Skip to content

Vedanta Dipa · Section 11 of 17

||atha tṛtīyādhyāye dvitīyaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

३१५। सन्ध्ये सृष्टिर् आह हि॥३।२।१॥

Link copied

स्वप्नम् अधिकृत्य श्रूयते--- न तत्र रथा न रथ-योगा न पन्थानो भवन्त्य् अथ रथान् रथ-योगान् पथः सृजते, इत्य् आरभ्य, अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता, इति। किꣳ स्वाप्नानाम् अप्य् अर्थानाꣳ स्रष्टा जीव एव, उत परमात्मेति सꣳशयः। स्वप्न-दृशो जीवस्य सन्निधानात्, स हि कर्तेति स एव परामृश्यते; जीवस्यापि सत्य-सङ्कल्पत्वꣳ प्रजापति-वाक्योदितम् इति स एव स्रष्टेति पूर्वः पक्षः। राद्धान्तस् तु--- जीवस्य सत्य-सङ्कल्पत्वꣳ स्वाभाविकम् अपि सꣳसार-दशायाꣳ परम-पुरुष-सङ्कल्पातिरोहितम् इति न जीवस्य सत्य-सङ्कल्प-मात्रेण स्रष्टृत्वम् उपपद्यते। अतः परम-पुरुष एव सकलेतर-पुरुषानुभवाविषयान् तत्-तत्-पुरुष-मात्रेणानुभाव्यान् तत्-तत्-कालावसानान् स्वप्नानर्थान् सृजति। सूत्रार्थस् तु--- सन्ध्ये, स्वप्ने श्रूयमाणा रथादि-सृष्टिः स्वप्न-दशा-जीवेन कृताः। कुतः। आह हि--- स हि कर्तेति तस्यैव परामर्शाद् इत्य् अर्थः॥१॥

Link copied

३१६। निर्मातारꣳ चैके पुत्रादयश् च॥३।२।२॥

Link copied

एनम् एव जीवꣳ निर्मातारꣳ स्वाप्नानाम् अर्थानाम् एके शाखिनोऽधीयते--- य एषु सुप्तेषु जागर्ति काम-कामꣳ पुरुषो निर्मिमाणः, इति। अत्र काम-शब्द-निर्दिष्टः काम्यमानतया पुत्रादय एव। च-शब्दोऽवधारणे। अत्र हि--- सर्वान् कामान् इति काम-शब्देन प्रस्तुतान्, शतायुषः पुत्र-पौत्रान् वृणीष्व, इति विविनक्ति॥२॥

Link copied

३१७। माया-मात्रꣳ तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात्॥३।२।३॥

Link copied

तु-शब्दात् पक्षो विपरिवर्तते; न जीवेन सृष्टꣳ स्वाप्नम् अर्थ-जातम्; अपि तु परमेश्वर-माया-मात्रꣳ--- सकलेतर-पुरुषानुभवाविषयꣳ तद्-एकानुभाव्यꣳ तत्-कालावसानम् आश्चर्य-रूपम् अर्थ-जातम् ईश्वरः सृजतीत्य् अर्थः। जीवस्य स्वतः सत्य-सङ्कल्पत्वादेः कृत्स्नस्य सꣳसार-दशायाम् अनभिव्यक्त-स्वरूपत्वात् तस्य हि सङ्कल्प-मात्रेण स्रष्ट्र्त्वꣳ नोपपद्यते। काम-कामꣳ पुरुषो निर्मिमाणः, इति च परम-पुरुषम् एव निर्मातारम् आह--- य एषु सुप्तेषु जागर्ति, तस्मिꣳल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन, इत्य् उपक्रमोपसꣳहारयोः परम-पुरुषासाधारण-धर्म-प्रतीतेः, स हि कर्तेति च तेनैकार्थ्यात् परम-पुरुषम् एवाह॥३॥

Link copied

स्वाभाविकꣳ चेज् जीवस्य सत्य-सङ्कल्पत्वादिकम्, कथꣳ नाभिव्यज्यत इत्य् आशङ्क्याह---

Link copied

३१८। पराभिध्यानात् तु तिरोहितꣳ ततो ह्य् अस्य बन्ध-विपर्ययौ॥३।२।४॥

Link copied

तु-शब्दः शङ्का-निवृत्त्य्-अर्थः; परम-पुरुषाभिध्यानाद् अस्य स्वाभाविकꣳ रूपम् अनादि-कर्म-प्रवाहेण कृतापराधतया तिरोहितम्; ततो ह्य् अस्य बन्ध-विपर्ययौ, ततः परम-पुरुष-सङ्कल्पाद् एव हि, अस्य--- जीवस्य, बन्ध-विपर्ययौ--- सꣳसार-मोक्षौ श्रूयते--- को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, एष ह्य् एवानन्दयाति, परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते इत्य् आदौ॥४॥

Link copied

तिरोधान-प्रकारम् आह---

Link copied

३१९। देह-योगाद् वा सोऽपि॥३।२।५॥

Link copied

सोऽपि--- तिरोधान-भावो देह-योगाद् वा भवति; वा-शब्दो विकल्पार्थः; व्यवस्थितश् च विकल्पः; देव-मनुष्यादि-देहाकार-परिणताचिद्-योगात् सृष्टि-वेलायाम्, नाम-रूप-विभागानर्ह-सूक्ष्म-दशापन्नाचिद्-योगेन प्रलय-काले॥५॥

Link copied

३२०। सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः॥३।२।६॥

Link copied

इतश् च स्वाप्ना रथादयो न जीव-सङ्कल्प-कृताः; यतः स्वप्नः शुभाशुभयोः सूचक इति श्रुतेर् अवगम्यते--- यदा कर्मसु काम्येषु स्त्रियꣳ स्वप्नेषु पश्यति। समृद्धिꣳ तत्र जानीयात् तस्मिन् स्वप्न-निदर्शने॥ अथ स्वप्ने पुरुषꣳ कृष्णꣳ कृष्ण-दन्तम् इत्य् आदिषु। स्वप्नाध्याय-विदश् चाचक्षते। जीव-सङ्कल्प-कृतत्वे हि सूचकत्वꣳ न सम्भवति; स्व-सङ्कल्प-कृतत्वे हि शुभानाम् एव सूचकानर्थान् सृष्ट्वा तान् एव पश्येत्। अतः स्वाप्नानाम् अर्थानाꣳ परम-पुरुष एव स्रष्टा॥६॥ इति सन्ध्याधिकरणम्॥१॥

Link copied

३२१। तद्-अभावो नाडीषु तच्-छ्रुतेर् आत्मनि च॥३।२।७॥

Link copied

नाड्यः पुरीतद् ब्रह्म च सुषुप्ति-स्थानत्वेन श्रूयन्ते; किम् एषाꣳ विकल्पः, उत समुच्चय इति सꣳशयः। विकल्प इति पूर्वः पक्षः; आसु तदा नाडीषु सुप्तो भवति, ताभिः प्रत्यवसृप्य पुरीतति शेते, सता सोम्य तदा सम्पन्नो भवति, इति त्रयाणाꣳ नैरपेक्ष्य-प्रतीतेः। राद्धान्तस् तु--- प्रासाद-खट्वा-पर्यङ्कवत् कार्य-भेदेन समुच्चये सम्भवति पाक्षिक-बाध-गर्भ-विकल्पो न युक्त इति समुच्चयो न्याय्यः। तत्र पर्यङ्क-स्थानीयꣳ ब्रह्म, यतः पर्यङ्कवत् साक्षाद् ब्रह्म सुषुप्ति-स्थानम्। सूत्रार्थस् तु--- तद्-अभावः, स्वप्नाभावः, सुषुप्तिर् इत्य् अर्थः। सुषुप्तिर् नाडीष्व् आत्मनि च; च-कारात् पुरीतति च; तच्-छ्रुतेस् त्रयाणाꣳ सुषुप्ति-स्थानत्व-श्रुतेः। उक्तेन न्यायेन समुच्चयो न्याय्य इत्य् अभिप्रायः॥७॥

Link copied

३२२। अतो प्रबोधोऽस्मात्॥३।२।८॥

Link copied

अस्मात्--- ब्रह्मणः प्रबोध-श्रुतिर् अत एवोपपद्यते; सत आगम्य न विदुः सत आगच्छामहे, इति श्रूयते॥८॥ इति तद्-अभावाधिकरणम्॥२॥

Link copied

३२३। स एव तु कर्मानुस्मृति-शब्द-विधिभ्यः॥३।२।९॥

Link copied

किꣳ सुषुप्त एव प्रबोध-काले उत्तिष्ठति, स एव वा अन्यो वेत्य् अनियम इति सꣳशयः। सुषुप्तस्य सर्वोपाधि-विनिर्मुक्तस्य ब्रह्मणि सम्पन्नस्य मुक्ताद् अविलक्षणत्वेन प्राचीन-शरीर-सम्बन्ध-भावात् स एवेति नियमो न सम्भवतीति पूर्वः पक्षः। सुषुप्तस्य ब्रह्म-ज्ञानाभावेन पूर्व-कृतस्य कर्मणस् तेनैवोपभोक्तव्यत्वात्, सोऽहम् इति प्रत्यभिज्ञानात्, त इह व्याघ्रो वा सिꣳहो वा, इत्यारभ्य, यद् यद् भवन्ति तथा भवन्ति, इति शब्दात्, मोक्ष-साधन-विध्य्-आनर्थक्याच् च स एवोत्तिष्ठतीति राद्धान्तः। न चासौ शरीरेन्द्रिय-सम्बन्ध-विनिर्मुक्तः, अपि तु करण-कलेवर-प्रवर्तनायासादाश्वासाय ब्रह्मण्य् अपीतः पुनर् आश्वस्तः प्रवर्तनायोत्तिष्ठति। सूत्रम् अपि व्याख्यातम्॥९॥ इति कर्मानुस्मृति-शब्द-विध्य्-अधिकरणम्॥३॥

Link copied

३२४। मुग्धेऽर्ध-सम्पत्तिः परिशेषात्॥३।२।१०॥

Link copied

किꣳ मूर्छा मरणाद् अर्थान्तरम्, उत मरणम् एवेति सꣳशयः। सर्वेन्द्रिय-प्राण-व्यापारोपरतेर् मरणम् एवेति पूर्वः पक्षः। आकार-वैरूप्येण सूक्ष्म-प्राणास्तित्वावगतेर् मरणायार्ध-सम्पत्तिर् इति सिद्धान्तः। सूत्रार्थस् तु--- मुग्धे, मूर्च्छिते पुरुष यावस्था, सा मरणायार्धसम्पत्तिः। कुतः। परिशेषात्। प्राणादि-सर्व-व्यापारोपरतेर् न जागराद्य्-अवस्था, न च गत-प्राणा आकार-वैलक्षण्येन सूक्ष्म-प्राणास्तित्वावगतेः; मूर्च्छितस्यैव कस्यचित् पुनर् जीवन-दर्शनाच् च न मरणम् इति परिशेषान् मरणायार्ध-सम्पत्तिर् इत्य् अवगम्यते॥१०॥ इति मुग्धाधिकरणम्॥४॥

Link copied

३२५। न स्थानतोऽपि परस्योभय-लिङ्गꣳ सर्वत्र हि॥३।२।११॥

Link copied

किꣳ जीवस्येव तद्-अन्तर्यामिणः परस्य ब्रह्मणोऽपि जागरादि-स्थान-प्रयुक्त-दोषाः सम्भवन्ति, उत नेति सꣳशयः। यः पृथिव्याꣳ तिष्ठन्, य आत्मनि तिष्ठन्, यश् चक्षुषि तिष्ठन्, यो रेतसि तिष्ठन्, इत्य् आदिना जीवस्येव सर्वावस्थास्ववस्थिति-वचनात् छन्दतोऽपि पूय-शोणितादि-मज्जनम् अपुरुषार्थ एवेति सर्वे दोषात् सम्भवन्तीति पूर्वः पक्षः। राद्धान्तस् तु--- अपहत-पाप्मा विजरः, निरवद्यꣳ निरञ्जनम्, सत्य-कामः सत्य-सङ्कल्पः, यः सर्व-ज्ञः सर्व-वित्, यो माम् अजम् अनादिꣳ च वेत्ति लोक-महेश्वरम्, परः पराणाꣳ सकला न यत्र क्लेशादयः सन्ति परावरेशे, इत्य् आदि श्रुति-स्मृतिभ्यो निरस्त-निखिल-दोष-गन्धता-सार्वज्ञ्य-सत्य-सङ्कल्पत्वाद्य्-उभय-लक्षण-स्वरूपावगतेः परस्य ब्रह्मणः सर्वत्रान्तर्यामितयावस्थितस्यापि न दोष-गन्धः सम्भवति; अपि तु सर्व-नियमन-रूप-लीला-रस एव॥

Link copied

सूत्रार्थस् तु--- न स्थानतोऽपि परस्य--- पृथिव्य्-आत्मादिष्व् अन्तर्यामितयावस्थितस्यापि परस्य ब्रह्मणः, जीवस्य तत्र तत्रावस्थितस्य ये दोषा उक्ताः, ते न सम्भवन्ति। कुतः। उभय-लिङ्गꣳ सर्वत्र हि--- हिर् हेतौ, यतः सर्वत्र श्रुति-स्मृतिषु निरस्त-निखिल-दोषत्व-समस्त-कल्याण-गुणात्मकत्व-रूपोभय-लिङ्गम्--- उभय-लक्षणꣳ परꣳ ब्रह्मावगतम्॥११॥

Link copied

३२६। भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनात्॥३।२।१२॥

Link copied

यथा जीवस्य स्वतोऽपहत-पाप्मत्वादि-गुणकस्यापि देवादि-शरीर-सम्बन्धितयावस्था भेदाद् उक्त-दोष-सम्बन्धित्वम्; एवꣳ परस्यापि--- यस्य पृथिवी शरीरम् इति शरीर-सम्बन्धित्वावस्थाभेदात् ते दोषाः स्युर् इति चेन् न, प्रत्येकꣳ--- प्रतिपर्यायम्, अतद्-वचनात्--- दोषासम्बन्धित्व-वचनात्। यस्य पृथिवी शरीरम् इत्य् आदिषु--- एष त आत्मान्तर्याम्य् अमृतः, इत्य् अन्तर्यामिणो हि निर्दोषत्वम् उच्यते; जीवस्य तु पराभिध्यानात् तत्-स्वरूपꣳ तिरोहितम् इत्य् उक्तम्। अतः शरीर-सम्बन्धित्वेऽपि परस्यैते न दोषाः॥१२॥

Link copied

३२७। अपि चैवम् एके॥३।२।१३॥

Link copied

अपि च यद् इदꣳ जीव-परयोर् एकस्मिन् शरीरे शरीरित्वेनावस्थितयोर् दोष-सम्बन्धित्वे तद्-विपरीतत्वꣳ चोक्तम्, एवम् एके शाखिनः स्व-शब्देनाधीयते--- द्वा सुपर्णा सयुजा सखाया समानꣳ वृक्षꣳ परिषस्वजाते। तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति इति॥१३॥

Link copied

मनुष्यादि-शरीरेषु शरीरित्वम् एव जीवस्य नाम-रूप-भाक्त्वेन कर्म-वश्यता-हेतुः, तत्-परस्याप्य् अविशिष्टꣳ चेत् कथꣳ परस्य ब्रह्मणोऽकर्म-वश्यत्वेन कर्म-फलानशनम् उच्यते इत्य् अत आह---

Link copied

३२८। अरूपवद् एव हि तत्-प्रधानत्वात्॥३।२।१४॥

Link copied

मनुष्यादि-शरीरेषु शरीरित्वेऽप्य् अरूपवद् एव हि तत् परꣳ ब्रह्म। कुतः। प्रधानत्वात्--- निर्वाहकत्वात्; जीवस्य नाम-रूप-भाक्त्वेन कर्म-फलाशनꣳ निर्वोढुꣳ परस्य तत्-तच्-छरीरे शरीरित्वेनावस्थानम्। यथाह--- यस्य पृथिवी शरीरम्, यस्यात्मा शरीरम् \॥॥ आत्मानम् अन्तरो यमयति, अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा, आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म, इति। अत उभय-लिङ्गम् एव परꣳ ब्रह्म॥१४॥

Link copied

सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्मेति प्रकाशैक-स्वरूपता ब्रह्मण उच्यते, कथम् उभय-लिङ्गत्वम् इत्य् अत आह---

Link copied

३२९। प्रकाशवच् चावैयर्थ्यात्॥३।२।१५॥

Link copied

यथा--- सत्यꣳ ज्ञानम् इति वाक्यावैयर्थ्यात् प्रकाशो ब्रह्मणः स्वरूपम् इत्य् अवगम्यते तथा--- यः सर्व-ज्ञः सर्व-वित्, परास्य शक्तिर् विविधैव श्रूयते, इत्य् आदि वाक्यावैयर्थ्यात् कल्याण-गुणाकरत्वꣳ च ब्रह्मणः स्वरूपम् इत्य् अवगम्यते; इत्य् उभय-लिङ्गम् एव॥१५॥

Link copied

३३०। आह च तन्मात्रम्॥३।२।१६॥

Link copied

सत्यꣳ ज्ञानम् इति वाक्यꣳ ब्रह्मणो ज्ञानꣳ स्वरूपम् इत्य् एतावन् मात्रम् आह न पुनः कल्याण-गुणाकरत्वꣳ निषेधति॥१६॥

Link copied

३३१। दर्शयति चाथो अपि स्मर्यते॥३।२।१७॥

Link copied

दर्शयति च वेदान्त-वाक्य-गणो निरस्त-निखिल-दोषत्वꣳ कल्याण-गुणाकरत्वꣳ च--- निष्कलꣳ निष्क्रियꣳ शान्तꣳ निरवद्यꣳ निरञ्जनम्, तम् ईश्वराणाꣳ परमꣳ महेश्वरꣳ तꣳ दैवतानाꣳ परमꣳ च दैवतम् इत्य् आदिकः। स्मर्यते च--- यो माम् अजम् अनादिꣳ च वेत्ति लोक-महेश्वरम्, अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा। मत्तः परतरꣳ नान्यत्, इत्य् आदिषु॥१७॥

Link copied

३३२। अत एव चोपमा सूर्यकादिवत्॥३।२।१८॥

Link copied

यतो ब्रह्मणो निरस्त-निखिल-दोषत्व-कल्याण-गुणाकरत्वेनोभय-लिङ्गत्वात् पृथिव्य्-आदि-स्थानतोऽपि न तत्-तत्-प्रयुक्त-दोष-गन्ध-सम्भवः; अत एव शास्त्रेषु च जल-सूर्यकाद्य्-उपमा क्रियते--- आकाशम् एकꣳ हि यथा घटादिषु पृथग् भवेत्। तथात्मैको ह्य् अनेक-स्थो जलाधारेष्व् इवाꣳशुमान् इत्य् आदिषु॥१८॥

Link copied

३३३। अम्बुवद् अग्रहणात् तु न तथात्वम्॥३।२।१९॥

Link copied

तु-शब्दश् चोद्यꣳ द्योतयति। अम्बुनीवाग्रहणात्--- यथा अम्बुनि सूर्यस् तत्रानवस्थित एव भ्रान्त्या तत्र स्थित इव गृह्यते; न तथा परमात्मा पृथिव्य्-आदौ गृह्यते; यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरः, इति परमार्थतः स्थितो गृह्यते; अतो न तथात्वꣳ--- न सूर्यस्येव तत्-प्रयुक्त-दोष-गन्धाभावः परमात्मनः, परमार्थतः स्थितत्वात्॥१९॥

Link copied

३३४। वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एवꣳ दर्शनाच् च॥३।२।२०॥

Link copied

पृथिव्य्-आदिषु विषमेषु स्थानेषु स्थितस्यापि परमात्मनः, तद्-अन्तर्भावात्--- तत्रावस्थानतः तत्-प्रयुक्त-वृद्धि-ह्रास-भाक्त्वꣳ, जलाधारेष्व् इवाꣳशुमान् इति दृष्टान्तेन निवर्त्यते। कुतोऽवगम्यते एतावन् मात्रम् इति; उभय-सामञ्जस्याद् एवम्--- उभय-दृष्टान्तोपादान-सामञ्जस्याद् एवम् अवगम्यते। आकाशम् एकꣳ हि यथा घटादिषु पृथग् भवेद् इति घट-करकादिषु विषमेष्व् अवस्थितम् आकाशꣳ, जलाधारेष्व् इवाꣳशुमान् इति चाꣳशुमन्तꣳ परमार्थतः स्थितम् अनवस्थितꣳ चोभयꣳ दृष्टान्ततयोपादाय, तथात्मैको ह्य् अनेकस्थः, इति निगमनात् तत्-तत्-स्थान-प्रयुक्त-वृद्धि-ह्रास-भाक्त्व-निवर्तन-मात्रꣳ विवक्षितम् इत्य् अवगम्यते। अन्यत्रापि दृष्टान्त-दार्ष्तान्तिकयोः सर्व-साम्याभावेऽपि "सिꣳह इव माणवकः" इत्य् आदिषु दृष्टान्तोपादान-दर्शनाच् चैवम् अवगम्यते॥२०॥

Link copied

अथात आदेशो नेति नेतीत्य् आदिना पूर्व-प्रकृतस्य मूर्तामूर्त-प्रपञ्चस्य ब्रह्मणो रूपत्व-प्रतिषेधान् निष्प्रपञ्चꣳ सन्-मात्रम् एव ब्रह्म; न पुनर् उक्त-स्वरूपम् उभय-लिङ्गम् इत्य् आशङ्क्याह---

Link copied

३३५। प्रकृतैतावत्त्वꣳ हि प्रतिषेधति ततो ब्रवीति च भूयः॥३।२।२१॥

Link copied

हीति हेतौ। द्वे वाव ब्रह्मणो रूपे मूर्तꣳ चामूर्तमेव च, इत्य् आदिना स्थूलस्य सूक्ष्मस्य च प्रपञ्चस्य ब्रह्मणो रूपतया प्रमाणान्तरा-प्रज्ञातस्य अत्रैव रूपतयोपदिष्टस्य निषेधासम्भवात् प्रकृतैतावत्त्वꣳ हि ब्रह्मणः प्रतिषेधति, पूर्व-प्रकृतैतावन्-मात्रꣳ न भवति ब्रह्मेति हि, अथात आदेशो नेति नेतीत्य् अत्र प्रतिपाद्यत इत्य् अर्थः। ततो ब्रवीति च भूयः--- ततः पूर्वोक्ताद् भूयस्त्वꣳ ब्रवीति च वाक्यशेषः, न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्त्य् अथ नामधेयꣳ सत्यस्य सत्यम् इति प्राणा वै सत्यꣳ तेषाम् एष सत्यम् इति। नेति निर्दिष्टाद् एतस्माद् ब्रह्मणोऽन्यन् न ह्य् अस्ति; परब्रह्मणोऽन्यत् स्वरूपतो गुणश् चोत्कृष्टꣳ न ह्य् अस्तीत्य् अर्थः। सत्यस्य सत्यम् इति ब्रह्मणो नामधेयम्; तस्य निर्वचनम्, प्राणा वै सत्यꣳ तेषाम् एष सत्यम् इति। प्राण-साहचर्याज् जीवात्मनः प्राणाः। ते हि वियद्-आदिवद् अनुत्पाद्यत्वेन सत्यम्। तेभ्योऽप्य् एष सत्यम्; ते हि कर्मानुगुण-देह-योगेन जन्मवन्तः; तद् अप्य् अस्य नास्तीति तेषाम् एष सत्यम्, ज्ञान-सङ्कोच-विकास-रूप-विकारस्याप्य् असम्भवात्। अतः प्रमाणान्तरा-प्रज्ञात-स्वरूपस्य ब्रह्मणो मूर्तामूर्त-प्रपञ्च-प्रकारतयोपदेशात्, पुनर् अपि प्रकार-विशेषोपदेशाच् च, अथात आदेशो नेति नेतीति पूर्व-प्रकृतेयत्ता ब्रह्मणः प्रतिषिध्यत इत्य् अर्थः॥२१॥

Link copied

ननु च वस्तुतः प्रत्यक्षेण निर्विशेष-सन्-मात्रम् एव गृह्यते; तद्-अतिरिक्तꣳ भ्रान्त्या प्रतीयमानꣳ सविशेष-रूपम् अनूद्य, नेति नेतीति निषिध्यत इत्य् अत्राह---

Link copied

३३६। तद् अव्यक्तम् आह हि॥३।२।२२॥

Link copied

ब्रह्मणः प्रमाणान्तरा-प्रज्ञातताꣳ द्रढयति; तत् ब्रह्म न केनापि प्रमाणेन व्यक्तम्; तथा आह हि श्रुतिः--- न सन्दृशे तिष्ठति रूपम् अस्य, इत्य् आदिका॥२२॥

Link copied

३३७। अपि सꣳराधने प्रत्यक्षानुमानाभ्याम्॥३।२।२३॥

Link copied

अपि च सꣳराधन एवोपलभ्यते; सꣳराधनꣳ सम्यक्-प्रीति-युक्तꣳ भजनम्, उपासनम् इति यावत्। उपासन-रूप-तत्-प्रीणनेन विना केनापि नोपलभ्यत इति श्रुति-स्मृतिभ्याम् अवगम्यते। नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन, यम् एवैष वृणुते तेन लभ्यः, नाहꣳ वेदैर् न तपसा न दानेन न चेज्यया\॥॥ भक्त्या त्व् अनन्यया शक्यः, इति हि श्रुति-स्मृती। अतः केनापि प्रमाणेनानभिव्यक्त-स्वरूपत्वाद् ब्रह्मणः, द्वे वाव ब्रह्मणो रूपे, इत्य् आदिना ब्रह्मणः प्रकारतयोपदिष्टꣳ जगद्-ऐश्वर्यꣳ, नेति नेतीति न निषिध्यते; किन्तु प्रकृतेयत्ता-मात्रꣳ तु निषिध्यते॥२३॥

Link copied

३३८। प्रकाशादिवच् चावैशेष्यꣳ प्रकाशश् च कर्मण्य् अभ्यासात्॥३।२।२४॥

Link copied

इतश् च ज्ञानानन्दवज् जगद्-ऐश्वर्यम् अपि ब्रह्मणो रूपꣳ; येषाꣳ वामदेवादीनाꣳ सꣳराधन-रूप-कर्मण्य् अभ्यासात् प्रकाशश् च सञ्जातः--- दर्शनꣳ सञ्जातम्; तेषाꣳ दर्शने प्रकाशादिवत् ज्ञानादेर् इव जगद्-ऐश्वर्यस्याप्य् अवैशेष्यꣳ प्रतीयते, तद् वैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे अहꣳ मनुर् अभवꣳ सूर्यश् च अहꣳ कक्षीवान्, इत्य् आदौ॥२४॥

Link copied

३३९। अतोऽनन्तेन तथा हि लिङ्गम्॥३।२।२५॥

Link copied

अतोऽनन्तेन कल्याण-गुण-गणेन योगो ब्रह्मणः सिद्धः। तथा सत्य् उभय-लिङ्गम् एव ब्रह्म॥२५॥ इत्य् उभय-लिङ्गाधिकरणम्॥५॥

Link copied

३४०। उभय-व्यपदेशात् त्व् अहि-कुण्डलवत्॥३।२।२६॥

Link copied

द्वे वा व ब्रह्मणो रूपे, इत्य् आदिनोपदिष्टम् अचिद्-वस्तुनो ब्रह्म-रूपत्वꣳ किꣳ ब्रह्म-स्वरूपस्यैवाचिद्-रूपेण परिणामाद् भवति, उत परस्मिन् ब्रह्मण्य् अचिद्-वस्तुनि चैक-जाति-योगात्, अथ जीववद् ब्रह्म-शरीरतया ब्रह्म-विशेषणत्वेनेति सꣳशयः। भिन्नत्वाभिन्नत्व-रूपोभय-व्यपदेशोपपत्तये ब्रह्मैवाचिद्-रूपेण परिणमत इति प्रथमः पक्षः। तथा तु सति ब्रह्मणो निर्दोषत्वादिकꣳ बाध्येतेत्य् एक-जाति-योगेनेति द्वितीयः पक्षः। एवꣳ सति, आत्मैवेदꣳ सर्वम्, ब्रह्मैवेदꣳ सर्वम् इति ब्रह्म-स्वरूपस्यैव सर्व-शब्द-वाच्यत्व-व्यपदेश-बाधः स्यात्। न ह्य् एकैव गो-व्यक्तिः खण्डो गौः, मुण्डो गौ, पूर्णशृङ्गो गौर् इत्य् आदि सर्व-गो-व्यक्ति-वाचक-शब्दैर् अभिधीयते। अतो जीवस्येव ब्रह्म-शरीरतया ब्रह्म-विशेषणत्वेनाचिद्-वस्तुनोऽपि ब्रह्माꣳशत्वम् इति राद्धान्तः। सूत्रार्थस् तु--- तु-शब्दोऽवधारणे। अहेः कुण्डल-भावादिवद् ब्रह्म-स्वरूपस्यैवाचिद्-रूपेणावस्थानम्। कुतः। नानात्वैकत्वोभय-व्यपदेशात्॥२६॥

Link copied

३४१। प्रकाशाश्रयवद् वा तेजस्त्वात्॥३।२।२७॥

Link copied

वा-शब्दोऽनन्तरोक्त-व्यावृत्त्य्-अर्थः; यथा प्रकाश-तद्-आश्रययोस् तेजस्त्वेनैक-जाति-योगाद् अभिन्नत्वꣳ भिन्नत्वꣳ च, एवम् अचिद्-ब्रह्मणोर् अपि॥२७॥

Link copied

३४२। पूर्ववद् वा॥३।२।२८॥

Link copied

वा-शब्दः पक्ष-द्वय-व्यावृत्त्य्-अर्थः; पूर्ववत्--- यथा पूर्वत्र, अꣳशो नाना-व्यपदेशात्, प्रकाशादिवत् तु नैवꣳ परः, इत्य् उभय-व्यपदेशोपपत्तये, ब्रह्मणो निर्दोषत्व-सिद्धये च प्रकाश-जाति-गुण-शरीरवत् पृथक्सिद्ध्य्-अनर्ह-विशेषणतया जीवस्य ब्रह्माꣳशत्वम् उक्तम्; एवम् अचिद्-वस्तुनोऽपि। अचिद्-वाचि-शब्देनाप्य् अचिद्-वस्तु-विशिष्टꣳ ब्रह्मैवाभिधेयम् इति, आत्मैवेदꣳ सर्वꣳ, ब्रह्मैवेदꣳ सर्वम्, इत्य् अभेद-व्यपदेशोपपत्तिः। विशेषण-विशेष्ययोः स्वरूप-स्वभाव-भेद-ज्ञापनाय विशेषण-विशेष्यौ निष्कृष्य भेदेन व्यपदेशश् चोपपद्यते। क्षरꣳ त्व् अविद्या ह्य् अमृतꣳ तु विद्या विद्याविद्ये ईशते यस् तु सोऽन्यः, इति ब्रह्मणो निर्दोषत्वꣳ च॥२८॥

Link copied

३४३। प्रतिषेधाच् च॥३।२।२९॥

Link copied

स वा एष महानज आत्माजरोऽमरः, नास्य जरयैतज् जीर्यति\॥॥ विजरो विमृत्युः, इत्य् आदिभिर् ब्रह्मणोऽचिद्-धर्म-प्रतिषेधाच् च विशेषण-विशेष्य-भावेनैवाꣳशाꣳशि-भाव इत्य् अर्थः॥२९॥ इत्य् अहि-कुण्डलाधिकरणम्॥६॥

Link copied

३४४। परमतः सेतून्मान-सम्बन्ध-भेद-व्यपदेशेभ्यः॥३।२।३०॥

Link copied

यतो वा इमानीत्य् आदिना जगज्-जन्मादि-कारणतया निर्दिष्टात् परस्माद् ब्रह्मणोऽपि परꣳ तत्त्वꣳ किञ्चिद् अस्ति नेति सꣳशयः। इतोऽपि परम् अस्तीति पूर्वः पक्षः। अथ य आत्मा स सेतुः, इत्य् अस्य सेतुत्व-व्यपदेशात्, एतꣳ सेतुꣳ तीर्त्वेत्य् अस्य तरितव्यत्वोपदेशाच् चातोऽन्यद् अप्य् अस्तीति गम्यते। चतुष्पाद् ब्रह्म, षोडश-कलम् इति परिमितत्व-व्यपदेशाच् चापरिमितम् अन्यद् अस्तीति प्रतीयते। अमृतस्यैष सेतुर् इति प्रापकत्व-श्रुतेश् चानेन प्राप्यम् अन्यद् अस्तीति प्राप्य-प्रापक-रूप-सम्बन्धात् प्रतीयते। तथा--- तेनेदꣳ पूर्णꣳ पुरुषेण सर्वम्, ततो यद् उत्तरतरम् इति पुरुष-शब्द-निर्दिष्टाद् ब्रह्मण उत्तरतरत्वेन भेद-व्यपदेशाच् चान्यत् परम् अस्ति॥

Link copied

राद्धान्तस् तु--- न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्तीति नेति निर्दिष्टात् मूर्तामूर्त-रूपाद् ब्रह्मणोऽन्यत् परꣳ नास्तीति पर-तत्त्व-निषेधात् कारणाद् ब्रह्मणोऽन्यत् परꣳ नास्ति। सेतुत्व-व्यपदेशस् तु--- एषाꣳ लोकानाम् असम्भेदायेति सर्व-लोकासङ्कर-करत्व-कृतः। एतꣳ सेतुꣳ तीर्त्वेति तरतिर् अपि, वेदान्तꣳ तरतीतिवत् प्राप्ति-वचनः। चतुष्पाद् ब्रह्म, षोडश-कलम् इत्य् उन्मान-व्यपदेशोऽपि, वाक् पाद\॥॥।चक्षुः पादः, इतिवद् उपासनार्थः। सम्भवति चापरिमितस्यापि तत्-तद्-देश-सम्बन्धितयोन्मितत्वानुसन्धानम्। अमृतस्यैष सेतुर् इति स्वस्यैवामृतस्य स्वयम् एव प्रापकम् उच्यते, यम् एवैष वृणुते तेन लभ्यः, इत्य् आदि श्रुतेः। ततो यद् उत्तरतरम् इत्य् अपि, तेनेदꣳ पूर्णम् इति निर्दिष्टात् पुरुषाद् अन्यस्य न परत्वम् आह; अपि तु--- तम् एवꣳ विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय, इति पूर्व-प्रतिज्ञातꣳ पुरुष-वेदनस्यामृतत्व-हेतुत्वम् अन्यस्य चापथत्वꣳ सहेतुकम् उपसꣳहरति। यस्मात् परꣳ नापरम् अस्ति किञ्चित्, इत्य् आरभ्य, तेनेदꣳ पूर्णꣳ पुरुषेण सर्वम् इति पुरुषस्य सर्वस्मात् परत्वꣳ ज्यायस्त्वम् अन्यस्य परत्वाभावꣳ च प्रतिपाद्य, ततो हेतोर् यद् उत्तरतरꣳ पुरुष-तत्त्वꣳ तद् एवारूपम् अनामयम्; य एतद् विदुर् अमृतास्ते भवन्त्य् अथेतरे दुःखम् एवापि यन्तीति पूर्व-प्रतिज्ञातम् एवोपसꣳहृतम्॥

Link copied

सूत्रार्थस् तु--- परमतः, जन्माद्य् अस्य यतः, इत्य् आरभ्य, अतोऽनन्तेन तथा हि लिङ्गम् इत्य् अन्तेन प्रतिपादितान् निखिल-जगद्-एक-कारणात् सर्वान्तरात्मनो निरस्त-निखिल-दोष-गन्धानवधिकातिशयानन्त-कल्याण-गुणाकरात् परस्माद् ब्रह्मणः परम् अपि किञ्चिद् अस्तीति कश्चिन् मन्यते। कुतः। सेतून्मान-सम्बन्ध-भेद-व्यपदेशेभ्यः। व्याख्याताश् चैते॥३०॥

Link copied

३४५। सामान्यात् तु॥३।२।३१॥

Link copied

तु-शब्दः पक्षꣳ व्यावर्तयति; सेतुत्व-व्यपदेशस् तावत् तस्मात् परꣳ नावगमयति, सेतु-सामान्यात्--- सादृश्याज् जगद्-विधृति-रूपाद् ब्रह्मणस् तथा-व्यपदेश इति श्रुतिर् एव सेतु-शब्दꣳ व्याचष्टे, अथ य आत्मा स सेतुर् विधृतिर् एषाꣳ लोकानाम् असम्भेदायेति। यद् यत् स्वभावा लोकाः सृष्टास् तत्-तत्-स्वभावासङ्कराय सर्वान् लोकान् अयम् एव सेतुवद् बिभर्तीति सेतुर् इत्य् अर्थः॥३१॥

Link copied

३४६। बुद्ध्य्-अर्थः पादवत्॥३।२।३२॥

Link copied

चतुष्पाद् ब्रह्म, पादोऽस्य विश्वा भूतानीत्य् उन्मान-व्यपदेशास् तथानुसन्धानार्थः; वाक् पादः\॥॥ चक्षुः पादः, इतिवत्॥३२॥

Link copied

अपरिमित-स्वरूपस्यानुसन्धानार्थतयापि कथꣳ परिमितत्वम् इत्य् अत आह---

Link copied

३४७। स्थान-विशेषात् प्रकाशादिवत्॥३।२।३३॥

Link copied

प्रतिपन्न-वाग्-आदि-स्थान-विशेष-सम्बन्धात् तत्-तत्-स्थान-सम्बन्धित्वेनावच्छिद्यानुसन्धानꣳ युज्यते; यथा प्रकाशादेर् विततस्यापि वातायन-घटादौ॥३३॥

Link copied

३४८। उपपत्तेश् च॥३।२।३४॥

Link copied

अमृतस्यैष सेतुर् इत्य् अमृतस्य स्वस्य स्वयम् एव प्रापक इति सेतुत्व-व्यपदेशोपपत्तेश् चान्यत् परम् अस्तीति कल्पनꣳ न युज्यते। नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् इति हि श्रूयते॥३४॥

Link copied

३४९। तथान्य-प्रतिषेधात्॥३।२।३५॥

Link copied

तेनेदꣳ पूर्णꣳ पुरुषेण सर्वꣳ, ततो यद् उत्तरतरम् इति पुरुषाद् अन्यस्य न परत्वम् आह। न तस्येशे कश्चन, न ह्य् एतस्माद् इति नेत्य् अन्यत् परम् अस्ति, यस्मात् परꣳ नापरम् अस्ति किञ्चिद् यस्मान् नाणीयो न ज्यायोऽस्ति कश्चित्, यस्माद् अपरꣳ परꣳ नास्ति किञ्चिद् इत्य् अर्थः। एवम् आदिषु पुरुषाद् अन्यस्य परत्व-प्रतिषेधात्। ततो यद् उत्तरतरम् इति तु यतः पुरुष-तत्त्वम् एवोत्तरतरम्; ततो हेतोर् यद् उत्तरतरꣳ पुरुष-तत्त्वम्; तद् एव--- अरूपम् अनामयम् इत्य् आदिना व्याख्यातम्। य एतद् विदुर् अमृतास् ते भवन्तीति, तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते अयनायेति प्रतिज्ञातम् एवोपसꣳहृतम्। न तस्येशे कश्चन तस्य नाम महद् यशः, इति च पुरुष-तत्त्वम् एव वदति। अनन्तरम्--- अद्भ्यः सम्भूतो हिरण्यगर्भ इत्य् अष्टौ, इति पुरुष-तत्त्व-वाचिनैक-वाक्यत्वावगमात्; अम्भस्य पारे, यम् अन्तः समुद्रे कवयो वयन्ति, इति च प्रक्रमात्॥३५॥

Link copied

३५०। अनेन सर्व-गतत्वम् आयाम-शब्दादिभ्यः॥३।२।३६॥

Link copied

अनेन ब्रह्मणा सर्वस्य व्याप्तत्वꣳ, तेनेदꣳ पूर्णꣳ पुरुषेण सर्वम्, अन्तर् बहिश् च तत् सर्वꣳ व्याप्य नारायणः स्थितः, नित्यꣳ विभुꣳ सर्व-गतꣳ सुसूक्ष्मꣳ तद् अव्ययꣳ यद् भूत-योनिꣳ परिपश्यन्ति धीराः, इत्य् आयाम-शब्देभ्यः--- सर्व-व्याप्ति-वाचि-शब्देभ्योऽवगम्यते। एवम् अवगम्यमानम् एतस्मात् परꣳ वारयतीत्य् अर्थः। आदि-शब्दात्--- आत्मैवेदꣳ सर्वम् इत्य् आदयो गृह्यन्ते। अतः--- यतो वा इमानीत्य् आदिनावगत-जगन्-निमित्तोपादान-कारणाद् ब्रह्मणोऽन्यत् परꣳ न विद्यते॥३६॥ इति पराधिकरणम्॥७॥

Link copied

३५१। फलम् अत उपपत्तेः॥३।२।३७॥

Link copied

किꣳ वेदोदितꣳ याग-दान-होमादिकम् उपासनाख्यꣳ च--- यजेत, उपासीतेति कामिनो मुमुक्षोश् च कर्तव्यतया श्रूयमाणꣳ कर्मैवापूर्व-द्वारेण भोगापवर्ग-रूप-फलदम्, उत तत्-तद्-आराधनैः प्रीतः परम-पुरुष एव फलद इति सꣳशयः। कर्मैवेति पूर्वः पक्षः; लोके मर्दनादेः कृष्यादेश् च कर्मण एव साक्षात् परम्परया वा फल-प्रदत्व-दर्शनात्। वेदे च--- यजेत स्वर्ग-कामः, आत्मानम् एव लोकम् उपासीत, इति कामिनो मुमुक्षोश् च कर्तव्यतया श्रूयमाणꣳ कर्मꣳ तत्-तत्-फल-साधनतयावगतꣳ क्षणिकम् अप्य् अपूर्व-द्वारेण भोगापवर्ग-रूप-सर्व-फल-प्रदम्। राद्धान्तस् तु--- कर्तव्यतयावगतस्य यागादेर् उपासनस्य च, यज देव-पूजायाम् इत्य् आदिनावगत-धात्व्-अर्थ-स्वाभाव्यात्, वायुम् एव स्वेन भागधेयेनोपधावति स एवैनꣳ भूतिꣳ गमयति, इति वाक्य-शेषाच् च, इष्टापूर्तꣳ बहुधा जातꣳ जायमानꣳ विश्वꣳ बिभर्ति भुवनस्य नाभिः, तद् एवाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः, स तया श्रद्धया युक्तस् तस्याराधनम् ईहते। लभते च ततः कामान् मयैव विहितान् हि तान्॥ अहꣳ हि सर्व-यज्ञानाꣳ भोक्ता च प्रभुर् एव च, स्व-कर्मणा तम् अभ्यर्च्य सिद्धिꣳ विन्दति मानवः, तत्-प्रसादात् पराꣳ शान्तिꣳ स्थानꣳ प्राप्स्यसि शाश्वतम् इत्य् आदि श्रुति-स्मृतिभ्यश् च, परम-पुरुष एव कर्मभिर् उपासनेन चाराधितो भोगापवर्ग-रूप-फल-प्रदः। लोके च कृष्यादि-कर्मभिः सस्यादिक मुत्पाद्य, तेन भृत्य-द्वारेण साक्षाद् वा राजानम् अभ्यर्च्य, तत एवापेक्षितानि लभन्ते; अतः परम-पुरुष एव फल-प्रदः॥

Link copied

सूत्रार्थस् तु--- फलम् अत उपपत्तेः। अतः--- परस्माद् ब्रह्मण एव कर्मभिर् उपासनेन चाराधिताद् भोगापवर्ग-रूप-फलम्। कुतः। उपपत्तेः--- कर्म हि क्षण-ध्वꣳसि न कालान्तर-भावि-फलायालम्; स हि सर्व-ज्ञः सर्व-शक्तिः परम-कारुणिको महोदारः अनादिर् अनन्तश् च सर्वेश्वरः स्वाराधन-रूपेण कर्मणा आराधितः फल-प्रद इत्य् उपपद्यते॥३७॥

Link copied

३५२। श्रुतत्वाच् च॥३।२।३८॥

Link copied

स वा एष महान् अज आत्मा अन्नादो वसुदानः, एष ह्य् एवानन्दयाति, इति भोगापवर्ग-रूपꣳ फलम् अयम् एव ददातीति हि श्रूयते॥३८॥

Link copied

३५३। धर्मꣳ जैमिनिर् अत एव॥३।२।३९॥

Link copied

यागादिकम् उपासनात्मकꣳ च धर्मम् एव फल-प्रदꣳ जैमिनिर् आचार्यो मन्यते; अत एव--- उपपत्तेः श्रुतत्वाच् चेत्य् अर्थः। लोके कृष्यादेर् मर्दनादेश् च कर्मण एव साक्षात् परम्परया वा फल-दायित्व-दर्शनाद् वेदेऽपि तथैव युक्तम् इत्य् उपपत्तिः। उपपद्यते चापूर्व-द्वारेण साधनत्वम्। यजेत स्वर्ग-कामः, ब्रह्म-विद् आप्नोति परम् इति कामिनः कर्तव्यतया कर्म-विधानान्यथानुपपत्त्या कर्मैवापूर्व-द्वारेण फल-साधनम् इत्य् अवगम्यते॥३९॥

Link copied

३५४। पूर्वꣳ तु बादरायणो हेतु-व्यपदेशात्॥३।२।४०॥

Link copied

तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। पूर्वोक्तꣳ परम-पुरुषस्यैव फल-प्रदत्वꣳ भगवान् बादरायणो मन्यते। कुतः। हेतु-व्यपदेशात्--- वायुम् एव स्वेन भागधेयेनोपधावति स एवैनꣳ भूतिꣳ गमयति, इति वाय्व्-आद्य्-आत्मना अवस्थितस्य परम-पुरुषस्यैव फल-प्रदत्व-व्यपदेशात्। यो वायौ तिष्ठन्न् इति च वाय्व्-आद्य्-आत्मना स एव व्यवस्थितः श्रूयते, तद् एवाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः, इति च। तत्-परित्यागेनापूर्वस्य फल-साधनत्व-कल्पने श्रुत-हानम् अश्रुत-कल्पनꣳ च। विध्य्-अपेक्षित-फल-साधनत्व-प्रकारे वाक्य-शेषेणावगते सति न फल-साधनत्व-प्रकार-कल्पनꣳ न्याय्यम्; यथैव हि रात्रि-सत्रादिष्व् अधिकारी न कल्प्य इत्य् अर्थः॥४०॥ इति फलाधिकरणम्॥८॥

Link copied

इति श्री- रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे तृतीयस्वाध्यायस्य द्वितीयः पादः।

Link copied
Join our community