Skip to content

Vedanta Dipa · Section 12 of 17

||atha tṛtīyādhyāye tṛtīyaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

३५५। सर्व-वेदान्त-प्रत्ययꣳ चोदनाद्य्-अविशेषात्॥३।३।१॥

Link copied

किꣳ सर्वेषु वेदान्तेषु श्रूयमाणा दहरादि-विद्या एकैव, उत विद्यान्तरम् इति सꣳशयः। अविशेष-पुनः-श्रवणस्य प्रकरणान्तरस्य च विद्या-भेद-हेतुत्वाद् विद्यान्तरम् इति पूर्वः पक्षः। चोदना-फल-सꣳयोग-रूपाख्यानाम् अविशेषात्, प्रतिपत्तृ-भेदेन पुनः-श्रवणोपपत्तेः, तत एव प्रकरणान्तरत्वाभावाच् च, विद्यैक्यम् इति राद्धान्तः। विद्यासु गुणोपसꣳहारादि-चिन्तार्थꣳ शाखान्तराधिकरणोक्तन्यायस् तत्-फलꣳ च स्थिरीकृतम्। सूत्रार्थस् तु--- सर्व-वेदान्त-प्रत्ययम् एकꣳ दहराद्य्-उपासनम्। कुतः। चोदनाद्य्-अविशेषात्॥१॥

Link copied

३५६। भेदान् नेति चेद् एकस्याम् अपि॥३।३।२॥

Link copied

अविशेष-पुनः-श्रुत्या विद्या-भेदावगमान् न विद्यैक्यम् इति चेत्; एकस्याम् अपि विद्यायाꣳ शाखान्तरे प्रतिपत्तृ-भेदात् पुनः-श्रवणम् अर्थवद् इति न विद्या-भेदः॥२॥

Link copied

तेषाम् एवैताꣳ ब्रह्म-विद्याꣳ वदेत शिरोव्रतꣳ विधिवद् यैस् तु चीर्णम्, इत्य् आथर्वणिकानाꣳ शिरोव्रतस्य विद्योपदेशाङ्गत्व-नियम-दर्शनꣳ विद्या-भेदꣳ द्योतयति, विद्यैक्ये ह्य् आवणिकानाम् एवेति नियमो नोपपद्यत इत्य् आशङ्क्याह---

Link copied

३५७। स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच् च सववच् च तन्-नियमः॥३।३।३॥

Link copied

शिरोव्रतꣳ न विद्याङ्गम्, अपि तु स्वाध्यायस्य तथात्वे हि--- स्वाध्यायस्य तज्-जन्य-सꣳस्कार-भाक्त्वे हि तन्-नियमः, नैतद् अचीर्ण-व्रतोऽधीयीत, इत्य् अध्ययन-सम्बन्धात्, समाचाराख्ये ग्रन्थे, इदम् अपि वेद-व्रतेन व्याख्यातम् इति वेद-व्रतत्वावगमाच् च। ब्रह्म-विद्याꣳ वदेत--- वेद-विद्याम् इत्य् अर्थः। सववच् च तन्-नियमः--- यथा हि सव-होमाः सप्त-सूर्यादयः शतौदन-पर्यन्ता आथर्वणिकैकाग्नि-सम्बन्धिनस् तत्रैव भवन्ति, तथेदम् अप्य् आथर्वण-वेद-सम्बन्धित्वेन तत्रैव भवति॥३॥

Link copied

३५८। दर्शयति च॥३।३।४॥

Link copied

दर्शयति च श्रुतिर् उपासनस्य सर्व-वेदान्त-प्रत्ययत्वम्; छान्दोग्ये दहर-विद्यायाꣳ--- तस्मिन् यद् अन्तः, इति विहितम् अपहत-पाप्मत्वादि-गुणाष्टकꣳ तैत्तिरीयके केवलꣳ--- तस्मिन् यद् अन्तस् तद् उपासितव्यम् इत्य् एवोक्तम्; तद् उभयत्र विद्यैकत्वे सम्भवति॥४॥

Link copied

३५९। उपसꣳहारोऽर्थाभेदाद् विधि-शेषवत् समाने च॥३।३।५॥

Link copied

तद् एवꣳ सर्व-वेदान्तेषु दहराद्य्-उपासने समाने--- एकस्मिन् सति, तत्-तद्-उपासने वेदान्तान्तर-विहितस्य गुणस्य वेदान्तान्तरे चोपसꣳहारः कर्तव्यः। कुतः। अर्थाभेदात्--- तद्-विद्याङ्गत्वेन तद्-उपकाराभेदात्। विधिशेषवत्--- यथैकस्मिन् वेदान्ते वैश्वानर-विद्यादि-विशेषतया विहितस्य गुणस्य तद्-उपकारायोपसꣳहारः; तथा वेदान्तान्तरेऽपि तद्-विद्याङ्गत्वाविशेषाद् उपसꣳहारो न्याय्यः॥५॥

Link copied

इति सर्व-वेदान्त-प्रत्ययाधिकरणम्॥१॥

Link copied

३६०। अन्यथात्वꣳ शब्दाद् इति चेन् नाविशेषात्॥३।३।६॥

Link copied

अस्ति ह्य् उद्गीथ-विद्या वाजिनाꣳ छन्दोगानाꣳ च। वाजिनाꣳ तावत्--- हन्तासुरान् यज्ञ उद्गीथेनात्ययाम, इत्य् आरभ्य उद्गीथे प्राण-दृष्ट्योपासनꣳ शत्रु-परिभव-फलꣳ विहितम्। छन्दोगानाम् अपि--- तद् ध देवा उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः, इत्य् आरभ्य उद्गीथे प्राण-दृष्ट्योपासनम् एव शत्रु-परिभव-फलम् उक्तम्। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। चोदनाद्य्-अविशेषाद् विद्यैक्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अप्य् उभयत्रोद्गीथे प्राण-दृष्ट्योपासनम् अविशिष्टम् उक्तम्। तथापि छन्दोगानाम्--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इति प्रकृत्य, उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः, इत्य् उद्गीथावयवे प्रणवे प्राण-दृष्ट्योपासनम् उक्तम्; वाजिनाꣳ तु--- हन्तासुरान् यज्ञ उद्गीथेनात्ययाम, इत्य् उपक्रमाद् अविशेषेण कृत्स्नोद्गीथे प्राण-दृष्ट्योपासनम् उक्तम्। अथ ह य एवायꣳ मुख्यः प्राणस् तम् उद्गीथम् उपासाञ्चक्रिरे, इति च्छन्दोगानाम् उद्गान-कर्मण्य् उद्गीथावयवे प्रणवे प्राण-दृष्टि-विधानात्। वाजिनाꣳ तु--- अथ हेमम् आसन्यꣳ प्राणम् ऊचुस् त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उद्गायत्, इति कृत्स्नोद्गीथस्य कर्तरि प्राण-दृष्टि-विधानाच् चोभयत्र रूप-भेदाद् विद्या-भेद इति॥

Link copied

सूत्रार्थस् तु--- अन्यथात्वꣳ शब्दाद् इति चेद् इति राद्धान्त-च्छायया परिचोद्य, नाविशेषाद् इति पूर्व-पक्षी परिहरति। अथ ह य एवायꣳ मुख्यः प्राणस् तम् उद्गीथम् उपासाञ्चक्रिरे, अथ हेमम् आसन्यꣳ प्राणम् ऊचुस् त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्, इत्य् एकत्रोद्गीथे प्राण-दृष्टि-शब्दात्, इतरत्रोद्गातरि प्राण-दृष्टि-शब्दाच् च, रूपान्यथात्वम् इति चेन् न रूप-भेदः। कुतः। अविशेषात्--- उपक्रमे ह्य् अविशेषेण, उद्गीथेनात्ययाम, उद्गीथम् आजह्रुर् अनेनैनान् अभिहनिष्यामः इत्य् उद्गीथस्यैवोपास्यत्व-प्रतीतेः। त्वꣳ न उद्गायेति तथेति तेभ्य एष प्राण उदगायद् इति कर्मण्य् एवोद्गीथे कर्तृत्वम् उपचर्यत इति युक्तम्; अन्यथोपक्रम-विरोधः स्यात्॥६॥

Link copied

३६१। न वा प्रकरण-भेदात् परो वरीयस्त्वादिवत्॥३।३।७॥

Link copied

न चैतद् अस्ति। यद् रूपैक्याद् विद्यैक्यम् इति। कुतः। प्रकरण-भेदात्। छान्दोग्ये हि--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेत्य् उद्गीथावयव-भूतꣳ प्रणवम् उपास्यꣳ प्रकृत्य, उद्गीथम् आजह्रुः, इति वचनाद् उद्गीथावयव-भूतः प्रणव एवोद्गीथ-शब्देनोच्यत इत्य् अवगम्यते; वाजसनेयकेत्व-विशेषेण, उद्गीथेनात्ययाम, इत्य् उपक्रमात् कृत्स्नोद्गीथ उपास्यः प्रकृतः; अत उद्गीथे प्राण-दृष्ट्य्-अविशेषेऽपि रूप-भेदाद् विद्या-भेदः। परोवरीयस्त्वादिवत्--- यथैकस्याम् अपि शाखायाम् उद्गीथावयव-भूते प्रणवे परमात्म-दृष्टि-विधान-साम्येऽपि हिरण्मय-पुरुष-दृष्टि-विधानात् परोवरीयस्त्वादि-गुण-विशिष्ट-दृष्टि-विधानम् अर्थान्तरम् इति रूप-भेदः; तद्वद् अत्रापि। एवꣳ प्रकरण-भेदेनोपक्रम एवैकत्रोद्गीथावयव-विषयत्वेनान्यत्र कृत्स्नोद्गीथ-विषयत्वेन चोपासन-भेदे सिद्धे सत्य् उपसꣳहारस्य कर्म-विषयꣳ कर्तृ-विषयꣳ च प्राण-दृष्टि-विधानꣳ यथाश्रुतम् अवतिष्ठत इत्य् अभिप्रायः॥७॥

Link copied

३६२। सꣳज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि॥३।३।८॥

Link copied

उद्गीथ-विद्येति सꣳज्ञैक्यात्, तत्--- विधेयैक्यम् उक्तꣳ चेत्, तत्--- सꣳज्ञैक्यꣳ विधेय-भेदेऽपि, अस्ति तु--- अस्त्य् एवेत्य् अर्थः; यथा नित्याग्निहोत्रे, कुण्डपायिनाम् अयनाग्निहोत्रे च; यथा च च्छान्दोग्ये प्रथम-प्रपाठकोदितासु बह्वीषु विद्यासूद्गीथ-विद्येति सꣳज्ञैक्यम्॥८॥

Link copied

३६३। व्याप्तेश् च समञ्जसम्॥३।३।९॥

Link copied

प्रथम-प्रपाठके उपक्रमवद् उत्तरास्व् अप्य् उद्गीथ-विद्यासूद्गीथावयवस्य प्रणवस्यैवोपास्यत्व-व्याप्तेर् मध्य-गतस्य--- तद् ध देवा उद्गीथम् आजर्हुः, इत्य् उद्गीथ-शब्दस्यापि प्रणव-विषयत्वम् एव समञ्जसम्॥९॥ इत्य् अन्यथात्वाधिकरणम्॥२॥

Link copied

३६४। सर्वाभेदाद् अन्यत्रेमे॥३।३।१०॥

Link copied

यो ह वै ज्येष्ठꣳ च श्रेष्ठꣳ च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति प्राणो वा व ज्येष्ठश् च श्रेष्ठश् च, इति च्छन्दोगानाꣳ वाजिनाꣳ कौषीतकिनाꣳ च प्राण-विद्याम्नाता। तत्र च्छान्दोग्य-वाजसनेयकयोः सर्वस्यैकरूप्यात् प्राण-विद्यैकैव। कौषीतकि-प्राण-विद्यायास् तस्याश् च भेदोऽस्ति, उत नास्तीति सꣳशयः। अस्ति भेद इति पूर्वः पक्षः। यद्य् अपि सर्वत्र ज्यैष्ठ्य-श्रैष्ठ्य-गुणकः प्राण एक एवोपास्यः; तथापि च्छन्दोगानाꣳ वाजसनेयिनाꣳ च ज्यैष्ठ्य-श्रैष्ठ्य-गुणकस्य प्राणस्य वाग्-आदि-गत-वसिष्ठत्वादि-गुण-सम्बन्धित्वम् अपि शब्दाद् एव प्रतीयते। कौषीतकिनाꣳ तु न तथेति रूप-भेदाद् विद्या-भेदः। राद्धान्तस् तु--- यद्य् अपि कौषीतकि-प्राण-विद्यायाꣳ वाग्-आदि-भात-वसिष्टत्वादि-सम्बन्धित्वम् अपि प्राणस्य शब्दान् नाभिहितम्, तथापि तत्रापि प्राणस्य ज्येष्ठ्य-श्रेष्ठ्योपपादनꣳ वाग्-आदीनाꣳ स्थितेस् तत्-तत्-कार्यस्य च प्राणाधीनत्वेनेत्य् एतद् अविशिष्टम् इति वाग्-आदि-गत-वसिष्ठत्वादेर् अपि प्राण-हेतुकत्वानुसन्धानेन विना प्राणस्य ज्यैष्ठ्य-श्रेष्ठ्यानुसन्धानम् अनुपपन्नम् इति कौषीतकि-प्राण-विद्यायाम् अपि वाग्-आदि-गत-वसिष्ठत्वादि-सम्बन्ध्य् एव प्राण उपास्य इति रूपाभेदाद् विद्यैक्यम्॥

Link copied

सूत्रार्थस् तु--- सर्वाभेदाद् अन्यत्रेमे। अन्यत्र--- कौषीतकि-प्राणविद्यायाम् अपि, इमे वसिष्ठत्वादयः सन्त्य् एव। कुतः। सर्वाभेदात्--- प्राण-ज्यैष्ठ्य-श्रैष्ठ्योपपादन-प्रकारस्य सर्वस्य तत्राप्य् अभेदात्। वाग्-आदीनाꣳ स्थितेः कार्यस्य च प्राण-हेतुत्वेन हि प्राणस्य ज्यैष्ठ्यꣳ श्रैष्ठ्यꣳ चात्राप्य् उपपादितम्। अतो वाग्-आदि-गत-कार्य-सामर्थ्य-रूप-वसिष्ठत्वादि-सम्बन्धित्वꣳ प्राणस्यात्राप्य् उक्तम् एवेत्य् अर्थः॥१०॥ इति सर्वाभेदाधिकरणम्॥३॥

Link copied

३६५। आनन्दादयः प्रधानस्य॥३।३।११॥

Link copied

सत्य-ज्ञानानन्दामलत्वानन्तत्व-रूपा ब्रह्म-स्वरूप-निरूपक-गुणाः सर्वासु पर-विद्यासूपसꣳहर्तव्याः, उत नेति सꣳशयः। नोपसꣳहर्तव्या इति पूर्वः पक्षः, अप्रकरणाधीतानाम् उपसꣳहारे प्रमाणाभावात्, ब्रह्म-गुणानाम् असङ्ख्येयत्वेनोपसꣳहाराशक्तेश् च। राद्धान्तस् तु--- ज्ञानानन्दादीनाꣳ ब्रह्म-स्वरूप-निरूपक-गुणत्वेन तैर् विना ब्रह्म-स्वरूपानुसन्धानानुपपत्तेः सर्वासूपसꣳहर्तव्या इति। सूत्रार्थस् तु--- सर्वाभेदाद् इत्य् अतोऽभेदाद् इति वर्तते, आनन्दादयो गुणाः सर्वासूपसꣳहर्तव्याः, प्रधानस्य--- गुणिनो ब्रह्मणः सर्वासु विद्यास्व् अभेदात्। सर्वासु पर-विद्यासु ब्रह्मैकम् एवानुसन्धेयꣳ चेत्, यैर् गुणैर् विना ब्रह्म-स्वरूपानुसन्धानम् अशक्यम्, ते च ज्ञानानन्दादयोऽनुसन्धेया इत्य् अर्थः॥११॥

Link copied

३६६। प्रियशिरस्त्वाद्य्-अप्राप्तिर् उपचयापचयौ हि भेदे॥३।३।१२॥

Link copied

आनन्दादीनाꣳ प्राप्ताव् अपि--- तस्य प्रियम् एव शिरः, मोदो दक्षिणः पक्षः, इति प्रियशिरस्त्वादीनाम् अप्राप्तिः, ब्रह्म-स्वरूप-गुणत्वाभावात् तेषाम्। ब्रह्मणः शिरः-पक्षादि-भेदे स्वरूपे सति ब्रह्मण उपचयापचयौ प्रसज्येयाताम्। ततश् च--- सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म, आनन्दोऽजरः, इत्य् आदि विरुध्यते॥१२॥

Link copied

प्रियशिरस्त्वादिभ्य आनन्दादीनाꣳ विशेषम् आह---

Link copied

३६७। इतरे त्व् अर्थ-सामान्यात्॥३।३।१३॥

Link copied

इतरे--- आनन्दादयः, अर्थ-सामान्यात्--- ब्रह्म-स्वरूप-सामान्यात् सर्वास्व् अनुवर्तन्ते। ब्रह्म-स्वरूप-निरूप-रूपण-धर्मत्वेन ब्रह्म-स्वरूप-समाना हि ते॥१३॥

Link copied

प्रियशिरस्त्वादयो ब्रह्म-स्वरूप-धर्मा न भवन्ति चेत्; तद्-अभिधानꣳ किम् अर्थम् इत्य् अत आह---

Link copied

३६८। आध्यानाय प्रयोजनाभावात्॥३।३।१४॥

Link copied

अनुचिन्तनार्थꣳ तद्-अभिधानꣳ, प्रयोजनान्तराभावात्। ब्रह्म-विद् आप्नोति परम् इति वेदितव्यतयोपदिष्टꣳ ब्रह्मानन्द-मयꣳ प्रिय-मोदादि-रूपेण विभज्य शिरः-पक्षादित्वेन रूपयित्वा बुद्धाव् आरोप्यत इत्य् अर्थः॥१४॥

Link copied

३६९। आत्म-शब्दाच् च॥३।३।१५॥

Link copied

अन्योऽन्तर आत्मानन्द-मयः, इत्य् आत्म-शब्दाच् च प्रियशिरस्त्वादयो न ब्रह्म-स्वरूप-धर्माः; शिरः-पक्षादयो हि नात्म-धर्माः॥१५॥

Link copied

३७०। आत्म-गृहीतिर् इतरवद् उत्तरात्॥३।३।१६॥

Link copied

अन्योऽन्तर आत्मेत्य् आत्म-शब्देन परमात्मन एव गृहीतिः--- ग्रहणम्; इतरवत्--- आत्मा वा इदम् एक एवाग्र आसीत्, इत्य् आत्म-शब्देन यथा परमात्मनो ग्रहणम्, तद्वत्। कथम् इदम् अवगम्यते। तद्-एकार्थाद् उत्तरात्--- सोऽकामयत, बहु स्याꣳ प्रजायेयेत्य् आदि वाक्यात्॥

Link copied

३७१। अन्वयाद् इति चेत् स्याद् अवधारणात्॥३।३।१७॥

Link copied

पूर्वेषु--- अन्योऽन्तर आत्मा प्राणमयः, इत्य् आदि वाक्येष्व् अनात्मस्व् अप्य् आत्म-शब्दान्वयात् कथम् उत्तर-वाक्यान् निर्णय इति चेत्; तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इति प्रकृतस्यात्मन एव प्राण-मयादिष्व् आनन्द-मय-पर्यन्तेष्व् आत्म-शब्देनावधारणात् स्याद् एव निर्णयः। अतः प्रियशिरस्त्वादीनाम् अनात्म-धर्मत्वात्, ज्ञानानन्दादीनाम् आत्म-स्वरूप-निरूपण-धर्मत्वाच् च, तेषाम् एव सर्वत्रोपसꣳहारः॥१७॥ इत्य् आनन्दाद्य्-अधिकरणम्॥४॥

Link copied

३७२। कार्याख्यानाद् अपूर्वम्॥३।३।१८॥

Link copied

छान्दोग्य-वाजसनेयकयोर् ज्येष्ठꣳ च श्रेष्ठꣳ च प्राणम् उपास्यꣳ विधाय, सहोवाच किꣳ मे वासो भविष्यतीत्य् आप इति होचुः, इत्य् अपाꣳ प्राणस्य वासस्त्वम् उक्त्वा, तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति लम्भुको ह वासो भवत्य् अनग्नो भवति, इति च्छान्दोग्ये। वाजसनेयके चापाꣳ प्राण-वासस्त्वम् उक्त्वा, तस्माद् एवꣳविद् अशिष्यन्न् आचामेद् अशित्वा चाचामेद् एतम् एव तद् अन्नम् अनग्नꣳ कुरुते, इति। आचमनेन प्राणम् अनग्नꣳ कुरुत इत्य् अर्थः। अत्राशनात् पुरस्ताद् उपरिष्टाच् च किम् आचमनꣳ प्राण-विद्याङ्गꣳ विधीयते, उताचमनीयानाम् अपाꣳ प्राण-वासस्त्वानुसन्धानꣳ विधीयत इति सꣳशयः। आचामेद् इत्य् आचमने विधि-प्रत्यय-श्रवणात्, स्मृत्य्-आचार-प्राप्ताद् आचमनाद् आचमनान्तरꣳ प्राण-विद्याङ्गꣳ विधीयत इति पूर्वः पक्षः। राद्धान्तस् तु--- अशित्वा चाचामेद् इत्य् आचमनꣳ चात्र प्रतीयते; आचमनीयानाम् अपाꣳ प्राण-वासः स्वानुसन्धानꣳ च, आपो वासः, अद्भिः परिदधति, एतम् एव तद् अन्नम् अनग्नꣳ कुरुते, इति प्रतीयते। तत्राचमनꣳ तावत् स्मृत्य्-आचार-प्राप्तम्; अपाꣳ प्राण-वासस्त्वानुसन्धानम् अप्राप्तम्। अनग्नꣳ कुर्वन्तो मन्यते। अनग्नꣳ कुरुते, इत्य् अनुवाद-सरूपꣳ प्रतीयते। तत्राचमनान्तर-कल्पनाद् आचमनम् अनूद्याचमनीयानाम् अपाꣳ प्राण-वासस्त्वानुसन्धानम् अप्राप्तꣳ विधीयत इति युक्तम्। तद् अन्नम् अनग्नꣳ कुरुते, इति वचनानि त्व् अपूर्वत्वात्, विधिर् वास्याद् अपूर्वत्वात्, इति न्यायेन विधि-वचनम् एव भवति। सूत्रार्थस् तु--- अपूर्वम्, अप्राप्तम् अपाꣳ प्राण-वासस्त्वानुसन्धानꣳ विधेयम्, न पुनः प्राप्तम् आचमनम्। कुतः। कार्याख्यानात्--- कार्यस्य अप्राप्तार्थस्याख्यान-स्वभावत्वाच् छास्त्रस्येत्य् अर्थः॥१८॥ इति कार्याख्यानाधिकरणम्॥५॥

Link copied

३७३। समान एवꣳ चाभेदात्॥३।३।१९॥

Link copied

वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्य-विद्याम्नाता। अग्निरहस्ये तावत्--- स आत्मानम् उपासीत मनो-मयꣳ प्राण-शरीरꣳ भा-रूपꣳ सत्य-सङ्कल्पम् आकाशात्मानम् इति। बृहदारण्यके च--- मनो-मयोऽयꣳ पुरुषो भाः सत्यꣳ तस्मिन्न् अन्तर् हृदये यथा व्रीहिर् वा यवो वा स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदꣳ प्रशास्ति, इति। किम् अत्र विद्या-भेदः, उत नेति सꣳशयः। एकत्र सत्य-सङ्कल्पत्वम् अधिकꣳ श्रुतम्; इतरत्र वशित्वादयोऽधिका इति रूप-भेदाद् विद्या-भेद इति पूर्वः पक्षः। राद्धान्तस् तु---उभयत्र मनो-मयत्वादिके समाने सति वशित्वादेः सत्य-सङ्कल्पत्व-वितति-रूपतया तेनाभेदान् न रूप-भेद इति विद्यैक्यम्। सूत्रार्थस् तु--- मनो-मयत्वादिके समाने सति विद्यैक्यम्, एवꣳ चाभेदात्--- वशित्वादि-गुणेनाप्य् अभेदात्। वशित्वादिर् हि सत्य-सङ्कल्पत्व-विततिः॥१९॥ इति समानाधिकरणम्॥६॥

Link copied

३७४। सम्बन्धाद् एवम् अन्यत्रापि॥३।३।२०॥

Link copied

बृहदारण्यके--- य एष एतस्मिन् मण्डले पुरुषो यश् चायꣳ दक्षिणोऽक्षिन्, इत्य् उपक्रम्य आदित्य-मण्डलेऽक्षणि च सत्यस्य ब्रह्मणो व्याहृति-शरीरत्वेनोपास्यत्वम् उक्त्वा, तस्योपनिषद् अहर् इत्य् अधिदैवतम्, तस्योपनिषद् अहम् इत्य् अध्यात्मम् इति द्वे रहस्य-नामनी उपासन-शेषतयाम्नायेते। ते किꣳ यथाश्रुत-स्थान-नियते, उतोभयत्रोभे इति सꣳशयः। उभयोः स्थानयोर् एक-रूपस्यैवोपास्यत्वाद् विद्यैक्यम् इत्य् अनियते नामनी इति पूर्वः पक्षः। अक्ष्य्-आदित्य-स्थान-सम्बन्धित्व-रूपाकार-भेदाद् रूप-भेद इति विद्या-भेदाद् द्वे नामनी नियते इति राद्धान्तः। सूत्रार्थस् तु--- यथा मनो-मयत्वादि-गुण-विशिष्टस्यैकस्यैवोपास्यत्वेनोभयत्र विद्यैक्यम्; एवम् अन्यत्राक्ष्य्-आदित्याधारस्याप्य् एकस्यैव सत्यस्य ब्रह्मणः स्थान-द्वय-सम्बन्धान् न रूप-भेद इति विद्यैक्याद् द्वे नामनी अनियते॥२०॥

Link copied

३७५। न वा विशेषात्॥३।३।२१॥

Link copied

न चैतद् अस्ति यद् विद्यैक्याद् उभयत्रोभे नामनी अनियते इति। कुतः। विशेषात्। उभयत्र हि रूपꣳ विशिष्यते, एकत्रादित्य-स्थान-सम्बन्धि इतरत्राक्षि-स्थान-सम्बन्धि ब्रह्मेति रूप-भेदाद् विद्या-भेद इति नियते नामनी॥२१॥

Link copied

३७६। दर्शयति च॥३।३।२२॥

Link copied

दर्शयति च श्रुतिर् विद्या-भेदेन गुणानुपसꣳहारम्--- तस्यैतस्य तद् एव रूपꣳ यद् अमुष्य रूपम् इत्य् आदिना रूपाद्य्-अतिदेशेन। स्वतो ह्य् अप्राप्ताव् अतिदेशेन प्राप्त्य्-अपेक्षा॥२२॥ इति सम्बन्धाधिकरणम्॥७॥

Link copied

३७७। सम्भृति-द्यु-व्याप्त्य् अपि चातः॥३।३।२३॥

Link copied

तैत्तिरीयके राणायनीयानाꣳ खिलेषु च--- ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठꣳ दिवम् आततान। ब्रह्म भूतानाꣳ प्रथमो जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुꣳ कः, इति ब्रह्मणि ज्येष्ठानाꣳ गुणानाꣳ सम्भृतिर् द्यु-व्याप्तिश् चेत्य् आदि-गुण-जातम् आम्नातम्। किम् एषाꣳ सर्वासु विद्यासूपसꣳहारः, उत स्थान-विशेषोपासनेषु नियम इति सꣳशयः। अनारभ्याधीतत्वाद् एषाꣳ सर्वासूपसꣳहारः, इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अपि न स्थान-विशेष-सम्बन्ध्य्-उपासनम् आरभ्याधीता एते; तथापि द्यु-व्याप्ति-सामर्थ्यात् तस्य हृदयाद्य्-अल्प-स्थानेषूपसꣳहारायोगात् तत्-साहचर्याच् चेतरेषाम् अल्प-स्थान-विहितासु विद्यासु नोपसꣳहारः, इति। सूत्रार्थस् तु--- सम्भृति-द्यु-व्याप्तीति समाहार-द्वन्द्वैकवद् भावः। सम्भृति-प्रभृति-गुण-जातम् अप्य् अत एव--- स्थान-विशेष-सम्बन्ध-नियमान् नियतम्; न सर्वत्रोपसꣳहार्यम्। द्यु-व्याप्तिर् हि स्व-सामर्थ्याद् अल्प-स्थानानहतया तद्-इतर-स्थान-नियता। सम्भृत्य्-आद्य् अपि तत्-साहचर्यात् तथैव॥२३॥ इति सम्भृत्य्-अधिकरणम्॥८॥

Link copied

३७८। पुरुष-विद्यायाम् अपि चेतरेषाम् अनाम्नानात्॥३।३।२४॥

Link copied

तैत्तिरीयके पुरुष-विद्याम्नाता, तस्यैवꣳ विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरम् इत्य् आदिका। छान्दोग्येऽपि--- पुरुषो वाव यज्ञस् तस्य यानि चतुर्-विꣳशति-वर्षाणि, इत्य् आदिका। किम् अत्र विद्या-भेदः, उत नेति सꣳशयः। पुरुष-विद्येति सꣳज्ञैक्यात्, तैत्तिरीयके फल-सम्बन्धानाम्नानात्, छान्दोग्ये--- शतꣳ जीवति, इत्य् अनेनैक-फलत्वाच् च विद्यैक्यम् इति पूर्वः पक्षः। राद्धान्तस् तु--- पुरुष-विद्येति सꣳज्ञैक्येऽपि सवन-त्रय-कल्पना-प्रकार-भेदाद् यजमान-पत्न्य्-आदि-कल्पना-प्रकार-भेदाच् च रूप-भेदात्, तैत्तिरीयके पूर्वानुवाक-गतस्य--- ब्रह्मणो महिमानम् आप्नोति, इति ब्रह्म-विद्या-फलस्यैव सन्निधानाद् अफलस्यास्य तद्-अङ्गतया तत्-फलत्वात् फल-भेदाच् च विद्या-भेदः। सूत्रार्थस् तु--- पुरुष-विद्यायाम् अप्य् उभयत्र रूप-भेदाद् विद्या-भेदः। कुतः। इतरेषाम् अनाम्नानात्--- इतर-शाखोदितानाꣳ तद्-इतर-शाखायाम् अनाम्नानात्। छान्दोग्ये तैत्तिरीयकाम्नातानाꣳ यजमान-पत्न्य्-आदीनाꣳ सवनानाꣳ चानाम्नानात्, तैत्तिरीयके च छान्दोग्याम्नातानाꣳ यज्ञावयवानाम् अनाम्नानाद् इत्य् अर्थः। तैत्तिरीयके हि--- आत्मा यजमानः श्रद्धा पत्नी, इति यजमानादि-कल्पनम्, यत् सायꣳ प्रातर् मध्यन्दिनꣳ च तानि सवनानि, इति च सवन-त्रय-कल्पनम्; छान्दोग्ये चाशिशिषादीनाꣳ दीक्षात्वादि-कल्पनम्, पुरुषायुषꣳ त्रेधा विभज्य सवन-त्रय-कल्पनꣳ चेति यज्ञावयव-कल्पन-प्रकार-भेदाद् रूप-भेदः स्पष्टः। फलम् अपि तथैवेति। इतरेषाम् इति फलस्यापि ग्रहणम्॥२४॥ इति पुरुष-विद्याधिकरणम्॥।९॥

Link copied

३७९। वेधाद्य्-अर्थ-भेदात्॥३।३।२५॥

Link copied

आथर्वणिकास् तैत्तिरीयका ऐतरेयिण इत्य् एवम् आदयः उपनिषद्-आरम्भेषु--- शुक्रꣳ प्रविध्य हृदयꣳ प्रविध्य, शꣳ नो मित्रः शꣳ वरुणः, सह नाव् अवतु, इत्य् आदि मन्त्रान् महाव्रतादीनि च कर्माण्य् अधीयते। किम् एषाꣳ विद्याङ्गत्वम्, उत नेति सꣳशयः। सन्निधि-समाम्नानाद् विद्याङ्गत्वम् इति पूर्वः पक्षः। राद्धान्तस् तु--- शुक्रꣳ प्रविध्य हृदयꣳ प्रविध्येत्य् आदि मन्त्र-सामर्थ्यात्, महाव्रतादीनाꣳ च कर्मणाꣳ श्रुत्य्-आदिभिश् चाभिचार-द्वादशाहादिषु विनियोगवत्, शꣳ नो मित्रः श वरुणः, सहनाववतु, इत्य् आदेर् मन्त्रस्य च, ऋतꣳ वदिष्यामि, सत्यꣳ वदिष्यामि, तेजस्वि नावधीतम् अस्तु, इति मन्त्र-सामर्थ्याद् अध्ययने विनियोग इति न विद्याङ्गत्वम्। सूत्रार्थस् तु--- वेधाद्य्-अर्थ-भेदाद् इत्य् अस्य वेधाद्य्-अर्थ-भेदवत्, सत्यꣳ वदिष्यामि, तेजस्वि नावधीतम् अस्तु, इति शꣳ नो मित्रादेर् मन्त्रस्याप्य् अध्ययन-सम्बन्ध-रूपार्थ-भेदान् न विद्याङ्ग्त्वम् इत्य् अभिप्रायः। अतः शꣳ नो मित्रादि-मन्त्र एवाधिकरणस्य विषयः॥२५॥ इति वेधाद्य्-अधिकरणम्॥१०॥

Link copied

३८०। हानौ तूपायन-शब्द-शेषत्वात् कुशाच्छन्दः स्तुत्य्-उपगानवत् तद् उक्तम्॥३।३।२६॥

Link copied

विदुषो ब्रह्म प्राप्नुवतः पुण्य-पापयोर् विर्मोचनꣳ द्वयोः शाखयोः श्रुतम्; विमुक्तयोः पुण्य-पापयोर् अन्यत्र प्रवेश एकस्याꣳ शाखायाꣳ श्रुतः; विमोचनꣳ प्रवेशश् चोभयम् एकस्याम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपैति, अश्व इव रोमाणि विधूय पापꣳ चन्द्र इव राहोर् मुखात् प्रमुच्य। धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् अभिसम्भवानि, इति च केवल-विमोचनम्; तस्य पुत्रा दायम् उपयन्ति सुहृदः साधु-कृत्याꣳ द्विषन्तः पाप-कृत्याम् इति केवल-प्रवेशः; तत् सुकृत-दुष्कृते धूनुते तस्य प्रिया ज्ञातयः सुकृतम् उपयन्त्य् अप्रिया दुष्कृतम् इत्य् उभयम्। किꣳ केवल-हानि-चिन्तनꣳ केवलोपायन-चिन्तनम् उभय-चिन्तनꣳ च सर्वासु विद्यासु विकल्पेनानुष्ठेयम्, उत समुच्चयेनेति सꣳशयः। तथाम्नातस्यार्थवत्त्वाय विकल्प इति पूर्वः पक्षः। राद्धान्तस् तु--- पुण्य-पाप-प्रवेशस्य विमोचनापेक्षत्वेन शाखान्तर-स्थस्यापि प्रवेश-वाक्यस्य शाखान्तर-स्थ-विमोचन-वाक्य-शेषत्वाद् वाक्य-द्वयेनैकार्थ-विधानात् समुच्चयः। एकस्याꣳ शाखायाम् उभय-विधानꣳ प्रतिपत्तृ-भेदेन परिह्रियते॥

Link copied

सूत्रार्थस् तु--- हानौ त्व् इति तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। हानाव् इति प्रदर्शनार्थम्; केवल-विमोचने केवले चोपायने श्रूयमाणे तयोर् इतरेतर-समुच्चयोऽवश्यम्भावी। कुतः। उपायन-शब्द-शेषत्वात्--- उपायन-शब्दस्य हानि-वाक्य-शेषत्वाद् इत्य् अर्थः। त्यक्तयोः पुण्य-पापयोः प्रवेश-स्थान-वाचित्वाद् उपायन-वाक्यस्य हानि-वाक्य-शेषत्वम् अवगम्यते। प्रदेशान्तराम्नात-वाक्यस्य प्रदेशान्तराम्नात-वाक्य-शेषत्वे दृष्टान्तान् आह--- कुशाच्छन्दः स्तुत्य्-उपगानवद् इति। यथा--- वानस्पत्याः कुशाः, इति प्रदेशान्तराम्नातस्य वाक्यस्य, औदुम्बर्यः कुशाः, इति तद्-विशेष-वाचि-प्रदेशान्तर-स्थम्; यथा च--- देवासुराणाꣳ छन्दोभिः, इति सामान्यतः प्रदेशान्तराम्नातस्य, देव-च्छन्दाꣳसि पूर्वम् इति तत्-क्रम-विशेष-वाचि प्रदेशान्तर-स्थम्; यथा च--- हिरण्येन षोडशिनः स्तोत्रम् उपाकरोति, इति प्रदेशान्तर-स्थस्य तत्-काल-विशेष-वाचि, समयाविषिते सूर्य षोडशिनः स्तोत्रम् उपाकरोति, इति प्रदेशान्तर-स्थम्; यथा च--- ऋत्विज उपगायन्ति, इति प्रदेशान्तर-स्थस्य, नाध्वर्युर् उपगायेत्, इति तत्-पर्युदास-रूपꣳ प्रदेशान्तर-स्थम्; एवम् उपायन-वाक्यस्य हानि-वाक्य-शेषतया सम्भवन्त्याꣳ गतौ न विकल्पो युक्तः। तद् उक्तꣳ पूर्वस्मिन् काण्डे--- अपि तु वाक्य-शेषः स्याद् अन्याय्यत्वाद् विकल्पस्य, इत्य् आदिना॥२६॥ इति हान्य्-अधिकरणम्॥११॥

Link copied

३८१। साम्पराये तर्तव्याभावात् तथा ह्य् अन्ये॥३।३।२७॥

Link copied

किम् इदꣳ सुकृत-दुष्कृतयोर् हानि-चिन्तनꣳ देह-वियोग-काले एकदेशः क्षीयते, अध्वनि शिष्टम् इत्य् उभयत्र कर्तव्यम्, उत देह-वियोग-काल एव सर्वꣳ क्षीयत इति सꣳशयः। उभयत्र श्रुतेर् देवयानेन पथा गमनान्यथानुपपत्त्या चोभयत्रेति पूर्वः पक्षः, अश्व इव रोमाणि विधूय पापꣳ चन्द्र इव राहोर् मुखात् प्रमुच्य, धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् इति देह-वियोग-काले, स आगच्छति विरजाꣳ नदीꣳ\॥॥तत् सुकृत-दुष्कृते धूनुते इत्य् अध्वन्य् अपि हानि-श्रुतेः। देह-वियोग-काले सर्व-कर्म-क्षये हि देवयानेन गमन-साधनꣳ कर्म न सम्भवति। राद्धान्तस् तु--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये, इति देह-वियोगाद् ऊर्ध्वꣳ ब्रह्म-प्राप्ति-व्यतिरेकेणानुभाव्य-पुण्य-पाप-फलाभावात्, अश्व इव रोमाणि विधूय पापम् इत्य् आदिनैकार्थ्यात्, अध्वन्य् आम्नातम् अपि, तत् सुकृत-दुष्कृते धूनुते इति वाक्यꣳ देह-वियोग-काले सङ्गमयितव्यम् इति देह-वियोग-काल एव हानि-चिन्तनम्। सर्व-कर्म-क्षयेऽपि हि विद्या-सामर्थ्याद् एव देवयानेन पथा गमनꣳ चोपपद्यते। विद्या हि स्वयꣳ सूक्ष्म-शरीरस्यानारम्भिकापि प्रकृत-सुख-दुःखोपभोग-साधन-स्थूल-शरीरस्य सर्व-कर्मणाꣳ च निरवशेष-क्षयेऽपि स्व-फल-भूत-ब्रह्म-प्राप्ति-प्रतिपादनाय देवयानेन पथैन गयितुꣳ सूक्ष्म-शरीरꣳ स्थापयति॥

Link copied

सूत्रार्थस् तु--- साम्पराये, देह-वियोग-काल एव चिन्तनीयः। कुतः। तर्तव्याभावात्--- देह-वियोगाद् ऊर्ध्वꣳ ब्रह्म-प्राप्ति-व्यतिरेकेण तरितव्य-भोगाभावात्। तथा ह्य् अन्येऽधीयते--- तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये, अथ सम्पत्स्ये, इति, अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः, इति च॥२७॥

Link copied

३८२। छन्दत उभयाविरोधात्॥३।३।२८॥

Link copied

एवम् अर्थ-स्वाभाव्याद् देह-वियोग-काल एव निरवशेष-कर्म-क्षयेऽवधृते सति, तत् सुकृत-दुष्कृते धूनुते इति वाक्य-खण्डः उभयाविरोधात्--- उभय-श्रुत्य्-अविरोधाच् छन्दतो नेयः, अश्व इव रोमाणि विधूय पापꣳ\॥॥धूत्वा शरीरम् अकृतम्, तस्य तावद् एव चिरम् इत्य् उभय-श्रुत्य्-अविरोधाच् चरम-श्रुतोऽपि, तत् सुकृत-दुष्कृते धूनुते इति वाक्य-खण्डः, एतꣳ देवयानꣳ पन्थानम् आपद्यते, इति प्रथम-श्रुत-खण्डात् प्राग् अनुगमयितव्य इत्य् अर्थः॥२८॥

Link copied

अत्र चोदयति---

Link copied

३८३। गतेर् अर्थवत्त्वम् उभयधान्यथा हि विरोधः॥३।३।२९॥

Link copied

देवयानेन गति-श्रुतेर् अर्थवत्त्वꣳ देह-वियोग-कालेऽध्वनि चेत्य् उभयथा कर्म-क्षये सत्य् एव; अन्यथा देह-वियोग-काले एव सर्व-कर्म-क्षये सति सूक्ष्म-शरीरस्याप्य् आरम्भक-नाशेन स्थित्य्-अनुपपत्तेर् देवयान-गति-श्रुतिर् हि विरुध्यते॥२९॥

Link copied

परिहरति---

Link copied

३८४। उपपन्नस् तल्-लक्षणार्थोपलब्धेर् लोकवत्॥३।३।३०॥

Link copied

भगवन्तम् उपासीनानाꣳ देह-वियोग-काले सर्व-कर्म-क्षयेऽप्य् उपपन्नो देवयानः पन्थाः। कुतः। तल्-लक्षणार्थोपलब्धेः--- तल्-लक्षणार्थः, तज्-जातीयार्थः, अकर्म-लभ्यार्थोपलब्धेर् इत्य् अर्थः। उपलभ्यते ह्य् अकर्म-लभ्यार्थो ब्रह्मोपासीनानाꣳ--- स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति, इत्य् आदिषु। लोकवत्--- यथा लोके राजानम् उपासीनानाꣳ प्राकृत-पुरुषासाधारणातिरमणीयानेकार्थ-सिद्धिः; तद्वत् सर्व-ज्ञꣳ सत्य-सङ्कल्प महोदारꣳ परꣳ ब्रह्मोपासीनानाꣳ सर्वम् उपपन्नम् इत्य् अर्थः॥३०॥

Link copied

परꣳ ब्रह्मोपासीनानाꣳ देहपात-समये सर्व-कर्म-क्षयाद् देह-पाताद् ऊर्ध्वꣳ कर्म-फलानुभवो न विद्यत इत्य् एतन् न सम्भवति, वसिष्ठादीनाꣳ ज्ञानिनाम् अपि कर्म-फल-रूप-देहान्तर-सꣳयोगः, पुत्र-जन्म-विपत्त्य्-आदिषु सुख-दुःखानुभवोऽपि दृश्यते, इत्य् आशङ्क्याह---

Link copied

३८५। यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम्॥३।३।३१॥

Link copied

येषाꣳ ज्ञानिनाꣳ देह-पाताद् अनन्तरम् अर्चिर्-आदिका गतिः प्राप्ता; तेषाꣳ देह-पाताद् ऊर्ध्वꣳ तरितव्य-कर्म-फल-भोगाभावाद् देह-पात-समय एव सर्व-कर्म-क्षय उक्तः। वसिष्ठादीनाꣳ त्व् आधिकारिकाणाꣳ यावद्-अधिकार-समाप्ति नार्चिर्-आदिका गतिर् अस्ति; अपि त्व् अधिकारेऽवस्थितिर् एव, अधिकार-हेतु-भूत-कर्मणः फल-दानायारब्धत्वात्। ज्ञानिनोऽप्य् आरब्धꣳ हि कर्म फलानुभवेनैव क्षीयते॥३१॥ इति साम्परायाधिकरणम्॥१२॥

Link copied

३८६। अनियमः सर्वेषाम् अविरोधः शब्दानुमानाभ्याम्॥३।३।३२॥

Link copied

येषूपासनेषूपकोसलादिष्व् अर्चिर्-आदिका गतिराम्नाता किꣳ तन्-निष्ठानाम् एव तया ब्रह्म-प्राप्तिः, उत सर्वेषाꣳ ब्रह्मोपासन-निष्ठानाम् इति सꣳशयः। तन्-निष्ठानाम् एवेति पूर्वः पक्षः, इतरेषाꣳ तया ब्रह्म-प्राप्तौ प्रमाणाभावात्। यत् तु पञ्चाग्नि-विद्यायाꣳ साधारणꣳ वचनम्, तद् अप्य् उपकोसलादि-विषयम् इति निश्चीयते। अन्यथोपकोसलादिष्व् आम्नानानर्थक्यꣳ स्यात्। राद्धान्तस् तु--- पञ्चाग्नि-विद्यायाꣳ, य एवम् एतद् विदुः ये चामी अरण्ये श्रद्धाꣳ सत्यम् उपासते तेऽर्चिषम् अभिसम्भवन्ति, इति सामान्येन सर्व-विषयꣳ गति-श्रवणम् उपकोसलादिष्व् आम्नानꣳ न बाधितुꣳ क्षमम्, सङ्कोचकꣳ च न भवति, विद्या-स्तुत्य्-अर्थतयानुवादेनाप्य् उपपत्तेः। अतः सर्वेषाꣳ तथैव ब्रह्म-प्राप्तिः। सूत्रार्थस् तु--- अनियमः सर्वेषाꣳ सर्वेषाम् अविशेषेण तयैव प्राप्तिः। कुतः। अविरोधः शब्दानुमानाभ्याꣳ--- तथा सत्य् एव श्रुति-स्मृतिभ्याम् अविरोधः। श्रुतिश् च--- ये चेमेऽरण्ये इत्य् आदिका पञ्चाग्नि-विद्यायाꣳ निदर्शिता; स्मृतिः--- अग्निर् ज्योतिर् अहः शुक्लः, इत्य् आदिका॥३२॥ इत्य् अनियमाधिकरणम्॥१३॥

Link copied

३८७। अक्षर-धियाꣳ त्व् अवरोधः सामान्य-तद्-भावाभ्याम् औपसदवत् तद् उक्तम्॥३।३।३३॥

Link copied

बृहदारण्यके--- एतद् वै तद् अक्षरꣳ गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् इत्य् आदि श्रूयते। तथा आथर्वणे च--- अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् अग्राह्यम् इत्य् आदि। किम् एषाम् अस्थूलत्वादीनाꣳ सर्वासु ब्रह्म-विद्यासूपसꣳहारः, उत यत्र श्रुतास् तत्रैवेति सꣳशयः। विद्या-विशेष-रूपतया श्रुतानाꣳ सर्व-विद्यासाधरणत्वाभावाद् यत्र श्रुतास् तत्रैव नियता इति पूर्वः पक्षः। राद्धान्तस् तु--- अस्थूलत्वादीनाम् अप्य् आनन्दादिवद् ब्रह्म-स्वरूपानुसन्धानान्तर्भावात् सर्वत्रैवोपसꣳहारः, न केवलम् आनन्दादिर् ब्रह्म-स्वरूपꣳ प्रत्यगात्मनो व्यावृत्तम्, तस्यापि हि तद् एव स्वरूपम्। अस्थूलत्वादि-विशेषितम् आनन्दादि ब्रह्मणः प्रत्यगात्मनो व्यावृत्त्य्-आकारः। यद्य् अपि प्रत्यगात्मा स्वभावतः स्थूलत्वाद्य्-अचेतन-धर्मासम्बन्धी, तथापि तत्-सम्बन्धर्हतास्त्य् एव। तद्-अर्हतयापि हि पूर्वꣳ तत्-सम्बन्धः सञ्जातः। अतो ब्रह्मणस् तद्-अनर्ह-स्वरूपानुसन्धानार्थतयास्थूलत्वादयः सर्वत्रानुसन्धेयाः। सूत्रार्थस् तु--- अक्षरधियाम्, अक्षर-सम्बन्धिनीनाम् अस्थूलत्वादि-धियाꣳ सर्व-विद्यास्व् अवरोधः सङ्ग्रहणम्। कुतः। सामान्य-तद्-भावाभ्याꣳ ब्रह्मणः सर्वत्र समानत्वात् ब्रह्मानुसन्धानान्तर्भावाच् च तासाम्। गुणानाꣳ प्रधानानुवर्तित्वꣳ स्वभावः; औपसदवत्--- यथा जामदग्न्य-चतूरात्र-पुरोडाश्युपसद्-गुण-भूतः, अग्निर् होत्रꣳ वेतु, इति मन्त्रः साम-वेद-पठितत्वेन साम-वेद-स्वर-नियतोऽपि प्रधान-भूतोपसद्-अनुवर्तित्वाद् याजुर् वैदिकत्वाच् चोपसदो याजुर् वैदिकोपाꣳशुत्व-सम्बन्धी; तद्वद् अक्षर-विद्या-सम्बन्धितयाधीतत्वेन तद्-विद्यानियता अपि प्रधानानुवर्तित्व-स्वाभाव्यात् सर्व-विद्या-सम्बन्धिनः। तद् उक्तꣳ प्रथम-काण्डे--- गुण-मुख्य-व्यतिक्रमे तद्-अर्थत्वाद् इत्य् आदिना॥३३॥

Link copied

एवꣳ तर्हि--- सर्व-कर्मा सर्व-गन्धः, इत्य् आदीनाम् अपि सर्वेषाꣳ ब्रह्म-गुणत्वान् न क्वचिद् वयवस्थेत्य् अत्राह---

Link copied

३८८। इयद् आमननात्॥३।३।३४॥

Link copied

इयत्--- अस्थूलत्वादि-विशेषितम् आनन्दाद्य् एव सर्वत्रानुसन्धेयम्। कुतः। आमननाद् धेतोः। आमननम्--- आभिमुख्येन मननꣳ, ब्रह्मानुसन्धानम्। ब्रह्म-स्वरूपानुसन्धानꣳ येन विना नोपपद्यते; तद् एव सर्वत्रानुसन्धेयम्। अन्यत् तु तत्र तत्र व्यवस्थितम् इत्य् अर्थः॥३४॥ इत्य् अक्षर-ध्य्-अधिकरणम्॥१४॥

Link copied

३८९। अन्तरा भूत-ग्रामवत् स्वात्मनोऽन्यथा प्रतिवचन-भेदानुपपत्तिर् इति चेन् नोपदेशवत्॥३।३।३५॥

Link copied

बृहदारण्यके उषस्त-प्रश्न-प्रतिवचनꣳ--- यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः योऽपानेनापान् इति स त आत्मा, इत्य् आदि, अतोऽन्यद् आर्तम् इत्य् अन्तम् आम्नातम्। तथा तद्-अनन्तरꣳ कहोल-प्रश्न-प्रतिवचनꣳ--- योऽशनायापिपासे शोकꣳ मोहꣳ जराꣳ मृत्युम् अत्येत्य् एतꣳ हैतम् आत्मनꣳ विदित्वा, इत्य् आदि, अतोऽन्यद् आर्तम् इत्य् अन्तम्। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। पूर्वत्र प्राणनादि-हेतुः प्रत्यगात्मा; उत्तरत्राशनायाद्य्-अतीतः परमात्मेत्य् उपास्य-भेदाद् विद्या-भेदः, इति पूर्वः पक्षः। राद्धान्तस् तु--- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः तन् मे व्याचक्ष्व, इत्य् उभयत्र प्रश्नस्य परमात्म-विषयत्वाद् एक-रूपत्वाच् च, सर्व-प्राणि-प्राणनापाननादि-हेतुत्वस्य अशनायाद्य्-अतीतत्वस्य च प्रतिवचन-द्वयावगतस्य परमात्मन्य् एकस्मिन्न् एवोपास्ये सम्भवाच् च, न विद्या-भेदः। सूत्रार्थस् तु--- अन्तरा, य आत्मा सर्वान्तरः, इत्य् उषस्त-प्रश्नो भूत-ग्रामवत् स्वात्मनः--- प्रत्यगात्मन इत्य् उपगन्तव्यः; अन्यथा प्रतिवचन-भेदानुपपत्तिर् इति चेन् नात्र प्रत्यगात्म-परमात्म-विषयꣳ प्रश्न-द्वयम्; प्रतिवचन-द्वयꣳ च परमात्मन्य् एकस्मिन्न् एवोपास्ये सम्भवतीत्य् अर्थः। उपदेशवत्--- स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यः, इति प्रक्रान्तायाम् एकस्याम् एव सद्-विद्यायाꣳ, भगवाꣳस् त्व् एव मे तद् ब्रवीत्व् इति, भूय एव मा भगवान् विज्ञापयतु, इत्य् आदिका प्रश्नावृत्तिः, प्रतिवचन-भेदश् चोपास्य-माहात्म्य-विशेष-प्रतिपादन-परत्वेन दृश्यते; तद्वत्॥३५॥

Link copied

प्रष्टृ-भेद-पूर्वक-प्रतिवचन-प्रकार-भेदाद् विद्या-भेदोऽवर्जनीय एवेत्य् आशङ्क्याह---

Link copied

३९०। व्यतिहारो विशिꣳषन्ति हीतरवत्॥३।३।३६॥

Link copied

यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः, इति द्वयोः प्रष्ट्रोः प्रश्नस्यैकरूपत्वेनैक-विषयत्वे निश्चिते सत्य् उषस्त-कहोलयोः प्रतिवचन-गत-बुद्धि-व्यतिहारः कार्यः। प्राणनादि-हेतुत्व-बुद्धिः सर्वान्तरात्म-विषया कहोलेनापि कार्या, तथाशनायाद्य्-अतीतत्व-बुद्धिर् उषस्तेनापि कार्या। विशिषन्ति ह्य् उभयत्रापि याज्ञवल्क्य-वचनान्य् एकꣳ सर्वान्तरम् एवोपास्यम्। इतरवत्--- यथेतरत्र सद्-विद्यायाꣳ सर्वाणि प्रतिवचनानि परम-कारण-परब्रह्म-विषयाणि; तद्वत्॥३६॥

Link copied

सद्-विद्यायाम् अप्य् उपास्यैक्यꣳ प्रश्न-प्रतिवचनावृतौ सत्याꣳ कथम् अवगम्यत इत्य् अत्राह---

Link copied

३९१। सैव हि सत्यादयः॥३।३।३७॥

Link copied

सेयꣳ देवतैक्षत, इत्य् आदिषु सर्वत्र सैव परा देवतैकानुवर्तते। ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत्त्वम् असि, इति त एव सत्यादयः सर्वेषु प्रतिवचनेषूपसꣳह्रियन्ते॥३७॥ इत्य् अन्तरत्वाधिकरणम्॥१५॥

Link copied

३९२। कामादीतरत्र तत्र चायतनादिभ्यः॥३।३।३८॥

Link copied

छान्दोग्ये श्रूयते--- अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डरीकꣳ वेश्म दहरोऽस्मिन्न् अन्तर आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् इत्य् आदि प्रक्रम्य, तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामाꣳस् तेषाꣳ सर्वेषु लोकेषु काम-चारो भवतीति; वाजसनेयके च--- य एषोऽन्तर् हृदय आकाशस् तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः, इत्य् आदि। किम् उभयत्र विद्यैक्यम्, उत विद्या-भेद इति सꣳशयः। रूप-भेदाद् विद्या-भेद इति पूर्वः पक्षः। यद्य् अप्य् उभयत्र परमात्मैवोपास्यः, तथाप्य् एकत्राकाश-शब्दाभिधेयः परमात्मोपास्यः, इतरत्राकाशे शयानः परमात्मेति हि रूपꣳ भिद्यते। राद्धान्तस् तु--- हृदयायतनत्व-सत्य-सङ्कल्पत्व-सत्य-कामत्वादेर् अभेदाद् उभयत्र तद्-विशिष्टः परमात्मैवोपास्य इति रूपाभेदाद् विद्यैक्यम्; छान्दोग्ये हि--- दहरोऽस्मिन्न् अन्तर आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् इत्य् आरभ्य, किꣳ तद् अत्र विद्यते, इत्य् आदिना परिचोद्य, तस्मिन् कामाः समाहिताः, एष आत्मापहत-पाप्मा विजरो विमृत्युर् इत्य् आरभ्य, सत्य-कामः सत्य-सङ्कल्पः, इत्य् उक्त्वा, तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामान्, इत्य् आकाश-शब्द-निर्दिष्टः परमात्मा तद्-अन्तर्गताश् च सत्य-कामत्व-सत्य-सङ्कल्पत्वापहत-पाप्मत्वादयो गुणाः, अतः परमात्मा हृदयायतनः सत्य-कामत्वादि-विशिष्ट उपास्य इति वाक्येनैव निर्णीतम्। वाजसनेयके च--- य एषोऽन्तर् हृदय आकाशस् तस्मिञ् शेते सर्वस्य वशी; इत्य् उक्ते सति वशित्वादेः सत्य-सङ्कल्पत्व-विशेष-रूपतया स एव परमात्मा हृदयायतनः सत्य-सङ्कल्पत्व-विशिष्ट उपास्य इति प्रतीयते। अतो दहर-विद्या-प्रत्यभिज्ञानात् स एव परमात्मा सत्य-सङ्कल्पत्वादि-गुणाष्टक-विशिष्ट उपास्य इति निश्चीयते। एवꣳ निश्चिते सत्याकाशे शयान इत्य् आकाश-शब्दोऽपि हृदय-पुण्डरीक-वर्त्य्-आकाश-वाचीति रूपाभेदाद् विद्यैक्यम् एव॥

Link copied

सूत्रार्थस् तु--- कामादीतरत्र तत्र च, वाजसनेयके छान्दोग्ये च सत्य-कामत्वाद्य् एव रूपम्। कुतः। आयतनादिभ्यः हृदयायतनत्व-सत्य-सङ्कल्पत्व-विशेष-रूप-वशित्वादिभ्यस् तत्-सहचारिणः सत्य-कामत्वादेः प्रत्यभिज्ञानात्। परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, अभयꣳ वै ब्रह्म भवति, इति ब्रह्म-प्राप्ति-रूपꣳ फलꣳ चैकम् इति विद्यैक्यम्॥३८॥

Link copied

मनसैवानुद्रष्टव्यꣳ नेह नानास्ति किञ्चनेत्य् आदेः पूर्व-प्रकृतत्वात्, स एष नेति नेत्य् आत्मा, इति च वक्ष्यमाणत्वात्, सर्वस्व वशी सर्वस्येशानः, इत्य् आदि-विशेषाणाꣳ ब्रह्म-स्वरूपत्वाभावात् कथꣳ सत्य-कामत्वादेर् मोक्ष-साधनोपासन-रूपत्वम् इत्य् अत आह---

Link copied

३९३। आदराद् अलोपः॥३।३।३९॥

Link copied

वशित्वादेः प्रमाणान्तराविदित-रूपस्य श्रुत्य्-एक-समधिगम्यस्यादरेण प्रतिपादनाद् अलोपः--- अप्रतिषेधः; तस्यापि ब्रह्म-गुणत्वम् अवश्याश्रयणीयम्; अविशेष-निषेधास् तु सकलेतर-प्राकृत-विशेष-विषयाः; नानात्व-निषेधस् तु सर्वस्य ब्रह्म-कार्यतयाब्रह्मात्मकत्वाभिप्रायः॥३९॥

Link copied

सगुणोपासनस्य--- स यदि पितृलोक-कामो भवतीति साꣳसारिक-फलत्वेन न मोक्ष-फलत्वम् इत्य् आशङ्क्याह---

Link copied

३९४। उपस्थितेऽतस् तद्-वचनात्॥३।३।४०॥

Link copied

उपस्थितिः--- उपस्थानम्, ब्रह्मोपसम्पत्तिः; उपस्थिते ब्रह्मोपसम्पन्ने, अतः--- ब्रह्मोपसम्पत्तेर् एव हेतोः, तद्-वचनात्--- पितृलोकादि-प्राप्ति-वचनात्, न तत्-साꣳसारिकꣳ फलम्, अपि तु साक्षान् मुक्तस्यैव। अस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा ज्ञातिभिर् वा नोपजनꣳ स्मरन्न् इदꣳ शरीरम् इति, स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवति, इति च निवृत्ताविद्यस्य हि स्वेन रूपेणाभिनिष्पन्नस्यैवोच्यते; अतो ब्रह्मोपसम्पत्ति-हेतुकत्वꣳ क्रीडनादेर् अवगम्यते॥४०॥ इति कामाद्य्-अधिकरणम्॥१६॥

Link copied

३९५। तन्-निर्धारणानियमस् तद्-दृष्टेः पृथग्-ध्य्-अप्रतिबन्धः फलम्॥३।३।४१॥

Link copied

छान्दोग्ये--- ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीतेति कर्माङ्गाश्रयम् उद्गीथाद्य्-उपासनꣳ श्रूयते; तत् किꣳ तस्मिन् कर्मणि पर्णतादिवन् नियमेनोपादेयम्, उत गो-दोहनादिवद् अनियमेनेति सꣳशयः। कर्माङ्गाश्रयत्वेन पर्णतादिवत् तद्-द्वारेण निरूढ-कार्यतया, यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरꣳ भवति, इति वर्तमान-निर्देशस्य पृथक्-फल-प्रतिपादनायोगात् क्रत्व्-अर्थतया नियमेनोपादेयम् इति पूर्वः पक्षः। राद्धान्तस् तु--- तेनोभौ कुरुतो यश् चैतद् एवꣳ वेद यश् च न वेद, इत्य् उद्गीथोपासन-रहितस्यापि क्रत्व्-अनुष्ठान-दर्शनात् क्रतु-फलात् स्वर्गादेः पृथग्-भूत-वीर्यवत्तरत्व-फलम् इदम् उपासनम् इति गो-दोहनादिवद् अनियमः। वर्तमान-निर्देशे सत्य् अप्य् अधिकारान्तर-निश्चये सति रात्रिसन्नवत् क्रतोर् वीर्यवत्तरत्वम् अस्योपासनस्य कल्पनीयम्। सूत्रार्थस् तु--- तन्-निर्धारणानियमः। निर्धारणम्--- निश्चयेन चेतसोऽवधारणम्, उपासनम् इत्य् अर्थः; तस्य उद्गीथोपासनस्यानियमः। कुतः। तद्-दृष्टेः--- तेनोभौ कुरुतः, इत्य् अनियम-दृष्टेः; पृथग्-भूतꣳ ह्य् अस्य फलम्; तच् चाप्रतिबन्ध-रूपम्; वीर्यवत्तरत्वꣳ नाम प्रबल-कर्मान्तर-फलेनैतस्य कर्मणः फलस्याप्रतिबन्धः, अविलम्बितत्वम् इत्य् अर्थः॥४१॥

Link copied

इति तन्-निर्धारणानियमाधिकरणम्॥१७॥

Link copied

३९६। प्रदानवद् एव तद् उक्तम्॥३।३।४२॥

Link copied

दहर-विद्यायाꣳ--- तद् य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामान् इत्य् अपहत-पाप्मत्वादि-गुणानाम् अपि परमात्म-स्वरूप-चिन्तनवत् पृथक् चिन्तनꣳ विहितम्। किꣳ गुण-चिन्तने तत्-तद्-गुण-विशिष्टतया परमात्म-चिन्तनम् आवर्तनीयम्, उत नेति सꣳशयः। परमात्मन एकस्यैव सर्वेषाꣳ गुणानाꣳ गुणित्वेन सकृद् एव तच्-चिन्तनोपपत्तेर् नावर्तनीयम् इति पूर्वः पक्षः। राद्धान्तस् तु--- गुणिनः स्वरूपैक्येऽपि तत्-तद्-गुण-विशिष्टाकार भेदाद् आवर्तनीयम् इति। सूत्रार्थस् तु--- प्रदानवद् आवर्तनीयम् एव; यथा--- इन्द्राय राज्ञे पुरोडाशम् एकादश-कपालम् इन्द्रायाधिराजायेन्द्राय स्वराज्ञे, इतीन्द्रस्यैकत्वेऽपि राजत्वादि-विशिष्टाकार-भेदाद् देवता-भेद इति प्रदानावृत्तिः; तद्वद् एव। तद् उक्तꣳ सङ्कर्षे--- नाना वा देवता पृथक्त्वाद् इति॥४२॥ इति प्रदानाधिकरणम्॥१८॥

Link copied

३९७। लिङ्ग-भूयस्त्वात् तद् धि बलीयस्तद् अपि॥३।३।४३॥

Link copied

तैत्तिरीया अधीयते--- सहस्र-शीर्षꣳ देवम् इत्य् आरभ्य, सोऽक्षरः परमः स्वराट्, इत्यन्तम्। अस्मिन्न् अनुवाके नोपासनꣳ विधीयते। किम् अयꣳ पूर्वानुवाकोदित-दहर-विद्योपास्य-विशेष-निर्धारणार्थः, उत सर्व-वेदान्तोदित-सर्व-पर-विद्योपास्य-विशेष-निर्धारणार्थ इति सꣳशयः। दहर-विद्याया आनन्तर्यात् तद्-उपास्य-विशेष-निर्धारणार्थ इति पूर्वः पक्षः; सहस्र-शीर्षꣳ देवम् इति द्वितीया-निर्देशस्यानन्तरोदितोपासिना सम्बन्धस्यैव युक्तत्वाच् च। राद्धान्तस् तु--- परब्रह्म-पर-तत्त्व-पर-ज्योतिः-परमात्माक्षर-शिव-शम्भु-शब्दैः सर्व-पर-विद्योपास्याननूद्य वाक्येनैव तेषाꣳ नारायणत्व-विधानात् तस्य च प्रकरणाद् बलीयस्त्वेन सर्व-विद्योपास्य-निर्धारणार्थ इति निश्चीयते। न च--- सहस्र-शीर्षम् इति द्वितीया-निर्देशः पूर्वेणोपासिना सम्बध्यते, तस्मिन् यद् अन्तस् तद् उपासितव्यम् इति कृत्-प्रत्ययेन कर्माभिहितम् इति तत्र द्वितीया-निर्देशायोगात्। नारायणः परः, व्याप्य नारायणः स्थितः, परमात्मा व्यवस्थितः, इत्य् आदिभिर् ऐकार्थ्यात् प्रथमार्थे द्वितीया। सूत्रार्थस् तु--- सर्व-पर-विद्योपास्य-निर्धारणे लिङ्ग-भूयस्त्वात् तच्-चिह्न-भूत-वाक्य-भूयस्त्वाद् इत्य् अर्थः। तद् धि--- वाक्यꣳ प्रकरणाद् बलीयः, तद् अपि पूर्वस्मिन् काण्डे--- श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानाꣳ समवाये पर-दौर्बल्यम् अर्थ-विप्रकर्षात्, इत्य् आदिनोक्तम्। एवꣳ सर्वोपास्य-निर्धारणे निश्चिते सति दहर-विद्यायाम् अप्य् अयम् एवोपास्य इति, पद्म-कोश-प्रतीकाशम् इत्य् आदिना हृदयाद्य्-अभिधानꣳ च युज्यत इत्य् अभिप्रायः॥४३॥ इति लिङ्ग-भूयस्त्वाधिकरणम्॥१९॥

Link copied

३९८। पूर्व-विकल्पः प्रकरणात् स्यात् क्रिया मानसवत्॥३।३।४४॥

Link copied

वाजसनेयकेऽग्निरहस्ये--- मनश्-चितो वाक्-चितः प्राण-चितश् चक्षुश्-चितः, इत्य् आदिना मनश्-चितादयोऽग्नयो विद्या-रूपाः श्रूयन्ते। किम् एते क्रिया-मय-क्रत्व्-अङ्ग-भूताः, उत विद्या-मय-क्रत्व्-अङ्ग-भूता इति सꣳशयः। अस्मिन् प्रकरणे विद्या-मय-क्रत्व्-अनुबन्धि-मानस-ग्रह-स्तोत्रादि-दर्शनेऽपि क्रतोर् विधानाभावात्, फलान्तराप्रतीतेश् च, पूर्वत्र--- असद् वा इदम् अग्र आसीद् इत्य् आदिनेष्टक-चितस्याग्नेः प्रकृतत्वात्, मनश्-चितादिषु च, तेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इति तत्-कार्यातिदेशादिष्टक-चितेनैषाꣳ विकल्प-प्रतीतेश् चेष्टक-चिताग्नि-शेष-भूत-क्रिया-मय-क्रत्व्-अनुप्रवेशेन तद्-अङ्ग-भूता इति पूर्वः पक्षः। राद्धान्तस् तु--- ते हैते विद्या-चित एव विद्यया हैवैत एवꣳ विदश्-चिता भवन्ति, इति मनश्-चितादीनाꣳ साम्पादिकाग्नित्वेन विद्या-रूपत्वे सिद्धेऽपि, ते हैते विद्या-चित एवेत्य् अवधारण-श्रुतिर् विद्या-मय-क्रत्व्-अङ्गत्वेनैषाꣳ विद्या-रूपतावगत्य् अर्थेति निश्चयात् सन्निहितैर् मानसैः ग्रह-स्तोत्रादिभिः क्रत्व्-अनुबन्धैर् अनुवाद-सरूप-वाक्य-प्रतिपादितैः क्रतु-दर्शने सति, वचनानि त्व् अपूर्वत्वाद् इति न्यायेन मनश्-चितादीनाꣳ शेषि-भूत-विद्या-मय-क्रतोर् विधिः परिकल्प्यते। तेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इत्य् अतिदेशेनेष्टक-चिताग्नेः स्व-शेषि-भूत-क्रतु-द्वारेण यत् फलम्, तद् एवैषाꣳ स्व-शेषि-भूत-विद्या-मय-क्रतु-द्वारेण फलम् इति निश्चीयत इति विद्या-मय-क्रत्व्-अङ्ग-भूता एव मनश्-चितादयः। सूत्रार्थस् तु--- मनश्-चितादिः क्रिया स्यात्, क्रिया-मय-क्रत्व्-अङ्ग-भूत इत्य् अर्थः। कुतः। प्रकरणात्--- पूर्व-प्रकृतेनेष्टक-चितेनाव्यभिचरित-क्रतु-सम्बन्धिनोपस्थित-क्रतु-गृहीतत्वेन तद्-अङ्ग-भूतानाम् एषाꣳ चाग्नित्वात् तेनेष्टक-चितेन विकल्पः; विद्या-रूपाणाम् अप्य् एषाꣳ क्रिया-मय-क्रत्व्-अङ्ग-भावो न विरुध्यते, द्वादशाहाङ्ग-भूत-मानस-ग्रहवत्॥४४॥

Link copied

३९९। अतिदेशाच् च॥३।३।४५॥

Link copied

तेषाम् एकैक एव तावान् यावान् असौ पूर्वः, इति तेषु पूर्वेष्टक-चित-कार्यातिदेशाच् च तेनैषाꣳ विकल्पः प्रतीयते। तेन विकल्पो हि तच्-छेषि-भूत-क्रत्व्-अङ्गत्वेन विनैषाꣳ नोपपद्यते। अतश् च तद्-अङ्ग-भूताः॥४५॥

Link copied

४००। विद्यैव तु निर्धारणाद् दर्शनाच् च॥३।३।४६॥

Link copied

तु-शब्दः पक्षꣳ व्यावर्तयति; मनश्-चितादिर् विद्यैव विद्या-मय-क्रत्व्-अङ्ग-भूत एवेत्य् अर्थः। कुतः। निर्धारणात्--- तेषाꣳ विद्या-रूपत्वे सिद्धेऽपि, ते हैते विद्या-चित एवेति निर्धारणꣳ विद्या-मय-क्रत्व्-अङ्गतयैषाꣳ विद्या-मयत्व-ख्यापनार्थम्। अत्रैव विद्या-मय-क्रतु-दर्शनाच् च तद्-अङ्गत्वम् एवैषाम्। दृश्यते चात्र विद्या-मयः क्रतुः, मनसैषु ग्रहा अगृह्यन्त मनसास्तुवन्त मनसाशꣳसन्, इत्य् आदौ॥४६॥

Link copied

अत्र विद्या-मय-क्रतौ विधि-पदाश्रवणात्, तत्-फल-सम्बन्धाप्रतीतेश् च, प्रकरणेनेष्टक-चिताग्न्य्-उपस्थापित-क्रत्व्-अङ्गताप्रतीतेश् च विद्या-मय-क्रत्व्-अन्वयो बाध्यत इत्य् आशङ्क्याह ---

Link copied

४०१। श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः॥३।३।४७॥

Link copied

श्रुत्य्-आदेः प्रकरणाद् बलीयस्त्वेन श्रुत्य्-आद्य्-अवगतस्य विद्या-मय-क्रत्व्-अन्वयस्य प्रकरणेन न बाधः। श्रुतिस्तावत्--- ते हैते विद्या-चित एवेति। ताꣳ विवृणोति--- विद्यया हैवैत एवꣳविदश् चिता भवन्तीति। लिङ्ग-वाक्ये च भाष्ये दर्शिते। एवꣳविदो मनश्-चक्षुर्-आदि-व्यापारेष्व् अग्नित्वꣳ सम्पादयितुः, एते मनश्-चितादयः, विद्यया प्रधान-भूतया चिता भवन्तीत्य् अर्थः॥४७॥

Link copied

मनसैषु ग्रहा अगृह्यन्तेत्य् आदौ विधि-पदाश्रवणाद् विद्या-मय-क्रतु-विधिर् न सम्भवतीति तद्-असम्भवाच् च तद्-अन्वयोऽपि न सम्भवतीत्य् आशङ्क्याह---

Link copied

४०२। अनुबन्धादिभ्यः प्रज्ञान्तर-पृथक्त्ववद् दृष्टश् च तद् उक्तम्॥३।३।४८॥

Link copied

ग्रह-स्तोत्र-शस्त्रेभ्यो यज्ञानुबन्धेभ्य इष्टक-चितान्वयिनः क्रतोर् अत्र विधीयमान-विद्या-मय-क्रतु-पृथक्त्वम् अवगम्यते; प्रज्ञान्तर-पृथक्त्ववत्--- यथा प्रज्ञान्तराणाꣳ दहर-विद्यादीनाꣳ पृथक्त्व-हेतुभ्यः पृथक्त्वम्; आदि-शब्दात् पूर्वोक्तः श्रुत्य्-आदिर् गृह्यते; श्रुत्य्-आदिनानुबन्धैश् च विद्या-मय-क्रतु-विधिः कल्प्यत इत्य् अर्थः। दृष्टश् चानुवाद-सरूपेऽपि कल्प्यमानो विधिः--- यद् एव विद्यया करोतीत्य् आदौ। तद् उक्तꣳ--- वचनानि त्व् अपूर्वत्वाद् इति॥४८॥

Link copied

यत् तूक्तम् अतिदेशाच् चेष्टक-चित-शेषि-भूत-क्रत्व्-अन्वयोऽवगम्यत इति, तत्राह---

Link copied

४०३। न सामान्याद् अप्य् उपलब्धेर् मृत्युवन् न हि लोकापत्तिः॥३।३।४९॥

Link copied

नावश्यम् अतिदेशेनेष्टक-चिताग्नि-तुल्य-देशत्वम् अप्य् आश्रयणीयम्, येन केनचित् सामान्येनातिदेशोपलब्धेः। स एष मृत्युर् य एष एतस्मिन् मण्डले पुरुषः, इतिवत् फल-सामान्येन भविष्यत्य् अतिदेशः। न हि तत्र मण्डल-पुरुषे मृत्यु-लोकापत्तिर् अप्य् अतिदिश्यते; अपि तु मृत्युवत् सर्व-सꣳहर्तृत्वम् एव॥४९॥

Link copied

४०४। परेण च शब्दस्य ताद्विध्यꣳ भूयस्त्वात् त्व् अनुबन्धः॥३।३।५०॥

Link copied

परेण च ब्राह्मणेनास्य मनश्-चिताद्य्-अभिधायिनः शब्दस्य ताद्विध्यꣳ--- तद्-विधत्वम्, विद्या-मय-प्रतिपादकत्वम् अवगम्यते। परेण हि ब्राह्मणेन--- अयꣳ वाव लोक एषोऽग्नि-चितस् तस्याप एव, इत्य् आदिना पृथक्-फला विद्यैव विधीयते। अग्निरहस्ये क्रिया-मया एव विधीयन्त इति नास्ति नियम इत्य् अर्थः। क्रिया-प्रकरणे त्व् एषाꣳ मनश्-चितादीनाम् अनुबन्धः सम्पादनीयानाम् अग्न्य्-अङ्गानाम् अत्र भूयस्त्वात् क्रियते। अतो विद्या-मय-क्रत्व्-अङ्ग-भूता एव मनश्-चितादयोऽग्नयः॥५०॥ इति पूर्व-विकल्पाधिकरणम्॥२०॥

Link copied

४०५। एक आत्मनः शरीरे भावात्॥३।३।५१॥

Link copied

प्रत्यगात्मन आत्मतया हि परमात्मोपास्यः; उपासकस्यापि स्वरूपम् उपास्योपासन-स्वरूपवज् ज्ञातव्यम् इत्य् उक्तम्--- त्रयाणाम् इत्य् आदिना; वक्ष्यते च--- आत्मेति तूपगच्छन्तीति। तत्र किꣳ प्रत्यगात्मनः शरीरे वर्तमानस्य कर्तृत्व-भोक्तृत्वादि-विशिष्टꣳ रूपम् अनुसन्धेयम्, उत प्रजापति-वाक्योदितापहत-पाप्मत्वादि-गुणकꣳ यथावस्थितꣳ रूपम् इति सꣳशयः। शरीरे वर्तमानस्य यादृशꣳ रूपम्, तद् एवानुसन्धेयम् इति पूर्वः पक्षः, कर्म-विधिष्व् इवोपासन-विधिष्व् अपि तावतैव साधनानुष्ठान-फलानुभवयोः सम्भवात्। यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति तु, तꣳ यथायथोपासते, इत्य् अनेनैकार्थ्यात् परमात्म-विषयम्। राद्धान्तस् तु--- तत् त्वम् असि, स त आत्मान्तर्याम्य् अमृतः, इति प्रत्यगात्मन आत्मतयैव परमात्मोपास्य इति प्रत्यगात्मनः स्वरूपम् अप्य् उपासनान्तर्गतम्। परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, इति यथावस्थितात्म-स्वरूपस्यैव ब्रह्मानुभवः फलम् इत्य् अतः, यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति न परमात्म-मात्र-विषयम्; अपि तु प्रत्यगात्मात्म-भूतोपास्य-विषयम् इति प्रजापति-वाक्योदितꣳ यथावस्थित-स्वरूपम् एवानुसन्धेयम्; अन्यथा प्राप्योपास्ययोः प्रकार-भेदात्, यथाक्रतुर् अस्मिन्न् इति विरुध्यते। यजेत स्वर्ग-कामः, इत्य् आदि कर्म-विधौ तु कर्तृ-स्वरूपानुसन्धानꣳ न साधनान्तर्गतम् इति विशेषः। सूत्रार्थस् तु--- कर्तृत्वादि-विशिष्टम् एवत्मनः स्वरूपम् अनुसन्धेयम् इत्य् एके मन्यन्ते। कुतः। शरीरे वर्तमानस्योपासितुर् आत्मनस् तथाभावात्॥५१॥

Link copied

४०६। व्यतिरेकस् तद्-भाव-भावित्वान् न तूपलब्धिवत्॥३।३।५२॥

Link copied

न कर्तृत्वादि-विशिष्टम् अनुसन्धेयम्, अपि तु साꣳसारिक-स्वरूपवन् मुक्त-स्वरूपस्य यो व्यतिरेकः, सोऽनुसन्धेयः। कुतः। तथोपासन-भाव-भावित्वात् तद्-व्यतिरिक्त-स्वरूप-प्राप्तेः। यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवतीति ह्य् आह। उपलब्धिवत्--- यथा ब्रह्म-स्वरूपोपलब्धिर् यथावस्थित-ब्रह्मानुसन्धान-युक्तस्यैव, तथा आत्मोपलब्धिर् अपि॥५२॥ इति शरीरेभावाधिकरणम्॥२१॥

Link copied

४०७। अङ्गावबद्धास् तु न शाखासु हि प्रतिवेदम्॥३।३।५३॥

Link copied

ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इत्य् उद्गीथादि-क्रत्व्-अङ्गाश्रया उपासनाः श्रूयन्ते। ताः किꣳ यासु शाखासु श्रूयन्ते, तास्व् एव व्यवस्थिताः, उत सर्वासु शाखासु सम्बद्धा इति सꣳशयः। शाखासु स्वर-भेदात् प्रतिशाखम् उद्गीथ-भेदेन यत्र श्रूयन्ते, तत्रस्थोद्गीथादेः सन्निधानात् तेनैवान्विता व्यवस्थिता इति पूर्वः पक्षः। राद्धान्तस् तु--- यद्य् अप्य् उद्गीथ-व्यक्ति-भेदो विद्यते, तथापि तत्र तत्र चोद्गीथ-जातीयत्वेन सम्बन्धात् सर्वेषाꣳ चोद्गीथ-जातीयत्वाविशेषात्, उद्गीथम् उपासीतेति श्रुत्यैव सर्व-सम्बन्ध इति सर्व-शाखासु सम्बध्यन्ते। सूत्रार्थस् तु--- न त्व् अङ्गावबद्धा उपासनास् तासु शाखासु व्यवस्थिताः, अपि तु प्रतिवेदꣳ सर्व-शाखासु सम्बध्यन्त इत्य् अर्थः। हिर् हेतौ। यस्माद् उद्गीथ-जातीयत्वाविशेषेण सर्व-सम्बन्धः, तस्माद् इत्य् अर्थः॥५३॥

Link copied

४०८। मन्त्रादिवद् वाविरोधः॥३।३।५४॥

Link copied

वा-शब्दश् चार्थे यथा मन्त्रादीनाꣳ क्रत्व्-अङ्ग-भूतानाम् एकैक-शाखाभिहितानाꣳ सर्व-शाखासु क्रतोर् एकत्वेन सर्वत्र सम्बन्धो न विरुध्यते; तद्वच् चाविरोधः॥५४॥ इत्य् अङ्गावबद्धाधिकरणम्॥२२॥

Link copied

४०९। भूम्नः क्रतुवज् जायस्त्वꣳ तथा हि दर्शयति॥३।३।५५॥

Link copied

वैश्वानर-विद्यायाꣳ स्वर्लोकादित्य-वाय्व्-आकाश-पृथिव्य्-अवयवो वैश्वानरात्मोपास्यः श्रुतः। तत्र किꣳ व्यस्तस्यैवोपासनꣳ कार्यम्, उत व्यस्तस्य समस्तस्य च, अथ समस्तस्यैवेति सꣳशयः। औपमन्यव कꣳ त्वम् आत्मानम् उपास्स इति दिवम् एव भगवो राजन्, इत्य् आदिना स्वर्लोकादि-पृथिव्य्-अन्तानाꣳ वैश्वानरात्मनो मूर्धादि-पादान्तावयवत्वम् अभिधाय, तत्र तत्र व्यस्तस्यैवोपासनꣳ फलꣳ च विहितम् इति पश्चात्, यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते, इति पूर्वोक्तस्य समासेनोपसꣳहार इति युक्तम्; अतो व्यस्तस्यैवोपासनꣳ कार्यम् इति प्रथमः पक्षः। समस्तोपासनस्ये--- सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति, इति व्यस्तोपासन-फलेभ्यः फलान्तर-विधानाद् व्यस्तस्य समस्तस्य चोपासनꣳ कार्यम् इति द्वितीयः पक्षः। राद्धान्तस् तु--- आत्मानꣳ वैश्वानरꣳ सम्प्रत्यध्येषि तम् एव नो ब्रूहि, इत्य् आरभ्य वैश्वानरात्मनः स्वर्लोकादि-पृथिव्य्-अन्तानाꣳ मूर्धादि-पादान्तावयवत्वम् अभिधाय, यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते स सर्वेषु लोकेषु, इत्य् उपसꣳहाराद् एकस्यैव वैश्वानरात्मनस् त्रैलोक्य-शरीरस्य परस्य ब्रह्मण उपासनꣳ विधाय, फलꣳ च--- सर्वेष्व् आत्मस्व् अन्नम् अत्तीति, तद् यथेषीक-तूल-मग्नौ प्रोतꣳ प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते, इति च सर्वेषाम् आत्मनाम् अविशेषेण भोग्य-भूतꣳ परꣳ ब्रह्मानुभवति, तद्-विरोधिनश् च सर्व-पाप्मनो दहतीत्य् उक्तम् इति गम्यते। अत एक-वाक्यत्वात् समस्तस्यैवोपासनꣳ कार्यम्। व्यस्त-वादस् तु स्वर्लोकादीनाꣳ मूर्धाद्य्-अवयवत्व-ज्ञापनर्था। तत्र तत्र च फल-वादो वैश्वानरꣳ द्वादश-कपालꣳ निर्वपेत् पुत्रे जाते यद् अष्टा-कपालो भवति, इत्य् आदिवद् द्रष्टव्यः। सूत्रार्थस् तु--- भूम्नो ज्यायस्त्वम्, समस्तोपासनस्य श्रैष्ठयम्; प्रामाणिकत्वम् इत्य् अर्थः। एक-वाक्यत्वावगतेर् व्यस्तवादः ऋतुवद् द्रष्टव्यः।

Link copied

वैश्वानरꣳ द्वादश-कपालꣳ निर्वपेत् \॥॥यद् अष्टा-कपालः, इत्य् आदिः क्रताव् इवेत्य् अर्थः। तथा हि दर्शयति--- समस्तोपासनस्य ज्यायस्त्वम् एव दर्शयति श्रुतिः, मूर्धा ते व्यपतिष्यद् यन् माꣳ नागमिष्यः, इत्य् आदिना व्यस्तोपासनेऽनर्थꣳ ब्रुवती॥५५॥

Link copied

इति भूम-ज्यायस्त्वाधिकरणम्॥२३॥

Link copied

४१०। नाना शब्दादि-भेदात्॥३।३।५६॥

Link copied

सद्-विद्या-दहर-विद्या-शाण्डिल्य-विद्या-भूम-विद्यादिका ब्रह्मोपासन-रूपा ब्रह्म-प्राप्ति-फलाः किम् एक-विद्या, उत नानेति सꣳशयः। उपास्यस्य ब्रह्मणः फलस्य चैकत्वात्, वेद, उपासीतेति च पर्यायत्वाद् एक-विद्येति पूर्वः पक्षः। ब्रह्मण एकत्वेऽपि जगद्-एक-कारणत्वापहत-पाप्मत्वाद्य्-अनुबन्ध-भेद-हेतुभिः पूर्व-काण्डोदितानुबन्ध-भेद-हेतुभिः शब्दान्तरादिभिर् एवानुबन्ध-भेदान् नाना-भूता इति राद्धान्तः। शब्दान्तरादिभिस् तत्रोदितैर् एव विद्या-भेद-सिद्धाव् अपीह पुनर् वचनꣳ ब्रह्म-प्राप्ति-हेतु-भूतꣳ वेदान्तोदितꣳ ज्ञानम् अविधेयम् इति कुदृष्टि-निरासार्थम्। सूत्रार्थस् तु--- सद्-विद्या-भूम-विद्यादिका नाना-भूताः, ब्रह्मण एकत्वेऽपि सद्-भूमापहत-पाप्मादि-शब्द-भेदात्। आदि-शब्दाद् अभ्यास-सङ्ख्या-गुण-प्रक्रिया-नामधेयानि गृह्यन्ते॥५६॥ इति शब्दादि-भेदाधिकरणम्॥२४॥

Link copied

४११। विकल्पोऽविशिष्ट-फलत्वात्॥३।३।५७॥

Link copied

सद्-विद्या-भूम-विद्यादिकानाꣳ ब्रह्म-प्राप्ति-फलानाम् एकस्मिन् पुरुषे समुच्चयोऽपि सम्भवति, नेति सꣳशयः। अग्निहोत्र-दर्शपूर्णमास-ज्योतिष्टोमादीनाꣳ स्वर्गैक-फलानाꣳ तत्र भूयस्त्वापेक्षया यथैकस्मिन् पुरुषे समुच्चयो दृश्यतेस् तथात्रापि ब्रह्मानुभव-भूयस्त्वापेक्षयैकस्मिन् पुरुषे समुच्चयः सम्भवतीति पूर्वः पक्षः। देशतः कालतः स्वरूपतश् चानवच्छिन्नानन्द-स्वरूप-ब्रह्मानुभवः सर्वासाꣳ पर-विद्यानाꣳ फलꣳ तच् चैकया विद्ययावाप्तम् इत्य् एकस्मिन् पुरुषे विद्यान्तर-समुच्चयः प्रयोजनाभावान् न सम्भवतीति सर्वासाꣳ विकल्पः, इति राद्धान्तः। सूत्रम् अपि व्याख्यातम्॥५७॥

Link copied

४१२। काम्यास् तु यथा-कामꣳ समुच्चीयेरन् न वा पूर्व-हेत्व्-अभावात्॥३।३।५८॥

Link copied

ब्रह्म-प्राप्ति-व्यतिरिक्त-फला विद्याः काम्याः। तास् तु यथेष्टꣳ समुच्चीयेरन् विकल्प्येरन् वा, पूर्व-हेत्व्-अभावात्--- तत्-फलस्यापरिमितत्वाभावात्; भूयस्त्वापेक्षया समुच्चयः सम्भवतीत्य् अर्थः॥५८॥ इति विकल्पाधिकरणम्॥२५॥

Link copied

४१३। अङ्गेषु यथाश्रय-भावः॥३।३।५९॥

Link copied

कर्माङ्गाश्रयाणाम् उद्गीथाद्य्-उपासनानाꣳ गो-दोहनादिवद् अधिकारान्तरत्वेनोपादानानियमः पूर्वोक्तः सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः, उद्गीथम् उपासीतेत्य् उपासन-विधौ फलान्तराश्रवणात्, उद्गीथ-सम्बन्धावगत-क्रत्व्-अङ्ग-भावाविरोधात्। एवꣳ विधि-वाक्येनैव क्रत्व्-अङ्ग-भावेऽवगते सति, यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरꣳ भवति\॥॥तेनेभौ कुरुतः, इति च वर्तमान-निर्देशः, न स पापꣳ श्लोक शृणोति, इतिवद् अर्थवाद-मात्रꣳ स्यात्। राद्धान्तस् तु--- यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति विद्यायाः क्रतु-वीर्यवत्तरत्वꣳ प्रति साक्षात् साधन-भावोऽवगम्यते। एवꣳ फल-साधनतयावगता विद्या किम् आश्रित्य फलꣳ करोतीत्य् अपेक्षायाम्, ओम् इत्य् एतद् अक्षरम् उद्गीथम् उपासीत, इत्य् उद्गीथम् आश्रित्य कुर्याद् इति क्रत्व्-अङ्ग-भूतोद्गीथाश्रयत्व-मात्रꣳ प्रतीयते; अतः फलान्तर-साधनतयावगतस्य क्रत्व्-अङ्ग-भावो नोपपद्यत इति गो-दोहनादि-तुल्यतयोपादानानियमः सिध्यत्य् एव। यस्य पर्ण-मयी जुहूर् भवति न स पापꣳ श्लोकꣳ शृणोतीत्य् अत्र तु पर्णताया जुहू-सम्बन्धात् प्राग् अपाप-श्लोक-श्रवणꣳ प्रति साक्षात् साधन-भावो न श्रूयते; पर्णता-सम्बन्धि-पुरुष-सम्बन्ध-मात्रꣳ श्रुतम्; तत् तु--- पर्ण-मयी जुहूर् इति श्रुत्यैव प्रथमावगत-क्रत्व्-अङ्ग-भावꣳ न निरुणद्धीत्य् अर्थवाद-मात्रम् इति विशेषः। सूत्रार्थस् तु--- अङ्गेषु, उद्गीथादिषु आश्रितानाम् उपासनानाꣳ यथाश्रय-भावः--- उद्गीथादिवद् अङ्ग-भावः। गो-दोहनादिवत् तस्मिन् वाक्ये फल-सम्बन्धाश्रवणाद् अङ्ग-भावो न विरुध्यत इत्य् अर्थः॥५९॥

Link copied

४१४। शिष्टेश् च॥३।३।६०॥

Link copied

शिष्टः--- शाशनम्, विधानम्; उद्गीथम् उपासीतेति विधानाच् च वर्तमान-निर्देशावगत-फल-सम्बन्धात् प्राग् एवोद्गीथ-सम्बन्धोऽवगत इति तद्-अङ्ग-भावो । न विरुध्यते। अत उपादान-नियमः॥६०॥

Link copied

४१५। समाहारात्॥३।३।६१॥

Link copied

इतश् च--- होतृ-षदनाद् धैवापि दुरुद्गीथम् अनुसमाहरति, इत्य् उद्गीथ-वेदन-हानाव् अन्येन समाधानꣳ ब्रुवद् वेदनस्योपादान-नियमꣳ दर्शयति। दुरुद्गीथꣳ--- वेदन-हीनम् उद्गीथम्॥६१॥

Link copied

४१६। गुण-साधारण्य-श्रुतेश् च॥३।३।६२॥

Link copied

इतश् चोपादान-नियमोऽवगम्यते। प्रणव-गुणत्वेनावगतस्योपासनस्य साधारण्यꣳ हि श्रूयते--- तेनेयꣳ त्रयी विद्या वर्तते ओम् इत्य् आश्रावयत्य् ओम् इति शꣳसत्य् ओम् इत्य् उद्गायति, इति तेनेति प्रकृत-परामर्शात् सोपासन एव प्रणवः सर्वत्र सञ्चरति। अतः प्रणव-सहभाव-नियम-दर्शनाद् उपादान-नियमो निश्चीयते॥६२॥

Link copied

४१७। न वा तत्-सहभावाश्रुतेः॥३।३।६३॥

Link copied

न वोपादान-नियमः, तत्-सहभावाश्रुतेः--- उद्गीथाद्य्-अङ्ग-भावा श्रुतेर् इत्य् अर्थः। क्रत्व्-अङ्ग-भावो हि सहभावः। यद् एव विद्यया करोति\॥॥तद् एव वीर्यवत्तरम् इति वीर्यवत्तर-स्वसाधनतयावगताया विद्यायाः क्रत्व्-अङ्गतया विनियोगासम्भवात् तद्-अङ्ग-भावो हि न श्रूयते। यत्र साक्षात् फल-साधनत्वꣳ प्रतिपाद्यते; तत्र फल-साधनत्वꣳ प्रथमꣳ प्रतीयत इति तस्य क्रत्व्-अङ्गतया विनियोगो न सम्भवतीत्य् अभिप्रायः॥६३॥

Link copied

४१८। दर्शनाच् च॥३।३।६४॥

Link copied

एवꣳ-विद् ध वै ब्रह्मा यज्ञꣳ यजमानꣳ सर्वाꣳश् चर्त्विजोऽभिरक्षति, इति ब्रह्मणो वेदनेन यज्ञस्य यजमानस्य ऋत्विजाꣳ च रक्षणꣳ ब्रुवत्य् अन्येषाꣳ वेदनाभावꣳ दर्शयति। तच् चोद्गीथोपासनस्यानङ्गत्वे सत्य् एवोपपद्यते। अतश् चोपादान-नियमः॥६४॥ इति यथाश्रय-भावाधिकरणम्॥२६॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्याध्यायस्य तृतीयः पादः॥

Link copied
Join our community