Vedanta Dipa · Section 12 of 17
||atha tṛtīyādhyāye tṛtīyaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
३५५। सर्व-वेदान्त-प्रत्ययꣳ चोदनाद्य्-अविशेषात्॥३।३।१॥
Link copiedकिꣳ सर्वेषु वेदान्तेषु श्रूयमाणा दहरादि-विद्या एकैव, उत विद्यान्तरम् इति सꣳशयः। अविशेष-पुनः-श्रवणस्य प्रकरणान्तरस्य च विद्या-भेद-हेतुत्वाद् विद्यान्तरम् इति पूर्वः पक्षः। चोदना-फल-सꣳयोग-रूपाख्यानाम् अविशेषात्, प्रतिपत्तृ-भेदेन पुनः-श्रवणोपपत्तेः, तत एव प्रकरणान्तरत्वाभावाच् च, विद्यैक्यम् इति राद्धान्तः। विद्यासु गुणोपसꣳहारादि-चिन्तार्थꣳ शाखान्तराधिकरणोक्तन्यायस् तत्-फलꣳ च स्थिरीकृतम्। सूत्रार्थस् तु--- सर्व-वेदान्त-प्रत्ययम् एकꣳ दहराद्य्-उपासनम्। कुतः। चोदनाद्य्-अविशेषात्॥१॥
Link copied३५६। भेदान् नेति चेद् एकस्याम् अपि॥३।३।२॥
Link copiedअविशेष-पुनः-श्रुत्या विद्या-भेदावगमान् न विद्यैक्यम् इति चेत्; एकस्याम् अपि विद्यायाꣳ शाखान्तरे प्रतिपत्तृ-भेदात् पुनः-श्रवणम् अर्थवद् इति न विद्या-भेदः॥२॥
Link copiedतेषाम् एवैताꣳ ब्रह्म-विद्याꣳ वदेत शिरोव्रतꣳ विधिवद् यैस् तु चीर्णम्, इत्य् आथर्वणिकानाꣳ शिरोव्रतस्य विद्योपदेशाङ्गत्व-नियम-दर्शनꣳ विद्या-भेदꣳ द्योतयति, विद्यैक्ये ह्य् आवणिकानाम् एवेति नियमो नोपपद्यत इत्य् आशङ्क्याह---
Link copied३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्-नियमः॥३।३।३॥
Link copiedशिरोव्रतꣳ न विद्याङ्गम्, अपि तु स्वाध्यायस्य तथात्वे हि--- स्वाध्यायस्य तज्-जन्य-सꣳस्कार-भाक्त्वे हि तन्-नियमः, नैतद् अचीर्ण-व्रतोऽधीयीत, इत्य् अध्ययन-सम्बन्धात्, समाचाराख्ये ग्रन्थे, इदम् अपि वेद-व्रतेन व्याख्यातम् इति वेद-व्रतत्वावगमाच् च। ब्रह्म-विद्याꣳ वदेत--- वेद-विद्याम् इत्य् अर्थः। सववच् च तन्-नियमः--- यथा हि सव-होमाः सप्त-सूर्यादयः शतौदन-पर्यन्ता आथर्वणिकैकाग्नि-सम्बन्धिनस् तत्रैव भवन्ति, तथेदम् अप्य् आथर्वण-वेद-सम्बन्धित्वेन तत्रैव भवति॥३॥
Link copied३५८। दर्शयति च॥३।३।४॥
Link copiedदर्शयति च श्रुतिर् उपासनस्य सर्व-वेदान्त-प्रत्ययत्वम्; छान्दोग्ये दहर-विद्यायाꣳ--- तस्मिन् यद् अन्तः, इति विहितम् अपहत-पाप्मत्वादि-गुणाष्टकꣳ तैत्तिरीयके केवलꣳ--- तस्मिन् यद् अन्तस् तद् उपासितव्यम् इत्य् एवोक्तम्; तद् उभयत्र विद्यैकत्वे सम्भवति॥४॥
Link copied३५९। उपसꣳहारोऽर्थाभेदाद् विधि-शेषवत् समाने च॥३।३।५॥
Link copiedतद् एवꣳ सर्व-वेदान्तेषु दहराद्य्-उपासने समाने--- एकस्मिन् सति, तत्-तद्-उपासने वेदान्तान्तर-विहितस्य गुणस्य वेदान्तान्तरे चोपसꣳहारः कर्तव्यः। कुतः। अर्थाभेदात्--- तद्-विद्याङ्गत्वेन तद्-उपकाराभेदात्। विधिशेषवत्--- यथैकस्मिन् वेदान्ते वैश्वानर-विद्यादि-विशेषतया विहितस्य गुणस्य तद्-उपकारायोपसꣳहारः; तथा वेदान्तान्तरेऽपि तद्-विद्याङ्गत्वाविशेषाद् उपसꣳहारो न्याय्यः॥५॥
Link copiedइति सर्व-वेदान्त-प्रत्ययाधिकरणम्॥१॥
Link copied३६०। अन्यथात्वꣳ शब्दाद् इति चेन् नाविशेषात्॥३।३।६॥
Link copiedअस्ति ह्य् उद्गीथ-विद्या वाजिनाꣳ छन्दोगानाꣳ च। वाजिनाꣳ तावत्--- हन्तासुरान् यज्ञ उद्गीथेनात्ययाम, इत्य् आरभ्य उद्गीथे प्राण-दृष्ट्योपासनꣳ शत्रु-परिभव-फलꣳ विहितम्। छन्दोगानाम् अपि--- तद् ध देवा उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः, इत्य् आरभ्य उद्गीथे प्राण-दृष्ट्योपासनम् एव शत्रु-परिभव-फलम् उक्तम्। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। चोदनाद्य्-अविशेषाद् विद्यैक्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अप्य् उभयत्रोद्गीथे प्राण-दृष्ट्योपासनम् अविशिष्टम् उक्तम्। तथापि छन्दोगानाम्--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इति प्रकृत्य, उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः, इत्य् उद्गीथावयवे प्रणवे प्राण-दृष्ट्योपासनम् उक्तम्; वाजिनाꣳ तु--- हन्तासुरान् यज्ञ उद्गीथेनात्ययाम, इत्य् उपक्रमाद् अविशेषेण कृत्स्नोद्गीथे प्राण-दृष्ट्योपासनम् उक्तम्। अथ ह य एवायꣳ मुख्यः प्राणस् तम् उद्गीथम् उपासाञ्चक्रिरे, इति च्छन्दोगानाम् उद्गान-कर्मण्य् उद्गीथावयवे प्रणवे प्राण-दृष्टि-विधानात्। वाजिनाꣳ तु--- अथ हेमम् आसन्यꣳ प्राणम् ऊचुस् त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उद्गायत्, इति कृत्स्नोद्गीथस्य कर्तरि प्राण-दृष्टि-विधानाच् चोभयत्र रूप-भेदाद् विद्या-भेद इति॥
Link copiedसूत्रार्थस् तु--- अन्यथात्वꣳ शब्दाद् इति चेद् इति राद्धान्त-च्छायया परिचोद्य, नाविशेषाद् इति पूर्व-पक्षी परिहरति। अथ ह य एवायꣳ मुख्यः प्राणस् तम् उद्गीथम् उपासाञ्चक्रिरे, अथ हेमम् आसन्यꣳ प्राणम् ऊचुस् त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्, इत्य् एकत्रोद्गीथे प्राण-दृष्टि-शब्दात्, इतरत्रोद्गातरि प्राण-दृष्टि-शब्दाच् च, रूपान्यथात्वम् इति चेन् न रूप-भेदः। कुतः। अविशेषात्--- उपक्रमे ह्य् अविशेषेण, उद्गीथेनात्ययाम, उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः इत्य् उद्गीथस्यैवोपास्यत्व-प्रतीतेः। त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उदगायद् इति कर्मण्य् एवोद्गीथे कर्तृत्वम् उपचर्यत इति युक्तम्; अन्यथोपक्रम-विरोधः स्यात्॥६॥
Link copied३६१। न वा प्रकरण-भेदात् परो वरीयस्त्वादिवत्॥३।३।७॥
Link copiedन चैतद् अस्ति। यद् रूपैक्याद् विद्यैक्यम् इति। कुतः। प्रकरण-भेदात्। छान्दोग्ये हि--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेत्य् उद्गीथावयव-भूतꣳ प्रणवम् उपास्यꣳ प्रकृत्य, उद्गीथम् आजह्रुः, इति वचनाद् उद्गीथावयव-भूतः प्रणव एवोद्गीथ-शब्देनोच्यत इत्य् अवगम्यते; वाजसनेयकेत्व-विशेषेण, उद्गीथेनात्ययाम, इत्य् उपक्रमात् कृत्स्नोद्गीथ उपास्यः प्रकृतः; अत उद्गीथे प्राण-दृष्ट्य्-अविशेषेऽपि रूप-भेदाद् विद्या-भेदः। परोवरीयस्त्वादिवत्--- यथैकस्याम् अपि शाखायाम् उद्गीथावयव-भूते प्रणवे परमात्म-दृष्टि-विधान-साम्येऽपि हिरण्मय-पुरुष-दृष्टि-विधानात् परोवरीयस्त्वादि-गुण-विशिष्ट-दृष्टि-विधानम् अर्थान्तरम् इति रूप-भेदः; तद्वद् अत्रापि। एवꣳ प्रकरण-भेदेनोपक्रम एवैकत्रोद्गीथावयव-विषयत्वेनान्यत्र कृत्स्नोद्गीथ-विषयत्वेन चोपासन-भेदे सिद्धे सत्य् उपसꣳहारस्य कर्म-विषयꣳ कर्तृ-विषयꣳ च प्राण-दृष्टि-विधानꣳ यथाश्रुतम् अवतिष्ठत इत्य् अभिप्रायः॥७॥
Link copied३६२। सꣳज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि॥३।३।८॥
Link copiedउद्गीथ-विद्येति सꣳज्ञैक्यात्, तत्--- विधेयैक्यम् उक्तꣳ चेत्, तत्--- सꣳज्ञैक्यꣳ विधेय-भेदेऽपि, अस्ति तु--- अस्त्य् एवेत्य् अर्थः; यथा नित्याग्निहोत्रे, कुण्डपायिनाम् अयनाग्निहोत्रे च; यथा च च्छान्दोग्ये प्रथम-प्रपाठकोदितासु बह्वीषु विद्यासूद्गीथ-विद्येति सꣳज्ञैक्यम्॥८॥
Link copied३६३। व्याप्तेश् च समञ्जसम्॥३।३।९॥
Link copiedप्रथम-प्रपाठके उपक्रमवद् उत्तरास्व् अप्य् उद्गीथ-विद्यासूद्गीथावयवस्य प्रणवस्यैवोपास्यत्व-व्याप्तेर् मध्य-गतस्य--- तद् ध देवा उद्गीथम् आजर्हुः, इत्य् उद्गीथ-शब्दस्यापि प्रणव-विषयत्वम् एव समञ्जसम्॥९॥ इत्य् अन्यथात्वाधिकरणम्॥२॥
Link copied३६४। सर्वाभेदाद् अन्यत्रेमे॥३।३।१०॥
Link copiedयो ह वै ज्येष्ठꣳ च श्रेष्ठꣳ च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति प्राणो वा व ज्येष्ठश् च श्रेष्ठश् च, इति च्छन्दोगानाꣳ वाजिनाꣳ कौषीतकिनाꣳ च प्राण-विद्याम्नाता। तत्र च्छान्दोग्य-वाजसनेयकयोः सर्वस्यैकरूप्यात् प्राण-विद्यैकैव। कौषीतकि-प्राण-विद्यायास् तस्याश् च भेदोऽस्ति, उत नास्तीति सꣳशयः। अस्ति भेद इति पूर्वः पक्षः। यद्य् अपि सर्वत्र ज्यैष्ठ्य-श्रैष्ठ्य-गुणकः प्राण एक एवोपास्यः; तथापि च्छन्दोगानाꣳ वाजसनेयिनाꣳ च ज्यैष्ठ्य-श्रैष्ठ्य-गुणकस्य प्राणस्य वाग्-आदि-गत-वसिष्ठत्वादि-गुण-सम्बन्धित्वम् अपि शब्दाद् एव प्रतीयते। कौषीतकिनाꣳ तु न तथेति रूप-भेदाद् विद्या-भेदः। राद्धान्तस् तु--- यद्य् अपि कौषीतकि-प्राण-विद्यायाꣳ वाग्-आदि-भात-वसिष्टत्वादि-सम्बन्धित्वम् अपि प्राणस्य शब्दान् नाभिहितम्, तथापि तत्रापि प्राणस्य ज्येष्ठ्य-श्रेष्ठ्योपपादनꣳ वाग्-आदीनाꣳ स्थितेस् तत्-तत्-कार्यस्य च प्राणाधीनत्वेनेत्य् एतद् अविशिष्टम् इति वाग्-आदि-गत-वसिष्ठत्वादेर् अपि प्राण-हेतुकत्वानुसन्धानेन विना प्राणस्य ज्यैष्ठ्य-श्रेष्ठ्यानुसन्धानम् अनुपपन्नम् इति कौषीतकि-प्राण-विद्यायाम् अपि वाग्-आदि-गत-वसिष्ठत्वादि-सम्बन्ध्य् एव प्राण उपास्य इति रूपाभेदाद् विद्यैक्यम्॥
Link copiedसूत्रार्थस् तु--- सर्वाभेदाद् अन्यत्रेमे। अन्यत्र--- कौषीतकि-प्राणविद्यायाम् अपि, इमे वसिष्ठत्वादयः सन्त्य् एव। कुतः। सर्वाभेदात्--- प्राण-ज्यैष्ठ्य-श्रैष्ठ्योपपादन-प्रकारस्य सर्वस्य तत्राप्य् अभेदात्। वाग्-आदीनाꣳ स्थितेः कार्यस्य च प्राण-हेतुत्वेन हि प्राणस्य ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ चात्राप्य् उपपादितम्। अतो वाग्-आदि-गत-कार्य-सामर्थ्य-रूप-वसिष्ठत्वादि-सम्बन्धित्वꣳ प्राणस्यात्राप्य् उक्तम् एवेत्य् अर्थः॥१०॥ इति सर्वाभेदाधिकरणम्॥३॥
Link copied३६५। आनन्दादयः प्रधानस्य॥३।३।११॥
Link copiedसत्य-ज्ञानानन्दामलत्वानन्तत्व-रूपा ब्रह्म-स्वरूप-निरूपक-गुणाः सर्वासु पर-विद्यासूपसꣳहर्तव्याः, उत नेति सꣳशयः। नोपसꣳहर्तव्या इति पूर्वः पक्षः, अप्रकरणाधीतानाम् उपसꣳहारे प्रमाणाभावात्, ब्रह्म-गुणानाम् असङ्ख्येयत्वेनोपसꣳहाराशक्तेश् च। राद्धान्तस् तु--- ज्ञानानन्दादीनाꣳ ब्रह्म-स्वरूप-निरूपक-गुणत्वेन तैर् विना ब्रह्म-स्वरूपानुसन्धानानुपपत्तेः सर्वासूपसꣳहर्तव्या इति। सूत्रार्थस् तु--- सर्वाभेदाद् इत्य् अतोऽभेदाद् इति वर्तते, आनन्दादयो गुणाः सर्वासूपसꣳहर्तव्याः, प्रधानस्य--- गुणिनो ब्रह्मणः सर्वासु विद्यास्व् अभेदात्। सर्वासु पर-विद्यासु ब्रह्मैकम् एवानुसन्धेयꣳ चेत्, यैर् गुणैर् विना ब्रह्म-स्वरूपानुसन्धानम् अशक्यम्, ते च ज्ञानानन्दादयोऽनुसन्धेया इत्य् अर्थः॥११॥
Link copied३६६। प्रियशिरस्त्वाद्य्-अप्राप्तिर् उपचयापचयौ हि भेदे॥३।३।१२॥
Link copiedआनन्दादीनाꣳ प्राप्ताव् अपि--- तस्य प्रियम् एव शिरः, मोदो दक्षिणः पक्षः, इति प्रियशिरस्त्वादीनाम् अप्राप्तिः, ब्रह्म-स्वरूप-गुणत्वाभावात् तेषाम्। ब्रह्मणः शिरः-पक्षादि-भेदे स्वरूपे सति ब्रह्मण उपचयापचयौ प्रसज्येयाताम्। ततश् च--- सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म, आनन्दोऽजरः, इत्य् आदि विरुध्यते॥१२॥
Link copiedप्रियशिरस्त्वादिभ्य आनन्दादीनाꣳ विशेषम् आह---
Link copied३६७। इतरे त्व् अर्थ-सामान्यात्॥३।३।१३॥
Link copiedइतरे--- आनन्दादयः, अर्थ-सामान्यात्--- ब्रह्म-स्वरूप-सामान्यात् सर्वास्व् अनुवर्तन्ते। ब्रह्म-स्वरूप-निरूप-रूपण-धर्मत्वेन ब्रह्म-स्वरूप-समाना हि ते॥१३॥
Link copiedप्रियशिरस्त्वादयो ब्रह्म-स्वरूप-धर्मा न भवन्ति चेत्; तद्-अभिधानꣳ किम् अर्थम् इत्य् अत आह---
Link copied३६८। आध्यानाय प्रयोजनाभावात्॥३।३।१४॥
Link copiedअनुचिन्तनार्थꣳ तद्-अभिधानꣳ, प्रयोजनान्तराभावात्। ब्रह्म-विद् आप्नोति परम् इति वेदितव्यतयोपदिष्टꣳ ब्रह्मानन्द-मयꣳ प्रिय-मोदादि-रूपेण विभज्य शिरः-पक्षादित्वेन रूपयित्वा बुद्धाव् आरोप्यत इत्य् अर्थः॥१४॥
Link copied३६९। आत्म-शब्दाच् च॥३।३।१५॥
Link copiedअन्योऽन्तर आत्मानन्द-मयः, इत्य् आत्म-शब्दाच् च प्रियशिरस्त्वादयो न ब्रह्म-स्वरूप-धर्माः; शिरः-पक्षादयो हि नात्म-धर्माः॥१५॥
Link copied३७०। आत्म-गृहीतिर् इतरवद् उत्तरात्॥३।३।१६॥
Link copiedअन्योऽन्तर आत्मेत्य् आत्म-शब्देन परमात्मन एव गृहीतिः--- ग्रहणम्; इतरवत्--- आत्मा वा इदम् एक एवाग्र आसीत्, इत्य् आत्म-शब्देन यथा परमात्मनो ग्रहणम्, तद्वत्। कथम् इदम् अवगम्यते। तद्-एकार्थाद् उत्तरात्--- सोऽकामयत, बहु स्याꣳ प्रजायेयेत्य् आदि वाक्यात्॥
Link copied३७१। अन्वयाद् इति चेत् स्याद् अवधारणात्॥३।३।१७॥
Link copiedपूर्वेषु--- अन्योऽन्तर आत्मा प्राणमयः, इत्य् आदि वाक्येष्व् अनात्मस्व् अप्य् आत्म-शब्दान्वयात् कथम् उत्तर-वाक्यान् निर्णय इति चेत्; तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इति प्रकृतस्यात्मन एव प्राण-मयादिष्व् आनन्द-मय-पर्यन्तेष्व् आत्म-शब्देनावधारणात् स्याद् एव निर्णयः। अतः प्रियशिरस्त्वादीनाम् अनात्म-धर्मत्वात्, ज्ञानानन्दादीनाम् आत्म-स्वरूप-निरूपण-धर्मत्वाच् च, तेषाम् एव सर्वत्रोपसꣳहारः॥१७॥ इत्य् आनन्दाद्य्-अधिकरणम्॥४॥
Link copied३७२। कार्याख्यानाद् अपूर्वम्॥३।३।१८॥
Link copiedछान्दोग्य-वाजसनेयकयोर् ज्येष्ठꣳ च श्रेष्ठꣳ च प्राणम् उपास्यꣳ विधाय, सहोवाच किꣳ मे वासो भविष्यतीत्य् आप इति होचुः, इत्य् अपाꣳ प्राणस्य वासस्त्वम् उक्त्वा, तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति लम्भुको ह वासो भवत्य् अनग्नो भवति, इति च्छान्दोग्ये। वाजसनेयके चापाꣳ प्राण-वासस्त्वम् उक्त्वा, तस्माद् एवꣳविद् अशिष्यन्न् आचामेद् अशित्वा चाचामेद् एतम् एव तद् अन्नम् अनग्नꣳ कुरुते, इति। आचमनेन प्राणम् अनग्नꣳ कुरुत इत्य् अर्थः। अत्राशनात् पुरस्ताद् उपरिष्टाच् च किम् आचमनꣳ प्राण-विद्याङ्गꣳ विधीयते, उताचमनीयानाम् अपाꣳ प्राण-वासस्त्वानुसन्धानꣳ विधीयत इति सꣳशयः। आचामेद् इत्य् आचमने विधि-प्रत्यय-श्रवणात्, स्मृत्य्-आचार-प्राप्ताद् आचमनाद् आचमनान्तरꣳ प्राण-विद्याङ्गꣳ विधीयत इति पूर्वः पक्षः। राद्धान्तस् तु--- अशित्वा चाचामेद् इत्य् आचमनꣳ चात्र प्रतीयते; आचमनीयानाम् अपाꣳ प्राण-वासः स्वानुसन्धानꣳ च, आपो वासः, अद्भिः परिदधति, एतम् एव तद् अन्नम् अनग्नꣳ कुरुते, इति प्रतीयते। तत्राचमनꣳ तावत् स्मृत्य्-आचार-प्राप्तम्; अपाꣳ प्राण-वासस्त्वानुसन्धानम् अप्राप्तम्। अनग्नꣳ कुर्वन्तो मन्यते। अनग्नꣳ कुरुते, इत्य् अनुवाद-सरूपꣳ प्रतीयते। तत्राचमनान्तर-कल्पनाद् आचमनम् अनूद्याचमनीयानाम् अपाꣳ प्राण-वासस्त्वानुसन्धानम् अप्राप्तꣳ विधीयत इति युक्तम्। तद् अन्नम् अनग्नꣳ कुरुते, इति वचनानि त्व् अपूर्वत्वात्, विधिर् वास्याद् अपूर्वत्वात्, इति न्यायेन विधि-वचनम् एव भवति। सूत्रार्थस् तु--- अपूर्वम्, अप्राप्तम् अपाꣳ प्राण-वासस्त्वानुसन्धानꣳ विधेयम्, न पुनः प्राप्तम् आचमनम्। कुतः। कार्याख्यानात्--- कार्यस्य अप्राप्तार्थस्याख्यान-स्वभावत्वाच् छास्त्रस्येत्य् अर्थः॥१८॥ इति कार्याख्यानाधिकरणम्॥५॥
Link copied३७३। समान एवꣳ चाभेदात्॥३।३।१९॥
Link copiedवाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्य-विद्याम्नाता। अग्निरहस्ये तावत्--- स आत्मानम् उपासीत मनो-मयꣳ प्राण-शरीरꣳ भा-रूपꣳ सत्य-सङ्कल्पम् आकाशात्मानम् इति। बृहदारण्यके च--- मनो-मयोऽयꣳ पुरुषो भाः सत्यꣳ तस्मिन्न् अन्तर् हृदये यथा व्रीहिर् वा यवो वा स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदꣳ प्रशास्ति, इति। किम् अत्र विद्या-भेदः, उत नेति सꣳशयः। एकत्र सत्य-सङ्कल्पत्वम् अधिकꣳ श्रुतम्; इतरत्र वशित्वादयोऽधिका इति रूप-भेदाद् विद्या-भेद इति पूर्वः पक्षः। राद्धान्तस् तु---उभयत्र मनो-मयत्वादिके समाने सति वशित्वादेः सत्य-सङ्कल्पत्व-वितति-रूपतया तेनाभेदान् न रूप-भेद इति विद्यैक्यम्। सूत्रार्थस् तु--- मनो-मयत्वादिके समाने सति विद्यैक्यम्, एवꣳ चाभेदात्--- वशित्वादि-गुणेनाप्य् अभेदात्। वशित्वादिर् हि सत्य-सङ्कल्पत्व-विततिः॥१९॥ इति समानाधिकरणम्॥६॥
Link copied३७४। सम्बन्धाद् एवम् अन्यत्रापि॥३।३।२०॥
Link copiedबृहदारण्यके--- य एष एतस्मिन् मण्डले पुरुषो यश् चायꣳ दक्षिणोऽक्षिन्, इत्य् उपक्रम्य आदित्य-मण्डलेऽक्षणि च सत्यस्य ब्रह्मणो व्याहृति-शरीरत्वेनोपास्यत्वम् उक्त्वा, तस्योपनिषद् अहर् इत्य् अधिदैवतम्, तस्योपनिषद् अहम् इत्य् अध्यात्मम् इति द्वे रहस्य-नामनी उपासन-शेषतयाम्नायेते। ते किꣳ यथाश्रुत-स्थान-नियते, उतोभयत्रोभे इति सꣳशयः। उभयोः स्थानयोर् एक-रूपस्यैवोपास्यत्वाद् विद्यैक्यम् इत्य् अनियते नामनी इति पूर्वः पक्षः। अक्ष्य्-आदित्य-स्थान-सम्बन्धित्व-रूपाकार-भेदाद् रूप-भेद इति विद्या-भेदाद् द्वे नामनी नियते इति राद्धान्तः। सूत्रार्थस् तु--- यथा मनो-मयत्वादि-गुण-विशिष्टस्यैकस्यैवोपास्यत्वेनोभयत्र विद्यैक्यम्; एवम् अन्यत्राक्ष्य्-आदित्याधारस्याप्य् एकस्यैव सत्यस्य ब्रह्मणः स्थान-द्वय-सम्बन्धान् न रूप-भेद इति विद्यैक्याद् द्वे नामनी अनियते॥२०॥
Link copied३७५। न वा विशेषात्॥३।३।२१॥
Link copiedन चैतद् अस्ति यद् विद्यैक्याद् उभयत्रोभे नामनी अनियते इति। कुतः। विशेषात्। उभयत्र हि रूपꣳ विशिष्यते, एकत्रादित्य-स्थान-सम्बन्धि इतरत्राक्षि-स्थान-सम्बन्धि ब्रह्मेति रूप-भेदाद् विद्या-भेद इति नियते नामनी॥२१॥
Link copied३७६। दर्शयति च॥३।३।२२॥
Link copiedदर्शयति च श्रुतिर् विद्या-भेदेन गुणानुपसꣳहारम्--- तस्यैतस्य तद् एव रूपꣳ यद् अमुष्य रूपम् इत्य् आदिना रूपाद्य्-अतिदेशेन। स्वतो ह्य् अप्राप्ताव् अतिदेशेन प्राप्त्य्-अपेक्षा॥२२॥ इति सम्बन्धाधिकरणम्॥७॥
Link copied३७७। सम्भृति-द्यु-व्याप्त्य् अपि चातः॥३।३।२३॥
Link copiedतैत्तिरीयके राणायनीयानाꣳ खिलेषु च--- ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठꣳ दिवम् आततान। ब्रह्म भूतानाꣳ प्रथमो जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुꣳ कः, इति ब्रह्मणि ज्येष्ठानाꣳ गुणानाꣳ सम्भृतिर् द्यु-व्याप्तिश् चेत्य् आदि-गुण-जातम् आम्नातम्। किम् एषाꣳ सर्वासु विद्यासूपसꣳहारः, उत स्थान-विशेषोपासनेषु नियम इति सꣳशयः। अनारभ्याधीतत्वाद् एषाꣳ सर्वासूपसꣳहारः, इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अपि न स्थान-विशेष-सम्बन्ध्य्-उपासनम् आरभ्याधीता एते; तथापि द्यु-व्याप्ति-सामर्थ्यात् तस्य हृदयाद्य्-अल्प-स्थानेषूपसꣳहारायोगात् तत्-साहचर्याच् चेतरेषाम् अल्प-स्थान-विहितासु विद्यासु नोपसꣳहारः, इति। सूत्रार्थस् तु--- सम्भृति-द्यु-व्याप्तीति समाहार-द्वन्द्वैकवद् भावः। सम्भृति-प्रभृति-गुण-जातम् अप्य् अत एव--- स्थान-विशेष-सम्बन्ध-नियमान् नियतम्; न सर्वत्रोपसꣳहार्यम्। द्यु-व्याप्तिर् हि स्व-सामर्थ्याद् अल्प-स्थानानहतया तद्-इतर-स्थान-नियता। सम्भृत्य्-आद्य् अपि तत्-साहचर्यात् तथैव॥२३॥ इति सम्भृत्य्-अधिकरणम्॥८॥
Link copied३७८। पुरुष-विद्यायाम् अपि चेतरेषाम् अनाम्नानात्॥३।३।२४॥
Link copiedतैत्तिरीयके पुरुष-विद्याम्नाता, तस्यैवꣳ विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरम् इत्य् आदिका। छान्दोग्येऽपि--- पुरुषो वाव यज्ञस् तस्य यानि चतुर्-विꣳशति-वर्षाणि, इत्य् आदिका। किम् अत्र विद्या-भेदः, उत नेति सꣳशयः। पुरुष-विद्येति सꣳज्ञैक्यात्, तैत्तिरीयके फल-सम्बन्धानाम्नानात्, छान्दोग्ये--- शतꣳ जीवति, इत्य् अनेनैक-फलत्वाच् च विद्यैक्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- पुरुष-विद्येति सꣳज्ञैक्येऽपि सवन-त्रय-कल्पना-प्रकार-भेदाद् यजमान-पत्न्य्-आदि-कल्पना-प्रकार-भेदाच् च रूप-भेदात्, तैत्तिरीयके पूर्वानुवाक-गतस्य--- ब्रह्मणो महिमानम् आप्नोति, इति ब्रह्म-विद्या-फलस्यैव सन्निधानाद् अफलस्यास्य तद्-अङ्गतया तत्-फलत्वात् फल-भेदाच् च विद्या-भेदः। सूत्रार्थस् तु--- पुरुष-विद्यायाम् अप्य् उभयत्र रूप-भेदाद् विद्या-भेदः। कुतः। इतरेषाम् अनाम्नानात्--- इतर-शाखोदितानाꣳ तद्-इतर-शाखायाम् अनाम्नानात्। छान्दोग्ये तैत्तिरीयकाम्नातानाꣳ यजमान-पत्न्य्-आदीनाꣳ सवनानाꣳ चानाम्नानात्, तैत्तिरीयके च छान्दोग्याम्नातानाꣳ यज्ञावयवानाम् अनाम्नानाद् इत्य् अर्थः। तैत्तिरीयके हि--- आत्मा यजमानः श्रद्धा पत्नी, इति यजमानादि-कल्पनम्, यत् सायꣳ प्रातर् मध्यन्दिनꣳ च तानि सवनानि, इति च सवन-त्रय-कल्पनम्; छान्दोग्ये चाशिशिषादीनाꣳ दीक्षात्वादि-कल्पनम्, पुरुषायुषꣳ त्रेधा विभज्य सवन-त्रय-कल्पनꣳ चेति यज्ञावयव-कल्पन-प्रकार-भेदाद् रूप-भेदः स्पष्टः। फलम् अपि तथैवेति। इतरेषाम् इति फलस्यापि ग्रहणम्॥२४॥ इति पुरुष-विद्याधिकरणम्॥।९॥
Link copied३७९। वेधाद्य्-अर्थ-भेदात्॥३।३।२५॥
Link copiedआथर्वणिकास् तैत्तिरीयका ऐतरेयिण इत्य् एवम् आदयः उपनिषद्-आरम्भेषु--- शुक्रꣳ प्रविध्य हृदयꣳ प्रविध्य, शꣳ नो मित्रः शꣳ वरुणः, सह नाव् अवतु, इत्य् आदि मन्त्रान् महाव्रतादीनि च कर्माण्य् अधीयते। किम् एषाꣳ विद्याङ्गत्वम्, उत नेति सꣳशयः। सन्निधि-समाम्नानाद् विद्याङ्गत्वम् इति पूर्वः पक्षः। राद्धान्तस् तु--- शुक्रꣳ प्रविध्य हृदयꣳ प्रविध्येत्य् आदि मन्त्र-सामर्थ्यात्, महाव्रतादीनाꣳ च कर्मणाꣳ श्रुत्य्-आदिभिश् चाभिचार-द्वादशाहादिषु विनियोगवत्, शꣳ नो मित्रः श वरुणः, सहनाववतु, इत्य् आदेर् मन्त्रस्य च, ऋतꣳ वदिष्यामि, सत्यꣳ वदिष्यामि, तेजस्वि नावधीतम् अस्तु, इति मन्त्र-सामर्थ्याद् अध्ययने विनियोग इति न विद्याङ्गत्वम्। सूत्रार्थस् तु--- वेधाद्य्-अर्थ-भेदाद् इत्य् अस्य वेधाद्य्-अर्थ-भेदवत्, सत्यꣳ वदिष्यामि, तेजस्वि नावधीतम् अस्तु, इति शꣳ नो मित्रादेर् मन्त्रस्याप्य् अध्ययन-सम्बन्ध-रूपार्थ-भेदान् न विद्याङ्ग्त्वम् इत्य् अभिप्रायः। अतः शꣳ नो मित्रादि-मन्त्र एवाधिकरणस्य विषयः॥२५॥ इति वेधाद्य्-अधिकरणम्॥१०॥
Link copied३८०। हानौ तूपायन-शब्द-शेषत्वात् कुशाच्छन्दः स्तुत्य्-उपगानवत् तद् उक्तम्॥३।३।२६॥
Link copiedविदुषो ब्रह्म प्राप्नुवतः पुण्य-पापयोर् विर्मोचनꣳ द्वयोः शाखयोः श्रुतम्; विमुक्तयोः पुण्य-पापयोर् अन्यत्र प्रवेश एकस्याꣳ शाखायाꣳ श्रुतः; विमोचनꣳ प्रवेशश् चोभयम् एकस्याम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपैति, अश्व इव रोमाणि विधूय पापꣳ चन्द्र इव राहोर् मुखात् प्रमुच्य। धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् अभिसम्भवानि, इति च केवल-विमोचनम्; तस्य पुत्रा दायम् उपयन्ति सुहृदः साधु-कृत्याꣳ द्विषन्तः पाप-कृत्याम् इति केवल-प्रवेशः; तत् सुकृत-दुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतम् उपयन्त्य् अप्रिया दुष्कृतम् इत्य् उभयम्। किꣳ केवल-हानि-चिन्तनꣳ केवलोपायन-चिन्तनम् उभय-चिन्तनꣳ च सर्वासु विद्यासु विकल्पेनानुष्ठेयम्, उत समुच्चयेनेति सꣳशयः। तथाम्नातस्यार्थवत्त्वाय विकल्प इति पूर्वः पक्षः। राद्धान्तस् तु--- पुण्य-पाप-प्रवेशस्य विमोचनापेक्षत्वेन शाखान्तर-स्थस्यापि प्रवेश-वाक्यस्य शाखान्तर-स्थ-विमोचन-वाक्य-शेषत्वाद् वाक्य-द्वयेनैकार्थ-विधानात् समुच्चयः। एकस्याꣳ शाखायाम् उभय-विधानꣳ प्रतिपत्तृ-भेदेन परिह्रियते॥
Link copiedसूत्रार्थस् तु--- हानौ त्व् इति तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। हानाव् इति प्रदर्शनार्थम्; केवल-विमोचने केवले चोपायने श्रूयमाणे तयोर् इतरेतर-समुच्चयोऽवश्यम्भावी। कुतः। उपायन-शब्द-शेषत्वात्--- उपायन-शब्दस्य हानि-वाक्य-शेषत्वाद् इत्य् अर्थः। त्यक्तयोः पुण्य-पापयोः प्रवेश-स्थान-वाचित्वाद् उपायन-वाक्यस्य हानि-वाक्य-शेषत्वम् अवगम्यते। प्रदेशान्तराम्नात-वाक्यस्य प्रदेशान्तराम्नात-वाक्य-शेषत्वे दृष्टान्तान् आह--- कुशाच्छन्दः स्तुत्य्-उपगानवद् इति। यथा--- वानस्पत्याः कुशाः, इति प्रदेशान्तराम्नातस्य वाक्यस्य, औदुम्बर्यः कुशाः, इति तद्-विशेष-वाचि-प्रदेशान्तर-स्थम्; यथा च--- देवासुराणाꣳ छन्दोभिः, इति सामान्यतः प्रदेशान्तराम्नातस्य, देव-च्छन्दाꣳसि पूर्वम् इति तत्-क्रम-विशेष-वाचि प्रदेशान्तर-स्थम्; यथा च--- हिरण्येन षोडशिनः स्तोत्रम् उपाकरोति, इति प्रदेशान्तर-स्थस्य तत्-काल-विशेष-वाचि, समयाविषिते सूर्य षोडशिनः स्तोत्रम् उपाकरोति, इति प्रदेशान्तर-स्थम्; यथा च--- ऋत्विज उपगायन्ति, इति प्रदेशान्तर-स्थस्य, नाध्वर्युर् उपगायेत्, इति तत्-पर्युदास-रूपꣳ प्रदेशान्तर-स्थम्; एवम् उपायन-वाक्यस्य हानि-वाक्य-शेषतया सम्भवन्त्याꣳ गतौ न विकल्पो युक्तः। तद् उक्तꣳ पूर्वस्मिन् काण्डे--- अपि तु वाक्य-शेषः स्याद् अन्याय्यत्वाद् विकल्पस्य, इत्य् आदिना॥२६॥ इति हान्य्-अधिकरणम्॥११॥
Link copied३८१। साम्पराये तर्तव्याभावात् तथा ह्य् अन्ये॥३।३।२७॥
Link copiedकिम् इदꣳ सुकृत-दुष्कृतयोर् हानि-चिन्तनꣳ देह-वियोग-काले एकदेशः क्षीयते, अध्वनि शिष्टम् इत्य् उभयत्र कर्तव्यम्, उत देह-वियोग-काल एव सर्वꣳ क्षीयत इति सꣳशयः। उभयत्र श्रुतेर् देवयानेन पथा गमनान्यथानुपपत्त्या चोभयत्रेति पूर्वः पक्षः, अश्व इव रोमाणि विधूय पापꣳ चन्द्र इव राहोर् मुखात् प्रमुच्य, धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् इति देह-वियोग-काले, स आगच्छति विरजाꣳ नदीꣳ\॥॥तत् सुकृत-दुष्कृते धूनुते इत्य् अध्वन्य् अपि हानि-श्रुतेः। देह-वियोग-काले सर्व-कर्म-क्षये हि देवयानेन गमन-साधनꣳ कर्म न सम्भवति। राद्धान्तस् तु--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इति देह-वियोगाद् ऊर्ध्वꣳ ब्रह्म-प्राप्ति-व्यतिरेकेणानुभाव्य-पुण्य-पाप-फलाभावात्, अश्व इव रोमाणि विधूय पापम् इत्य् आदिनैकार्थ्यात्, अध्वन्य् आम्नातम् अपि, तत् सुकृत-दुष्कृते धूनुते इति वाक्यꣳ देह-वियोग-काले सङ्गमयितव्यम् इति देह-वियोग-काल एव हानि-चिन्तनम्। सर्व-कर्म-क्षयेऽपि हि विद्या-सामर्थ्याद् एव देवयानेन पथा गमनꣳ चोपपद्यते। विद्या हि स्वयꣳ सूक्ष्म-शरीरस्यानारम्भिकापि प्रकृत-सुख-दुःखोपभोग-साधन-स्थूल-शरीरस्य सर्व-कर्मणाꣳ च निरवशेष-क्षयेऽपि स्व-फल-भूत-ब्रह्म-प्राप्ति-प्रतिपादनाय देवयानेन पथैन गयितुꣳ सूक्ष्म-शरीरꣳ स्थापयति॥
Link copiedसूत्रार्थस् तु--- साम्पराये, देह-वियोग-काल एव चिन्तनीयः। कुतः। तर्तव्याभावात्--- देह-वियोगाद् ऊर्ध्वꣳ ब्रह्म-प्राप्ति-व्यतिरेकेण तरितव्य-भोगाभावात्। तथा ह्य् अन्येऽधीयते--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये, अथ सम्पत्स्ये, इति, अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः, इति च॥२७॥
Link copied३८२। छन्दत उभयाविरोधात्॥३।३।२८॥
Link copiedएवम् अर्थ-स्वाभाव्याद् देह-वियोग-काल एव निरवशेष-कर्म-क्षयेऽवधृते सति, तत् सुकृत-दुष्कृते धूनुते इति वाक्य-खण्डः उभयाविरोधात्--- उभय-श्रुत्य्-अविरोधाच् छन्दतो नेयः, अश्व इव रोमाणि विधूय पापꣳ\॥॥धूत्वा शरीरम् अकृतम्, तस्य तावद् एव चिरम् इत्य् उभय-श्रुत्य्-अविरोधाच् चरम-श्रुतोऽपि, तत् सुकृत-दुष्कृते धूनुते इति वाक्य-खण्डः, एतꣳ देवयानꣳ पन्थानम् आपद्यते, इति प्रथम-श्रुत-खण्डात् प्राग् अनुगमयितव्य इत्य् अर्थः॥२८॥
Link copiedअत्र चोदयति---
Link copied३८३। गतेर् अर्थवत्त्वम् उभयधान्यथा हि विरोधः॥३।३।२९॥
Link copiedदेवयानेन गति-श्रुतेर् अर्थवत्त्वꣳ देह-वियोग-कालेऽध्वनि चेत्य् उभयथा कर्म-क्षये सत्य् एव; अन्यथा देह-वियोग-काले एव सर्व-कर्म-क्षये सति सूक्ष्म-शरीरस्याप्य् आरम्भक-नाशेन स्थित्य्-अनुपपत्तेर् देवयान-गति-श्रुतिर् हि विरुध्यते॥२९॥
Link copiedपरिहरति---
Link copied३८४। उपपन्नस् तल्-लक्षणार्थोपलब्धेर् लोकवत्॥३।३।३०॥
Link copiedभगवन्तम् उपासीनानाꣳ देह-वियोग-काले सर्व-कर्म-क्षयेऽप्य् उपपन्नो देवयानः पन्थाः। कुतः। तल्-लक्षणार्थोपलब्धेः--- तल्-लक्षणार्थः, तज्-जातीयार्थः, अकर्म-लभ्यार्थोपलब्धेर् इत्य् अर्थः। उपलभ्यते ह्य् अकर्म-लभ्यार्थो ब्रह्मोपासीनानाꣳ--- स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति, इत्य् आदिषु। लोकवत्--- यथा लोके राजानम् उपासीनानाꣳ प्राकृत-पुरुषासाधारणातिरमणीयानेकार्थ-सिद्धिः; तद्वत् सर्व-ज्ञꣳ सत्य-सङ्कल्प महोदारꣳ परꣳ ब्रह्मोपासीनानाꣳ सर्वम् उपपन्नम् इत्य् अर्थः॥३०॥
Link copiedपरꣳ ब्रह्मोपासीनानाꣳ देहपात-समये सर्व-कर्म-क्षयाद् देह-पाताद् ऊर्ध्वꣳ कर्म-फलानुभवो न विद्यत इत्य् एतन् न सम्भवति, वसिष्ठादीनाꣳ ज्ञानिनाम् अपि कर्म-फल-रूप-देहान्तर-सꣳयोगः, पुत्र-जन्म-विपत्त्य्-आदिषु सुख-दुःखानुभवोऽपि दृश्यते, इत्य् आशङ्क्याह---
Link copied३८५। यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम्॥३।३।३१॥
Link copiedयेषाꣳ ज्ञानिनाꣳ देह-पाताद् अनन्तरम् अर्चिर्-आदिका गतिः प्राप्ता; तेषाꣳ देह-पाताद् ऊर्ध्वꣳ तरितव्य-कर्म-फल-भोगाभावाद् देह-पात-समय एव सर्व-कर्म-क्षय उक्तः। वसिष्ठादीनाꣳ त्व् आधिकारिकाणाꣳ यावद्-अधिकार-समाप्ति नार्चिर्-आदिका गतिर् अस्ति; अपि त्व् अधिकारेऽवस्थितिर् एव, अधिकार-हेतु-भूत-कर्मणः फल-दानायारब्धत्वात्। ज्ञानिनोऽप्य् आरब्धꣳ हि कर्म फलानुभवेनैव क्षीयते॥३१॥ इति साम्परायाधिकरणम्॥१२॥
Link copied३८६। अनियमः सर्वेषाम् अविरोधः शब्दानुमानाभ्याम्॥३।३।३२॥
Link copiedयेषूपासनेषूपकोसलादिष्व् अर्चिर्-आदिका गतिराम्नाता किꣳ तन्-निष्ठानाम् एव तया ब्रह्म-प्राप्तिः, उत सर्वेषाꣳ ब्रह्मोपासन-निष्ठानाम् इति सꣳशयः। तन्-निष्ठानाम् एवेति पूर्वः पक्षः, इतरेषाꣳ तया ब्रह्म-प्राप्तौ प्रमाणाभावात्। यत् तु पञ्चाग्नि-विद्यायाꣳ साधारणꣳ वचनम्, तद् अप्य् उपकोसलादि-विषयम् इति निश्चीयते। अन्यथोपकोसलादिष्व् आम्नानानर्थक्यꣳ स्यात्। राद्धान्तस् तु--- पञ्चाग्नि-विद्यायाꣳ, य एवम् एतद् विदुः ये चामी अरण्ये श्रद्धाꣳ सत्यम् उपासते तेऽर्चिषम् अभिसम्भवन्ति, इति सामान्येन सर्व-विषयꣳ गति-श्रवणम् उपकोसलादिष्व् आम्नानꣳ न बाधितुꣳ क्षमम्, सङ्कोचकꣳ च न भवति, विद्या-स्तुत्य्-अर्थतयानुवादेनाप्य् उपपत्तेः। अतः सर्वेषाꣳ तथैव ब्रह्म-प्राप्तिः। सूत्रार्थस् तु--- अनियमः सर्वेषाꣳ सर्वेषाम् अविशेषेण तयैव प्राप्तिः। कुतः। अविरोधः शब्दानुमानाभ्याꣳ--- तथा सत्य् एव श्रुति-स्मृतिभ्याम् अविरोधः। श्रुतिश् च--- ये चेमेऽरण्ये इत्य् आदिका पञ्चाग्नि-विद्यायाꣳ निदर्शिता; स्मृतिः--- अग्निर् ज्योतिर् अहः शुक्लः, इत्य् आदिका॥३२॥ इत्य् अनियमाधिकरणम्॥१३॥
Link copied३८७। अक्षर-धियाꣳ त्व् अवरोधः सामान्य-तद्-भावाभ्याम् औपसदवत् तद् उक्तम्॥३।३।३३॥
Link copiedबृहदारण्यके--- एतद् वै तद् अक्षरꣳ गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् इत्य् आदि श्रूयते। तथा आथर्वणे च--- अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् अग्राह्यम् इत्य् आदि। किम् एषाम् अस्थूलत्वादीनाꣳ सर्वासु ब्रह्म-विद्यासूपसꣳहारः, उत यत्र श्रुतास् तत्रैवेति सꣳशयः। विद्या-विशेष-रूपतया श्रुतानाꣳ सर्व-विद्यासाधरणत्वाभावाद् यत्र श्रुतास् तत्रैव नियता इति पूर्वः पक्षः। राद्धान्तस् तु--- अस्थूलत्वादीनाम् अप्य् आनन्दादिवद् ब्रह्म-स्वरूपानुसन्धानान्तर्भावात् सर्वत्रैवोपसꣳहारः, न केवलम् आनन्दादिर् ब्रह्म-स्वरूपꣳ प्रत्यगात्मनो व्यावृत्तम्, तस्यापि हि तद् एव स्वरूपम्। अस्थूलत्वादि-विशेषितम् आनन्दादि ब्रह्मणः प्रत्यगात्मनो व्यावृत्त्य्-आकारः। यद्य् अपि प्रत्यगात्मा स्वभावतः स्थूलत्वाद्य्-अचेतन-धर्मासम्बन्धी, तथापि तत्-सम्बन्धर्हतास्त्य् एव। तद्-अर्हतयापि हि पूर्वꣳ तत्-सम्बन्धः सञ्जातः। अतो ब्रह्मणस् तद्-अनर्ह-स्वरूपानुसन्धानार्थतयास्थूलत्वादयः सर्वत्रानुसन्धेयाः। सूत्रार्थस् तु--- अक्षरधियाम्, अक्षर-सम्बन्धिनीनाम् अस्थूलत्वादि-धियाꣳ सर्व-विद्यास्व् अवरोधः सङ्ग्रहणम्। कुतः। सामान्य-तद्-भावाभ्याꣳ ब्रह्मणः सर्वत्र समानत्वात् ब्रह्मानुसन्धानान्तर्भावाच् च तासाम्। गुणानाꣳ प्रधानानुवर्तित्वꣳ स्वभावः; औपसदवत्--- यथा जामदग्न्य-चतूरात्र-पुरोडाश्युपसद्-गुण-भूतः, अग्निर् होत्रꣳ वेतु, इति मन्त्रः साम-वेद-पठितत्वेन साम-वेद-स्वर-नियतोऽपि प्रधान-भूतोपसद्-अनुवर्तित्वाद् याजुर् वैदिकत्वाच् चोपसदो याजुर् वैदिकोपाꣳशुत्व-सम्बन्धी; तद्वद् अक्षर-विद्या-सम्बन्धितयाधीतत्वेन तद्-विद्यानियता अपि प्रधानानुवर्तित्व-स्वाभाव्यात् सर्व-विद्या-सम्बन्धिनः। तद् उक्तꣳ प्रथम-काण्डे--- गुण-मुख्य-व्यतिक्रमे तद्-अर्थत्वाद् इत्य् आदिना॥३३॥
Link copiedएवꣳ तर्हि--- सर्व-कर्मा सर्व-गन्धः, इत्य् आदीनाम् अपि सर्वेषाꣳ ब्रह्म-गुणत्वान् न क्वचिद् वयवस्थेत्य् अत्राह---
Link copied३८८। इयद् आमननात्॥३।३।३४॥
Link copiedइयत्--- अस्थूलत्वादि-विशेषितम् आनन्दाद्य् एव सर्वत्रानुसन्धेयम्। कुतः। आमननाद् धेतोः। आमननम्--- आभिमुख्येन मननꣳ, ब्रह्मानुसन्धानम्। ब्रह्म-स्वरूपानुसन्धानꣳ येन विना नोपपद्यते; तद् एव सर्वत्रानुसन्धेयम्। अन्यत् तु तत्र तत्र व्यवस्थितम् इत्य् अर्थः॥३४॥ इत्य् अक्षर-ध्य्-अधिकरणम्॥१४॥
Link copied३८९। अन्तरा भूत-ग्रामवत् स्वात्मनोऽन्यथा प्रतिवचन-भेदानुपपत्तिर् इति चेन् नोपदेशवत्॥३।३।३५॥
Link copiedबृहदारण्यके उषस्त-प्रश्न-प्रतिवचनꣳ--- यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः योऽपानेनापान् इति स त आत्मा, इत्य् आदि, अतोऽन्यद् आर्तम् इत्य् अन्तम् आम्नातम्। तथा तद्-अनन्तरꣳ कहोल-प्रश्न-प्रतिवचनꣳ--- योऽशनायापिपासे शोकꣳ मोहꣳ जराꣳ मृत्युम् अत्येत्य् एतꣳ हैतम् आत्मनꣳ विदित्वा, इत्य् आदि, अतोऽन्यद् आर्तम् इत्य् अन्तम्। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। पूर्वत्र प्राणनादि-हेतुः प्रत्यगात्मा; उत्तरत्राशनायाद्य्-अतीतः परमात्मेत्य् उपास्य-भेदाद् विद्या-भेदः, इति पूर्वः पक्षः। राद्धान्तस् तु--- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तन् मे व्याचक्ष्व, इत्य् उभयत्र प्रश्नस्य परमात्म-विषयत्वाद् एक-रूपत्वाच् च, सर्व-प्राणि-प्राणनापाननादि-हेतुत्वस्य अशनायाद्य्-अतीतत्वस्य च प्रतिवचन-द्वयावगतस्य परमात्मन्य् एकस्मिन्न् एवोपास्ये सम्भवाच् च, न विद्या-भेदः। सूत्रार्थस् तु--- अन्तरा, य आत्मा सर्वान्तरः, इत्य् उषस्त-प्रश्नो भूत-ग्रामवत् स्वात्मनः--- प्रत्यगात्मन इत्य् उपगन्तव्यः; अन्यथा प्रतिवचन-भेदानुपपत्तिर् इति चेन् नात्र प्रत्यगात्म-परमात्म-विषयꣳ प्रश्न-द्वयम्; प्रतिवचन-द्वयꣳ च परमात्मन्य् एकस्मिन्न् एवोपास्ये सम्भवतीत्य् अर्थः। उपदेशवत्--- स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यः, इति प्रक्रान्तायाम् एकस्याम् एव सद्-विद्यायाꣳ, भगवाꣳस् त्व् एव मे तद् ब्रवीत्व् इति, भूय एव मा भगवान् विज्ञापयतु, इत्य् आदिका प्रश्नावृत्तिः, प्रतिवचन-भेदश् चोपास्य-माहात्म्य-विशेष-प्रतिपादन-परत्वेन दृश्यते; तद्वत्॥३५॥
Link copiedप्रष्टृ-भेद-पूर्वक-प्रतिवचन-प्रकार-भेदाद् विद्या-भेदोऽवर्जनीय एवेत्य् आशङ्क्याह---
Link copied३९०। व्यतिहारो विशिꣳषन्ति हीतरवत्॥३।३।३६॥
Link copiedयद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः, इति द्वयोः प्रष्ट्रोः प्रश्नस्यैकरूपत्वेनैक-विषयत्वे निश्चिते सत्य् उषस्त-कहोलयोः प्रतिवचन-गत-बुद्धि-व्यतिहारः कार्यः। प्राणनादि-हेतुत्व-बुद्धिः सर्वान्तरात्म-विषया कहोलेनापि कार्या, तथाशनायाद्य्-अतीतत्व-बुद्धिर् उषस्तेनापि कार्या। विशिषन्ति ह्य् उभयत्रापि याज्ञवल्क्य-वचनान्य् एकꣳ सर्वान्तरम् एवोपास्यम्। इतरवत्--- यथेतरत्र सद्-विद्यायाꣳ सर्वाणि प्रतिवचनानि परम-कारण-परब्रह्म-विषयाणि; तद्वत्॥३६॥
Link copiedसद्-विद्यायाम् अप्य् उपास्यैक्यꣳ प्रश्न-प्रतिवचनावृतौ सत्याꣳ कथम् अवगम्यत इत्य् अत्राह---
Link copied३९१। सैव हि सत्यादयः॥३।३।३७॥
Link copiedसेयꣳ देवतैक्षत, इत्य् आदिषु सर्वत्र सैव परा देवतैकानुवर्तते। ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत्त्वम् असि, इति त एव सत्यादयः सर्वेषु प्रतिवचनेषूपसꣳह्रियन्ते॥३७॥ इत्य् अन्तरत्वाधिकरणम्॥१५॥
Link copied३९२। कामादीतरत्र तत्र चायतनादिभ्यः॥३।३।३८॥
Link copiedछान्दोग्ये श्रूयते--- अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डरीकꣳ वेश्म दहरोऽस्मिन्न् अन्तर आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् इत्य् आदि प्रक्रम्य, तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामाꣳस् तेषाꣳ सर्वेषु लोकेषु काम-चारो भवतीति; वाजसनेयके च--- य एषोऽन्तर् हृदय आकाशस् तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः, इत्य् आदि। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। रूप-भेदाद् विद्या-भेद इति पूर्वः पक्षः। यद्य् अप्य् उभयत्र परमात्मैवोपास्यः, तथाप्य् एकत्राकाश-शब्दाभिधेयः परमात्मोपास्यः, इतरत्राकाशे शयानः परमात्मेति हि रूपꣳ भिद्यते। राद्धान्तस् तु--- हृदयायतनत्व-सत्य-सङ्कल्पत्व-सत्य-कामत्वादेर् अभेदाद् उभयत्र तद्-विशिष्टः परमात्मैवोपास्य इति रूपाभेदाद् विद्यैक्यम्; छान्दोग्ये हि--- दहरोऽस्मिन्न् अन्तर आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् इत्य् आरभ्य, किꣳ तद् अत्र विद्यते, इत्य् आदिना परिचोद्य, तस्मिन् कामाः समाहिताः, एष आत्मापहत-पाप्मा विजरो विमृत्युर् इत्य् आरभ्य, सत्य-कामः सत्य-सङ्कल्पः, इत्य् उक्त्वा, तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामान्, इत्य् आकाश-शब्द-निर्दिष्टः परमात्मा तद्-अन्तर्गताश् च सत्य-कामत्व-सत्य-सङ्कल्पत्वापहत-पाप्मत्वादयो गुणाः, अतः परमात्मा हृदयायतनः सत्य-कामत्वादि-विशिष्ट उपास्य इति वाक्येनैव निर्णीतम्। वाजसनेयके च--- य एषोऽन्तर् हृदय आकाशस् तस्मिञ् शेते सर्वस्य वशी; इत्य् उक्ते सति वशित्वादेः सत्य-सङ्कल्पत्व-विशेष-रूपतया स एव परमात्मा हृदयायतनः सत्य-सङ्कल्पत्व-विशिष्ट उपास्य इति प्रतीयते। अतो दहर-विद्या-प्रत्यभिज्ञानात् स एव परमात्मा सत्य-सङ्कल्पत्वादि-गुणाष्टक-विशिष्ट उपास्य इति निश्चीयते। एवꣳ निश्चिते सत्याकाशे शयान इत्य् आकाश-शब्दोऽपि हृदय-पुण्डरीक-वर्त्य्-आकाश-वाचीति रूपाभेदाद् विद्यैक्यम् एव॥
Link copiedसूत्रार्थस् तु--- कामादीतरत्र तत्र च, वाजसनेयके छान्दोग्ये च सत्य-कामत्वाद्य् एव रूपम्। कुतः। आयतनादिभ्यः हृदयायतनत्व-सत्य-सङ्कल्पत्व-विशेष-रूप-वशित्वादिभ्यस् तत्-सहचारिणः सत्य-कामत्वादेः प्रत्यभिज्ञानात्। परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, अभयꣳ वै ब्रह्म भवति, इति ब्रह्म-प्राप्ति-रूपꣳ फलꣳ चैकम् इति विद्यैक्यम्॥३८॥
Link copiedमनसैवानुद्रष्टव्यꣳ नेह नानास्ति किञ्चनेत्य् आदेः पूर्व-प्रकृतत्वात्, स एष नेति नेत्य् आत्मा, इति च वक्ष्यमाणत्वात्, सर्वस्व वशी सर्वस्येशानः, इत्य् आदि-विशेषाणाꣳ ब्रह्म-स्वरूपत्वाभावात् कथꣳ सत्य-कामत्वादेर् मोक्ष-साधनोपासन-रूपत्वम् इत्य् अत आह---
Link copied३९३। आदराद् अलोपः॥३।३।३९॥
Link copiedवशित्वादेः प्रमाणान्तराविदित-रूपस्य श्रुत्य्-एक-समधिगम्यस्यादरेण प्रतिपादनाद् अलोपः--- अप्रतिषेधः; तस्यापि ब्रह्म-गुणत्वम् अवश्याश्रयणीयम्; अविशेष-निषेधास् तु सकलेतर-प्राकृत-विशेष-विषयाः; नानात्व-निषेधस् तु सर्वस्य ब्रह्म-कार्यतयाब्रह्मात्मकत्वाभिप्रायः॥३९॥
Link copiedसगुणोपासनस्य--- स यदि पितृलोक-कामो भवतीति साꣳसारिक-फलत्वेन न मोक्ष-फलत्वम् इत्य् आशङ्क्याह---
Link copied३९४। उपस्थितेऽतस् तद्-वचनात्॥३।३।४०॥
Link copiedउपस्थितिः--- उपस्थानम्, ब्रह्मोपसम्पत्तिः; उपस्थिते ब्रह्मोपसम्पन्ने, अतः--- ब्रह्मोपसम्पत्तेर् एव हेतोः, तद्-वचनात्--- पितृलोकादि-प्राप्ति-वचनात्, न तत्-साꣳसारिकꣳ फलम्, अपि तु साक्षान् मुक्तस्यैव। अस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा ज्ञातिभिर् वा नोपजनꣳ स्मरन्न् इदꣳ शरीरम् इति, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति, इति च निवृत्ताविद्यस्य हि स्वेन रूपेणाभिनिष्पन्नस्यैवोच्यते; अतो ब्रह्मोपसम्पत्ति-हेतुकत्वꣳ क्रीडनादेर् अवगम्यते॥४०॥ इति कामाद्य्-अधिकरणम्॥१६॥
Link copied३९५। तन्-निर्धारणानियमस् तद्-दृष्टेः पृथग्-ध्य्-अप्रतिबन्धः फलम्॥३।३।४१॥
Link copiedछान्दोग्ये--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेति कर्माङ्गाश्रयम् उद्गीथाद्य्-उपासनꣳ श्रूयते; तत् किꣳ तस्मिन् कर्मणि पर्णतादिवन् नियमेनोपादेयम्, उत गो-दोहनादिवद् अनियमेनेति सꣳशयः। कर्माङ्गाश्रयत्वेन पर्णतादिवत् तद्-द्वारेण निरूढ-कार्यतया, यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरꣳ भवति, इति वर्तमान-निर्देशस्य पृथक्-फल-प्रतिपादनायोगात् क्रत्व्-अर्थतया नियमेनोपादेयम् इति पूर्वः पक्षः। राद्धान्तस् तु--- तेनोभौ कुरुतो यश् चैतद् एवꣳ वेद यश् च न वेद, इत्य् उद्गीथोपासन-रहितस्यापि क्रत्व्-अनुष्ठान-दर्शनात् क्रतु-फलात् स्वर्गादेः पृथग्-भूत-वीर्यवत्तरत्व-फलम् इदम् उपासनम् इति गो-दोहनादिवद् अनियमः। वर्तमान-निर्देशे सत्य् अप्य् अधिकारान्तर-निश्चये सति रात्रिसन्नवत् क्रतोर् वीर्यवत्तरत्वम् अस्योपासनस्य कल्पनीयम्। सूत्रार्थस् तु--- तन्-निर्धारणानियमः। निर्धारणम्--- निश्चयेन चेतसोऽवधारणम्, उपासनम् इत्य् अर्थः; तस्य उद्गीथोपासनस्यानियमः। कुतः। तद्-दृष्टेः--- तेनोभौ कुरुतः, इत्य् अनियम-दृष्टेः; पृथग्-भूतꣳ ह्य् अस्य फलम्; तच् चाप्रतिबन्ध-रूपम्; वीर्यवत्तरत्वꣳ नाम प्रबल-कर्मान्तर-फलेनैतस्य कर्मणः फलस्याप्रतिबन्धः, अविलम्बितत्वम् इत्य् अर्थः॥४१॥
Link copiedइति तन्-निर्धारणानियमाधिकरणम्॥१७॥
Link copied३९६। प्रदानवद् एव तद् उक्तम्॥३।३।४२॥
Link copiedदहर-विद्यायाꣳ--- तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामान् इत्य् अपहत-पाप्मत्वादि-गुणानाम् अपि परमात्म-स्वरूप-चिन्तनवत् पृथक् चिन्तनꣳ विहितम्। किꣳ गुण-चिन्तने तत्-तद्-गुण-विशिष्टतया परमात्म-चिन्तनम् आवर्तनीयम्, उत नेति सꣳशयः। परमात्मन एकस्यैव सर्वेषाꣳ गुणानाꣳ गुणित्वेन सकृद् एव तच्-चिन्तनोपपत्तेर् नावर्तनीयम् इति पूर्वः पक्षः। राद्धान्तस् तु--- गुणिनः स्वरूपैक्येऽपि तत्-तद्-गुण-विशिष्टाकार भेदाद् आवर्तनीयम् इति। सूत्रार्थस् तु--- प्रदानवद् आवर्तनीयम् एव; यथा--- इन्द्राय राज्ञे पुरोडाशम् एकादश-कपालम् इन्द्रायाधिराजायेन्द्राय स्वराज्ञे, इतीन्द्रस्यैकत्वेऽपि राजत्वादि-विशिष्टाकार-भेदाद् देवता-भेद इति प्रदानावृत्तिः; तद्वद् एव। तद् उक्तꣳ सङ्कर्षे--- नाना वा देवता पृथक्त्वाद् इति॥४२॥ इति प्रदानाधिकरणम्॥१८॥
Link copied३९७। लिङ्ग-भूयस्त्वात् तद् धि बलीयस्तद् अपि॥३।३।४३॥
Link copiedतैत्तिरीया अधीयते--- सहस्र-शीर्षꣳ देवम् इत्य् आरभ्य, सोऽक्षरः परमः स्वराट्, इत्यन्तम्। अस्मिन्न् अनुवाके नोपासनꣳ विधीयते। किम् अयꣳ पूर्वानुवाकोदित-दहर-विद्योपास्य-विशेष-निर्धारणार्थः, उत सर्व-वेदान्तोदित-सर्व-पर-विद्योपास्य-विशेष-निर्धारणार्थ इति सꣳशयः। दहर-विद्याया आनन्तर्यात् तद्-उपास्य-विशेष-निर्धारणार्थ इति पूर्वः पक्षः; सहस्र-शीर्षꣳ देवम् इति द्वितीया-निर्देशस्यानन्तरोदितोपासिना सम्बन्धस्यैव युक्तत्वाच् च। राद्धान्तस् तु--- परब्रह्म-पर-तत्त्व-पर-ज्योतिः-परमात्माक्षर-शिव-शम्भु-शब्दैः सर्व-पर-विद्योपास्याननूद्य वाक्येनैव तेषाꣳ नारायणत्व-विधानात् तस्य च प्रकरणाद् बलीयस्त्वेन सर्व-विद्योपास्य-निर्धारणार्थ इति निश्चीयते। न च--- सहस्र-शीर्षम् इति द्वितीया-निर्देशः पूर्वेणोपासिना सम्बध्यते, तस्मिन् यद् अन्तस् तद् उपासितव्यम् इति कृत्-प्रत्ययेन कर्माभिहितम् इति तत्र द्वितीया-निर्देशायोगात्। नारायणः परः, व्याप्य नारायणः स्थितः, परमात्मा व्यवस्थितः, इत्य् आदिभिर् ऐकार्थ्यात् प्रथमार्थे द्वितीया। सूत्रार्थस् तु--- सर्व-पर-विद्योपास्य-निर्धारणे लिङ्ग-भूयस्त्वात् तच्-चिह्न-भूत-वाक्य-भूयस्त्वाद् इत्य् अर्थः। तद् धि--- वाक्यꣳ प्रकरणाद् बलीयः, तद् अपि पूर्वस्मिन् काण्डे--- श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानाꣳ समवाये पर-दौर्बल्यम् अर्थ-विप्रकर्षात्, इत्य् आदिनोक्तम्। एवꣳ सर्वोपास्य-निर्धारणे निश्चिते सति दहर-विद्यायाम् अप्य् अयम् एवोपास्य इति, पद्म-कोश-प्रतीकाशम् इत्य् आदिना हृदयाद्य्-अभिधानꣳ च युज्यत इत्य् अभिप्रायः॥४३॥ इति लिङ्ग-भूयस्त्वाधिकरणम्॥१९॥
Link copied३९८। पूर्व-विकल्पः प्रकरणात् स्यात् क्रिया मानसवत्॥३।३।४४॥
Link copiedवाजसनेयकेऽग्निरहस्ये--- मनश्-चितो वाक्-चितः प्राण-चितश् चक्षुश्-चितः, इत्य् आदिना मनश्-चितादयोऽग्नयो विद्या-रूपाः श्रूयन्ते। किम् एते क्रिया-मय-क्रत्व्-अङ्ग-भूताः, उत विद्या-मय-क्रत्व्-अङ्ग-भूता इति सꣳशयः। अस्मिन् प्रकरणे विद्या-मय-क्रत्व्-अनुबन्धि-मानस-ग्रह-स्तोत्रादि-दर्शनेऽपि क्रतोर् विधानाभावात्, फलान्तराप्रतीतेश् च, पूर्वत्र--- असद् वा इदम् अग्र आसीद् इत्य् आदिनेष्टक-चितस्याग्नेः प्रकृतत्वात्, मनश्-चितादिषु च, तेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इति तत्-कार्यातिदेशादिष्टक-चितेनैषाꣳ विकल्प-प्रतीतेश् चेष्टक-चिताग्नि-शेष-भूत-क्रिया-मय-क्रत्व्-अनुप्रवेशेन तद्-अङ्ग-भूता इति पूर्वः पक्षः। राद्धान्तस् तु--- ते हैते विद्या-चित एव विद्यया हैवैत एवꣳ विदश्-चिता भवन्ति, इति मनश्-चितादीनाꣳ साम्पादिकाग्नित्वेन विद्या-रूपत्वे सिद्धेऽपि, ते हैते विद्या-चित एवेत्य् अवधारण-श्रुतिर् विद्या-मय-क्रत्व्-अङ्गत्वेनैषाꣳ विद्या-रूपतावगत्य् अर्थेति निश्चयात् सन्निहितैर् मानसैः ग्रह-स्तोत्रादिभिः क्रत्व्-अनुबन्धैर् अनुवाद-सरूप-वाक्य-प्रतिपादितैः क्रतु-दर्शने सति, वचनानि त्व् अपूर्वत्वाद् इति न्यायेन मनश्-चितादीनाꣳ शेषि-भूत-विद्या-मय-क्रतोर् विधिः परिकल्प्यते। तेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इत्य् अतिदेशेनेष्टक-चिताग्नेः स्व-शेषि-भूत-क्रतु-द्वारेण यत् फलम्, तद् एवैषाꣳ स्व-शेषि-भूत-विद्या-मय-क्रतु-द्वारेण फलम् इति निश्चीयत इति विद्या-मय-क्रत्व्-अङ्ग-भूता एव मनश्-चितादयः। सूत्रार्थस् तु--- मनश्-चितादिः क्रिया स्यात्, क्रिया-मय-क्रत्व्-अङ्ग-भूत इत्य् अर्थः। कुतः। प्रकरणात्--- पूर्व-प्रकृतेनेष्टक-चितेनाव्यभिचरित-क्रतु-सम्बन्धिनोपस्थित-क्रतु-गृहीतत्वेन तद्-अङ्ग-भूतानाम् एषाꣳ चाग्नित्वात् तेनेष्टक-चितेन विकल्पः; विद्या-रूपाणाम् अप्य् एषाꣳ क्रिया-मय-क्रत्व्-अङ्ग-भावो न विरुध्यते, द्वादशाहाङ्ग-भूत-मानस-ग्रहवत्॥४४॥
Link copied३९९। अतिदेशाच् च॥३।३।४५॥
Link copiedतेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इति तेषु पूर्वेष्टक-चित-कार्यातिदेशाच् च तेनैषाꣳ विकल्पः प्रतीयते। तेन विकल्पो हि तच्-छेषि-भूत-क्रत्व्-अङ्गत्वेन विनैषाꣳ नोपपद्यते। अतश् च तद्-अङ्ग-भूताः॥४५॥
Link copied४००। विद्यैव तु निर्धारणाद् दर्शनाच् च॥३।३।४६॥
Link copiedतु-शब्दः पक्षꣳ व्यावर्तयति; मनश्-चितादिर् विद्यैव विद्या-मय-क्रत्व्-अङ्ग-भूत एवेत्य् अर्थः। कुतः। निर्धारणात्--- तेषाꣳ विद्या-रूपत्वे सिद्धेऽपि, ते हैते विद्या-चित एवेति निर्धारणꣳ विद्या-मय-क्रत्व्-अङ्गतयैषाꣳ विद्या-मयत्व-ख्यापनार्थम्। अत्रैव विद्या-मय-क्रतु-दर्शनाच् च तद्-अङ्गत्वम् एवैषाम्। दृश्यते चात्र विद्या-मयः क्रतुः, मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशꣳसन्, इत्य् आदौ॥४६॥
Link copiedअत्र विद्या-मय-क्रतौ विधि-पदाश्रवणात्, तत्-फल-सम्बन्धाप्रतीतेश् च, प्रकरणेनेष्टक-चिताग्न्य्-उपस्थापित-क्रत्व्-अङ्गताप्रतीतेश् च विद्या-मय-क्रत्व्-अन्वयो बाध्यत इत्य् आशङ्क्याह ---
Link copied४०१। श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः॥३।३।४७॥
Link copiedश्रुत्य्-आदेः प्रकरणाद् बलीयस्त्वेन श्रुत्य्-आद्य्-अवगतस्य विद्या-मय-क्रत्व्-अन्वयस्य प्रकरणेन न बाधः। श्रुतिस्तावत्--- ते हैते विद्या-चित एवेति। ताꣳ विवृणोति--- विद्यया हैवैत एवꣳविदश् चिता भवन्तीति। लिङ्ग-वाक्ये च भाष्ये दर्शिते। एवꣳविदो मनश्-चक्षुर्-आदि-व्यापारेष्व् अग्नित्वꣳ सम्पादयितुः, एते मनश्-चितादयः, विद्यया प्रधान-भूतया चिता भवन्तीत्य् अर्थः॥४७॥
Link copiedमनसैषु ग्रहा अगृह्यन्तेत्य् आदौ विधि-पदाश्रवणाद् विद्या-मय-क्रतु-विधिर् न सम्भवतीति तद्-असम्भवाच् च तद्-अन्वयोऽपि न सम्भवतीत्य् आशङ्क्याह---
Link copied४०२। अनुबन्धादिभ्यः प्रज्ञान्तर-पृथक्त्ववद् दृष्टश् च तद् उक्तम्॥३।३।४८॥
Link copiedग्रह-स्तोत्र-शस्त्रेभ्यो यज्ञानुबन्धेभ्य इष्टक-चितान्वयिनः क्रतोर् अत्र विधीयमान-विद्या-मय-क्रतु-पृथक्त्वम् अवगम्यते; प्रज्ञान्तर-पृथक्त्ववत्--- यथा प्रज्ञान्तराणाꣳ दहर-विद्यादीनाꣳ पृथक्त्व-हेतुभ्यः पृथक्त्वम्; आदि-शब्दात् पूर्वोक्तः श्रुत्य्-आदिर् गृह्यते; श्रुत्य्-आदिनानुबन्धैश् च विद्या-मय-क्रतु-विधिः कल्प्यत इत्य् अर्थः। दृष्टश् चानुवाद-सरूपेऽपि कल्प्यमानो विधिः--- यद् एव विद्यया करोतीत्य् आदौ। तद् उक्तꣳ--- वचनानि त्व् अपूर्वत्वाद् इति॥४८॥
Link copiedयत् तूक्तम् अतिदेशाच् चेष्टक-चित-शेषि-भूत-क्रत्व्-अन्वयोऽवगम्यत इति, तत्राह---
Link copied४०३। न सामान्याद् अप्य् उपलब्धेर् मृत्युवन् न हि लोकापत्तिः॥३।३।४९॥
Link copiedनावश्यम् अतिदेशेनेष्टक-चिताग्नि-तुल्य-देशत्वम् अप्य् आश्रयणीयम्, येन केनचित् सामान्येनातिदेशोपलब्धेः। स एष मृत्युर् य एष एतस्मिन् मण्डले पुरुषः, इतिवत् फल-सामान्येन भविष्यत्य् अतिदेशः। न हि तत्र मण्डल-पुरुषे मृत्यु-लोकापत्तिर् अप्य् अतिदिश्यते; अपि तु मृत्युवत् सर्व-सꣳहर्तृत्वम् एव॥४९॥
Link copied४०४। परेण च शब्दस्य ताद्विध्यꣳ भूयस्त्वात् त्व् अनुबन्धः॥३।३।५०॥
Link copiedपरेण च ब्राह्मणेनास्य मनश्-चिताद्य्-अभिधायिनः शब्दस्य ताद्विध्यꣳ--- तद्-विधत्वम्, विद्या-मय-प्रतिपादकत्वम् अवगम्यते। परेण हि ब्राह्मणेन--- अयꣳ वाव लोक एषोऽग्नि-चितस् तस्याप एव, इत्य् आदिना पृथक्-फला विद्यैव विधीयते। अग्निरहस्ये क्रिया-मया एव विधीयन्त इति नास्ति नियम इत्य् अर्थः। क्रिया-प्रकरणे त्व् एषाꣳ मनश्-चितादीनाम् अनुबन्धः सम्पादनीयानाम् अग्न्य्-अङ्गानाम् अत्र भूयस्त्वात् क्रियते। अतो विद्या-मय-क्रत्व्-अङ्ग-भूता एव मनश्-चितादयोऽग्नयः॥५०॥ इति पूर्व-विकल्पाधिकरणम्॥२०॥
Link copied४०५। एक आत्मनः शरीरे भावात्॥३।३।५१॥
Link copiedप्रत्यगात्मन आत्मतया हि परमात्मोपास्यः; उपासकस्यापि स्वरूपम् उपास्योपासन-स्वरूपवज् ज्ञातव्यम् इत्य् उक्तम्--- त्रयाणाम् इत्य् आदिना; वक्ष्यते च--- आत्मेति तूपगच्छन्तीति। तत्र किꣳ प्रत्यगात्मनः शरीरे वर्तमानस्य कर्तृत्व-भोक्तृत्वादि-विशिष्टꣳ रूपम् अनुसन्धेयम्, उत प्रजापति-वाक्योदितापहत-पाप्मत्वादि-गुणकꣳ यथावस्थितꣳ रूपम् इति सꣳशयः। शरीरे वर्तमानस्य यादृशꣳ रूपम्, तद् एवानुसन्धेयम् इति पूर्वः पक्षः, कर्म-विधिष्व् इवोपासन-विधिष्व् अपि तावतैव साधनानुष्ठान-फलानुभवयोः सम्भवात्। यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति तु, तꣳ यथायथोपासते, इत्य् अनेनैकार्थ्यात् परमात्म-विषयम्। राद्धान्तस् तु--- तत् त्वम् असि, स त आत्मान्तर्याम्य् अमृतः, इति प्रत्यगात्मन आत्मतयैव परमात्मोपास्य इति प्रत्यगात्मनः स्वरूपम् अप्य् उपासनान्तर्गतम्। परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, इति यथावस्थितात्म-स्वरूपस्यैव ब्रह्मानुभवः फलम् इत्य् अतः, यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति न परमात्म-मात्र-विषयम्; अपि तु प्रत्यगात्मात्म-भूतोपास्य-विषयम् इति प्रजापति-वाक्योदितꣳ यथावस्थित-स्वरूपम् एवानुसन्धेयम्; अन्यथा प्राप्योपास्ययोः प्रकार-भेदात्, यथाक्रतुर् अस्मिन्न् इति विरुध्यते। यजेत स्वर्ग-कामः, इत्य् आदि कर्म-विधौ तु कर्तृ-स्वरूपानुसन्धानꣳ न साधनान्तर्गतम् इति विशेषः। सूत्रार्थस् तु--- कर्तृत्वादि-विशिष्टम् एवत्मनः स्वरूपम् अनुसन्धेयम् इत्य् एके मन्यन्ते। कुतः। शरीरे वर्तमानस्योपासितुर् आत्मनस् तथाभावात्॥५१॥
Link copied४०६। व्यतिरेकस् तद्-भाव-भावित्वान् न तूपलब्धिवत्॥३।३।५२॥
Link copiedन कर्तृत्वादि-विशिष्टम् अनुसन्धेयम्, अपि तु साꣳसारिक-स्वरूपवन् मुक्त-स्वरूपस्य यो व्यतिरेकः, सोऽनुसन्धेयः। कुतः। तथोपासन-भाव-भावित्वात् तद्-व्यतिरिक्त-स्वरूप-प्राप्तेः। यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति ह्य् आह। उपलब्धिवत्--- यथा ब्रह्म-स्वरूपोपलब्धिर् यथावस्थित-ब्रह्मानुसन्धान-युक्तस्यैव, तथा आत्मोपलब्धिर् अपि॥५२॥ इति शरीरेभावाधिकरणम्॥२१॥
Link copied४०७। अङ्गावबद्धास् तु न शाखासु हि प्रतिवेदम्॥३।३।५३॥
Link copiedओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इत्य् उद्गीथादि-क्रत्व्-अङ्गाश्रया उपासनाः श्रूयन्ते। ताः किꣳ यासु शाखासु श्रूयन्ते, तास्व् एव व्यवस्थिताः, उत सर्वासु शाखासु सम्बद्धा इति सꣳशयः। शाखासु स्वर-भेदात् प्रतिशाखम् उद्गीथ-भेदेन यत्र श्रूयन्ते, तत्रस्थोद्गीथादेः सन्निधानात् तेनैवान्विता व्यवस्थिता इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अप्य् उद्गीथ-व्यक्ति-भेदो विद्यते, तथापि तत्र तत्र चोद्गीथ-जातीयत्वेन सम्बन्धात् सर्वेषाꣳ चोद्गीथ-जातीयत्वाविशेषात्, उद्गीथम् उपासीतेति श्रुत्यैव सर्व-सम्बन्ध इति सर्व-शाखासु सम्बध्यन्ते। सूत्रार्थस् तु--- न त्व् अङ्गावबद्धा उपासनास् तासु शाखासु व्यवस्थिताः, अपि तु प्रतिवेदꣳ सर्व-शाखासु सम्बध्यन्त इत्य् अर्थः। हिर् हेतौ। यस्माद् उद्गीथ-जातीयत्वाविशेषेण सर्व-सम्बन्धः, तस्माद् इत्य् अर्थः॥५३॥
Link copied४०८। मन्त्रादिवद् वाविरोधः॥३।३।५४॥
Link copiedवा-शब्दश् चार्थे यथा मन्त्रादीनाꣳ क्रत्व्-अङ्ग-भूतानाम् एकैक-शाखाभिहितानाꣳ सर्व-शाखासु क्रतोर् एकत्वेन सर्वत्र सम्बन्धो न विरुध्यते; तद्वच् चाविरोधः॥५४॥ इत्य् अङ्गावबद्धाधिकरणम्॥२२॥
Link copied४०९। भूम्नः क्रतुवज् जायस्त्वꣳ तथा हि दर्शयति॥३।३।५५॥
Link copiedवैश्वानर-विद्यायाꣳ स्वर्लोकादित्य-वाय्व्-आकाश-पृथिव्य्-अवयवो वैश्वानरात्मोपास्यः श्रुतः। तत्र किꣳ व्यस्तस्यैवोपासनꣳ कार्यम्, उत व्यस्तस्य समस्तस्य च, अथ समस्तस्यैवेति सꣳशयः। औपमन्यव कꣳ त्वम् आत्मानम् उपास्स इति दिवम् एव भगवो राजन्, इत्य् आदिना स्वर्लोकादि-पृथिव्य्-अन्तानाꣳ वैश्वानरात्मनो मूर्धादि-पादान्तावयवत्वम् अभिधाय, तत्र तत्र व्यस्तस्यैवोपासनꣳ फलꣳ च विहितम् इति पश्चात्, यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते, इति पूर्वोक्तस्य समासेनोपसꣳहार इति युक्तम्; अतो व्यस्तस्यैवोपासनꣳ कार्यम् इति प्रथमः पक्षः। समस्तोपासनस्ये--- सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति, इति व्यस्तोपासन-फलेभ्यः फलान्तर-विधानाद् व्यस्तस्य समस्तस्य चोपासनꣳ कार्यम् इति द्वितीयः पक्षः। राद्धान्तस् तु--- आत्मानꣳ वैश्वानरꣳ सम्प्रत्यध्येषि तम् एव नो ब्रूहि, इत्य् आरभ्य वैश्वानरात्मनः स्वर्लोकादि-पृथिव्य्-अन्तानाꣳ मूर्धादि-पादान्तावयवत्वम् अभिधाय, यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते स सर्वेषु लोकेषु, इत्य् उपसꣳहाराद् एकस्यैव वैश्वानरात्मनस् त्रैलोक्य-शरीरस्य परस्य ब्रह्मण उपासनꣳ विधाय, फलꣳ च--- सर्वेष्व् आत्मस्व् अन्नम् अत्तीति, तद् यथेषीक-तूल-मग्नौ प्रोतꣳ प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते, इति च सर्वेषाम् आत्मनाम् अविशेषेण भोग्य-भूतꣳ परꣳ ब्रह्मानुभवति, तद्-विरोधिनश् च सर्व-पाप्मनो दहतीत्य् उक्तम् इति गम्यते। अत एक-वाक्यत्वात् समस्तस्यैवोपासनꣳ कार्यम्। व्यस्त-वादस् तु स्वर्लोकादीनाꣳ मूर्धाद्य्-अवयवत्व-ज्ञापनर्था। तत्र तत्र च फल-वादो वैश्वानरꣳ द्वादश-कपालꣳ निर्वपेत् पुत्रे जाते यद् अष्टा-कपालो भवति, इत्य् आदिवद् द्रष्टव्यः। सूत्रार्थस् तु--- भूम्नो ज्यायस्त्वम्, समस्तोपासनस्य श्रैष्ठयम्; प्रामाणिकत्वम् इत्य् अर्थः। एक-वाक्यत्वावगतेर् व्यस्तवादः ऋतुवद् द्रष्टव्यः।
Link copiedवैश्वानरꣳ द्वादश-कपालꣳ निर्वपेत् \॥॥यद् अष्टा-कपालः, इत्य् आदिः क्रताव् इवेत्य् अर्थः। तथा हि दर्शयति--- समस्तोपासनस्य ज्यायस्त्वम् एव दर्शयति श्रुतिः, मूर्धा ते व्यपतिष्यद् यन् माꣳ नागमिष्यः, इत्य् आदिना व्यस्तोपासनेऽनर्थꣳ ब्रुवती॥५५॥
Link copiedइति भूम-ज्यायस्त्वाधिकरणम्॥२३॥
Link copied४१०। नाना शब्दादि-भेदात्॥३।३।५६॥
Link copiedसद्-विद्या-दहर-विद्या-शाण्डिल्य-विद्या-भूम-विद्यादिका ब्रह्मोपासन-रूपा ब्रह्म-प्राप्ति-फलाः किम् एक-विद्या, उत नानेति सꣳशयः। उपास्यस्य ब्रह्मणः फलस्य चैकत्वात्, वेद, उपासीतेति च पर्यायत्वाद् एक-विद्येति पूर्वः पक्षः। ब्रह्मण एकत्वेऽपि जगद्-एक-कारणत्वापहत-पाप्मत्वाद्य्-अनुबन्ध-भेद-हेतुभिः पूर्व-काण्डोदितानुबन्ध-भेद-हेतुभिः शब्दान्तरादिभिर् एवानुबन्ध-भेदान् नाना-भूता इति राद्धान्तः। शब्दान्तरादिभिस् तत्रोदितैर् एव विद्या-भेद-सिद्धाव् अपीह पुनर् वचनꣳ ब्रह्म-प्राप्ति-हेतु-भूतꣳ वेदान्तोदितꣳ ज्ञानम् अविधेयम् इति कुदृष्टि-निरासार्थम्। सूत्रार्थस् तु--- सद्-विद्या-भूम-विद्यादिका नाना-भूताः, ब्रह्मण एकत्वेऽपि सद्-भूमापहत-पाप्मादि-शब्द-भेदात्। आदि-शब्दाद् अभ्यास-सङ्ख्या-गुण-प्रक्रिया-नामधेयानि गृह्यन्ते॥५६॥ इति शब्दादि-भेदाधिकरणम्॥२४॥
Link copied४११। विकल्पोऽविशिष्ट-फलत्वात्॥३।३।५७॥
Link copiedसद्-विद्या-भूम-विद्यादिकानाꣳ ब्रह्म-प्राप्ति-फलानाम् एकस्मिन् पुरुषे समुच्चयोऽपि सम्भवति, नेति सꣳशयः। अग्निहोत्र-दर्शपूर्णमास-ज्योतिष्टोमादीनाꣳ स्वर्गैक-फलानाꣳ तत्र भूयस्त्वापेक्षया यथैकस्मिन् पुरुषे समुच्चयो दृश्यतेस् तथात्रापि ब्रह्मानुभव-भूयस्त्वापेक्षयैकस्मिन् पुरुषे समुच्चयः सम्भवतीति पूर्वः पक्षः। देशतः कालतः स्वरूपतश् चानवच्छिन्नानन्द-स्वरूप-ब्रह्मानुभवः सर्वासाꣳ पर-विद्यानाꣳ फलꣳ तच् चैकया विद्ययावाप्तम् इत्य् एकस्मिन् पुरुषे विद्यान्तर-समुच्चयः प्रयोजनाभावान् न सम्भवतीति सर्वासाꣳ विकल्पः, इति राद्धान्तः। सूत्रम् अपि व्याख्यातम्॥५७॥
Link copied४१२। काम्यास् तु यथा-कामꣳ समुच्चीयेरन् न वा पूर्व-हेत्व्-अभावात्॥३।३।५८॥
Link copiedब्रह्म-प्राप्ति-व्यतिरिक्त-फला विद्याः काम्याः। तास् तु यथेष्टꣳ समुच्चीयेरन् विकल्प्येरन् वा, पूर्व-हेत्व्-अभावात्--- तत्-फलस्यापरिमितत्वाभावात्; भूयस्त्वापेक्षया समुच्चयः सम्भवतीत्य् अर्थः॥५८॥ इति विकल्पाधिकरणम्॥२५॥
Link copied४१३। अङ्गेषु यथाश्रय-भावः॥३।३।५९॥
Link copiedकर्माङ्गाश्रयाणाम् उद्गीथाद्य्-उपासनानाꣳ गो-दोहनादिवद् अधिकारान्तरत्वेनोपादानानियमः पूर्वोक्तः सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः, उद्गीथम् उपासीतेत्य् उपासन-विधौ फलान्तराश्रवणात्, उद्गीथ-सम्बन्धावगत-क्रत्व्-अङ्ग-भावाविरोधात्। एवꣳ विधि-वाक्येनैव क्रत्व्-अङ्ग-भावेऽवगते सति, यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरꣳ भवति\॥॥तेनेभौ कुरुतः, इति च वर्तमान-निर्देशः, न स पापꣳ श्लोक शृणोति, इतिवद् अर्थवाद-मात्रꣳ स्यात्। राद्धान्तस् तु--- यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति विद्यायाः क्रतु-वीर्यवत्तरत्वꣳ प्रति साक्षात् साधन-भावोऽवगम्यते। एवꣳ फल-साधनतयावगता विद्या किम् आश्रित्य फलꣳ करोतीत्य् अपेक्षायाम्, ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इत्य् उद्गीथम् आश्रित्य कुर्याद् इति क्रत्व्-अङ्ग-भूतोद्गीथाश्रयत्व-मात्रꣳ प्रतीयते; अतः फलान्तर-साधनतयावगतस्य क्रत्व्-अङ्ग-भावो नोपपद्यत इति गो-दोहनादि-तुल्यतयोपादानानियमः सिध्यत्य् एव। यस्य पर्ण-मयी जुहूर् भवति न स पापꣳ श्लोकꣳ शृणोतीत्य् अत्र तु पर्णताया जुहू-सम्बन्धात् प्राग् अपाप-श्लोक-श्रवणꣳ प्रति साक्षात् साधन-भावो न श्रूयते; पर्णता-सम्बन्धि-पुरुष-सम्बन्ध-मात्रꣳ श्रुतम्; तत् तु--- पर्ण-मयी जुहूर् इति श्रुत्यैव प्रथमावगत-क्रत्व्-अङ्ग-भावꣳ न निरुणद्धीत्य् अर्थवाद-मात्रम् इति विशेषः। सूत्रार्थस् तु--- अङ्गेषु, उद्गीथादिषु आश्रितानाम् उपासनानाꣳ यथाश्रय-भावः--- उद्गीथादिवद् अङ्ग-भावः। गो-दोहनादिवत् तस्मिन् वाक्ये फल-सम्बन्धाश्रवणाद् अङ्ग-भावो न विरुध्यत इत्य् अर्थः॥५९॥
Link copied४१४। शिष्टेश् च॥३।३।६०॥
Link copiedशिष्टः--- शाशनम्, विधानम्; उद्गीथम् उपासीतेति विधानाच् च वर्तमान-निर्देशावगत-फल-सम्बन्धात् प्राग् एवोद्गीथ-सम्बन्धोऽवगत इति तद्-अङ्ग-भावो । न विरुध्यते। अत उपादान-नियमः॥६०॥
Link copied४१५। समाहारात्॥३।३।६१॥
Link copiedइतश् च--- होतृ-षदनाद् धैवापि दुरुद्गीथम् अनुसमाहरति, इत्य् उद्गीथ-वेदन-हानाव् अन्येन समाधानꣳ ब्रुवद् वेदनस्योपादान-नियमꣳ दर्शयति। दुरुद्गीथꣳ--- वेदन-हीनम् उद्गीथम्॥६१॥
Link copied४१६। गुण-साधारण्य-श्रुतेश् च॥३।३।६२॥
Link copiedइतश् चोपादान-नियमोऽवगम्यते। प्रणव-गुणत्वेनावगतस्योपासनस्य साधारण्यꣳ हि श्रूयते--- तेनेयꣳ त्रयी विद्या वर्तते ओम् इत्य् आश्रावयत्य् ओम् इति शꣳसत्य् ओम् इत्य् उद्गायति, इति तेनेति प्रकृत-परामर्शात् सोपासन एव प्रणवः सर्वत्र सञ्चरति। अतः प्रणव-सहभाव-नियम-दर्शनाद् उपादान-नियमो निश्चीयते॥६२॥
Link copied४१७। न वा तत्-सहभावाश्रुतेः॥३।३।६३॥
Link copiedन वोपादान-नियमः, तत्-सहभावाश्रुतेः--- उद्गीथाद्य्-अङ्ग-भावा श्रुतेर् इत्य् अर्थः। क्रत्व्-अङ्ग-भावो हि सहभावः। यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति वीर्यवत्तर-स्वसाधनतयावगताया विद्यायाः क्रत्व्-अङ्गतया विनियोगासम्भवात् तद्-अङ्ग-भावो हि न श्रूयते। यत्र साक्षात् फल-साधनत्वꣳ प्रतिपाद्यते; तत्र फल-साधनत्वꣳ प्रथमꣳ प्रतीयत इति तस्य क्रत्व्-अङ्गतया विनियोगो न सम्भवतीत्य् अभिप्रायः॥६३॥
Link copied४१८। दर्शनाच् च॥३।३।६४॥
Link copiedएवꣳ-विद् ध वै ब्रह्मा यज्ञꣳ यजमानꣳ सर्वाꣳश् चर्त्विजोऽभिरक्षति, इति ब्रह्मणो वेदनेन यज्ञस्य यजमानस्य ऋत्विजाꣳ च रक्षणꣳ ब्रुवत्य् अन्येषाꣳ वेदनाभावꣳ दर्शयति। तच् चोद्गीथोपासनस्यानङ्गत्वे सत्य् एवोपपद्यते। अतश् चोपादान-नियमः॥६४॥ इति यथाश्रय-भावाधिकरणम्॥२६॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य तृतीयः पादः॥
Link copied౩౫౫। సర్వ-వేదాన్త-ప్రత్యయṁ చోదనాద్య్-అవిశేషాత్॥౩।౩।౧॥
Link copiedకిṁ సర్వేషు వేదాన్తేషు శ్రూయమాణా దహరాది-విద్యా ఏకైవ, ఉత విద్యాన్తరమ్ ఇతి సṁశయః। అవిశేష-పునః-శ్రవణస్య ప్రకరణాన్తరస్య చ విద్యా-భేద-హేతుత్వాద్ విద్యాన్తరమ్ ఇతి పూర్వః పక్షః। చోదనా-ఫల-సṁయోగ-రూపాఖ్యానామ్ అవిశేషాత్, ప్రతిపత్తృ-భేదేన పునః-శ్రవణోపపత్తేః, తత ఏవ ప్రకరణాన్తరత్వాభావాచ్ చ, విద్యైక్యమ్ ఇతి రాద్ధాన్తః। విద్యాసు గుణోపసṁహారాది-చిన్తార్థṁ శాఖాన్తరాధికరణోక్తన్యాయస్ తత్-ఫలṁ చ స్థిరీకృతమ్। సూత్రార్థస్ తు--- సర్వ-వేదాన్త-ప్రత్యయమ్ ఏకṁ దహరాద్య్-ఉపాసనమ్। కుతః। చోదనాద్య్-అవిశేషాత్॥౧॥
Link copied౩౫౬। భేదాన్ నేతి చేద్ ఏకస్యామ్ అపి॥౩।౩।౨॥
Link copiedఅవిశేష-పునః-శ్రుత్యా విద్యా-భేదావగమాన్ న విద్యైక్యమ్ ఇతి చేత్; ఏకస్యామ్ అపి విద్యాయాṁ శాఖాన్తరే ప్రతిపత్తృ-భేదాత్ పునః-శ్రవణమ్ అర్థవద్ ఇతి న విద్యా-భేదః॥౨॥
Link copiedతేషామ్ ఏవైతాṁ బ్రహ్మ-విద్యాṁ వదేత శిరోవ్రతṁ విధివద్ యైస్ తు చీర్ణమ్, ఇత్య్ ఆథర్వణికానాṁ శిరోవ్రతస్య విద్యోపదేశాఙ్గత్వ-నియమ-దర్శనṁ విద్యా-భేదṁ ద్యోతయతి, విద్యైక్యే హ్య్ ఆవణికానామ్ ఏవేతి నియమో నోపపద్యత ఇత్య్ ఆశఙ్క్యాహ---
Link copied౩౫౭। స్వాధ్యాయస్య తథాత్వే హి సమాచారేఽధికారాచ్ చ సవవచ్ చ తన్-నియమః॥౩।౩।౩॥
Link copiedశిరోవ్రతṁ న విద్యాఙ్గమ్, అపి తు స్వాధ్యాయస్య తథాత్వే హి--- స్వాధ్యాయస్య తజ్-జన్య-సṁస్కార-భాక్త్వే హి తన్-నియమః, నైతద్ అచీర్ణ-వ్రతోఽధీయీత, ఇత్య్ అధ్యయన-సమ్బన్ధాత్, సమాచారాఖ్యే గ్రన్థే, ఇదమ్ అపి వేద-వ్రతేన వ్యాఖ్యాతమ్ ఇతి వేద-వ్రతత్వావగమాచ్ చ। బ్రహ్మ-విద్యాṁ వదేత--- వేద-విద్యామ్ ఇత్య్ అర్థః। సవవచ్ చ తన్-నియమః--- యథా హి సవ-హోమాః సప్త-సూర్యాదయః శతౌదన-పర్యన్తా ఆథర్వణికైకాగ్ని-సమ్బన్ధినస్ తత్రైవ భవన్తి, తథేదమ్ అప్య్ ఆథర్వణ-వేద-సమ్బన్ధిత్వేన తత్రైవ భవతి॥౩॥
Link copied౩౫౮। దర్శయతి చ॥౩।౩।౪॥
Link copiedదర్శయతి చ శ్రుతిర్ ఉపాసనస్య సర్వ-వేదాన్త-ప్రత్యయత్వమ్; ఛాన్దోగ్యే దహర-విద్యాయాṁ--- తస్మిన్ యద్ అన్తః, ఇతి విహితమ్ అపహత-పాప్మత్వాది-గుణాష్టకṁ తైత్తిరీయకే కేవలṁ--- తస్మిన్ యద్ అన్తస్ తద్ ఉపాసితవ్యమ్ ఇత్య్ ఏవోక్తమ్; తద్ ఉభయత్ర విద్యైకత్వే సమ్భవతి॥౪॥
Link copied౩౫౯। ఉపసṁహారోఽర్థాభేదాద్ విధి-శేషవత్ సమానే చ॥౩।౩।౫॥
Link copiedతద్ ఏవṁ సర్వ-వేదాన్తేషు దహరాద్య్-ఉపాసనే సమానే--- ఏకస్మిన్ సతి, తత్-తద్-ఉపాసనే వేదాన్తాన్తర-విహితస్య గుణస్య వేదాన్తాన్తరే చోపసṁహారః కర్తవ్యః। కుతః। అర్థాభేదాత్--- తద్-విద్యాఙ్గత్వేన తద్-ఉపకారాభేదాత్। విధిశేషవత్--- యథైకస్మిన్ వేదాన్తే వైశ్వానర-విద్యాది-విశేషతయా విహితస్య గుణస్య తద్-ఉపకారాయోపసṁహారః; తథా వేదాన్తాన్తరేఽపి తద్-విద్యాఙ్గత్వావిశేషాద్ ఉపసṁహారో న్యాయ్యః॥౫॥
Link copiedఇతి సర్వ-వేదాన్త-ప్రత్యయాధికరణమ్॥౧॥
Link copied౩౬౦। అన్యథాత్వṁ శబ్దాద్ ఇతి చేన్ నావిశేషాత్॥౩।౩।౬॥
Link copiedఅస్తి హ్య్ ఉద్గీథ-విద్యా వాజినాṁ ఛన్దోగానాṁ చ। వాజినాṁ తావత్--- హన్తాసురాన్ యజ్ఞ ఉద్గీథేనాత్యయామ, ఇత్య్ ఆరభ్య ఉద్గీథే ప్రాణ-దృష్ట్యోపాసనṁ శత్రు-పరిభవ-ఫలṁ విహితమ్। ఛన్దోగానామ్ అపి--- తద్ ధ దేవా ఉద్గీథమ్ ఆజహ్రుర్ అనేనైనాన్ అభిహనిష్యామః, ఇత్య్ ఆరభ్య ఉద్గీథే ప్రాణ-దృష్ట్యోపాసనమ్ ఏవ శత్రు-పరిభవ-ఫలమ్ ఉక్తమ్। కిమ్ ఉభయత్ర విద్యైక్యమ్, ఉత విద్యా-భేద ఇతి సṁశయః। చోదనాద్య్-అవిశేషాద్ విద్యైక్యమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యద్య్ అప్య్ ఉభయత్రోద్గీథే ప్రాణ-దృష్ట్యోపాసనమ్ అవిశిష్టమ్ ఉక్తమ్। తథాపి ఛన్దోగానామ్--- ఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీత, ఇతి ప్రకృత్య, ఉద్గీథమ్ ఆజహ్రుర్ అనేనైనాన్ అభిహనిష్యామః, ఇత్య్ ఉద్గీథావయవే ప్రణవే ప్రాణ-దృష్ట్యోపాసనమ్ ఉక్తమ్; వాజినాṁ తు--- హన్తాసురాన్ యజ్ఞ ఉద్గీథేనాత్యయామ, ఇత్య్ ఉపక్రమాద్ అవిశేషేణ కృత్స్నోద్గీథే ప్రాణ-దృష్ట్యోపాసనమ్ ఉక్తమ్। అథ హ య ఏవాయṁ ముఖ్యః ప్రాణస్ తమ్ ఉద్గీథమ్ ఉపాసాఞ్చక్రిరే, ఇతి చ్ఛన్దోగానామ్ ఉద్గాన-కర్మణ్య్ ఉద్గీథావయవే ప్రణవే ప్రాణ-దృష్టి-విధానాత్। వాజినాṁ తు--- అథ హేమమ్ ఆసన్యṁ ప్రాణమ్ ఊచుస్ త్వṁ న ఉద్గాయేతి తథేతి తేభ్య ఏష ప్రాణ ఉద్గాయత్, ఇతి కృత్స్నోద్గీథస్య కర్తరి ప్రాణ-దృష్టి-విధానాచ్ చోభయత్ర రూప-భేదాద్ విద్యా-భేద ఇతి॥
Link copiedసూత్రార్థస్ తు--- అన్యథాత్వṁ శబ్దాద్ ఇతి చేద్ ఇతి రాద్ధాన్త-చ్ఛాయయా పరిచోద్య, నావిశేషాద్ ఇతి పూర్వ-పక్షీ పరిహరతి। అథ హ య ఏవాయṁ ముఖ్యః ప్రాణస్ తమ్ ఉద్గీథమ్ ఉపాసాఞ్చక్రిరే, అథ హేమమ్ ఆసన్యṁ ప్రాణమ్ ఊచుస్ త్వṁ న ఉద్గాయేతి తథేతి తేభ్య ఏష ప్రాణ ఉదగాయత్, ఇత్య్ ఏకత్రోద్గీథే ప్రాణ-దృష్టి-శబ్దాత్, ఇతరత్రోద్గాతరి ప్రాణ-దృష్టి-శబ్దాచ్ చ, రూపాన్యథాత్వమ్ ఇతి చేన్ న రూప-భేదః। కుతః। అవిశేషాత్--- ఉపక్రమే హ్య్ అవిశేషేణ, ఉద్గీథేనాత్యయామ, ఉద్గీథమ్ ఆజహ్రుర్ అనేనైనాన్ అభిహనిష్యామః ఇత్య్ ఉద్గీథస్యైవోపాస్యత్వ-ప్రతీతేః। త్వṁ న ఉద్గాయేతి తథేతి తేభ్య ఏష ప్రాణ ఉదగాయద్ ఇతి కర్మణ్య్ ఏవోద్గీథే కర్తృత్వమ్ ఉపచర్యత ఇతి యుక్తమ్; అన్యథోపక్రమ-విరోధః స్యాత్॥౬॥
Link copied౩౬౧। న వా ప్రకరణ-భేదాత్ పరో వరీయస్త్వాదివత్॥౩।౩।౭॥
Link copiedన చైతద్ అస్తి। యద్ రూపైక్యాద్ విద్యైక్యమ్ ఇతి। కుతః। ప్రకరణ-భేదాత్। ఛాన్దోగ్యే హి--- ఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీతేత్య్ ఉద్గీథావయవ-భూతṁ ప్రణవమ్ ఉపాస్యṁ ప్రకృత్య, ఉద్గీథమ్ ఆజహ్రుః, ఇతి వచనాద్ ఉద్గీథావయవ-భూతః ప్రణవ ఏవోద్గీథ-శబ్దేనోచ్యత ఇత్య్ అవగమ్యతే; వాజసనేయకేత్వ-విశేషేణ, ఉద్గీథేనాత్యయామ, ఇత్య్ ఉపక్రమాత్ కృత్స్నోద్గీథ ఉపాస్యః ప్రకృతః; అత ఉద్గీథే ప్రాణ-దృష్ట్య్-అవిశేషేఽపి రూప-భేదాద్ విద్యా-భేదః। పరోవరీయస్త్వాదివత్--- యథైకస్యామ్ అపి శాఖాయామ్ ఉద్గీథావయవ-భూతే ప్రణవే పరమాత్మ-దృష్టి-విధాన-సామ్యేఽపి హిరణ్మయ-పురుష-దృష్టి-విధానాత్ పరోవరీయస్త్వాది-గుణ-విశిష్ట-దృష్టి-విధానమ్ అర్థాన్తరమ్ ఇతి రూప-భేదః; తద్వద్ అత్రాపి। ఏవṁ ప్రకరణ-భేదేనోపక్రమ ఏవైకత్రోద్గీథావయవ-విషయత్వేనాన్యత్ర కృత్స్నోద్గీథ-విషయత్వేన చోపాసన-భేదే సిద్ధే సత్య్ ఉపసṁహారస్య కర్మ-విషయṁ కర్తృ-విషయṁ చ ప్రాణ-దృష్టి-విధానṁ యథాశ్రుతమ్ అవతిష్ఠత ఇత్య్ అభిప్రాయః॥౭॥
Link copied౩౬౨। సṁజ్ఞాతశ్ చేత్ తద్ ఉక్తమ్ అస్తి తు తద్ అపి॥౩।౩।౮॥
Link copiedఉద్గీథ-విద్యేతి సṁజ్ఞైక్యాత్, తత్--- విధేయైక్యమ్ ఉక్తṁ చేత్, తత్--- సṁజ్ఞైక్యṁ విధేయ-భేదేఽపి, అస్తి తు--- అస్త్య్ ఏవేత్య్ అర్థః; యథా నిత్యాగ్నిహోత్రే, కుణ్డపాయినామ్ అయనాగ్నిహోత్రే చ; యథా చ చ్ఛాన్దోగ్యే ప్రథమ-ప్రపాఠకోదితాసు బహ్వీషు విద్యాసూద్గీథ-విద్యేతి సṁజ్ఞైక్యమ్॥౮॥
Link copied౩౬౩। వ్యాప్తేశ్ చ సమఞ్జసమ్॥౩।౩।౯॥
Link copiedప్రథమ-ప్రపాఠకే ఉపక్రమవద్ ఉత్తరాస్వ్ అప్య్ ఉద్గీథ-విద్యాసూద్గీథావయవస్య ప్రణవస్యైవోపాస్యత్వ-వ్యాప్తేర్ మధ్య-గతస్య--- తద్ ధ దేవా ఉద్గీథమ్ ఆజర్హుః, ఇత్య్ ఉద్గీథ-శబ్దస్యాపి ప్రణవ-విషయత్వమ్ ఏవ సమఞ్జసమ్॥౯॥ ఇత్య్ అన్యథాత్వాధికరణమ్॥౨॥
Link copied౩౬౪। సర్వాభేదాద్ అన్యత్రేమే॥౩।౩।౧౦॥
Link copiedయో హ వై జ్యేష్ఠṁ చ శ్రేష్ఠṁ చ వేద జ్యేష్ఠశ్ చ హ వై శ్రేష్ఠశ్ చ భవతి ప్రాణో వా వ జ్యేష్ఠశ్ చ శ్రేష్ఠశ్ చ, ఇతి చ్ఛన్దోగానాṁ వాజినాṁ కౌషీతకినాṁ చ ప్రాణ-విద్యామ్నాతా। తత్ర చ్ఛాన్దోగ్య-వాజసనేయకయోః సర్వస్యైకరూప్యాత్ ప్రాణ-విద్యైకైవ। కౌషీతకి-ప్రాణ-విద్యాయాస్ తస్యాశ్ చ భేదోఽస్తి, ఉత నాస్తీతి సṁశయః। అస్తి భేద ఇతి పూర్వః పక్షః। యద్య్ అపి సర్వత్ర జ్యైష్ఠ్య-శ్రైష్ఠ్య-గుణకః ప్రాణ ఏక ఏవోపాస్యః; తథాపి చ్ఛన్దోగానాṁ వాజసనేయినాṁ చ జ్యైష్ఠ్య-శ్రైష్ఠ్య-గుణకస్య ప్రాణస్య వాగ్-ఆది-గత-వసిష్ఠత్వాది-గుణ-సమ్బన్ధిత్వమ్ అపి శబ్దాద్ ఏవ ప్రతీయతే। కౌషీతకినాṁ తు న తథేతి రూప-భేదాద్ విద్యా-భేదః। రాద్ధాన్తస్ తు--- యద్య్ అపి కౌషీతకి-ప్రాణ-విద్యాయాṁ వాగ్-ఆది-భాత-వసిష్టత్వాది-సమ్బన్ధిత్వమ్ అపి ప్రాణస్య శబ్దాన్ నాభిహితమ్, తథాపి తత్రాపి ప్రాణస్య జ్యేష్ఠ్య-శ్రేష్ఠ్యోపపాదనṁ వాగ్-ఆదీనాṁ స్థితేస్ తత్-తత్-కార్యస్య చ ప్రాణాధీనత్వేనేత్య్ ఏతద్ అవిశిష్టమ్ ఇతి వాగ్-ఆది-గత-వసిష్ఠత్వాదేర్ అపి ప్రాణ-హేతుకత్వానుసన్ధానేన వినా ప్రాణస్య జ్యైష్ఠ్య-శ్రేష్ఠ్యానుసన్ధానమ్ అనుపపన్నమ్ ఇతి కౌషీతకి-ప్రాణ-విద్యాయామ్ అపి వాగ్-ఆది-గత-వసిష్ఠత్వాది-సమ్బన్ధ్య్ ఏవ ప్రాణ ఉపాస్య ఇతి రూపాభేదాద్ విద్యైక్యమ్॥
Link copiedసూత్రార్థస్ తు--- సర్వాభేదాద్ అన్యత్రేమే। అన్యత్ర--- కౌషీతకి-ప్రాణవిద్యాయామ్ అపి, ఇమే వసిష్ఠత్వాదయః సన్త్య్ ఏవ। కుతః। సర్వాభేదాత్--- ప్రాణ-జ్యైష్ఠ్య-శ్రైష్ఠ్యోపపాదన-ప్రకారస్య సర్వస్య తత్రాప్య్ అభేదాత్। వాగ్-ఆదీనాṁ స్థితేః కార్యస్య చ ప్రాణ-హేతుత్వేన హి ప్రాణస్య జ్యైష్ఠ్యṁ శ్రైష్ఠ్యṁ చాత్రాప్య్ ఉపపాదితమ్। అతో వాగ్-ఆది-గత-కార్య-సామర్థ్య-రూప-వసిష్ఠత్వాది-సమ్బన్ధిత్వṁ ప్రాణస్యాత్రాప్య్ ఉక్తమ్ ఏవేత్య్ అర్థః॥౧౦॥ ఇతి సర్వాభేదాధికరణమ్॥౩॥
Link copied౩౬౫। ఆనన్దాదయః ప్రధానస్య॥౩।౩।౧౧॥
Link copiedసత్య-జ్ఞానానన్దామలత్వానన్తత్వ-రూపా బ్రహ్మ-స్వరూప-నిరూపక-గుణాః సర్వాసు పర-విద్యాసూపసṁహర్తవ్యాః, ఉత నేతి సṁశయః। నోపసṁహర్తవ్యా ఇతి పూర్వః పక్షః, అప్రకరణాధీతానామ్ ఉపసṁహారే ప్రమాణాభావాత్, బ్రహ్మ-గుణానామ్ అసఙ్ఖ్యేయత్వేనోపసṁహారాశక్తేశ్ చ। రాద్ధాన్తస్ తు--- జ్ఞానానన్దాదీనాṁ బ్రహ్మ-స్వరూప-నిరూపక-గుణత్వేన తైర్ వినా బ్రహ్మ-స్వరూపానుసన్ధానానుపపత్తేః సర్వాసూపసṁహర్తవ్యా ఇతి। సూత్రార్థస్ తు--- సర్వాభేదాద్ ఇత్య్ అతోఽభేదాద్ ఇతి వర్తతే, ఆనన్దాదయో గుణాః సర్వాసూపసṁహర్తవ్యాః, ప్రధానస్య--- గుణినో బ్రహ్మణః సర్వాసు విద్యాస్వ్ అభేదాత్। సర్వాసు పర-విద్యాసు బ్రహ్మైకమ్ ఏవానుసన్ధేయṁ చేత్, యైర్ గుణైర్ వినా బ్రహ్మ-స్వరూపానుసన్ధానమ్ అశక్యమ్, తే చ జ్ఞానానన్దాదయోఽనుసన్ధేయా ఇత్య్ అర్థః॥౧౧॥
Link copied౩౬౬। ప్రియశిరస్త్వాద్య్-అప్రాప్తిర్ ఉపచయాపచయౌ హి భేదే॥౩।౩।౧౨॥
Link copiedఆనన్దాదీనాṁ ప్రాప్తావ్ అపి--- తస్య ప్రియమ్ ఏవ శిరః, మోదో దక్షిణః పక్షః, ఇతి ప్రియశిరస్త్వాదీనామ్ అప్రాప్తిః, బ్రహ్మ-స్వరూప-గుణత్వాభావాత్ తేషామ్। బ్రహ్మణః శిరః-పక్షాది-భేదే స్వరూపే సతి బ్రహ్మణ ఉపచయాపచయౌ ప్రసజ్యేయాతామ్। తతశ్ చ--- సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ, ఆనన్దోఽజరః, ఇత్య్ ఆది విరుధ్యతే॥౧౨॥
Link copiedప్రియశిరస్త్వాదిభ్య ఆనన్దాదీనాṁ విశేషమ్ ఆహ---
Link copied౩౬౭। ఇతరే త్వ్ అర్థ-సామాన్యాత్॥౩।౩।౧౩॥
Link copiedఇతరే--- ఆనన్దాదయః, అర్థ-సామాన్యాత్--- బ్రహ్మ-స్వరూప-సామాన్యాత్ సర్వాస్వ్ అనువర్తన్తే। బ్రహ్మ-స్వరూప-నిరూప-రూపణ-ధర్మత్వేన బ్రహ్మ-స్వరూప-సమానా హి తే॥౧౩॥
Link copiedప్రియశిరస్త్వాదయో బ్రహ్మ-స్వరూప-ధర్మా న భవన్తి చేత్; తద్-అభిధానṁ కిమ్ అర్థమ్ ఇత్య్ అత ఆహ---
Link copied౩౬౮। ఆధ్యానాయ ప్రయోజనాభావాత్॥౩।౩।౧౪॥
Link copiedఅనుచిన్తనార్థṁ తద్-అభిధానṁ, ప్రయోజనాన్తరాభావాత్। బ్రహ్మ-విద్ ఆప్నోతి పరమ్ ఇతి వేదితవ్యతయోపదిష్టṁ బ్రహ్మానన్ద-మయṁ ప్రియ-మోదాది-రూపేణ విభజ్య శిరః-పక్షాదిత్వేన రూపయిత్వా బుద్ధావ్ ఆరోప్యత ఇత్య్ అర్థః॥౧౪॥
Link copied౩౬౯। ఆత్మ-శబ్దాచ్ చ॥౩।౩।౧౫॥
Link copiedఅన్యోఽన్తర ఆత్మానన్ద-మయః, ఇత్య్ ఆత్మ-శబ్దాచ్ చ ప్రియశిరస్త్వాదయో న బ్రహ్మ-స్వరూప-ధర్మాః; శిరః-పక్షాదయో హి నాత్మ-ధర్మాః॥౧౫॥
Link copied౩౭౦। ఆత్మ-గృహీతిర్ ఇతరవద్ ఉత్తరాత్॥౩।౩।౧౬॥
Link copiedఅన్యోఽన్తర ఆత్మేత్య్ ఆత్మ-శబ్దేన పరమాత్మన ఏవ గృహీతిః--- గ్రహణమ్; ఇతరవత్--- ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీత్, ఇత్య్ ఆత్మ-శబ్దేన యథా పరమాత్మనో గ్రహణమ్, తద్వత్। కథమ్ ఇదమ్ అవగమ్యతే। తద్-ఏకార్థాద్ ఉత్తరాత్--- సోఽకామయత, బహు స్యాṁ ప్రజాయేయేత్య్ ఆది వాక్యాత్॥
Link copied౩౭౧। అన్వయాద్ ఇతి చేత్ స్యాద్ అవధారణాత్॥౩।౩।౧౭॥
Link copiedపూర్వేషు--- అన్యోఽన్తర ఆత్మా ప్రాణమయః, ఇత్య్ ఆది వాక్యేష్వ్ అనాత్మస్వ్ అప్య్ ఆత్మ-శబ్దాన్వయాత్ కథమ్ ఉత్తర-వాక్యాన్ నిర్ణయ ఇతి చేత్; తస్మాద్ వా ఏతస్మాద్ ఆత్మన ఆకాశః సమ్భూతః ఇతి ప్రకృతస్యాత్మన ఏవ ప్రాణ-మయాదిష్వ్ ఆనన్ద-మయ-పర్యన్తేష్వ్ ఆత్మ-శబ్దేనావధారణాత్ స్యాద్ ఏవ నిర్ణయః। అతః ప్రియశిరస్త్వాదీనామ్ అనాత్మ-ధర్మత్వాత్, జ్ఞానానన్దాదీనామ్ ఆత్మ-స్వరూప-నిరూపణ-ధర్మత్వాచ్ చ, తేషామ్ ఏవ సర్వత్రోపసṁహారః॥౧౭॥ ఇత్య్ ఆనన్దాద్య్-అధికరణమ్॥౪॥
Link copied౩౭౨। కార్యాఖ్యానాద్ అపూర్వమ్॥౩।౩।౧౮॥
Link copiedఛాన్దోగ్య-వాజసనేయకయోర్ జ్యేష్ఠṁ చ శ్రేష్ఠṁ చ ప్రాణమ్ ఉపాస్యṁ విధాయ, సహోవాచ కిṁ మే వాసో భవిష్యతీత్య్ ఆప ఇతి హోచుః, ఇత్య్ అపాṁ ప్రాణస్య వాసస్త్వమ్ ఉక్త్వా, తస్మాద్ వా ఏతద్ అశిష్యన్తః పురస్తాచ్ చోపరిష్టాచ్ చాద్భిః పరిదధతి లమ్భుకో హ వాసో భవత్య్ అనగ్నో భవతి, ఇతి చ్ఛాన్దోగ్యే। వాజసనేయకే చాపాṁ ప్రాణ-వాసస్త్వమ్ ఉక్త్వా, తస్మాద్ ఏవṁవిద్ అశిష్యన్న్ ఆచామేద్ అశిత్వా చాచామేద్ ఏతమ్ ఏవ తద్ అన్నమ్ అనగ్నṁ కురుతే, ఇతి। ఆచమనేన ప్రాణమ్ అనగ్నṁ కురుత ఇత్య్ అర్థః। అత్రాశనాత్ పురస్తాద్ ఉపరిష్టాచ్ చ కిమ్ ఆచమనṁ ప్రాణ-విద్యాఙ్గṁ విధీయతే, ఉతాచమనీయానామ్ అపాṁ ప్రాణ-వాసస్త్వానుసన్ధానṁ విధీయత ఇతి సṁశయః। ఆచామేద్ ఇత్య్ ఆచమనే విధి-ప్రత్యయ-శ్రవణాత్, స్మృత్య్-ఆచార-ప్రాప్తాద్ ఆచమనాద్ ఆచమనాన్తరṁ ప్రాణ-విద్యాఙ్గṁ విధీయత ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అశిత్వా చాచామేద్ ఇత్య్ ఆచమనṁ చాత్ర ప్రతీయతే; ఆచమనీయానామ్ అపాṁ ప్రాణ-వాసః స్వానుసన్ధానṁ చ, ఆపో వాసః, అద్భిః పరిదధతి, ఏతమ్ ఏవ తద్ అన్నమ్ అనగ్నṁ కురుతే, ఇతి ప్రతీయతే। తత్రాచమనṁ తావత్ స్మృత్య్-ఆచార-ప్రాప్తమ్; అపాṁ ప్రాణ-వాసస్త్వానుసన్ధానమ్ అప్రాప్తమ్। అనగ్నṁ కుర్వన్తో మన్యతే। అనగ్నṁ కురుతే, ఇత్య్ అనువాద-సరూపṁ ప్రతీయతే। తత్రాచమనాన్తర-కల్పనాద్ ఆచమనమ్ అనూద్యాచమనీయానామ్ అపాṁ ప్రాణ-వాసస్త్వానుసన్ధానమ్ అప్రాప్తṁ విధీయత ఇతి యుక్తమ్। తద్ అన్నమ్ అనగ్నṁ కురుతే, ఇతి వచనాని త్వ్ అపూర్వత్వాత్, విధిర్ వాస్యాద్ అపూర్వత్వాత్, ఇతి న్యాయేన విధి-వచనమ్ ఏవ భవతి। సూత్రార్థస్ తు--- అపూర్వమ్, అప్రాప్తమ్ అపాṁ ప్రాణ-వాసస్త్వానుసన్ధానṁ విధేయమ్, న పునః ప్రాప్తమ్ ఆచమనమ్। కుతః। కార్యాఖ్యానాత్--- కార్యస్య అప్రాప్తార్థస్యాఖ్యాన-స్వభావత్వాచ్ ఛాస్త్రస్యేత్య్ అర్థః॥౧౮॥ ఇతి కార్యాఖ్యానాధికరణమ్॥౫॥
Link copied౩౭౩। సమాన ఏవṁ చాభేదాత్॥౩।౩।౧౯॥
Link copiedవాజసనేయకేఽగ్నిరహస్యే బృహదారణ్యకే చ శాణ్డిల్య-విద్యామ్నాతా। అగ్నిరహస్యే తావత్--- స ఆత్మానమ్ ఉపాసీత మనో-మయṁ ప్రాణ-శరీరṁ భా-రూపṁ సత్య-సఙ్కల్పమ్ ఆకాశాత్మానమ్ ఇతి। బృహదారణ్యకే చ--- మనో-మయోఽయṁ పురుషో భాః సత్యṁ తస్మిన్న్ అన్తర్ హృదయే యథా వ్రీహిర్ వా యవో వా స ఏష సర్వస్య వశీ సర్వస్యేశానః సర్వస్యాధిపతిః సర్వమ్ ఇదṁ ప్రశాస్తి, ఇతి। కిమ్ అత్ర విద్యా-భేదః, ఉత నేతి సṁశయః। ఏకత్ర సత్య-సఙ్కల్పత్వమ్ అధికṁ శ్రుతమ్; ఇతరత్ర వశిత్వాదయోఽధికా ఇతి రూప-భేదాద్ విద్యా-భేద ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు---ఉభయత్ర మనో-మయత్వాదికే సమానే సతి వశిత్వాదేః సత్య-సఙ్కల్పత్వ-వితతి-రూపతయా తేనాభేదాన్ న రూప-భేద ఇతి విద్యైక్యమ్। సూత్రార్థస్ తు--- మనో-మయత్వాదికే సమానే సతి విద్యైక్యమ్, ఏవṁ చాభేదాత్--- వశిత్వాది-గుణేనాప్య్ అభేదాత్। వశిత్వాదిర్ హి సత్య-సఙ్కల్పత్వ-వితతిః॥౧౯॥ ఇతి సమానాధికరణమ్॥౬॥
Link copied౩౭౪। సమ్బన్ధాద్ ఏవమ్ అన్యత్రాపి॥౩।౩।౨౦॥
Link copiedబృహదారణ్యకే--- య ఏష ఏతస్మిన్ మణ్డలే పురుషో యశ్ చాయṁ దక్షిణోఽక్షిన్, ఇత్య్ ఉపక్రమ్య ఆదిత్య-మణ్డలేఽక్షణి చ సత్యస్య బ్రహ్మణో వ్యాహృతి-శరీరత్వేనోపాస్యత్వమ్ ఉక్త్వా, తస్యోపనిషద్ అహర్ ఇత్య్ అధిదైవతమ్, తస్యోపనిషద్ అహమ్ ఇత్య్ అధ్యాత్మమ్ ఇతి ద్వే రహస్య-నామనీ ఉపాసన-శేషతయామ్నాయేతే। తే కిṁ యథాశ్రుత-స్థాన-నియతే, ఉతోభయత్రోభే ఇతి సṁశయః। ఉభయోః స్థానయోర్ ఏక-రూపస్యైవోపాస్యత్వాద్ విద్యైక్యమ్ ఇత్య్ అనియతే నామనీ ఇతి పూర్వః పక్షః। అక్ష్య్-ఆదిత్య-స్థాన-సమ్బన్ధిత్వ-రూపాకార-భేదాద్ రూప-భేద ఇతి విద్యా-భేదాద్ ద్వే నామనీ నియతే ఇతి రాద్ధాన్తః। సూత్రార్థస్ తు--- యథా మనో-మయత్వాది-గుణ-విశిష్టస్యైకస్యైవోపాస్యత్వేనోభయత్ర విద్యైక్యమ్; ఏవమ్ అన్యత్రాక్ష్య్-ఆదిత్యాధారస్యాప్య్ ఏకస్యైవ సత్యస్య బ్రహ్మణః స్థాన-ద్వయ-సమ్బన్ధాన్ న రూప-భేద ఇతి విద్యైక్యాద్ ద్వే నామనీ అనియతే॥౨౦॥
Link copied౩౭౫। న వా విశేషాత్॥౩।౩।౨౧॥
Link copiedన చైతద్ అస్తి యద్ విద్యైక్యాద్ ఉభయత్రోభే నామనీ అనియతే ఇతి। కుతః। విశేషాత్। ఉభయత్ర హి రూపṁ విశిష్యతే, ఏకత్రాదిత్య-స్థాన-సమ్బన్ధి ఇతరత్రాక్షి-స్థాన-సమ్బన్ధి బ్రహ్మేతి రూప-భేదాద్ విద్యా-భేద ఇతి నియతే నామనీ॥౨౧॥
Link copied౩౭౬। దర్శయతి చ॥౩।౩।౨౨॥
Link copiedదర్శయతి చ శ్రుతిర్ విద్యా-భేదేన గుణానుపసṁహారమ్--- తస్యైతస్య తద్ ఏవ రూపṁ యద్ అముష్య రూపమ్ ఇత్య్ ఆదినా రూపాద్య్-అతిదేశేన। స్వతో హ్య్ అప్రాప్తావ్ అతిదేశేన ప్రాప్త్య్-అపేక్షా॥౨౨॥ ఇతి సమ్బన్ధాధికరణమ్॥౭॥
Link copied౩౭౭। సమ్భృతి-ద్యు-వ్యాప్త్య్ అపి చాతః॥౩।౩।౨౩॥
Link copiedతైత్తిరీయకే రాణాయనీయానాṁ ఖిలేషు చ--- బ్రహ్మ జ్యేష్ఠా వీర్యా సమ్భృతాని బ్రహ్మాగ్రే జ్యేష్ఠṁ దివమ్ ఆతతాన। బ్రహ్మ భూతానాṁ ప్రథమో జజ్ఞే తేనార్హతి బ్రహ్మణా స్పర్ధితుṁ కః, ఇతి బ్రహ్మణి జ్యేష్ఠానాṁ గుణానాṁ సమ్భృతిర్ ద్యు-వ్యాప్తిశ్ చేత్య్ ఆది-గుణ-జాతమ్ ఆమ్నాతమ్। కిమ్ ఏషాṁ సర్వాసు విద్యాసూపసṁహారః, ఉత స్థాన-విశేషోపాసనేషు నియమ ఇతి సṁశయః। అనారభ్యాధీతత్వాద్ ఏషాṁ సర్వాసూపసṁహారః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యద్య్ అపి న స్థాన-విశేష-సమ్బన్ధ్య్-ఉపాసనమ్ ఆరభ్యాధీతా ఏతే; తథాపి ద్యు-వ్యాప్తి-సామర్థ్యాత్ తస్య హృదయాద్య్-అల్ప-స్థానేషూపసṁహారాయోగాత్ తత్-సాహచర్యాచ్ చేతరేషామ్ అల్ప-స్థాన-విహితాసు విద్యాసు నోపసṁహారః, ఇతి। సూత్రార్థస్ తు--- సమ్భృతి-ద్యు-వ్యాప్తీతి సమాహార-ద్వన్ద్వైకవద్ భావః। సమ్భృతి-ప్రభృతి-గుణ-జాతమ్ అప్య్ అత ఏవ--- స్థాన-విశేష-సమ్బన్ధ-నియమాన్ నియతమ్; న సర్వత్రోపసṁహార్యమ్। ద్యు-వ్యాప్తిర్ హి స్వ-సామర్థ్యాద్ అల్ప-స్థానానహతయా తద్-ఇతర-స్థాన-నియతా। సమ్భృత్య్-ఆద్య్ అపి తత్-సాహచర్యాత్ తథైవ॥౨౩॥ ఇతి సమ్భృత్య్-అధికరణమ్॥౮॥
Link copied౩౭౮। పురుష-విద్యాయామ్ అపి చేతరేషామ్ అనామ్నానాత్॥౩।౩।౨౪॥
Link copiedతైత్తిరీయకే పురుష-విద్యామ్నాతా, తస్యైవṁ విదుషో యజ్ఞస్యాత్మా యజమానః శ్రద్ధా పత్నీ శరీరమ్ ఇత్య్ ఆదికా। ఛాన్దోగ్యేఽపి--- పురుషో వావ యజ్ఞస్ తస్య యాని చతుర్-విṁశతి-వర్షాణి, ఇత్య్ ఆదికా। కిమ్ అత్ర విద్యా-భేదః, ఉత నేతి సṁశయః। పురుష-విద్యేతి సṁజ్ఞైక్యాత్, తైత్తిరీయకే ఫల-సమ్బన్ధానామ్నానాత్, ఛాన్దోగ్యే--- శతṁ జీవతి, ఇత్య్ అనేనైక-ఫలత్వాచ్ చ విద్యైక్యమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- పురుష-విద్యేతి సṁజ్ఞైక్యేఽపి సవన-త్రయ-కల్పనా-ప్రకార-భేదాద్ యజమాన-పత్న్య్-ఆది-కల్పనా-ప్రకార-భేదాచ్ చ రూప-భేదాత్, తైత్తిరీయకే పూర్వానువాక-గతస్య--- బ్రహ్మణో మహిమానమ్ ఆప్నోతి, ఇతి బ్రహ్మ-విద్యా-ఫలస్యైవ సన్నిధానాద్ అఫలస్యాస్య తద్-అఙ్గతయా తత్-ఫలత్వాత్ ఫల-భేదాచ్ చ విద్యా-భేదః। సూత్రార్థస్ తు--- పురుష-విద్యాయామ్ అప్య్ ఉభయత్ర రూప-భేదాద్ విద్యా-భేదః। కుతః। ఇతరేషామ్ అనామ్నానాత్--- ఇతర-శాఖోదితానాṁ తద్-ఇతర-శాఖాయామ్ అనామ్నానాత్। ఛాన్దోగ్యే తైత్తిరీయకామ్నాతానాṁ యజమాన-పత్న్య్-ఆదీనాṁ సవనానాṁ చానామ్నానాత్, తైత్తిరీయకే చ ఛాన్దోగ్యామ్నాతానాṁ యజ్ఞావయవానామ్ అనామ్నానాద్ ఇత్య్ అర్థః। తైత్తిరీయకే హి--- ఆత్మా యజమానః శ్రద్ధా పత్నీ, ఇతి యజమానాది-కల్పనమ్, యత్ సాయṁ ప్రాతర్ మధ్యన్దినṁ చ తాని సవనాని, ఇతి చ సవన-త్రయ-కల్పనమ్; ఛాన్దోగ్యే చాశిశిషాదీనాṁ దీక్షాత్వాది-కల్పనమ్, పురుషాయుషṁ త్రేధా విభజ్య సవన-త్రయ-కల్పనṁ చేతి యజ్ఞావయవ-కల్పన-ప్రకార-భేదాద్ రూప-భేదః స్పష్టః। ఫలమ్ అపి తథైవేతి। ఇతరేషామ్ ఇతి ఫలస్యాపి గ్రహణమ్॥౨౪॥ ఇతి పురుష-విద్యాధికరణమ్॥।౯॥
Link copied౩౭౯। వేధాద్య్-అర్థ-భేదాత్॥౩।౩।౨౫॥
Link copiedఆథర్వణికాస్ తైత్తిరీయకా ఐతరేయిణ ఇత్య్ ఏవమ్ ఆదయః ఉపనిషద్-ఆరమ్భేషు--- శుక్రṁ ప్రవిధ్య హృదయṁ ప్రవిధ్య, శṁ నో మిత్రః శṁ వరుణః, సహ నావ్ అవతు, ఇత్య్ ఆది మన్త్రాన్ మహావ్రతాదీని చ కర్మాణ్య్ అధీయతే। కిమ్ ఏషాṁ విద్యాఙ్గత్వమ్, ఉత నేతి సṁశయః। సన్నిధి-సమామ్నానాద్ విద్యాఙ్గత్వమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- శుక్రṁ ప్రవిధ్య హృదయṁ ప్రవిధ్యేత్య్ ఆది మన్త్ర-సామర్థ్యాత్, మహావ్రతాదీనాṁ చ కర్మణాṁ శ్రుత్య్-ఆదిభిశ్ చాభిచార-ద్వాదశాహాదిషు వినియోగవత్, శṁ నో మిత్రః శ వరుణః, సహనావవతు, ఇత్య్ ఆదేర్ మన్త్రస్య చ, ఋతṁ వదిష్యామి, సత్యṁ వదిష్యామి, తేజస్వి నావధీతమ్ అస్తు, ఇతి మన్త్ర-సామర్థ్యాద్ అధ్యయనే వినియోగ ఇతి న విద్యాఙ్గత్వమ్। సూత్రార్థస్ తు--- వేధాద్య్-అర్థ-భేదాద్ ఇత్య్ అస్య వేధాద్య్-అర్థ-భేదవత్, సత్యṁ వదిష్యామి, తేజస్వి నావధీతమ్ అస్తు, ఇతి శṁ నో మిత్రాదేర్ మన్త్రస్యాప్య్ అధ్యయన-సమ్బన్ధ-రూపార్థ-భేదాన్ న విద్యాఙ్గ్త్వమ్ ఇత్య్ అభిప్రాయః। అతః శṁ నో మిత్రాది-మన్త్ర ఏవాధికరణస్య విషయః॥౨౫॥ ఇతి వేధాద్య్-అధికరణమ్॥౧౦॥
Link copied౩౮౦। హానౌ తూపాయన-శబ్ద-శేషత్వాత్ కుశాచ్ఛన్దః స్తుత్య్-ఉపగానవత్ తద్ ఉక్తమ్॥౩।౩।౨౬॥
Link copiedవిదుషో బ్రహ్మ ప్రాప్నువతః పుణ్య-పాపయోర్ విర్మోచనṁ ద్వయోః శాఖయోః శ్రుతమ్; విముక్తయోః పుణ్య-పాపయోర్ అన్యత్ర ప్రవేశ ఏకస్యాṁ శాఖాయాṁ శ్రుతః; విమోచనṁ ప్రవేశశ్ చోభయమ్ ఏకస్యామ్। తదా విద్వాన్ పుణ్య-పాపే విధూయ నిరఞ్జనః పరమṁ సామ్యమ్ ఉపైతి, అశ్వ ఇవ రోమాణి విధూయ పాపṁ చన్ద్ర ఇవ రాహోర్ ముఖాత్ ప్రముచ్య। ధూత్వా శరీరమ్ అకృతṁ కృతాత్మా బ్రహ్మ-లోకమ్ అభిసమ్భవాని, ఇతి చ కేవల-విమోచనమ్; తస్య పుత్రా దాయమ్ ఉపయన్తి సుహృదః సాధు-కృత్యాṁ ద్విషన్తః పాప-కృత్యామ్ ఇతి కేవల-ప్రవేశః; తత్ సుకృత-దుష్కృతే ధూనుతే తస్య ప్రియా జ్ఞాతయః సుకృతమ్ ఉపయన్త్య్ అప్రియా దుష్కృతమ్ ఇత్య్ ఉభయమ్। కిṁ కేవల-హాని-చిన్తనṁ కేవలోపాయన-చిన్తనమ్ ఉభయ-చిన్తనṁ చ సర్వాసు విద్యాసు వికల్పేనానుష్ఠేయమ్, ఉత సముచ్చయేనేతి సṁశయః। తథామ్నాతస్యార్థవత్త్వాయ వికల్ప ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- పుణ్య-పాప-ప్రవేశస్య విమోచనాపేక్షత్వేన శాఖాన్తర-స్థస్యాపి ప్రవేశ-వాక్యస్య శాఖాన్తర-స్థ-విమోచన-వాక్య-శేషత్వాద్ వాక్య-ద్వయేనైకార్థ-విధానాత్ సముచ్చయః। ఏకస్యాṁ శాఖాయామ్ ఉభయ-విధానṁ ప్రతిపత్తృ-భేదేన పరిహ్రియతే॥
Link copiedసూత్రార్థస్ తు--- హానౌ త్వ్ ఇతి తు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। హానావ్ ఇతి ప్రదర్శనార్థమ్; కేవల-విమోచనే కేవలే చోపాయనే శ్రూయమాణే తయోర్ ఇతరేతర-సముచ్చయోఽవశ్యమ్భావీ। కుతః। ఉపాయన-శబ్ద-శేషత్వాత్--- ఉపాయన-శబ్దస్య హాని-వాక్య-శేషత్వాద్ ఇత్య్ అర్థః। త్యక్తయోః పుణ్య-పాపయోః ప్రవేశ-స్థాన-వాచిత్వాద్ ఉపాయన-వాక్యస్య హాని-వాక్య-శేషత్వమ్ అవగమ్యతే। ప్రదేశాన్తరామ్నాత-వాక్యస్య ప్రదేశాన్తరామ్నాత-వాక్య-శేషత్వే దృష్టాన్తాన్ ఆహ--- కుశాచ్ఛన్దః స్తుత్య్-ఉపగానవద్ ఇతి। యథా--- వానస్పత్యాః కుశాః, ఇతి ప్రదేశాన్తరామ్నాతస్య వాక్యస్య, ఔదుమ్బర్యః కుశాః, ఇతి తద్-విశేష-వాచి-ప్రదేశాన్తర-స్థమ్; యథా చ--- దేవాసురాణాṁ ఛన్దోభిః, ఇతి సామాన్యతః ప్రదేశాన్తరామ్నాతస్య, దేవ-చ్ఛన్దాṁసి పూర్వమ్ ఇతి తత్-క్రమ-విశేష-వాచి ప్రదేశాన్తర-స్థమ్; యథా చ--- హిరణ్యేన షోడశినః స్తోత్రమ్ ఉపాకరోతి, ఇతి ప్రదేశాన్తర-స్థస్య తత్-కాల-విశేష-వాచి, సమయావిషితే సూర్య షోడశినః స్తోత్రమ్ ఉపాకరోతి, ఇతి ప్రదేశాన్తర-స్థమ్; యథా చ--- ఋత్విజ ఉపగాయన్తి, ఇతి ప్రదేశాన్తర-స్థస్య, నాధ్వర్యుర్ ఉపగాయేత్, ఇతి తత్-పర్యుదాస-రూపṁ ప్రదేశాన్తర-స్థమ్; ఏవమ్ ఉపాయన-వాక్యస్య హాని-వాక్య-శేషతయా సమ్భవన్త్యాṁ గతౌ న వికల్పో యుక్తః। తద్ ఉక్తṁ పూర్వస్మిన్ కాణ్డే--- అపి తు వాక్య-శేషః స్యాద్ అన్యాయ్యత్వాద్ వికల్పస్య, ఇత్య్ ఆదినా॥౨౬॥ ఇతి హాన్య్-అధికరణమ్॥౧౧॥
Link copied౩౮౧। సామ్పరాయే తర్తవ్యాభావాత్ తథా హ్య్ అన్యే॥౩।౩।౨౭॥
Link copiedకిమ్ ఇదṁ సుకృత-దుష్కృతయోర్ హాని-చిన్తనṁ దేహ-వియోగ-కాలే ఏకదేశః క్షీయతే, అధ్వని శిష్టమ్ ఇత్య్ ఉభయత్ర కర్తవ్యమ్, ఉత దేహ-వియోగ-కాల ఏవ సర్వṁ క్షీయత ఇతి సṁశయః। ఉభయత్ర శ్రుతేర్ దేవయానేన పథా గమనాన్యథానుపపత్త్యా చోభయత్రేతి పూర్వః పక్షః, అశ్వ ఇవ రోమాణి విధూయ పాపṁ చన్ద్ర ఇవ రాహోర్ ముఖాత్ ప్రముచ్య, ధూత్వా శరీరమ్ అకృతṁ కృతాత్మా బ్రహ్మ-లోకమ్ ఇతి దేహ-వియోగ-కాలే, స ఆగచ్ఛతి విరజాṁ నదీṁ\॥॥తత్ సుకృత-దుష్కృతే ధూనుతే ఇత్య్ అధ్వన్య్ అపి హాని-శ్రుతేః। దేహ-వియోగ-కాలే సర్వ-కర్మ-క్షయే హి దేవయానేన గమన-సాధనṁ కర్మ న సమ్భవతి। రాద్ధాన్తస్ తు--- తస్య తావద్ ఏవ చిరṁ యావన్ న విమోక్ష్యే అథ సమ్పత్స్యే, ఇతి దేహ-వియోగాద్ ఊర్ధ్వṁ బ్రహ్మ-ప్రాప్తి-వ్యతిరేకేణానుభావ్య-పుణ్య-పాప-ఫలాభావాత్, అశ్వ ఇవ రోమాణి విధూయ పాపమ్ ఇత్య్ ఆదినైకార్థ్యాత్, అధ్వన్య్ ఆమ్నాతమ్ అపి, తత్ సుకృత-దుష్కృతే ధూనుతే ఇతి వాక్యṁ దేహ-వియోగ-కాలే సఙ్గమయితవ్యమ్ ఇతి దేహ-వియోగ-కాల ఏవ హాని-చిన్తనమ్। సర్వ-కర్మ-క్షయేఽపి హి విద్యా-సామర్థ్యాద్ ఏవ దేవయానేన పథా గమనṁ చోపపద్యతే। విద్యా హి స్వయṁ సూక్ష్మ-శరీరస్యానారమ్భికాపి ప్రకృత-సుఖ-దుఃఖోపభోగ-సాధన-స్థూల-శరీరస్య సర్వ-కర్మణాṁ చ నిరవశేష-క్షయేఽపి స్వ-ఫల-భూత-బ్రహ్మ-ప్రాప్తి-ప్రతిపాదనాయ దేవయానేన పథైన గయితుṁ సూక్ష్మ-శరీరṁ స్థాపయతి॥
Link copiedసూత్రార్థస్ తు--- సామ్పరాయే, దేహ-వియోగ-కాల ఏవ చిన్తనీయః। కుతః। తర్తవ్యాభావాత్--- దేహ-వియోగాద్ ఊర్ధ్వṁ బ్రహ్మ-ప్రాప్తి-వ్యతిరేకేణ తరితవ్య-భోగాభావాత్। తథా హ్య్ అన్యేఽధీయతే--- తస్య తావద్ ఏవ చిరṁ యావన్ న విమోక్ష్యే, అథ సమ్పత్స్యే, ఇతి, అశరీరṁ వావ సన్తṁ న ప్రియాప్రియే స్పృశతః, ఇతి చ॥౨౭॥
Link copied౩౮౨। ఛన్దత ఉభయావిరోధాత్॥౩।౩।౨౮॥
Link copiedఏవమ్ అర్థ-స్వాభావ్యాద్ దేహ-వియోగ-కాల ఏవ నిరవశేష-కర్మ-క్షయేఽవధృతే సతి, తత్ సుకృత-దుష్కృతే ధూనుతే ఇతి వాక్య-ఖణ్డః ఉభయావిరోధాత్--- ఉభయ-శ్రుత్య్-అవిరోధాచ్ ఛన్దతో నేయః, అశ్వ ఇవ రోమాణి విధూయ పాపṁ\॥॥ధూత్వా శరీరమ్ అకృతమ్, తస్య తావద్ ఏవ చిరమ్ ఇత్య్ ఉభయ-శ్రుత్య్-అవిరోధాచ్ చరమ-శ్రుతోఽపి, తత్ సుకృత-దుష్కృతే ధూనుతే ఇతి వాక్య-ఖణ్డః, ఏతṁ దేవయానṁ పన్థానమ్ ఆపద్యతే, ఇతి ప్రథమ-శ్రుత-ఖణ్డాత్ ప్రాగ్ అనుగమయితవ్య ఇత్య్ అర్థః॥౨౮॥
Link copiedఅత్ర చోదయతి---
Link copied౩౮౩। గతేర్ అర్థవత్త్వమ్ ఉభయధాన్యథా హి విరోధః॥౩।౩।౨౯॥
Link copiedదేవయానేన గతి-శ్రుతేర్ అర్థవత్త్వṁ దేహ-వియోగ-కాలేఽధ్వని చేత్య్ ఉభయథా కర్మ-క్షయే సత్య్ ఏవ; అన్యథా దేహ-వియోగ-కాలే ఏవ సర్వ-కర్మ-క్షయే సతి సూక్ష్మ-శరీరస్యాప్య్ ఆరమ్భక-నాశేన స్థిత్య్-అనుపపత్తేర్ దేవయాన-గతి-శ్రుతిర్ హి విరుధ్యతే॥౨౯॥
Link copiedపరిహరతి---
Link copied౩౮౪। ఉపపన్నస్ తల్-లక్షణార్థోపలబ్ధేర్ లోకవత్॥౩।౩।౩౦॥
Link copiedభగవన్తమ్ ఉపాసీనానాṁ దేహ-వియోగ-కాలే సర్వ-కర్మ-క్షయేఽప్య్ ఉపపన్నో దేవయానః పన్థాః। కుతః। తల్-లక్షణార్థోపలబ్ధేః--- తల్-లక్షణార్థః, తజ్-జాతీయార్థః, అకర్మ-లభ్యార్థోపలబ్ధేర్ ఇత్య్ అర్థః। ఉపలభ్యతే హ్య్ అకర్మ-లభ్యార్థో బ్రహ్మోపాసీనానాṁ--- స స్వరాడ్ భవతి తస్య సర్వేషు లోకేషు కామ-చారో భవతి, ఇత్య్ ఆదిషు। లోకవత్--- యథా లోకే రాజానమ్ ఉపాసీనానాṁ ప్రాకృత-పురుషాసాధారణాతిరమణీయానేకార్థ-సిద్ధిః; తద్వత్ సర్వ-జ్ఞṁ సత్య-సఙ్కల్ప మహోదారṁ పరṁ బ్రహ్మోపాసీనానాṁ సర్వమ్ ఉపపన్నమ్ ఇత్య్ అర్థః॥౩౦॥
Link copiedపరṁ బ్రహ్మోపాసీనానాṁ దేహపాత-సమయే సర్వ-కర్మ-క్షయాద్ దేహ-పాతాద్ ఊర్ధ్వṁ కర్మ-ఫలానుభవో న విద్యత ఇత్య్ ఏతన్ న సమ్భవతి, వసిష్ఠాదీనాṁ జ్ఞానినామ్ అపి కర్మ-ఫల-రూప-దేహాన్తర-సṁయోగః, పుత్ర-జన్మ-విపత్త్య్-ఆదిషు సుఖ-దుఃఖానుభవోఽపి దృశ్యతే, ఇత్య్ ఆశఙ్క్యాహ---
Link copied౩౮౫। యావద్-అధికారమ్ అవస్థితిర్ ఆధికారికాణామ్॥౩।౩।౩౧॥
Link copiedయేషాṁ జ్ఞానినాṁ దేహ-పాతాద్ అనన్తరమ్ అర్చిర్-ఆదికా గతిః ప్రాప్తా; తేషాṁ దేహ-పాతాద్ ఊర్ధ్వṁ తరితవ్య-కర్మ-ఫల-భోగాభావాద్ దేహ-పాత-సమయ ఏవ సర్వ-కర్మ-క్షయ ఉక్తః। వసిష్ఠాదీనాṁ త్వ్ ఆధికారికాణాṁ యావద్-అధికార-సమాప్తి నార్చిర్-ఆదికా గతిర్ అస్తి; అపి త్వ్ అధికారేఽవస్థితిర్ ఏవ, అధికార-హేతు-భూత-కర్మణః ఫల-దానాయారబ్ధత్వాత్। జ్ఞానినోఽప్య్ ఆరబ్ధṁ హి కర్మ ఫలానుభవేనైవ క్షీయతే॥౩౧॥ ఇతి సామ్పరాయాధికరణమ్॥౧౨॥
Link copied౩౮౬। అనియమః సర్వేషామ్ అవిరోధః శబ్దానుమానాభ్యామ్॥౩।౩।౩౨॥
Link copiedయేషూపాసనేషూపకోసలాదిష్వ్ అర్చిర్-ఆదికా గతిరామ్నాతా కిṁ తన్-నిష్ఠానామ్ ఏవ తయా బ్రహ్మ-ప్రాప్తిః, ఉత సర్వేషాṁ బ్రహ్మోపాసన-నిష్ఠానామ్ ఇతి సṁశయః। తన్-నిష్ఠానామ్ ఏవేతి పూర్వః పక్షః, ఇతరేషాṁ తయా బ్రహ్మ-ప్రాప్తౌ ప్రమాణాభావాత్। యత్ తు పఞ్చాగ్ని-విద్యాయాṁ సాధారణṁ వచనమ్, తద్ అప్య్ ఉపకోసలాది-విషయమ్ ఇతి నిశ్చీయతే। అన్యథోపకోసలాదిష్వ్ ఆమ్నానానర్థక్యṁ స్యాత్। రాద్ధాన్తస్ తు--- పఞ్చాగ్ని-విద్యాయాṁ, య ఏవమ్ ఏతద్ విదుః యే చామీ అరణ్యే శ్రద్ధాṁ సత్యమ్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి, ఇతి సామాన్యేన సర్వ-విషయṁ గతి-శ్రవణమ్ ఉపకోసలాదిష్వ్ ఆమ్నానṁ న బాధితుṁ క్షమమ్, సఙ్కోచకṁ చ న భవతి, విద్యా-స్తుత్య్-అర్థతయానువాదేనాప్య్ ఉపపత్తేః। అతః సర్వేషాṁ తథైవ బ్రహ్మ-ప్రాప్తిః। సూత్రార్థస్ తు--- అనియమః సర్వేషాṁ సర్వేషామ్ అవిశేషేణ తయైవ ప్రాప్తిః। కుతః। అవిరోధః శబ్దానుమానాభ్యాṁ--- తథా సత్య్ ఏవ శ్రుతి-స్మృతిభ్యామ్ అవిరోధః। శ్రుతిశ్ చ--- యే చేమేఽరణ్యే ఇత్య్ ఆదికా పఞ్చాగ్ని-విద్యాయాṁ నిదర్శితా; స్మృతిః--- అగ్నిర్ జ్యోతిర్ అహః శుక్లః, ఇత్య్ ఆదికా॥౩౨॥ ఇత్య్ అనియమాధికరణమ్॥౧౩॥
Link copied౩౮౭। అక్షర-ధియాṁ త్వ్ అవరోధః సామాన్య-తద్-భావాభ్యామ్ ఔపసదవత్ తద్ ఉక్తమ్॥౩।౩।౩౩॥
Link copiedబృహదారణ్యకే--- ఏతద్ వై తద్ అక్షరṁ గార్గి బ్రాహ్మణా అభివదన్త్య్ అస్థూలమ్ అనణ్వ్ అహ్రస్వమ్ ఇత్య్ ఆది శ్రూయతే। తథా ఆథర్వణే చ--- అథ పరా యయా తద్ అక్షరమ్ అధిగమ్యతే యత్ తద్ అద్రేశ్యమ్ అగ్రాహ్యమ్ ఇత్య్ ఆది। కిమ్ ఏషామ్ అస్థూలత్వాదీనాṁ సర్వాసు బ్రహ్మ-విద్యాసూపసṁహారః, ఉత యత్ర శ్రుతాస్ తత్రైవేతి సṁశయః। విద్యా-విశేష-రూపతయా శ్రుతానాṁ సర్వ-విద్యాసాధరణత్వాభావాద్ యత్ర శ్రుతాస్ తత్రైవ నియతా ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- అస్థూలత్వాదీనామ్ అప్య్ ఆనన్దాదివద్ బ్రహ్మ-స్వరూపానుసన్ధానాన్తర్భావాత్ సర్వత్రైవోపసṁహారః, న కేవలమ్ ఆనన్దాదిర్ బ్రహ్మ-స్వరూపṁ ప్రత్యగాత్మనో వ్యావృత్తమ్, తస్యాపి హి తద్ ఏవ స్వరూపమ్। అస్థూలత్వాది-విశేషితమ్ ఆనన్దాది బ్రహ్మణః ప్రత్యగాత్మనో వ్యావృత్త్య్-ఆకారః। యద్య్ అపి ప్రత్యగాత్మా స్వభావతః స్థూలత్వాద్య్-అచేతన-ధర్మాసమ్బన్ధీ, తథాపి తత్-సమ్బన్ధర్హతాస్త్య్ ఏవ। తద్-అర్హతయాపి హి పూర్వṁ తత్-సమ్బన్ధః సఞ్జాతః। అతో బ్రహ్మణస్ తద్-అనర్హ-స్వరూపానుసన్ధానార్థతయాస్థూలత్వాదయః సర్వత్రానుసన్ధేయాః। సూత్రార్థస్ తు--- అక్షరధియామ్, అక్షర-సమ్బన్ధినీనామ్ అస్థూలత్వాది-ధియాṁ సర్వ-విద్యాస్వ్ అవరోధః సఙ్గ్రహణమ్। కుతః। సామాన్య-తద్-భావాభ్యాṁ బ్రహ్మణః సర్వత్ర సమానత్వాత్ బ్రహ్మానుసన్ధానాన్తర్భావాచ్ చ తాసామ్। గుణానాṁ ప్రధానానువర్తిత్వṁ స్వభావః; ఔపసదవత్--- యథా జామదగ్న్య-చతూరాత్ర-పురోడాశ్యుపసద్-గుణ-భూతః, అగ్నిర్ హోత్రṁ వేతు, ఇతి మన్త్రః సామ-వేద-పఠితత్వేన సామ-వేద-స్వర-నియతోఽపి ప్రధాన-భూతోపసద్-అనువర్తిత్వాద్ యాజుర్ వైదికత్వాచ్ చోపసదో యాజుర్ వైదికోపాṁశుత్వ-సమ్బన్ధీ; తద్వద్ అక్షర-విద్యా-సమ్బన్ధితయాధీతత్వేన తద్-విద్యానియతా అపి ప్రధానానువర్తిత్వ-స్వాభావ్యాత్ సర్వ-విద్యా-సమ్బన్ధినః। తద్ ఉక్తṁ ప్రథమ-కాణ్డే--- గుణ-ముఖ్య-వ్యతిక్రమే తద్-అర్థత్వాద్ ఇత్య్ ఆదినా॥౩౩॥
Link copiedఏవṁ తర్హి--- సర్వ-కర్మా సర్వ-గన్ధః, ఇత్య్ ఆదీనామ్ అపి సర్వేషాṁ బ్రహ్మ-గుణత్వాన్ న క్వచిద్ వయవస్థేత్య్ అత్రాహ---
Link copied౩౮౮। ఇయద్ ఆమననాత్॥౩।౩।౩౪॥
Link copiedఇయత్--- అస్థూలత్వాది-విశేషితమ్ ఆనన్దాద్య్ ఏవ సర్వత్రానుసన్ధేయమ్। కుతః। ఆమననాద్ ధేతోః। ఆమననమ్--- ఆభిముఖ్యేన మననṁ, బ్రహ్మానుసన్ధానమ్। బ్రహ్మ-స్వరూపానుసన్ధానṁ యేన వినా నోపపద్యతే; తద్ ఏవ సర్వత్రానుసన్ధేయమ్। అన్యత్ తు తత్ర తత్ర వ్యవస్థితమ్ ఇత్య్ అర్థః॥౩౪॥ ఇత్య్ అక్షర-ధ్య్-అధికరణమ్॥౧౪॥
Link copied౩౮౯। అన్తరా భూత-గ్రామవత్ స్వాత్మనోఽన్యథా ప్రతివచన-భేదానుపపత్తిర్ ఇతి చేన్ నోపదేశవత్॥౩।౩।౩౫॥
Link copiedబృహదారణ్యకే ఉషస్త-ప్రశ్న-ప్రతివచనṁ--- యః ప్రాణేన ప్రాణితి స త ఆత్మా సర్వాన్తరః యోఽపానేనాపాన్ ఇతి స త ఆత్మా, ఇత్య్ ఆది, అతోఽన్యద్ ఆర్తమ్ ఇత్య్ అన్తమ్ ఆమ్నాతమ్। తథా తద్-అనన్తరṁ కహోల-ప్రశ్న-ప్రతివచనṁ--- యోఽశనాయాపిపాసే శోకṁ మోహṁ జరాṁ మృత్యుమ్ అత్యేత్య్ ఏతṁ హైతమ్ ఆత్మనṁ విదిత్వా, ఇత్య్ ఆది, అతోఽన్యద్ ఆర్తమ్ ఇత్య్ అన్తమ్। కిమ్ ఉభయత్ర విద్యైక్యమ్, ఉత విద్యా-భేద ఇతి సṁశయః। పూర్వత్ర ప్రాణనాది-హేతుః ప్రత్యగాత్మా; ఉత్తరత్రాశనాయాద్య్-అతీతః పరమాత్మేత్య్ ఉపాస్య-భేదాద్ విద్యా-భేదః, ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యత్ సాక్షాద్ అపరోక్షాద్ బ్రహ్మ య ఆత్మా సర్వాన్తరః తన్ మే వ్యాచక్ష్వ, ఇత్య్ ఉభయత్ర ప్రశ్నస్య పరమాత్మ-విషయత్వాద్ ఏక-రూపత్వాచ్ చ, సర్వ-ప్రాణి-ప్రాణనాపాననాది-హేతుత్వస్య అశనాయాద్య్-అతీతత్వస్య చ ప్రతివచన-ద్వయావగతస్య పరమాత్మన్య్ ఏకస్మిన్న్ ఏవోపాస్యే సమ్భవాచ్ చ, న విద్యా-భేదః। సూత్రార్థస్ తు--- అన్తరా, య ఆత్మా సర్వాన్తరః, ఇత్య్ ఉషస్త-ప్రశ్నో భూత-గ్రామవత్ స్వాత్మనః--- ప్రత్యగాత్మన ఇత్య్ ఉపగన్తవ్యః; అన్యథా ప్రతివచన-భేదానుపపత్తిర్ ఇతి చేన్ నాత్ర ప్రత్యగాత్మ-పరమాత్మ-విషయṁ ప్రశ్న-ద్వయమ్; ప్రతివచన-ద్వయṁ చ పరమాత్మన్య్ ఏకస్మిన్న్ ఏవోపాస్యే సమ్భవతీత్య్ అర్థః। ఉపదేశవత్--- స్తబ్ధోఽస్యుత తమ్ ఆదేశమ్ అప్రాక్ష్యః, ఇతి ప్రక్రాన్తాయామ్ ఏకస్యామ్ ఏవ సద్-విద్యాయాṁ, భగవాṁస్ త్వ్ ఏవ మే తద్ బ్రవీత్వ్ ఇతి, భూయ ఏవ మా భగవాన్ విజ్ఞాపయతు, ఇత్య్ ఆదికా ప్రశ్నావృత్తిః, ప్రతివచన-భేదశ్ చోపాస్య-మాహాత్మ్య-విశేష-ప్రతిపాదన-పరత్వేన దృశ్యతే; తద్వత్॥౩౫॥
Link copiedప్రష్టృ-భేద-పూర్వక-ప్రతివచన-ప్రకార-భేదాద్ విద్యా-భేదోఽవర్జనీయ ఏవేత్య్ ఆశఙ్క్యాహ---
Link copied౩౯౦। వ్యతిహారో విశిṁషన్తి హీతరవత్॥౩।౩।౩౬॥
Link copiedయద్ ఏవ సాక్షాద్ అపరోక్షాద్ బ్రహ్మ య ఆత్మా సర్వాన్తరః, ఇతి ద్వయోః ప్రష్ట్రోః ప్రశ్నస్యైకరూపత్వేనైక-విషయత్వే నిశ్చితే సత్య్ ఉషస్త-కహోలయోః ప్రతివచన-గత-బుద్ధి-వ్యతిహారః కార్యః। ప్రాణనాది-హేతుత్వ-బుద్ధిః సర్వాన్తరాత్మ-విషయా కహోలేనాపి కార్యా, తథాశనాయాద్య్-అతీతత్వ-బుద్ధిర్ ఉషస్తేనాపి కార్యా। విశిషన్తి హ్య్ ఉభయత్రాపి యాజ్ఞవల్క్య-వచనాన్య్ ఏకṁ సర్వాన్తరమ్ ఏవోపాస్యమ్। ఇతరవత్--- యథేతరత్ర సద్-విద్యాయాṁ సర్వాణి ప్రతివచనాని పరమ-కారణ-పరబ్రహ్మ-విషయాణి; తద్వత్॥౩౬॥
Link copiedసద్-విద్యాయామ్ అప్య్ ఉపాస్యైక్యṁ ప్రశ్న-ప్రతివచనావృతౌ సత్యాṁ కథమ్ అవగమ్యత ఇత్య్ అత్రాహ---
Link copied౩౯౧। సైవ హి సత్యాదయః॥౩।౩।౩౭॥
Link copiedసేయṁ దేవతైక్షత, ఇత్య్ ఆదిషు సర్వత్ర సైవ పరా దేవతైకానువర్తతే। ఐతదాత్మ్యమ్ ఇదṁ సర్వṁ తత్ సత్యṁ స ఆత్మా తత్త్వమ్ అసి, ఇతి త ఏవ సత్యాదయః సర్వేషు ప్రతివచనేషూపసṁహ్రియన్తే॥౩౭॥ ఇత్య్ అన్తరత్వాధికరణమ్॥౧౫॥
Link copied౩౯౨। కామాదీతరత్ర తత్ర చాయతనాదిభ్యః॥౩।౩।౩౮॥
Link copiedఛాన్దోగ్యే శ్రూయతే--- అథ యద్ ఇదమ్ అస్మిన్ బ్రహ్మ-పురే దహరṁ పుణ్డరీకṁ వేశ్మ దహరోఽస్మిన్న్ అన్తర ఆకాశస్ తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యమ్ ఇత్య్ ఆది ప్రక్రమ్య, తద్ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాṁశ్ చ సత్యాన్ కామాṁస్ తేషాṁ సర్వేషు లోకేషు కామ-చారో భవతీతి; వాజసనేయకే చ--- య ఏషోఽన్తర్ హృదయ ఆకాశస్ తస్మిన్ శేతే సర్వస్య వశీ సర్వస్యేశానః, ఇత్య్ ఆది। కిమ్ ఉభయత్ర విద్యైక్యమ్, ఉత విద్యా-భేద ఇతి సṁశయః। రూప-భేదాద్ విద్యా-భేద ఇతి పూర్వః పక్షః। యద్య్ అప్య్ ఉభయత్ర పరమాత్మైవోపాస్యః, తథాప్య్ ఏకత్రాకాశ-శబ్దాభిధేయః పరమాత్మోపాస్యః, ఇతరత్రాకాశే శయానః పరమాత్మేతి హి రూపṁ భిద్యతే। రాద్ధాన్తస్ తు--- హృదయాయతనత్వ-సత్య-సఙ్కల్పత్వ-సత్య-కామత్వాదేర్ అభేదాద్ ఉభయత్ర తద్-విశిష్టః పరమాత్మైవోపాస్య ఇతి రూపాభేదాద్ విద్యైక్యమ్; ఛాన్దోగ్యే హి--- దహరోఽస్మిన్న్ అన్తర ఆకాశస్ తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యమ్ ఇత్య్ ఆరభ్య, కిṁ తద్ అత్ర విద్యతే, ఇత్య్ ఆదినా పరిచోద్య, తస్మిన్ కామాః సమాహితాః, ఏష ఆత్మాపహత-పాప్మా విజరో విమృత్యుర్ ఇత్య్ ఆరభ్య, సత్య-కామః సత్య-సఙ్కల్పః, ఇత్య్ ఉక్త్వా, తద్ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాṁశ్ చ సత్యాన్ కామాన్, ఇత్య్ ఆకాశ-శబ్ద-నిర్దిష్టః పరమాత్మా తద్-అన్తర్గతాశ్ చ సత్య-కామత్వ-సత్య-సఙ్కల్పత్వాపహత-పాప్మత్వాదయో గుణాః, అతః పరమాత్మా హృదయాయతనః సత్య-కామత్వాది-విశిష్ట ఉపాస్య ఇతి వాక్యేనైవ నిర్ణీతమ్। వాజసనేయకే చ--- య ఏషోఽన్తర్ హృదయ ఆకాశస్ తస్మిఞ్ శేతే సర్వస్య వశీ; ఇత్య్ ఉక్తే సతి వశిత్వాదేః సత్య-సఙ్కల్పత్వ-విశేష-రూపతయా స ఏవ పరమాత్మా హృదయాయతనః సత్య-సఙ్కల్పత్వ-విశిష్ట ఉపాస్య ఇతి ప్రతీయతే। అతో దహర-విద్యా-ప్రత్యభిజ్ఞానాత్ స ఏవ పరమాత్మా సత్య-సఙ్కల్పత్వాది-గుణాష్టక-విశిష్ట ఉపాస్య ఇతి నిశ్చీయతే। ఏవṁ నిశ్చితే సత్యాకాశే శయాన ఇత్య్ ఆకాశ-శబ్దోఽపి హృదయ-పుణ్డరీక-వర్త్య్-ఆకాశ-వాచీతి రూపాభేదాద్ విద్యైక్యమ్ ఏవ॥
Link copiedసూత్రార్థస్ తు--- కామాదీతరత్ర తత్ర చ, వాజసనేయకే ఛాన్దోగ్యే చ సత్య-కామత్వాద్య్ ఏవ రూపమ్। కుతః। ఆయతనాదిభ్యః హృదయాయతనత్వ-సత్య-సఙ్కల్పత్వ-విశేష-రూప-వశిత్వాదిభ్యస్ తత్-సహచారిణః సత్య-కామత్వాదేః ప్రత్యభిజ్ఞానాత్। పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే, అభయṁ వై బ్రహ్మ భవతి, ఇతి బ్రహ్మ-ప్రాప్తి-రూపṁ ఫలṁ చైకమ్ ఇతి విద్యైక్యమ్॥౩౮॥
Link copiedమనసైవానుద్రష్టవ్యṁ నేహ నానాస్తి కిఞ్చనేత్య్ ఆదేః పూర్వ-ప్రకృతత్వాత్, స ఏష నేతి నేత్య్ ఆత్మా, ఇతి చ వక్ష్యమాణత్వాత్, సర్వస్వ వశీ సర్వస్యేశానః, ఇత్య్ ఆది-విశేషాణాṁ బ్రహ్మ-స్వరూపత్వాభావాత్ కథṁ సత్య-కామత్వాదేర్ మోక్ష-సాధనోపాసన-రూపత్వమ్ ఇత్య్ అత ఆహ---
Link copied౩౯౩। ఆదరాద్ అలోపః॥౩।౩।౩౯॥
Link copiedవశిత్వాదేః ప్రమాణాన్తరావిదిత-రూపస్య శ్రుత్య్-ఏక-సమధిగమ్యస్యాదరేణ ప్రతిపాదనాద్ అలోపః--- అప్రతిషేధః; తస్యాపి బ్రహ్మ-గుణత్వమ్ అవశ్యాశ్రయణీయమ్; అవిశేష-నిషేధాస్ తు సకలేతర-ప్రాకృత-విశేష-విషయాః; నానాత్వ-నిషేధస్ తు సర్వస్య బ్రహ్మ-కార్యతయాబ్రహ్మాత్మకత్వాభిప్రాయః॥౩౯॥
Link copiedసగుణోపాసనస్య--- స యది పితృలోక-కామో భవతీతి సాṁసారిక-ఫలత్వేన న మోక్ష-ఫలత్వమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౩౯౪। ఉపస్థితేఽతస్ తద్-వచనాత్॥౩।౩।౪౦॥
Link copiedఉపస్థితిః--- ఉపస్థానమ్, బ్రహ్మోపసమ్పత్తిః; ఉపస్థితే బ్రహ్మోపసమ్పన్నే, అతః--- బ్రహ్మోపసమ్పత్తేర్ ఏవ హేతోః, తద్-వచనాత్--- పితృలోకాది-ప్రాప్తి-వచనాత్, న తత్-సాṁసారికṁ ఫలమ్, అపి తు సాక్షాన్ ముక్తస్యైవ। అస్మాచ్ ఛరీరాత్ సముత్థాయ పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే, స ఉత్తమః పురుషః స తత్ర పర్యేతి జక్షత్ క్రీడన్ రమమాణః స్త్రీభిర్ వా జ్ఞాతిభిర్ వా నోపజనṁ స్మరన్న్ ఇదṁ శరీరమ్ ఇతి, స స్వరాడ్ భవతి తస్య సర్వేషు లోకేషు కామ-చారో భవతి, ఇతి చ నివృత్తావిద్యస్య హి స్వేన రూపేణాభినిష్పన్నస్యైవోచ్యతే; అతో బ్రహ్మోపసమ్పత్తి-హేతుకత్వṁ క్రీడనాదేర్ అవగమ్యతే॥౪౦॥ ఇతి కామాద్య్-అధికరణమ్॥౧౬॥
Link copied౩౯౫। తన్-నిర్ధారణానియమస్ తద్-దృష్టేః పృథగ్-ధ్య్-అప్రతిబన్ధః ఫలమ్॥౩।౩।౪౧॥
Link copiedఛాన్దోగ్యే--- ఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీతేతి కర్మాఙ్గాశ్రయమ్ ఉద్గీథాద్య్-ఉపాసనṁ శ్రూయతే; తత్ కిṁ తస్మిన్ కర్మణి పర్ణతాదివన్ నియమేనోపాదేయమ్, ఉత గో-దోహనాదివద్ అనియమేనేతి సṁశయః। కర్మాఙ్గాశ్రయత్వేన పర్ణతాదివత్ తద్-ద్వారేణ నిరూఢ-కార్యతయా, యద్ ఏవ విద్యయా కరోతి శ్రద్ధయోపనిషదా తద్ ఏవ వీర్యవత్తరṁ భవతి, ఇతి వర్తమాన-నిర్దేశస్య పృథక్-ఫల-ప్రతిపాదనాయోగాత్ క్రత్వ్-అర్థతయా నియమేనోపాదేయమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తేనోభౌ కురుతో యశ్ చైతద్ ఏవṁ వేద యశ్ చ న వేద, ఇత్య్ ఉద్గీథోపాసన-రహితస్యాపి క్రత్వ్-అనుష్ఠాన-దర్శనాత్ క్రతు-ఫలాత్ స్వర్గాదేః పృథగ్-భూత-వీర్యవత్తరత్వ-ఫలమ్ ఇదమ్ ఉపాసనమ్ ఇతి గో-దోహనాదివద్ అనియమః। వర్తమాన-నిర్దేశే సత్య్ అప్య్ అధికారాన్తర-నిశ్చయే సతి రాత్రిసన్నవత్ క్రతోర్ వీర్యవత్తరత్వమ్ అస్యోపాసనస్య కల్పనీయమ్। సూత్రార్థస్ తు--- తన్-నిర్ధారణానియమః। నిర్ధారణమ్--- నిశ్చయేన చేతసోఽవధారణమ్, ఉపాసనమ్ ఇత్య్ అర్థః; తస్య ఉద్గీథోపాసనస్యానియమః। కుతః। తద్-దృష్టేః--- తేనోభౌ కురుతః, ఇత్య్ అనియమ-దృష్టేః; పృథగ్-భూతṁ హ్య్ అస్య ఫలమ్; తచ్ చాప్రతిబన్ధ-రూపమ్; వీర్యవత్తరత్వṁ నామ ప్రబల-కర్మాన్తర-ఫలేనైతస్య కర్మణః ఫలస్యాప్రతిబన్ధః, అవిలమ్బితత్వమ్ ఇత్య్ అర్థః॥౪౧॥
Link copiedఇతి తన్-నిర్ధారణానియమాధికరణమ్॥౧౭॥
Link copied౩౯౬। ప్రదానవద్ ఏవ తద్ ఉక్తమ్॥౩।౩।౪౨॥
Link copiedదహర-విద్యాయాṁ--- తద్ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాṁశ్ చ సత్యాన్ కామాన్ ఇత్య్ అపహత-పాప్మత్వాది-గుణానామ్ అపి పరమాత్మ-స్వరూప-చిన్తనవత్ పృథక్ చిన్తనṁ విహితమ్। కిṁ గుణ-చిన్తనే తత్-తద్-గుణ-విశిష్టతయా పరమాత్మ-చిన్తనమ్ ఆవర్తనీయమ్, ఉత నేతి సṁశయః। పరమాత్మన ఏకస్యైవ సర్వేషాṁ గుణానాṁ గుణిత్వేన సకృద్ ఏవ తచ్-చిన్తనోపపత్తేర్ నావర్తనీయమ్ ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- గుణినః స్వరూపైక్యేఽపి తత్-తద్-గుణ-విశిష్టాకార భేదాద్ ఆవర్తనీయమ్ ఇతి। సూత్రార్థస్ తు--- ప్రదానవద్ ఆవర్తనీయమ్ ఏవ; యథా--- ఇన్ద్రాయ రాజ్ఞే పురోడాశమ్ ఏకాదశ-కపాలమ్ ఇన్ద్రాయాధిరాజాయేన్ద్రాయ స్వరాజ్ఞే, ఇతీన్ద్రస్యైకత్వేఽపి రాజత్వాది-విశిష్టాకార-భేదాద్ దేవతా-భేద ఇతి ప్రదానావృత్తిః; తద్వద్ ఏవ। తద్ ఉక్తṁ సఙ్కర్షే--- నానా వా దేవతా పృథక్త్వాద్ ఇతి॥౪౨॥ ఇతి ప్రదానాధికరణమ్॥౧౮॥
Link copied౩౯౭। లిఙ్గ-భూయస్త్వాత్ తద్ ధి బలీయస్తద్ అపి॥౩।౩।౪౩॥
Link copiedతైత్తిరీయా అధీయతే--- సహస్ర-శీర్షṁ దేవమ్ ఇత్య్ ఆరభ్య, సోఽక్షరః పరమః స్వరాట్, ఇత్యన్తమ్। అస్మిన్న్ అనువాకే నోపాసనṁ విధీయతే। కిమ్ అయṁ పూర్వానువాకోదిత-దహర-విద్యోపాస్య-విశేష-నిర్ధారణార్థః, ఉత సర్వ-వేదాన్తోదిత-సర్వ-పర-విద్యోపాస్య-విశేష-నిర్ధారణార్థ ఇతి సṁశయః। దహర-విద్యాయా ఆనన్తర్యాత్ తద్-ఉపాస్య-విశేష-నిర్ధారణార్థ ఇతి పూర్వః పక్షః; సహస్ర-శీర్షṁ దేవమ్ ఇతి ద్వితీయా-నిర్దేశస్యానన్తరోదితోపాసినా సమ్బన్ధస్యైవ యుక్తత్వాచ్ చ। రాద్ధాన్తస్ తు--- పరబ్రహ్మ-పర-తత్త్వ-పర-జ్యోతిః-పరమాత్మాక్షర-శివ-శమ్భు-శబ్దైః సర్వ-పర-విద్యోపాస్యాననూద్య వాక్యేనైవ తేషాṁ నారాయణత్వ-విధానాత్ తస్య చ ప్రకరణాద్ బలీయస్త్వేన సర్వ-విద్యోపాస్య-నిర్ధారణార్థ ఇతి నిశ్చీయతే। న చ--- సహస్ర-శీర్షమ్ ఇతి ద్వితీయా-నిర్దేశః పూర్వేణోపాసినా సమ్బధ్యతే, తస్మిన్ యద్ అన్తస్ తద్ ఉపాసితవ్యమ్ ఇతి కృత్-ప్రత్యయేన కర్మాభిహితమ్ ఇతి తత్ర ద్వితీయా-నిర్దేశాయోగాత్। నారాయణః పరః, వ్యాప్య నారాయణః స్థితః, పరమాత్మా వ్యవస్థితః, ఇత్య్ ఆదిభిర్ ఐకార్థ్యాత్ ప్రథమార్థే ద్వితీయా। సూత్రార్థస్ తు--- సర్వ-పర-విద్యోపాస్య-నిర్ధారణే లిఙ్గ-భూయస్త్వాత్ తచ్-చిహ్న-భూత-వాక్య-భూయస్త్వాద్ ఇత్య్ అర్థః। తద్ ధి--- వాక్యṁ ప్రకరణాద్ బలీయః, తద్ అపి పూర్వస్మిన్ కాణ్డే--- శ్రుతి-లిఙ్గ-వాక్య-ప్రకరణ-స్థాన-సమాఖ్యానాṁ సమవాయే పర-దౌర్బల్యమ్ అర్థ-విప్రకర్షాత్, ఇత్య్ ఆదినోక్తమ్। ఏవṁ సర్వోపాస్య-నిర్ధారణే నిశ్చితే సతి దహర-విద్యాయామ్ అప్య్ అయమ్ ఏవోపాస్య ఇతి, పద్మ-కోశ-ప్రతీకాశమ్ ఇత్య్ ఆదినా హృదయాద్య్-అభిధానṁ చ యుజ్యత ఇత్య్ అభిప్రాయః॥౪౩॥ ఇతి లిఙ్గ-భూయస్త్వాధికరణమ్॥౧౯॥
Link copied౩౯౮। పూర్వ-వికల్పః ప్రకరణాత్ స్యాత్ క్రియా మానసవత్॥౩।౩।౪౪॥
Link copiedవాజసనేయకేఽగ్నిరహస్యే--- మనశ్-చితో వాక్-చితః ప్రాణ-చితశ్ చక్షుశ్-చితః, ఇత్య్ ఆదినా మనశ్-చితాదయోఽగ్నయో విద్యా-రూపాః శ్రూయన్తే। కిమ్ ఏతే క్రియా-మయ-క్రత్వ్-అఙ్గ-భూతాః, ఉత విద్యా-మయ-క్రత్వ్-అఙ్గ-భూతా ఇతి సṁశయః। అస్మిన్ ప్రకరణే విద్యా-మయ-క్రత్వ్-అనుబన్ధి-మానస-గ్రహ-స్తోత్రాది-దర్శనేఽపి క్రతోర్ విధానాభావాత్, ఫలాన్తరాప్రతీతేశ్ చ, పూర్వత్ర--- అసద్ వా ఇదమ్ అగ్ర ఆసీద్ ఇత్య్ ఆదినేష్టక-చితస్యాగ్నేః ప్రకృతత్వాత్, మనశ్-చితాదిషు చ, తేషామ్ ఏకైక ఏవ తావాన్ యావాన్ అసౌ పూర్వః, ఇతి తత్-కార్యాతిదేశాదిష్టక-చితేనైషాṁ వికల్ప-ప్రతీతేశ్ చేష్టక-చితాగ్ని-శేష-భూత-క్రియా-మయ-క్రత్వ్-అనుప్రవేశేన తద్-అఙ్గ-భూతా ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- తే హైతే విద్యా-చిత ఏవ విద్యయా హైవైత ఏవṁ విదశ్-చితా భవన్తి, ఇతి మనశ్-చితాదీనాṁ సామ్పాదికాగ్నిత్వేన విద్యా-రూపత్వే సిద్ధేఽపి, తే హైతే విద్యా-చిత ఏవేత్య్ అవధారణ-శ్రుతిర్ విద్యా-మయ-క్రత్వ్-అఙ్గత్వేనైషాṁ విద్యా-రూపతావగత్య్ అర్థేతి నిశ్చయాత్ సన్నిహితైర్ మానసైః గ్రహ-స్తోత్రాదిభిః క్రత్వ్-అనుబన్ధైర్ అనువాద-సరూప-వాక్య-ప్రతిపాదితైః క్రతు-దర్శనే సతి, వచనాని త్వ్ అపూర్వత్వాద్ ఇతి న్యాయేన మనశ్-చితాదీనాṁ శేషి-భూత-విద్యా-మయ-క్రతోర్ విధిః పరికల్ప్యతే। తేషామ్ ఏకైక ఏవ తావాన్ యావాన్ అసౌ పూర్వః, ఇత్య్ అతిదేశేనేష్టక-చితాగ్నేః స్వ-శేషి-భూత-క్రతు-ద్వారేణ యత్ ఫలమ్, తద్ ఏవైషాṁ స్వ-శేషి-భూత-విద్యా-మయ-క్రతు-ద్వారేణ ఫలమ్ ఇతి నిశ్చీయత ఇతి విద్యా-మయ-క్రత్వ్-అఙ్గ-భూతా ఏవ మనశ్-చితాదయః। సూత్రార్థస్ తు--- మనశ్-చితాదిః క్రియా స్యాత్, క్రియా-మయ-క్రత్వ్-అఙ్గ-భూత ఇత్య్ అర్థః। కుతః। ప్రకరణాత్--- పూర్వ-ప్రకృతేనేష్టక-చితేనావ్యభిచరిత-క్రతు-సమ్బన్ధినోపస్థిత-క్రతు-గృహీతత్వేన తద్-అఙ్గ-భూతానామ్ ఏషాṁ చాగ్నిత్వాత్ తేనేష్టక-చితేన వికల్పః; విద్యా-రూపాణామ్ అప్య్ ఏషాṁ క్రియా-మయ-క్రత్వ్-అఙ్గ-భావో న విరుధ్యతే, ద్వాదశాహాఙ్గ-భూత-మానస-గ్రహవత్॥౪౪॥
Link copied౩౯౯। అతిదేశాచ్ చ॥౩।౩।౪౫॥
Link copiedతేషామ్ ఏకైక ఏవ తావాన్ యావాన్ అసౌ పూర్వః, ఇతి తేషు పూర్వేష్టక-చిత-కార్యాతిదేశాచ్ చ తేనైషాṁ వికల్పః ప్రతీయతే। తేన వికల్పో హి తచ్-ఛేషి-భూత-క్రత్వ్-అఙ్గత్వేన వినైషాṁ నోపపద్యతే। అతశ్ చ తద్-అఙ్గ-భూతాః॥౪౫॥
Link copied౪౦౦। విద్యైవ తు నిర్ధారణాద్ దర్శనాచ్ చ॥౩।౩।౪౬॥
Link copiedతు-శబ్దః పక్షṁ వ్యావర్తయతి; మనశ్-చితాదిర్ విద్యైవ విద్యా-మయ-క్రత్వ్-అఙ్గ-భూత ఏవేత్య్ అర్థః। కుతః। నిర్ధారణాత్--- తేషాṁ విద్యా-రూపత్వే సిద్ధేఽపి, తే హైతే విద్యా-చిత ఏవేతి నిర్ధారణṁ విద్యా-మయ-క్రత్వ్-అఙ్గతయైషాṁ విద్యా-మయత్వ-ఖ్యాపనార్థమ్। అత్రైవ విద్యా-మయ-క్రతు-దర్శనాచ్ చ తద్-అఙ్గత్వమ్ ఏవైషామ్। దృశ్యతే చాత్ర విద్యా-మయః క్రతుః, మనసైషు గ్రహా అగృహ్యన్త మనసాస్తువన్త మనసాశṁసన్, ఇత్య్ ఆదౌ॥౪౬॥
Link copiedఅత్ర విద్యా-మయ-క్రతౌ విధి-పదాశ్రవణాత్, తత్-ఫల-సమ్బన్ధాప్రతీతేశ్ చ, ప్రకరణేనేష్టక-చితాగ్న్య్-ఉపస్థాపిత-క్రత్వ్-అఙ్గతాప్రతీతేశ్ చ విద్యా-మయ-క్రత్వ్-అన్వయో బాధ్యత ఇత్య్ ఆశఙ్క్యాహ ---
Link copied౪౦౧। శ్రుత్య్-ఆది-బలీయస్త్వాచ్ చ న బాధః॥౩।౩।౪౭॥
Link copiedశ్రుత్య్-ఆదేః ప్రకరణాద్ బలీయస్త్వేన శ్రుత్య్-ఆద్య్-అవగతస్య విద్యా-మయ-క్రత్వ్-అన్వయస్య ప్రకరణేన న బాధః। శ్రుతిస్తావత్--- తే హైతే విద్యా-చిత ఏవేతి। తాṁ వివృణోతి--- విద్యయా హైవైత ఏవṁవిదశ్ చితా భవన్తీతి। లిఙ్గ-వాక్యే చ భాష్యే దర్శితే। ఏవṁవిదో మనశ్-చక్షుర్-ఆది-వ్యాపారేష్వ్ అగ్నిత్వṁ సమ్పాదయితుః, ఏతే మనశ్-చితాదయః, విద్యయా ప్రధాన-భూతయా చితా భవన్తీత్య్ అర్థః॥౪౭॥
Link copiedమనసైషు గ్రహా అగృహ్యన్తేత్య్ ఆదౌ విధి-పదాశ్రవణాద్ విద్యా-మయ-క్రతు-విధిర్ న సమ్భవతీతి తద్-అసమ్భవాచ్ చ తద్-అన్వయోఽపి న సమ్భవతీత్య్ ఆశఙ్క్యాహ---
Link copied౪౦౨। అనుబన్ధాదిభ్యః ప్రజ్ఞాన్తర-పృథక్త్వవద్ దృష్టశ్ చ తద్ ఉక్తమ్॥౩।౩।౪౮॥
Link copiedగ్రహ-స్తోత్ర-శస్త్రేభ్యో యజ్ఞానుబన్ధేభ్య ఇష్టక-చితాన్వయినః క్రతోర్ అత్ర విధీయమాన-విద్యా-మయ-క్రతు-పృథక్త్వమ్ అవగమ్యతే; ప్రజ్ఞాన్తర-పృథక్త్వవత్--- యథా ప్రజ్ఞాన్తరాణాṁ దహర-విద్యాదీనాṁ పృథక్త్వ-హేతుభ్యః పృథక్త్వమ్; ఆది-శబ్దాత్ పూర్వోక్తః శ్రుత్య్-ఆదిర్ గృహ్యతే; శ్రుత్య్-ఆదినానుబన్ధైశ్ చ విద్యా-మయ-క్రతు-విధిః కల్ప్యత ఇత్య్ అర్థః। దృష్టశ్ చానువాద-సరూపేఽపి కల్ప్యమానో విధిః--- యద్ ఏవ విద్యయా కరోతీత్య్ ఆదౌ। తద్ ఉక్తṁ--- వచనాని త్వ్ అపూర్వత్వాద్ ఇతి॥౪౮॥
Link copiedయత్ తూక్తమ్ అతిదేశాచ్ చేష్టక-చిత-శేషి-భూత-క్రత్వ్-అన్వయోఽవగమ్యత ఇతి, తత్రాహ---
Link copied౪౦౩। న సామాన్యాద్ అప్య్ ఉపలబ్ధేర్ మృత్యువన్ న హి లోకాపత్తిః॥౩।౩।౪౯॥
Link copiedనావశ్యమ్ అతిదేశేనేష్టక-చితాగ్ని-తుల్య-దేశత్వమ్ అప్య్ ఆశ్రయణీయమ్, యేన కేనచిత్ సామాన్యేనాతిదేశోపలబ్ధేః। స ఏష మృత్యుర్ య ఏష ఏతస్మిన్ మణ్డలే పురుషః, ఇతివత్ ఫల-సామాన్యేన భవిష్యత్య్ అతిదేశః। న హి తత్ర మణ్డల-పురుషే మృత్యు-లోకాపత్తిర్ అప్య్ అతిదిశ్యతే; అపి తు మృత్యువత్ సర్వ-సṁహర్తృత్వమ్ ఏవ॥౪౯॥
Link copied౪౦౪। పరేణ చ శబ్దస్య తాద్విధ్యṁ భూయస్త్వాత్ త్వ్ అనుబన్ధః॥౩।౩।౫౦॥
Link copiedపరేణ చ బ్రాహ్మణేనాస్య మనశ్-చితాద్య్-అభిధాయినః శబ్దస్య తాద్విధ్యṁ--- తద్-విధత్వమ్, విద్యా-మయ-ప్రతిపాదకత్వమ్ అవగమ్యతే। పరేణ హి బ్రాహ్మణేన--- అయṁ వావ లోక ఏషోఽగ్ని-చితస్ తస్యాప ఏవ, ఇత్య్ ఆదినా పృథక్-ఫలా విద్యైవ విధీయతే। అగ్నిరహస్యే క్రియా-మయా ఏవ విధీయన్త ఇతి నాస్తి నియమ ఇత్య్ అర్థః। క్రియా-ప్రకరణే త్వ్ ఏషాṁ మనశ్-చితాదీనామ్ అనుబన్ధః సమ్పాదనీయానామ్ అగ్న్య్-అఙ్గానామ్ అత్ర భూయస్త్వాత్ క్రియతే। అతో విద్యా-మయ-క్రత్వ్-అఙ్గ-భూతా ఏవ మనశ్-చితాదయోఽగ్నయః॥౫౦॥ ఇతి పూర్వ-వికల్పాధికరణమ్॥౨౦॥
Link copied౪౦౫। ఏక ఆత్మనః శరీరే భావాత్॥౩।౩।౫౧॥
Link copiedప్రత్యగాత్మన ఆత్మతయా హి పరమాత్మోపాస్యః; ఉపాసకస్యాపి స్వరూపమ్ ఉపాస్యోపాసన-స్వరూపవజ్ జ్ఞాతవ్యమ్ ఇత్య్ ఉక్తమ్--- త్రయాణామ్ ఇత్య్ ఆదినా; వక్ష్యతే చ--- ఆత్మేతి తూపగచ్ఛన్తీతి। తత్ర కిṁ ప్రత్యగాత్మనః శరీరే వర్తమానస్య కర్తృత్వ-భోక్తృత్వాది-విశిష్టṁ రూపమ్ అనుసన్ధేయమ్, ఉత ప్రజాపతి-వాక్యోదితాపహత-పాప్మత్వాది-గుణకṁ యథావస్థితṁ రూపమ్ ఇతి సṁశయః। శరీరే వర్తమానస్య యాదృశṁ రూపమ్, తద్ ఏవానుసన్ధేయమ్ ఇతి పూర్వః పక్షః, కర్మ-విధిష్వ్ ఇవోపాసన-విధిష్వ్ అపి తావతైవ సాధనానుష్ఠాన-ఫలానుభవయోః సమ్భవాత్। యథాక్రతుర్ అస్మిṁల్ లోకే పురుషో భవతీతి తు, తṁ యథాయథోపాసతే, ఇత్య్ అనేనైకార్థ్యాత్ పరమాత్మ-విషయమ్। రాద్ధాన్తస్ తు--- తత్ త్వమ్ అసి, స త ఆత్మాన్తర్యామ్య్ అమృతః, ఇతి ప్రత్యగాత్మన ఆత్మతయైవ పరమాత్మోపాస్య ఇతి ప్రత్యగాత్మనః స్వరూపమ్ అప్య్ ఉపాసనాన్తర్గతమ్। పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే, ఇతి యథావస్థితాత్మ-స్వరూపస్యైవ బ్రహ్మానుభవః ఫలమ్ ఇత్య్ అతః, యథాక్రతుర్ అస్మిṁల్ లోకే పురుషో భవతీతి న పరమాత్మ-మాత్ర-విషయమ్; అపి తు ప్రత్యగాత్మాత్మ-భూతోపాస్య-విషయమ్ ఇతి ప్రజాపతి-వాక్యోదితṁ యథావస్థిత-స్వరూపమ్ ఏవానుసన్ధేయమ్; అన్యథా ప్రాప్యోపాస్యయోః ప్రకార-భేదాత్, యథాక్రతుర్ అస్మిన్న్ ఇతి విరుధ్యతే। యజేత స్వర్గ-కామః, ఇత్య్ ఆది కర్మ-విధౌ తు కర్తృ-స్వరూపానుసన్ధానṁ న సాధనాన్తర్గతమ్ ఇతి విశేషః। సూత్రార్థస్ తు--- కర్తృత్వాది-విశిష్టమ్ ఏవత్మనః స్వరూపమ్ అనుసన్ధేయమ్ ఇత్య్ ఏకే మన్యన్తే। కుతః। శరీరే వర్తమానస్యోపాసితుర్ ఆత్మనస్ తథాభావాత్॥౫౧॥
Link copied౪౦౬। వ్యతిరేకస్ తద్-భావ-భావిత్వాన్ న తూపలబ్ధివత్॥౩।౩।౫౨॥
Link copiedన కర్తృత్వాది-విశిష్టమ్ అనుసన్ధేయమ్, అపి తు సాṁసారిక-స్వరూపవన్ ముక్త-స్వరూపస్య యో వ్యతిరేకః, సోఽనుసన్ధేయః। కుతః। తథోపాసన-భావ-భావిత్వాత్ తద్-వ్యతిరిక్త-స్వరూప-ప్రాప్తేః। యథాక్రతుర్ అస్మిṁల్ లోకే పురుషో భవతీతి హ్య్ ఆహ। ఉపలబ్ధివత్--- యథా బ్రహ్మ-స్వరూపోపలబ్ధిర్ యథావస్థిత-బ్రహ్మానుసన్ధాన-యుక్తస్యైవ, తథా ఆత్మోపలబ్ధిర్ అపి॥౫౨॥ ఇతి శరీరేభావాధికరణమ్॥౨౧॥
Link copied౪౦౭। అఙ్గావబద్ధాస్ తు న శాఖాసు హి ప్రతివేదమ్॥౩।౩।౫౩॥
Link copiedఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీత, ఇత్య్ ఉద్గీథాది-క్రత్వ్-అఙ్గాశ్రయా ఉపాసనాః శ్రూయన్తే। తాః కిṁ యాసు శాఖాసు శ్రూయన్తే, తాస్వ్ ఏవ వ్యవస్థితాః, ఉత సర్వాసు శాఖాసు సమ్బద్ధా ఇతి సṁశయః। శాఖాసు స్వర-భేదాత్ ప్రతిశాఖమ్ ఉద్గీథ-భేదేన యత్ర శ్రూయన్తే, తత్రస్థోద్గీథాదేః సన్నిధానాత్ తేనైవాన్వితా వ్యవస్థితా ఇతి పూర్వః పక్షః। రాద్ధాన్తస్ తు--- యద్య్ అప్య్ ఉద్గీథ-వ్యక్తి-భేదో విద్యతే, తథాపి తత్ర తత్ర చోద్గీథ-జాతీయత్వేన సమ్బన్ధాత్ సర్వేషాṁ చోద్గీథ-జాతీయత్వావిశేషాత్, ఉద్గీథమ్ ఉపాసీతేతి శ్రుత్యైవ సర్వ-సమ్బన్ధ ఇతి సర్వ-శాఖాసు సమ్బధ్యన్తే। సూత్రార్థస్ తు--- న త్వ్ అఙ్గావబద్ధా ఉపాసనాస్ తాసు శాఖాసు వ్యవస్థితాః, అపి తు ప్రతివేదṁ సర్వ-శాఖాసు సమ్బధ్యన్త ఇత్య్ అర్థః। హిర్ హేతౌ। యస్మాద్ ఉద్గీథ-జాతీయత్వావిశేషేణ సర్వ-సమ్బన్ధః, తస్మాద్ ఇత్య్ అర్థః॥౫౩॥
Link copied౪౦౮। మన్త్రాదివద్ వావిరోధః॥౩।౩।౫౪॥
Link copiedవా-శబ్దశ్ చార్థే యథా మన్త్రాదీనాṁ క్రత్వ్-అఙ్గ-భూతానామ్ ఏకైక-శాఖాభిహితానాṁ సర్వ-శాఖాసు క్రతోర్ ఏకత్వేన సర్వత్ర సమ్బన్ధో న విరుధ్యతే; తద్వచ్ చావిరోధః॥౫౪॥ ఇత్య్ అఙ్గావబద్ధాధికరణమ్॥౨౨॥
Link copied౪౦౯। భూమ్నః క్రతువజ్ జాయస్త్వṁ తథా హి దర్శయతి॥౩।౩।౫౫॥
Link copiedవైశ్వానర-విద్యాయాṁ స్వర్లోకాదిత్య-వాయ్వ్-ఆకాశ-పృథివ్య్-అవయవో వైశ్వానరాత్మోపాస్యః శ్రుతః। తత్ర కిṁ వ్యస్తస్యైవోపాసనṁ కార్యమ్, ఉత వ్యస్తస్య సమస్తస్య చ, అథ సమస్తస్యైవేతి సṁశయః। ఔపమన్యవ కṁ త్వమ్ ఆత్మానమ్ ఉపాస్స ఇతి దివమ్ ఏవ భగవో రాజన్, ఇత్య్ ఆదినా స్వర్లోకాది-పృథివ్య్-అన్తానాṁ వైశ్వానరాత్మనో మూర్ధాది-పాదాన్తావయవత్వమ్ అభిధాయ, తత్ర తత్ర వ్యస్తస్యైవోపాసనṁ ఫలṁ చ విహితమ్ ఇతి పశ్చాత్, యస్ త్వ్ ఏతమ్ ఏవṁ ప్రాదేశ-మాత్రమ్ అభివిమానమ్ ఆత్మానṁ వైశ్వానరమ్ ఉపాస్తే, ఇతి పూర్వోక్తస్య సమాసేనోపసṁహార ఇతి యుక్తమ్; అతో వ్యస్తస్యైవోపాసనṁ కార్యమ్ ఇతి ప్రథమః పక్షః। సమస్తోపాసనస్యే--- సర్వేషు లోకేషు సర్వేషు భూతేషు సర్వేష్వ్ ఆత్మస్వ్ అన్నమ్ అత్తి, ఇతి వ్యస్తోపాసన-ఫలేభ్యః ఫలాన్తర-విధానాద్ వ్యస్తస్య సమస్తస్య చోపాసనṁ కార్యమ్ ఇతి ద్వితీయః పక్షః। రాద్ధాన్తస్ తు--- ఆత్మానṁ వైశ్వానరṁ సమ్ప్రత్యధ్యేషి తమ్ ఏవ నో బ్రూహి, ఇత్య్ ఆరభ్య వైశ్వానరాత్మనః స్వర్లోకాది-పృథివ్య్-అన్తానాṁ మూర్ధాది-పాదాన్తావయవత్వమ్ అభిధాయ, యస్ త్వ్ ఏతమ్ ఏవṁ ప్రాదేశ-మాత్రమ్ అభివిమానమ్ ఆత్మానṁ వైశ్వానరమ్ ఉపాస్తే స సర్వేషు లోకేషు, ఇత్య్ ఉపసṁహారాద్ ఏకస్యైవ వైశ్వానరాత్మనస్ త్రైలోక్య-శరీరస్య పరస్య బ్రహ్మణ ఉపాసనṁ విధాయ, ఫలṁ చ--- సర్వేష్వ్ ఆత్మస్వ్ అన్నమ్ అత్తీతి, తద్ యథేషీక-తూల-మగ్నౌ ప్రోతṁ ప్రదూయేతైవṁ హాస్య సర్వే పాప్మానః ప్రదూయన్తే, ఇతి చ సర్వేషామ్ ఆత్మనామ్ అవిశేషేణ భోగ్య-భూతṁ పరṁ బ్రహ్మానుభవతి, తద్-విరోధినశ్ చ సర్వ-పాప్మనో దహతీత్య్ ఉక్తమ్ ఇతి గమ్యతే। అత ఏక-వాక్యత్వాత్ సమస్తస్యైవోపాసనṁ కార్యమ్। వ్యస్త-వాదస్ తు స్వర్లోకాదీనాṁ మూర్ధాద్య్-అవయవత్వ-జ్ఞాపనర్థా। తత్ర తత్ర చ ఫల-వాదో వైశ్వానరṁ ద్వాదశ-కపాలṁ నిర్వపేత్ పుత్రే జాతే యద్ అష్టా-కపాలో భవతి, ఇత్య్ ఆదివద్ ద్రష్టవ్యః। సూత్రార్థస్ తు--- భూమ్నో జ్యాయస్త్వమ్, సమస్తోపాసనస్య శ్రైష్ఠయమ్; ప్రామాణికత్వమ్ ఇత్య్ అర్థః। ఏక-వాక్యత్వావగతేర్ వ్యస్తవాదః ఋతువద్ ద్రష్టవ్యః।
Link copiedవైశ్వానరṁ ద్వాదశ-కపాలṁ నిర్వపేత్ \॥॥యద్ అష్టా-కపాలః, ఇత్య్ ఆదిః క్రతావ్ ఇవేత్య్ అర్థః। తథా హి దర్శయతి--- సమస్తోపాసనస్య జ్యాయస్త్వమ్ ఏవ దర్శయతి శ్రుతిః, మూర్ధా తే వ్యపతిష్యద్ యన్ మాṁ నాగమిష్యః, ఇత్య్ ఆదినా వ్యస్తోపాసనేఽనర్థṁ బ్రువతీ॥౫౫॥
Link copiedఇతి భూమ-జ్యాయస్త్వాధికరణమ్॥౨౩॥
Link copied౪౧౦। నానా శబ్దాది-భేదాత్॥౩।౩।౫౬॥
Link copiedసద్-విద్యా-దహర-విద్యా-శాణ్డిల్య-విద్యా-భూమ-విద్యాదికా బ్రహ్మోపాసన-రూపా బ్రహ్మ-ప్రాప్తి-ఫలాః కిమ్ ఏక-విద్యా, ఉత నానేతి సṁశయః। ఉపాస్యస్య బ్రహ్మణః ఫలస్య చైకత్వాత్, వేద, ఉపాసీతేతి చ పర్యాయత్వాద్ ఏక-విద్యేతి పూర్వః పక్షః। బ్రహ్మణ ఏకత్వేఽపి జగద్-ఏక-కారణత్వాపహత-పాప్మత్వాద్య్-అనుబన్ధ-భేద-హేతుభిః పూర్వ-కాణ్డోదితానుబన్ధ-భేద-హేతుభిః శబ్దాన్తరాదిభిర్ ఏవానుబన్ధ-భేదాన్ నానా-భూతా ఇతి రాద్ధాన్తః। శబ్దాన్తరాదిభిస్ తత్రోదితైర్ ఏవ విద్యా-భేద-సిద్ధావ్ అపీహ పునర్ వచనṁ బ్రహ్మ-ప్రాప్తి-హేతు-భూతṁ వేదాన్తోదితṁ జ్ఞానమ్ అవిధేయమ్ ఇతి కుదృష్టి-నిరాసార్థమ్। సూత్రార్థస్ తు--- సద్-విద్యా-భూమ-విద్యాదికా నానా-భూతాః, బ్రహ్మణ ఏకత్వేఽపి సద్-భూమాపహత-పాప్మాది-శబ్ద-భేదాత్। ఆది-శబ్దాద్ అభ్యాస-సఙ్ఖ్యా-గుణ-ప్రక్రియా-నామధేయాని గృహ్యన్తే॥౫౬॥ ఇతి శబ్దాది-భేదాధికరణమ్॥౨౪॥
Link copied౪౧౧। వికల్పోఽవిశిష్ట-ఫలత్వాత్॥౩।౩।౫౭॥
Link copiedసద్-విద్యా-భూమ-విద్యాదికానాṁ బ్రహ్మ-ప్రాప్తి-ఫలానామ్ ఏకస్మిన్ పురుషే సముచ్చయోఽపి సమ్భవతి, నేతి సṁశయః। అగ్నిహోత్ర-దర్శపూర్ణమాస-జ్యోతిష్టోమాదీనాṁ స్వర్గైక-ఫలానాṁ తత్ర భూయస్త్వాపేక్షయా యథైకస్మిన్ పురుషే సముచ్చయో దృశ్యతేస్ తథాత్రాపి బ్రహ్మానుభవ-భూయస్త్వాపేక్షయైకస్మిన్ పురుషే సముచ్చయః సమ్భవతీతి పూర్వః పక్షః। దేశతః కాలతః స్వరూపతశ్ చానవచ్ఛిన్నానన్ద-స్వరూప-బ్రహ్మానుభవః సర్వాసాṁ పర-విద్యానాṁ ఫలṁ తచ్ చైకయా విద్యయావాప్తమ్ ఇత్య్ ఏకస్మిన్ పురుషే విద్యాన్తర-సముచ్చయః ప్రయోజనాభావాన్ న సమ్భవతీతి సర్వాసాṁ వికల్పః, ఇతి రాద్ధాన్తః। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౫౭॥
Link copied౪౧౨। కామ్యాస్ తు యథా-కామṁ సముచ్చీయేరన్ న వా పూర్వ-హేత్వ్-అభావాత్॥౩।౩।౫౮॥
Link copiedబ్రహ్మ-ప్రాప్తి-వ్యతిరిక్త-ఫలా విద్యాః కామ్యాః। తాస్ తు యథేష్టṁ సముచ్చీయేరన్ వికల్ప్యేరన్ వా, పూర్వ-హేత్వ్-అభావాత్--- తత్-ఫలస్యాపరిమితత్వాభావాత్; భూయస్త్వాపేక్షయా సముచ్చయః సమ్భవతీత్య్ అర్థః॥౫౮॥ ఇతి వికల్పాధికరణమ్॥౨౫॥
Link copied౪౧౩। అఙ్గేషు యథాశ్రయ-భావః॥౩।౩।౫౯॥
Link copiedకర్మాఙ్గాశ్రయాణామ్ ఉద్గీథాద్య్-ఉపాసనానాṁ గో-దోహనాదివద్ అధికారాన్తరత్వేనోపాదానానియమః పూర్వోక్తః సమ్భవతి, నేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః, ఉద్గీథమ్ ఉపాసీతేత్య్ ఉపాసన-విధౌ ఫలాన్తరాశ్రవణాత్, ఉద్గీథ-సమ్బన్ధావగత-క్రత్వ్-అఙ్గ-భావావిరోధాత్। ఏవṁ విధి-వాక్యేనైవ క్రత్వ్-అఙ్గ-భావేఽవగతే సతి, యద్ ఏవ విద్యయా కరోతి శ్రద్ధయోపనిషదా తద్ ఏవ వీర్యవత్తరṁ భవతి\॥॥తేనేభౌ కురుతః, ఇతి చ వర్తమాన-నిర్దేశః, న స పాపṁ శ్లోక శృణోతి, ఇతివద్ అర్థవాద-మాత్రṁ స్యాత్। రాద్ధాన్తస్ తు--- యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి విద్యాయాః క్రతు-వీర్యవత్తరత్వṁ ప్రతి సాక్షాత్ సాధన-భావోఽవగమ్యతే। ఏవṁ ఫల-సాధనతయావగతా విద్యా కిమ్ ఆశ్రిత్య ఫలṁ కరోతీత్య్ అపేక్షాయామ్, ఓమ్ ఇత్య్ ఏతద్ అక్షరమ్ ఉద్గీథమ్ ఉపాసీత, ఇత్య్ ఉద్గీథమ్ ఆశ్రిత్య కుర్యాద్ ఇతి క్రత్వ్-అఙ్గ-భూతోద్గీథాశ్రయత్వ-మాత్రṁ ప్రతీయతే; అతః ఫలాన్తర-సాధనతయావగతస్య క్రత్వ్-అఙ్గ-భావో నోపపద్యత ఇతి గో-దోహనాది-తుల్యతయోపాదానానియమః సిధ్యత్య్ ఏవ। యస్య పర్ణ-మయీ జుహూర్ భవతి న స పాపṁ శ్లోకṁ శృణోతీత్య్ అత్ర తు పర్ణతాయా జుహూ-సమ్బన్ధాత్ ప్రాగ్ అపాప-శ్లోక-శ్రవణṁ ప్రతి సాక్షాత్ సాధన-భావో న శ్రూయతే; పర్ణతా-సమ్బన్ధి-పురుష-సమ్బన్ధ-మాత్రṁ శ్రుతమ్; తత్ తు--- పర్ణ-మయీ జుహూర్ ఇతి శ్రుత్యైవ ప్రథమావగత-క్రత్వ్-అఙ్గ-భావṁ న నిరుణద్ధీత్య్ అర్థవాద-మాత్రమ్ ఇతి విశేషః। సూత్రార్థస్ తు--- అఙ్గేషు, ఉద్గీథాదిషు ఆశ్రితానామ్ ఉపాసనానాṁ యథాశ్రయ-భావః--- ఉద్గీథాదివద్ అఙ్గ-భావః। గో-దోహనాదివత్ తస్మిన్ వాక్యే ఫల-సమ్బన్ధాశ్రవణాద్ అఙ్గ-భావో న విరుధ్యత ఇత్య్ అర్థః॥౫౯॥
Link copied౪౧౪। శిష్టేశ్ చ॥౩।౩।౬౦॥
Link copiedశిష్టః--- శాశనమ్, విధానమ్; ఉద్గీథమ్ ఉపాసీతేతి విధానాచ్ చ వర్తమాన-నిర్దేశావగత-ఫల-సమ్బన్ధాత్ ప్రాగ్ ఏవోద్గీథ-సమ్బన్ధోఽవగత ఇతి తద్-అఙ్గ-భావో । న విరుధ్యతే। అత ఉపాదాన-నియమః॥౬౦॥
Link copied౪౧౫। సమాహారాత్॥౩।౩।౬౧॥
Link copiedఇతశ్ చ--- హోతృ-షదనాద్ ధైవాపి దురుద్గీథమ్ అనుసమాహరతి, ఇత్య్ ఉద్గీథ-వేదన-హానావ్ అన్యేన సమాధానṁ బ్రువద్ వేదనస్యోపాదాన-నియమṁ దర్శయతి। దురుద్గీథṁ--- వేదన-హీనమ్ ఉద్గీథమ్॥౬౧॥
Link copied౪౧౬। గుణ-సాధారణ్య-శ్రుతేశ్ చ॥౩।౩।౬౨॥
Link copiedఇతశ్ చోపాదాన-నియమోఽవగమ్యతే। ప్రణవ-గుణత్వేనావగతస్యోపాసనస్య సాధారణ్యṁ హి శ్రూయతే--- తేనేయṁ త్రయీ విద్యా వర్తతే ఓమ్ ఇత్య్ ఆశ్రావయత్య్ ఓమ్ ఇతి శṁసత్య్ ఓమ్ ఇత్య్ ఉద్గాయతి, ఇతి తేనేతి ప్రకృత-పరామర్శాత్ సోపాసన ఏవ ప్రణవః సర్వత్ర సఞ్చరతి। అతః ప్రణవ-సహభావ-నియమ-దర్శనాద్ ఉపాదాన-నియమో నిశ్చీయతే॥౬౨॥
Link copied౪౧౭। న వా తత్-సహభావాశ్రుతేః॥౩।౩।౬౩॥
Link copiedన వోపాదాన-నియమః, తత్-సహభావాశ్రుతేః--- ఉద్గీథాద్య్-అఙ్గ-భావా శ్రుతేర్ ఇత్య్ అర్థః। క్రత్వ్-అఙ్గ-భావో హి సహభావః। యద్ ఏవ విద్యయా కరోతి\॥॥తద్ ఏవ వీర్యవత్తరమ్ ఇతి వీర్యవత్తర-స్వసాధనతయావగతాయా విద్యాయాః క్రత్వ్-అఙ్గతయా వినియోగాసమ్భవాత్ తద్-అఙ్గ-భావో హి న శ్రూయతే। యత్ర సాక్షాత్ ఫల-సాధనత్వṁ ప్రతిపాద్యతే; తత్ర ఫల-సాధనత్వṁ ప్రథమṁ ప్రతీయత ఇతి తస్య క్రత్వ్-అఙ్గతయా వినియోగో న సమ్భవతీత్య్ అభిప్రాయః॥౬౩॥
Link copied౪౧౮। దర్శనాచ్ చ॥౩।౩।౬౪॥
Link copiedఏవṁ-విద్ ధ వై బ్రహ్మా యజ్ఞṁ యజమానṁ సర్వాṁశ్ చర్త్విజోఽభిరక్షతి, ఇతి బ్రహ్మణో వేదనేన యజ్ఞస్య యజమానస్య ఋత్విజాṁ చ రక్షణṁ బ్రువత్య్ అన్యేషాṁ వేదనాభావṁ దర్శయతి। తచ్ చోద్గీథోపాసనస్యానఙ్గత్వే సత్య్ ఏవోపపద్యతే। అతశ్ చోపాదాన-నియమః॥౬౪॥ ఇతి యథాశ్రయ-భావాధికరణమ్॥౨౬॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే తృతీయస్యాధ్యాయస్య తృతీయః పాదః॥
Link copied355. sarva-vedānta-pratyayaṁ codanādy-aviśeṣāt||3|3|1||
Link copiedkiṁ sarveṣu vedānteṣu śrūyamāṇā daharādi-vidyā ekaiva, uta vidyāntaram iti saṁśayaḥ| aviśeṣa-punaḥ-śravaṇasya prakaraṇāntarasya ca vidyā-bheda-hetutvād vidyāntaram iti pūrvaḥ pakṣaḥ| codanā-phala-saṁyoga-rūpākhyānām aviśeṣāt, pratipattṛ-bhedena punaḥ-śravaṇopapatteḥ, tata eva prakaraṇāntaratvābhāvāc ca, vidyaikyam iti rāddhāntaḥ| vidyāsu guṇopasaṁhārādi-cintārthaṁ śākhāntarādhikaraṇoktanyāyas tat-phalaṁ ca sthirīkṛtam| sūtrārthas tu--- sarva-vedānta-pratyayam ekaṁ daharādy-upāsanam| kutaḥ| codanādy-aviśeṣāt||1||
Link copied356. bhedān neti ced ekasyām api||3|3|2||
Link copiedaviśeṣa-punaḥ-śrutyā vidyā-bhedāvagamān na vidyaikyam iti cet; ekasyām api vidyāyāṁ śākhāntare pratipattṛ-bhedāt punaḥ-śravaṇam arthavad iti na vidyā-bhedaḥ||2||
Link copiedteṣām evaitāṁ brahma-vidyāṁ vadeta śirovrataṁ vidhivad yais tu cīrṇam, ity ātharvaṇikānāṁ śirovratasya vidyopadeśāṅgatva-niyama-darśanaṁ vidyā-bhedaṁ dyotayati, vidyaikye hy āvaṇikānām eveti niyamo nopapadyata ity āśaṅkyāha---
Link copied357. svādhyāyasya tathātve hi samācāre'dhikārāc ca savavac ca tan-niyamaḥ||3|3|3||
Link copiedśirovrataṁ na vidyāṅgam, api tu svādhyāyasya tathātve hi--- svādhyāyasya taj-janya-saṁskāra-bhāktve hi tan-niyamaḥ, naitad acīrṇa-vrato'dhīyīta, ity adhyayana-sambandhāt, samācārākhye granthe, idam api veda-vratena vyākhyātam iti veda-vratatvāvagamāc ca| brahma-vidyāṁ vadeta--- veda-vidyām ity arthaḥ| savavac ca tan-niyamaḥ--- yathā hi sava-homāḥ sapta-sūryādayaḥ śataudana-paryantā ātharvaṇikaikāgni-sambandhinas tatraiva bhavanti, tathedam apy ātharvaṇa-veda-sambandhitvena tatraiva bhavati||3||
Link copied358. darśayati ca||3|3|4||
Link copieddarśayati ca śrutir upāsanasya sarva-vedānta-pratyayatvam; chāndogye dahara-vidyāyāṁ--- tasmin yad antaḥ, iti vihitam apahata-pāpmatvādi-guṇāṣṭakaṁ taittirīyake kevalaṁ--- tasmin yad antas tad upāsitavyam ity evoktam; tad ubhayatra vidyaikatve sambhavati||4||
Link copied359. upasaṁhāro'rthābhedād vidhi-śeṣavat samāne ca||3|3|5||
Link copiedtad evaṁ sarva-vedānteṣu daharādy-upāsane samāne--- ekasmin sati, tat-tad-upāsane vedāntāntara-vihitasya guṇasya vedāntāntare copasaṁhāraḥ kartavyaḥ| kutaḥ| arthābhedāt--- tad-vidyāṅgatvena tad-upakārābhedāt| vidhiśeṣavat--- yathaikasmin vedānte vaiśvānara-vidyādi-viśeṣatayā vihitasya guṇasya tad-upakārāyopasaṁhāraḥ; tathā vedāntāntare'pi tad-vidyāṅgatvāviśeṣād upasaṁhāro nyāyyaḥ||5||
Link copiediti sarva-vedānta-pratyayādhikaraṇam||1||
Link copied360. anyathātvaṁ śabdād iti cen nāviśeṣāt||3|3|6||
Link copiedasti hy udgītha-vidyā vājināṁ chandogānāṁ ca| vājināṁ tāvat--- hantāsurān yajña udgīthenātyayāma, ity ārabhya udgīthe prāṇa-dṛṣṭyopāsanaṁ śatru-paribhava-phalaṁ vihitam| chandogānām api--- tad dha devā udgītham ājahrur anenainān abhihaniṣyāmaḥ, ity ārabhya udgīthe prāṇa-dṛṣṭyopāsanam eva śatru-paribhava-phalam uktam| kim ubhayatra vidyaikyam, uta vidyā-bheda iti saṁśayaḥ| codanādy-aviśeṣād vidyaikyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yady apy ubhayatrodgīthe prāṇa-dṛṣṭyopāsanam aviśiṣṭam uktam| tathāpi chandogānām--- om ity etad akṣaram udgītham upāsīta, iti prakṛtya, udgītham ājahrur anenainān abhihaniṣyāmaḥ, ity udgīthāvayave praṇave prāṇa-dṛṣṭyopāsanam uktam; vājināṁ tu--- hantāsurān yajña udgīthenātyayāma, ity upakramād aviśeṣeṇa kṛtsnodgīthe prāṇa-dṛṣṭyopāsanam uktam| atha ha ya evāyaṁ mukhyaḥ prāṇas tam udgītham upāsāñcakrire, iti cchandogānām udgāna-karmaṇy udgīthāvayave praṇave prāṇa-dṛṣṭi-vidhānāt| vājināṁ tu--- atha hemam āsanyaṁ prāṇam ūcus tvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udgāyat, iti kṛtsnodgīthasya kartari prāṇa-dṛṣṭi-vidhānāc cobhayatra rūpa-bhedād vidyā-bheda iti||
Link copiedsūtrārthas tu--- anyathātvaṁ śabdād iti ced iti rāddhānta-cchāyayā paricodya, nāviśeṣād iti pūrva-pakṣī pariharati| atha ha ya evāyaṁ mukhyaḥ prāṇas tam udgītham upāsāñcakrire, atha hemam āsanyaṁ prāṇam ūcus tvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat, ity ekatrodgīthe prāṇa-dṛṣṭi-śabdāt, itaratrodgātari prāṇa-dṛṣṭi-śabdāc ca, rūpānyathātvam iti cen na rūpa-bhedaḥ| kutaḥ| aviśeṣāt--- upakrame hy aviśeṣeṇa, udgīthenātyayāma, udgītham ājahrur anenainān abhihaniṣyāmaḥ ity udgīthasyaivopāsyatva-pratīteḥ| tvaṁ na udgāyeti tatheti tebhya eṣa prāṇa udagāyad iti karmaṇy evodgīthe kartṛtvam upacaryata iti yuktam; anyathopakrama-virodhaḥ syāt||6||
Link copied361. na vā prakaraṇa-bhedāt paro varīyastvādivat||3|3|7||
Link copiedna caitad asti| yad rūpaikyād vidyaikyam iti| kutaḥ| prakaraṇa-bhedāt| chāndogye hi--- om ity etad akṣaram udgītham upāsītety udgīthāvayava-bhūtaṁ praṇavam upāsyaṁ prakṛtya, udgītham ājahruḥ, iti vacanād udgīthāvayava-bhūtaḥ praṇava evodgītha-śabdenocyata ity avagamyate; vājasaneyaketva-viśeṣeṇa, udgīthenātyayāma, ity upakramāt kṛtsnodgītha upāsyaḥ prakṛtaḥ; ata udgīthe prāṇa-dṛṣṭy-aviśeṣe'pi rūpa-bhedād vidyā-bhedaḥ| parovarīyastvādivat--- yathaikasyām api śākhāyām udgīthāvayava-bhūte praṇave paramātma-dṛṣṭi-vidhāna-sāmye'pi hiraṇmaya-puruṣa-dṛṣṭi-vidhānāt parovarīyastvādi-guṇa-viśiṣṭa-dṛṣṭi-vidhānam arthāntaram iti rūpa-bhedaḥ; tadvad atrāpi| evaṁ prakaraṇa-bhedenopakrama evaikatrodgīthāvayava-viṣayatvenānyatra kṛtsnodgītha-viṣayatvena copāsana-bhede siddhe saty upasaṁhārasya karma-viṣayaṁ kartṛ-viṣayaṁ ca prāṇa-dṛṣṭi-vidhānaṁ yathāśrutam avatiṣṭhata ity abhiprāyaḥ||7||
Link copied362. saṁjñātaś cet tad uktam asti tu tad api||3|3|8||
Link copiedudgītha-vidyeti saṁjñaikyāt, tat--- vidheyaikyam uktaṁ cet, tat--- saṁjñaikyaṁ vidheya-bhede'pi, asti tu--- asty evety arthaḥ; yathā nityāgnihotre, kuṇḍapāyinām ayanāgnihotre ca; yathā ca cchāndogye prathama-prapāṭhakoditāsu bahvīṣu vidyāsūdgītha-vidyeti saṁjñaikyam||8||
Link copied363. vyāpteś ca samañjasam||3|3|9||
Link copiedprathama-prapāṭhake upakramavad uttarāsv apy udgītha-vidyāsūdgīthāvayavasya praṇavasyaivopāsyatva-vyāpter madhya-gatasya--- tad dha devā udgītham ājarhuḥ, ity udgītha-śabdasyāpi praṇava-viṣayatvam eva samañjasam||9|| ity anyathātvādhikaraṇam||2||
Link copied364. sarvābhedād anyatreme||3|3|10||
Link copiedyo ha vai jyeṣṭhaṁ ca śreṣṭhaṁ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati prāṇo vā va jyeṣṭhaś ca śreṣṭhaś ca, iti cchandogānāṁ vājināṁ kauṣītakināṁ ca prāṇa-vidyāmnātā| tatra cchāndogya-vājasaneyakayoḥ sarvasyaikarūpyāt prāṇa-vidyaikaiva| kauṣītaki-prāṇa-vidyāyās tasyāś ca bhedo'sti, uta nāstīti saṁśayaḥ| asti bheda iti pūrvaḥ pakṣaḥ| yady api sarvatra jyaiṣṭhya-śraiṣṭhya-guṇakaḥ prāṇa eka evopāsyaḥ; tathāpi cchandogānāṁ vājasaneyināṁ ca jyaiṣṭhya-śraiṣṭhya-guṇakasya prāṇasya vāg-ādi-gata-vasiṣṭhatvādi-guṇa-sambandhitvam api śabdād eva pratīyate| kauṣītakināṁ tu na tatheti rūpa-bhedād vidyā-bhedaḥ| rāddhāntas tu--- yady api kauṣītaki-prāṇa-vidyāyāṁ vāg-ādi-bhāta-vasiṣṭatvādi-sambandhitvam api prāṇasya śabdān nābhihitam, tathāpi tatrāpi prāṇasya jyeṣṭhya-śreṣṭhyopapādanaṁ vāg-ādīnāṁ sthites tat-tat-kāryasya ca prāṇādhīnatvenety etad aviśiṣṭam iti vāg-ādi-gata-vasiṣṭhatvāder api prāṇa-hetukatvānusandhānena vinā prāṇasya jyaiṣṭhya-śreṣṭhyānusandhānam anupapannam iti kauṣītaki-prāṇa-vidyāyām api vāg-ādi-gata-vasiṣṭhatvādi-sambandhy eva prāṇa upāsya iti rūpābhedād vidyaikyam||
Link copiedsūtrārthas tu--- sarvābhedād anyatreme| anyatra--- kauṣītaki-prāṇavidyāyām api, ime vasiṣṭhatvādayaḥ santy eva| kutaḥ| sarvābhedāt--- prāṇa-jyaiṣṭhya-śraiṣṭhyopapādana-prakārasya sarvasya tatrāpy abhedāt| vāg-ādīnāṁ sthiteḥ kāryasya ca prāṇa-hetutvena hi prāṇasya jyaiṣṭhyaṁ śraiṣṭhyaṁ cātrāpy upapāditam| ato vāg-ādi-gata-kārya-sāmarthya-rūpa-vasiṣṭhatvādi-sambandhitvaṁ prāṇasyātrāpy uktam evety arthaḥ||10|| iti sarvābhedādhikaraṇam||3||
Link copied365. ānandādayaḥ pradhānasya||3|3|11||
Link copiedsatya-jñānānandāmalatvānantatva-rūpā brahma-svarūpa-nirūpaka-guṇāḥ sarvāsu para-vidyāsūpasaṁhartavyāḥ, uta neti saṁśayaḥ| nopasaṁhartavyā iti pūrvaḥ pakṣaḥ, aprakaraṇādhītānām upasaṁhāre pramāṇābhāvāt, brahma-guṇānām asaṅkhyeyatvenopasaṁhārāśakteś ca| rāddhāntas tu--- jñānānandādīnāṁ brahma-svarūpa-nirūpaka-guṇatvena tair vinā brahma-svarūpānusandhānānupapatteḥ sarvāsūpasaṁhartavyā iti| sūtrārthas tu--- sarvābhedād ity ato'bhedād iti vartate, ānandādayo guṇāḥ sarvāsūpasaṁhartavyāḥ, pradhānasya--- guṇino brahmaṇaḥ sarvāsu vidyāsv abhedāt| sarvāsu para-vidyāsu brahmaikam evānusandheyaṁ cet, yair guṇair vinā brahma-svarūpānusandhānam aśakyam, te ca jñānānandādayo'nusandheyā ity arthaḥ||11||
Link copied366. priyaśirastvādy-aprāptir upacayāpacayau hi bhede||3|3|12||
Link copiedānandādīnāṁ prāptāv api--- tasya priyam eva śiraḥ, modo dakṣiṇaḥ pakṣaḥ, iti priyaśirastvādīnām aprāptiḥ, brahma-svarūpa-guṇatvābhāvāt teṣām| brahmaṇaḥ śiraḥ-pakṣādi-bhede svarūpe sati brahmaṇa upacayāpacayau prasajyeyātām| tataś ca--- satyaṁ jñānam anantaṁ brahma, ānando'jaraḥ, ity ādi virudhyate||12||
Link copiedpriyaśirastvādibhya ānandādīnāṁ viśeṣam āha---
Link copied367. itare tv artha-sāmānyāt||3|3|13||
Link copieditare--- ānandādayaḥ, artha-sāmānyāt--- brahma-svarūpa-sāmānyāt sarvāsv anuvartante| brahma-svarūpa-nirūpa-rūpaṇa-dharmatvena brahma-svarūpa-samānā hi te||13||
Link copiedpriyaśirastvādayo brahma-svarūpa-dharmā na bhavanti cet; tad-abhidhānaṁ kim artham ity ata āha---
Link copied368. ādhyānāya prayojanābhāvāt||3|3|14||
Link copiedanucintanārthaṁ tad-abhidhānaṁ, prayojanāntarābhāvāt| brahma-vid āpnoti param iti veditavyatayopadiṣṭaṁ brahmānanda-mayaṁ priya-modādi-rūpeṇa vibhajya śiraḥ-pakṣāditvena rūpayitvā buddhāv āropyata ity arthaḥ||14||
Link copied369. ātma-śabdāc ca||3|3|15||
Link copiedanyo'ntara ātmānanda-mayaḥ, ity ātma-śabdāc ca priyaśirastvādayo na brahma-svarūpa-dharmāḥ; śiraḥ-pakṣādayo hi nātma-dharmāḥ||15||
Link copied370. ātma-gṛhītir itaravad uttarāt||3|3|16||
Link copiedanyo'ntara ātmety ātma-śabdena paramātmana eva gṛhītiḥ--- grahaṇam; itaravat--- ātmā vā idam eka evāgra āsīt, ity ātma-śabdena yathā paramātmano grahaṇam, tadvat| katham idam avagamyate| tad-ekārthād uttarāt--- so'kāmayata, bahu syāṁ prajāyeyety ādi vākyāt||
Link copied371. anvayād iti cet syād avadhāraṇāt||3|3|17||
Link copiedpūrveṣu--- anyo'ntara ātmā prāṇamayaḥ, ity ādi vākyeṣv anātmasv apy ātma-śabdānvayāt katham uttara-vākyān nirṇaya iti cet; tasmād vā etasmād ātmana ākāśaḥ sambhūtaḥ iti prakṛtasyātmana eva prāṇa-mayādiṣv ānanda-maya-paryanteṣv ātma-śabdenāvadhāraṇāt syād eva nirṇayaḥ| ataḥ priyaśirastvādīnām anātma-dharmatvāt, jñānānandādīnām ātma-svarūpa-nirūpaṇa-dharmatvāc ca, teṣām eva sarvatropasaṁhāraḥ||17|| ity ānandādy-adhikaraṇam||4||
Link copied372. kāryākhyānād apūrvam||3|3|18||
Link copiedchāndogya-vājasaneyakayor jyeṣṭhaṁ ca śreṣṭhaṁ ca prāṇam upāsyaṁ vidhāya, sahovāca kiṁ me vāso bhaviṣyatīty āpa iti hocuḥ, ity apāṁ prāṇasya vāsastvam uktvā, tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati lambhuko ha vāso bhavaty anagno bhavati, iti cchāndogye| vājasaneyake cāpāṁ prāṇa-vāsastvam uktvā, tasmād evaṁvid aśiṣyann ācāmed aśitvā cācāmed etam eva tad annam anagnaṁ kurute, iti| ācamanena prāṇam anagnaṁ kuruta ity arthaḥ| atrāśanāt purastād upariṣṭāc ca kim ācamanaṁ prāṇa-vidyāṅgaṁ vidhīyate, utācamanīyānām apāṁ prāṇa-vāsastvānusandhānaṁ vidhīyata iti saṁśayaḥ| ācāmed ity ācamane vidhi-pratyaya-śravaṇāt, smṛty-ācāra-prāptād ācamanād ācamanāntaraṁ prāṇa-vidyāṅgaṁ vidhīyata iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- aśitvā cācāmed ity ācamanaṁ cātra pratīyate; ācamanīyānām apāṁ prāṇa-vāsaḥ svānusandhānaṁ ca, āpo vāsaḥ, adbhiḥ paridadhati, etam eva tad annam anagnaṁ kurute, iti pratīyate| tatrācamanaṁ tāvat smṛty-ācāra-prāptam; apāṁ prāṇa-vāsastvānusandhānam aprāptam| anagnaṁ kurvanto manyate| anagnaṁ kurute, ity anuvāda-sarūpaṁ pratīyate| tatrācamanāntara-kalpanād ācamanam anūdyācamanīyānām apāṁ prāṇa-vāsastvānusandhānam aprāptaṁ vidhīyata iti yuktam| tad annam anagnaṁ kurute, iti vacanāni tv apūrvatvāt, vidhir vāsyād apūrvatvāt, iti nyāyena vidhi-vacanam eva bhavati| sūtrārthas tu--- apūrvam, aprāptam apāṁ prāṇa-vāsastvānusandhānaṁ vidheyam, na punaḥ prāptam ācamanam| kutaḥ| kāryākhyānāt--- kāryasya aprāptārthasyākhyāna-svabhāvatvāc chāstrasyety arthaḥ||18|| iti kāryākhyānādhikaraṇam||5||
Link copied373. samāna evaṁ cābhedāt||3|3|19||
Link copiedvājasaneyake'gnirahasye bṛhadāraṇyake ca śāṇḍilya-vidyāmnātā| agnirahasye tāvat--- sa ātmānam upāsīta mano-mayaṁ prāṇa-śarīraṁ bhā-rūpaṁ satya-saṅkalpam ākāśātmānam iti| bṛhadāraṇyake ca--- mano-mayo'yaṁ puruṣo bhāḥ satyaṁ tasminn antar hṛdaye yathā vrīhir vā yavo vā sa eṣa sarvasya vaśī sarvasyeśānaḥ sarvasyādhipatiḥ sarvam idaṁ praśāsti, iti| kim atra vidyā-bhedaḥ, uta neti saṁśayaḥ| ekatra satya-saṅkalpatvam adhikaṁ śrutam; itaratra vaśitvādayo'dhikā iti rūpa-bhedād vidyā-bheda iti pūrvaḥ pakṣaḥ| rāddhāntas tu---ubhayatra mano-mayatvādike samāne sati vaśitvādeḥ satya-saṅkalpatva-vitati-rūpatayā tenābhedān na rūpa-bheda iti vidyaikyam| sūtrārthas tu--- mano-mayatvādike samāne sati vidyaikyam, evaṁ cābhedāt--- vaśitvādi-guṇenāpy abhedāt| vaśitvādir hi satya-saṅkalpatva-vitatiḥ||19|| iti samānādhikaraṇam||6||
Link copied374. sambandhād evam anyatrāpi||3|3|20||
Link copiedbṛhadāraṇyake--- ya eṣa etasmin maṇḍale puruṣo yaś cāyaṁ dakṣiṇo'kṣin, ity upakramya āditya-maṇḍale'kṣaṇi ca satyasya brahmaṇo vyāhṛti-śarīratvenopāsyatvam uktvā, tasyopaniṣad ahar ity adhidaivatam, tasyopaniṣad aham ity adhyātmam iti dve rahasya-nāmanī upāsana-śeṣatayāmnāyete| te kiṁ yathāśruta-sthāna-niyate, utobhayatrobhe iti saṁśayaḥ| ubhayoḥ sthānayor eka-rūpasyaivopāsyatvād vidyaikyam ity aniyate nāmanī iti pūrvaḥ pakṣaḥ| akṣy-āditya-sthāna-sambandhitva-rūpākāra-bhedād rūpa-bheda iti vidyā-bhedād dve nāmanī niyate iti rāddhāntaḥ| sūtrārthas tu--- yathā mano-mayatvādi-guṇa-viśiṣṭasyaikasyaivopāsyatvenobhayatra vidyaikyam; evam anyatrākṣy-ādityādhārasyāpy ekasyaiva satyasya brahmaṇaḥ sthāna-dvaya-sambandhān na rūpa-bheda iti vidyaikyād dve nāmanī aniyate||20||
Link copied375. na vā viśeṣāt||3|3|21||
Link copiedna caitad asti yad vidyaikyād ubhayatrobhe nāmanī aniyate iti| kutaḥ| viśeṣāt| ubhayatra hi rūpaṁ viśiṣyate, ekatrāditya-sthāna-sambandhi itaratrākṣi-sthāna-sambandhi brahmeti rūpa-bhedād vidyā-bheda iti niyate nāmanī||21||
Link copied376. darśayati ca||3|3|22||
Link copieddarśayati ca śrutir vidyā-bhedena guṇānupasaṁhāram--- tasyaitasya tad eva rūpaṁ yad amuṣya rūpam ity ādinā rūpādy-atideśena| svato hy aprāptāv atideśena prāpty-apekṣā||22|| iti sambandhādhikaraṇam||7||
Link copied377. sambhṛti-dyu-vyāpty api cātaḥ||3|3|23||
Link copiedtaittirīyake rāṇāyanīyānāṁ khileṣu ca--- brahma jyeṣṭhā vīryā sambhṛtāni brahmāgre jyeṣṭhaṁ divam ātatāna| brahma bhūtānāṁ prathamo jajñe tenārhati brahmaṇā spardhituṁ kaḥ, iti brahmaṇi jyeṣṭhānāṁ guṇānāṁ sambhṛtir dyu-vyāptiś cety ādi-guṇa-jātam āmnātam| kim eṣāṁ sarvāsu vidyāsūpasaṁhāraḥ, uta sthāna-viśeṣopāsaneṣu niyama iti saṁśayaḥ| anārabhyādhītatvād eṣāṁ sarvāsūpasaṁhāraḥ, iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yady api na sthāna-viśeṣa-sambandhy-upāsanam ārabhyādhītā ete; tathāpi dyu-vyāpti-sāmarthyāt tasya hṛdayādy-alpa-sthāneṣūpasaṁhārāyogāt tat-sāhacaryāc cetareṣām alpa-sthāna-vihitāsu vidyāsu nopasaṁhāraḥ, iti| sūtrārthas tu--- sambhṛti-dyu-vyāptīti samāhāra-dvandvaikavad bhāvaḥ| sambhṛti-prabhṛti-guṇa-jātam apy ata eva--- sthāna-viśeṣa-sambandha-niyamān niyatam; na sarvatropasaṁhāryam| dyu-vyāptir hi sva-sāmarthyād alpa-sthānānahatayā tad-itara-sthāna-niyatā| sambhṛty-ādy api tat-sāhacaryāt tathaiva||23|| iti sambhṛty-adhikaraṇam||8||
Link copied378. puruṣa-vidyāyām api cetareṣām anāmnānāt||3|3|24||
Link copiedtaittirīyake puruṣa-vidyāmnātā, tasyaivaṁ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī śarīram ity ādikā| chāndogye'pi--- puruṣo vāva yajñas tasya yāni catur-viṁśati-varṣāṇi, ity ādikā| kim atra vidyā-bhedaḥ, uta neti saṁśayaḥ| puruṣa-vidyeti saṁjñaikyāt, taittirīyake phala-sambandhānāmnānāt, chāndogye--- śataṁ jīvati, ity anenaika-phalatvāc ca vidyaikyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- puruṣa-vidyeti saṁjñaikye'pi savana-traya-kalpanā-prakāra-bhedād yajamāna-patny-ādi-kalpanā-prakāra-bhedāc ca rūpa-bhedāt, taittirīyake pūrvānuvāka-gatasya--- brahmaṇo mahimānam āpnoti, iti brahma-vidyā-phalasyaiva sannidhānād aphalasyāsya tad-aṅgatayā tat-phalatvāt phala-bhedāc ca vidyā-bhedaḥ| sūtrārthas tu--- puruṣa-vidyāyām apy ubhayatra rūpa-bhedād vidyā-bhedaḥ| kutaḥ| itareṣām anāmnānāt--- itara-śākhoditānāṁ tad-itara-śākhāyām anāmnānāt| chāndogye taittirīyakāmnātānāṁ yajamāna-patny-ādīnāṁ savanānāṁ cānāmnānāt, taittirīyake ca chāndogyāmnātānāṁ yajñāvayavānām anāmnānād ity arthaḥ| taittirīyake hi--- ātmā yajamānaḥ śraddhā patnī, iti yajamānādi-kalpanam, yat sāyaṁ prātar madhyandinaṁ ca tāni savanāni, iti ca savana-traya-kalpanam; chāndogye cāśiśiṣādīnāṁ dīkṣātvādi-kalpanam, puruṣāyuṣaṁ tredhā vibhajya savana-traya-kalpanaṁ ceti yajñāvayava-kalpana-prakāra-bhedād rūpa-bhedaḥ spaṣṭaḥ| phalam api tathaiveti| itareṣām iti phalasyāpi grahaṇam||24|| iti puruṣa-vidyādhikaraṇam|||9||
Link copied379. vedhādy-artha-bhedāt||3|3|25||
Link copiedātharvaṇikās taittirīyakā aitareyiṇa ity evam ādayaḥ upaniṣad-ārambheṣu--- śukraṁ pravidhya hṛdayaṁ pravidhya, śaṁ no mitraḥ śaṁ varuṇaḥ, saha nāv avatu, ity ādi mantrān mahāvratādīni ca karmāṇy adhīyate| kim eṣāṁ vidyāṅgatvam, uta neti saṁśayaḥ| sannidhi-samāmnānād vidyāṅgatvam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- śukraṁ pravidhya hṛdayaṁ pravidhyety ādi mantra-sāmarthyāt, mahāvratādīnāṁ ca karmaṇāṁ śruty-ādibhiś cābhicāra-dvādaśāhādiṣu viniyogavat, śaṁ no mitraḥ śa varuṇaḥ, sahanāvavatu, ity āder mantrasya ca, ṛtaṁ vadiṣyāmi, satyaṁ vadiṣyāmi, tejasvi nāvadhītam astu, iti mantra-sāmarthyād adhyayane viniyoga iti na vidyāṅgatvam| sūtrārthas tu--- vedhādy-artha-bhedād ity asya vedhādy-artha-bhedavat, satyaṁ vadiṣyāmi, tejasvi nāvadhītam astu, iti śaṁ no mitrāder mantrasyāpy adhyayana-sambandha-rūpārtha-bhedān na vidyāṅgtvam ity abhiprāyaḥ| ataḥ śaṁ no mitrādi-mantra evādhikaraṇasya viṣayaḥ||25|| iti vedhādy-adhikaraṇam||10||
Link copied380. hānau tūpāyana-śabda-śeṣatvāt kuśācchandaḥ stuty-upagānavat tad uktam||3|3|26||
Link copiedviduṣo brahma prāpnuvataḥ puṇya-pāpayor virmocanaṁ dvayoḥ śākhayoḥ śrutam; vimuktayoḥ puṇya-pāpayor anyatra praveśa ekasyāṁ śākhāyāṁ śrutaḥ; vimocanaṁ praveśaś cobhayam ekasyām| tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṁ sāmyam upaiti, aśva iva romāṇi vidhūya pāpaṁ candra iva rāhor mukhāt pramucya| dhūtvā śarīram akṛtaṁ kṛtātmā brahma-lokam abhisambhavāni, iti ca kevala-vimocanam; tasya putrā dāyam upayanti suhṛdaḥ sādhu-kṛtyāṁ dviṣantaḥ pāpa-kṛtyām iti kevala-praveśaḥ; tat sukṛta-duṣkṛte dhūnute tasya priyā jñātayaḥ sukṛtam upayanty apriyā duṣkṛtam ity ubhayam| kiṁ kevala-hāni-cintanaṁ kevalopāyana-cintanam ubhaya-cintanaṁ ca sarvāsu vidyāsu vikalpenānuṣṭheyam, uta samuccayeneti saṁśayaḥ| tathāmnātasyārthavattvāya vikalpa iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- puṇya-pāpa-praveśasya vimocanāpekṣatvena śākhāntara-sthasyāpi praveśa-vākyasya śākhāntara-stha-vimocana-vākya-śeṣatvād vākya-dvayenaikārtha-vidhānāt samuccayaḥ| ekasyāṁ śākhāyām ubhaya-vidhānaṁ pratipattṛ-bhedena parihriyate||
Link copiedsūtrārthas tu--- hānau tv iti tu-śabdaḥ pakṣa-vyāvṛtty-arthaḥ| hānāv iti pradarśanārtham; kevala-vimocane kevale copāyane śrūyamāṇe tayor itaretara-samuccayo'vaśyambhāvī| kutaḥ| upāyana-śabda-śeṣatvāt--- upāyana-śabdasya hāni-vākya-śeṣatvād ity arthaḥ| tyaktayoḥ puṇya-pāpayoḥ praveśa-sthāna-vācitvād upāyana-vākyasya hāni-vākya-śeṣatvam avagamyate| pradeśāntarāmnāta-vākyasya pradeśāntarāmnāta-vākya-śeṣatve dṛṣṭāntān āha--- kuśācchandaḥ stuty-upagānavad iti| yathā--- vānaspatyāḥ kuśāḥ, iti pradeśāntarāmnātasya vākyasya, audumbaryaḥ kuśāḥ, iti tad-viśeṣa-vāci-pradeśāntara-stham; yathā ca--- devāsurāṇāṁ chandobhiḥ, iti sāmānyataḥ pradeśāntarāmnātasya, deva-cchandāṁsi pūrvam iti tat-krama-viśeṣa-vāci pradeśāntara-stham; yathā ca--- hiraṇyena ṣoḍaśinaḥ stotram upākaroti, iti pradeśāntara-sthasya tat-kāla-viśeṣa-vāci, samayāviṣite sūrya ṣoḍaśinaḥ stotram upākaroti, iti pradeśāntara-stham; yathā ca--- ṛtvija upagāyanti, iti pradeśāntara-sthasya, nādhvaryur upagāyet, iti tat-paryudāsa-rūpaṁ pradeśāntara-stham; evam upāyana-vākyasya hāni-vākya-śeṣatayā sambhavantyāṁ gatau na vikalpo yuktaḥ| tad uktaṁ pūrvasmin kāṇḍe--- api tu vākya-śeṣaḥ syād anyāyyatvād vikalpasya, ity ādinā||26|| iti hāny-adhikaraṇam||11||
Link copied381. sāmparāye tartavyābhāvāt tathā hy anye||3|3|27||
Link copiedkim idaṁ sukṛta-duṣkṛtayor hāni-cintanaṁ deha-viyoga-kāle ekadeśaḥ kṣīyate, adhvani śiṣṭam ity ubhayatra kartavyam, uta deha-viyoga-kāla eva sarvaṁ kṣīyata iti saṁśayaḥ| ubhayatra śruter devayānena pathā gamanānyathānupapattyā cobhayatreti pūrvaḥ pakṣaḥ, aśva iva romāṇi vidhūya pāpaṁ candra iva rāhor mukhāt pramucya, dhūtvā śarīram akṛtaṁ kṛtātmā brahma-lokam iti deha-viyoga-kāle, sa āgacchati virajāṁ nadīṁ....tat sukṛta-duṣkṛte dhūnute ity adhvany api hāni-śruteḥ| deha-viyoga-kāle sarva-karma-kṣaye hi devayānena gamana-sādhanaṁ karma na sambhavati| rāddhāntas tu--- tasya tāvad eva ciraṁ yāvan na vimokṣye atha sampatsye, iti deha-viyogād ūrdhvaṁ brahma-prāpti-vyatirekeṇānubhāvya-puṇya-pāpa-phalābhāvāt, aśva iva romāṇi vidhūya pāpam ity ādinaikārthyāt, adhvany āmnātam api, tat sukṛta-duṣkṛte dhūnute iti vākyaṁ deha-viyoga-kāle saṅgamayitavyam iti deha-viyoga-kāla eva hāni-cintanam| sarva-karma-kṣaye'pi hi vidyā-sāmarthyād eva devayānena pathā gamanaṁ copapadyate| vidyā hi svayaṁ sūkṣma-śarīrasyānārambhikāpi prakṛta-sukha-duḥkhopabhoga-sādhana-sthūla-śarīrasya sarva-karmaṇāṁ ca niravaśeṣa-kṣaye'pi sva-phala-bhūta-brahma-prāpti-pratipādanāya devayānena pathaina gayituṁ sūkṣma-śarīraṁ sthāpayati||
Link copiedsūtrārthas tu--- sāmparāye, deha-viyoga-kāla eva cintanīyaḥ| kutaḥ| tartavyābhāvāt--- deha-viyogād ūrdhvaṁ brahma-prāpti-vyatirekeṇa taritavya-bhogābhāvāt| tathā hy anye'dhīyate--- tasya tāvad eva ciraṁ yāvan na vimokṣye, atha sampatsye, iti, aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ, iti ca||27||
Link copied382. chandata ubhayāvirodhāt||3|3|28||
Link copiedevam artha-svābhāvyād deha-viyoga-kāla eva niravaśeṣa-karma-kṣaye'vadhṛte sati, tat sukṛta-duṣkṛte dhūnute iti vākya-khaṇḍaḥ ubhayāvirodhāt--- ubhaya-śruty-avirodhāc chandato neyaḥ, aśva iva romāṇi vidhūya pāpaṁ....dhūtvā śarīram akṛtam, tasya tāvad eva ciram ity ubhaya-śruty-avirodhāc carama-śruto'pi, tat sukṛta-duṣkṛte dhūnute iti vākya-khaṇḍaḥ, etaṁ devayānaṁ panthānam āpadyate, iti prathama-śruta-khaṇḍāt prāg anugamayitavya ity arthaḥ||28||
Link copiedatra codayati---
Link copied383. gater arthavattvam ubhayadhānyathā hi virodhaḥ||3|3|29||
Link copieddevayānena gati-śruter arthavattvaṁ deha-viyoga-kāle'dhvani cety ubhayathā karma-kṣaye saty eva; anyathā deha-viyoga-kāle eva sarva-karma-kṣaye sati sūkṣma-śarīrasyāpy ārambhaka-nāśena sthity-anupapatter devayāna-gati-śrutir hi virudhyate||29||
Link copiedpariharati---
Link copied384. upapannas tal-lakṣaṇārthopalabdher lokavat||3|3|30||
Link copiedbhagavantam upāsīnānāṁ deha-viyoga-kāle sarva-karma-kṣaye'py upapanno devayānaḥ panthāḥ| kutaḥ| tal-lakṣaṇārthopalabdheḥ--- tal-lakṣaṇārthaḥ, taj-jātīyārthaḥ, akarma-labhyārthopalabdher ity arthaḥ| upalabhyate hy akarma-labhyārtho brahmopāsīnānāṁ--- sa svarāḍ bhavati tasya sarveṣu lokeṣu kāma-cāro bhavati, ity ādiṣu| lokavat--- yathā loke rājānam upāsīnānāṁ prākṛta-puruṣāsādhāraṇātiramaṇīyānekārtha-siddhiḥ; tadvat sarva-jñaṁ satya-saṅkalpa mahodāraṁ paraṁ brahmopāsīnānāṁ sarvam upapannam ity arthaḥ||30||
Link copiedparaṁ brahmopāsīnānāṁ dehapāta-samaye sarva-karma-kṣayād deha-pātād ūrdhvaṁ karma-phalānubhavo na vidyata ity etan na sambhavati, vasiṣṭhādīnāṁ jñāninām api karma-phala-rūpa-dehāntara-saṁyogaḥ, putra-janma-vipatty-ādiṣu sukha-duḥkhānubhavo'pi dṛśyate, ity āśaṅkyāha---
Link copied385. yāvad-adhikāram avasthitir ādhikārikāṇām||3|3|31||
Link copiedyeṣāṁ jñānināṁ deha-pātād anantaram arcir-ādikā gatiḥ prāptā; teṣāṁ deha-pātād ūrdhvaṁ taritavya-karma-phala-bhogābhāvād deha-pāta-samaya eva sarva-karma-kṣaya uktaḥ| vasiṣṭhādīnāṁ tv ādhikārikāṇāṁ yāvad-adhikāra-samāpti nārcir-ādikā gatir asti; api tv adhikāre'vasthitir eva, adhikāra-hetu-bhūta-karmaṇaḥ phala-dānāyārabdhatvāt| jñānino'py ārabdhaṁ hi karma phalānubhavenaiva kṣīyate||31|| iti sāmparāyādhikaraṇam||12||
Link copied386. aniyamaḥ sarveṣām avirodhaḥ śabdānumānābhyām||3|3|32||
Link copiedyeṣūpāsaneṣūpakosalādiṣv arcir-ādikā gatirāmnātā kiṁ tan-niṣṭhānām eva tayā brahma-prāptiḥ, uta sarveṣāṁ brahmopāsana-niṣṭhānām iti saṁśayaḥ| tan-niṣṭhānām eveti pūrvaḥ pakṣaḥ, itareṣāṁ tayā brahma-prāptau pramāṇābhāvāt| yat tu pañcāgni-vidyāyāṁ sādhāraṇaṁ vacanam, tad apy upakosalādi-viṣayam iti niścīyate| anyathopakosalādiṣv āmnānānarthakyaṁ syāt| rāddhāntas tu--- pañcāgni-vidyāyāṁ, ya evam etad viduḥ ye cāmī araṇye śraddhāṁ satyam upāsate te'rciṣam abhisambhavanti, iti sāmānyena sarva-viṣayaṁ gati-śravaṇam upakosalādiṣv āmnānaṁ na bādhituṁ kṣamam, saṅkocakaṁ ca na bhavati, vidyā-stuty-arthatayānuvādenāpy upapatteḥ| ataḥ sarveṣāṁ tathaiva brahma-prāptiḥ| sūtrārthas tu--- aniyamaḥ sarveṣāṁ sarveṣām aviśeṣeṇa tayaiva prāptiḥ| kutaḥ| avirodhaḥ śabdānumānābhyāṁ--- tathā saty eva śruti-smṛtibhyām avirodhaḥ| śrutiś ca--- ye ceme'raṇye ity ādikā pañcāgni-vidyāyāṁ nidarśitā; smṛtiḥ--- agnir jyotir ahaḥ śuklaḥ, ity ādikā||32|| ity aniyamādhikaraṇam||13||
Link copied387. akṣara-dhiyāṁ tv avarodhaḥ sāmānya-tad-bhāvābhyām aupasadavat tad uktam||3|3|33||
Link copiedbṛhadāraṇyake--- etad vai tad akṣaraṁ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam ity ādi śrūyate| tathā ātharvaṇe ca--- atha parā yayā tad akṣaram adhigamyate yat tad adreśyam agrāhyam ity ādi| kim eṣām asthūlatvādīnāṁ sarvāsu brahma-vidyāsūpasaṁhāraḥ, uta yatra śrutās tatraiveti saṁśayaḥ| vidyā-viśeṣa-rūpatayā śrutānāṁ sarva-vidyāsādharaṇatvābhāvād yatra śrutās tatraiva niyatā iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- asthūlatvādīnām apy ānandādivad brahma-svarūpānusandhānāntarbhāvāt sarvatraivopasaṁhāraḥ, na kevalam ānandādir brahma-svarūpaṁ pratyagātmano vyāvṛttam, tasyāpi hi tad eva svarūpam| asthūlatvādi-viśeṣitam ānandādi brahmaṇaḥ pratyagātmano vyāvṛtty-ākāraḥ| yady api pratyagātmā svabhāvataḥ sthūlatvādy-acetana-dharmāsambandhī, tathāpi tat-sambandharhatāsty eva| tad-arhatayāpi hi pūrvaṁ tat-sambandhaḥ sañjātaḥ| ato brahmaṇas tad-anarha-svarūpānusandhānārthatayāsthūlatvādayaḥ sarvatrānusandheyāḥ| sūtrārthas tu--- akṣaradhiyām, akṣara-sambandhinīnām asthūlatvādi-dhiyāṁ sarva-vidyāsv avarodhaḥ saṅgrahaṇam| kutaḥ| sāmānya-tad-bhāvābhyāṁ brahmaṇaḥ sarvatra samānatvāt brahmānusandhānāntarbhāvāc ca tāsām| guṇānāṁ pradhānānuvartitvaṁ svabhāvaḥ; aupasadavat--- yathā jāmadagnya-catūrātra-puroḍāśyupasad-guṇa-bhūtaḥ, agnir hotraṁ vetu, iti mantraḥ sāma-veda-paṭhitatvena sāma-veda-svara-niyato'pi pradhāna-bhūtopasad-anuvartitvād yājur vaidikatvāc copasado yājur vaidikopāṁśutva-sambandhī; tadvad akṣara-vidyā-sambandhitayādhītatvena tad-vidyāniyatā api pradhānānuvartitva-svābhāvyāt sarva-vidyā-sambandhinaḥ| tad uktaṁ prathama-kāṇḍe--- guṇa-mukhya-vyatikrame tad-arthatvād ity ādinā||33||
Link copiedevaṁ tarhi--- sarva-karmā sarva-gandhaḥ, ity ādīnām api sarveṣāṁ brahma-guṇatvān na kvacid vayavasthety atrāha---
Link copied388. iyad āmananāt||3|3|34||
Link copiediyat--- asthūlatvādi-viśeṣitam ānandādy eva sarvatrānusandheyam| kutaḥ| āmananād dhetoḥ| āmananam--- ābhimukhyena mananaṁ, brahmānusandhānam| brahma-svarūpānusandhānaṁ yena vinā nopapadyate; tad eva sarvatrānusandheyam| anyat tu tatra tatra vyavasthitam ity arthaḥ||34|| ity akṣara-dhy-adhikaraṇam||14||
Link copied389. antarā bhūta-grāmavat svātmano'nyathā prativacana-bhedānupapattir iti cen nopadeśavat||3|3|35||
Link copiedbṛhadāraṇyake uṣasta-praśna-prativacanaṁ--- yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ yo'pānenāpān iti sa ta ātmā, ity ādi, ato'nyad ārtam ity antam āmnātam| tathā tad-anantaraṁ kahola-praśna-prativacanaṁ--- yo'śanāyāpipāse śokaṁ mohaṁ jarāṁ mṛtyum atyety etaṁ haitam ātmanaṁ viditvā, ity ādi, ato'nyad ārtam ity antam| kim ubhayatra vidyaikyam, uta vidyā-bheda iti saṁśayaḥ| pūrvatra prāṇanādi-hetuḥ pratyagātmā; uttaratrāśanāyādy-atītaḥ paramātmety upāsya-bhedād vidyā-bhedaḥ, iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yat sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ tan me vyācakṣva, ity ubhayatra praśnasya paramātma-viṣayatvād eka-rūpatvāc ca, sarva-prāṇi-prāṇanāpānanādi-hetutvasya aśanāyādy-atītatvasya ca prativacana-dvayāvagatasya paramātmany ekasminn evopāsye sambhavāc ca, na vidyā-bhedaḥ| sūtrārthas tu--- antarā, ya ātmā sarvāntaraḥ, ity uṣasta-praśno bhūta-grāmavat svātmanaḥ--- pratyagātmana ity upagantavyaḥ; anyathā prativacana-bhedānupapattir iti cen nātra pratyagātma-paramātma-viṣayaṁ praśna-dvayam; prativacana-dvayaṁ ca paramātmany ekasminn evopāsye sambhavatīty arthaḥ| upadeśavat--- stabdho'syuta tam ādeśam aprākṣyaḥ, iti prakrāntāyām ekasyām eva sad-vidyāyāṁ, bhagavāṁs tv eva me tad bravītv iti, bhūya eva mā bhagavān vijñāpayatu, ity ādikā praśnāvṛttiḥ, prativacana-bhedaś copāsya-māhātmya-viśeṣa-pratipādana-paratvena dṛśyate; tadvat||35||
Link copiedpraṣṭṛ-bheda-pūrvaka-prativacana-prakāra-bhedād vidyā-bhedo'varjanīya evety āśaṅkyāha---
Link copied390. vyatihāro viśiṁṣanti hītaravat||3|3|36||
Link copiedyad eva sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ, iti dvayoḥ praṣṭroḥ praśnasyaikarūpatvenaika-viṣayatve niścite saty uṣasta-kaholayoḥ prativacana-gata-buddhi-vyatihāraḥ kāryaḥ| prāṇanādi-hetutva-buddhiḥ sarvāntarātma-viṣayā kaholenāpi kāryā, tathāśanāyādy-atītatva-buddhir uṣastenāpi kāryā| viśiṣanti hy ubhayatrāpi yājñavalkya-vacanāny ekaṁ sarvāntaram evopāsyam| itaravat--- yathetaratra sad-vidyāyāṁ sarvāṇi prativacanāni parama-kāraṇa-parabrahma-viṣayāṇi; tadvat||36||
Link copiedsad-vidyāyām apy upāsyaikyaṁ praśna-prativacanāvṛtau satyāṁ katham avagamyata ity atrāha---
Link copied391. saiva hi satyādayaḥ||3|3|37||
Link copiedseyaṁ devataikṣata, ity ādiṣu sarvatra saiva parā devataikānuvartate| aitadātmyam idaṁ sarvaṁ tat satyaṁ sa ātmā tattvam asi, iti ta eva satyādayaḥ sarveṣu prativacaneṣūpasaṁhriyante||37|| ity antaratvādhikaraṇam||15||
Link copied392. kāmādītaratra tatra cāyatanādibhyaḥ||3|3|38||
Link copiedchāndogye śrūyate--- atha yad idam asmin brahma-pure daharaṁ puṇḍarīkaṁ veśma daharo'sminn antara ākāśas tasmin yad antas tad anveṣṭavyam ity ādi prakramya, tad ya ihātmānam anuvidya vrajanty etāṁś ca satyān kāmāṁs teṣāṁ sarveṣu lokeṣu kāma-cāro bhavatīti; vājasaneyake ca--- ya eṣo'ntar hṛdaya ākāśas tasmin śete sarvasya vaśī sarvasyeśānaḥ, ity ādi| kim ubhayatra vidyaikyam, uta vidyā-bheda iti saṁśayaḥ| rūpa-bhedād vidyā-bheda iti pūrvaḥ pakṣaḥ| yady apy ubhayatra paramātmaivopāsyaḥ, tathāpy ekatrākāśa-śabdābhidheyaḥ paramātmopāsyaḥ, itaratrākāśe śayānaḥ paramātmeti hi rūpaṁ bhidyate| rāddhāntas tu--- hṛdayāyatanatva-satya-saṅkalpatva-satya-kāmatvāder abhedād ubhayatra tad-viśiṣṭaḥ paramātmaivopāsya iti rūpābhedād vidyaikyam; chāndogye hi--- daharo'sminn antara ākāśas tasmin yad antas tad anveṣṭavyam ity ārabhya, kiṁ tad atra vidyate, ity ādinā paricodya, tasmin kāmāḥ samāhitāḥ, eṣa ātmāpahata-pāpmā vijaro vimṛtyur ity ārabhya, satya-kāmaḥ satya-saṅkalpaḥ, ity uktvā, tad ya ihātmānam anuvidya vrajanty etāṁś ca satyān kāmān, ity ākāśa-śabda-nirdiṣṭaḥ paramātmā tad-antargatāś ca satya-kāmatva-satya-saṅkalpatvāpahata-pāpmatvādayo guṇāḥ, ataḥ paramātmā hṛdayāyatanaḥ satya-kāmatvādi-viśiṣṭa upāsya iti vākyenaiva nirṇītam| vājasaneyake ca--- ya eṣo'ntar hṛdaya ākāśas tasmiñ śete sarvasya vaśī; ity ukte sati vaśitvādeḥ satya-saṅkalpatva-viśeṣa-rūpatayā sa eva paramātmā hṛdayāyatanaḥ satya-saṅkalpatva-viśiṣṭa upāsya iti pratīyate| ato dahara-vidyā-pratyabhijñānāt sa eva paramātmā satya-saṅkalpatvādi-guṇāṣṭaka-viśiṣṭa upāsya iti niścīyate| evaṁ niścite satyākāśe śayāna ity ākāśa-śabdo'pi hṛdaya-puṇḍarīka-varty-ākāśa-vācīti rūpābhedād vidyaikyam eva||
Link copiedsūtrārthas tu--- kāmādītaratra tatra ca, vājasaneyake chāndogye ca satya-kāmatvādy eva rūpam| kutaḥ| āyatanādibhyaḥ hṛdayāyatanatva-satya-saṅkalpatva-viśeṣa-rūpa-vaśitvādibhyas tat-sahacāriṇaḥ satya-kāmatvādeḥ pratyabhijñānāt| paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate, abhayaṁ vai brahma bhavati, iti brahma-prāpti-rūpaṁ phalaṁ caikam iti vidyaikyam||38||
Link copiedmanasaivānudraṣṭavyaṁ neha nānāsti kiñcanety ādeḥ pūrva-prakṛtatvāt, sa eṣa neti nety ātmā, iti ca vakṣyamāṇatvāt, sarvasva vaśī sarvasyeśānaḥ, ity ādi-viśeṣāṇāṁ brahma-svarūpatvābhāvāt kathaṁ satya-kāmatvāder mokṣa-sādhanopāsana-rūpatvam ity ata āha---
Link copied393. ādarād alopaḥ||3|3|39||
Link copiedvaśitvādeḥ pramāṇāntarāvidita-rūpasya śruty-eka-samadhigamyasyādareṇa pratipādanād alopaḥ--- apratiṣedhaḥ; tasyāpi brahma-guṇatvam avaśyāśrayaṇīyam; aviśeṣa-niṣedhās tu sakaletara-prākṛta-viśeṣa-viṣayāḥ; nānātva-niṣedhas tu sarvasya brahma-kāryatayābrahmātmakatvābhiprāyaḥ||39||
Link copiedsaguṇopāsanasya--- sa yadi pitṛloka-kāmo bhavatīti sāṁsārika-phalatvena na mokṣa-phalatvam ity āśaṅkyāha---
Link copied394. upasthite'tas tad-vacanāt||3|3|40||
Link copiedupasthitiḥ--- upasthānam, brahmopasampattiḥ; upasthite brahmopasampanne, ataḥ--- brahmopasampatter eva hetoḥ, tad-vacanāt--- pitṛlokādi-prāpti-vacanāt, na tat-sāṁsārikaṁ phalam, api tu sākṣān muktasyaiva| asmāc charīrāt samutthāya paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate, sa uttamaḥ puruṣaḥ sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā jñātibhir vā nopajanaṁ smarann idaṁ śarīram iti, sa svarāḍ bhavati tasya sarveṣu lokeṣu kāma-cāro bhavati, iti ca nivṛttāvidyasya hi svena rūpeṇābhiniṣpannasyaivocyate; ato brahmopasampatti-hetukatvaṁ krīḍanāder avagamyate||40|| iti kāmādy-adhikaraṇam||16||
Link copied395. tan-nirdhāraṇāniyamas tad-dṛṣṭeḥ pṛthag-dhy-apratibandhaḥ phalam||3|3|41||
Link copiedchāndogye--- om ity etad akṣaram udgītham upāsīteti karmāṅgāśrayam udgīthādy-upāsanaṁ śrūyate; tat kiṁ tasmin karmaṇi parṇatādivan niyamenopādeyam, uta go-dohanādivad aniyameneti saṁśayaḥ| karmāṅgāśrayatvena parṇatādivat tad-dvāreṇa nirūḍha-kāryatayā, yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṁ bhavati, iti vartamāna-nirdeśasya pṛthak-phala-pratipādanāyogāt kratv-arthatayā niyamenopādeyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- tenobhau kuruto yaś caitad evaṁ veda yaś ca na veda, ity udgīthopāsana-rahitasyāpi kratv-anuṣṭhāna-darśanāt kratu-phalāt svargādeḥ pṛthag-bhūta-vīryavattaratva-phalam idam upāsanam iti go-dohanādivad aniyamaḥ| vartamāna-nirdeśe saty apy adhikārāntara-niścaye sati rātrisannavat krator vīryavattaratvam asyopāsanasya kalpanīyam| sūtrārthas tu--- tan-nirdhāraṇāniyamaḥ| nirdhāraṇam--- niścayena cetaso'vadhāraṇam, upāsanam ity arthaḥ; tasya udgīthopāsanasyāniyamaḥ| kutaḥ| tad-dṛṣṭeḥ--- tenobhau kurutaḥ, ity aniyama-dṛṣṭeḥ; pṛthag-bhūtaṁ hy asya phalam; tac cāpratibandha-rūpam; vīryavattaratvaṁ nāma prabala-karmāntara-phalenaitasya karmaṇaḥ phalasyāpratibandhaḥ, avilambitatvam ity arthaḥ||41||
Link copiediti tan-nirdhāraṇāniyamādhikaraṇam||17||
Link copied396. pradānavad eva tad uktam||3|3|42||
Link copieddahara-vidyāyāṁ--- tad ya ihātmānam anuvidya vrajanty etāṁś ca satyān kāmān ity apahata-pāpmatvādi-guṇānām api paramātma-svarūpa-cintanavat pṛthak cintanaṁ vihitam| kiṁ guṇa-cintane tat-tad-guṇa-viśiṣṭatayā paramātma-cintanam āvartanīyam, uta neti saṁśayaḥ| paramātmana ekasyaiva sarveṣāṁ guṇānāṁ guṇitvena sakṛd eva tac-cintanopapatter nāvartanīyam iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- guṇinaḥ svarūpaikye'pi tat-tad-guṇa-viśiṣṭākāra bhedād āvartanīyam iti| sūtrārthas tu--- pradānavad āvartanīyam eva; yathā--- indrāya rājñe puroḍāśam ekādaśa-kapālam indrāyādhirājāyendrāya svarājñe, itīndrasyaikatve'pi rājatvādi-viśiṣṭākāra-bhedād devatā-bheda iti pradānāvṛttiḥ; tadvad eva| tad uktaṁ saṅkarṣe--- nānā vā devatā pṛthaktvād iti||42|| iti pradānādhikaraṇam||18||
Link copied397. liṅga-bhūyastvāt tad dhi balīyastad api||3|3|43||
Link copiedtaittirīyā adhīyate--- sahasra-śīrṣaṁ devam ity ārabhya, so'kṣaraḥ paramaḥ svarāṭ, ityantam| asminn anuvāke nopāsanaṁ vidhīyate| kim ayaṁ pūrvānuvākodita-dahara-vidyopāsya-viśeṣa-nirdhāraṇārthaḥ, uta sarva-vedāntodita-sarva-para-vidyopāsya-viśeṣa-nirdhāraṇārtha iti saṁśayaḥ| dahara-vidyāyā ānantaryāt tad-upāsya-viśeṣa-nirdhāraṇārtha iti pūrvaḥ pakṣaḥ; sahasra-śīrṣaṁ devam iti dvitīyā-nirdeśasyānantaroditopāsinā sambandhasyaiva yuktatvāc ca| rāddhāntas tu--- parabrahma-para-tattva-para-jyotiḥ-paramātmākṣara-śiva-śambhu-śabdaiḥ sarva-para-vidyopāsyānanūdya vākyenaiva teṣāṁ nārāyaṇatva-vidhānāt tasya ca prakaraṇād balīyastvena sarva-vidyopāsya-nirdhāraṇārtha iti niścīyate| na ca--- sahasra-śīrṣam iti dvitīyā-nirdeśaḥ pūrveṇopāsinā sambadhyate, tasmin yad antas tad upāsitavyam iti kṛt-pratyayena karmābhihitam iti tatra dvitīyā-nirdeśāyogāt| nārāyaṇaḥ paraḥ, vyāpya nārāyaṇaḥ sthitaḥ, paramātmā vyavasthitaḥ, ity ādibhir aikārthyāt prathamārthe dvitīyā| sūtrārthas tu--- sarva-para-vidyopāsya-nirdhāraṇe liṅga-bhūyastvāt tac-cihna-bhūta-vākya-bhūyastvād ity arthaḥ| tad dhi--- vākyaṁ prakaraṇād balīyaḥ, tad api pūrvasmin kāṇḍe--- śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṁ samavāye para-daurbalyam artha-viprakarṣāt, ity ādinoktam| evaṁ sarvopāsya-nirdhāraṇe niścite sati dahara-vidyāyām apy ayam evopāsya iti, padma-kośa-pratīkāśam ity ādinā hṛdayādy-abhidhānaṁ ca yujyata ity abhiprāyaḥ||43|| iti liṅga-bhūyastvādhikaraṇam||19||
Link copied398. pūrva-vikalpaḥ prakaraṇāt syāt kriyā mānasavat||3|3|44||
Link copiedvājasaneyake'gnirahasye--- manaś-cito vāk-citaḥ prāṇa-citaś cakṣuś-citaḥ, ity ādinā manaś-citādayo'gnayo vidyā-rūpāḥ śrūyante| kim ete kriyā-maya-kratv-aṅga-bhūtāḥ, uta vidyā-maya-kratv-aṅga-bhūtā iti saṁśayaḥ| asmin prakaraṇe vidyā-maya-kratv-anubandhi-mānasa-graha-stotrādi-darśane'pi krator vidhānābhāvāt, phalāntarāpratīteś ca, pūrvatra--- asad vā idam agra āsīd ity ādineṣṭaka-citasyāgneḥ prakṛtatvāt, manaś-citādiṣu ca, teṣām ekaika eva tāvān yāvān asau pūrvaḥ, iti tat-kāryātideśādiṣṭaka-citenaiṣāṁ vikalpa-pratīteś ceṣṭaka-citāgni-śeṣa-bhūta-kriyā-maya-kratv-anupraveśena tad-aṅga-bhūtā iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- te haite vidyā-cita eva vidyayā haivaita evaṁ vidaś-citā bhavanti, iti manaś-citādīnāṁ sāmpādikāgnitvena vidyā-rūpatve siddhe'pi, te haite vidyā-cita evety avadhāraṇa-śrutir vidyā-maya-kratv-aṅgatvenaiṣāṁ vidyā-rūpatāvagaty artheti niścayāt sannihitair mānasaiḥ graha-stotrādibhiḥ kratv-anubandhair anuvāda-sarūpa-vākya-pratipāditaiḥ kratu-darśane sati, vacanāni tv apūrvatvād iti nyāyena manaś-citādīnāṁ śeṣi-bhūta-vidyā-maya-krator vidhiḥ parikalpyate| teṣām ekaika eva tāvān yāvān asau pūrvaḥ, ity atideśeneṣṭaka-citāgneḥ sva-śeṣi-bhūta-kratu-dvāreṇa yat phalam, tad evaiṣāṁ sva-śeṣi-bhūta-vidyā-maya-kratu-dvāreṇa phalam iti niścīyata iti vidyā-maya-kratv-aṅga-bhūtā eva manaś-citādayaḥ| sūtrārthas tu--- manaś-citādiḥ kriyā syāt, kriyā-maya-kratv-aṅga-bhūta ity arthaḥ| kutaḥ| prakaraṇāt--- pūrva-prakṛteneṣṭaka-citenāvyabhicarita-kratu-sambandhinopasthita-kratu-gṛhītatvena tad-aṅga-bhūtānām eṣāṁ cāgnitvāt teneṣṭaka-citena vikalpaḥ; vidyā-rūpāṇām apy eṣāṁ kriyā-maya-kratv-aṅga-bhāvo na virudhyate, dvādaśāhāṅga-bhūta-mānasa-grahavat||44||
Link copied399. atideśāc ca||3|3|45||
Link copiedteṣām ekaika eva tāvān yāvān asau pūrvaḥ, iti teṣu pūrveṣṭaka-cita-kāryātideśāc ca tenaiṣāṁ vikalpaḥ pratīyate| tena vikalpo hi tac-cheṣi-bhūta-kratv-aṅgatvena vinaiṣāṁ nopapadyate| ataś ca tad-aṅga-bhūtāḥ||45||
Link copied400. vidyaiva tu nirdhāraṇād darśanāc ca||3|3|46||
Link copiedtu-śabdaḥ pakṣaṁ vyāvartayati; manaś-citādir vidyaiva vidyā-maya-kratv-aṅga-bhūta evety arthaḥ| kutaḥ| nirdhāraṇāt--- teṣāṁ vidyā-rūpatve siddhe'pi, te haite vidyā-cita eveti nirdhāraṇaṁ vidyā-maya-kratv-aṅgatayaiṣāṁ vidyā-mayatva-khyāpanārtham| atraiva vidyā-maya-kratu-darśanāc ca tad-aṅgatvam evaiṣām| dṛśyate cātra vidyā-mayaḥ kratuḥ, manasaiṣu grahā agṛhyanta manasāstuvanta manasāśaṁsan, ity ādau||46||
Link copiedatra vidyā-maya-kratau vidhi-padāśravaṇāt, tat-phala-sambandhāpratīteś ca, prakaraṇeneṣṭaka-citāgny-upasthāpita-kratv-aṅgatāpratīteś ca vidyā-maya-kratv-anvayo bādhyata ity āśaṅkyāha ---
Link copied401. śruty-ādi-balīyastvāc ca na bādhaḥ||3|3|47||
Link copiedśruty-ādeḥ prakaraṇād balīyastvena śruty-ādy-avagatasya vidyā-maya-kratv-anvayasya prakaraṇena na bādhaḥ| śrutistāvat--- te haite vidyā-cita eveti| tāṁ vivṛṇoti--- vidyayā haivaita evaṁvidaś citā bhavantīti| liṅga-vākye ca bhāṣye darśite| evaṁvido manaś-cakṣur-ādi-vyāpāreṣv agnitvaṁ sampādayituḥ, ete manaś-citādayaḥ, vidyayā pradhāna-bhūtayā citā bhavantīty arthaḥ||47||
Link copiedmanasaiṣu grahā agṛhyantety ādau vidhi-padāśravaṇād vidyā-maya-kratu-vidhir na sambhavatīti tad-asambhavāc ca tad-anvayo'pi na sambhavatīty āśaṅkyāha---
Link copied402. anubandhādibhyaḥ prajñāntara-pṛthaktvavad dṛṣṭaś ca tad uktam||3|3|48||
Link copiedgraha-stotra-śastrebhyo yajñānubandhebhya iṣṭaka-citānvayinaḥ krator atra vidhīyamāna-vidyā-maya-kratu-pṛthaktvam avagamyate; prajñāntara-pṛthaktvavat--- yathā prajñāntarāṇāṁ dahara-vidyādīnāṁ pṛthaktva-hetubhyaḥ pṛthaktvam; ādi-śabdāt pūrvoktaḥ śruty-ādir gṛhyate; śruty-ādinānubandhaiś ca vidyā-maya-kratu-vidhiḥ kalpyata ity arthaḥ| dṛṣṭaś cānuvāda-sarūpe'pi kalpyamāno vidhiḥ--- yad eva vidyayā karotīty ādau| tad uktaṁ--- vacanāni tv apūrvatvād iti||48||
Link copiedyat tūktam atideśāc ceṣṭaka-cita-śeṣi-bhūta-kratv-anvayo'vagamyata iti, tatrāha---
Link copied403. na sāmānyād apy upalabdher mṛtyuvan na hi lokāpattiḥ||3|3|49||
Link copiednāvaśyam atideśeneṣṭaka-citāgni-tulya-deśatvam apy āśrayaṇīyam, yena kenacit sāmānyenātideśopalabdheḥ| sa eṣa mṛtyur ya eṣa etasmin maṇḍale puruṣaḥ, itivat phala-sāmānyena bhaviṣyaty atideśaḥ| na hi tatra maṇḍala-puruṣe mṛtyu-lokāpattir apy atidiśyate; api tu mṛtyuvat sarva-saṁhartṛtvam eva||49||
Link copied404. pareṇa ca śabdasya tādvidhyaṁ bhūyastvāt tv anubandhaḥ||3|3|50||
Link copiedpareṇa ca brāhmaṇenāsya manaś-citādy-abhidhāyinaḥ śabdasya tādvidhyaṁ--- tad-vidhatvam, vidyā-maya-pratipādakatvam avagamyate| pareṇa hi brāhmaṇena--- ayaṁ vāva loka eṣo'gni-citas tasyāpa eva, ity ādinā pṛthak-phalā vidyaiva vidhīyate| agnirahasye kriyā-mayā eva vidhīyanta iti nāsti niyama ity arthaḥ| kriyā-prakaraṇe tv eṣāṁ manaś-citādīnām anubandhaḥ sampādanīyānām agny-aṅgānām atra bhūyastvāt kriyate| ato vidyā-maya-kratv-aṅga-bhūtā eva manaś-citādayo'gnayaḥ||50|| iti pūrva-vikalpādhikaraṇam||20||
Link copied405. eka ātmanaḥ śarīre bhāvāt||3|3|51||
Link copiedpratyagātmana ātmatayā hi paramātmopāsyaḥ; upāsakasyāpi svarūpam upāsyopāsana-svarūpavaj jñātavyam ity uktam--- trayāṇām ity ādinā; vakṣyate ca--- ātmeti tūpagacchantīti| tatra kiṁ pratyagātmanaḥ śarīre vartamānasya kartṛtva-bhoktṛtvādi-viśiṣṭaṁ rūpam anusandheyam, uta prajāpati-vākyoditāpahata-pāpmatvādi-guṇakaṁ yathāvasthitaṁ rūpam iti saṁśayaḥ| śarīre vartamānasya yādṛśaṁ rūpam, tad evānusandheyam iti pūrvaḥ pakṣaḥ, karma-vidhiṣv ivopāsana-vidhiṣv api tāvataiva sādhanānuṣṭhāna-phalānubhavayoḥ sambhavāt| yathākratur asmiṁl loke puruṣo bhavatīti tu, taṁ yathāyathopāsate, ity anenaikārthyāt paramātma-viṣayam| rāddhāntas tu--- tat tvam asi, sa ta ātmāntaryāmy amṛtaḥ, iti pratyagātmana ātmatayaiva paramātmopāsya iti pratyagātmanaḥ svarūpam apy upāsanāntargatam| paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate, iti yathāvasthitātma-svarūpasyaiva brahmānubhavaḥ phalam ity ataḥ, yathākratur asmiṁl loke puruṣo bhavatīti na paramātma-mātra-viṣayam; api tu pratyagātmātma-bhūtopāsya-viṣayam iti prajāpati-vākyoditaṁ yathāvasthita-svarūpam evānusandheyam; anyathā prāpyopāsyayoḥ prakāra-bhedāt, yathākratur asminn iti virudhyate| yajeta svarga-kāmaḥ, ity ādi karma-vidhau tu kartṛ-svarūpānusandhānaṁ na sādhanāntargatam iti viśeṣaḥ| sūtrārthas tu--- kartṛtvādi-viśiṣṭam evatmanaḥ svarūpam anusandheyam ity eke manyante| kutaḥ| śarīre vartamānasyopāsitur ātmanas tathābhāvāt||51||
Link copied406. vyatirekas tad-bhāva-bhāvitvān na tūpalabdhivat||3|3|52||
Link copiedna kartṛtvādi-viśiṣṭam anusandheyam, api tu sāṁsārika-svarūpavan mukta-svarūpasya yo vyatirekaḥ, so'nusandheyaḥ| kutaḥ| tathopāsana-bhāva-bhāvitvāt tad-vyatirikta-svarūpa-prāpteḥ| yathākratur asmiṁl loke puruṣo bhavatīti hy āha| upalabdhivat--- yathā brahma-svarūpopalabdhir yathāvasthita-brahmānusandhāna-yuktasyaiva, tathā ātmopalabdhir api||52|| iti śarīrebhāvādhikaraṇam||21||
Link copied407. aṅgāvabaddhās tu na śākhāsu hi prativedam||3|3|53||
Link copiedom ity etad akṣaram udgītham upāsīta, ity udgīthādi-kratv-aṅgāśrayā upāsanāḥ śrūyante| tāḥ kiṁ yāsu śākhāsu śrūyante, tāsv eva vyavasthitāḥ, uta sarvāsu śākhāsu sambaddhā iti saṁśayaḥ| śākhāsu svara-bhedāt pratiśākham udgītha-bhedena yatra śrūyante, tatrasthodgīthādeḥ sannidhānāt tenaivānvitā vyavasthitā iti pūrvaḥ pakṣaḥ| rāddhāntas tu--- yady apy udgītha-vyakti-bhedo vidyate, tathāpi tatra tatra codgītha-jātīyatvena sambandhāt sarveṣāṁ codgītha-jātīyatvāviśeṣāt, udgītham upāsīteti śrutyaiva sarva-sambandha iti sarva-śākhāsu sambadhyante| sūtrārthas tu--- na tv aṅgāvabaddhā upāsanās tāsu śākhāsu vyavasthitāḥ, api tu prativedaṁ sarva-śākhāsu sambadhyanta ity arthaḥ| hir hetau| yasmād udgītha-jātīyatvāviśeṣeṇa sarva-sambandhaḥ, tasmād ity arthaḥ||53||
Link copied408. mantrādivad vāvirodhaḥ||3|3|54||
Link copiedvā-śabdaś cārthe yathā mantrādīnāṁ kratv-aṅga-bhūtānām ekaika-śākhābhihitānāṁ sarva-śākhāsu krator ekatvena sarvatra sambandho na virudhyate; tadvac cāvirodhaḥ||54|| ity aṅgāvabaddhādhikaraṇam||22||
Link copied409. bhūmnaḥ kratuvaj jāyastvaṁ tathā hi darśayati||3|3|55||
Link copiedvaiśvānara-vidyāyāṁ svarlokāditya-vāyv-ākāśa-pṛthivy-avayavo vaiśvānarātmopāsyaḥ śrutaḥ| tatra kiṁ vyastasyaivopāsanaṁ kāryam, uta vyastasya samastasya ca, atha samastasyaiveti saṁśayaḥ| aupamanyava kaṁ tvam ātmānam upāssa iti divam eva bhagavo rājan, ity ādinā svarlokādi-pṛthivy-antānāṁ vaiśvānarātmano mūrdhādi-pādāntāvayavatvam abhidhāya, tatra tatra vyastasyaivopāsanaṁ phalaṁ ca vihitam iti paścāt, yas tv etam evaṁ prādeśa-mātram abhivimānam ātmānaṁ vaiśvānaram upāste, iti pūrvoktasya samāsenopasaṁhāra iti yuktam; ato vyastasyaivopāsanaṁ kāryam iti prathamaḥ pakṣaḥ| samastopāsanasye--- sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasv annam atti, iti vyastopāsana-phalebhyaḥ phalāntara-vidhānād vyastasya samastasya copāsanaṁ kāryam iti dvitīyaḥ pakṣaḥ| rāddhāntas tu--- ātmānaṁ vaiśvānaraṁ sampratyadhyeṣi tam eva no brūhi, ity ārabhya vaiśvānarātmanaḥ svarlokādi-pṛthivy-antānāṁ mūrdhādi-pādāntāvayavatvam abhidhāya, yas tv etam evaṁ prādeśa-mātram abhivimānam ātmānaṁ vaiśvānaram upāste sa sarveṣu lokeṣu, ity upasaṁhārād ekasyaiva vaiśvānarātmanas trailokya-śarīrasya parasya brahmaṇa upāsanaṁ vidhāya, phalaṁ ca--- sarveṣv ātmasv annam attīti, tad yatheṣīka-tūla-magnau protaṁ pradūyetaivaṁ hāsya sarve pāpmānaḥ pradūyante, iti ca sarveṣām ātmanām aviśeṣeṇa bhogya-bhūtaṁ paraṁ brahmānubhavati, tad-virodhinaś ca sarva-pāpmano dahatīty uktam iti gamyate| ata eka-vākyatvāt samastasyaivopāsanaṁ kāryam| vyasta-vādas tu svarlokādīnāṁ mūrdhādy-avayavatva-jñāpanarthā| tatra tatra ca phala-vādo vaiśvānaraṁ dvādaśa-kapālaṁ nirvapet putre jāte yad aṣṭā-kapālo bhavati, ity ādivad draṣṭavyaḥ| sūtrārthas tu--- bhūmno jyāyastvam, samastopāsanasya śraiṣṭhayam; prāmāṇikatvam ity arthaḥ| eka-vākyatvāvagater vyastavādaḥ ṛtuvad draṣṭavyaḥ|
Link copiedvaiśvānaraṁ dvādaśa-kapālaṁ nirvapet ....yad aṣṭā-kapālaḥ, ity ādiḥ kratāv ivety arthaḥ| tathā hi darśayati--- samastopāsanasya jyāyastvam eva darśayati śrutiḥ, mūrdhā te vyapatiṣyad yan māṁ nāgamiṣyaḥ, ity ādinā vyastopāsane'narthaṁ bruvatī||55||
Link copiediti bhūma-jyāyastvādhikaraṇam||23||
Link copied410. nānā śabdādi-bhedāt||3|3|56||
Link copiedsad-vidyā-dahara-vidyā-śāṇḍilya-vidyā-bhūma-vidyādikā brahmopāsana-rūpā brahma-prāpti-phalāḥ kim eka-vidyā, uta nāneti saṁśayaḥ| upāsyasya brahmaṇaḥ phalasya caikatvāt, veda, upāsīteti ca paryāyatvād eka-vidyeti pūrvaḥ pakṣaḥ| brahmaṇa ekatve'pi jagad-eka-kāraṇatvāpahata-pāpmatvādy-anubandha-bheda-hetubhiḥ pūrva-kāṇḍoditānubandha-bheda-hetubhiḥ śabdāntarādibhir evānubandha-bhedān nānā-bhūtā iti rāddhāntaḥ| śabdāntarādibhis tatroditair eva vidyā-bheda-siddhāv apīha punar vacanaṁ brahma-prāpti-hetu-bhūtaṁ vedāntoditaṁ jñānam avidheyam iti kudṛṣṭi-nirāsārtham| sūtrārthas tu--- sad-vidyā-bhūma-vidyādikā nānā-bhūtāḥ, brahmaṇa ekatve'pi sad-bhūmāpahata-pāpmādi-śabda-bhedāt| ādi-śabdād abhyāsa-saṅkhyā-guṇa-prakriyā-nāmadheyāni gṛhyante||56|| iti śabdādi-bhedādhikaraṇam||24||
Link copied411. vikalpo'viśiṣṭa-phalatvāt||3|3|57||
Link copiedsad-vidyā-bhūma-vidyādikānāṁ brahma-prāpti-phalānām ekasmin puruṣe samuccayo'pi sambhavati, neti saṁśayaḥ| agnihotra-darśapūrṇamāsa-jyotiṣṭomādīnāṁ svargaika-phalānāṁ tatra bhūyastvāpekṣayā yathaikasmin puruṣe samuccayo dṛśyates tathātrāpi brahmānubhava-bhūyastvāpekṣayaikasmin puruṣe samuccayaḥ sambhavatīti pūrvaḥ pakṣaḥ| deśataḥ kālataḥ svarūpataś cānavacchinnānanda-svarūpa-brahmānubhavaḥ sarvāsāṁ para-vidyānāṁ phalaṁ tac caikayā vidyayāvāptam ity ekasmin puruṣe vidyāntara-samuccayaḥ prayojanābhāvān na sambhavatīti sarvāsāṁ vikalpaḥ, iti rāddhāntaḥ| sūtram api vyākhyātam||57||
Link copied412. kāmyās tu yathā-kāmaṁ samuccīyeran na vā pūrva-hetv-abhāvāt||3|3|58||
Link copiedbrahma-prāpti-vyatirikta-phalā vidyāḥ kāmyāḥ| tās tu yatheṣṭaṁ samuccīyeran vikalpyeran vā, pūrva-hetv-abhāvāt--- tat-phalasyāparimitatvābhāvāt; bhūyastvāpekṣayā samuccayaḥ sambhavatīty arthaḥ||58|| iti vikalpādhikaraṇam||25||
Link copied413. aṅgeṣu yathāśraya-bhāvaḥ||3|3|59||
Link copiedkarmāṅgāśrayāṇām udgīthādy-upāsanānāṁ go-dohanādivad adhikārāntaratvenopādānāniyamaḥ pūrvoktaḥ sambhavati, neti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ, udgītham upāsītety upāsana-vidhau phalāntarāśravaṇāt, udgītha-sambandhāvagata-kratv-aṅga-bhāvāvirodhāt| evaṁ vidhi-vākyenaiva kratv-aṅga-bhāve'vagate sati, yad eva vidyayā karoti śraddhayopaniṣadā tad eva vīryavattaraṁ bhavati....tenebhau kurutaḥ, iti ca vartamāna-nirdeśaḥ, na sa pāpaṁ śloka śṛṇoti, itivad arthavāda-mātraṁ syāt| rāddhāntas tu--- yad eva vidyayā karoti....tad eva vīryavattaram iti vidyāyāḥ kratu-vīryavattaratvaṁ prati sākṣāt sādhana-bhāvo'vagamyate| evaṁ phala-sādhanatayāvagatā vidyā kim āśritya phalaṁ karotīty apekṣāyām, om ity etad akṣaram udgītham upāsīta, ity udgītham āśritya kuryād iti kratv-aṅga-bhūtodgīthāśrayatva-mātraṁ pratīyate; ataḥ phalāntara-sādhanatayāvagatasya kratv-aṅga-bhāvo nopapadyata iti go-dohanādi-tulyatayopādānāniyamaḥ sidhyaty eva| yasya parṇa-mayī juhūr bhavati na sa pāpaṁ ślokaṁ śṛṇotīty atra tu parṇatāyā juhū-sambandhāt prāg apāpa-śloka-śravaṇaṁ prati sākṣāt sādhana-bhāvo na śrūyate; parṇatā-sambandhi-puruṣa-sambandha-mātraṁ śrutam; tat tu--- parṇa-mayī juhūr iti śrutyaiva prathamāvagata-kratv-aṅga-bhāvaṁ na niruṇaddhīty arthavāda-mātram iti viśeṣaḥ| sūtrārthas tu--- aṅgeṣu, udgīthādiṣu āśritānām upāsanānāṁ yathāśraya-bhāvaḥ--- udgīthādivad aṅga-bhāvaḥ| go-dohanādivat tasmin vākye phala-sambandhāśravaṇād aṅga-bhāvo na virudhyata ity arthaḥ||59||
Link copied414. śiṣṭeś ca||3|3|60||
Link copiedśiṣṭaḥ--- śāśanam, vidhānam; udgītham upāsīteti vidhānāc ca vartamāna-nirdeśāvagata-phala-sambandhāt prāg evodgītha-sambandho'vagata iti tad-aṅga-bhāvo . na virudhyate| ata upādāna-niyamaḥ||60||
Link copied415. samāhārāt||3|3|61||
Link copieditaś ca--- hotṛ-ṣadanād dhaivāpi durudgītham anusamāharati, ity udgītha-vedana-hānāv anyena samādhānaṁ bruvad vedanasyopādāna-niyamaṁ darśayati| durudgīthaṁ--- vedana-hīnam udgītham||61||
Link copied416. guṇa-sādhāraṇya-śruteś ca||3|3|62||
Link copieditaś copādāna-niyamo'vagamyate| praṇava-guṇatvenāvagatasyopāsanasya sādhāraṇyaṁ hi śrūyate--- teneyaṁ trayī vidyā vartate om ity āśrāvayaty om iti śaṁsaty om ity udgāyati, iti teneti prakṛta-parāmarśāt sopāsana eva praṇavaḥ sarvatra sañcarati| ataḥ praṇava-sahabhāva-niyama-darśanād upādāna-niyamo niścīyate||62||
Link copied417. na vā tat-sahabhāvāśruteḥ||3|3|63||
Link copiedna vopādāna-niyamaḥ, tat-sahabhāvāśruteḥ--- udgīthādy-aṅga-bhāvā śruter ity arthaḥ| kratv-aṅga-bhāvo hi sahabhāvaḥ| yad eva vidyayā karoti....tad eva vīryavattaram iti vīryavattara-svasādhanatayāvagatāyā vidyāyāḥ kratv-aṅgatayā viniyogāsambhavāt tad-aṅga-bhāvo hi na śrūyate| yatra sākṣāt phala-sādhanatvaṁ pratipādyate; tatra phala-sādhanatvaṁ prathamaṁ pratīyata iti tasya kratv-aṅgatayā viniyogo na sambhavatīty abhiprāyaḥ||63||
Link copied418. darśanāc ca||3|3|64||
Link copiedevaṁ-vid dha vai brahmā yajñaṁ yajamānaṁ sarvāṁś cartvijo'bhirakṣati, iti brahmaṇo vedanena yajñasya yajamānasya ṛtvijāṁ ca rakṣaṇaṁ bruvaty anyeṣāṁ vedanābhāvaṁ darśayati| tac codgīthopāsanasyānaṅgatve saty evopapadyate| ataś copādāna-niyamaḥ||64|| iti yathāśraya-bhāvādhikaraṇam||26||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe tṛtīyasyādhyāyasya tṛtīyaḥ pādaḥ||
Link copied