Skip to content

Vedanta Dipa · Section 9 of 17

||atha dvitīyādhyāye caturthaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

२६९। तथा प्राणाः॥२।४।१॥

Link copied

किꣳ जीववद् इन्द्रियाण्य् अपि नोत्पद्यन्ते, उत वियद्-आदिवद् उत्पद्यन्त इति सꣳशयः। नोत्पद्यन्त इति पूर्वः पक्षः। प्रलय-काले अवस्थान-श्रुतेः; उत्पत्ति-वादाः जीवोत्पत्ति-वादवन् नेयाः। असद् वा इदम् अग्र आसीत्\॥॥ ऋषयो वा व तेऽग्रे सद् आसीत् के ते ऋषय इति प्राणा वा व ऋषयः, इतीन्द्रियाणाꣳ तदानीꣳ स्थितिः श्रूयते। राद्धान्तस् तु--- प्राक्सृष्टेर् एकत्वावधारणात्, इन्द्रियाणाम्, एतस्माज् जायते, इत्य् उत्पत्ति-वादात्, उत्पत्ति-निषेध-नित्यत्व-वचनाभावाच् च, वियद्-आदिवद् उत्पद्यन्ते। प्राणा वा व ऋषयः, इति। प्राणाशब्द-निर्दिष्टः परमात्मा। सूत्रार्थस् तु--- तथा प्राणाः--- यथा जीवा नोत्पद्यन्ते तथा प्राणा अपि॥१॥ बहुत्वासम्भवाद् बहु-वचन-श्रुतिर् गौणीत्य् आह---

Link copied

२७०। गौण्य्-असम्भवात् तत्-प्राक् श्रुतेश् च॥२।४।२॥

Link copied

प्राणा वा, इति बहु-वचन-श्रुतिर् गौणी, तदानीꣳ बहुत्वासम्भवात्, तस्य परमात्मन एव प्राग् अवस्थान-श्रुतेश् च॥२॥

Link copied

[अत्र पाठान्तरम्]

Link copied

चस् त्व्-अर्थः; तु-शब्दात् पक्षो व्यावृत्तः। इन्द्रियाण्य् उत्पद्यन्त एव। कुतः। तत्-प्राक् श्रुतेः--- तस्य परमात्मन एव प्राग् अवस्थान-श्रुतेः, सद् एव सोम्येदम् अग्र आसीत्, आत्मा वा इदम् एक एवाग्र आसीत्, एको ह वै नारायण आसीत्, इति। प्राण-शब्दस्य, प्राणम् अभिसꣳविशन्ति, इति परमात्मन्य् अपि प्रसिद्धेः, प्राणा वा व ऋषयः, इति तस्यैव द्रष्टृत्व-सम्भवात्॥२॥

Link copied

२७१। तत्-पूर्वकत्वाद् वाचः॥२।४।३॥

Link copied

इतश् च; वाचः परमात्म-व्यतिरिक्तनाम् अधेयस्य तत्-पूर्वकत्वात्--- वियद्-आदि-सृष्टि-पूर्वकत्वाद् इत्य् अर्थः; तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियत, इत्य् आदि श्रुतेः। अतः परमात्मैव प्राण-शब्द-निर्दिष्टः॥३॥ इति प्राणोत्पत्त्य्-अधिकरणम्॥१॥

Link copied

२७२। सप्त गतेर् विशेषितत्वाच् च॥२।४।४॥

Link copied

किम् इन्द्रियाणि सप्तैव, उतैकादशेति सꣳशयः। सप्तैवेति पूर्वः पक्षः। सप्त प्राणाः प्रभवन्ति, इत्य् आदिषु सप्तानाम् एव जीवेन सह सञ्चार-श्रवणात्, यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश् च, इति सप्तानाम् एव योग-काले ज्ञानानीति विशेषितत्वाच् च; श्रोत्रादीनि ज्ञानेन्द्रियाणि मनो बुद्धिश् चेति सप्तैव। राद्धान्तस् तु--- श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि च कर्मेन्द्रियाणि मन इत्य् एकादश। कथम्। वाग्-घस्तादीनाम् अपि श्रोत्रादिवत् कार्य-भेदेन जीवोपकरणत्वाविशेषात्, दशेमे पुरुष प्राणा आत्मैकादशः, इन्द्रियाणि दशैकꣳ च, इत्य् आदि श्रुति-स्मृतिभ्यः। वाग्-आदीनाꣳ जीवेन सह गमनाभावात् सप्तानाम् एव प्रयाण-काले गति-श्रवणम्; योग-काले विशेषितत्वꣳ च ज्ञानेन्द्रियाणाꣳ मनसस् तद्-वृत्ति-रूप-बुद्धेश् च प्राधान्यात्। सूत्रार्थस् तु--- सप्त-गतेर् विशेषितत्वाच् च--- सप्तानाम् एव गति-श्रवणात्, ज्ञानानि पञ्च मनो बुद्धिश् चेति विशेषितत्वाच् च तानि सप्तैव॥४॥

Link copied

२७३। हस्तादयस् तु स्थितेऽतो नैवम्॥२।४।५॥

Link copied

नैवम्--- न सप्तैवेन्द्रियाणीत्य् अर्थः; श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च वाग्-घस्तादीनि च कर्मेन्द्रियाणि पञ्च मनश् चेत्य् एकादश; तत्र श्रोत्रादीनि जीवेन सह शरीरान्तर-गमनेऽपि गच्छन्ति; वाग्-घस्तादीनि कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्ति-विनाश-योगीन्य् उपकारकाणि; अतो नैवम् इत्य् अन्वयः; एषाꣳ जीवोपकारकत्वाविशेषात्, दशेमे पुरुषे प्राणा आत्मैकादशः, इत्य् आदि वचनाच् चेत्य् अभिप्रायः॥५॥ इति सप्त-गत्य्-अधिकरणम्॥२॥

Link copied

२७४। अणवश् च॥२।४।६॥

Link copied

इन्द्रियाणि किꣳ सर्व-गतानि, उताणु-परिमाणानीति सꣳशयः। सर्व-गतानीति पूर्वः पक्षः; त एते सर्व एव समाः सर्वेऽनन्ताः, इति प्राणानाम् आनन्त्य-श्रवणात्। राद्धान्तस् तु--- प्राणम् अनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति, इति श्रवणात्, परिमितत्वे सत्य् अप्रत्यक्षत्वाद् अणवः। आनन्त्य-श्रुतिस्तु--- अथ यो हैताननन्तानुपास्ते, इत्य् उपासन-विधानाद् उपासन-फल-बाहुल्य-विषया॥६॥

Link copied

२७५। श्रेष्ठश् च॥२।४।७॥

Link copied

श्रेष्ठः प्राणश् चोत्पद्यते। नात्र न्यायातिदेशः, अधिकाशङ्काभावात्। पृथग्-योग-करणम् उत्तर-चिन्तार्थम्। श्रेष्ठः पञ्च-वृत्तिः प्राणः। प्राण-श्रैष्ठ्यꣳ तु प्राण-सꣳवादे तस्य श्रेष्ठ्याभिधानात्॥७॥ इति प्राणाणुत्वाधिकरणम्॥३॥

Link copied

२७६। न वायु-क्रिये पृथग् उपदेशात्॥२।४।८॥

Link copied

किम् अयꣳ श्रेष्ठ-प्राणो वायु-मात्रम्, उत तत्-क्रिया, अथ वायुर् एव कञ्चन विशेषम् आपन्नः। इति सꣳशयः। वायु-मात्रम् इति प्रथमः पक्षः, यः प्राणः स वायुः, इति व्यपदेशात्। वायु-मात्रे प्राण-प्रसिद्ध्य्-अभावात्, उच्छ्वास-निश्वास-रूप-वायु-क्रियायाꣳ प्राण-प्रसिद्धेः, वायोः, क्रिया-विशेष एव प्राण इति द्वितीयः पक्षः। राद्धान्तस् तु--- न वायु-मात्रꣳ तत्-क्रिया वा प्राणः; अपि तु देह-धारण-योग्यतादि-रूप-विशेषम् आपन्नो वायुः, एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, खꣳ वायुः, इति वायु-प्राणयोः पृथग्-उत्पत्त्य्-उपदेशात्। क्रियायाश् च पृथग्-उपदेशो न सम्भवति, तेजः-प्रभृतिष्व् अदर्शनात्। चक्षुर्-आदि-करणैः सह जीवोपकरणतयोपदेशात्, देहेन्द्रिय-धारण-रूपोपकाराधिक्याच् चक्षुर्-आदिभ्यः प्राधान्य-वचनाच् च न क्रिया-मात्रम्। सूत्रार्थस् तु--- न वायु-क्रिये पृथग् उपदेशात्--- वायु-मात्रꣳ तत्-क्रिया वा न प्राणः; पृथग् उपदेशात्--- प्राणो जायते, स्वꣳ वायुर् इति हि पृथग् उत्पत्तिर् उपदिश्यते॥८॥

Link copied

वायोः पृथग्-उपदिष्टतया तस्माद् अन्योऽयꣳ प्राणः किम् अग्न्य्-आदिवद् भूतान्तरम् इत्य् आशङ्क्याह---

Link copied

२७७। चक्षुर्-आदिवत् तु तत्-सहशिष्ट्यादिभ्यः॥२।४।९॥

Link copied

तु-शब्दः शङ्का-निवृत्त्य्-अर्थः; प्राणो नाकाशादिवद् भूतान्तरम्; अपि तु वायुर् एवावस्थान्तरम् आपन्नश् चक्षुर्-आदिवज् जीवोपकरणम्। तच् चोपकरणत्वम् उपकरण-भूतैर् इन्द्रियैः सहशिष्ट्यादिभ्योऽवगम्यते। शिष्टिः--- शासनम्, उपदेशः। उपदिश्यते ह्य् अयꣳ प्राणश् चक्षुर्-आदिभिः सह प्राण-सꣳवादादिषु। तत्-सजातीयत्वे ह्य् एतद् उपपद्यते। प्राण-शब्द-गृहीतेषु करणेष्व् अस्य--- अथ ह य एवायꣳ मुख्यः प्राणः, इति विशिष्याभिधानम् आदि-शब्देनोक्तम्। तद् अपि तत्-सजातीयत्वे हि सम्भवति॥९॥

Link copied

२७८। अकरणत्वाच् च न दोषस् तथा हि दर्शयति॥२।४।१०॥

Link copied

अकरणत्वात्--- करणꣳ क्रिया, अकरणत्वꣳ क्रिया-रहितत्वम्। अक्रियत्वाद् अस्य प्राणस्य जीवꣳ प्रत्युपकार-विशेष-रूप-क्रिया-रहितत्वाच् च यो दोष उद्भाव्यते; स नास्ति। यत उपकार-विशेष-रूपाꣳ शरीरेन्द्रिय-धारणात्मक-क्रियाꣳ दर्शयति श्रुतिः--- यस्मिन्न् उत्क्रान्त इदꣳ शरीरꣳ पापिष्ठतरम् इव दृश्यते स वः श्रेष्ठः, इति वाग्-आदि-मुख्य-प्राण-पर्यन्तानि करणानि प्रत्येकम् अभिधाय प्राणोत्क्रमणे शरीरेन्द्रिय-शैथिल्याभिधानात्॥१०॥

Link copied

प्राणापानादिनाम् अभेदेन पञ्चधावस्थित एक एव प्राण इत्य् आह---

Link copied

२७९। पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते॥२।४।११॥

Link copied

प्राणापानादि-वृत्ति-भेदात् प्राण एव पञ्चधा व्यपदिश्यतेः; मनोवत्--- यथैकम् एव मनः कामादि-वृत्ति-भेदेन तैः शब्दैर् अभिधीयत इति श्रुतिर् आह--- कामः सङ्कल्पः, इत्य् आरभ्य, ह्रीर् धीर् भीर् इत्य् एतत् सर्वꣳ मन एव, इति। अपानादि समान-पर्यन्तꣳ व्यपदिश्य, एतत् सर्वꣳ प्राण एव, इति व्यपदेशात् प्राण एव पञ्च-वृत्तिर् इत्य् अवगम्यते॥११॥ इति वायु-क्रियाधिकरणम्॥४॥

Link copied

२८०। अणुश् च॥२।४।१२॥

Link copied

किम् अयꣳ प्राणः सर्व-गतः, उताणुर् इति सꣳशयः। सर्व-गत इति पूर्वः पक्षः; सम एभिस् त्रिभिर् लोकैः समः, इत्य् आदिना प्राणस्यानन्त्य-व्यपदेशात्। राद्धान्तस् तु--- तम् उत्क्रामन्तꣳ प्राणोऽनुत्क्रामति, इत्य् उत्क्रान्ति-वचनाद् इन्द्रियवत् प्राणश् चाणुः। एवम् अणुत्वे निश्चिते सति सर्वस्य प्राणायत्त-स्थितित्वेन वैभव-वादः। सूत्रम् अपि व्याख्यातम्॥१२॥ इति श्रेष्ठाणुत्वाधिकरणम्॥५॥

Link copied

२८१। ज्योतिर्-आद्य्-अधिष्ठानꣳ तु तद्-आमननात् प्राणवता शब्दात्॥२।४।१३॥

Link copied

अग्न्य्-आदीनाꣳ जीवस्य चेन्द्रियाधिष्ठानꣳ परमात्मायत्तम् इति, परात् तु तच्-छ्रुतेर् इत्य् उक्तम् एव स्मारयति विषम-व्याप्ति-ज्ञापनाय। प्राणवता--- जीवेन सह, ज्योतिरादेः--- अग्न्य्-आदेर् वाग्-आद्य्-अधिष्ठानम्, तद्-आमननात्--- परमात्मामननाद् भवति। आमननम्--- आभिमुख्येन मननम्; तत्-सङ्कल्पाद् एव भवतीत्य् अर्थः; योऽग्नौ तिष्ठन्\॥॥ योऽग्निम् अन्तरो यमयति, इत्य् आदि शब्दात्॥१३॥

Link copied

२८२। तस्य च नित्यत्वात्॥२।४।१४॥

Link copied

सर्वेषाम् आत्मतयानुप्रविश्य, सर्व-नियमनस्य नित्यत्वात्--- परमात्मनः अवर्जनीयत्वाद् इत्य् अर्थः, तत् सृष्ट्वा, तद् एवानुप्राविशत्, इति श्रुतेः॥१४॥ इति ज्योतिर्-आद्य्-अधिष्ठानाधिकरणम्॥६॥

Link copied

२८३। त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात्॥२।४।१५॥

Link copied

किꣳ प्राण-शब्द-निर्दिष्टाः सर्वम् एवेन्द्रियाणि, उत श्रेष्ठ-व्यतिरिक्ताः प्राणा इति सꣳशयः। सर्व एवेति पूर्वः पक्षः; सर्वेषाम् अविशेषेण प्राण-शब्द-निर्देशात्, करणत्वाच् च। राद्धान्तस् तु--- श्रेष्ठ-व्यतिरिक्ताः प्राणा इन्द्रियाणि, तेष्व् एवेन्द्रिय-शब्द-निर्देशात्; इन्द्रियाणि दशैकꣳ च, एकादशꣳ मनश् चात्र, इति। एषाम् अपि प्राण-शब्द-निर्देशः प्राणाधीन-वृत्तित्वेन। तथा च श्रुतिः--- त एतस्यैव सर्वे रूपम् अभवन्, तस्माद् एत एतेनाख्यायन्ते, इति। रूपम् अभवन्--- शरीरम् अभवन्, तद्-अधीन-वृत्तयोऽभवन्न् इत्य् अर्थः। सूत्रार्थस् तु--- श्रेष्ठाद् अन्यत्र ये प्राणाः; त इन्द्रियाणि, तेष्व् एव तद्-व्यपदेशात्---इन्द्रिय-व्यपदेशात्॥१५॥

Link copied

२८४। भेद-श्रुतेर् वैलक्षण्याच् च॥२।४।१६॥

Link copied

एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि चेति समनस्केन्द्रियेभ्यो भेदेन प्राणस्योत्पत्ति-श्रुतेः, इन्द्रियेषूपरतेष्व् अपि प्राणवृत्तेर् वृत्ति-वैलक्षण्याच् च॥१६॥ इतीन्द्रियाधिकरणम्॥७॥

Link copied

२८५। सꣳज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात्॥२।४।१७॥

Link copied

किꣳ प्रपञ्च-व्यष्टि-सृष्टिर् जीव-भूत-चतुर्मुखात्, उत तच्-छरीरकात् परमात्मन एवेति सꣳशयः। केवलाच् चतुर्मुखाद् इति पूर्वः पक्षः, अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति व्यतिरेक-श्रुतेः। जीवस्य परमात्माꣳशत्वेन व्याकरवाणीत्य् उत्तम-पुरुष-निर्देशोऽपि कथञ्चिद् उपपद्यते। राद्धान्तस् तु--- नाम-रूपे व्याकरवाणि तासाꣳ त्रिवृतꣳ त्रिवृतम् एकैकाꣳ करवाणीति त्रिवृत्-करणꣳ कुर्वत एव नाम-रूप-व्याक्रियोपदेशात् परमात्मन एव नाम-रूप-व्याकरण-रूप-व्यष्टि-सृष्टिः। त्रिवृत्-करणꣳ तु न चतुर्मुखेन कर्तुꣳ शक्यम्, अण्ड-सृष्ट्य्-उत्तर-काल-भावित्वाच् चतुर्मुखोत्पत्तेः, त्रिवृत्-कृतैर् एव तेजो-ऽब्-अन्नैर् अण्ड-सृष्टि-सम्भवाच् च। तद्-अण्डम् अभवद् धैमꣳ सहस्राꣳशु-समप्रभम्। तस्मिञ् जज्ञे स्वयꣳ ब्रह्मा सर्व-लोक-पितामहः, इति हि स्मर्यते। नाना-वीर्याः पृथग्-भूतास् ततस् ते सꣳहतिꣳ विना। नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः॥ समेत्यान्योन्य-सꣳयोगꣳ परस्पर-समाश्रयाः। महद्-आदि-विशेषान्ता ह्य् अण्डम् उत्पादयन्ति ते, इति च। अतश् चतुर्मुख-शरीरकात् परमात्मन एव व्यष्टि-सृष्टिः। एवꣳ सति व्याकरवाणीत्य् उत्तम-पुरुष-निर्देशः समञ्जसः। अनेन जीवेनेति व्यतिरेक-निर्देशोऽपि जीव-शरीरकेणात्मनेत्य् अन्वयात् समञ्जसः। जीव-शब्दस् तेजः-प्रभृति-शब्दवज् जीव-शरीरक-ब्रह्म-वाचीति ह्य् उक्तम्। अनेन जीवेनात्मनेति सामानाधिकरण्यꣳ च मुख्यम्; अनुप्रविश्य नाम-रूपे व्याकरवाणीति समान-कर्तृकत्व-निर्देशश् च। सूत्रार्थस् तु--- सꣳज्ञा-मूर्ति-कॢप्तिस् तु, तु-शब्दः शङ्का-व्यावृत्त्य्-अर्थः। नाम-रूप-कॢप्तिः परमात्मन एव। कुतः। त्रिवृत् कुर्वत उपदेशात्--- त्रिवृत्-करणꣳ कुर्वत एव नाम-रूप-व्याकरणोपदेशात्। त्रिवृत्-करणꣳ तु परमात्मन एव कर्मेत्य् उक्तम्॥१७॥

Link copied

अन्नम् अशितꣳ त्रेधा विधीयते, इत्य् आदिना चतुर्मुख-सृष्ट-वस्तुषु त्रिवृत्-करण-प्रकारो ह्य् उपदिश्यते; अतश् चतुर्मुखेन केवलेन तच्-छक्यम् इत्य् आशङ्क्याह---

Link copied

२८६। माꣳसादि भौमꣳ यथाशब्दम् इतरयोश् च॥२।४।१८॥

Link copied

तासाꣳ त्रिवृतꣳ त्रिवृतम् एकैकाꣳ करवाणीति निर्दिष्टꣳ त्रिवृत्-करणम्, अन्नम् अशितꣳ त्रेधा विधीयते, इत्य् आदिना नोपदिश्यते; तस्य यः स्थविष्ठो धातुस् तत् पुरीषꣳ यो मध्यमस् तन् माꣳसꣳ योऽणिष्टस् तन् मनः, इति माꣳसाद्य् अपि हि भौमम् एवोपदिश्यते। अन्नम् अशितꣳ त्रेधेति प्रक्रमात्, अन्न-मयꣳ हि सोम्य मनः, इति वाक्य-शेषाच् च। तेजो-ऽब्-अन्नानाꣳ त्रिवृत्-करण-प्रकारे ह्य् उपदिश्यमाने माꣳस-मनसोः पुरीषाद् भौमाद् अणीयस्त्वेनाप्यत्वꣳ तैजसत्वꣳ च प्रसज्यते। तथेतरयोर् अप्य् अप्-तेजः-पर्याययोः, आपः पीताः, तेजोऽशितम् इति त्रयाणाꣳ भागानाꣳ यथाशब्दम् आप्यत्वꣳ तैजसत्वम् एवोपदिश्यते। तत्रापि हि--- आपः पीताः, तेजोऽशितम् इत्य् उपक्रमः; वाक्य-शेषश् च--- आपो-मयः प्राणः तेजो-मयी वाक्, इति। प्राग्-उक्त-त्रिवृत्-करण-प्रकारे हि मूत्र-प्राणयोः स्थविष्ठत्वाणीयस्त्वाभ्याꣳ भौमत्व-तैजसत्व-प्रसक्तिः। तेजोऽशितम् इत्य् अत्रापि पूर्वयोर् भौमत्वाप्यत्व-प्रसक्तिः। अतोऽत्र प्राग् एव त्रिवृत्-कृतस्यान्नादेः स्वस्यैव त्रेधा परिणाम उपदिश्यते॥१८॥

Link copied

प्राग् एव त्रिवृत्-कृतꣳ चेत्, कथꣳ केवलान्नादि-शब्दैर् उच्यते। इत्य् अत्राह---

Link copied

२८७। वैशेष्यात् तु तद्-वादस् तद्-वादः॥२।४।१९॥

Link copied

वैशेष्यꣳ--- विशेष-भावः। त्रिवृत्-कृतेऽप्य् एकैकस्मिꣳस् तत्र तत्रान्नाद्य्-आधिक्य-रूप-विशेष-भावाद् अन्नादि-वादः। द्विर् उक्तिर् अध्याय-परिसमाप्ति-द्योतनार्था॥१९॥ इति सꣳज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्॥८॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य चतुर्थः पादः॥

Link copied

॥समाप्तश् चाध्यायः॥

Link copied
Join our community