रत्यगात्मनो याथात्म्य-प्रतिपादन-पराणि वेदान्त-वाक्यानि। विद्यायाः कर्माङ्गत्वꣳ च--- यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति श्रुत्यैवावगम्यते। न च प्रकृतोद्गीथोपासन-विषयत्वम् अस्य वक्तुꣳ शक्यते, यद् एव विद्यया करोतीति श्रुत्यैव सर्व-कर्मसु विद्याया विनियुक्तत्वात्। श्रुतिश् च प्रकरणाद् बलीयसी। विद्यायाः कर्माङ्गत्वꣳ कथम् इत्य् अपेक्षायाꣳ, तत् त्वम् असि, अयम् आत्मा ब्रह्मेति सामानाधिकरण्येन कर्माङ्ग-भूत-कर्तृ-याथात्म्यानुसन्धान-द्वारेण विद्यायाः कर्माङ्गत्वम् इत्य् अवगम्यते। अतः कर्तृ-सꣳस्कार-रूपत्वाब्रह्म-विद्यायाः कर्मण एव पुरुषार्थः। तत्र तत्र फल-श्रुतिर् अर्थवादः स्यात्। विद्यायाः कर्माङ्गत्वे भूयाꣳसि लिङ्गानि च दृश्यन्ते सर्व-वेदान्तेषु। राद्धान्तस् तु--- कर्मसु कर्तुः प्रत्यगात्मनोऽर्थान्तर-भूतस्य स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलस्य निखिल-हेय-प्रत्यनीक-कल्याणैकतानानन्त-ज्ञानानन्दैक-स्वरूपस्य सर्वेश्वरस्य सत्य-सङ्कल्पस्य करणाधिप-रूप-प्रत्यगात्माधिपस्य वेद्यस्य वेदन-रूपाया विद्यायाः, ब्रह्म-विद् आप्नोति परम् इत्य् आदिषु ब्रह्म-प्राप्ति-रूप-फलोपदेशाद् विद्यात एव फलम्। यद् एव विद्यया करोतीति श्रुतिः प्रसिद्धवन् निर्देशात्; प्रसिद्धिश् च प्रकृतोद्गीथोपासनस्यैवेति, प्रस्तुतोद्गीथोपासन-विशेष-निष्ठा। तत् त्वम् असीति सामानाधिकरण्यꣳ च तच्-छब्द-निर्दिष्टस्य स्व-सङ्कल्प-कृत-जगज्-जन्म-स्थिति-ध्वꣳसादिकस्य परस्य ब्रह्मणो न जीव-स्वरूपत्व-परम्; अपि तु जगत्-कारणस्य ब्रह्मणो जीव-शरीरकतया जीवस्यात्मत्व-परम् इति, अधिकꣳ तु भेद-निर्देशाद् इत्य् आदिषूक्तम्। य आत्मति तिष्ठन् \॥॥यस्यात्मा शरीरम् इति च प्रत्यगात्मन आत्मत्वꣳ परस्य ब्रह्मणः श्रुत्य्-अन्तरे व्यक्तम्। सूत्रार्थस् तु--- पुरुषार्थोऽतः, विद्यातः। कुतः। ब्रह्म-विद् आप्नोति परम् इत्य् आदि शब्दात्॥१॥
Link copied४२०। शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः॥३।४।२॥
Link copiedतत् त्वम् असीत्य् आदि सामानाधिकरण्येन ब्रह्मणः कर्मसु कर्तृ-स्वरूपत्वावगमाद् विद्यायाः कर्तृ-सꣳस्कार-द्वारेण कर्म-शेषत्वात् तत्र पुरुषार्थवादोऽर्थवाद-मात्रम्; यथा अन्येषु द्रव्य-सꣳस्कारादिष्व् इति जैमिनिर् आचार्यो मन्यते॥२॥
Link copied४२१। आचार-दर्शनात्॥३।४।३॥
Link copiedइतश् च विद्या कर्माङ्गम्; ब्रह्म-विदाम् आचारो हि कर्म-प्रधानो दृश्यते। यथाश्वपतिः केकयो ब्रह्म-विद्-अग्रेसरः--- यक्ष्यमाणो ह वै भगवन्तोऽहम् अस्मि, इत्य् आह। कर्मणैव हि सꣳसिद्धिम् आस्थिता जनकादयः, इति च स्मर्यते॥३॥
Link copiedलिङ्गम् इदम्; प्राप्तिर् उच्यताम् इत्य् अत्राह---
Link copied४२२। तच् छ्रुतेः॥३।४।४॥
Link copiedयद् एव विद्यया करोतीत्य् आदिकायाः श्रुतेर् विद्यायाः कर्माङ्गत्वम् अवगम्यते। न च दुर्बलेन प्रकरणेन श्रुतिर् विद्या-विशेषोद्गीथ-विषयोपासने व्यवस्थाप्यते॥४॥
Link copied४२३। समन्वारम्भणात्॥३।४।५॥
Link copiedतꣳ विद्या-कर्मणी समन्वारभेते, इति विद्या-कर्मणोर् एकस्मिन् पुरुषे साहित्यꣳ च विद्यायाः कर्माङ्गत्वे हि भवति॥५॥
Link copied४२४। तद्वतो विधानात्॥३।४।६॥
Link copiedविद्यावतः कर्म-विधानाच् च विद्या कर्माङ्गम्। आचार्य-कुलाद् वेदम् अधीत्य यथाविधानꣳ गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे, इत्य् आदिनाध्ययनवतः कर्माणि विदधदर्थावबोध-पर्यन्तत्वाद् अध्ययनस्य विद्यावत एव कर्माणि विदधातीत्य् अवगम्यते॥६॥
Link copied४२५। नियमात्॥३।४।७॥
Link copiedकुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः, इत्य् आत्म-विदाम् आयुषः कर्मसु नियम-दर्शनाच् च कर्मण एव पुरुषार्थः; न विद्यात इत्य् अवगम्यते। अतश् च विद्या कर्माङ्गम्॥७॥
Link copied४२६। अधिकोपदेशात् तु बादरायणस्यैवꣳ तद्-दर्शनात्॥३।४।८॥
Link copiedतु-शब्दात् पक्षो व्यावृत्तः। बादरायणस्यैवꣳ--- विद्यातः फलम् इति मतम्। कुतः। अधिकोपदेशात्--- कर्मसु कर्तुः प्रत्यगात्मनोऽधिकस्य--- अर्थान्तरभूतस्य वेद्यस्य वेदन-भूत-विद्यायाः फल-साधनत्वोपदेशात्। तद्-दर्शनात्--- दृश्यते हि वेदान्त-वाक्येऽधिक-विषयत्वꣳ विद्यायाः। एवम् एव हि--- तद् ऐक्षत बहु स्याꣳ प्रजायेयेति, सोऽकामयत बहु स्याꣳ प्रजायेयेत्य् आदिषु बहु-भवन-सङ्कल्प-पूर्वक-सृष्टयादेः कर्तुः सर्वेश्वरस्य करणाधिपाधिपस्यानवधिकातिशय-ज्ञानानन्दैक-स्वरूपस्य निखिल-हेय-प्रत्यनीकस्य वेद्यस्य विद्या ब्रह्म-प्राप्ति-फलाय विधीयते॥८॥
Link copied४२७। तुल्यꣳ तु दर्शनम्॥३।४।९॥
Link copiedविद्यायाः प्रधानत्वेऽपि ब्रह्म-विदाम् आचार-दर्शनꣳ तुल्यम्--- कर्मणाम् अनाचार-दर्शनम् अप्य् अस्तीत्य् अर्थः, ऋषयः कावषेयाः किम्-अर्था वयम् अध्येष्यामहे किम्-अर्था वयꣳ यक्ष्यामहे, इत्य् आदौ। कर्मानुष्ठान-दर्शनꣳ तु फलाभिसन्धि-रहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस् तु फलाभिसन्धि-युक्तस्य विद्या-विरोधित्वाद् इत्य् अभिप्रायः॥९॥
Link copied४२८। असार्वत्रिकी॥३।४।१०॥
Link copiedयद् एव विद्यया करोतीति श्रुतिः सर्व-विद्यायाः कर्माङ्गत्वꣳ विदधातीत्य् एतद् असङ्गतम्; अत्र विद्या-शब्दाभिहिता तु न सार्वत्रिक्री, अपि तूद्गीथ-विद्या। यत् करोति, तद् विद्ययेति नैवꣳ पदान्वयः; अपि तु यद् एव विद्यया करोति, तद् एव वीर्यवत्तरम् इति। विद्यया क्रियमाणस्यान्यतोऽवगतस्य वीर्यवत्तरत्वꣳ प्रतिसाधन-भावोऽवगम्यते, यद् एवेति प्रसिद्धवन् निर्देशात्। अन्यतोऽवगतिर् हि, उद्गीथम् उपासीतेति सन्निहितोद्गीथ-विद्यायाः॥१०॥
Link copied४२९। विभागः शतवत्॥३।४।११॥
Link copiedतꣳ विद्या-कर्मणी समन्वारभेते, इत्य् अत्र विद्या च स्वस्मै फलाय कर्म च स्वस्मै फलायान्वारभत इति विभागो द्रष्टव्यः, यतो विद्या-कर्मणोर् भिन्न-फलत्वम् उक्तम्। शतवत्--- यथा क्षेत्र-रत्न-विक्रयिणꣳ शत-द्वयम् अन्वेतीत्य् उक्ते, क्षेत्रार्थꣳ शतम्, रत्नार्थꣳ शतम् इति विभागोऽवगम्यते; तद्वत्॥११॥
Link copied४३०। अध्ययन-मात्रवतः॥३।४।१२॥
Link copiedवेदम् अधीत्येत्य् अध्ययन-मात्रवत एव कर्म-विधानाद् अनेन विद्याया न कर्माङ्गत्वम् अवगतम्। अध्ययन-विधिर् ह्य् आधानवन् नियमवद् अक्षर-राशि-ग्रहण-मात्रे पर्यवस्पति; गृहीतस्य स्वाध्यायस्य फलवद् अर्थावबोधित्व-दर्शनात् तन्-निर्णय-फल-मीमाꣳसा-श्रवणे अधीत-वेदः पुरुषः स्वयम् एव प्रवर्तते। अर्थावबोध-पर्यन्तत्वेऽप्य् अर्थ-ज्ञानाद् अर्थान्तर-भूता स्मृति-प्रत्ययावृत्ति-रूपा, विद्यात्, उपासीतेति शास्त्र-विहिता विद्या न कर्माङ्गम्॥१२॥
Link copied४३१। नाविशेषात्॥३।४।१३॥
Link copiedकुर्वन्न् एवेह कर्माणि, इति ब्रह्म-विदाम् आयुषः कर्मणि नियमो दृश्यत इत्य् एतन् न सम्भवति, अविशेषात्--- विदुष एवेति विशेषाभावात् किम् इत्य् अविदुषो न स्यात्। विदुषस् त्व् आप्रयाणाद् उपासनानुवृत्ति-दर्शनाद् अर्थ-स्वभावाद् विदुष एवेत्य् अभिप्रायः॥१३॥
Link copied४३२। स्तुतयेऽनुमतिर् वा॥३।४।१४॥
Link copiedवा-शब्दोऽवधारणे। ईशावास्यम् इदꣳ सर्वम् इति विद्या-प्रकरणाद् विद्या-स्तुतये कर्मानुमतिर् एव। विद्या-माहात्म्यात् सर्वदा कर्माणि कुर्वन्न् अपि तैर् न लिप्यत इति हि स्तुता भवति विद्या। वाक्य-शेषे च--- न कर्म लिप्यते नरे, इति श्रूयते॥१४॥
Link copied४३३। काम-कारेण चैके॥३।४।१५॥
Link copiedएके शाखिनः काम-कारेण च विद्या-निष्ठस्य गार्हस्थ्य-त्यागम् अधीयते। किꣳ प्रजया करिष्यामो येषाꣳ नोऽयम् आत्मायꣳ लोकः, इति गार्हस्थ्य-कर्म-त्यागꣳ ब्रुवद् वाक्यꣳ विद्या प्रधानम् इति दर्शयति॥१५॥
Link copied४३४। उपमर्दꣳ च॥३।४।१६॥
Link copiedविद्यया सर्व-कर्मोपमर्दꣳ चाधीयते--- क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे, इति; तद्-विद्यायाः कर्माङ्गत्वे न सङ्गच्छते॥१६॥
Link copied४३५। ऊर्ध्व-रेतःसु च शब्दे हि॥३।४।१७॥
Link copiedऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या-दर्शनात् तेषु चाग्निहोत्रादि-कर्माभावान् न विद्या कर्माङ्गम्। ते चात्राश्रमाः सन्त्य् एव; यतो वैदिके शब्दे तेऽपि दृश्यन्ते--- त्रयो धर्म-स्कन्धा यज्ञोऽध्ययनꣳ दानम् इति, ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते, एतम् एव प्रवाजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदौ। यावज्-जीवम् अग्निहोत्रम् इत्य् आदिका तु श्रुतिर् अविरक्त-विषया॥१७॥
Link copied४३६। परामर्शꣳ जैमिनिर् अचोदनाच् चापवदति हि॥३।४।१८॥
Link copiedत्रयो धर्म-स्कन्धाः, इत्य् आदिषु तेषाम् आश्रमाणाम् अचोदनात्--- अविधानाद् उपासना-स्तुत्य्-अर्थꣳ परामर्शम्--- अनुवादꣳ जैमिनिर् आचार्यो मन्यते। अपि च, अपवदति हि श्रुतिर् आश्रमान्तरꣳ--- वीरहा वा एष देवानाꣳ योऽग्निम् उद्वासयते, इत्य् आदिका। अतस् ते न सन्त्य् एव॥१९॥
Link copied४३७। अनुष्ठेयꣳ बादरायणः साम्य-श्रुतेः॥३।४।१९॥
Link copiedगृहस्थाश्रमवद् आश्रमान्तरम् अप्य् अनुष्ठेयꣳ भगवान् बादरायणो मन्यते। कुतः। तस्यापि तत्-साम्यश्रुतेः--- त्रयो धर्म-स्कन्धाः, इत्य् एवम् आदौ हि सर्वेषाम् आश्रमाणाम् एक-रूपꣳ सङ्कीर्तनम्॥१९॥
Link copied४३८। विधिर् वा धारणवत्॥३।४।२०॥
Link copiedवा-शब्दोऽवधारणे; सर्वेषाम् आश्रमाणाꣳ विधिर् एवायम्। धारणवत्, यथा--- अधस्तात् समिधꣳ धारयन्न् अनुद्रवेत्, उपरि हि देवेभ्यो धारयति, इत्य् अनुवाद-रूपेऽप्य् उपरिधारणस्याप्राप्तत्वेन विधिर् आश्रीयते; एवम् इहाश्रमाणाम् अपि। अत ऊर्ध्व-रेतःस्व् अपि विद्या-दर्शनाद् विद्यातः पुरुषार्थ इति॥२०॥ इति पुरुषार्थाधिकरणम्॥१॥
Link copied४३९-४४०। स्तुति-मात्रम् उपादानाद् इति चेन् नापूर्वत्वात्॥३।४।२१॥
Link copiedभाव-शब्दाच् च॥३।४।२२॥
Link copiedओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, स एष रसानाꣳ रसतमः परमः परार्थ्योऽष्टमो यद् उद्गीथः, इत्य् एतज्-जातीयके किꣳ कर्माङ्गाश्रयाणाꣳ दृष्टि-विशेषाणाꣳ विधिर् आस्थेयः, उतोद्गीथादि-स्तुति-मात्रम् इति सꣳशयः। विधित्वे सिद्धे हि गो-दोहनादिवद् भवति; विधित्वम् एव न सम्भवतीति पूर्वः पक्षः। इयम् एव जुहूः स्वर्गो लोक आहवनीयः, कर्माङ्ग-भूतोद्गीथादि-सम्बन्धितयोपादानाद् रसतमत्वादेस् तत्-स्तुति-मात्रत्वम् एव; न रसतमत्वादि-दृष्टि-विधिः। राद्धान्तस् तु---जुह्व्-आदि-विधिवद् उद्गीथादि-विधेर् अत्रासन्निधानात्, रसतमत्वादेर् अप्राप्तत्वाच् च, उपासीतेति विधि-प्रत्ययेन च, न स्तुति-मात्रम्, तद्-दृष्टि-विधिर् एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२१-२२॥ इति स्तुति-मात्राधिकरणम्॥२॥
Link copied४४१-४४२। पारिप्लवार्था इति चेन् न विशेषितत्वात्॥३।४।२३॥
Link copiedतथा चैक-वाक्योपबन्धात्॥३।४।२४॥
Link copiedप्रतर्दनो ह वै दैवोदासिः, इत्य् आदयो वेदान्तेष्व् आख्यान-विशेषाः किꣳ पारिप्लव-प्रयोगार्थाः, उत तत्र तत्र विद्या-विशेष-प्रतिपादनार्थाः, इति सꣳशयः। आख्यानानि शꣳसन्तीति पारिप्लवे विनियोगात् तद्-अर्थाः, इति पूर्वः पक्षः। राद्धान्तस् तु--- आख्यानानि शꣳसन्तीत्य् उक्त्वा, मनुर् वैवस्वतो राजा, इति मन्व्-आद्य्-आख्याने विनियोगस्य विशेषितत्वात्, तꣳ माम् आयुर् अमृतम् इत्य् उपाःस्व, आत्मा वा अरे द्रष्टव्यः, इत्य् आदि विधिनैक-वाक्यत्वाच् च, सोऽरोदीत्, इत्य् आदिवद् विद्या-विध्य्-अर्था एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२३-२४॥ इति पारिप्लवार्थाधिकरणम्॥३॥
Link copied४४३। अत एव चाग्नीन्धनाद्य्-अनपेक्षा॥३।४।२५॥
Link copiedऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या सम्भवति, नेति सꣳशयः। यज्ञाद्य्-अभावात् तेषाꣳ तद्-अङ्गिका विद्या न सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु--- यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति, एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदि श्रुतेस् तेषाꣳ विद्यावत्त्वावगमात् तेष्व् अग्निहोत्राद्य्-अनपेक्षा विद्येति निश्चीयते। सूत्रार्थस् तु--- अत एव, विद्यावत्त्व-श्रुतेर् एव, आधानाद्य्-अनपेक्षा तेषु विद्या। अग्नीन्धनꣳ ह्य् अग्न्य्-आधानम्॥२५॥ इत्य् अग्नीन्धनाद्य्-अधिकरणम्॥४॥
Link copied४४४। सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत्॥३।४।२६॥
Link copiedकर्मवत्सु गृहस्थेषु किꣳ यज्ञादि-कर्मापेक्षा विद्या, उत तत्रापि केवलैवेति सꣳशयः। ऊर्ध्व-रेतःसु यज्ञाद्य्-अनपेक्षैवामृतत्वꣳ साधयति चेत् कर्म-निरपेक्षाया विद्याया एव साधनत्वम् अभ्युपगमनीयम्। तथा सति गृहस्थेष्व् अपि तन्-निरपेक्षैव साधयितुꣳ समर्थेति पूर्वः पक्षः। न हि स्वर्गादि-साधन-भूतम् अग्निहोत्रादि-कर्म पुरुष-भेदेन नाना-विधाङ्गकꣳ दृष्टम्। विविदिषन्तीति शब्दोऽपि वेदनेच्छायाꣳ कर्माणि विनियुङ्क्ते, न विद्यायाम्। राद्धान्तस् तु--- कर्मवत्सु गृहस्थेषु यज्ञादि-सर्व-कर्मापेक्षा विद्या। कुतः। यज्ञादि-श्रुतेः--- तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति हि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते। अतो गृहस्थेषु कर्मापेक्षा विद्या। इच्छाया इष्यमाण-प्रधानत्वाद् विविदिषन्तीतीष्यमाणꣳ ज्ञानम् एवेत्य् अवगम्यते। यथा गमन-साधन-भूतोऽश्वः स्व-परिकर-बन्ध-रूप-परिकर्मापेक्षः; एवꣳ मोक्ष-साधन-भूता विद्यापि नित्य-नैमित्तिक-परिकर्मापेक्षा। ऊर्ध्व-रेतःसु च स्वाश्रम-विहितꣳ कर्मैव परिकर्म भवतीति तेष्व् अपि विद्या-सम्बन्धः शास्त्राद् अवगम्यते। शास्त्रैक-समधिगम्ये हि यथाशास्त्रम् अभ्युपगमनीयम्। सूत्रम् अपि व्याख्यातम्॥२६॥ इति सर्वापेक्षाधिकरणम्॥५॥
Link copied४४५। शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्॥३।४।२७॥
Link copiedकिꣳ विद्या-निर्वृत्तये गृहस्थैः शम-दमादय उपादेयाः, उत नेति सꣳशयः। गृहस्थानाम् आन्तर-बाह्य-करण-व्यापार-रूप-कर्माङ्गकत्वाद् विद्यायाः, तद्-विपरीत-रूप-शम-दमाद्य्-उपादानासामर्थ्याद् ऊर्ध्व-रेतःसु कर्म-रहितेषु शमादि-विनियोगो भविष्यति, यथा यज्ञादि-विनियोगः कर्मवत्सु गृहस्थेषु। तस्माद् अनुपादेयाः शमादय इति पूर्वः पक्षः। राद्धान्तस् तु--- तस्माद् एवꣳ-विच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानꣳ पश्येत्, इति सामान्येन विद्याङ्गतया विनियोगाद् गृहस्थैर् अप्य् उपादेयाः। न च कर्मवताꣳ तेषाꣳ शमाद्य्-उपादानासामर्थ्यम्; भिन्न-विषयत्वाच् छमादेः। विहितेषु हि कर्मसु करण-व्यापारः; अविहितेषु प्रयोजन-शून्येषु च शम-दमादयः। अतः शमादि-विनियोगो यज्ञादि-विनियोगवन् न सङ्कोचम् अर्हतीति। सूत्रार्थस् तु--- यद्य् अपि गृहस्थो यज्ञादि-कर्मसु विनियुक्तः, तथापि तु शम-दमाद्य्-उपेतः स्यात्। कुतः। शान्तो दान्तः, इत्य् आदिना तद्-विधेस् तद्-अङ्गतया--- विद्याङ्गतया विद्या-निष्पत्तये तेषाम् अवश्यानुष्ठेयत्वाच् च। एकाग्रता-निष्पाद्यत्वाच् छम-दमादिभिर् एव विद्या-निष्पत्तिर् इत्य् अर्थः। यज्ञादि-कर्माण्य् अपि पाप-निबर्हण-द्वारेणैकाग्रताम् आपादयन्तीत्य् अभिप्रायः॥२७॥ इति शम-दमाद्य्-अधिकरणम्॥६॥
Link copied४४६। सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात्॥३।४।२८॥
Link copiedवाजिनाꣳ छन्दोगानाꣳ प्राण-विद्यायाꣳ, न ह वा एवꣳ-विदि किञ्चनान्नꣳ भवति, इति सर्वान्नानुमतिः सङ्कीर्त्यते। किꣳ प्राण-विदः सर्वान्नानुमतिः सर्वदा, उत प्रणात्ययापत्ताव् इति सꣳशयः। अविशेषासर्वदेति पुर्वः पक्षः। अतिशयित-शक्तेर् ब्रह्म-विदोऽप्य् उच्छिष्ट-परिग्रहण-भक्षणयोः प्राणात्ययापत्ताव् एव दर्शनाद् अल्प-शक्तेः प्राण-विदः किꣳ पुनर् इति प्राणात्ययापत्ताव् एवेति राद्धान्तः। सुत्रर्थस् तु--- च-शब्दोऽवधरणे; प्राण-विदः सर्वन्नानुमतिः। प्राणात्यय एव। कुतः। तद्-दर्शनात्--- अतिशयित-शक्तेर् ब्रह्म-विदः प्राणात्यय एव सर्वन्नानुमति-दर्शनात्॥२८॥
Link copied४४७। अबाधाच् च॥३।४।२९॥
Link copiedआहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः, इत्य् आहार-शुद्धि-विधेर् अबाधाच् च प्राणात्यय एव॥२९॥
Link copied४४८। अपि स्मर्यते॥३।४।३०॥
Link copiedप्राण-सꣳशयम् आपन्नो योऽन्नम् अत्ति यतस् ततः। लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा, इति प्राण-सꣳशय एव सर्वान्नानुमतिः स्मर्यते च॥३०॥
Link copied४४९। शब्दश् चातोऽकाम-कारे॥३।४।३१॥
Link copiedयतः सर्वान्नानुमतिः प्राणात्यये; अतोऽकाम-कारे शब्दश् च--- काम-कारस्य प्रतिषेधक-शब्दश् चोपपद्यत इत्य् अर्थः। अस्ति हि कठानाꣳ काम-कार-प्रतिषेधकः शब्दः, तस्माद् ब्राह्मणः सुराꣳ न पिबति पाप्मना नोत्सृजा, इति। पाप्मना सꣳस्पृष्टो न भवानीति मत्वा सुराꣳ न पिबतीत्य् अर्थः॥३१॥
Link copiedइति सर्वान्नानुमत्य्-अधिकरणम्॥७॥
Link copied४५०। विहितत्वाच् चाश्रम-कर्मापि॥३।४।३२॥
Link copiedकिꣳ यज्ञादयो विद्याङ्ग-भूताः केवलाश्रमस्याप्य् अङ्ग-भूताः, उत नेति सꣳशयः। केवलाश्रमस्याप्य् अङ्गत्वे नित्यानित्य-सꣳयोग-रूप-विरोधः प्रसज्यत इति नाङ्ग-भूताः केवलाश्रमस्येति पूर्वः पक्षः। राद्धान्तस् तु--- यदैकेनैव विनियोगेनोभयाङ्गत्वम् इष्यते तदा नित्यानित्य-सꣳयोग-विरोधः। इह तु--- यावज्-जीवम् अग्निहोत्रꣳ जुहुयात्, तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति विनियोग पृथक्त्वेन विरोधः परिह्रियते; यथाग्निहोत्रादीनाम् एव कर्मणाम्। जीवनाधिकारकाम् अनाधिकारयोर् इवाधिकार-भेदस्यास्फुटत्वात् तत्-स्फुटीकरणाय पुनर् इह चिन्त्यते। सूत्रार्थस् तु--- यावज्-जीवम् अग्निहोत्रꣳ जुहुयाद् इत्य् आदिना केवल-गृहस्थाश्रमिणो जीवन-निमित्ततया विहितत्वाद् एव यज्ञादि केवलाश्रम-कर्मापि॥३२॥
Link copied४५१। सहकारित्वेन च॥३।४।३३॥
Link copiedतम् एतꣳ वेदानुवचनेनेत्य् आदिना विद्या-साधनत्वेन विहितत्वाच् च विद्या-सहकारित्वेन चानुष्ठेयꣳ यज्ञादि-कर्म। विनियोग-पृथक्त्वेन विरोधः परिह्रियत इत्य् अभिप्रायः॥३३॥
Link copied४५२। सर्वथापि त एवोभय-लिङ्गात्॥३।४।३४॥
Link copiedसर्वथापि--- उभयत्र विनियोगेऽपि त एव यज्ञादयः। कुतः। उभय-लिङ्गात्--- उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात्॥३४॥
Link copied४५३। अनभिभवꣳ च दर्शयति॥३।४।३५॥
Link copiedधर्मेण पापम् अपनुदति, इत्य् आदिभिश् च यज्ञादि-धर्मान् निर्दिश्य तैर् विद्याया अनभिभवꣳ--- पाप-कर्मभिर् उत्पत्ति-प्रतिबन्धाभावꣳ दर्शयति। अत उभयत्र विनियोगात् केवलाश्रमिणाꣳ मुमुक्षूणाꣳ चानुष्ठेया यज्ञादयः॥३५॥ इति विहितत्वाधिकरणम्॥८॥
Link copied४५४। अन्तरा चापि तु तद्-दृष्टेः॥३।४।३६॥
Link copiedविधुरादीनाम् अनाश्रमिणाꣳ ब्रह्म-विद्यायाम् अधिकारोऽस्ति, नेति सꣳशयः। आश्रम-धर्मेतिकर्तव्यताकत्वाद् विद्यायास् तद्-अभावात् तेषाम् अनधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- ऊर्ध्व-रेतःस्व् इव रैक्वादिष्व् अनाश्रमिषु विद्या-निष्ठत्व-दर्शनाद् आश्रमानियतैर् जपोपवास-दानादिभिर् एव तेषाꣳ विद्यानुग्रहो भवतीत्य् अस्त्य् एवाधिकारः। सूत्रार्थस् तु--- तु-शब्दात् पक्षो व्यावृत्तः। च-शब्दोऽवधारणे। अन्तरापि--- आश्रमानन्तरा वर्तमानानाम् अनाश्रमिणाम् अप्य् अधिकारोऽस्त्य् एव। कुतः। तद्-दृष्टेः--- रैक्वादिषु विद्या-निष्ठत्व-दृष्टेः॥३६॥
Link copied४५५। अपि स्मर्यते॥३।४।३७॥
Link copiedअपि च अनाश्रमिणाम् अपि जपादिभिर् एव विद्यानुग्रहः स्मर्यते--- जप्येनापि च सꣳसिध्येद् ब्रह्मणो नात्र सꣳशयः, इत्य् आदिना॥३७॥
Link copied४५६। विशेषानुग्रहश् च॥३।४।३८॥
Link copiedआश्रमानियत-धर्म-विशेषेण विद्यानुग्रहः श्रूयते च--- तपसा ब्रह्मचर्येण श्रद्धया विद्यया चात्मानम् अन्विच्छेत्, इति॥३८॥
Link copied४५७। अतस् त्व् इतरज् ज्यायो लिङ्गाच् च॥३।४।३९॥
Link copiedअतः--- अनाश्रमित्वादितरत्, आश्रमित्वꣳ ज्यायः, धर्म-भूयस्त्वात्; लिङ्गाच् च स्मृतेश् चेत्य् अर्थः। अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि द्विजः, इति हि स्मर्यते। तस्माद् अनाश्रमित्वेन विद्या-निष्ठत्वम् आपद्-विषयम् इत्य् अभिप्रायः॥३९॥ इति विधुराधिकरणम्॥९॥
Link copied४५८। तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः॥३।४।४०॥
Link copiedनैष्ठिक-वैखानस-परिव्राजकानाꣳ स्वाश्रमेभ्यः प्रच्युतानाम् अपि विद्याधिकारोऽस्ति, नेति सꣳशयः। विधुरादिवज् जपादिभिर् अनुग्रह-सम्भवाद् अस्त्य् एवाधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- नैष्ठिकादीनाꣳ स्वाश्रम-भ्रष्टानाꣳ प्रायश्चित्ताभाव-स्मरणाच् छिष्ट-बहिष्कृतत्वाच् च तेषाम् अनधिकारः, इति। सूत्रार्थस् तु--- तद्-भूतस्य तु नातद्-भावः--- नैष्ठिकादि-भूतस्यातथाभावो न सम्भवति। कुतः। तद्-रूपाभावेभ्यः शास्त्रैर् नियमात्, तद्-रूपाभावा नैष्ठिकाद्य्-आश्रम-धर्माभावाः; तेभ्यो नियच्छन्ति हि शास्त्राणि। ब्रह्मचार्याचार्य-कुल-वासी तृतीयोऽत्यन्तम् आत्मानम् आचार्य-कुलेऽवसादयन्, इति नैष्ठिकस्य तत्रैव नियमः; अरण्यम् इयात् ततो न पुनर् एयात्, इति च वैखानसस्य; सन्न्यस्याग्निꣳ न पुनर् आवर्तयेत्, इति च परिव्राजकस्य। अत एव तेषाम् अनाश्रमित्वेनावस्थानाभावाद् विद्याधिकारो न सम्भवति। जैमिनेर् अप्य् अविगीतोऽयम्॥४०॥
Link copied४५९। न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात्॥३।४।४१॥
Link copiedआधिकारिकम्--- अधिकार-लक्षणोक्तम्, अवकीर्णि पशुश् च तद्वत्, इत्य् एतत् प्रायश्चित्तꣳ नैष्ठिकस्य न सम्भवति। कुतः। पतनानुमानान् नैष्ठिकस्य तद्-अयोगात्। तस्य हि पतनꣳ स्मर्यते प्रायश्चित्ताभाव-वचनेन, आरूढो नैष्ठिकꣳ धर्मꣳ यस् तु प्रच्यवते द्विजः। प्रायश्चित्तꣳ न पश्यामि येन शुध्येत् स आत्महा, इति। अत उपकुर्वाण-ब्रह्मचारि-विषयमाधिकारिकम्॥४१॥
Link copied४६०। उपपूर्वम् अपीत्य् एके भावम् अशनवत् तद् उक्तम्॥३।४।४२॥
Link copiedएके प्रायश्चित्त-भावम् अपि मन्यन्ते, यत उपपूर्वम्--- उपपातकम् इदम्; अशनवत्--- मध्व्-अशनादि-निषेध-तत्-प्रायश्चित्तवद् भवतीत्य् अर्थः। अत उपकुर्वाणस्य ब्रह्मचारिण उक्तम् आधिकारिकम् अस्यापि भवतीति। तद् उक्तꣳ स्मृति-कारैः, उत्तरेषाꣳ चैतद्-अविरोधि, इति। उपकुर्वाणे ब्रह्मचारिण्य् उक्तो धर्म उत्तरेषाꣳ चाश्रमिणाꣳ स्वाश्रमाविरोधी भवत्य् एवेत्य् अर्थः॥४२॥
Link copied४६१। बहिस् तूभयधापि स्मृतेर् आचाराच् च॥३।४।४३॥
Link copiedउभयधापि--- उपपातकत्वे महा-पातकत्वेऽपि नैष्ठिकात् प्रच्युतो बहिर् भूतः कर्माधिकारात्, प्रायश्चित्तꣳ न पश्यामि, इति स्मृतेः, आचाराच् च--- वर्जयन्ति ह्य् एनꣳ शिष्टा विद्योपदेशादौ। यद्य् अपि कल्मष-निबर्हणाय कैश्चित् प्रायश्चित्तम् उच्यते; तथापि कर्माधिकारापादिनी शुद्धिस् तेषाꣳ न सम्भवतीत्य् अभिप्रायः॥४३॥ इति तद्-भताधिकरणम्॥१०॥
Link copied४६२। स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः॥३।४।४४॥
Link copiedउद्गीथाद्य्-उपासनꣳ किꣳ यजमानेनानुष्ठेयम्, उत ऋत्विजेति सꣳशयः। यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति क्रतु-वीर्यवत्तरत्व-फलꣳ यजमानस्येति दहरोपासनादिवद् यजमानेनानुष्ठेयम् इति पूर्वः पक्षः। कर्माङ्गाश्रयत्वाद् अस्योपासनस्य कर्मणश् चार्त्विज्यत्वेन एतद् अपि ऋत्विजानुष्ठेयꣳ, गो-दोहनादिवद् इति राद्धान्तः। सूत्रार्थस् तु--- स्वामिनः, यजमानस्योद्गीथाद्य्-उपासने कर्तृत्वम्। कुतः। तस्यैव फल-श्रुतेर् इत्य् आत्रेयो मन्यते॥४४॥
Link copied४६३। आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते॥३।४।४५॥
Link copiedक्रत्व्-अङ्गाश्रयत्वेन क्रत्व्-अधिकृतस्यैवास्मिन्न् उपासनेऽधिकारात् क्रतोश् चार्त्विज्यत्वेन एतद् अप्य् आर्त्विज्यम् इत्य् औडुलोमिर् आचार्यो मन्यते, यजमान-फल-साधनत्वेऽपि क्रतोस् तद्-अनुष्ठानाय हि ऋत्विक् परिक्रियते॥४५॥ इति स्वाम्य्-अधिकरणम्॥११॥
Link copied४६४। सहकार्यन्तर-विधिः पक्षेण तृतीयꣳ तद्वतो विध्य्-आदिवत्॥३।४।४६॥
Link copiedतस्माद् ब्राह्मणः पाण्डित्यꣳ निर्विद्य बाल्येन तिष्ठासेत्, बाल्यꣳ च पाण्डित्यꣳ च निर्विद्याथ मुनिः, इत्य् अत्र मौनꣳ विद्याङ्गतया विधीयते, उतानूद्यत इति सꣳशयः। मौनस्य मनन-रूपत्वात्, श्रोतव्यो मन्तव्यः, इति च प्राप्तत्वेनानूद्यत इति पूर्वः पक्षः। राद्धान्तस् तु--- मुनि-शब्दस्य प्रकृष्ट-मनन-शीले प्रसिद्धेः, प्रकृष्ट-मननम् उपास्य-विषयाभ्यास-रूपꣳ विद्या-निष्पत्तये विधीयत इति। सूत्रार्थस् तु--- तद्वतः, विद्यावतः, सहकार्यन्तरꣳ--- मौनꣳ विधिः, विधीयत इति विधिर् इति मौनꣳ विधिर् इत्य् उक्तम्। विध्यादिवत्--- अत्रापि विधीयत इति विधिर् यज्ञ-दान-प्रभृत्य्-आश्रम-धर्मः, आदि-शब्दाच् छ्रवण-मनने गृह्येते। आश्रम-धर्मवच् छ्रवण-मननवच् च पाण्डित्य-बाल्ययोस् तृतीयम् इदꣳ सहकार्यन्तरꣳ मौनम् अपूर्वꣳ विधीयते। कुत इत्य् अत आह--- पक्षेणेति। मुनि-शब्दस्य प्रकृष्ट-मनन-युक्ते पक्षेण--- प्रसिद्धेर् इत्य् अर्थः॥४६॥
Link copied४६५। कृत्स्न-भावात् तु गृहिणोपसꣳहारः॥३।४।४७॥
Link copiedसर्वाश्रमिणाꣳ विद्यावत्त्वेऽपि छान्दोग्ये--- स खल्व् एवꣳ वर्तयन् यावद्-आयुषꣳ ब्रह्म-लोकम् अभिसम्पद्यते, इति गृहस्थ-धर्मेणोपसꣳहारः। कुतः। कृत्स्न-भावात्--- कृत्स्नेषु भावात्--- कृत्स्नेष्व् आश्रमिषु विद्यायाः सद्-भावाद् इत्य् अर्थः॥४७॥
Link copied४६६। मौनवद् इतरेषाम् अप्य् उपदेशात्॥३।४।४८॥
Link copiedअथ मुनिः, इत्य् अस्मिन् वाक्ये, अथ भिक्षाचर्यꣳ चरति, इति पारिव्राज्यैकान्त-धर्मेणोपसꣳहारोऽपि सर्वाश्रम-धर्म-प्रदर्शनार्थः, भिक्षाचर्य-मौनादिवद् इतरेषाम् आश्रम-धर्माणाꣳ यज्ञादीनाम् अप्य् उपदेशात्॥४८॥ इति सहकार्यन्तर-विध्य्-अधिकरणम्॥१२॥
Link copied४६७। अनाविष्कुर्वन्न् अन्वयात्॥३।४।४९॥
Link copiedतस्माद् ब्राह्मणः पाण्डित्यꣳ निर्विद्य बाल्येन तिष्ठासेत् बाल्यꣳ च पाण्डित्यꣳ च निर्विद्याथ मुनिः, इत्य् अत्र किꣳ बालस्य कर्म काम-चारादिकꣳ सर्वꣳ विदुषोपादेयम्, उत विद्या-माहात्म्यानाविष्कार इति सꣳशयः। बाल्येन तिष्ठासेद् इत्य् अविशेष-विधानात् काम-चारादिकꣳ सर्वम् अप्य् उपादेयम् इति पूर्वः पक्षः; विदुषो विशेष-विधानात्, विद्या-माहात्म्याच् च, निषेध-श्रुतयो बाधिता भवेयुर् इति। राद्धान्तस् तु--- पाण्डित्य-प्रयुक्त-स्व-माहात्म्यानाविष्कार एव विद्यान्वय-योग्यतयोपादेयः; इतरस्य काम-चारादेः, नाविरतो दुश्चरितात्, इत्य् आदि शस्त्रैर् विद्योत्पत्ति-विरोधित्वावगमात्। अतो यथा बालः स्वाभिजनाद्य् अनाविष्कुर्वन् वर्तते; तथा विद्वान् वर्तेतेत्य् एतद् एव युक्तम्। सूत्रम् अपि व्याख्यातम्॥४९॥ इत्य् अनाविष्काराधिकरणम्॥१३॥
Link copied४६८। ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात्॥३।४।५०॥
Link copiedमोक्ष-व्यतिरिक्ताभ्युदय-फलम् उपासनꣳ किꣳ स्व-साधन-भूत-पुण्य-कर्मानन्तरम् एवोत्पद्यते, उतानन्तरम् अन्यदा वेत्य् अनियम इति सꣳशयः। साधन-निर्वृत्तौ विलम्ब-हेत्व्-अभावाद् अनन्तरम् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- अप्रस्तुते--- प्रबल-कर्मान्तर-प्रतिबन्धे सत्य् अनन्तरम्, प्रस्तुते तद्-उत्तर-कालम् इत्य् अनियमः। दृश्यते हि प्रबल-कर्मान्तरेण फल-प्रतिबन्धः, यद् एव विद्यया करोति तद् एव वीर्यवत्तरम् इत्य् उद्गीथोपासनस्य क्र्तोः कर्मान्तरेण फलाप्रतिबन्धः फलम् इति, पृथग् घ्य् अप्रतिबन्धः फलम् इत्य् अभ्युपगमात्। सूत्रम् अपि व्याख्यातम्। ऐहिकम्--- अभ्युदय-फलम् इत्य् अर्थः॥५०॥
Link copiedइत्य् ऐहिकाधिकरणम्॥१४॥
Link copied४६९। एवꣳ मुक्ति-फलानियमस् तद्-अवस्थावधृतेस् तद्-अवस्थावधृतेः॥३।४।५१॥
Link copiedकिꣳ मुक्ति-फलान्य् उपासनानि स्व-साधन-भूतातिशयित-पुण्य-कर्मानन्तरम् उत्पद्यन्ते, उत पूर्ववद् अनियम इति सꣳशयः। मुक्ति-फलोपासन-साधन-भूत-कर्मणाꣳ सर्व-कर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावाद् अनन्तरम् एवोत्पद्यत इति पूर्वः पक्षः। तत्रापि ब्रह्म-विद्-अपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्ध-सम्भवाद् अनियम एवेति राद्धान्तः। सूत्रार्थस् तु--- मुक्ति-फलानाम् अप्य् एवम् अनियमः। कुतः। तद्-अवस्थावधृतेः--- प्रतिबन्धाभावे सति फलावधृतेः। द्विर्-उक्तिर् अध्याय-परिसमाप्तिꣳ द्योतयति॥५१॥ इति मुक्ति-फलाधिकरणम्॥१५॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थः पादः॥
Link copied॥ समाप्तश् चाध्यायः॥
Link copied౪౧౯। పురుషార్థోఽతః శబ్దాద్ ఇతి బాదరాయణః॥౩।౪।౧॥
Link copiedకిṁ విద్యాతః పురుషార్థః, ఉత కర్మణ ఇతి సṁశయః। కర్మణ ఇతి పూర్వః పక్షః; కర్మాఙ్గత్వాద్ విద్యాయా; కర్మసు కర్తృ-భూత-ప్రత్యగాత్మనో యాథాత్మ్య-ప్రతిపాదన-పరాణి వేదాన్త-వాక్యాని। విద్యాయాః కర్మాఙ్గత్వṁ చ--- యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి శ్రుత్యైవావగమ్యతే। న చ ప్రకృతోద్గీథోపాసన-విషయత్వమ్ అస్య వక్తుṁ శక్యతే, యద్ ఏవ విద్యయా కరోతీతి శ్రుత్యైవ సర్వ-కర్మసు విద్యాయా వినియుక్తత్వాత్। శ్రుతిశ్ చ ప్రకరణాద్ బలీయసీ। విద్యాయాః కర్మాఙ్గత్వṁ కథమ్ ఇత్య్ అపేక్షాయాṁ, తత్ త్వమ్ అసి, అయమ్ ఆత్మా బ్రహ్మేతి సామానాధికరణ్యేన కర్మాఙ్గ-భూత-కర్తృ-యాథాత్మ్యానుసన్ధాన-ద్వారేణ విద్యాయాః కర్మాఙ్గత్వమ్ ఇత్య్ అవగమ్యతే। అతః కర్తృ-సṁస్కార-రూపత్వాబ్రహ్మ-విద్యాయాః కర్మణ ఏవ పురుషార్థః। తత్ర తత్ర ఫల-శ్రుతిర్ అర్థవాదః స్యాత్। విద్యాయాః కర్మాఙ్గత్వే భూయాṁసి లిఙ్గాని చ దృశ్యన్తే సర్వ-వేదాన్తేషు। రాద్ధాన్తస్ తు--- కర్మసు కర్తుః ప్రత్యగాత్మనోఽర్థాన్తర-భూతస్య స్వ-సఙ్కల్ప-కృత-జగద్-ఉదయ-విభవ-లయ-లీలస్య నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానానన్త-జ్ఞానానన్దైక-స్వరూపస్య సర్వేశ్వరస్య సత్య-సఙ్కల్పస్య కరణాధిప-రూప-ప్రత్యగాత్మాధిపస్య వేద్యస్య వేదన-రూపాయా విద్యాయాః, బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ ఆదిషు బ్రహ్మ-ప్రాప్తి-రూప-ఫలోపదేశాద్ విద్యాత ఏవ ఫలమ్। యద్ ఏవ విద్యయా కరోతీతి శ్రుతిః ప్రసిద్ధవన్ నిర్దేశాత్; ప్రసిద్ధిశ్ చ ప్రకృతోద్గీథోపాసనస్యైవేతి, ప్రస్తుతోద్గీథోపాసన-విశేష-నిష్ఠా। తత్ త్వమ్ అసీతి సామానాధికరణ్యṁ చ తచ్-ఛబ్ద-నిర్దిష్టస్య స్వ-సఙ్కల్ప-కృత-జగజ్-జన్మ-స్థితి-ధ్వṁసాదికస్య పరస్య బ్రహ్మణో న జీవ-స్వరూపత్వ-పరమ్; అపి తు జగత్-కారణస్య బ్రహ్మణో జీవ-శరీరకతయా జీవస్యాత్మత్వ-పరమ్ ఇతి, అధికṁ తు భేద-నిర్దేశాద్ ఇత్య్ ఆదిషూక్తమ్। య ఆత్మతి తిష్ఠన్ \॥॥యస్యాత్మా శరీరమ్ ఇతి చ ప్రత్యగాత్మన ఆత్మత్వṁ పరస్య బ్రహ్మణః శ్రుత్య్-అన్తరే వ్యక్తమ్। సూత్రార్థస్ తు--- పురుషార్థోఽతః, విద్యాతః। కుతః। బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇత్య్ ఆది శబ్దాత్॥౧॥
Link copied౪౨౦। శేషత్వాత్ పురుషార్థవాదో యథాన్యేష్వ్ ఇతి జైమినిః॥౩।౪।౨॥
Link copiedతత్ త్వమ్ అసీత్య్ ఆది సామానాధికరణ్యేన బ్రహ్మణః కర్మసు కర్తృ-స్వరూపత్వావగమాద్ విద్యాయాః కర్తృ-సṁస్కార-ద్వారేణ కర్మ-శేషత్వాత్ తత్ర పురుషార్థవాదోఽర్థవాద-మాత్రమ్; యథా అన్యేషు ద్రవ్య-సṁస్కారాదిష్వ్ ఇతి జైమినిర్ ఆచార్యో మన్యతే॥౨॥
Link copied౪౨౧। ఆచార-దర్శనాత్॥౩।౪।౩॥
Link copiedఇతశ్ చ విద్యా కర్మాఙ్గమ్; బ్రహ్మ-విదామ్ ఆచారో హి కర్మ-ప్రధానో దృశ్యతే। యథాశ్వపతిః కేకయో బ్రహ్మ-విద్-అగ్రేసరః--- యక్ష్యమాణో హ వై భగవన్తోఽహమ్ అస్మి, ఇత్య్ ఆహ। కర్మణైవ హి సṁసిద్ధిమ్ ఆస్థితా జనకాదయః, ఇతి చ స్మర్యతే॥౩॥
Link copiedలిఙ్గమ్ ఇదమ్; ప్రాప్తిర్ ఉచ్యతామ్ ఇత్య్ అత్రాహ---
Link copied౪౨౨। తచ్ ఛ్రుతేః॥౩।౪।౪॥
Link copiedయద్ ఏవ విద్యయా కరోతీత్య్ ఆదికాయాః శ్రుతేర్ విద్యాయాః కర్మాఙ్గత్వమ్ అవగమ్యతే। న చ దుర్బలేన ప్రకరణేన శ్రుతిర్ విద్యా-విశేషోద్గీథ-విషయోపాసనే వ్యవస్థాప్యతే॥౪॥
Link copied౪౨౩। సమన్వారమ్భణాత్॥౩।౪।౫॥
Link copiedతṁ విద్యా-కర్మణీ సమన్వారభేతే, ఇతి విద్యా-కర్మణోర్ ఏకస్మిన్ పురుషే సాహిత్యṁ చ విద్యాయాః కర్మాఙ్గత్వే హి భవతి॥౫॥
Link copied౪౨౪। తద్వతో విధానాత్॥౩।౪।౬॥
Link copiedవిద్యావతః కర్మ-విధానాచ్ చ విద్యా కర్మాఙ్గమ్। ఆచార్య-కులాద్ వేదమ్ అధీత్య యథావిధానṁ గురోః కర్మాతిశేషేణాభిసమావృత్య కుటుమ్బే, ఇత్య్ ఆదినాధ్యయనవతః కర్మాణి విదధదర్థావబోధ-పర్యన్తత్వాద్ అధ్యయనస్య విద్యావత ఏవ కర్మాణి విదధాతీత్య్ అవగమ్యతే॥౬॥
Link copied౪౨౫। నియమాత్॥౩।౪।౭॥
Link copiedకుర్వన్న్ ఏవేహ కర్మాణి జిజీవిషేచ్ ఛతṁ సమాః, ఇత్య్ ఆత్మ-విదామ్ ఆయుషః కర్మసు నియమ-దర్శనాచ్ చ కర్మణ ఏవ పురుషార్థః; న విద్యాత ఇత్య్ అవగమ్యతే। అతశ్ చ విద్యా కర్మాఙ్గమ్॥౭॥
Link copied౪౨౬। అధికోపదేశాత్ తు బాదరాయణస్యైవṁ తద్-దర్శనాత్॥౩।౪।౮॥
Link copiedతు-శబ్దాత్ పక్షో వ్యావృత్తః। బాదరాయణస్యైవṁ--- విద్యాతః ఫలమ్ ఇతి మతమ్। కుతః। అధికోపదేశాత్--- కర్మసు కర్తుః ప్రత్యగాత్మనోఽధికస్య--- అర్థాన్తరభూతస్య వేద్యస్య వేదన-భూత-విద్యాయాః ఫల-సాధనత్వోపదేశాత్। తద్-దర్శనాత్--- దృశ్యతే హి వేదాన్త-వాక్యేఽధిక-విషయత్వṁ విద్యాయాః। ఏవమ్ ఏవ హి--- తద్ ఐక్షత బహు స్యాṁ ప్రజాయేయేతి, సోఽకామయత బహు స్యాṁ ప్రజాయేయేత్య్ ఆదిషు బహు-భవన-సఙ్కల్ప-పూర్వక-సృష్టయాదేః కర్తుః సర్వేశ్వరస్య కరణాధిపాధిపస్యానవధికాతిశయ-జ్ఞానానన్దైక-స్వరూపస్య నిఖిల-హేయ-ప్రత్యనీకస్య వేద్యస్య విద్యా బ్రహ్మ-ప్రాప్తి-ఫలాయ విధీయతే॥౮॥
Link copied౪౨౭। తుల్యṁ తు దర్శనమ్॥౩।౪।౯॥
Link copiedవిద్యాయాః ప్రధానత్వేఽపి బ్రహ్మ-విదామ్ ఆచార-దర్శనṁ తుల్యమ్--- కర్మణామ్ అనాచార-దర్శనమ్ అప్య్ అస్తీత్య్ అర్థః, ఋషయః కావషేయాః కిమ్-అర్థా వయమ్ అధ్యేష్యామహే కిమ్-అర్థా వయṁ యక్ష్యామహే, ఇత్య్ ఆదౌ। కర్మానుష్ఠాన-దర్శనṁ తు ఫలాభిసన్ధి-రహితస్య కర్మణో విద్యాఙ్గత్వాత్; త్యాగస్ తు ఫలాభిసన్ధి-యుక్తస్య విద్యా-విరోధిత్వాద్ ఇత్య్ అభిప్రాయః॥౯॥
Link copied౪౨౮। అసార్వత్రికీ॥౩।౪।౧౦॥
Link copiedయద్ ఏవ విద్యయా కరోతీతి శ్రుతిః సర్వ-విద్యాయాః కర్మాఙ్గత్వṁ విదధాతీత్య్ ఏతద్ అసఙ్గతమ్; అత్ర విద్యా-శబ్దాభిహితా తు న సార్వత్రిక్రీ, అపి తూద్గీథ-విద్యా। యత్ కరోతి, తద్ విద్యయేతి నైవṁ పదాన్వయః; అపి తు యద్ ఏవ విద్యయా కరోతి, తద్ ఏవ వీర్యవత్తరమ్ ఇతి। విద్యయా క్రియమాణస్యాన్యతోఽవగతస్య వీర్యవత్తరత్వṁ ప్రతిసాధన-భావోఽవగమ్యతే, యద్ ఏవేతి ప్రసిద్ధవన్ నిర్దేశాత్। అన్యతోఽవగతిర్ హి, ఉద్గీథమ్ ఉపాసీతేతి సన్నిహితోద్గీథ-విద్యాయాః॥౧౦॥
Link copied౪౨౯। విభాగః శతవత్॥౩।౪।౧౧॥
Link copiedతṁ విద్యా-కర్మణీ సమన్వారభేతే, ఇత్య్ అత్ర విద్యా చ స్వస్మై ఫలాయ కర్మ చ స్వస్మై ఫలాయాన్వారభత ఇతి విభాగో ద్రష్టవ్యః, యతో విద్యా-కర్మణోర్ భిన్న-ఫలత్వమ్ ఉక్తమ్। శతవత్--- యథా క్షేత్ర-రత్న-విక్రయిణṁ శత-ద్వయమ్ అన్వేతీత్య్ ఉక్తే, క్షేత్రార్థṁ శతమ్, రత్నార్థṁ శతమ్ ఇతి విభాగోఽవగమ్యతే; తద్వత్॥౧౧॥
Link copied౪౩౦। అధ్యయన-మాత్రవతః॥౩।౪।౧౨॥
Link copiedవేదమ్ అధీత్యేత్య్ అధ్యయన-మాత్రవత ఏవ కర్మ-విధానాద్ అనేన విద్యాయా న కర్మాఙ్గత్వమ్ అవగతమ్। అధ్యయన-విధిర్ హ్య్ ఆధానవన్ నియమవద్ అక్షర-రాశి-గ్రహణ-మాత్రే పర్యవస్పతి; గృహీతస్య స్వాధ్యాయస్య ఫలవద్ అర్థావబోధిత్వ-దర్శనాత్ తన్-నిర్ణయ-ఫల-మీమాṁసా-శ్రవణే అధీత-వేదః పురుషః స్వయమ్ ఏవ ప్రవర్తతే। అర్థావబోధ-పర్యన్తత్వేఽప్య్ అర్థ-జ్ఞానాద్ అర్థాన్తర-భూతా స్మృతి-ప్రత్యయావృత్తి-రూపా, విద్యాత్, ఉపాసీతేతి శాస్త్ర-విహితా విద్యా న కర్మాఙ్గమ్॥౧౨॥
Link copied౪౩౧। నావిశేషాత్॥౩।౪।౧౩॥
Link copiedకుర్వన్న్ ఏవేహ కర్మాణి, ఇతి బ్రహ్మ-విదామ్ ఆయుషః కర్మణి నియమో దృశ్యత ఇత్య్ ఏతన్ న సమ్భవతి, అవిశేషాత్--- విదుష ఏవేతి విశేషాభావాత్ కిమ్ ఇత్య్ అవిదుషో న స్యాత్। విదుషస్ త్వ్ ఆప్రయాణాద్ ఉపాసనానువృత్తి-దర్శనాద్ అర్థ-స్వభావాద్ విదుష ఏవేత్య్ అభిప్రాయః॥౧౩॥
Link copied౪౩౨। స్తుతయేఽనుమతిర్ వా॥౩।౪।౧౪॥
Link copiedవా-శబ్దోఽవధారణే। ఈశావాస్యమ్ ఇదṁ సర్వమ్ ఇతి విద్యా-ప్రకరణాద్ విద్యా-స్తుతయే కర్మానుమతిర్ ఏవ। విద్యా-మాహాత్మ్యాత్ సర్వదా కర్మాణి కుర్వన్న్ అపి తైర్ న లిప్యత ఇతి హి స్తుతా భవతి విద్యా। వాక్య-శేషే చ--- న కర్మ లిప్యతే నరే, ఇతి శ్రూయతే॥౧౪॥
Link copied౪౩౩। కామ-కారేణ చైకే॥౩।౪।౧౫॥
Link copiedఏకే శాఖినః కామ-కారేణ చ విద్యా-నిష్ఠస్య గార్హస్థ్య-త్యాగమ్ అధీయతే। కిṁ ప్రజయా కరిష్యామో యేషాṁ నోఽయమ్ ఆత్మాయṁ లోకః, ఇతి గార్హస్థ్య-కర్మ-త్యాగṁ బ్రువద్ వాక్యṁ విద్యా ప్రధానమ్ ఇతి దర్శయతి॥౧౫॥
Link copied౪౩౪। ఉపమర్దṁ చ॥౩।౪।౧౬॥
Link copiedవిద్యయా సర్వ-కర్మోపమర్దṁ చాధీయతే--- క్షీయన్తే చాస్య కర్మాణి తస్మిన్ దృష్టే పరావరే, ఇతి; తద్-విద్యాయాః కర్మాఙ్గత్వే న సఙ్గచ్ఛతే॥౧౬॥
Link copied౪౩౫। ఊర్ధ్వ-రేతఃసు చ శబ్దే హి॥౩।౪।౧౭॥
Link copiedఊర్ధ్వ-రేతఃస్వ్ ఆశ్రమేషు బ్రహ్మ-విద్యా-దర్శనాత్ తేషు చాగ్నిహోత్రాది-కర్మాభావాన్ న విద్యా కర్మాఙ్గమ్। తే చాత్రాశ్రమాః సన్త్య్ ఏవ; యతో వైదికే శబ్దే తేఽపి దృశ్యన్తే--- త్రయో ధర్మ-స్కన్ధా యజ్ఞోఽధ్యయనṁ దానమ్ ఇతి, యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే, ఏతమ్ ఏవ ప్రవాజినో లోకమ్ ఇచ్ఛన్తః ప్రవ్రజన్తి, ఇత్య్ ఆదౌ। యావజ్-జీవమ్ అగ్నిహోత్రమ్ ఇత్య్ ఆదికా తు శ్రుతిర్ అవిరక్త-విషయా॥౧౭॥
Link copied౪౩౬। పరామర్శṁ జైమినిర్ అచోదనాచ్ చాపవదతి హి॥౩।౪।౧౮॥
Link copiedత్రయో ధర్మ-స్కన్ధాః, ఇత్య్ ఆదిషు తేషామ్ ఆశ్రమాణామ్ అచోదనాత్--- అవిధానాద్ ఉపాసనా-స్తుత్య్-అర్థṁ పరామర్శమ్--- అనువాదṁ జైమినిర్ ఆచార్యో మన్యతే। అపి చ, అపవదతి హి శ్రుతిర్ ఆశ్రమాన్తరṁ--- వీరహా వా ఏష దేవానాṁ యోఽగ్నిమ్ ఉద్వాసయతే, ఇత్య్ ఆదికా। అతస్ తే న సన్త్య్ ఏవ॥౧౯॥
Link copied౪౩౭। అనుష్ఠేయṁ బాదరాయణః సామ్య-శ్రుతేః॥౩।౪।౧౯॥
Link copiedగృహస్థాశ్రమవద్ ఆశ్రమాన్తరమ్ అప్య్ అనుష్ఠేయṁ భగవాన్ బాదరాయణో మన్యతే। కుతః। తస్యాపి తత్-సామ్యశ్రుతేః--- త్రయో ధర్మ-స్కన్ధాః, ఇత్య్ ఏవమ్ ఆదౌ హి సర్వేషామ్ ఆశ్రమాణామ్ ఏక-రూపṁ సఙ్కీర్తనమ్॥౧౯॥
Link copied౪౩౮। విధిర్ వా ధారణవత్॥౩।౪।౨౦॥
Link copiedవా-శబ్దోఽవధారణే; సర్వేషామ్ ఆశ్రమాణాṁ విధిర్ ఏవాయమ్। ధారణవత్, యథా--- అధస్తాత్ సమిధṁ ధారయన్న్ అనుద్రవేత్, ఉపరి హి దేవేభ్యో ధారయతి, ఇత్య్ అనువాద-రూపేఽప్య్ ఉపరిధారణస్యాప్రాప్తత్వేన విధిర్ ఆశ్రీయతే; ఏవమ్ ఇహాశ్రమాణామ్ అపి। అత ఊర్ధ్వ-రేతఃస్వ్ అపి విద్యా-దర్శనాద్ విద్యాతః పురుషార్థ ఇతి॥౨౦॥ ఇతి పురుషార్థాధికరణమ్॥౧॥
Link copied౪౩౯-౪౪౦। స్తుతి-మాత్రమ్ ఉపాదానాద్ ఇతి చేన్ నాపూర్వత్వాత్॥౩।౪।౨౧॥
Link copiedభావ-శబ్దాచ్ చ॥౩।౪।౨౨॥
Link copiedఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీత, స ఏష రసానాṁ రసతమః పరమః పరార్థ్యోఽష్టమో యద్ ఉద్గీథః, ఇత్య్ ఏతజ్-జాతీయకే కిṁ కర్మాఙ్గాశ్రయాణాṁ దృష్టి-విశేషాణాṁ విధిర్ ఆస్థేయః, ఉతోద్గీథాది-స్తుతి-మాత్రమ్ ఇతి సṁశయః। విధిత్వే సిద్ధే హి గో-దోహనాదివద్ భవతి; విధిత్వమ్ ఏవ న సమ్భవతీతి పూర్వః పక్షః। ఇయమ్ ఏవ జుహూః స్వర్గో లోక ఆహవనీయః, కర్మాఙ్గ-భూతోద్గీథాది-సమ్బన్ధితయోపాదానాద్ రసతమత్వాదేస్ తత్-స్తుతి-మాత్రత్వమ్ ఏవ; న రసతమత్వాది-దృష్టి-విధిః। రాద్ధాన్తస్ తు---జుహ్వ్-ఆది-విధివద్ ఉద్గీథాది-విధేర్ అత్రాసన్నిధానాత్, రసతమత్వాదేర్ అప్రాప్తత్వాచ్ చ, ఉపాసీతేతి విధి-ప్రత్యయేన చ, న స్తుతి-మాత్రమ్, తద్-దృష్టి-విధిర్ ఏవ। సూత్ర-ద్వయమ్ అపి వ్యాఖ్యాతమ్॥౨౧-౨౨॥ ఇతి స్తుతి-మాత్రాధికరణమ్॥౨॥
Link copied౪౪౧-౪౪౨। పారిప్లవార్థా ఇతి చేన్ న విశేషితత్వాత్॥౩।౪।౨౩॥
Link copiedతథా చైక-వాక్యోపబన్ధాత్॥౩।౪।౨౪॥
Link copiedప్రతర్దనో హ వై దైవోదాసిః, ఇత్య్ ఆదయో వేదాన్తేష్వ్ ఆఖ్యాన-విశేషాః కిṁ పారిప్లవ-ప్రయోగార్థాః, ఉత తత్ర తత్ర విద్యా-విశేష-ప్రతిపాదనార్థాః, ఇతి సṁశయః। ఆఖ్యానాని శṁసన్తీతి పారిప్లవే వినియోగాత్ తద్-అర్థాః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఆఖ్యానాని శṁసన్తీత్య్ ఉక్త్వా, మనుర్ వైవస్వతో రాజా, ఇతి మన్వ్-ఆద్య్-ఆఖ్యానే వినియోగస్య విశేషితత్వాత్, తṁ మామ్ ఆయుర్ అమృతమ్ ఇత్య్ ఉపాఃస్వ, ఆత్మా వా అరే ద్రష్టవ్యః, ఇత్య్ ఆది విధినైక-వాక్యత్వాచ్ చ, సోఽరోదీత్, ఇత్య్ ఆదివద్ విద్యా-విధ్య్-అర్థా ఏవ। సూత్ర-ద్వయమ్ అపి వ్యాఖ్యాతమ్॥౨౩-౨౪॥ ఇతి పారిప్లవార్థాధికరణమ్॥౩॥
Link copied౪౪౩। అత ఏవ చాగ్నీన్ధనాద్య్-అనపేక్షా॥౩।౪।౨౫॥
Link copiedఊర్ధ్వ-రేతఃస్వ్ ఆశ్రమేషు బ్రహ్మ-విద్యా సమ్భవతి, నేతి సṁశయః। యజ్ఞాద్య్-అభావాత్ తేషాṁ తద్-అఙ్గికా విద్యా న సమ్భవతీతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యద్ ఇచ్ఛన్తో బ్రహ్మచర్యṁ చరన్తి, ఏతమ్ ఏవ ప్రవ్రాజినో లోకమ్ ఇచ్ఛన్తః ప్రవ్రజన్తి, ఇత్య్ ఆది శ్రుతేస్ తేషాṁ విద్యావత్త్వావగమాత్ తేష్వ్ అగ్నిహోత్రాద్య్-అనపేక్షా విద్యేతి నిశ్చీయతే। సూత్రార్థస్ తు--- అత ఏవ, విద్యావత్త్వ-శ్రుతేర్ ఏవ, ఆధానాద్య్-అనపేక్షా తేషు విద్యా। అగ్నీన్ధనṁ హ్య్ అగ్న్య్-ఆధానమ్॥౨౫॥ ఇత్య్ అగ్నీన్ధనాద్య్-అధికరణమ్॥౪॥
Link copied౪౪౪। సర్వాపేక్షా చ యజ్ఞాది-శ్రుతేర్ అశ్వవత్॥౩।౪।౨౬॥
Link copiedకర్మవత్సు గృహస్థేషు కిṁ యజ్ఞాది-కర్మాపేక్షా విద్యా, ఉత తత్రాపి కేవలైవేతి సṁశయః। ఊర్ధ్వ-రేతఃసు యజ్ఞాద్య్-అనపేక్షైవామృతత్వṁ సాధయతి చేత్ కర్మ-నిరపేక్షాయా విద్యాయా ఏవ సాధనత్వమ్ అభ్యుపగమనీయమ్। తథా సతి గృహస్థేష్వ్ అపి తన్-నిరపేక్షైవ సాధయితుṁ సమర్థేతి పూర్వః పక్షః। న హి స్వర్గాది-సాధన-భూతమ్ అగ్నిహోత్రాది-కర్మ పురుష-భేదేన నానా-విధాఙ్గకṁ దృష్టమ్। వివిదిషన్తీతి శబ్దోఽపి వేదనేచ్ఛాయాṁ కర్మాణి వినియుఙ్క్తే, న విద్యాయామ్। రాద్ధాన్తస్ తు--- కర్మవత్సు గృహస్థేషు యజ్ఞాది-సర్వ-కర్మాపేక్షా విద్యా। కుతః। యజ్ఞాది-శ్రుతేః--- తమ్ ఏతṁ వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన, ఇతి హి యజ్ఞాదయో విద్యాఙ్గత్వేన వినియుజ్యన్తే। అతో గృహస్థేషు కర్మాపేక్షా విద్యా। ఇచ్ఛాయా ఇష్యమాణ-ప్రధానత్వాద్ వివిదిషన్తీతీష్యమాణṁ జ్ఞానమ్ ఏవేత్య్ అవగమ్యతే। యథా గమన-సాధన-భూతోఽశ్వః స్వ-పరికర-బన్ధ-రూప-పరికర్మాపేక్షః; ఏవṁ మోక్ష-సాధన-భూతా విద్యాపి నిత్య-నైమిత్తిక-పరికర్మాపేక్షా। ఊర్ధ్వ-రేతఃసు చ స్వాశ్రమ-విహితṁ కర్మైవ పరికర్మ భవతీతి తేష్వ్ అపి విద్యా-సమ్బన్ధః శాస్త్రాద్ అవగమ్యతే। శాస్త్రైక-సమధిగమ్యే హి యథాశాస్త్రమ్ అభ్యుపగమనీయమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౨౬॥ ఇతి సర్వాపేక్షాధికరణమ్॥౫॥
Link copied౪౪౫। శమ-దమాద్య్-ఉపేతః స్యాత్ తథాపి తు తద్-విధేస్ తద్-అఙ్గతయా తేషామ్ అప్య్ అవశ్యానుష్ఠేయత్వాత్॥౩।౪।౨౭॥
Link copiedకిṁ విద్యా-నిర్వృత్తయే గృహస్థైః శమ-దమాదయ ఉపాదేయాః, ఉత నేతి సṁశయః। గృహస్థానామ్ ఆన్తర-బాహ్య-కరణ-వ్యాపార-రూప-కర్మాఙ్గకత్వాద్ విద్యాయాః, తద్-విపరీత-రూప-శమ-దమాద్య్-ఉపాదానాసామర్థ్యాద్ ఊర్ధ్వ-రేతఃసు కర్మ-రహితేషు శమాది-వినియోగో భవిష్యతి, యథా యజ్ఞాది-వినియోగః కర్మవత్సు గృహస్థేషు। తస్మాద్ అనుపాదేయాః శమాదయ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తస్మాద్ ఏవṁ-విచ్ ఛాన్తో దాన్త ఉపరతస్ తితిక్షుః సమాహితో భూత్వాత్మన్య్ ఏవాత్మానṁ పశ్యేత్, ఇతి సామాన్యేన విద్యాఙ్గతయా వినియోగాద్ గృహస్థైర్ అప్య్ ఉపాదేయాః। న చ కర్మవతాṁ తేషాṁ శమాద్య్-ఉపాదానాసామర్థ్యమ్; భిన్న-విషయత్వాచ్ ఛమాదేః। విహితేషు హి కర్మసు కరణ-వ్యాపారః; అవిహితేషు ప్రయోజన-శూన్యేషు చ శమ-దమాదయః। అతః శమాది-వినియోగో యజ్ఞాది-వినియోగవన్ న సఙ్కోచమ్ అర్హతీతి। సూత్రార్థస్ తు--- యద్య్ అపి గృహస్థో యజ్ఞాది-కర్మసు వినియుక్తః, తథాపి తు శమ-దమాద్య్-ఉపేతః స్యాత్। కుతః। శాన్తో దాన్తః, ఇత్య్ ఆదినా తద్-విధేస్ తద్-అఙ్గతయా--- విద్యాఙ్గతయా విద్యా-నిష్పత్తయే తేషామ్ అవశ్యానుష్ఠేయత్వాచ్ చ। ఏకాగ్రతా-నిష్పాద్యత్వాచ్ ఛమ-దమాదిభిర్ ఏవ విద్యా-నిష్పత్తిర్ ఇత్య్ అర్థః। యజ్ఞాది-కర్మాణ్య్ అపి పాప-నిబర్హణ-ద్వారేణైకాగ్రతామ్ ఆపాదయన్తీత్య్ అభిప్రాయః॥౨౭॥ ఇతి శమ-దమాద్య్-అధికరణమ్॥౬॥
Link copied౪౪౬। సర్వాన్నానుమతిశ్ చ ప్రాణాత్యయే తద్-దర్శనాత్॥౩।౪।౨౮॥
Link copiedవాజినాṁ ఛన్దోగానాṁ ప్రాణ-విద్యాయాṁ, న హ వా ఏవṁ-విది కిఞ్చనాన్నṁ భవతి, ఇతి సర్వాన్నానుమతిః సఙ్కీర్త్యతే। కిṁ ప్రాణ-విదః సర్వాన్నానుమతిః సర్వదా, ఉత ప్రణాత్యయాపత్తావ్ ఇతి సṁశయః। అవిశేషాసర్వదేతి పుర్వః పక్షః। అతిశయిత-శక్తేర్ బ్రహ్మ-విదోఽప్య్ ఉచ్ఛిష్ట-పరిగ్రహణ-భక్షణయోః ప్రాణాత్యయాపత్తావ్ ఏవ దర్శనాద్ అల్ప-శక్తేః ప్రాణ-విదః కిṁ పునర్ ఇతి ప్రాణాత్యయాపత్తావ్ ఏవేతి రాద్ధాన్తః। సుత్రర్థస్ తు--- చ-శబ్దోఽవధరణే; ప్రాణ-విదః సర్వన్నానుమతిః। ప్రాణాత్యయ ఏవ। కుతః। తద్-దర్శనాత్--- అతిశయిత-శక్తేర్ బ్రహ్మ-విదః ప్రాణాత్యయ ఏవ సర్వన్నానుమతి-దర్శనాత్॥౨౮॥
Link copied౪౪౭। అబాధాచ్ చ॥౩।౪।౨౯॥
Link copiedఆహార-శుద్ధౌ సత్త్వ-శుద్ధిః సత్త్వ-శుద్ధౌ ధ్రువా స్మృతిః, ఇత్య్ ఆహార-శుద్ధి-విధేర్ అబాధాచ్ చ ప్రాణాత్యయ ఏవ॥౨౯॥
Link copied౪౪౮। అపి స్మర్యతే॥౩।౪।౩౦॥
Link copiedప్రాణ-సṁశయమ్ ఆపన్నో యోఽన్నమ్ అత్తి యతస్ తతః। లిప్యతే న స పాపేన పద్మ-పత్రమ్ ఇవామ్భసా, ఇతి ప్రాణ-సṁశయ ఏవ సర్వాన్నానుమతిః స్మర్యతే చ॥౩౦॥
Link copied౪౪౯। శబ్దశ్ చాతోఽకామ-కారే॥౩।౪।౩౧॥
Link copiedయతః సర్వాన్నానుమతిః ప్రాణాత్యయే; అతోఽకామ-కారే శబ్దశ్ చ--- కామ-కారస్య ప్రతిషేధక-శబ్దశ్ చోపపద్యత ఇత్య్ అర్థః। అస్తి హి కఠానాṁ కామ-కార-ప్రతిషేధకః శబ్దః, తస్మాద్ బ్రాహ్మణః సురాṁ న పిబతి పాప్మనా నోత్సృజా, ఇతి। పాప్మనా సṁస్పృష్టో న భవానీతి మత్వా సురాṁ న పిబతీత్య్ అర్థః॥౩౧॥
Link copiedఇతి సర్వాన్నానుమత్య్-అధికరణమ్॥౭॥
Link copied౪౫౦। విహితత్వాచ్ చాశ్రమ-కర్మాపి॥౩।౪।౩౨॥
Link copiedకిṁ యజ్ఞాదయో విద్యాఙ్గ-భూతాః కేవలాశ్రమస్యాప్య్ అఙ్గ-భూతాః, ఉత నేతి సṁశయః। కేవలాశ్రమస్యాప్య్ అఙ్గత్వే నిత్యానిత్య-సṁయోగ-రూప-విరోధః ప్రసజ్యత ఇతి నాఙ్గ-భూతాః కేవలాశ్రమస్యేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యదైకేనైవ వినియోగేనోభయాఙ్గత్వమ్ ఇష్యతే తదా నిత్యానిత్య-సṁయోగ-విరోధః। ఇహ తు--- యావజ్-జీవమ్ అగ్నిహోత్రṁ జుహుయాత్, తమ్ ఏతṁ వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన, ఇతి వినియోగ పృథక్త్వేన విరోధః పరిహ్రియతే; యథాగ్నిహోత్రాదీనామ్ ఏవ కర్మణామ్। జీవనాధికారకామ్ అనాధికారయోర్ ఇవాధికార-భేదస్యాస్ఫుటత్వాత్ తత్-స్ఫుటీకరణాయ పునర్ ఇహ చిన్త్యతే। సూత్రార్థస్ తు--- యావజ్-జీవమ్ అగ్నిహోత్రṁ జుహుయాద్ ఇత్య్ ఆదినా కేవల-గృహస్థాశ్రమిణో జీవన-నిమిత్తతయా విహితత్వాద్ ఏవ యజ్ఞాది కేవలాశ్రమ-కర్మాపి॥౩౨॥
Link copied౪౫౧। సహకారిత్వేన చ॥౩।౪।౩౩॥
Link copiedతమ్ ఏతṁ వేదానువచనేనేత్య్ ఆదినా విద్యా-సాధనత్వేన విహితత్వాచ్ చ విద్యా-సహకారిత్వేన చానుష్ఠేయṁ యజ్ఞాది-కర్మ। వినియోగ-పృథక్త్వేన విరోధః పరిహ్రియత ఇత్య్ అభిప్రాయః॥౩౩॥
Link copied౪౫౨। సర్వథాపి త ఏవోభయ-లిఙ్గాత్॥౩।౪।౩౪॥
Link copiedసర్వథాపి--- ఉభయత్ర వినియోగేఽపి త ఏవ యజ్ఞాదయః। కుతః। ఉభయ-లిఙ్గాత్--- ఉభయత్ర ప్రత్యభిజ్ఞానాఖ్యలిఙ్గాత్॥౩౪॥
Link copied౪౫౩। అనభిభవṁ చ దర్శయతి॥౩।౪।౩౫॥
Link copiedధర్మేణ పాపమ్ అపనుదతి, ఇత్య్ ఆదిభిశ్ చ యజ్ఞాది-ధర్మాన్ నిర్దిశ్య తైర్ విద్యాయా అనభిభవṁ--- పాప-కర్మభిర్ ఉత్పత్తి-ప్రతిబన్ధాభావṁ దర్శయతి। అత ఉభయత్ర వినియోగాత్ కేవలాశ్రమిణాṁ ముముక్షూణాṁ చానుష్ఠేయా యజ్ఞాదయః॥౩౫॥ ఇతి విహితత్వాధికరణమ్॥౮॥
Link copied౪౫౪। అన్తరా చాపి తు తద్-దృష్టేః॥౩।౪।౩౬॥
Link copiedవిధురాదీనామ్ అనాశ్రమిణాṁ బ్రహ్మ-విద్యాయామ్ అధికారోఽస్తి, నేతి సṁశయః। ఆశ్రమ-ధర్మేతికర్తవ్యతాకత్వాద్ విద్యాయాస్ తద్-అభావాత్ తేషామ్ అనధికార ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ఊర్ధ్వ-రేతఃస్వ్ ఇవ రైక్వాదిష్వ్ అనాశ్రమిషు విద్యా-నిష్ఠత్వ-దర్శనాద్ ఆశ్రమానియతైర్ జపోపవాస-దానాదిభిర్ ఏవ తేషాṁ విద్యానుగ్రహో భవతీత్య్ అస్త్య్ ఏవాధికారః। సూత్రార్థస్ తు--- తు-శబ్దాత్ పక్షో వ్యావృత్తః। చ-శబ్దోఽవధారణే। అన్తరాపి--- ఆశ్రమానన్తరా వర్తమానానామ్ అనాశ్రమిణామ్ అప్య్ అధికారోఽస్త్య్ ఏవ। కుతః। తద్-దృష్టేః--- రైక్వాదిషు విద్యా-నిష్ఠత్వ-దృష్టేః॥౩౬॥
Link copied౪౫౫। అపి స్మర్యతే॥౩।౪।౩౭॥
Link copiedఅపి చ అనాశ్రమిణామ్ అపి జపాదిభిర్ ఏవ విద్యానుగ్రహః స్మర్యతే--- జప్యేనాపి చ సṁసిధ్యేద్ బ్రహ్మణో నాత్ర సṁశయః, ఇత్య్ ఆదినా॥౩౭॥
Link copied౪౫౬। విశేషానుగ్రహశ్ చ॥౩।౪।౩౮॥
Link copiedఆశ్రమానియత-ధర్మ-విశేషేణ విద్యానుగ్రహః శ్రూయతే చ--- తపసా బ్రహ్మచర్యేణ శ్రద్ధయా విద్యయా చాత్మానమ్ అన్విచ్ఛేత్, ఇతి॥౩౮॥
Link copied౪౫౭। అతస్ త్వ్ ఇతరజ్ జ్యాయో లిఙ్గాచ్ చ॥౩।౪।౩౯॥
Link copiedఅతః--- అనాశ్రమిత్వాదితరత్, ఆశ్రమిత్వṁ జ్యాయః, ధర్మ-భూయస్త్వాత్; లిఙ్గాచ్ చ స్మృతేశ్ చేత్య్ అర్థః। అనాశ్రమీ న తిష్ఠేత్ తు దినమ్ ఏకమ్ అపి ద్విజః, ఇతి హి స్మర్యతే। తస్మాద్ అనాశ్రమిత్వేన విద్యా-నిష్ఠత్వమ్ ఆపద్-విషయమ్ ఇత్య్ అభిప్రాయః॥౩౯॥ ఇతి విధురాధికరణమ్॥౯॥
Link copied౪౫౮। తద్-భూతస్య తు నాతద్-భావో జైమినేర్ అపి నియమాత్ తద్-రూపాభావేభ్యః॥౩।౪।౪౦॥
Link copiedనైష్ఠిక-వైఖానస-పరివ్రాజకానాṁ స్వాశ్రమేభ్యః ప్రచ్యుతానామ్ అపి విద్యాధికారోఽస్తి, నేతి సṁశయః। విధురాదివజ్ జపాదిభిర్ అనుగ్రహ-సమ్భవాద్ అస్త్య్ ఏవాధికార ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- నైష్ఠికాదీనాṁ స్వాశ్రమ-భ్రష్టానాṁ ప్రాయశ్చిత్తాభావ-స్మరణాచ్ ఛిష్ట-బహిష్కృతత్వాచ్ చ తేషామ్ అనధికారః, ఇతి। సూత్రార్థస్ తు--- తద్-భూతస్య తు నాతద్-భావః--- నైష్ఠికాది-భూతస్యాతథాభావో న సమ్భవతి। కుతః। తద్-రూపాభావేభ్యః శాస్త్రైర్ నియమాత్, తద్-రూపాభావా నైష్ఠికాద్య్-ఆశ్రమ-ధర్మాభావాః; తేభ్యో నియచ్ఛన్తి హి శాస్త్రాణి। బ్రహ్మచార్యాచార్య-కుల-వాసీ తృతీయోఽత్యన్తమ్ ఆత్మానమ్ ఆచార్య-కులేఽవసాదయన్, ఇతి నైష్ఠికస్య తత్రైవ నియమః; అరణ్యమ్ ఇయాత్ తతో న పునర్ ఏయాత్, ఇతి చ వైఖానసస్య; సన్న్యస్యాగ్నిṁ న పునర్ ఆవర్తయేత్, ఇతి చ పరివ్రాజకస్య। అత ఏవ తేషామ్ అనాశ్రమిత్వేనావస్థానాభావాద్ విద్యాధికారో న సమ్భవతి। జైమినేర్ అప్య్ అవిగీతోఽయమ్॥౪౦॥
Link copied౪౫౯। న చాధికారికమ్ అపి పతనానుమానాత్ తద్-అయోగాత్॥౩।౪।౪౧॥
Link copiedఆధికారికమ్--- అధికార-లక్షణోక్తమ్, అవకీర్ణి పశుశ్ చ తద్వత్, ఇత్య్ ఏతత్ ప్రాయశ్చిత్తṁ నైష్ఠికస్య న సమ్భవతి। కుతః। పతనానుమానాన్ నైష్ఠికస్య తద్-అయోగాత్। తస్య హి పతనṁ స్మర్యతే ప్రాయశ్చిత్తాభావ-వచనేన, ఆరూఢో నైష్ఠికṁ ధర్మṁ యస్ తు ప్రచ్యవతే ద్విజః। ప్రాయశ్చిత్తṁ న పశ్యామి యేన శుధ్యేత్ స ఆత్మహా, ఇతి। అత ఉపకుర్వాణ-బ్రహ్మచారి-విషయమాధికారికమ్॥౪౧॥
Link copied౪౬౦। ఉపపూర్వమ్ అపీత్య్ ఏకే భావమ్ అశనవత్ తద్ ఉక్తమ్॥౩।౪।౪౨॥
Link copiedఏకే ప్రాయశ్చిత్త-భావమ్ అపి మన్యన్తే, యత ఉపపూర్వమ్--- ఉపపాతకమ్ ఇదమ్; అశనవత్--- మధ్వ్-అశనాది-నిషేధ-తత్-ప్రాయశ్చిత్తవద్ భవతీత్య్ అర్థః। అత ఉపకుర్వాణస్య బ్రహ్మచారిణ ఉక్తమ్ ఆధికారికమ్ అస్యాపి భవతీతి। తద్ ఉక్తṁ స్మృతి-కారైః, ఉత్తరేషాṁ చైతద్-అవిరోధి, ఇతి। ఉపకుర్వాణే బ్రహ్మచారిణ్య్ ఉక్తో ధర్మ ఉత్తరేషాṁ చాశ్రమిణాṁ స్వాశ్రమావిరోధీ భవత్య్ ఏవేత్య్ అర్థః॥౪౨॥
Link copied౪౬౧। బహిస్ తూభయధాపి స్మృతేర్ ఆచారాచ్ చ॥౩।౪।౪౩॥
Link copiedఉభయధాపి--- ఉపపాతకత్వే మహా-పాతకత్వేఽపి నైష్ఠికాత్ ప్రచ్యుతో బహిర్ భూతః కర్మాధికారాత్, ప్రాయశ్చిత్తṁ న పశ్యామి, ఇతి స్మృతేః, ఆచారాచ్ చ--- వర్జయన్తి హ్య్ ఏనṁ శిష్టా విద్యోపదేశాదౌ। యద్య్ అపి కల్మష-నిబర్హణాయ కైశ్చిత్ ప్రాయశ్చిత్తమ్ ఉచ్యతే; తథాపి కర్మాధికారాపాదినీ శుద్ధిస్ తేషాṁ న సమ్భవతీత్య్ అభిప్రాయః॥౪౩॥ ఇతి తద్-భతాధికరణమ్॥౧౦॥
Link copied౪౬౨। స్వామినః ఫల-శ్రుతేర్ ఇత్య్ ఆత్రేయః॥౩।౪।౪౪॥
Link copiedఉద్గీథాద్య్-ఉపాసనṁ కిṁ యజమానేనానుష్ఠేయమ్, ఉత ఋత్విజేతి సṁశయః। యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి క్రతు-వీర్యవత్తరత్వ-ఫలṁ యజమానస్యేతి దహరోపాసనాదివద్ యజమానేనానుష్ఠేయమ్ ఇతి పూర్వః పక్షః। కర్మాఙ్గాశ్రయత్వాద్ అస్యోపాసనస్య కర్మణశ్ చార్త్విజ్యత్వేన ఏతద్ అపి ఋత్విజానుష్ఠేయṁ, గో-దోహనాదివద్ ఇతి రాద్ధాన్తః। సూత్రార్థస్ తు--- స్వామినః, యజమానస్యోద్గీథాద్య్-ఉపాసనే కర్తృత్వమ్। కుతః। తస్యైవ ఫల-శ్రుతేర్ ఇత్య్ ఆత్రేయో మన్యతే॥౪౪॥
Link copied౪౬౩। ఆర్త్విజ్యమ్ ఇత్య్ ఔడులోమిస్ తస్మై హి పరిక్రియతే॥౩।౪।౪౫॥
Link copiedక్రత్వ్-అఙ్గాశ్రయత్వేన క్రత్వ్-అధికృతస్యైవాస్మిన్న్ ఉపాసనేఽధికారాత్ క్రతోశ్ చార్త్విజ్యత్వేన ఏతద్ అప్య్ ఆర్త్విజ్యమ్ ఇత్య్ ఔడులోమిర్ ఆచార్యో మన్యతే, యజమాన-ఫల-సాధనత్వేఽపి క్రతోస్ తద్-అనుష్ఠానాయ హి ఋత్విక్ పరిక్రియతే॥౪౫॥ ఇతి స్వామ్య్-అధికరణమ్॥౧౧॥
Link copied౪౬౪। సహకార్యన్తర-విధిః పక్షేణ తృతీయṁ తద్వతో విధ్య్-ఆదివత్॥౩।౪।౪౬॥
Link copiedతస్మాద్ బ్రాహ్మణః పాణ్డిత్యṁ నిర్విద్య బాల్యేన తిష్ఠాసేత్, బాల్యṁ చ పాణ్డిత్యṁ చ నిర్విద్యాథ మునిః, ఇత్య్ అత్ర మౌనṁ విద్యాఙ్గతయా విధీయతే, ఉతానూద్యత ఇతి సṁశయః। మౌనస్య మనన-రూపత్వాత్, శ్రోతవ్యో మన్తవ్యః, ఇతి చ ప్రాప్తత్వేనానూద్యత ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- ముని-శబ్దస్య ప్రకృష్ట-మనన-శీలే ప్రసిద్ధేః, ప్రకృష్ట-మననమ్ ఉపాస్య-విషయాభ్యాస-రూపṁ విద్యా-నిష్పత్తయే విధీయత ఇతి। సూత్రార్థస్ తు--- తద్వతః, విద్యావతః, సహకార్యన్తరṁ--- మౌనṁ విధిః, విధీయత ఇతి విధిర్ ఇతి మౌనṁ విధిర్ ఇత్య్ ఉక్తమ్। విధ్యాదివత్--- అత్రాపి విధీయత ఇతి విధిర్ యజ్ఞ-దాన-ప్రభృత్య్-ఆశ్రమ-ధర్మః, ఆది-శబ్దాచ్ ఛ్రవణ-మననే గృహ్యేతే। ఆశ్రమ-ధర్మవచ్ ఛ్రవణ-మననవచ్ చ పాణ్డిత్య-బాల్యయోస్ తృతీయమ్ ఇదṁ సహకార్యన్తరṁ మౌనమ్ అపూర్వṁ విధీయతే। కుత ఇత్య్ అత ఆహ--- పక్షేణేతి। ముని-శబ్దస్య ప్రకృష్ట-మనన-యుక్తే పక్షేణ--- ప్రసిద్ధేర్ ఇత్య్ అర్థః॥౪౬॥
Link copied౪౬౫। కృత్స్న-భావాత్ తు గృహిణోపసṁహారః॥౩।౪।౪౭॥
Link copiedసర్వాశ్రమిణాṁ విద్యావత్త్వేఽపి ఛాన్దోగ్యే--- స ఖల్వ్ ఏవṁ వర్తయన్ యావద్-ఆయుషṁ బ్రహ్మ-లోకమ్ అభిసమ్పద్యతే, ఇతి గృహస్థ-ధర్మేణోపసṁహారః। కుతః। కృత్స్న-భావాత్--- కృత్స్నేషు భావాత్--- కృత్స్నేష్వ్ ఆశ్రమిషు విద్యాయాః సద్-భావాద్ ఇత్య్ అర్థః॥౪౭॥
Link copied౪౬౬। మౌనవద్ ఇతరేషామ్ అప్య్ ఉపదేశాత్॥౩।౪।౪౮॥
Link copiedఅథ మునిః, ఇత్య్ అస్మిన్ వాక్యే, అథ భిక్షాచర్యṁ చరతి, ఇతి పారివ్రాజ్యైకాన్త-ధర్మేణోపసṁహారోఽపి సర్వాశ్రమ-ధర్మ-ప్రదర్శనార్థః, భిక్షాచర్య-మౌనాదివద్ ఇతరేషామ్ ఆశ్రమ-ధర్మాణాṁ యజ్ఞాదీనామ్ అప్య్ ఉపదేశాత్॥౪౮॥ ఇతి సహకార్యన్తర-విధ్య్-అధికరణమ్॥౧౨॥
Link copied౪౬౭। అనావిష్కుర్వన్న్ అన్వయాత్॥౩।౪।౪౯॥
Link copiedతస్మాద్ బ్రాహ్మణః పాణ్డిత్యṁ నిర్విద్య బాల్యేన తిష్ఠాసేత్ బాల్యṁ చ పాణ్డిత్యṁ చ నిర్విద్యాథ మునిః, ఇత్య్ అత్ర కిṁ బాలస్య కర్మ కామ-చారాదికṁ సర్వṁ విదుషోపాదేయమ్, ఉత విద్యా-మాహాత్మ్యానావిష్కార ఇతి సṁశయః। బాల్యేన తిష్ఠాసేద్ ఇత్య్ అవిశేష-విధానాత్ కామ-చారాదికṁ సర్వమ్ అప్య్ ఉపాదేయమ్ ఇతి పూర్వః పక్షః; విదుషో విశేష-విధానాత్, విద్యా-మాహాత్మ్యాచ్ చ, నిషేధ-శ్రుతయో బాధితా భవేయుర్ ఇతి। రాద్ధాన్తస్ తు--- పాణ్డిత్య-ప్రయుక్త-స్వ-మాహాత్మ్యానావిష్కార ఏవ విద్యాన్వయ-యోగ్యతయోపాదేయః; ఇతరస్య కామ-చారాదేః, నావిరతో దుశ్చరితాత్, ఇత్య్ ఆది శస్త్రైర్ విద్యోత్పత్తి-విరోధిత్వావగమాత్। అతో యథా బాలః స్వాభిజనాద్య్ అనావిష్కుర్వన్ వర్తతే; తథా విద్వాన్ వర్తేతేత్య్ ఏతద్ ఏవ యుక్తమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౪౯॥ ఇత్య్ అనావిష్కారాధికరణమ్॥౧౩॥
Link copied౪౬౮। ఐహికమ్ అప్రస్తుత-ప్రతిబన్ధే తద్-దర్శనాత్॥౩।౪।౫౦॥
Link copiedమోక్ష-వ్యతిరిక్తాభ్యుదయ-ఫలమ్ ఉపాసనṁ కిṁ స్వ-సాధన-భూత-పుణ్య-కర్మానన్తరమ్ ఏవోత్పద్యతే, ఉతానన్తరమ్ అన్యదా వేత్య్ అనియమ ఇతి సṁశయః। సాధన-నిర్వృత్తౌ విలమ్బ-హేత్వ్-అభావాద్ అనన్తరమ్ ఏవేతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అప్రస్తుతే--- ప్రబల-కర్మాన్తర-ప్రతిబన్ధే సత్య్ అనన్తరమ్, ప్రస్తుతే తద్-ఉత్తర-కాలమ్ ఇత్య్ అనియమః। దృశ్యతే హి ప్రబల-కర్మాన్తరేణ ఫల-ప్రతిబన్ధః, యద్ ఏవ విద్యయా కరోతి తద్ ఏవ వీర్యవత్తరమ్ ఇత్య్ ఉద్గీథోపాసనస్య క్ర్తోః కర్మాన్తరేణ ఫలాప్రతిబన్ధః ఫలమ్ ఇతి, పృథగ్ ఘ్య్ అప్రతిబన్ధః ఫలమ్ ఇత్య్ అభ్యుపగమాత్। సూత్రమ్ అపి వ్యాఖ్యాతమ్। ఐహికమ్--- అభ్యుదయ-ఫలమ్ ఇత్య్ అర్థః॥౫౦॥
Link copiedఇత్య్ ఐహికాధికరణమ్॥౧౪॥
Link copied౪౬౯। ఏవṁ ముక్తి-ఫలానియమస్ తద్-అవస్థావధృతేస్ తద్-అవస్థావధృతేః॥౩।౪।౫౧॥
Link copiedకిṁ ముక్తి-ఫలాన్య్ ఉపాసనాని స్వ-సాధన-భూతాతిశయిత-పుణ్య-కర్మానన్తరమ్ ఉత్పద్యన్తే, ఉత పూర్వవద్ అనియమ ఇతి సṁశయః। ముక్తి-ఫలోపాసన-సాధన-భూత-కర్మణాṁ సర్వ-కర్మభ్యో బలవత్తరత్వేన ప్రతిబన్ధాభావాద్ అనన్తరమ్ ఏవోత్పద్యత ఇతి పూర్వః పక్షః। తత్రాపి బ్రహ్మ-విద్-అపచారస్య తతోఽపి బలవత్తరత్వేన ప్రతిబన్ధ-సమ్భవాద్ అనియమ ఏవేతి రాద్ధాన్తః। సూత్రార్థస్ తు--- ముక్తి-ఫలానామ్ అప్య్ ఏవమ్ అనియమః। కుతః। తద్-అవస్థావధృతేః--- ప్రతిబన్ధాభావే సతి ఫలావధృతేః। ద్విర్-ఉక్తిర్ అధ్యాయ-పరిసమాప్తిṁ ద్యోతయతి॥౫౧॥ ఇతి ముక్తి-ఫలాధికరణమ్॥౧౫॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే తృతీయస్యాధ్యాయస్య చతుర్థః పాదః॥
Link copied॥ సమాప్తశ్ చాధ్యాయః॥
Link copied419. puruṣārtho'taḥ śabdād iti bādarāyaṇaḥ||3|4|1||
Link copiedkiṁ vidyātaḥ puruṣārthaḥ, uta karmaṇa iti saṁśayaḥ| karmaṇa iti pūrvaḥ pakṣaḥ; karmāṅgatvād vidyāyā; karmasu kartṛ-bhūta-pratyagātmano yāthātmya-pratipādana-parāṇi vedānta-vākyāni| vidyāyāḥ karmāṅgatvaṁ ca--- yad eva vidyayā karoti....tad eva vīryavattaram iti śrutyaivāvagamyate| na ca prakṛtodgīthopāsana-viṣayatvam asya vaktuṁ śakyate, yad eva vidyayā karotīti śrutyaiva sarva-karmasu vidyāyā viniyuktatvāt| śrutiś ca prakaraṇād balīyasī| vidyāyāḥ karmāṅgatvaṁ katham ity apekṣāyāṁ, tat tvam asi, ayam ātmā brahmeti sāmānādhikaraṇyena karmāṅga-bhūta-kartṛ-yāthātmyānusandhāna-dvāreṇa vidyāyāḥ karmāṅgatvam ity avagamyate| ataḥ kartṛ-saṁskāra-rūpatvābrahma-vidyāyāḥ karmaṇa eva puruṣārthaḥ| tatra tatra phala-śrutir arthavādaḥ syāt| vidyāyāḥ karmāṅgatve bhūyāṁsi liṅgāni ca dṛśyante sarva-vedānteṣu| rāddhāntas tu--- karmasu kartuḥ pratyagātmano'rthāntara-bhūtasya sva-saṅkalpa-kṛta-jagad-udaya-vibhava-laya-līlasya nikhila-heya-pratyanīka-kalyāṇaikatānānanta-jñānānandaika-svarūpasya sarveśvarasya satya-saṅkalpasya karaṇādhipa-rūpa-pratyagātmādhipasya vedyasya vedana-rūpāyā vidyāyāḥ, brahma-vid āpnoti param ity ādiṣu brahma-prāpti-rūpa-phalopadeśād vidyāta eva phalam| yad eva vidyayā karotīti śrutiḥ prasiddhavan nirdeśāt; prasiddhiś ca prakṛtodgīthopāsanasyaiveti, prastutodgīthopāsana-viśeṣa-niṣṭhā| tat tvam asīti sāmānādhikaraṇyaṁ ca tac-chabda-nirdiṣṭasya sva-saṅkalpa-kṛta-jagaj-janma-sthiti-dhvaṁsādikasya parasya brahmaṇo na jīva-svarūpatva-param; api tu jagat-kāraṇasya brahmaṇo jīva-śarīrakatayā jīvasyātmatva-param iti, adhikaṁ tu bheda-nirdeśād ity ādiṣūktam| ya ātmati tiṣṭhan ....yasyātmā śarīram iti ca pratyagātmana ātmatvaṁ parasya brahmaṇaḥ śruty-antare vyaktam| sūtrārthas tu--- puruṣārtho'taḥ, vidyātaḥ| kutaḥ| brahma-vid āpnoti param ity ādi śabdāt||1||
Link copied420. śeṣatvāt puruṣārthavādo yathānyeṣv iti jaiminiḥ||3|4|2||
Link copiedtat tvam asīty ādi sāmānādhikaraṇyena brahmaṇaḥ karmasu kartṛ-svarūpatvāvagamād vidyāyāḥ kartṛ-saṁskāra-dvāreṇa karma-śeṣatvāt tatra puruṣārthavādo'rthavāda-mātram; yathā anyeṣu dravya-saṁskārādiṣv iti jaiminir ācāryo manyate||2||
Link copied421. ācāra-darśanāt||3|4|3||
Link copieditaś ca vidyā karmāṅgam; brahma-vidām ācāro hi karma-pradhāno dṛśyate| yathāśvapatiḥ kekayo brahma-vid-agresaraḥ--- yakṣyamāṇo ha vai bhagavanto'ham asmi, ity āha| karmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ, iti ca smaryate||3||
Link copiedliṅgam idam; prāptir ucyatām ity atrāha---
Link copied422. tac chruteḥ||3|4|4||
Link copiedyad eva vidyayā karotīty ādikāyāḥ śruter vidyāyāḥ karmāṅgatvam avagamyate| na ca durbalena prakaraṇena śrutir vidyā-viśeṣodgītha-viṣayopāsane vyavasthāpyate||4||
Link copied423. samanvārambhaṇāt||3|4|5||
Link copiedtaṁ vidyā-karmaṇī samanvārabhete, iti vidyā-karmaṇor ekasmin puruṣe sāhityaṁ ca vidyāyāḥ karmāṅgatve hi bhavati||5||
Link copied424. tadvato vidhānāt||3|4|6||
Link copiedvidyāvataḥ karma-vidhānāc ca vidyā karmāṅgam| ācārya-kulād vedam adhītya yathāvidhānaṁ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe, ity ādinādhyayanavataḥ karmāṇi vidadhadarthāvabodha-paryantatvād adhyayanasya vidyāvata eva karmāṇi vidadhātīty avagamyate||6||
Link copied425. niyamāt||3|4|7||
Link copiedkurvann eveha karmāṇi jijīviṣec chataṁ samāḥ, ity ātma-vidām āyuṣaḥ karmasu niyama-darśanāc ca karmaṇa eva puruṣārthaḥ; na vidyāta ity avagamyate| ataś ca vidyā karmāṅgam||7||
Link copied426. adhikopadeśāt tu bādarāyaṇasyaivaṁ tad-darśanāt||3|4|8||
Link copiedtu-śabdāt pakṣo vyāvṛttaḥ| bādarāyaṇasyaivaṁ--- vidyātaḥ phalam iti matam| kutaḥ| adhikopadeśāt--- karmasu kartuḥ pratyagātmano'dhikasya--- arthāntarabhūtasya vedyasya vedana-bhūta-vidyāyāḥ phala-sādhanatvopadeśāt| tad-darśanāt--- dṛśyate hi vedānta-vākye'dhika-viṣayatvaṁ vidyāyāḥ| evam eva hi--- tad aikṣata bahu syāṁ prajāyeyeti, so'kāmayata bahu syāṁ prajāyeyety ādiṣu bahu-bhavana-saṅkalpa-pūrvaka-sṛṣṭayādeḥ kartuḥ sarveśvarasya karaṇādhipādhipasyānavadhikātiśaya-jñānānandaika-svarūpasya nikhila-heya-pratyanīkasya vedyasya vidyā brahma-prāpti-phalāya vidhīyate||8||
Link copied427. tulyaṁ tu darśanam||3|4|9||
Link copiedvidyāyāḥ pradhānatve'pi brahma-vidām ācāra-darśanaṁ tulyam--- karmaṇām anācāra-darśanam apy astīty arthaḥ, ṛṣayaḥ kāvaṣeyāḥ kim-arthā vayam adhyeṣyāmahe kim-arthā vayaṁ yakṣyāmahe, ity ādau| karmānuṣṭhāna-darśanaṁ tu phalābhisandhi-rahitasya karmaṇo vidyāṅgatvāt; tyāgas tu phalābhisandhi-yuktasya vidyā-virodhitvād ity abhiprāyaḥ||9||
Link copied428. asārvatrikī||3|4|10||
Link copiedyad eva vidyayā karotīti śrutiḥ sarva-vidyāyāḥ karmāṅgatvaṁ vidadhātīty etad asaṅgatam; atra vidyā-śabdābhihitā tu na sārvatrikrī, api tūdgītha-vidyā| yat karoti, tad vidyayeti naivaṁ padānvayaḥ; api tu yad eva vidyayā karoti, tad eva vīryavattaram iti| vidyayā kriyamāṇasyānyato'vagatasya vīryavattaratvaṁ pratisādhana-bhāvo'vagamyate, yad eveti prasiddhavan nirdeśāt| anyato'vagatir hi, udgītham upāsīteti sannihitodgītha-vidyāyāḥ||10||
Link copied429. vibhāgaḥ śatavat||3|4|11||
Link copiedtaṁ vidyā-karmaṇī samanvārabhete, ity atra vidyā ca svasmai phalāya karma ca svasmai phalāyānvārabhata iti vibhāgo draṣṭavyaḥ, yato vidyā-karmaṇor bhinna-phalatvam uktam| śatavat--- yathā kṣetra-ratna-vikrayiṇaṁ śata-dvayam anvetīty ukte, kṣetrārthaṁ śatam, ratnārthaṁ śatam iti vibhāgo'vagamyate; tadvat||11||
Link copied430. adhyayana-mātravataḥ||3|4|12||
Link copiedvedam adhītyety adhyayana-mātravata eva karma-vidhānād anena vidyāyā na karmāṅgatvam avagatam| adhyayana-vidhir hy ādhānavan niyamavad akṣara-rāśi-grahaṇa-mātre paryavaspati; gṛhītasya svādhyāyasya phalavad arthāvabodhitva-darśanāt tan-nirṇaya-phala-mīmāṁsā-śravaṇe adhīta-vedaḥ puruṣaḥ svayam eva pravartate| arthāvabodha-paryantatve'py artha-jñānād arthāntara-bhūtā smṛti-pratyayāvṛtti-rūpā, vidyāt, upāsīteti śāstra-vihitā vidyā na karmāṅgam||12||
Link copied431. nāviśeṣāt||3|4|13||
Link copiedkurvann eveha karmāṇi, iti brahma-vidām āyuṣaḥ karmaṇi niyamo dṛśyata ity etan na sambhavati, aviśeṣāt--- viduṣa eveti viśeṣābhāvāt kim ity aviduṣo na syāt| viduṣas tv āprayāṇād upāsanānuvṛtti-darśanād artha-svabhāvād viduṣa evety abhiprāyaḥ||13||
Link copied432. stutaye'numatir vā||3|4|14||
Link copiedvā-śabdo'vadhāraṇe| īśāvāsyam idaṁ sarvam iti vidyā-prakaraṇād vidyā-stutaye karmānumatir eva| vidyā-māhātmyāt sarvadā karmāṇi kurvann api tair na lipyata iti hi stutā bhavati vidyā| vākya-śeṣe ca--- na karma lipyate nare, iti śrūyate||14||
Link copied433. kāma-kāreṇa caike||3|4|15||
Link copiedeke śākhinaḥ kāma-kāreṇa ca vidyā-niṣṭhasya gārhasthya-tyāgam adhīyate| kiṁ prajayā kariṣyāmo yeṣāṁ no'yam ātmāyaṁ lokaḥ, iti gārhasthya-karma-tyāgaṁ bruvad vākyaṁ vidyā pradhānam iti darśayati||15||
Link copied434. upamardaṁ ca||3|4|16||
Link copiedvidyayā sarva-karmopamardaṁ cādhīyate--- kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare, iti; tad-vidyāyāḥ karmāṅgatve na saṅgacchate||16||
Link copied435. ūrdhva-retaḥsu ca śabde hi||3|4|17||
Link copiedūrdhva-retaḥsv āśrameṣu brahma-vidyā-darśanāt teṣu cāgnihotrādi-karmābhāvān na vidyā karmāṅgam| te cātrāśramāḥ santy eva; yato vaidike śabde te'pi dṛśyante--- trayo dharma-skandhā yajño'dhyayanaṁ dānam iti, ye ceme'raṇye śraddhā tapa ity upāsate, etam eva pravājino lokam icchantaḥ pravrajanti, ity ādau| yāvaj-jīvam agnihotram ity ādikā tu śrutir avirakta-viṣayā||17||
Link copied436. parāmarśaṁ jaiminir acodanāc cāpavadati hi||3|4|18||
Link copiedtrayo dharma-skandhāḥ, ity ādiṣu teṣām āśramāṇām acodanāt--- avidhānād upāsanā-stuty-arthaṁ parāmarśam--- anuvādaṁ jaiminir ācāryo manyate| api ca, apavadati hi śrutir āśramāntaraṁ--- vīrahā vā eṣa devānāṁ yo'gnim udvāsayate, ity ādikā| atas te na santy eva||19||
Link copied437. anuṣṭheyaṁ bādarāyaṇaḥ sāmya-śruteḥ||3|4|19||
Link copiedgṛhasthāśramavad āśramāntaram apy anuṣṭheyaṁ bhagavān bādarāyaṇo manyate| kutaḥ| tasyāpi tat-sāmyaśruteḥ--- trayo dharma-skandhāḥ, ity evam ādau hi sarveṣām āśramāṇām eka-rūpaṁ saṅkīrtanam||19||
Link copied438. vidhir vā dhāraṇavat||3|4|20||
Link copiedvā-śabdo'vadhāraṇe; sarveṣām āśramāṇāṁ vidhir evāyam| dhāraṇavat, yathā--- adhastāt samidhaṁ dhārayann anudravet, upari hi devebhyo dhārayati, ity anuvāda-rūpe'py uparidhāraṇasyāprāptatvena vidhir āśrīyate; evam ihāśramāṇām api| ata ūrdhva-retaḥsv api vidyā-darśanād vidyātaḥ puruṣārtha iti||20|| iti puruṣārthādhikaraṇam||1||
Link copied439-440. stuti-mātram upādānād iti cen nāpūrvatvāt||3|4|21||
Link copiedbhāva-śabdāc ca||3|4|22||
Link copiedom ity etad akṣaram udgītham upāsīta, sa eṣa rasānāṁ rasatamaḥ paramaḥ parārthyo'ṣṭamo yad udgīthaḥ, ity etaj-jātīyake kiṁ karmāṅgāśrayāṇāṁ dṛṣṭi-viśeṣāṇāṁ vidhir āstheyaḥ, utodgīthādi-stuti-mātram iti saṁśayaḥ| vidhitve siddhe hi go-dohanādivad bhavati; vidhitvam eva na sambhavatīti pūrvaḥ pakṣaḥ| iyam eva juhūḥ svargo loka āhavanīyaḥ, karmāṅga-bhūtodgīthādi-sambandhitayopādānād rasatamatvādes tat-stuti-mātratvam eva; na rasatamatvādi-dṛṣṭi-vidhiḥ| rāddhāntas tu---juhv-ādi-vidhivad udgīthādi-vidher atrāsannidhānāt, rasatamatvāder aprāptatvāc ca, upāsīteti vidhi-pratyayena ca, na stuti-mātram, tad-dṛṣṭi-vidhir eva| sūtra-dvayam api vyākhyātam||21-22|| iti stuti-mātrādhikaraṇam||2||
Link copied441-442. pāriplavārthā iti cen na viśeṣitatvāt||3|4|23||
Link copiedtathā caika-vākyopabandhāt||3|4|24||
Link copiedpratardano ha vai daivodāsiḥ, ity ādayo vedānteṣv ākhyāna-viśeṣāḥ kiṁ pāriplava-prayogārthāḥ, uta tatra tatra vidyā-viśeṣa-pratipādanārthāḥ, iti saṁśayaḥ| ākhyānāni śaṁsantīti pāriplave viniyogāt tad-arthāḥ, iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- ākhyānāni śaṁsantīty uktvā, manur vaivasvato rājā, iti manv-ādy-ākhyāne viniyogasya viśeṣitatvāt, taṁ mām āyur amṛtam ity upāḥsva, ātmā vā are draṣṭavyaḥ, ity ādi vidhinaika-vākyatvāc ca, so'rodīt, ity ādivad vidyā-vidhy-arthā eva| sūtra-dvayam api vyākhyātam||23-24|| iti pāriplavārthādhikaraṇam||3||
Link copied443. ata eva cāgnīndhanādy-anapekṣā||3|4|25||
Link copiedūrdhva-retaḥsv āśrameṣu brahma-vidyā sambhavati, neti saṁśayaḥ| yajñādy-abhāvāt teṣāṁ tad-aṅgikā vidyā na sambhavatīti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yad icchanto brahmacaryaṁ caranti, etam eva pravrājino lokam icchantaḥ pravrajanti, ity ādi śrutes teṣāṁ vidyāvattvāvagamāt teṣv agnihotrādy-anapekṣā vidyeti niścīyate| sūtrārthas tu--- ata eva, vidyāvattva-śruter eva, ādhānādy-anapekṣā teṣu vidyā| agnīndhanaṁ hy agny-ādhānam||25|| ity agnīndhanādy-adhikaraṇam||4||
Link copied444. sarvāpekṣā ca yajñādi-śruter aśvavat||3|4|26||
Link copiedkarmavatsu gṛhastheṣu kiṁ yajñādi-karmāpekṣā vidyā, uta tatrāpi kevalaiveti saṁśayaḥ| ūrdhva-retaḥsu yajñādy-anapekṣaivāmṛtatvaṁ sādhayati cet karma-nirapekṣāyā vidyāyā eva sādhanatvam abhyupagamanīyam| tathā sati gṛhastheṣv api tan-nirapekṣaiva sādhayituṁ samartheti pūrvaḥ pakṣaḥ| na hi svargādi-sādhana-bhūtam agnihotrādi-karma puruṣa-bhedena nānā-vidhāṅgakaṁ dṛṣṭam| vividiṣantīti śabdo'pi vedanecchāyāṁ karmāṇi viniyuṅkte, na vidyāyām| rāddhāntas tu--- karmavatsu gṛhastheṣu yajñādi-sarva-karmāpekṣā vidyā| kutaḥ| yajñādi-śruteḥ--- tam etaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena, iti hi yajñādayo vidyāṅgatvena viniyujyante| ato gṛhastheṣu karmāpekṣā vidyā| icchāyā iṣyamāṇa-pradhānatvād vividiṣantītīṣyamāṇaṁ jñānam evety avagamyate| yathā gamana-sādhana-bhūto'śvaḥ sva-parikara-bandha-rūpa-parikarmāpekṣaḥ; evaṁ mokṣa-sādhana-bhūtā vidyāpi nitya-naimittika-parikarmāpekṣā| ūrdhva-retaḥsu ca svāśrama-vihitaṁ karmaiva parikarma bhavatīti teṣv api vidyā-sambandhaḥ śāstrād avagamyate| śāstraika-samadhigamye hi yathāśāstram abhyupagamanīyam| sūtram api vyākhyātam||26|| iti sarvāpekṣādhikaraṇam||5||
Link copied445. śama-damādy-upetaḥ syāt tathāpi tu tad-vidhes tad-aṅgatayā teṣām apy avaśyānuṣṭheyatvāt||3|4|27||
Link copiedkiṁ vidyā-nirvṛttaye gṛhasthaiḥ śama-damādaya upādeyāḥ, uta neti saṁśayaḥ| gṛhasthānām āntara-bāhya-karaṇa-vyāpāra-rūpa-karmāṅgakatvād vidyāyāḥ, tad-viparīta-rūpa-śama-damādy-upādānāsāmarthyād ūrdhva-retaḥsu karma-rahiteṣu śamādi-viniyogo bhaviṣyati, yathā yajñādi-viniyogaḥ karmavatsu gṛhastheṣu| tasmād anupādeyāḥ śamādaya iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- tasmād evaṁ-vic chānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṁ paśyet, iti sāmānyena vidyāṅgatayā viniyogād gṛhasthair apy upādeyāḥ| na ca karmavatāṁ teṣāṁ śamādy-upādānāsāmarthyam; bhinna-viṣayatvāc chamādeḥ| vihiteṣu hi karmasu karaṇa-vyāpāraḥ; avihiteṣu prayojana-śūnyeṣu ca śama-damādayaḥ| ataḥ śamādi-viniyogo yajñādi-viniyogavan na saṅkocam arhatīti| sūtrārthas tu--- yady api gṛhastho yajñādi-karmasu viniyuktaḥ, tathāpi tu śama-damādy-upetaḥ syāt| kutaḥ| śānto dāntaḥ, ity ādinā tad-vidhes tad-aṅgatayā--- vidyāṅgatayā vidyā-niṣpattaye teṣām avaśyānuṣṭheyatvāc ca| ekāgratā-niṣpādyatvāc chama-damādibhir eva vidyā-niṣpattir ity arthaḥ| yajñādi-karmāṇy api pāpa-nibarhaṇa-dvāreṇaikāgratām āpādayantīty abhiprāyaḥ||27|| iti śama-damādy-adhikaraṇam||6||
Link copied446. sarvānnānumatiś ca prāṇātyaye tad-darśanāt||3|4|28||
Link copiedvājināṁ chandogānāṁ prāṇa-vidyāyāṁ, na ha vā evaṁ-vidi kiñcanānnaṁ bhavati, iti sarvānnānumatiḥ saṅkīrtyate| kiṁ prāṇa-vidaḥ sarvānnānumatiḥ sarvadā, uta praṇātyayāpattāv iti saṁśayaḥ| aviśeṣāsarvadeti purvaḥ pakṣaḥ| atiśayita-śakter brahma-vido'py ucchiṣṭa-parigrahaṇa-bhakṣaṇayoḥ prāṇātyayāpattāv eva darśanād alpa-śakteḥ prāṇa-vidaḥ kiṁ punar iti prāṇātyayāpattāv eveti rāddhāntaḥ| sutrarthas tu--- ca-śabdo'vadharaṇe; prāṇa-vidaḥ sarvannānumatiḥ| prāṇātyaya eva| kutaḥ| tad-darśanāt--- atiśayita-śakter brahma-vidaḥ prāṇātyaya eva sarvannānumati-darśanāt||28||
Link copied447. abādhāc ca||3|4|29||
Link copiedāhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhruvā smṛtiḥ, ity āhāra-śuddhi-vidher abādhāc ca prāṇātyaya eva||29||
Link copied448. api smaryate||3|4|30||
Link copiedprāṇa-saṁśayam āpanno yo'nnam atti yatas tataḥ| lipyate na sa pāpena padma-patram ivāmbhasā, iti prāṇa-saṁśaya eva sarvānnānumatiḥ smaryate ca||30||
Link copied449. śabdaś cāto'kāma-kāre||3|4|31||
Link copiedyataḥ sarvānnānumatiḥ prāṇātyaye; ato'kāma-kāre śabdaś ca--- kāma-kārasya pratiṣedhaka-śabdaś copapadyata ity arthaḥ| asti hi kaṭhānāṁ kāma-kāra-pratiṣedhakaḥ śabdaḥ, tasmād brāhmaṇaḥ surāṁ na pibati pāpmanā notsṛjā, iti| pāpmanā saṁspṛṣṭo na bhavānīti matvā surāṁ na pibatīty arthaḥ||31||
Link copiediti sarvānnānumaty-adhikaraṇam||7||
Link copied450. vihitatvāc cāśrama-karmāpi||3|4|32||
Link copiedkiṁ yajñādayo vidyāṅga-bhūtāḥ kevalāśramasyāpy aṅga-bhūtāḥ, uta neti saṁśayaḥ| kevalāśramasyāpy aṅgatve nityānitya-saṁyoga-rūpa-virodhaḥ prasajyata iti nāṅga-bhūtāḥ kevalāśramasyeti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yadaikenaiva viniyogenobhayāṅgatvam iṣyate tadā nityānitya-saṁyoga-virodhaḥ| iha tu--- yāvaj-jīvam agnihotraṁ juhuyāt, tam etaṁ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena, iti viniyoga pṛthaktvena virodhaḥ parihriyate; yathāgnihotrādīnām eva karmaṇām| jīvanādhikārakām anādhikārayor ivādhikāra-bhedasyāsphuṭatvāt tat-sphuṭīkaraṇāya punar iha cintyate| sūtrārthas tu--- yāvaj-jīvam agnihotraṁ juhuyād ity ādinā kevala-gṛhasthāśramiṇo jīvana-nimittatayā vihitatvād eva yajñādi kevalāśrama-karmāpi||32||
Link copied451. sahakāritvena ca||3|4|33||
Link copiedtam etaṁ vedānuvacanenety ādinā vidyā-sādhanatvena vihitatvāc ca vidyā-sahakāritvena cānuṣṭheyaṁ yajñādi-karma| viniyoga-pṛthaktvena virodhaḥ parihriyata ity abhiprāyaḥ||33||
Link copied452. sarvathāpi ta evobhaya-liṅgāt||3|4|34||
Link copiedsarvathāpi--- ubhayatra viniyoge'pi ta eva yajñādayaḥ| kutaḥ| ubhaya-liṅgāt--- ubhayatra pratyabhijñānākhyaliṅgāt||34||
Link copied453. anabhibhavaṁ ca darśayati||3|4|35||
Link copieddharmeṇa pāpam apanudati, ity ādibhiś ca yajñādi-dharmān nirdiśya tair vidyāyā anabhibhavaṁ--- pāpa-karmabhir utpatti-pratibandhābhāvaṁ darśayati| ata ubhayatra viniyogāt kevalāśramiṇāṁ mumukṣūṇāṁ cānuṣṭheyā yajñādayaḥ||35|| iti vihitatvādhikaraṇam||8||
Link copied454. antarā cāpi tu tad-dṛṣṭeḥ||3|4|36||
Link copiedvidhurādīnām anāśramiṇāṁ brahma-vidyāyām adhikāro'sti, neti saṁśayaḥ| āśrama-dharmetikartavyatākatvād vidyāyās tad-abhāvāt teṣām anadhikāra iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- ūrdhva-retaḥsv iva raikvādiṣv anāśramiṣu vidyā-niṣṭhatva-darśanād āśramāniyatair japopavāsa-dānādibhir eva teṣāṁ vidyānugraho bhavatīty asty evādhikāraḥ| sūtrārthas tu--- tu-śabdāt pakṣo vyāvṛttaḥ| ca-śabdo'vadhāraṇe| antarāpi--- āśramānantarā vartamānānām anāśramiṇām apy adhikāro'sty eva| kutaḥ| tad-dṛṣṭeḥ--- raikvādiṣu vidyā-niṣṭhatva-dṛṣṭeḥ||36||
Link copied455. api smaryate||3|4|37||
Link copiedapi ca anāśramiṇām api japādibhir eva vidyānugrahaḥ smaryate--- japyenāpi ca saṁsidhyed brahmaṇo nātra saṁśayaḥ, ity ādinā||37||
Link copied456. viśeṣānugrahaś ca||3|4|38||
Link copiedāśramāniyata-dharma-viśeṣeṇa vidyānugrahaḥ śrūyate ca--- tapasā brahmacaryeṇa śraddhayā vidyayā cātmānam anvicchet, iti||38||
Link copied457. atas tv itaraj jyāyo liṅgāc ca||3|4|39||
Link copiedataḥ--- anāśramitvāditarat, āśramitvaṁ jyāyaḥ, dharma-bhūyastvāt; liṅgāc ca smṛteś cety arthaḥ| anāśramī na tiṣṭhet tu dinam ekam api dvijaḥ, iti hi smaryate| tasmād anāśramitvena vidyā-niṣṭhatvam āpad-viṣayam ity abhiprāyaḥ||39|| iti vidhurādhikaraṇam||9||
Link copied458. tad-bhūtasya tu nātad-bhāvo jaiminer api niyamāt tad-rūpābhāvebhyaḥ||3|4|40||
Link copiednaiṣṭhika-vaikhānasa-parivrājakānāṁ svāśramebhyaḥ pracyutānām api vidyādhikāro'sti, neti saṁśayaḥ| vidhurādivaj japādibhir anugraha-sambhavād asty evādhikāra iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- naiṣṭhikādīnāṁ svāśrama-bhraṣṭānāṁ prāyaścittābhāva-smaraṇāc chiṣṭa-bahiṣkṛtatvāc ca teṣām anadhikāraḥ, iti| sūtrārthas tu--- tad-bhūtasya tu nātad-bhāvaḥ--- naiṣṭhikādi-bhūtasyātathābhāvo na sambhavati| kutaḥ| tad-rūpābhāvebhyaḥ śāstrair niyamāt, tad-rūpābhāvā naiṣṭhikādy-āśrama-dharmābhāvāḥ; tebhyo niyacchanti hi śāstrāṇi| brahmacāryācārya-kula-vāsī tṛtīyo'tyantam ātmānam ācārya-kule'vasādayan, iti naiṣṭhikasya tatraiva niyamaḥ; araṇyam iyāt tato na punar eyāt, iti ca vaikhānasasya; sannyasyāgniṁ na punar āvartayet, iti ca parivrājakasya| ata eva teṣām anāśramitvenāvasthānābhāvād vidyādhikāro na sambhavati| jaiminer apy avigīto'yam||40||
Link copied459. na cādhikārikam api patanānumānāt tad-ayogāt||3|4|41||
Link copiedādhikārikam--- adhikāra-lakṣaṇoktam, avakīrṇi paśuś ca tadvat, ity etat prāyaścittaṁ naiṣṭhikasya na sambhavati| kutaḥ| patanānumānān naiṣṭhikasya tad-ayogāt| tasya hi patanaṁ smaryate prāyaścittābhāva-vacanena, ārūḍho naiṣṭhikaṁ dharmaṁ yas tu pracyavate dvijaḥ| prāyaścittaṁ na paśyāmi yena śudhyet sa ātmahā, iti| ata upakurvāṇa-brahmacāri-viṣayamādhikārikam||41||
Link copied460. upapūrvam apīty eke bhāvam aśanavat tad uktam||3|4|42||
Link copiedeke prāyaścitta-bhāvam api manyante, yata upapūrvam--- upapātakam idam; aśanavat--- madhv-aśanādi-niṣedha-tat-prāyaścittavad bhavatīty arthaḥ| ata upakurvāṇasya brahmacāriṇa uktam ādhikārikam asyāpi bhavatīti| tad uktaṁ smṛti-kāraiḥ, uttareṣāṁ caitad-avirodhi, iti| upakurvāṇe brahmacāriṇy ukto dharma uttareṣāṁ cāśramiṇāṁ svāśramāvirodhī bhavaty evety arthaḥ||42||
Link copied461. bahis tūbhayadhāpi smṛter ācārāc ca||3|4|43||
Link copiedubhayadhāpi--- upapātakatve mahā-pātakatve'pi naiṣṭhikāt pracyuto bahir bhūtaḥ karmādhikārāt, prāyaścittaṁ na paśyāmi, iti smṛteḥ, ācārāc ca--- varjayanti hy enaṁ śiṣṭā vidyopadeśādau| yady api kalmaṣa-nibarhaṇāya kaiścit prāyaścittam ucyate; tathāpi karmādhikārāpādinī śuddhis teṣāṁ na sambhavatīty abhiprāyaḥ||43|| iti tad-bhatādhikaraṇam||10||
Link copied462. svāminaḥ phala-śruter ity ātreyaḥ||3|4|44||
Link copiedudgīthādy-upāsanaṁ kiṁ yajamānenānuṣṭheyam, uta ṛtvijeti saṁśayaḥ| yad eva vidyayā karoti....tad eva vīryavattaram iti kratu-vīryavattaratva-phalaṁ yajamānasyeti daharopāsanādivad yajamānenānuṣṭheyam iti pūrvaḥ pakṣaḥ| karmāṅgāśrayatvād asyopāsanasya karmaṇaś cārtvijyatvena etad api ṛtvijānuṣṭheyaṁ, go-dohanādivad iti rāddhāntaḥ| sūtrārthas tu--- svāminaḥ, yajamānasyodgīthādy-upāsane kartṛtvam| kutaḥ| tasyaiva phala-śruter ity ātreyo manyate||44||
Link copied463. ārtvijyam ity auḍulomis tasmai hi parikriyate||3|4|45||
Link copiedkratv-aṅgāśrayatvena kratv-adhikṛtasyaivāsminn upāsane'dhikārāt kratoś cārtvijyatvena etad apy ārtvijyam ity auḍulomir ācāryo manyate, yajamāna-phala-sādhanatve'pi kratos tad-anuṣṭhānāya hi ṛtvik parikriyate||45|| iti svāmy-adhikaraṇam||11||
Link copied464. sahakāryantara-vidhiḥ pakṣeṇa tṛtīyaṁ tadvato vidhy-ādivat||3|4|46||
Link copiedtasmād brāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset, bālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniḥ, ity atra maunaṁ vidyāṅgatayā vidhīyate, utānūdyata iti saṁśayaḥ| maunasya manana-rūpatvāt, śrotavyo mantavyaḥ, iti ca prāptatvenānūdyata iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- muni-śabdasya prakṛṣṭa-manana-śīle prasiddheḥ, prakṛṣṭa-mananam upāsya-viṣayābhyāsa-rūpaṁ vidyā-niṣpattaye vidhīyata iti| sūtrārthas tu--- tadvataḥ, vidyāvataḥ, sahakāryantaraṁ--- maunaṁ vidhiḥ, vidhīyata iti vidhir iti maunaṁ vidhir ity uktam| vidhyādivat--- atrāpi vidhīyata iti vidhir yajña-dāna-prabhṛty-āśrama-dharmaḥ, ādi-śabdāc chravaṇa-manane gṛhyete| āśrama-dharmavac chravaṇa-mananavac ca pāṇḍitya-bālyayos tṛtīyam idaṁ sahakāryantaraṁ maunam apūrvaṁ vidhīyate| kuta ity ata āha--- pakṣeṇeti| muni-śabdasya prakṛṣṭa-manana-yukte pakṣeṇa--- prasiddher ity arthaḥ||46||
Link copied465. kṛtsna-bhāvāt tu gṛhiṇopasaṁhāraḥ||3|4|47||
Link copiedsarvāśramiṇāṁ vidyāvattve'pi chāndogye--- sa khalv evaṁ vartayan yāvad-āyuṣaṁ brahma-lokam abhisampadyate, iti gṛhastha-dharmeṇopasaṁhāraḥ| kutaḥ| kṛtsna-bhāvāt--- kṛtsneṣu bhāvāt--- kṛtsneṣv āśramiṣu vidyāyāḥ sad-bhāvād ity arthaḥ||47||
Link copied466. maunavad itareṣām apy upadeśāt||3|4|48||
Link copiedatha muniḥ, ity asmin vākye, atha bhikṣācaryaṁ carati, iti pārivrājyaikānta-dharmeṇopasaṁhāro'pi sarvāśrama-dharma-pradarśanārthaḥ, bhikṣācarya-maunādivad itareṣām āśrama-dharmāṇāṁ yajñādīnām apy upadeśāt||48|| iti sahakāryantara-vidhy-adhikaraṇam||12||
Link copied467. anāviṣkurvann anvayāt||3|4|49||
Link copiedtasmād brāhmaṇaḥ pāṇḍityaṁ nirvidya bālyena tiṣṭhāset bālyaṁ ca pāṇḍityaṁ ca nirvidyātha muniḥ, ity atra kiṁ bālasya karma kāma-cārādikaṁ sarvaṁ viduṣopādeyam, uta vidyā-māhātmyānāviṣkāra iti saṁśayaḥ| bālyena tiṣṭhāsed ity aviśeṣa-vidhānāt kāma-cārādikaṁ sarvam apy upādeyam iti pūrvaḥ pakṣaḥ; viduṣo viśeṣa-vidhānāt, vidyā-māhātmyāc ca, niṣedha-śrutayo bādhitā bhaveyur iti| rāddhāntas tu--- pāṇḍitya-prayukta-sva-māhātmyānāviṣkāra eva vidyānvaya-yogyatayopādeyaḥ; itarasya kāma-cārādeḥ, nāvirato duścaritāt, ity ādi śastrair vidyotpatti-virodhitvāvagamāt| ato yathā bālaḥ svābhijanādy anāviṣkurvan vartate; tathā vidvān vartetety etad eva yuktam| sūtram api vyākhyātam||49|| ity anāviṣkārādhikaraṇam||13||
Link copied468. aihikam aprastuta-pratibandhe tad-darśanāt||3|4|50||
Link copiedmokṣa-vyatiriktābhyudaya-phalam upāsanaṁ kiṁ sva-sādhana-bhūta-puṇya-karmānantaram evotpadyate, utānantaram anyadā vety aniyama iti saṁśayaḥ| sādhana-nirvṛttau vilamba-hetv-abhāvād anantaram eveti pūrvaḥ pakṣaḥ| rāddhāntas tu--- aprastute--- prabala-karmāntara-pratibandhe saty anantaram, prastute tad-uttara-kālam ity aniyamaḥ| dṛśyate hi prabala-karmāntareṇa phala-pratibandhaḥ, yad eva vidyayā karoti tad eva vīryavattaram ity udgīthopāsanasya krtoḥ karmāntareṇa phalāpratibandhaḥ phalam iti, pṛthag ghy apratibandhaḥ phalam ity abhyupagamāt| sūtram api vyākhyātam| aihikam--- abhyudaya-phalam ity arthaḥ||50||
Link copiedity aihikādhikaraṇam||14||
Link copied469. evaṁ mukti-phalāniyamas tad-avasthāvadhṛtes tad-avasthāvadhṛteḥ||3|4|51||
Link copiedkiṁ mukti-phalāny upāsanāni sva-sādhana-bhūtātiśayita-puṇya-karmānantaram utpadyante, uta pūrvavad aniyama iti saṁśayaḥ| mukti-phalopāsana-sādhana-bhūta-karmaṇāṁ sarva-karmabhyo balavattaratvena pratibandhābhāvād anantaram evotpadyata iti pūrvaḥ pakṣaḥ| tatrāpi brahma-vid-apacārasya tato'pi balavattaratvena pratibandha-sambhavād aniyama eveti rāddhāntaḥ| sūtrārthas tu--- mukti-phalānām apy evam aniyamaḥ| kutaḥ| tad-avasthāvadhṛteḥ--- pratibandhābhāve sati phalāvadhṛteḥ| dvir-uktir adhyāya-parisamāptiṁ dyotayati||51|| iti mukti-phalādhikaraṇam||15||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe tṛtīyasyādhyāyasya caturthaḥ pādaḥ||
Link copied|| samāptaś cādhyāyaḥ||
Link copied