Skip to content

Vedanta Dipa · Section 13 of 17

||atha tṛtīyādhyāye caturthaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

४१९। पुरुषार्थोऽतः शब्दाद् इति बादरायणः॥३।४।१॥

Link copied

किꣳ विद्यातः पुरुषार्थः, उत कर्मण इति सꣳशयः। कर्मण इति पूर्वः पक्षः; कर्माङ्गत्वाद् विद्याया; कर्मसु कर्तृ-भूत-प्रत्यगात्मनो याथात्म्य-प्रतिपादन-पराणि वेदान्त-वाक्यानि। विद्यायाः कर्माङ्गत्वꣳ च--- यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति श्रुत्यैवावगम्यते। न च प्रकृतोद्गीथोपासन-विषयत्वम् अस्य वक्तुꣳ शक्यते, यद् एव विद्यया करोतीति श्रुत्यैव सर्व-कर्मसु विद्याया विनियुक्तत्वात्। श्रुतिश् च प्रकरणाद् बलीयसी। विद्यायाः कर्माङ्गत्वꣳ कथम् इत्य् अपेक्षायाꣳ, तत् त्वम् असि, अयम् आत्मा ब्रह्मेति सामानाधिकरण्येन कर्माङ्ग-भूत-कर्तृ-याथात्म्यानुसन्धान-द्वारेण विद्यायाः कर्माङ्गत्वम् इत्य् अवगम्यते। अतः कर्तृ-सꣳस्कार-रूपत्वाब्रह्म-विद्यायाः कर्मण एव पुरुषार्थः। तत्र तत्र फल-श्रुतिर् अर्थवादः स्यात्। विद्यायाः कर्माङ्गत्वे भूयाꣳसि लिङ्गानि च दृश्यन्ते सर्व-वेदान्तेषु। राद्धान्तस् तु--- कर्मसु कर्तुः प्रत्यगात्मनोऽर्थान्तर-भूतस्य स्व-सङ्कल्प-कृत-जगद्-उदय-विभव-लय-लीलस्य निखिल-हेय-प्रत्यनीक-कल्याणैकतानानन्त-ज्ञानानन्दैक-स्वरूपस्य सर्वेश्वरस्य सत्य-सङ्कल्पस्य करणाधिप-रूप-प्रत्यगात्माधिपस्य वेद्यस्य वेदन-रूपाया विद्यायाः, ब्रह्म-विद् आप्नोति परम् इत्य् आदिषु ब्रह्म-प्राप्ति-रूप-फलोपदेशाद् विद्यात एव फलम्। यद् एव विद्यया करोतीति श्रुतिः प्रसिद्धवन् निर्देशात्; प्रसिद्धिश् च प्रकृतोद्गीथोपासनस्यैवेति, प्रस्तुतोद्गीथोपासन-विशेष-निष्ठा। तत् त्वम् असीति सामानाधिकरण्यꣳ च तच्-छब्द-निर्दिष्टस्य स्व-सङ्कल्प-कृत-जगज्-जन्म-स्थिति-ध्वꣳसादिकस्य परस्य ब्रह्मणो न जीव-स्वरूपत्व-परम्; अपि तु जगत्-कारणस्य ब्रह्मणो जीव-शरीरकतया जीवस्यात्मत्व-परम् इति, अधिकꣳ तु भेद-निर्देशाद् इत्य् आदिषूक्तम्। य आत्मति तिष्ठन् \॥॥यस्यात्मा शरीरम् इति च प्रत्यगात्मन आत्मत्वꣳ परस्य ब्रह्मणः श्रुत्य्-अन्तरे व्यक्तम्। सूत्रार्थस् तु--- पुरुषार्थोऽतः, विद्यातः। कुतः। ब्रह्म-विद् आप्नोति परम् इत्य् आदि शब्दात्॥१॥

Link copied

४२०। शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः॥३।४।२॥

Link copied

तत् त्वम् असीत्य् आदि सामानाधिकरण्येन ब्रह्मणः कर्मसु कर्तृ-स्वरूपत्वावगमाद् विद्यायाः कर्तृ-सꣳस्कार-द्वारेण कर्म-शेषत्वात् तत्र पुरुषार्थवादोऽर्थवाद-मात्रम्; यथा अन्येषु द्रव्य-सꣳस्कारादिष्व् इति जैमिनिर् आचार्यो मन्यते॥२॥

Link copied

४२१। आचार-दर्शनात्॥३।४।३॥

Link copied

इतश् च विद्या कर्माङ्गम्; ब्रह्म-विदाम् आचारो हि कर्म-प्रधानो दृश्यते। यथाश्वपतिः केकयो ब्रह्म-विद्-अग्रेसरः--- यक्ष्यमाणो ह वै भगवन्तोऽहम् अस्मि, इत्य् आह। कर्मणैव हि सꣳसिद्धिम् आस्थिता जनकादयः, इति च स्मर्यते॥३॥

Link copied

लिङ्गम् इदम्; प्राप्तिर् उच्यताम् इत्य् अत्राह---

Link copied

४२२। तच् छ्रुतेः॥३।४।४॥

Link copied

यद् एव विद्यया करोतीत्य् आदिकायाः श्रुतेर् विद्यायाः कर्माङ्गत्वम् अवगम्यते। न च दुर्बलेन प्रकरणेन श्रुतिर् विद्या-विशेषोद्गीथ-विषयोपासने व्यवस्थाप्यते॥४॥

Link copied

४२३। समन्वारम्भणात्॥३।४।५॥

Link copied

तꣳ विद्या-कर्मणी समन्वारभेते, इति विद्या-कर्मणोर् एकस्मिन् पुरुषे साहित्यꣳ च विद्यायाः कर्माङ्गत्वे हि भवति॥५॥

Link copied

४२४। तद्वतो विधानात्॥३।४।६॥

Link copied

विद्यावतः कर्म-विधानाच् च विद्या कर्माङ्गम्। आचार्य-कुलाद् वेदम् अधीत्य यथाविधानꣳ गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे, इत्य् आदिनाध्ययनवतः कर्माणि विदधदर्थावबोध-पर्यन्तत्वाद् अध्ययनस्य विद्यावत एव कर्माणि विदधातीत्य् अवगम्यते॥६॥

Link copied

४२५। नियमात्॥३।४।७॥

Link copied

कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः, इत्य् आत्म-विदाम् आयुषः कर्मसु नियम-दर्शनाच् च कर्मण एव पुरुषार्थः; न विद्यात इत्य् अवगम्यते। अतश् च विद्या कर्माङ्गम्॥७॥

Link copied

४२६। अधिकोपदेशात् तु बादरायणस्यैवꣳ तद्-दर्शनात्॥३।४।८॥

Link copied

तु-शब्दात् पक्षो व्यावृत्तः। बादरायणस्यैवꣳ--- विद्यातः फलम् इति मतम्। कुतः। अधिकोपदेशात्--- कर्मसु कर्तुः प्रत्यगात्मनोऽधिकस्य--- अर्थान्तरभूतस्य वेद्यस्य वेदन-भूत-विद्यायाः फल-साधनत्वोपदेशात्। तद्-दर्शनात्--- दृश्यते हि वेदान्त-वाक्येऽधिक-विषयत्वꣳ विद्यायाः। एवम् एव हि--- तद् ऐक्षत बहु स्याꣳ प्रजायेयेति, सोऽकामयत बहु स्याꣳ प्रजायेयेत्य् आदिषु बहु-भवन-सङ्कल्प-पूर्वक-सृष्टयादेः कर्तुः सर्वेश्वरस्य करणाधिपाधिपस्यानवधिकातिशय-ज्ञानानन्दैक-स्वरूपस्य निखिल-हेय-प्रत्यनीकस्य वेद्यस्य विद्या ब्रह्म-प्राप्ति-फलाय विधीयते॥८॥

Link copied

४२७। तुल्यꣳ तु दर्शनम्॥३।४।९॥

Link copied

विद्यायाः प्रधानत्वेऽपि ब्रह्म-विदाम् आचार-दर्शनꣳ तुल्यम्--- कर्मणाम् अनाचार-दर्शनम् अप्य् अस्तीत्य् अर्थः, ऋषयः कावषेयाः किम्-अर्था वयम् अध्येष्यामहे किम्-अर्था वयꣳ यक्ष्यामहे, इत्य् आदौ। कर्मानुष्ठान-दर्शनꣳ तु फलाभिसन्धि-रहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस् तु फलाभिसन्धि-युक्तस्य विद्या-विरोधित्वाद् इत्य् अभिप्रायः॥९॥

Link copied

४२८। असार्वत्रिकी॥३।४।१०॥

Link copied

यद् एव विद्यया करोतीति श्रुतिः सर्व-विद्यायाः कर्माङ्गत्वꣳ विदधातीत्य् एतद् असङ्गतम्; अत्र विद्या-शब्दाभिहिता तु न सार्वत्रिक्री, अपि तूद्गीथ-विद्या। यत् करोति, तद् विद्ययेति नैवꣳ पदान्वयः; अपि तु यद् एव विद्यया करोति, तद् एव वीर्यवत्तरम् इति। विद्यया क्रियमाणस्यान्यतोऽवगतस्य वीर्यवत्तरत्वꣳ प्रतिसाधन-भावोऽवगम्यते, यद् एवेति प्रसिद्धवन् निर्देशात्। अन्यतोऽवगतिर् हि, उद्गीथम् उपासीतेति सन्निहितोद्गीथ-विद्यायाः॥१०॥

Link copied

४२९। विभागः शतवत्॥३।४।११॥

Link copied

तꣳ विद्या-कर्मणी समन्वारभेते, इत्य् अत्र विद्या च स्वस्मै फलाय कर्म च स्वस्मै फलायान्वारभत इति विभागो द्रष्टव्यः, यतो विद्या-कर्मणोर् भिन्न-फलत्वम् उक्तम्। शतवत्--- यथा क्षेत्र-रत्न-विक्रयिणꣳ शत-द्वयम् अन्वेतीत्य् उक्ते, क्षेत्रार्थꣳ शतम्, रत्नार्थꣳ शतम् इति विभागोऽवगम्यते; तद्वत्॥११॥

Link copied

४३०। अध्ययन-मात्रवतः॥३।४।१२॥

Link copied

वेदम् अधीत्येत्य् अध्ययन-मात्रवत एव कर्म-विधानाद् अनेन विद्याया न कर्माङ्गत्वम् अवगतम्। अध्ययन-विधिर् ह्य् आधानवन् नियमवद् अक्षर-राशि-ग्रहण-मात्रे पर्यवस्पति; गृहीतस्य स्वाध्यायस्य फलवद् अर्थावबोधित्व-दर्शनात् तन्-निर्णय-फल-मीमाꣳसा-श्रवणे अधीत-वेदः पुरुषः स्वयम् एव प्रवर्तते। अर्थावबोध-पर्यन्तत्वेऽप्य् अर्थ-ज्ञानाद् अर्थान्तर-भूता स्मृति-प्रत्ययावृत्ति-रूपा, विद्यात्, उपासीतेति शास्त्र-विहिता विद्या न कर्माङ्गम्॥१२॥

Link copied

४३१। नाविशेषात्॥३।४।१३॥

Link copied

कुर्वन्न् एवेह कर्माणि, इति ब्रह्म-विदाम् आयुषः कर्मणि नियमो दृश्यत इत्य् एतन् न सम्भवति, अविशेषात्--- विदुष एवेति विशेषाभावात् किम् इत्य् अविदुषो न स्यात्। विदुषस् त्व् आप्रयाणाद् उपासनानुवृत्ति-दर्शनाद् अर्थ-स्वभावाद् विदुष एवेत्य् अभिप्रायः॥१३॥

Link copied

४३२। स्तुतयेऽनुमतिर् वा॥३।४।१४॥

Link copied

वा-शब्दोऽवधारणे। ईशावास्यम् इदꣳ सर्वम् इति विद्या-प्रकरणाद् विद्या-स्तुतये कर्मानुमतिर् एव। विद्या-माहात्म्यात् सर्वदा कर्माणि कुर्वन्न् अपि तैर् न लिप्यत इति हि स्तुता भवति विद्या। वाक्य-शेषे च--- न कर्म लिप्यते नरे, इति श्रूयते॥१४॥

Link copied

४३३। काम-कारेण चैके॥३।४।१५॥

Link copied

एके शाखिनः काम-कारेण च विद्या-निष्ठस्य गार्हस्थ्य-त्यागम् अधीयते। किꣳ प्रजया करिष्यामो येषाꣳ नोऽयम् आत्मायꣳ लोकः, इति गार्हस्थ्य-कर्म-त्यागꣳ ब्रुवद् वाक्यꣳ विद्या प्रधानम् इति दर्शयति॥१५॥

Link copied

४३४। उपमर्दꣳ च॥३।४।१६॥

Link copied

विद्यया सर्व-कर्मोपमर्दꣳ चाधीयते--- क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे, इति; तद्-विद्यायाः कर्माङ्गत्वे न सङ्गच्छते॥१६॥

Link copied

४३५। ऊर्ध्व-रेतःसु च शब्दे हि॥३।४।१७॥

Link copied

ऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या-दर्शनात् तेषु चाग्निहोत्रादि-कर्माभावान् न विद्या कर्माङ्गम्। ते चात्राश्रमाः सन्त्य् एव; यतो वैदिके शब्दे तेऽपि दृश्यन्ते--- त्रयो धर्म-स्कन्धा यज्ञोऽध्ययनꣳ दानम् इति, ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते, एतम् एव प्रवाजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदौ। यावज्-जीवम् अग्निहोत्रम् इत्य् आदिका तु श्रुतिर् अविरक्त-विषया॥१७॥

Link copied

४३६। परामर्शꣳ जैमिनिर् अचोदनाच् चापवदति हि॥३।४।१८॥

Link copied

त्रयो धर्म-स्कन्धाः, इत्य् आदिषु तेषाम् आश्रमाणाम् अचोदनात्--- अविधानाद् उपासना-स्तुत्य्-अर्थꣳ परामर्शम्--- अनुवादꣳ जैमिनिर् आचार्यो मन्यते। अपि च, अपवदति हि श्रुतिर् आश्रमान्तरꣳ--- वीरहा वा एष देवानाꣳ योऽग्निम् उद्वासयते, इत्य् आदिका। अतस् ते न सन्त्य् एव॥१९॥

Link copied

४३७। अनुष्ठेयꣳ बादरायणः साम्य-श्रुतेः॥३।४।१९॥

Link copied

गृहस्थाश्रमवद् आश्रमान्तरम् अप्य् अनुष्ठेयꣳ भगवान् बादरायणो मन्यते। कुतः। तस्यापि तत्-साम्यश्रुतेः--- त्रयो धर्म-स्कन्धाः, इत्य् एवम् आदौ हि सर्वेषाम् आश्रमाणाम् एक-रूपꣳ सङ्कीर्तनम्॥१९॥

Link copied

४३८। विधिर् वा धारणवत्॥३।४।२०॥

Link copied

वा-शब्दोऽवधारणे; सर्वेषाम् आश्रमाणाꣳ विधिर् एवायम्। धारणवत्, यथा--- अधस्तात् समिधꣳ धारयन्न् अनुद्रवेत्, उपरि हि देवेभ्यो धारयति, इत्य् अनुवाद-रूपेऽप्य् उपरिधारणस्याप्राप्तत्वेन विधिर् आश्रीयते; एवम् इहाश्रमाणाम् अपि। अत ऊर्ध्व-रेतःस्व् अपि विद्या-दर्शनाद् विद्यातः पुरुषार्थ इति॥२०॥ इति पुरुषार्थाधिकरणम्॥१॥

Link copied

४३९-४४०। स्तुति-मात्रम् उपादानाद् इति चेन् नापूर्वत्वात्॥३।४।२१॥

Link copied

भाव-शब्दाच् च॥३।४।२२॥

Link copied

ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, स एष रसानाꣳ रसतमः परमः परार्थ्योऽष्टमो यद् उद्गीथः, इत्य् एतज्-जातीयके किꣳ कर्माङ्गाश्रयाणाꣳ दृष्टि-विशेषाणाꣳ विधिर् आस्थेयः, उतोद्गीथादि-स्तुति-मात्रम् इति सꣳशयः। विधित्वे सिद्धे हि गो-दोहनादिवद् भवति; विधित्वम् एव न सम्भवतीति पूर्वः पक्षः। इयम् एव जुहूः स्वर्गो लोक आहवनीयः, कर्माङ्ग-भूतोद्गीथादि-सम्बन्धितयोपादानाद् रसतमत्वादेस् तत्-स्तुति-मात्रत्वम् एव; न रसतमत्वादि-दृष्टि-विधिः। राद्धान्तस् तु---जुह्व्-आदि-विधिवद् उद्गीथादि-विधेर् अत्रासन्निधानात्, रसतमत्वादेर् अप्राप्तत्वाच् च, उपासीतेति विधि-प्रत्ययेन च, न स्तुति-मात्रम्, तद्-दृष्टि-विधिर् एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२१-२२॥ इति स्तुति-मात्राधिकरणम्॥२॥

Link copied

४४१-४४२। पारिप्लवार्था इति चेन् न विशेषितत्वात्॥३।४।२३॥

Link copied

तथा चैक-वाक्योपबन्धात्॥३।४।२४॥

Link copied

प्रतर्दनो ह वै दैवोदासिः, इत्य् आदयो वेदान्तेष्व् आख्यान-विशेषाः किꣳ पारिप्लव-प्रयोगार्थाः, उत तत्र तत्र विद्या-विशेष-प्रतिपादनार्थाः, इति सꣳशयः। आख्यानानि शꣳसन्तीति पारिप्लवे विनियोगात् तद्-अर्थाः, इति पूर्वः पक्षः। राद्धान्तस् तु--- आख्यानानि शꣳसन्तीत्य् उक्त्वा, मनुर् वैवस्वतो राजा, इति मन्व्-आद्य्-आख्याने विनियोगस्य विशेषितत्वात्, तꣳ माम् आयुर् अमृतम् इत्य् उपाःस्व, आत्मा वा अरे द्रष्टव्यः, इत्य् आदि विधिनैक-वाक्यत्वाच् च, सोऽरोदीत्, इत्य् आदिवद् विद्या-विध्य्-अर्था एव। सूत्र-द्वयम् अपि व्याख्यातम्॥२३-२४॥ इति पारिप्लवार्थाधिकरणम्॥३॥

Link copied

४४३। अत एव चाग्नीन्धनाद्य्-अनपेक्षा॥३।४।२५॥

Link copied

ऊर्ध्व-रेतःस्व् आश्रमेषु ब्रह्म-विद्या सम्भवति, नेति सꣳशयः। यज्ञाद्य्-अभावात् तेषाꣳ तद्-अङ्गिका विद्या न सम्भवतीति पूर्वः पक्षः। राद्धान्तस् तु--- यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति, एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, इत्य् आदि श्रुतेस् तेषाꣳ विद्यावत्त्वावगमात् तेष्व् अग्निहोत्राद्य्-अनपेक्षा विद्येति निश्चीयते। सूत्रार्थस् तु--- अत एव, विद्यावत्त्व-श्रुतेर् एव, आधानाद्य्-अनपेक्षा तेषु विद्या। अग्नीन्धनꣳ ह्य् अग्न्य्-आधानम्॥२५॥ इत्य् अग्नीन्धनाद्य्-अधिकरणम्॥४॥

Link copied

४४४। सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत्॥३।४।२६॥

Link copied

कर्मवत्सु गृहस्थेषु किꣳ यज्ञादि-कर्मापेक्षा विद्या, उत तत्रापि केवलैवेति सꣳशयः। ऊर्ध्व-रेतःसु यज्ञाद्य्-अनपेक्षैवामृतत्वꣳ साधयति चेत् कर्म-निरपेक्षाया विद्याया एव साधनत्वम् अभ्युपगमनीयम्। तथा सति गृहस्थेष्व् अपि तन्-निरपेक्षैव साधयितुꣳ समर्थेति पूर्वः पक्षः। न हि स्वर्गादि-साधन-भूतम् अग्निहोत्रादि-कर्म पुरुष-भेदेन नाना-विधाङ्गकꣳ दृष्टम्। विविदिषन्तीति शब्दोऽपि वेदनेच्छायाꣳ कर्माणि विनियुङ्क्ते, न विद्यायाम्। राद्धान्तस् तु--- कर्मवत्सु गृहस्थेषु यज्ञादि-सर्व-कर्मापेक्षा विद्या। कुतः। यज्ञादि-श्रुतेः--- तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति हि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते। अतो गृहस्थेषु कर्मापेक्षा विद्या। इच्छाया इष्यमाण-प्रधानत्वाद् विविदिषन्तीतीष्यमाणꣳ ज्ञानम् एवेत्य् अवगम्यते। यथा गमन-साधन-भूतोऽश्वः स्व-परिकर-बन्ध-रूप-परिकर्मापेक्षः; एवꣳ मोक्ष-साधन-भूता विद्यापि नित्य-नैमित्तिक-परिकर्मापेक्षा। ऊर्ध्व-रेतःसु च स्वाश्रम-विहितꣳ कर्मैव परिकर्म भवतीति तेष्व् अपि विद्या-सम्बन्धः शास्त्राद् अवगम्यते। शास्त्रैक-समधिगम्ये हि यथाशास्त्रम् अभ्युपगमनीयम्। सूत्रम् अपि व्याख्यातम्॥२६॥ इति सर्वापेक्षाधिकरणम्॥५॥

Link copied

४४५। शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्॥३।४।२७॥

Link copied

किꣳ विद्या-निर्वृत्तये गृहस्थैः शम-दमादय उपादेयाः, उत नेति सꣳशयः। गृहस्थानाम् आन्तर-बाह्य-करण-व्यापार-रूप-कर्माङ्गकत्वाद् विद्यायाः, तद्-विपरीत-रूप-शम-दमाद्य्-उपादानासामर्थ्याद् ऊर्ध्व-रेतःसु कर्म-रहितेषु शमादि-विनियोगो भविष्यति, यथा यज्ञादि-विनियोगः कर्मवत्सु गृहस्थेषु। तस्माद् अनुपादेयाः शमादय इति पूर्वः पक्षः। राद्धान्तस् तु--- तस्माद् एवꣳ-विच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानꣳ पश्येत्, इति सामान्येन विद्याङ्गतया विनियोगाद् गृहस्थैर् अप्य् उपादेयाः। न च कर्मवताꣳ तेषाꣳ शमाद्य्-उपादानासामर्थ्यम्; भिन्न-विषयत्वाच् छमादेः। विहितेषु हि कर्मसु करण-व्यापारः; अविहितेषु प्रयोजन-शून्येषु च शम-दमादयः। अतः शमादि-विनियोगो यज्ञादि-विनियोगवन् न सङ्कोचम् अर्हतीति। सूत्रार्थस् तु--- यद्य् अपि गृहस्थो यज्ञादि-कर्मसु विनियुक्तः, तथापि तु शम-दमाद्य्-उपेतः स्यात्। कुतः। शान्तो दान्तः, इत्य् आदिना तद्-विधेस् तद्-अङ्गतया--- विद्याङ्गतया विद्या-निष्पत्तये तेषाम् अवश्यानुष्ठेयत्वाच् च। एकाग्रता-निष्पाद्यत्वाच् छम-दमादिभिर् एव विद्या-निष्पत्तिर् इत्य् अर्थः। यज्ञादि-कर्माण्य् अपि पाप-निबर्हण-द्वारेणैकाग्रताम् आपादयन्तीत्य् अभिप्रायः॥२७॥ इति शम-दमाद्य्-अधिकरणम्॥६॥

Link copied

४४६। सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात्॥३।४।२८॥

Link copied

वाजिनाꣳ छन्दोगानाꣳ प्राण-विद्यायाꣳ, न ह वा एवꣳ-विदि किञ्चनान्नꣳ भवति, इति सर्वान्नानुमतिः सङ्कीर्त्यते। किꣳ प्राण-विदः सर्वान्नानुमतिः सर्वदा, उत प्रणात्ययापत्ताव् इति सꣳशयः। अविशेषासर्वदेति पुर्वः पक्षः। अतिशयित-शक्तेर् ब्रह्म-विदोऽप्य् उच्छिष्ट-परिग्रहण-भक्षणयोः प्राणात्ययापत्ताव् एव दर्शनाद् अल्प-शक्तेः प्राण-विदः किꣳ पुनर् इति प्राणात्ययापत्ताव् एवेति राद्धान्तः। सुत्रर्थस् तु--- च-शब्दोऽवधरणे; प्राण-विदः सर्वन्नानुमतिः। प्राणात्यय एव। कुतः। तद्-दर्शनात्--- अतिशयित-शक्तेर् ब्रह्म-विदः प्राणात्यय एव सर्वन्नानुमति-दर्शनात्॥२८॥

Link copied

४४७। अबाधाच् च॥३।४।२९॥

Link copied

आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः, इत्य् आहार-शुद्धि-विधेर् अबाधाच् च प्राणात्यय एव॥२९॥

Link copied

४४८। अपि स्मर्यते॥३।४।३०॥

Link copied

प्राण-सꣳशयम् आपन्नो योऽन्नम् अत्ति यतस् ततः। लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा, इति प्राण-सꣳशय एव सर्वान्नानुमतिः स्मर्यते च॥३०॥

Link copied

४४९। शब्दश् चातोऽकाम-कारे॥३।४।३१॥

Link copied

यतः सर्वान्नानुमतिः प्राणात्यये; अतोऽकाम-कारे शब्दश् च--- काम-कारस्य प्रतिषेधक-शब्दश् चोपपद्यत इत्य् अर्थः। अस्ति हि कठानाꣳ काम-कार-प्रतिषेधकः शब्दः, तस्माद् ब्राह्मणः सुराꣳ न पिबति पाप्मना नोत्सृजा, इति। पाप्मना सꣳस्पृष्टो न भवानीति मत्वा सुराꣳ न पिबतीत्य् अर्थः॥३१॥

Link copied

इति सर्वान्नानुमत्य्-अधिकरणम्॥७॥

Link copied

४५०। विहितत्वाच् चाश्रम-कर्मापि॥३।४।३२॥

Link copied

किꣳ यज्ञादयो विद्याङ्ग-भूताः केवलाश्रमस्याप्य् अङ्ग-भूताः, उत नेति सꣳशयः। केवलाश्रमस्याप्य् अङ्गत्वे नित्यानित्य-सꣳयोग-रूप-विरोधः प्रसज्यत इति नाङ्ग-भूताः केवलाश्रमस्येति पूर्वः पक्षः। राद्धान्तस् तु--- यदैकेनैव विनियोगेनोभयाङ्गत्वम् इष्यते तदा नित्यानित्य-सꣳयोग-विरोधः। इह तु--- यावज्-जीवम् अग्निहोत्रꣳ जुहुयात्, तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन, इति विनियोग पृथक्त्वेन विरोधः परिह्रियते; यथाग्निहोत्रादीनाम् एव कर्मणाम्। जीवनाधिकारकाम् अनाधिकारयोर् इवाधिकार-भेदस्यास्फुटत्वात् तत्-स्फुटीकरणाय पुनर् इह चिन्त्यते। सूत्रार्थस् तु--- यावज्-जीवम् अग्निहोत्रꣳ जुहुयाद् इत्य् आदिना केवल-गृहस्थाश्रमिणो जीवन-निमित्ततया विहितत्वाद् एव यज्ञादि केवलाश्रम-कर्मापि॥३२॥

Link copied

४५१। सहकारित्वेन च॥३।४।३३॥

Link copied

तम् एतꣳ वेदानुवचनेनेत्य् आदिना विद्या-साधनत्वेन विहितत्वाच् च विद्या-सहकारित्वेन चानुष्ठेयꣳ यज्ञादि-कर्म। विनियोग-पृथक्त्वेन विरोधः परिह्रियत इत्य् अभिप्रायः॥३३॥

Link copied

४५२। सर्वथापि त एवोभय-लिङ्गात्॥३।४।३४॥

Link copied

सर्वथापि--- उभयत्र विनियोगेऽपि त एव यज्ञादयः। कुतः। उभय-लिङ्गात्--- उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात्॥३४॥

Link copied

४५३। अनभिभवꣳ च दर्शयति॥३।४।३५॥

Link copied

धर्मेण पापम् अपनुदति, इत्य् आदिभिश् च यज्ञादि-धर्मान् निर्दिश्य तैर् विद्याया अनभिभवꣳ--- पाप-कर्मभिर् उत्पत्ति-प्रतिबन्धाभावꣳ दर्शयति। अत उभयत्र विनियोगात् केवलाश्रमिणाꣳ मुमुक्षूणाꣳ चानुष्ठेया यज्ञादयः॥३५॥ इति विहितत्वाधिकरणम्॥८॥

Link copied

४५४। अन्तरा चापि तु तद्-दृष्टेः॥३।४।३६॥

Link copied

विधुरादीनाम् अनाश्रमिणाꣳ ब्रह्म-विद्यायाम् अधिकारोऽस्ति, नेति सꣳशयः। आश्रम-धर्मेतिकर्तव्यताकत्वाद् विद्यायास् तद्-अभावात् तेषाम् अनधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- ऊर्ध्व-रेतःस्व् इव रैक्वादिष्व् अनाश्रमिषु विद्या-निष्ठत्व-दर्शनाद् आश्रमानियतैर् जपोपवास-दानादिभिर् एव तेषाꣳ विद्यानुग्रहो भवतीत्य् अस्त्य् एवाधिकारः। सूत्रार्थस् तु--- तु-शब्दात् पक्षो व्यावृत्तः। च-शब्दोऽवधारणे। अन्तरापि--- आश्रमानन्तरा वर्तमानानाम् अनाश्रमिणाम् अप्य् अधिकारोऽस्त्य् एव। कुतः। तद्-दृष्टेः--- रैक्वादिषु विद्या-निष्ठत्व-दृष्टेः॥३६॥

Link copied

४५५। अपि स्मर्यते॥३।४।३७॥

Link copied

अपि च अनाश्रमिणाम् अपि जपादिभिर् एव विद्यानुग्रहः स्मर्यते--- जप्येनापि च सꣳसिध्येद् ब्रह्मणो नात्र सꣳशयः, इत्य् आदिना॥३७॥

Link copied

४५६। विशेषानुग्रहश् च॥३।४।३८॥

Link copied

आश्रमानियत-धर्म-विशेषेण विद्यानुग्रहः श्रूयते च--- तपसा ब्रह्मचर्येण श्रद्धया विद्यया चात्मानम् अन्विच्छेत्, इति॥३८॥

Link copied

४५७। अतस् त्व् इतरज् ज्यायो लिङ्गाच् च॥३।४।३९॥

Link copied

अतः--- अनाश्रमित्वादितरत्, आश्रमित्वꣳ ज्यायः, धर्म-भूयस्त्वात्; लिङ्गाच् च स्मृतेश् चेत्य् अर्थः। अनाश्रमी न तिष्ठेत् तु दिनम् एकम् अपि द्विजः, इति हि स्मर्यते। तस्माद् अनाश्रमित्वेन विद्या-निष्ठत्वम् आपद्-विषयम् इत्य् अभिप्रायः॥३९॥ इति विधुराधिकरणम्॥९॥

Link copied

४५८। तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः॥३।४।४०॥

Link copied

नैष्ठिक-वैखानस-परिव्राजकानाꣳ स्वाश्रमेभ्यः प्रच्युतानाम् अपि विद्याधिकारोऽस्ति, नेति सꣳशयः। विधुरादिवज् जपादिभिर् अनुग्रह-सम्भवाद् अस्त्य् एवाधिकार इति पूर्वः पक्षः। राद्धान्तस् तु--- नैष्ठिकादीनाꣳ स्वाश्रम-भ्रष्टानाꣳ प्रायश्चित्ताभाव-स्मरणाच् छिष्ट-बहिष्कृतत्वाच् च तेषाम् अनधिकारः, इति। सूत्रार्थस् तु--- तद्-भूतस्य तु नातद्-भावः--- नैष्ठिकादि-भूतस्यातथाभावो न सम्भवति। कुतः। तद्-रूपाभावेभ्यः शास्त्रैर् नियमात्, तद्-रूपाभावा नैष्ठिकाद्य्-आश्रम-धर्माभावाः; तेभ्यो नियच्छन्ति हि शास्त्राणि। ब्रह्मचार्याचार्य-कुल-वासी तृतीयोऽत्यन्तम् आत्मानम् आचार्य-कुलेऽवसादयन्, इति नैष्ठिकस्य तत्रैव नियमः; अरण्यम् इयात् ततो न पुनर् एयात्, इति च वैखानसस्य; सन्न्यस्याग्निꣳ न पुनर् आवर्तयेत्, इति च परिव्राजकस्य। अत एव तेषाम् अनाश्रमित्वेनावस्थानाभावाद् विद्याधिकारो न सम्भवति। जैमिनेर् अप्य् अविगीतोऽयम्॥४०॥

Link copied

४५९। न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात्॥३।४।४१॥

Link copied

आधिकारिकम्--- अधिकार-लक्षणोक्तम्, अवकीर्णि पशुश् च तद्वत्, इत्य् एतत् प्रायश्चित्तꣳ नैष्ठिकस्य न सम्भवति। कुतः। पतनानुमानान् नैष्ठिकस्य तद्-अयोगात्। तस्य हि पतनꣳ स्मर्यते प्रायश्चित्ताभाव-वचनेन, आरूढो नैष्ठिकꣳ धर्मꣳ यस् तु प्रच्यवते द्विजः। प्रायश्चित्तꣳ न पश्यामि येन शुध्येत् स आत्महा, इति। अत उपकुर्वाण-ब्रह्मचारि-विषयमाधिकारिकम्॥४१॥

Link copied

४६०। उपपूर्वम् अपीत्य् एके भावम् अशनवत् तद् उक्तम्॥३।४।४२॥

Link copied

एके प्रायश्चित्त-भावम् अपि मन्यन्ते, यत उपपूर्वम्--- उपपातकम् इदम्; अशनवत्--- मध्व्-अशनादि-निषेध-तत्-प्रायश्चित्तवद् भवतीत्य् अर्थः। अत उपकुर्वाणस्य ब्रह्मचारिण उक्तम् आधिकारिकम् अस्यापि भवतीति। तद् उक्तꣳ स्मृति-कारैः, उत्तरेषाꣳ चैतद्-अविरोधि, इति। उपकुर्वाणे ब्रह्मचारिण्य् उक्तो धर्म उत्तरेषाꣳ चाश्रमिणाꣳ स्वाश्रमाविरोधी भवत्य् एवेत्य् अर्थः॥४२॥

Link copied

४६१। बहिस् तूभयधापि स्मृतेर् आचाराच् च॥३।४।४३॥

Link copied

उभयधापि--- उपपातकत्वे महा-पातकत्वेऽपि नैष्ठिकात् प्रच्युतो बहिर् भूतः कर्माधिकारात्, प्रायश्चित्तꣳ न पश्यामि, इति स्मृतेः, आचाराच् च--- वर्जयन्ति ह्य् एनꣳ शिष्टा विद्योपदेशादौ। यद्य् अपि कल्मष-निबर्हणाय कैश्चित् प्रायश्चित्तम् उच्यते; तथापि कर्माधिकारापादिनी शुद्धिस् तेषाꣳ न सम्भवतीत्य् अभिप्रायः॥४३॥ इति तद्-भताधिकरणम्॥१०॥

Link copied

४६२। स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः॥३।४।४४॥

Link copied

उद्गीथाद्य्-उपासनꣳ किꣳ यजमानेनानुष्ठेयम्, उत ऋत्विजेति सꣳशयः। यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति क्रतु-वीर्यवत्तरत्व-फलꣳ यजमानस्येति दहरोपासनादिवद् यजमानेनानुष्ठेयम् इति पूर्वः पक्षः। कर्माङ्गाश्रयत्वाद् अस्योपासनस्य कर्मणश् चार्त्विज्यत्वेन एतद् अपि ऋत्विजानुष्ठेयꣳ, गो-दोहनादिवद् इति राद्धान्तः। सूत्रार्थस् तु--- स्वामिनः, यजमानस्योद्गीथाद्य्-उपासने कर्तृत्वम्। कुतः। तस्यैव फल-श्रुतेर् इत्य् आत्रेयो मन्यते॥४४॥

Link copied

४६३। आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते॥३।४।४५॥

Link copied

क्रत्व्-अङ्गाश्रयत्वेन क्रत्व्-अधिकृतस्यैवास्मिन्न् उपासनेऽधिकारात् क्रतोश् चार्त्विज्यत्वेन एतद् अप्य् आर्त्विज्यम् इत्य् औडुलोमिर् आचार्यो मन्यते, यजमान-फल-साधनत्वेऽपि क्रतोस् तद्-अनुष्ठानाय हि ऋत्विक् परिक्रियते॥४५॥ इति स्वाम्य्-अधिकरणम्॥११॥

Link copied

४६४। सहकार्यन्तर-विधिः पक्षेण तृतीयꣳ तद्वतो विध्य्-आदिवत्॥३।४।४६॥

Link copied

तस्माद् ब्राह्मणः पाण्डित्यꣳ निर्विद्य बाल्येन तिष्ठासेत्, बाल्यꣳ च पाण्डित्यꣳ च निर्विद्याथ मुनिः, इत्य् अत्र मौनꣳ विद्याङ्गतया विधीयते, उतानूद्यत इति सꣳशयः। मौनस्य मनन-रूपत्वात्, श्रोतव्यो मन्तव्यः, इति च प्राप्तत्वेनानूद्यत इति पूर्वः पक्षः। राद्धान्तस् तु--- मुनि-शब्दस्य प्रकृष्ट-मनन-शीले प्रसिद्धेः, प्रकृष्ट-मननम् उपास्य-विषयाभ्यास-रूपꣳ विद्या-निष्पत्तये विधीयत इति। सूत्रार्थस् तु--- तद्वतः, विद्यावतः, सहकार्यन्तरꣳ--- मौनꣳ विधिः, विधीयत इति विधिर् इति मौनꣳ विधिर् इत्य् उक्तम्। विध्यादिवत्--- अत्रापि विधीयत इति विधिर् यज्ञ-दान-प्रभृत्य्-आश्रम-धर्मः, आदि-शब्दाच् छ्रवण-मनने गृह्येते। आश्रम-धर्मवच् छ्रवण-मननवच् च पाण्डित्य-बाल्ययोस् तृतीयम् इदꣳ सहकार्यन्तरꣳ मौनम् अपूर्वꣳ विधीयते। कुत इत्य् अत आह--- पक्षेणेति। मुनि-शब्दस्य प्रकृष्ट-मनन-युक्ते पक्षेण--- प्रसिद्धेर् इत्य् अर्थः॥४६॥

Link copied

४६५। कृत्स्न-भावात् तु गृहिणोपसꣳहारः॥३।४।४७॥

Link copied

सर्वाश्रमिणाꣳ विद्यावत्त्वेऽपि छान्दोग्ये--- स खल्व् एवꣳ वर्तयन् यावद्-आयुषꣳ ब्रह्म-लोकम् अभिसम्पद्यते, इति गृहस्थ-धर्मेणोपसꣳहारः। कुतः। कृत्स्न-भावात्--- कृत्स्नेषु भावात्--- कृत्स्नेष्व् आश्रमिषु विद्यायाः सद्-भावाद् इत्य् अर्थः॥४७॥

Link copied

४६६। मौनवद् इतरेषाम् अप्य् उपदेशात्॥३।४।४८॥

Link copied

अथ मुनिः, इत्य् अस्मिन् वाक्ये, अथ भिक्षाचर्यꣳ चरति, इति पारिव्राज्यैकान्त-धर्मेणोपसꣳहारोऽपि सर्वाश्रम-धर्म-प्रदर्शनार्थः, भिक्षाचर्य-मौनादिवद् इतरेषाम् आश्रम-धर्माणाꣳ यज्ञादीनाम् अप्य् उपदेशात्॥४८॥ इति सहकार्यन्तर-विध्य्-अधिकरणम्॥१२॥

Link copied

४६७। अनाविष्कुर्वन्न् अन्वयात्॥३।४।४९॥

Link copied

तस्माद् ब्राह्मणः पाण्डित्यꣳ निर्विद्य बाल्येन तिष्ठासेत् बाल्यꣳ च पाण्डित्यꣳ च निर्विद्याथ मुनिः, इत्य् अत्र किꣳ बालस्य कर्म काम-चारादिकꣳ सर्वꣳ विदुषोपादेयम्, उत विद्या-माहात्म्यानाविष्कार इति सꣳशयः। बाल्येन तिष्ठासेद् इत्य् अविशेष-विधानात् काम-चारादिकꣳ सर्वम् अप्य् उपादेयम् इति पूर्वः पक्षः; विदुषो विशेष-विधानात्, विद्या-माहात्म्याच् च, निषेध-श्रुतयो बाधिता भवेयुर् इति। राद्धान्तस् तु--- पाण्डित्य-प्रयुक्त-स्व-माहात्म्यानाविष्कार एव विद्यान्वय-योग्यतयोपादेयः; इतरस्य काम-चारादेः, नाविरतो दुश्चरितात्, इत्य् आदि शस्त्रैर् विद्योत्पत्ति-विरोधित्वावगमात्। अतो यथा बालः स्वाभिजनाद्य् अनाविष्कुर्वन् वर्तते; तथा विद्वान् वर्तेतेत्य् एतद् एव युक्तम्। सूत्रम् अपि व्याख्यातम्॥४९॥ इत्य् अनाविष्काराधिकरणम्॥१३॥

Link copied

४६८। ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात्॥३।४।५०॥

Link copied

मोक्ष-व्यतिरिक्ताभ्युदय-फलम् उपासनꣳ किꣳ स्व-साधन-भूत-पुण्य-कर्मानन्तरम् एवोत्पद्यते, उतानन्तरम् अन्यदा वेत्य् अनियम इति सꣳशयः। साधन-निर्वृत्तौ विलम्ब-हेत्व्-अभावाद् अनन्तरम् एवेति पूर्वः पक्षः। राद्धान्तस् तु--- अप्रस्तुते--- प्रबल-कर्मान्तर-प्रतिबन्धे सत्य् अनन्तरम्, प्रस्तुते तद्-उत्तर-कालम् इत्य् अनियमः। दृश्यते हि प्रबल-कर्मान्तरेण फल-प्रतिबन्धः, यद् एव विद्यया करोति तद् एव वीर्यवत्तरम् इत्य् उद्गीथोपासनस्य क्र्तोः कर्मान्तरेण फलाप्रतिबन्धः फलम् इति, पृथग् घ्य् अप्रतिबन्धः फलम् इत्य् अभ्युपगमात्। सूत्रम् अपि व्याख्यातम्। ऐहिकम्--- अभ्युदय-फलम् इत्य् अर्थः॥५०॥

Link copied

इत्य् ऐहिकाधिकरणम्॥१४॥

Link copied

४६९। एवꣳ मुक्ति-फलानियमस् तद्-अवस्थावधृतेस् तद्-अवस्थावधृतेः॥३।४।५१॥

Link copied

किꣳ मुक्ति-फलान्य् उपासनानि स्व-साधन-भूतातिशयित-पुण्य-कर्मानन्तरम् उत्पद्यन्ते, उत पूर्ववद् अनियम इति सꣳशयः। मुक्ति-फलोपासन-साधन-भूत-कर्मणाꣳ सर्व-कर्मभ्यो बलवत्तरत्वेन प्रतिबन्धाभावाद् अनन्तरम् एवोत्पद्यत इति पूर्वः पक्षः। तत्रापि ब्रह्म-विद्-अपचारस्य ततोऽपि बलवत्तरत्वेन प्रतिबन्ध-सम्भवाद् अनियम एवेति राद्धान्तः। सूत्रार्थस् तु--- मुक्ति-फलानाम् अप्य् एवम् अनियमः। कुतः। तद्-अवस्थावधृतेः--- प्रतिबन्धाभावे सति फलावधृतेः। द्विर्-उक्तिर् अध्याय-परिसमाप्तिꣳ द्योतयति॥५१॥ इति मुक्ति-फलाधिकरणम्॥१५॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य चतुर्थः पादः॥

Link copied

॥ समाप्तश् चाध्यायः॥

Link copied
Join our community