Vedanta Dipa · Section 8 of 17
||atha dvitīyādhyāye tṛtīyaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
२१७। न वियद् अश्रुतेः॥२।३।१॥
Link copiedवियद् उत्पद्यते नेति सꣳशयः। नोत्पद्यते इति पूर्वः पक्षः, निरवयवस्य सर्व-गतस्यात्मन इवोत्पत्त्य्-असम्भवात्। असम्भावनीयस्य श्रवणꣳ च न सम्भवति। अत उत्पत्ति-श्रुतिर् गौणीति। राद्धान्तस् तु--- वियद् उत्पद्यत एव, उत्पत्ति-श्रुतेः। अतीन्द्रियार्थ-विषयया श्रुत्याभिहितेऽर्थे निरवयवत्वादि-हेतुकꣳ नानुत्पत्त्य्-अनुमानम् उदेतुम् अलम्। आत्मनोऽप्य् अनुत्पत्ति-श्रुतेर् एव नित्यत्वम्, न निरवयवत्वादिना। सूत्रार्थस् तु--- न वियद् अश्रुतेः, वियन् नोत्पद्यते। कुतः। अश्रुतेः--- अश्रवणात्; असम्भावनीयस्य श्रवणासम्भवात्॥१॥
Link copied२१८। अस्ति तु॥२।३।२॥
Link copiedअस्ति तु वियत उत्पत्तिः, आत्मन आकाशः सम्मूतः, इति श्रुतेः; अतीन्द्रियार्थ-विषयया श्रुत्या प्रमाणान्तराप्रतिपन्न-वियद्-उत्पत्ति-प्रतिपादनꣳ सम्भवत्य् एव। नाग्निना सिञ्चेद् इतिवद् अयोग्यम् इत्य् अर्थः॥२॥
Link copied२१९। गौण्य्-असम्भवाच् छब्दाच् च॥२।३।३॥
Link copiedतत् तेजोऽसृजतेति प्रतिपन्न-तेजः-प्राथम्य-विरोधात् मध्ये वियद्-उत्पत्तिर् न सम्भवतीत्य् उत्पत्ति-श्रुतिर् गौणी, वायुश् चान्तरिक्षꣳ चैतद् अमृतम् इत्य् अमृतत्व-श्रवणाच् च॥३॥
Link copied२२०। स्याच् चैकस्य ब्रह्म-शब्दवत्॥२।३।४॥
Link copiedआकाशः सम्भूतः, आकाशाद् वायुः, वायोर् अग्निः, इत्य् आदिषु सर्वत्रानुषक्तस्यैकस्य सम्भूत-शब्दस्य आकाशे गौणत्वम्, वाय्व्-आदिषु मुख्यत्वꣳ च सम्भवति; ब्रह्म-शब्दवत्--- यथैकस्य ब्रह्म-शब्दस्यैक-प्रकरणे श्रूयमाणस्य, तस्माद् एतद् ब्रह्म नाम रूपम् अन्नꣳ च जायते, इति प्रधाने गौणत्वम्, तपसा चीयते ब्रह्म, इति ब्रह्मणि मुख्यत्वꣳ च। श्रवणावृत्ताव् इवानुषङ्गेऽप्य् अभिधानावृत्तेर् अनुषङ्गोऽपि तत्-तुल्य इत्य् अभिप्रायः॥४॥
Link copiedपरिहरति---
Link copied२२१। प्रतिज्ञा-हानिर् अव्यतिरेकात्॥२।३।५॥
Link copiedयेनाश्रुतꣳ श्रुतम् इति ब्रह्म-विज्ञानेनाकाशादि-सर्व-विज्ञान-प्रतिज्ञाया अहानिः, आकाशस्यापि ब्रह्मण उत्पत्त्या तद्-अव्यतिरेकाद् एव भवति॥५॥
Link copied२२२। शब्देभ्यः॥२।३।६॥
Link copiedइतश् च--- सद् एव सोम्येदम् अग्र आसीत्, ऐतदाम्यम् इदꣳ सर्वम्, इत्य् आदिभ्यो ब्रह्मणः प्राक्सृष्टेर् एकत्वावधारण-सर्वात्मकत्वादि-वादिभ्यः शब्देभ्यश् च वियद्-उत्पत्तिः प्रतीयते। तत् तेजोऽसृजत, इत्य् एतस्मिन् वाक्ये आकाशोत्पत्त्य्-अवचनात् प्रतीयमानꣳ तेजः-प्राथम्यꣳ समान-प्रकरण-स्थैः प्रकरणान्तर-स्थैश् च शब्दैः प्रतीयमानाꣳ वियद्-उत्पत्तिꣳ न निवारयतीत्य् अभिप्रायः॥६॥
Link copied२२३। यावद्-विकारꣳ तु विभागो लोकवत्॥२।३।७॥
Link copiedयद्य् अपि च्छान्दोग्ये--- तत् तेजोऽसृजतेतिवद् आकाशोत्पत्तिः स्वरूपेण नाभिधीयते तथापि तस्मिन्न् एव--- ऐतदात्म्यम् इदꣳ सर्वम् इत्य् आदिनाकाशादेः सर्वस्य वस्तुनो ब्रह्म-विकारत्व-वचनाद् यावद्-विकारꣳ विभागः--- उत्पत्तिर् उक्तैवेति गम्यते। लोकवत्--- यथा लोके सर्व एते देवदत्त-पुत्रा इत्य् अभिधाय तेषाꣳ केषाञ्चिद् देवदत्ताद् उत्पत्ति-वचनꣳ सर्वेषाꣳ तत उत्पत्ति-प्रतिपादनार्थम् इति गम्यते। आकाशस्यामृतत्व-वचनꣳ सुरादिवच् चिर-काल-स्थायित्व-विषयम् इत्य् अभिप्रायः॥७॥
Link copied२२४। एतेन मातरिश्वा व्याख्यातः॥२।३।८॥
Link copiedअनेनैव न्यायेन मातरिश्वनोऽप्य् उत्पत्तिर् उक्ता। नायꣳ न्यायातिदेशः, अधिकाशङ्काभावात्। तेजोऽतस् तथा ह्य् आह, इति वायोस् तेजस उत्पत्तिꣳ वक्तुꣳ पृथग् उपादानम्॥८॥
Link copied२२५। असम्भवस् तु सतोऽनुपपत्तेः॥२।३।९॥
Link copiedतु-शब्दोऽवधारणार्थः। सतः परम-कारणस्य परस्यैव ब्रह्मणः असम्भवः--- उत्पत्त्य्-असम्भवः। तद्-व्यतिरिक्तस्य कृत्स्नस्यैव एक-विज्ञानेनः सर्व-ज्ञान-प्रतिज्ञाद्य्-अनुपपत्तेः सम्भव उक्त इत्य् अभिप्रायः॥९॥ इति वियद्-अधिकरणम्॥१॥
Link copied२२६। तेजोऽतस् तथा ह्य् आह॥२।३।१०॥
Link copiedआकाशाद् वायुः, इत्य् आदि व्यवहित-कार्याणि किꣳ स्वानन्तराकाशादेः केवलाद् उत्पद्यन्ते, उत तत्-तच्-छरीरात् परस्माद् ब्रह्मणः, इति सꣳशयः। स्वानन्तराद् एवेति पूर्वः पक्षः--- आकाशाद् वायुर् वायोर् अग्निः, इति तस्मात् केवलाद् एवोत्पत्ति-श्रवणात्। एतस्माज् जायते प्राणः, इति परस्माद् ब्रह्मणः सर्वस्योत्पत्ति-वादः, परम्परयाप्य् उपपद्यते। राद्धान्तस् तु--- तत् तेज ऐक्षत बहु स्याम्, ता आप ऐक्षन्त, इति बहु-भवन-सङ्कल्प-पूर्वक-सृष्ट्य्-उपदेशात्। केवलस्य त्व् ईदृश-सङ्कल्पानुपपत्तेः, यस् तेजसि तिष्ठन् यस्य तेजः शरीरम् \॥॥ यस्याकाशः शरीरम्, इति सर्वेषाꣳ परब्रह्म-शरीरत्व-श्रवणाच् च तत्-तच्-छब्द-वाच्यात् परस्माद् ब्रह्मण एव साक्षात् तेजः-प्रभृतीनाम् अपि सृष्टिः। सूत्रार्थस् तु--- तेजोऽतस् तथाह्य् आह--- अतः--- वायोर् एव केवलाद् उत्पद्यते तेजः, तथा ह्य् आह श्रुतिः--- वायोर् अग्निर् इति॥१०॥
Link copied२२७। आपः॥२।३।११॥
Link copiedअतस् तथा ह्य् आहेत्य् अनुवर्तते। अतः--- तेजस एव केवलाद् आप उत्पद्यन्ते, अग्नेर् आपः, तद् अपोऽसृजत, इति ह्य् आह॥११॥
Link copied२२८। पृथिवीꣳ॥२।३।१२॥
Link copiedएवꣳ पृथिव्य् अप्य् उत्पद्यते, अद्भ्यः पृथिवी, ता अन्नम् असृजन्त, इति ह्य् आह॥१२॥
Link copiedअन्न-शब्देन कथꣳ पृथिव्य् अभिधीयत इत्य् अवगम्यते। तत्राह---
Link copied२२९। अधिकार-रूप-शब्दान्तरेभ्यः॥२।३।१३॥
Link copiedअन्न-शब्देन पृथिव्य् उच्यते, महाभूत-सृष्ट्य्-अधिकारात् पश्चाद् अपि महाभूत-रूप-सङ्कीर्तने, यत् कृष्णꣳ तद् अन्नस्येति रूप-कीर्तनात्, समान-प्रकरणे, अद्भ्यः पृथिवीति पृथिवी-शब्द-श्रवणाच् च॥१३॥
Link copied२३०। तद्-अभिध्यानाद् एव तु तल्-लिङ्गात् सः॥२।३।१४॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। न तेजः-प्रभृतयः केवलाः स्वानन्तराणाꣳ कारणानि; अपि तु तत्-तच्-छरीरः सः--- परमामैव तेषाꣳ कारणम्। कुतः। परमात्म-सृष्टि-लिङ्गात् तथाविधाभिध्यानात्। यथैव हि--- तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजतेति, तथैव--- तत् तेज ऐक्षत बहु स्याꣳ प्रजायेयेति बहु-भवन-सङ्कल्प-रूपाभिध्यानꣳ दृश्यते; ईदृशम् अभिध्यानꣳ परमात्मन एव हि सम्भवति॥१४॥
Link copied२३१। विपर्ययेण तु क्रमोऽत उपपद्यते च॥२।३।१५॥
Link copiedआकाशाद् वायुः, वायोर् अग्निर् इति पारम्पर्य-क्रमाद् विपर्ययेण--- एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, खꣳ वायुर् ज्योतिर् आपः पृथिवीः, इति सर्वेषाꣳ ब्रह्मानन्तर्य-रूपो यः क्रमः, स चात एव तत्-तच्-छरीराद् ब्रह्मणः सृष्टेर् उपपद्यते॥१५॥
Link copied२३२। अन्तरा विज्ञान-मनसी क्रमेण तल्-लिङ्गाद् इति चेन् नाविशेषात्॥२।३।१६॥
Link copiedविज्ञान-साधनत्वाद् इन्द्रियाणि प्राणश् च विज्ञानम् इत्य् उच्यते। एतस्माज् जायते प्राणः, इत्य् एतद् वाक्यम् आकाश-तन्मात्र-पञ्चकयोर् अन्तराले विज्ञान-मनसी क्रमेण उत्पद्येते इत्य् एतत् परम्। विज्ञान-मनसी, इति प्राणस्यापि प्रदर्शनार्थम्, पृथिव्य् अप्सु प्रलीयते इत्य् आरभ्य, वायुर् आकाशे लीयते आकाशम् इन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते, इति प्रलय-क्रम-प्रत्यभिज्ञानात् तल्-लिङ्गात्। अतो न श्रुत्य्-अन्तर-विरुद्धत्वात् साक्षाद् ब्रह्मणः सर्वेषाꣳ सृष्टि-परम् इदꣳ वाक्यम्। अपि तु श्रुत्य्-अन्तर-सिद्ध-पारम्पर्य-क्रम-परम् इति चेत्; परिहरति नाविशेषात्--- भूत-तन्मात्रान्तराले विज्ञान-मनसोर् उत्पत्ताव् अपि तत्-तच्-छरीरक-ब्रह्माभिधायित्वाद् भूतेन्द्रिय-मनः-प्राण-शब्दानाꣳ सर्वेषाꣳ साक्षाद् उत्पत्त्य्-अविशेषात् तत्-परम् एवेदꣳ वाक्यम्॥१६॥
Link copiedलोके तत्-तद्-वस्तु-वाचितया शब्द-जातस्य ब्रह्मणि वृत्तिर् अमुख्येत्य् आशङ्क्याह---
Link copied२३३। चराचरव्यपाश्रयस् तु स्यात् तद्-व्यपदेशोऽभाक्तस् तद्-भाव-भावित्वात्॥२।३।१७॥
Link copiedतु-शब्दः शङ्का-निवृत्त्य्-अर्थः। स्थावर-जङ्गम-वस्तु-व्यपाश्रयस् तद्-व्यपदेशस् तद्-वाचि-शब्दो ब्रह्मण्य् अभाक्तः--- मुख्य एव। कुतः। तद्-भाव-भावित्वात्--- तेजः-प्रभृतिष्व् आत्मतया ब्रह्म-भाव-भावित्वेन सर्वस्य वस्तुनस् तच्-छरीरतया तत्-प्रकारत्वात् तत्-तद्-वाचिनाꣳ शब्दानाꣳ तत्रैव पर्यवसनात्। प्रकार-वाचिनाꣳ शब्दानाꣳ प्रकारि-पर्यवसायित्वेनाभाक्तत्वꣳ गवादि-शब्देषु सिद्धम्॥१७॥ इति तेजो-ऽधिकरणम्॥२॥
Link copied२३४। नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः॥२।३।१८॥
Link copiedकिम् आत्मोत्पद्यते, न वेति सꣳशयः। उत्पद्यत इति पूर्वः पक्षः। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञादेः, तोयेन जीवान् व्यससर्ज भूम्याम्, प्रजापतिः प्रजा असृजत, इत्य् आदि सृष्टि-वचनाच् च; नित्यादि-श्रुतिर् आकाशाद्य्-अमृतत्व-वचनवन् नेया। राद्धान्तस् तु--- नात्मोत्पद्यते, अनुत्पत्ति-श्रुतेः। न जायते म्रियते वा विपश्चित्, इति जीवोत्पत्तिर् निषिध्यते; अजो नित्यः, नित्यो नित्यानाम् इत्य् आदि श्रुतिभ्यो नित्यत्वावगमात्। जीवोत्पत्ति-पक्षे अकृताभ्यागम-कृत-विप्रणाशादि-प्रसङ्गात्, वैषम्य-नैर्घृण्य-प्रसङ्गाच् च। जीवस्य सृष्टि-वचनꣳ भोक्तृत्वानुगुण-ज्ञान-विकासाभिप्रायम्। प्राक् सृष्टेर् एकत्वावधारणाद् अविभाग-वचनꣳ नाम-रूप-विभागाभावाभिप्रायम्। सूत्रम् अपि व्याख्यातम्॥१८॥ इत्य् आत्माधिकरणम्॥३॥
Link copied२३५। ज्ञोऽत एव॥२।३।१९॥
Link copiedकिꣳ जीवश् चैतन्य-मात्र-वपुः, उत जड-स्वरूप एवागन्तुक-चैतन्य-गुणः, उत ज्ञातृत्वैक-स्वरूप इति सꣳशयः। चैतन्य-मात्र-वपुर् इति प्रथमः पक्षः। विज्ञानꣳ यज्ञꣳ तनुते, यो विज्ञाने तिष्ठन्, ज्ञान-स्वरूपम् अत्यन्त-निर्मलम्, इत्य् आदि श्रुति-स्मृतिभ्यः। द्वितीयस् तु--- सुषुप्ति-मूर्च्छादिषु सतोऽप्य् आत्मनश् चैतन्यानुपलब्धेः, जाग्रतोऽपीन्द्रिय-व्यापारान्वय-व्यतिरेकानुविधायित्वाच् चैतन्यस्य, न प्रेत्य सꣳज्ञास्तीति मुक्तस्य चैतन्य-प्रतिषेधाच् च, पाषाण-कल्प एवागन्तुक-चैतन्य-गुणः। सर्वत्र कार्योपलब्धेः सर्वत्र सन्निधानात्, शरीर-गमनेनैव काय-सम्भवे गति-कल्पनायोगात्, सर्व-गतश् चेति। राद्धान्तस् तु--- अथ यो वेदेदꣳ जिघ्राणीति स आत्मा मनसैतान् कामान् पश्यन् रमते, न पश्यो मृत्युꣳ पश्यति, सर्वꣳ ह पश्यः पश्यति, द्रष्टा श्रोता घ्राता रसयिता, इत्य् आदि श्रुतिभ्यो बद्ध-मुक्तोभयावस्थो ज्ञातैवात्मा। ज्ञान-मात्र-व्यपदेशस् तु ज्ञानस्य प्रधान-गुणत्वात्, स्वरूपानुबन्धित्वेन स्वरूप-निरूपक-गुणत्वात्, आत्म-स्वरूपस्य ज्ञानवत् स्व-प्रकाशत्वाद् वोपपद्यते। सुषुप्ति-मूर्च्छादौ सद् एव ज्ञानꣳ कर्मणा सङ्कुचितम् अनभिव्यक्तम् अपि जागरादौ विकसितम् अभिव्यज्यत इति न विरोधः। न प्रेत्य सꣳज्ञास्तीति साꣳसारिक-देहाद्य्-अस्मरण-विषयम्, नोपजनꣳ स्मरन्न् इदꣳ शरीरम् इत्य् आदिनैकार्थ्यात्। सर्व-गतत्वꣳ त्व् अणुत्व-गत्य्-आदि-श्रुति-विरुद्धम्। सूत्रार्थस् तु--- ज्ञोऽत एव। अतः--- श्रुतेर् ज्ञातैव॥१९॥
Link copied२३६। उत्क्रान्ति-गत्य्-आगतीनाम्॥२।३।२०॥
Link copiedश्रुतेर् इति वर्तते। तेन प्रद्योतेनैष आत्मा निष्क्रामति--- ये वै केचास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति--- तस्माल् लोकात् पुनर् एत्य् अस्मै लोकाय कर्मणे, इत्य् आद्य् उत्क्रान्ति-गत्य्-आगतीनाꣳ श्रवणाद् अणुर् जीवः॥२०॥
Link copied२३७। स्वात्मना चोत्तरयोः॥२।३।२१॥
Link copiedच-शब्दोऽवधारणार्थः। यद्य् अप्य् उत्क्रान्तौ स्थितस्य शरीर-विश्लेषेण कथञ्चित् सम्पाद्यत्वम् अस्ति; उत्तरयोः--- गमनागमनयोस् तु स्वात्मनैव सम्पाद्यत्वम् अवश्याभ्युपेयम्॥२१॥
Link copied२३८। नाणुर् अतच् छ्रुतेर् इति चेन् नेतराधिकारात्॥२।३।२२॥
Link copiedयोऽयꣳ विज्ञान-मय इति जीवꣳ प्रस्तुत्य, स वा एष महान् अज आत्मा, इति महत्व-श्रुतेर् नाणुर् जीव इति चेन् न; इतराधिकारात्--- जीवेतर-परमात्माधिकारात्, यस्यानुवित्तः प्रतिबुद्ध आत्मा, इति हि मध्ये परमात्मा प्रस्तुतः॥२२॥
Link copied२३९। स्व-शब्दोन्मानाभ्याꣳ च॥२।३।२३॥
Link copiedएषोऽणुरात्मा चेतसा वेदितव्यः यस्मिन् प्राणः पञ्चधा सꣳविवेशेति साक्षाद् अणु-शब्दाद् अणुर् एवायम्। उन्मानाच् चाणुर् एव। उन्मानम्--- उद्धृत्य मानम्। आराग्र-मात्रो ह्य् अवरोऽपि दृष्टः, इत्य् आराग्रम् उद्धृत्य तन्-मानत्वꣳ हि जीवस्य श्रूयते॥२३॥
Link copiedआत्मनोऽणुपरिमाणस्य सकल-देहव्यापि सुखाद्य्-अनुभवः कथम् इत्य् अत्र मतान्तरेण परिहारमाह---
Link copied२४०। अविरोधश् चन्दनवत्॥२।३।२४॥
Link copiedयथा हरि-चन्दन-बिन्दुः देहैक-देश-वर्त्य् अपि सकल-देह-वर्तिनम् आह्लादꣳ जनयति, तद्वद् अविरोधः॥२४॥
Link copied२४१। अवस्थिति-वैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि॥२।३।२५॥
Link copiedचन्दन-बिन्दोर् दैहैक-देश-विशेष-स्थित्य्-अपेक्षस् तथाभावः; आत्मनस् तु न तथेति चेन् न, आत्मनोऽपि तथाभावाभ्युपगमात्; हृदि ह्य् अयम् आत्मा स्थित इति श्रूयते--- योऽयꣳ विज्ञान-मयः प्राणेषु हृद्य् अन्तर् ज्योतिर् इत्य् आदौ॥२५॥
Link copiedस्व-मतेनाह---
Link copied२४२। गुणाद् वालोकवत्॥२।३।२६॥
Link copiedवा-शब्दो मतान्तर-व्यावृत्त्य्-अर्थः। आत्मा स्व-गुणेन ज्ञानेन सकल-देहꣳ व्याप्यावस्थितः; यथा द्यु-मणि-मणि-प्रभृतीनाम् एकदेश-वर्तिनाम् आलोकः तद्-गुणः अनेक-देश-व्यापी दृश्यते॥२६॥
Link copiedविज्ञानꣳ यज्ञꣳ तनुते, इत्य् आदी ज्ञानम् एवात्मेति व्यपदिश्यत इति चेत्; तत्राह---
Link copied२४३। व्यतिरेको गन्धवत् तथा च दर्शयति॥२।३।२७॥
Link copiedजानामीत्य् आत्म-गुणत्वेन प्रतीतेर् व्यतिरेकोऽभ्युपगमनीयः। यथा गन्धवती पृथिवी इत्य् उपलब्धौ गन्धस् तद्-गुणस् तद्-व्यतिरिक्तः। दर्शयति च श्रुतिः--- जानात्व् एवायꣳ पुरुष इति॥२७॥
Link copied२४४। पृथग् उपदेशात्॥२।३।२८॥
Link copiedन केवलꣳ जानामीति पृथग्-उपलब्धि-मात्रम्; आत्मनः पृथक्त्वेनोपदिश्यते च ज्ञानम्--- न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते, इति॥२८॥
Link copiedविज्ञानम् आत्मेति व्यपदेशः कथम् उपपद्यत इत्य् अत्राह---
Link copied२४५। तद्-गुण-सारत्वात् तु तद्-व्यपदेशः प्राज्ञवत्॥२।३।२९॥
Link copiedज्ञान-गुण-सारत्वाद् आत्मनो ज्ञानम् इति व्यपदेशः; यथा प्राज्ञः--- ब्रह्मणा विपश्चिता, यः सर्व-ज्ञः सर्व-वित्, इति सर्व-ज्ञ एव ज्ञान-गुण-सारत्वात्, सत्यꣳ ज्ञानम् इति व्यपदिश्यते॥२९॥
Link copied२४६। यावद्-आत्म-भावित्वाच् च न दोषस् तद्-दर्शनात्॥२।३।३०॥
Link copiedज्ञानस्य यावद्-आत्म-स्वरूप-भावित्वाच् च तेन तद्-व्यपदेशो न दोषः, खण्डादिषु तथा दर्शनात्; खण्डादिषु हि यावत्-स्वरूप-भावि-धर्मत्वेन गोत्वस्य गौर् इति व्यपदेशो दृश्यते; च-काराद् आत्मनः स्व-प्रकाशत्वेन ज्ञानम् इति व्यपदे(शे)शो न दोष इत्य् उच्यते॥३०॥
Link copiedसुषुप्त्य्-आदिषु ज्ञानस्यानुपलब्धेर् न यावद्-आत्म-भावित्वम् इत्य् आशङ्क्याह---
Link copied२४७। पुꣳस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात्॥२।३।३१॥
Link copiedतु-शब्दः शङ्का-निवृत्त्य्-अर्थः; सुषुप्त्य्-आदिष्व् अपि सतो ज्ञानस्यानभिव्यक्तस्य जागर्य्-आदिष्व् अभिव्यक्ति-सम्भवाद् यावद्-आत्म-भाव्येव ज्ञानम्। पुꣳस्त्वादिवत्--- पुꣳस्त्वम् इति पुरुषासाधारण-धातुर् उच्यते; यथा सप्त-धातु-मयत्वेन शरीरस्य पुꣳस्त्वस्य बाल्येऽपि सतोऽनभिव्यक्तस्य सप्तम-धातोर् युवत्वेऽभिव्यक्तिः॥३१॥
Link copiedएवम् आत्मनो ज्ञातृत्वम् अणुत्वꣳ चोक्त्वा पक्षान्तरे दोषम् आह---
Link copied२४८। नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा॥२।३।३२॥
Link copiedअन्यथा--- ज्ञानात्म-वादे सर्व-गतात्म-वादे चोपलब्ध्य्-अनुपलब्धी नित्यवत् प्रसज्येयाताम्; उपलब्ध्य्-अनुपलब्ध्योर् अन्यतर-नियमो वा। ज्ञानात्मपक्षे तावज् ज्ञानस्य प्रकाश-स्वभावत्वात् प्रकाश-पर्यायोपलब्धेर् नित्यवत् प्रसक्तिर् अनिवार्या। ज्ञाने विद्यमाने सति हेत्व्-अन्तरेणानुपलब्धि-जननायोगाज् ज्ञानम् एवानुपलब्धेर् अपि हेतुर् इत्य् आस्थेयम्। ज्ञानस्य सर्वदा वर्तमानत्वात् सर्वदोभय-प्रसक्तिः। अथ युगपद्-विरुद्ध-कार्य-जननायोगाज् ज्ञानम् उपलब्ध्य्-अनुपलब्ध्योर् अन्यतर-हेतुर् आस्थीयते, तदान्यतर-नियमः स्यात्। सर्व-गतत्व-पक्षे यथा ज्ञानात्म-वादिनाम्, तथैव हेतु-जन्य-ज्ञान-वादिनोऽपि सर्वेषाम् आत्मनाꣳ सर्व-गतत्वे सर्वस्यात्मनः सꣳयोगादेर् हेतोः सर्वेषाꣳ साधारणत्वाद् उक्त-रीत्या तथैव प्रसक्तिः। अदृष्टोत्पत्ति-हेतोर् अपि सर्वस्य साधारणत्वाद् अदृष्टेनापि न व्यवस्था॥३२॥ इति ज्ञाधिकरणम्॥४॥
Link copied२४९। कर्ता शास्त्रार्थवत्त्वात्॥२।३।३३॥
Link copiedआत्मनो ज्ञातृत्ववत् कर्तृत्वम् अप्य् अस्ति, नेति सꣳशयः। प्रधानस्यैव कर्तृत्वाद् आत्मनो न कर्तृत्वम् अस्तीति पूर्वः पक्षः। अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते, नान्यꣳ गुणेभ्यः कर्तारम्, इत्य् आदिषु गुणानाम् एव कर्तृत्व-वचनात्। राद्धान्तस् तु--- स्वर्गापवर्ग-साधनानुष्ठान-विधान-शास्त्राणाम् अर्थवत्त्वाय कर्तैवात्मा, बोद्धुर् एव हि शासनम्; नाचेतनस्य प्रधानस्य। यजेत, उपासीतेति कर्तरि लकारः। अतः कर्तारम् एव बोधयति शास्त्रम्। सूत्रम् अपि व्याख्यातम्॥३३॥
Link copied२५०। उपादानाद् विहारोपदेशाच् च॥२।३।३४॥
Link copiedउपादानाद् उपदिश्यमानात्, विहारोपदेशाच् च। उपदिश्यते उपादानꣳ, विहारश् च, एवम् एवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामꣳ परिवर्तते, इत्य् उपादान-विहारयोः कर्तृत्वोपदेशाच् च कर्ता॥३४॥
Link copied२५१। व्यपदेशाच् च क्रियायाꣳ न चेन् निर्देश-विपर्ययः॥२।३।३५॥
Link copiedविज्ञानꣳ यज्ञꣳ तनुते कर्मणि तनुतेऽपि चेति यज्ञादि-कर्मस्व् आत्मनः कर्तृत्वोपदेशाच् च कर्ता। विज्ञान-शब्देन नात्मनो व्यपदेशः, अपि त्व् अन्तःकरण-रूप-बुद्धेर् एवेति चेत्--- तथा सति विज्ञानेनेति करण-विभक्ति-निर्देशः स्यात्॥३५॥
Link copied२५२। उपलब्धिवद् अनियमः॥२।३।३६॥
Link copiedप्रधानस्य कर्तृत्वेन आत्मनो भोक्तृत्वम् इति पक्षे पूर्वोक्तोपलब्ध्य्-अनियमवत् प्रधानस्य सर्व-साधारणत्वाद् भोक्तृत्वानियमः। अन्तःकरण-भेदेऽपि सर्वेषाम् आत्मनाꣳ सर्व-गतत्वेन साधारण्यम् अनिवार्यम्॥३६॥
Link copied२५३। शक्ति-विपर्ययात्॥२।३।३७॥
Link copiedबुद्धेः कर्तृत्वे कर्तुर् अन्यस्य भोक्तृत्वायोगाद् भोक्तृत्व-शक्तिर् अपि बुद्धेर् एवेत्य् आत्मनो भोक्तृत्व-शक्ति-विपर्ययः--- हानिर् इत्य् अर्थः॥३७॥
Link copied२५४। समाध्यभावाच् च॥२।३।३८॥
Link copiedप्रकृतेः कर्तृत्वे मोक्ष-साधन-भूत-समाध्य्-अभावश् च स्यात्; प्रकृतेर् अन्योस्मीति समाधाने प्रकृतेः कर्तृत्वायोगात्॥३८॥
Link copied२५५। यथा च तक्षोभयथा॥२।३।३९॥
Link copiedआत्मनः कर्तृत्वे(ऽपि) भोग-वाञ्छायाꣳ करोति, अन्यथा न करोतीत्य् उभय-प्रकार-व्यवस्थोपपद्यते; यथा तक्षा स्व-कार्ये इच्छया व्यवस्थितः। बुद्धेः कर्तृत्वे अचेतनत्वेन स्वेच्छाया अभावाद् व्यवस्था न सिध्यतीत्य् अभिप्रायः॥३९॥ इति कर्त्रधिकरणम्॥५॥
Link copied२५६-२५७। परात् तु तच्-छ्रुतेः॥२।३।४०॥
Link copiedकृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः॥२।३।४१॥
Link copiedइदानीꣳ जीवस्य कर्तृत्वꣳ किꣳ परमात्मायत्तम्, उत स्वायत्तम् इति सꣳशयः। स्वायत्तम् इति पूर्वः पक्षः, विधि-निषेध-शास्त्रानर्थक्यापत्तेः। यः स्व-बुद्ध्यैव प्रवृत्ति-निवृत्ति-शक्तः, स एव हि नियोज्यो निग्रहानुग्रहास्पदꣳ च भवतीति। राद्धान्तस् तु--- अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा, य आत्मानम् अन्तरो यमयति इत्य् आदि श्रुतेः परमात्मायत्तम् एव कर्तृत्वम्; तच् च जीवेन स्व-बुद्ध्या कृतꣳ प्रयत्नम् अपेक्ष्य तद्-अनुमति-दानेनेति विधि-निषेधावैयर्थ्यम्। अत एव निग्रहानुग्रहास्पदꣳ च। सूत्र-द्वयम् अपि व्याख्यातम्॥४०-४१॥ इति परायत्ताधिकरणम्॥६॥
Link copied२५८। अꣳशो नाना-व्यपदेशाद् अन्यथा चापि दाश-कितवादित्वम् अधीयत एके॥२।३।४२॥
Link copiedकिꣳ जीवः परमात्मनोऽत्यन्त-भिन्नः, उत परमात्मैवाज्ञः, अथ परमात्मैवोपाधि-सम्बद्धः, परमात्माꣳशो वेति सꣳशयः। अत्यन्त-भिन्नः--- इति प्रथमः पक्षः, पृथगात्मानꣳ प्रेरितारꣳ च मत्त्वा, तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, सर्वस्य वशी सर्वस्येशानः, इत्य् आदि भेद-श्रुतेः, जीव-परमात्मनोः कर्म-परतन्त्रता-तद्-विपरीतत्व-श्रुतेश् च; अभेद-श्रुतयो नरपतिर् एव सर्व-लोक इतिवद् औपचारिक्यः, इति। भेद-श्रुतीनाम् अविद्वद्-विषयतया वा उपाधि-सम्बन्ध-विषयतया वा अमुख्य-वृत्ति-सम्भवाद् अभेद-श्रुति-मुख्यत्वाय अज्ञः परमात्मा, उपाधि-सम्बद्धो वा जीवः, इति युक्तम्। राद्धान्तस् तु--- नानात्त्वैकत्व-व्यपदेशात् परमात्मनः सत्य-सङ्कल्पत्व-सर्वज्ञत्व-निरवद्यत्व-श्रुतेर् अज्ञत्वोपाधि-सम्बन्धाद्य्-अनुपपत्तेर् जीव-शब्दस्य जीव-शरीरक-परमात्म-वाचित्वेन तत् त्वम् असि, अयम् आत्मा ब्रह्मेति सामानाधिकरण्यस्य मुख्यत्वाच् छरीर-शरीरिणोर् विशेष्य-भूतयोः स्वरूप-स्वभाव-भेदेन च भेद-श्रुतेश् च मुख्यत्वाद् विशिष्ट-वस्त्व्-एकदेशतया च विशेषणस्य परमात्माꣳशो जीवः। जीव-शरीरत्वꣳ च परमात्मनः, यस्यात्मा शरीरम् इत्य् आदिषु सिद्धम्। सूत्रार्थस् तु--- अꣳशः, परमात्माꣳशो जीवः, नाना-व्यपदेशात्--- भेद-व्यपदेशात्, अन्यथा च--- अभेद-व्यपदेशाच् च; उक्त-नीत्या उभय-मुख्यत्वायेत्य् अभिप्रायः। दाश-कितवादित्वम् अप्य् अधीयत एके, ब्रह्म दाशा ब्रह्म दासाः, इत्य् आदिना दाश-कितवादित्वम् अप्य् अधीयत एके शाखिनः; सर्व-जीव-व्यापित्वाद् अभेदोपदेशस्य तत्रात्यादरः प्रतीयत इत्य् अर्थः॥४२॥
Link copied२५९। मन्त्र-वर्णात्॥२।३।४३॥
Link copiedमन्त्र-वर्णाच् चाꣳश एव जीवः, पादोऽस्य विश्वा भूतानीति; पाद-शब्दोऽꣳश-वाची॥४३॥
Link copied२६०। अपि स्मर्यते॥२।३।४४॥
Link copiedममैवाꣳशो जीव-लोके जीव-भूतः सनातनः, इति जीवस्य परमात्माꣳशत्वꣳ स्मर्यते च॥४४॥
Link copiedएक-द्रव्यैकदेशत्वꣳ ह्य् अꣳशत्वम्; अतो जीवस्य ब्रह्मैकदेशत्वेन जीव-दोषा ब्रह्मणो दोषा एवेत्य् आशङ्क्याह---
Link copied२६१। प्रकाशादिवत् तु नैवꣳ परः॥२।३।४५॥
Link copiedतु-शब्दः शङ्का-निवृत्त्य्-अर्थः; प्रकाशवताꣳ मणि-द्यु-मणि-प्रभृतीनाꣳ प्रकाश-विशिष्टानाꣳ विशेषण-भूतः प्रकाशो यथाꣳशः, तद्वज्-जीव-शरीरतया जीव-विशिष्टस्य ब्रह्मणोऽꣳशो जीवः। विशिष्ट-वस्त्व्-ऐकदेशतया विशेषणस्य, विशेषणꣳ विशिष्टस्याꣳशः। आदि-शब्दाद् द्रव्य-विशेषणतैक-स्वभाव-जाति-गुण-शरीराणि गृह्यन्ते। विशेषण-विशेष्ययोः स्वरूप-स्वभाव-भेदाद् विशेषण-भूतो जीवो यत् स्वरूपो यत् स्वभावश् च, नैवꣳ परः--- सर्व-ज्ञः सत्य-सङ्कल्पो नित्य-निरवद्यश् चेत्य् अर्थः॥४५॥
Link copied२६२। स्मरन्ति च॥२।३।४६॥
Link copiedप्रकाशादिवज् जीवस्याꣳशत्वꣳ पराशरादयः स्मरन्ति--- एकदेश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलꣳ जगत्॥ तथा परꣳ प्रतिशरीरत्वꣳ च, यत् किञ्चित् सृज्यते येन सत्त्व-जातेन वै द्विज। तस्य सृज्यस्य सम्भूतौ तत् सर्वꣳ वै हरेस् तनुः, इति॥४६॥
Link copiedब्रह्माꣳशत्वेन च सर्वेषाम् आत्मनाꣳ समत्वाद् वेदाध्ययनादौ केषाञ्चिद् अनुज्ञा, केषाञ्चित् परिहारश् च कथम् उपपद्यत इत्य् अत्राह---
Link copied२६३। अनुज्ञा-परिहारौ देह-सम्बन्धाज् ज्योतिर्-आदिवत्॥२।३।४७॥
Link copiedब्राह्मणादि-शुच्य्-अशुचि-देह-सम्बन्धाद् अनुज्ञा-परिहारौ उपपद्येते, ज्योतिर्-आदिवत्। ज्योतिः--- अग्निः, यथा श्रोत्रियागाराद् अग्निर् आह्रियते, श्मशानादेस् तु परिह्रियते; यथा चान्नादिः श्रोत्रियादेर् अनुज्ञायते, अभिशस्तादेश् च परिह्रियते, तद्वत्॥४७॥
Link copied२६४ असन्ततेश् चाव्यतिकरः॥२।३।४८॥
Link copiedजीवानाꣳ प्रतिशरीरꣳ भिन्नत्वादणुत्वेन तत्र तत्रावच्छिन्नत्वाच् च न भोग-व्यतिकरश् च। अज्ञ-ब्रह्म-जीव-वादे चोपहित-ब्रह्म-जीव-वादे चाज्ञान-सम्बन्धि चोपाधिसम्बन्धि च ब्रह्मैवेति भोग-व्यवस्था न सिद्ध्यतीत्य् अभिप्रायः॥४८॥
Link copied२६५। आभासा एव च॥२।३।४९॥
Link copiedअज्ञ-ब्रह्म-जीव-वादे सर्व-ज्ञस्य ब्रह्मणः अज्ञान-कल्पन-स्वरूप-तिरोधान-कल्पना-हेतव आभासा एव। च-कारान् निरवद्यत्वादि-श्रुति-विरोधश् च॥४९॥
Link copiedपारमार्थिकोपाधि-सम्बन्धि-ब्रह्म-जीव-वादे अनाद्य्-अदृष्ट-प्रवाहेणोपाधि-प्रवाहानादित्वात् तत्-सम्बन्धिनि ये दोषाः, न ते ब्रह्मणि प्रसज्यन्त इत्य् अत्राह---
Link copied२६६। अदृष्टानियमात्॥२।३।५०॥
Link copiedअदृष्टैस् तत्-कृतोपाधिभिश् च ब्रह्मणश् छेदासम्भवात् तत्-कृता दोषा ब्रह्मण्य् एव सम्भवेयुः॥५०॥
Link copied२६७। अभिसन्ध्यादिष्व् अपि चैवम्॥२।३।५१॥
Link copiedअदृष्ट-हेतु-भूताभिसन्ध्यादिष्व् अप्य् उपाधि-ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तराभावात् पूर्व-पूर्वोपाधि-युक्तꣳ ब्रह्मैवेति न कश्चिद् विशेषः॥५१॥
Link copied२६८। प्रदेश-भेदाद् इति चेन् नान्तर्भावात्॥२।३।५२॥
Link copiedउपाधि-सम्बन्धि-ब्रह्म-प्रदेशाद् अनुपहित-ब्रह्म-देशो भिद्यते; अतो व्यवस्थेति चेन् न, उपाधिषु गच्छत्सु पूर्वम् अनुपहित-ब्रह्म-प्रदेशस्याप्य् अन्तर्भावात्॥५२॥ इत्य् अꣳशाधिकरणम्॥७॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य तृतीयः पादः॥
Link copied౨౧౭। న వియద్ అశ్రుతేః॥౨।౩।౧॥
Link copiedవియద్ ఉత్పద్యతే నేతి సṁశయః। నోత్పద్యతే ఇతి పూర్వః పక్షః, నిరవయవస్య సర్వ-గతస్యాత్మన ఇవోత్పత్త్య్-అసమ్భవాత్। అసమ్భావనీయస్య శ్రవణṁ చ న సమ్భవతి। అత ఉత్పత్తి-శ్రుతిర్ గౌణీతి। రాద్ధాన్తస్ తు--- వియద్ ఉత్పద్యత ఏవ, ఉత్పత్తి-శ్రుతేః। అతీన్ద్రియార్థ-విషయయా శ్రుత్యాభిహితేఽర్థే నిరవయవత్వాది-హేతుకṁ నానుత్పత్త్య్-అనుమానమ్ ఉదేతుమ్ అలమ్। ఆత్మనోఽప్య్ అనుత్పత్తి-శ్రుతేర్ ఏవ నిత్యత్వమ్, న నిరవయవత్వాదినా। సూత్రార్థస్ తు--- న వియద్ అశ్రుతేః, వియన్ నోత్పద్యతే। కుతః। అశ్రుతేః--- అశ్రవణాత్; అసమ్భావనీయస్య శ్రవణాసమ్భవాత్॥౧॥
Link copied౨౧౮। అస్తి తు॥౨।౩।౨॥
Link copiedఅస్తి తు వియత ఉత్పత్తిః, ఆత్మన ఆకాశః సమ్మూతః, ఇతి శ్రుతేః; అతీన్ద్రియార్థ-విషయయా శ్రుత్యా ప్రమాణాన్తరాప్రతిపన్న-వియద్-ఉత్పత్తి-ప్రతిపాదనṁ సమ్భవత్య్ ఏవ। నాగ్నినా సిఞ్చేద్ ఇతివద్ అయోగ్యమ్ ఇత్య్ అర్థః॥౨॥
Link copied౨౧౯। గౌణ్య్-అసమ్భవాచ్ ఛబ్దాచ్ చ॥౨।౩।౩॥
Link copiedతత్ తేజోఽసృజతేతి ప్రతిపన్న-తేజః-ప్రాథమ్య-విరోధాత్ మధ్యే వియద్-ఉత్పత్తిర్ న సమ్భవతీత్య్ ఉత్పత్తి-శ్రుతిర్ గౌణీ, వాయుశ్ చాన్తరిక్షṁ చైతద్ అమృతమ్ ఇత్య్ అమృతత్వ-శ్రవణాచ్ చ॥౩॥
Link copied౨౨౦। స్యాచ్ చైకస్య బ్రహ్మ-శబ్దవత్॥౨।౩।౪॥
Link copiedఆకాశః సమ్భూతః, ఆకాశాద్ వాయుః, వాయోర్ అగ్నిః, ఇత్య్ ఆదిషు సర్వత్రానుషక్తస్యైకస్య సమ్భూత-శబ్దస్య ఆకాశే గౌణత్వమ్, వాయ్వ్-ఆదిషు ముఖ్యత్వṁ చ సమ్భవతి; బ్రహ్మ-శబ్దవత్--- యథైకస్య బ్రహ్మ-శబ్దస్యైక-ప్రకరణే శ్రూయమాణస్య, తస్మాద్ ఏతద్ బ్రహ్మ నామ రూపమ్ అన్నṁ చ జాయతే, ఇతి ప్రధానే గౌణత్వమ్, తపసా చీయతే బ్రహ్మ, ఇతి బ్రహ్మణి ముఖ్యత్వṁ చ। శ్రవణావృత్తావ్ ఇవానుషఙ్గేఽప్య్ అభిధానావృత్తేర్ అనుషఙ్గోఽపి తత్-తుల్య ఇత్య్ అభిప్రాయః॥౪॥
Link copiedపరిహరతి---
Link copied౨౨౧। ప్రతిజ్ఞా-హానిర్ అవ్యతిరేకాత్॥౨।౩।౫॥
Link copiedయేనాశ్రుతṁ శ్రుతమ్ ఇతి బ్రహ్మ-విజ్ఞానేనాకాశాది-సర్వ-విజ్ఞాన-ప్రతిజ్ఞాయా అహానిః, ఆకాశస్యాపి బ్రహ్మణ ఉత్పత్త్యా తద్-అవ్యతిరేకాద్ ఏవ భవతి॥౫॥
Link copied౨౨౨। శబ్దేభ్యః॥౨।౩।౬॥
Link copiedఇతశ్ చ--- సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీత్, ఐతదామ్యమ్ ఇదṁ సర్వమ్, ఇత్య్ ఆదిభ్యో బ్రహ్మణః ప్రాక్సృష్టేర్ ఏకత్వావధారణ-సర్వాత్మకత్వాది-వాదిభ్యః శబ్దేభ్యశ్ చ వియద్-ఉత్పత్తిః ప్రతీయతే। తత్ తేజోఽసృజత, ఇత్య్ ఏతస్మిన్ వాక్యే ఆకాశోత్పత్త్య్-అవచనాత్ ప్రతీయమానṁ తేజః-ప్రాథమ్యṁ సమాన-ప్రకరణ-స్థైః ప్రకరణాన్తర-స్థైశ్ చ శబ్దైః ప్రతీయమానాṁ వియద్-ఉత్పత్తిṁ న నివారయతీత్య్ అభిప్రాయః॥౬॥
Link copied౨౨౩। యావద్-వికారṁ తు విభాగో లోకవత్॥౨।౩।౭॥
Link copiedయద్య్ అపి చ్ఛాన్దోగ్యే--- తత్ తేజోఽసృజతేతివద్ ఆకాశోత్పత్తిః స్వరూపేణ నాభిధీయతే తథాపి తస్మిన్న్ ఏవ--- ఐతదాత్మ్యమ్ ఇదṁ సర్వమ్ ఇత్య్ ఆదినాకాశాదేః సర్వస్య వస్తునో బ్రహ్మ-వికారత్వ-వచనాద్ యావద్-వికారṁ విభాగః--- ఉత్పత్తిర్ ఉక్తైవేతి గమ్యతే। లోకవత్--- యథా లోకే సర్వ ఏతే దేవదత్త-పుత్రా ఇత్య్ అభిధాయ తేషాṁ కేషాఞ్చిద్ దేవదత్తాద్ ఉత్పత్తి-వచనṁ సర్వేషాṁ తత ఉత్పత్తి-ప్రతిపాదనార్థమ్ ఇతి గమ్యతే। ఆకాశస్యామృతత్వ-వచనṁ సురాదివచ్ చిర-కాల-స్థాయిత్వ-విషయమ్ ఇత్య్ అభిప్రాయః॥౭॥
Link copied౨౨౪। ఏతేన మాతరిశ్వా వ్యాఖ్యాతః॥౨।౩।౮॥
Link copiedఅనేనైవ న్యాయేన మాతరిశ్వనోఽప్య్ ఉత్పత్తిర్ ఉక్తా। నాయṁ న్యాయాతిదేశః, అధికాశఙ్కాభావాత్। తేజోఽతస్ తథా హ్య్ ఆహ, ఇతి వాయోస్ తేజస ఉత్పత్తిṁ వక్తుṁ పృథగ్ ఉపాదానమ్॥౮॥
Link copied౨౨౫। అసమ్భవస్ తు సతోఽనుపపత్తేః॥౨।౩।౯॥
Link copiedతు-శబ్దోఽవధారణార్థః। సతః పరమ-కారణస్య పరస్యైవ బ్రహ్మణః అసమ్భవః--- ఉత్పత్త్య్-అసమ్భవః। తద్-వ్యతిరిక్తస్య కృత్స్నస్యైవ ఏక-విజ్ఞానేనః సర్వ-జ్ఞాన-ప్రతిజ్ఞాద్య్-అనుపపత్తేః సమ్భవ ఉక్త ఇత్య్ అభిప్రాయః॥౯॥ ఇతి వియద్-అధికరణమ్॥౧॥
Link copied౨౨౬। తేజోఽతస్ తథా హ్య్ ఆహ॥౨।౩।౧౦॥
Link copiedఆకాశాద్ వాయుః, ఇత్య్ ఆది వ్యవహిత-కార్యాణి కిṁ స్వానన్తరాకాశాదేః కేవలాద్ ఉత్పద్యన్తే, ఉత తత్-తచ్-ఛరీరాత్ పరస్మాద్ బ్రహ్మణః, ఇతి సṁశయః। స్వానన్తరాద్ ఏవేతి పూర్వః పక్షః--- ఆకాశాద్ వాయుర్ వాయోర్ అగ్నిః, ఇతి తస్మాత్ కేవలాద్ ఏవోత్పత్తి-శ్రవణాత్। ఏతస్మాజ్ జాయతే ప్రాణః, ఇతి పరస్మాద్ బ్రహ్మణః సర్వస్యోత్పత్తి-వాదః, పరమ్పరయాప్య్ ఉపపద్యతే। రాద్ధాన్తస్ తు--- తత్ తేజ ఐక్షత బహు స్యామ్, తా ఆప ఐక్షన్త, ఇతి బహు-భవన-సఙ్కల్ప-పూర్వక-సృష్ట్య్-ఉపదేశాత్। కేవలస్య త్వ్ ఈదృశ-సఙ్కల్పానుపపత్తేః, యస్ తేజసి తిష్ఠన్ యస్య తేజః శరీరమ్ \॥॥ యస్యాకాశః శరీరమ్, ఇతి సర్వేషాṁ పరబ్రహ్మ-శరీరత్వ-శ్రవణాచ్ చ తత్-తచ్-ఛబ్ద-వాచ్యాత్ పరస్మాద్ బ్రహ్మణ ఏవ సాక్షాత్ తేజః-ప్రభృతీనామ్ అపి సృష్టిః। సూత్రార్థస్ తు--- తేజోఽతస్ తథాహ్య్ ఆహ--- అతః--- వాయోర్ ఏవ కేవలాద్ ఉత్పద్యతే తేజః, తథా హ్య్ ఆహ శ్రుతిః--- వాయోర్ అగ్నిర్ ఇతి॥౧౦॥
Link copied౨౨౭। ఆపః॥౨।౩।౧౧॥
Link copiedఅతస్ తథా హ్య్ ఆహేత్య్ అనువర్తతే। అతః--- తేజస ఏవ కేవలాద్ ఆప ఉత్పద్యన్తే, అగ్నేర్ ఆపః, తద్ అపోఽసృజత, ఇతి హ్య్ ఆహ॥౧౧॥
Link copied౨౨౮। పృథివీṁ॥౨।౩।౧౨॥
Link copiedఏవṁ పృథివ్య్ అప్య్ ఉత్పద్యతే, అద్భ్యః పృథివీ, తా అన్నమ్ అసృజన్త, ఇతి హ్య్ ఆహ॥౧౨॥
Link copiedఅన్న-శబ్దేన కథṁ పృథివ్య్ అభిధీయత ఇత్య్ అవగమ్యతే। తత్రాహ---
Link copied౨౨౯। అధికార-రూప-శబ్దాన్తరేభ్యః॥౨।౩।౧౩॥
Link copiedఅన్న-శబ్దేన పృథివ్య్ ఉచ్యతే, మహాభూత-సృష్ట్య్-అధికారాత్ పశ్చాద్ అపి మహాభూత-రూప-సఙ్కీర్తనే, యత్ కృష్ణṁ తద్ అన్నస్యేతి రూప-కీర్తనాత్, సమాన-ప్రకరణే, అద్భ్యః పృథివీతి పృథివీ-శబ్ద-శ్రవణాచ్ చ॥౧౩॥
Link copied౨౩౦। తద్-అభిధ్యానాద్ ఏవ తు తల్-లిఙ్గాత్ సః॥౨।౩।౧౪॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। న తేజః-ప్రభృతయః కేవలాః స్వానన్తరాణాṁ కారణాని; అపి తు తత్-తచ్-ఛరీరః సః--- పరమామైవ తేషాṁ కారణమ్। కుతః। పరమాత్మ-సృష్టి-లిఙ్గాత్ తథావిధాభిధ్యానాత్। యథైవ హి--- తద్ ఐక్షత బహు స్యాṁ ప్రజాయేయేతి తత్ తేజోఽసృజతేతి, తథైవ--- తత్ తేజ ఐక్షత బహు స్యాṁ ప్రజాయేయేతి బహు-భవన-సఙ్కల్ప-రూపాభిధ్యానṁ దృశ్యతే; ఈదృశమ్ అభిధ్యానṁ పరమాత్మన ఏవ హి సమ్భవతి॥౧౪॥
Link copied౨౩౧। విపర్యయేణ తు క్రమోఽత ఉపపద్యతే చ॥౨।౩।౧౫॥
Link copiedఆకాశాద్ వాయుః, వాయోర్ అగ్నిర్ ఇతి పారమ్పర్య-క్రమాద్ విపర్యయేణ--- ఏతస్మాజ్ జాయతే ప్రాణో మనః సర్వేన్ద్రియాణి చ, ఖṁ వాయుర్ జ్యోతిర్ ఆపః పృథివీః, ఇతి సర్వేషాṁ బ్రహ్మానన్తర్య-రూపో యః క్రమః, స చాత ఏవ తత్-తచ్-ఛరీరాద్ బ్రహ్మణః సృష్టేర్ ఉపపద్యతే॥౧౫॥
Link copied౨౩౨। అన్తరా విజ్ఞాన-మనసీ క్రమేణ తల్-లిఙ్గాద్ ఇతి చేన్ నావిశేషాత్॥౨।౩।౧౬॥
Link copiedవిజ్ఞాన-సాధనత్వాద్ ఇన్ద్రియాణి ప్రాణశ్ చ విజ్ఞానమ్ ఇత్య్ ఉచ్యతే। ఏతస్మాజ్ జాయతే ప్రాణః, ఇత్య్ ఏతద్ వాక్యమ్ ఆకాశ-తన్మాత్ర-పఞ్చకయోర్ అన్తరాలే విజ్ఞాన-మనసీ క్రమేణ ఉత్పద్యేతే ఇత్య్ ఏతత్ పరమ్। విజ్ఞాన-మనసీ, ఇతి ప్రాణస్యాపి ప్రదర్శనార్థమ్, పృథివ్య్ అప్సు ప్రలీయతే ఇత్య్ ఆరభ్య, వాయుర్ ఆకాశే లీయతే ఆకాశమ్ ఇన్ద్రియేషు ఇన్ద్రియాణి తన్మాత్రేషు తన్మాత్రాణి భూతాదౌ లీయన్తే, ఇతి ప్రలయ-క్రమ-ప్రత్యభిజ్ఞానాత్ తల్-లిఙ్గాత్। అతో న శ్రుత్య్-అన్తర-విరుద్ధత్వాత్ సాక్షాద్ బ్రహ్మణః సర్వేషాṁ సృష్టి-పరమ్ ఇదṁ వాక్యమ్। అపి తు శ్రుత్య్-అన్తర-సిద్ధ-పారమ్పర్య-క్రమ-పరమ్ ఇతి చేత్; పరిహరతి నావిశేషాత్--- భూత-తన్మాత్రాన్తరాలే విజ్ఞాన-మనసోర్ ఉత్పత్తావ్ అపి తత్-తచ్-ఛరీరక-బ్రహ్మాభిధాయిత్వాద్ భూతేన్ద్రియ-మనః-ప్రాణ-శబ్దానాṁ సర్వేషాṁ సాక్షాద్ ఉత్పత్త్య్-అవిశేషాత్ తత్-పరమ్ ఏవేదṁ వాక్యమ్॥౧౬॥
Link copiedలోకే తత్-తద్-వస్తు-వాచితయా శబ్ద-జాతస్య బ్రహ్మణి వృత్తిర్ అముఖ్యేత్య్ ఆశఙ్క్యాహ---
Link copied౨౩౩। చరాచరవ్యపాశ్రయస్ తు స్యాత్ తద్-వ్యపదేశోఽభాక్తస్ తద్-భావ-భావిత్వాత్॥౨।౩।౧౭॥
Link copiedతు-శబ్దః శఙ్కా-నివృత్త్య్-అర్థః। స్థావర-జఙ్గమ-వస్తు-వ్యపాశ్రయస్ తద్-వ్యపదేశస్ తద్-వాచి-శబ్దో బ్రహ్మణ్య్ అభాక్తః--- ముఖ్య ఏవ। కుతః। తద్-భావ-భావిత్వాత్--- తేజః-ప్రభృతిష్వ్ ఆత్మతయా బ్రహ్మ-భావ-భావిత్వేన సర్వస్య వస్తునస్ తచ్-ఛరీరతయా తత్-ప్రకారత్వాత్ తత్-తద్-వాచినాṁ శబ్దానాṁ తత్రైవ పర్యవసనాత్। ప్రకార-వాచినాṁ శబ్దానాṁ ప్రకారి-పర్యవసాయిత్వేనాభాక్తత్వṁ గవాది-శబ్దేషు సిద్ధమ్॥౧౭॥ ఇతి తేజో-ఽధికరణమ్॥౨॥
Link copied౨౩౪। నాత్మా శ్రుతేర్ నిత్యత్వాచ్ చ తాభ్యః॥౨।౩।౧౮॥
Link copiedకిమ్ ఆత్మోత్పద్యతే, న వేతి సṁశయః। ఉత్పద్యత ఇతి పూర్వః పక్షః। ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞాదేః, తోయేన జీవాన్ వ్యససర్జ భూమ్యామ్, ప్రజాపతిః ప్రజా అసృజత, ఇత్య్ ఆది సృష్టి-వచనాచ్ చ; నిత్యాది-శ్రుతిర్ ఆకాశాద్య్-అమృతత్వ-వచనవన్ నేయా। రాద్ధాన్తస్ తు--- నాత్మోత్పద్యతే, అనుత్పత్తి-శ్రుతేః। న జాయతే మ్రియతే వా విపశ్చిత్, ఇతి జీవోత్పత్తిర్ నిషిధ్యతే; అజో నిత్యః, నిత్యో నిత్యానామ్ ఇత్య్ ఆది శ్రుతిభ్యో నిత్యత్వావగమాత్। జీవోత్పత్తి-పక్షే అకృతాభ్యాగమ-కృత-విప్రణాశాది-ప్రసఙ్గాత్, వైషమ్య-నైర్ఘృణ్య-ప్రసఙ్గాచ్ చ। జీవస్య సృష్టి-వచనṁ భోక్తృత్వానుగుణ-జ్ఞాన-వికాసాభిప్రాయమ్। ప్రాక్ సృష్టేర్ ఏకత్వావధారణాద్ అవిభాగ-వచనṁ నామ-రూప-విభాగాభావాభిప్రాయమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౮॥ ఇత్య్ ఆత్మాధికరణమ్॥౩॥
Link copied౨౩౫। జ్ఞోఽత ఏవ॥౨।౩।౧౯॥
Link copiedకిṁ జీవశ్ చైతన్య-మాత్ర-వపుః, ఉత జడ-స్వరూప ఏవాగన్తుక-చైతన్య-గుణః, ఉత జ్ఞాతృత్వైక-స్వరూప ఇతి సṁశయః। చైతన్య-మాత్ర-వపుర్ ఇతి ప్రథమః పక్షః। విజ్ఞానṁ యజ్ఞṁ తనుతే, యో విజ్ఞానే తిష్ఠన్, జ్ఞాన-స్వరూపమ్ అత్యన్త-నిర్మలమ్, ఇత్య్ ఆది శ్రుతి-స్మృతిభ్యః। ద్వితీయస్ తు--- సుషుప్తి-మూర్చ్ఛాదిషు సతోఽప్య్ ఆత్మనశ్ చైతన్యానుపలబ్ధేః, జాగ్రతోఽపీన్ద్రియ-వ్యాపారాన్వయ-వ్యతిరేకానువిధాయిత్వాచ్ చైతన్యస్య, న ప్రేత్య సṁజ్ఞాస్తీతి ముక్తస్య చైతన్య-ప్రతిషేధాచ్ చ, పాషాణ-కల్ప ఏవాగన్తుక-చైతన్య-గుణః। సర్వత్ర కార్యోపలబ్ధేః సర్వత్ర సన్నిధానాత్, శరీర-గమనేనైవ కాయ-సమ్భవే గతి-కల్పనాయోగాత్, సర్వ-గతశ్ చేతి। రాద్ధాన్తస్ తు--- అథ యో వేదేదṁ జిఘ్రాణీతి స ఆత్మా మనసైతాన్ కామాన్ పశ్యన్ రమతే, న పశ్యో మృత్యుṁ పశ్యతి, సర్వṁ హ పశ్యః పశ్యతి, ద్రష్టా శ్రోతా ఘ్రాతా రసయితా, ఇత్య్ ఆది శ్రుతిభ్యో బద్ధ-ముక్తోభయావస్థో జ్ఞాతైవాత్మా। జ్ఞాన-మాత్ర-వ్యపదేశస్ తు జ్ఞానస్య ప్రధాన-గుణత్వాత్, స్వరూపానుబన్ధిత్వేన స్వరూప-నిరూపక-గుణత్వాత్, ఆత్మ-స్వరూపస్య జ్ఞానవత్ స్వ-ప్రకాశత్వాద్ వోపపద్యతే। సుషుప్తి-మూర్చ్ఛాదౌ సద్ ఏవ జ్ఞానṁ కర్మణా సఙ్కుచితమ్ అనభివ్యక్తమ్ అపి జాగరాదౌ వికసితమ్ అభివ్యజ్యత ఇతి న విరోధః। న ప్రేత్య సṁజ్ఞాస్తీతి సాṁసారిక-దేహాద్య్-అస్మరణ-విషయమ్, నోపజనṁ స్మరన్న్ ఇదṁ శరీరమ్ ఇత్య్ ఆదినైకార్థ్యాత్। సర్వ-గతత్వṁ త్వ్ అణుత్వ-గత్య్-ఆది-శ్రుతి-విరుద్ధమ్। సూత్రార్థస్ తు--- జ్ఞోఽత ఏవ। అతః--- శ్రుతేర్ జ్ఞాతైవ॥౧౯॥
Link copied౨౩౬। ఉత్క్రాన్తి-గత్య్-ఆగతీనామ్॥౨।౩।౨౦॥
Link copiedశ్రుతేర్ ఇతి వర్తతే। తేన ప్రద్యోతేనైష ఆత్మా నిష్క్రామతి--- యే వై కేచాస్మాల్ లోకాత్ ప్రయన్తి చన్ద్రమసమ్ ఏవ తే సర్వే గచ్ఛన్తి--- తస్మాల్ లోకాత్ పునర్ ఏత్య్ అస్మై లోకాయ కర్మణే, ఇత్య్ ఆద్య్ ఉత్క్రాన్తి-గత్య్-ఆగతీనాṁ శ్రవణాద్ అణుర్ జీవః॥౨౦॥
Link copied౨౩౭। స్వాత్మనా చోత్తరయోః॥౨।౩।౨౧॥
Link copiedచ-శబ్దోఽవధారణార్థః। యద్య్ అప్య్ ఉత్క్రాన్తౌ స్థితస్య శరీర-విశ్లేషేణ కథఞ్చిత్ సమ్పాద్యత్వమ్ అస్తి; ఉత్తరయోః--- గమనాగమనయోస్ తు స్వాత్మనైవ సమ్పాద్యత్వమ్ అవశ్యాభ్యుపేయమ్॥౨౧॥
Link copied౨౩౮। నాణుర్ అతచ్ ఛ్రుతేర్ ఇతి చేన్ నేతరాధికారాత్॥౨।౩।౨౨॥
Link copiedయోఽయṁ విజ్ఞాన-మయ ఇతి జీవṁ ప్రస్తుత్య, స వా ఏష మహాన్ అజ ఆత్మా, ఇతి మహత్వ-శ్రుతేర్ నాణుర్ జీవ ఇతి చేన్ న; ఇతరాధికారాత్--- జీవేతర-పరమాత్మాధికారాత్, యస్యానువిత్తః ప్రతిబుద్ధ ఆత్మా, ఇతి హి మధ్యే పరమాత్మా ప్రస్తుతః॥౨౨॥
Link copied౨౩౯। స్వ-శబ్దోన్మానాభ్యాṁ చ॥౨।౩।౨౩॥
Link copiedఏషోఽణురాత్మా చేతసా వేదితవ్యః యస్మిన్ ప్రాణః పఞ్చధా సṁవివేశేతి సాక్షాద్ అణు-శబ్దాద్ అణుర్ ఏవాయమ్। ఉన్మానాచ్ చాణుర్ ఏవ। ఉన్మానమ్--- ఉద్ధృత్య మానమ్। ఆరాగ్ర-మాత్రో హ్య్ అవరోఽపి దృష్టః, ఇత్య్ ఆరాగ్రమ్ ఉద్ధృత్య తన్-మానత్వṁ హి జీవస్య శ్రూయతే॥౨౩॥
Link copiedఆత్మనోఽణుపరిమాణస్య సకల-దేహవ్యాపి సుఖాద్య్-అనుభవః కథమ్ ఇత్య్ అత్ర మతాన్తరేణ పరిహారమాహ---
Link copied౨౪౦। అవిరోధశ్ చన్దనవత్॥౨।౩।౨౪॥
Link copiedయథా హరి-చన్దన-బిన్దుః దేహైక-దేశ-వర్త్య్ అపి సకల-దేహ-వర్తినమ్ ఆహ్లాదṁ జనయతి, తద్వద్ అవిరోధః॥౨౪॥
Link copied౨౪౧। అవస్థితి-వైశేష్యాద్ ఇతి చేన్ నాభ్యుపగమాద్ ధృది హి॥౨।౩।౨౫॥
Link copiedచన్దన-బిన్దోర్ దైహైక-దేశ-విశేష-స్థిత్య్-అపేక్షస్ తథాభావః; ఆత్మనస్ తు న తథేతి చేన్ న, ఆత్మనోఽపి తథాభావాభ్యుపగమాత్; హృది హ్య్ అయమ్ ఆత్మా స్థిత ఇతి శ్రూయతే--- యోఽయṁ విజ్ఞాన-మయః ప్రాణేషు హృద్య్ అన్తర్ జ్యోతిర్ ఇత్య్ ఆదౌ॥౨౫॥
Link copiedస్వ-మతేనాహ---
Link copied౨౪౨। గుణాద్ వాలోకవత్॥౨।౩।౨౬॥
Link copiedవా-శబ్దో మతాన్తర-వ్యావృత్త్య్-అర్థః। ఆత్మా స్వ-గుణేన జ్ఞానేన సకల-దేహṁ వ్యాప్యావస్థితః; యథా ద్యు-మణి-మణి-ప్రభృతీనామ్ ఏకదేశ-వర్తినామ్ ఆలోకః తద్-గుణః అనేక-దేశ-వ్యాపీ దృశ్యతే॥౨౬॥
Link copiedవిజ్ఞానṁ యజ్ఞṁ తనుతే, ఇత్య్ ఆదీ జ్ఞానమ్ ఏవాత్మేతి వ్యపదిశ్యత ఇతి చేత్; తత్రాహ---
Link copied౨౪౩। వ్యతిరేకో గన్ధవత్ తథా చ దర్శయతి॥౨।౩।౨౭॥
Link copiedజానామీత్య్ ఆత్మ-గుణత్వేన ప్రతీతేర్ వ్యతిరేకోఽభ్యుపగమనీయః। యథా గన్ధవతీ పృథివీ ఇత్య్ ఉపలబ్ధౌ గన్ధస్ తద్-గుణస్ తద్-వ్యతిరిక్తః। దర్శయతి చ శ్రుతిః--- జానాత్వ్ ఏవాయṁ పురుష ఇతి॥౨౭॥
Link copied౨౪౪। పృథగ్ ఉపదేశాత్॥౨।౩।౨౮॥
Link copiedన కేవలṁ జానామీతి పృథగ్-ఉపలబ్ధి-మాత్రమ్; ఆత్మనః పృథక్త్వేనోపదిశ్యతే చ జ్ఞానమ్--- న హి విజ్ఞాతుర్ విజ్ఞాతేర్ విపరిలోపో విద్యతే, ఇతి॥౨౮॥
Link copiedవిజ్ఞానమ్ ఆత్మేతి వ్యపదేశః కథమ్ ఉపపద్యత ఇత్య్ అత్రాహ---
Link copied౨౪౫। తద్-గుణ-సారత్వాత్ తు తద్-వ్యపదేశః ప్రాజ్ఞవత్॥౨।౩।౨౯॥
Link copiedజ్ఞాన-గుణ-సారత్వాద్ ఆత్మనో జ్ఞానమ్ ఇతి వ్యపదేశః; యథా ప్రాజ్ఞః--- బ్రహ్మణా విపశ్చితా, యః సర్వ-జ్ఞః సర్వ-విత్, ఇతి సర్వ-జ్ఞ ఏవ జ్ఞాన-గుణ-సారత్వాత్, సత్యṁ జ్ఞానమ్ ఇతి వ్యపదిశ్యతే॥౨౯॥
Link copied౨౪౬। యావద్-ఆత్మ-భావిత్వాచ్ చ న దోషస్ తద్-దర్శనాత్॥౨।౩।౩౦॥
Link copiedజ్ఞానస్య యావద్-ఆత్మ-స్వరూప-భావిత్వాచ్ చ తేన తద్-వ్యపదేశో న దోషః, ఖణ్డాదిషు తథా దర్శనాత్; ఖణ్డాదిషు హి యావత్-స్వరూప-భావి-ధర్మత్వేన గోత్వస్య గౌర్ ఇతి వ్యపదేశో దృశ్యతే; చ-కారాద్ ఆత్మనః స్వ-ప్రకాశత్వేన జ్ఞానమ్ ఇతి వ్యపదే(శే)శో న దోష ఇత్య్ ఉచ్యతే॥౩౦॥
Link copiedసుషుప్త్య్-ఆదిషు జ్ఞానస్యానుపలబ్ధేర్ న యావద్-ఆత్మ-భావిత్వమ్ ఇత్య్ ఆశఙ్క్యాహ---
Link copied౨౪౭। పుṁస్త్వాదివత్ త్వ్ అస్య సతోఽభివ్యక్తి-యోగాత్॥౨।౩।౩౧॥
Link copiedతు-శబ్దః శఙ్కా-నివృత్త్య్-అర్థః; సుషుప్త్య్-ఆదిష్వ్ అపి సతో జ్ఞానస్యానభివ్యక్తస్య జాగర్య్-ఆదిష్వ్ అభివ్యక్తి-సమ్భవాద్ యావద్-ఆత్మ-భావ్యేవ జ్ఞానమ్। పుṁస్త్వాదివత్--- పుṁస్త్వమ్ ఇతి పురుషాసాధారణ-ధాతుర్ ఉచ్యతే; యథా సప్త-ధాతు-మయత్వేన శరీరస్య పుṁస్త్వస్య బాల్యేఽపి సతోఽనభివ్యక్తస్య సప్తమ-ధాతోర్ యువత్వేఽభివ్యక్తిః॥౩౧॥
Link copiedఏవమ్ ఆత్మనో జ్ఞాతృత్వమ్ అణుత్వṁ చోక్త్వా పక్షాన్తరే దోషమ్ ఆహ---
Link copied౨౪౮। నిత్యోపలబ్ధ్య్-అనుపలబ్ధి-ప్రసఙ్గోఽన్యతర-నియమో వాన్యథా॥౨।౩।౩౨॥
Link copiedఅన్యథా--- జ్ఞానాత్మ-వాదే సర్వ-గతాత్మ-వాదే చోపలబ్ధ్య్-అనుపలబ్ధీ నిత్యవత్ ప్రసజ్యేయాతామ్; ఉపలబ్ధ్య్-అనుపలబ్ధ్యోర్ అన్యతర-నియమో వా। జ్ఞానాత్మపక్షే తావజ్ జ్ఞానస్య ప్రకాశ-స్వభావత్వాత్ ప్రకాశ-పర్యాయోపలబ్ధేర్ నిత్యవత్ ప్రసక్తిర్ అనివార్యా। జ్ఞానే విద్యమానే సతి హేత్వ్-అన్తరేణానుపలబ్ధి-జననాయోగాజ్ జ్ఞానమ్ ఏవానుపలబ్ధేర్ అపి హేతుర్ ఇత్య్ ఆస్థేయమ్। జ్ఞానస్య సర్వదా వర్తమానత్వాత్ సర్వదోభయ-ప్రసక్తిః। అథ యుగపద్-విరుద్ధ-కార్య-జననాయోగాజ్ జ్ఞానమ్ ఉపలబ్ధ్య్-అనుపలబ్ధ్యోర్ అన్యతర-హేతుర్ ఆస్థీయతే, తదాన్యతర-నియమః స్యాత్। సర్వ-గతత్వ-పక్షే యథా జ్ఞానాత్మ-వాదినామ్, తథైవ హేతు-జన్య-జ్ఞాన-వాదినోఽపి సర్వేషామ్ ఆత్మనాṁ సర్వ-గతత్వే సర్వస్యాత్మనః సṁయోగాదేర్ హేతోః సర్వేషాṁ సాధారణత్వాద్ ఉక్త-రీత్యా తథైవ ప్రసక్తిః। అదృష్టోత్పత్తి-హేతోర్ అపి సర్వస్య సాధారణత్వాద్ అదృష్టేనాపి న వ్యవస్థా॥౩౨॥ ఇతి జ్ఞాధికరణమ్॥౪॥
Link copied౨౪౯। కర్తా శాస్త్రార్థవత్త్వాత్॥౨।౩।౩౩॥
Link copiedఆత్మనో జ్ఞాతృత్వవత్ కర్తృత్వమ్ అప్య్ అస్తి, నేతి సṁశయః। ప్రధానస్యైవ కర్తృత్వాద్ ఆత్మనో న కర్తృత్వమ్ అస్తీతి పూర్వః పక్షః। అహఙ్కార-విమూఢాత్మా కర్తాహమ్ ఇతి మన్యతే, నాన్యṁ గుణేభ్యః కర్తారమ్, ఇత్య్ ఆదిషు గుణానామ్ ఏవ కర్తృత్వ-వచనాత్। రాద్ధాన్తస్ తు--- స్వర్గాపవర్గ-సాధనానుష్ఠాన-విధాన-శాస్త్రాణామ్ అర్థవత్త్వాయ కర్తైవాత్మా, బోద్ధుర్ ఏవ హి శాసనమ్; నాచేతనస్య ప్రధానస్య। యజేత, ఉపాసీతేతి కర్తరి లకారః। అతః కర్తారమ్ ఏవ బోధయతి శాస్త్రమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౩౩॥
Link copied౨౫౦। ఉపాదానాద్ విహారోపదేశాచ్ చ॥౨।౩।౩౪॥
Link copiedఉపాదానాద్ ఉపదిశ్యమానాత్, విహారోపదేశాచ్ చ। ఉపదిశ్యతే ఉపాదానṁ, విహారశ్ చ, ఏవమ్ ఏవైష ఏతాన్ ప్రాణాన్ గృహీత్వా స్వే శరీరే యథాకామṁ పరివర్తతే, ఇత్య్ ఉపాదాన-విహారయోః కర్తృత్వోపదేశాచ్ చ కర్తా॥౩౪॥
Link copied౨౫౧। వ్యపదేశాచ్ చ క్రియాయాṁ న చేన్ నిర్దేశ-విపర్యయః॥౨।౩।౩౫॥
Link copiedవిజ్ఞానṁ యజ్ఞṁ తనుతే కర్మణి తనుతేఽపి చేతి యజ్ఞాది-కర్మస్వ్ ఆత్మనః కర్తృత్వోపదేశాచ్ చ కర్తా। విజ్ఞాన-శబ్దేన నాత్మనో వ్యపదేశః, అపి త్వ్ అన్తఃకరణ-రూప-బుద్ధేర్ ఏవేతి చేత్--- తథా సతి విజ్ఞానేనేతి కరణ-విభక్తి-నిర్దేశః స్యాత్॥౩౫॥
Link copied౨౫౨। ఉపలబ్ధివద్ అనియమః॥౨।౩।౩౬॥
Link copiedప్రధానస్య కర్తృత్వేన ఆత్మనో భోక్తృత్వమ్ ఇతి పక్షే పూర్వోక్తోపలబ్ధ్య్-అనియమవత్ ప్రధానస్య సర్వ-సాధారణత్వాద్ భోక్తృత్వానియమః। అన్తఃకరణ-భేదేఽపి సర్వేషామ్ ఆత్మనాṁ సర్వ-గతత్వేన సాధారణ్యమ్ అనివార్యమ్॥౩౬॥
Link copied౨౫౩। శక్తి-విపర్యయాత్॥౨।౩।౩౭॥
Link copiedబుద్ధేః కర్తృత్వే కర్తుర్ అన్యస్య భోక్తృత్వాయోగాద్ భోక్తృత్వ-శక్తిర్ అపి బుద్ధేర్ ఏవేత్య్ ఆత్మనో భోక్తృత్వ-శక్తి-విపర్యయః--- హానిర్ ఇత్య్ అర్థః॥౩౭॥
Link copied౨౫౪। సమాధ్యభావాచ్ చ॥౨।౩।౩౮॥
Link copiedప్రకృతేః కర్తృత్వే మోక్ష-సాధన-భూత-సమాధ్య్-అభావశ్ చ స్యాత్; ప్రకృతేర్ అన్యోస్మీతి సమాధానే ప్రకృతేః కర్తృత్వాయోగాత్॥౩౮॥
Link copied౨౫౫। యథా చ తక్షోభయథా॥౨।౩।౩౯॥
Link copiedఆత్మనః కర్తృత్వే(ఽపి) భోగ-వాఞ్ఛాయాṁ కరోతి, అన్యథా న కరోతీత్య్ ఉభయ-ప్రకార-వ్యవస్థోపపద్యతే; యథా తక్షా స్వ-కార్యే ఇచ్ఛయా వ్యవస్థితః। బుద్ధేః కర్తృత్వే అచేతనత్వేన స్వేచ్ఛాయా అభావాద్ వ్యవస్థా న సిధ్యతీత్య్ అభిప్రాయః॥౩౯॥ ఇతి కర్త్రధికరణమ్॥౫॥
Link copied౨౫౬-౨౫౭। పరాత్ తు తచ్-ఛ్రుతేః॥౨।౩।౪౦॥
Link copiedకృత-ప్రయత్నాపేక్షస్ తు విహిత-ప్రతిషిద్ధావైయర్థ్యాదిభ్యః॥౨।౩।౪౧॥
Link copiedఇదానీṁ జీవస్య కర్తృత్వṁ కిṁ పరమాత్మాయత్తమ్, ఉత స్వాయత్తమ్ ఇతి సṁశయః। స్వాయత్తమ్ ఇతి పూర్వః పక్షః, విధి-నిషేధ-శాస్త్రానర్థక్యాపత్తేః। యః స్వ-బుద్ధ్యైవ ప్రవృత్తి-నివృత్తి-శక్తః, స ఏవ హి నియోజ్యో నిగ్రహానుగ్రహాస్పదṁ చ భవతీతి। రాద్ధాన్తస్ తు--- అన్తః ప్రవిష్టః శాస్తా జనానాṁ సర్వాత్మా, య ఆత్మానమ్ అన్తరో యమయతి ఇత్య్ ఆది శ్రుతేః పరమాత్మాయత్తమ్ ఏవ కర్తృత్వమ్; తచ్ చ జీవేన స్వ-బుద్ధ్యా కృతṁ ప్రయత్నమ్ అపేక్ష్య తద్-అనుమతి-దానేనేతి విధి-నిషేధావైయర్థ్యమ్। అత ఏవ నిగ్రహానుగ్రహాస్పదṁ చ। సూత్ర-ద్వయమ్ అపి వ్యాఖ్యాతమ్॥౪౦-౪౧॥ ఇతి పరాయత్తాధికరణమ్॥౬॥
Link copied౨౫౮। అṁశో నానా-వ్యపదేశాద్ అన్యథా చాపి దాశ-కితవాదిత్వమ్ అధీయత ఏకే॥౨।౩।౪౨॥
Link copiedకిṁ జీవః పరమాత్మనోఽత్యన్త-భిన్నః, ఉత పరమాత్మైవాజ్ఞః, అథ పరమాత్మైవోపాధి-సమ్బద్ధః, పరమాత్మాṁశో వేతి సṁశయః। అత్యన్త-భిన్నః--- ఇతి ప్రథమః పక్షః, పృథగాత్మానṁ ప్రేరితారṁ చ మత్త్వా, తయోర్ అన్యః పిప్పలṁ స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యో అభిచాకశీతి, అనీశశ్ చాత్మా బధ్యతే భోక్తృ-భావాత్, సర్వస్య వశీ సర్వస్యేశానః, ఇత్య్ ఆది భేద-శ్రుతేః, జీవ-పరమాత్మనోః కర్మ-పరతన్త్రతా-తద్-విపరీతత్వ-శ్రుతేశ్ చ; అభేద-శ్రుతయో నరపతిర్ ఏవ సర్వ-లోక ఇతివద్ ఔపచారిక్యః, ఇతి। భేద-శ్రుతీనామ్ అవిద్వద్-విషయతయా వా ఉపాధి-సమ్బన్ధ-విషయతయా వా అముఖ్య-వృత్తి-సమ్భవాద్ అభేద-శ్రుతి-ముఖ్యత్వాయ అజ్ఞః పరమాత్మా, ఉపాధి-సమ్బద్ధో వా జీవః, ఇతి యుక్తమ్। రాద్ధాన్తస్ తు--- నానాత్త్వైకత్వ-వ్యపదేశాత్ పరమాత్మనః సత్య-సఙ్కల్పత్వ-సర్వజ్ఞత్వ-నిరవద్యత్వ-శ్రుతేర్ అజ్ఞత్వోపాధి-సమ్బన్ధాద్య్-అనుపపత్తేర్ జీవ-శబ్దస్య జీవ-శరీరక-పరమాత్మ-వాచిత్వేన తత్ త్వమ్ అసి, అయమ్ ఆత్మా బ్రహ్మేతి సామానాధికరణ్యస్య ముఖ్యత్వాచ్ ఛరీర-శరీరిణోర్ విశేష్య-భూతయోః స్వరూప-స్వభావ-భేదేన చ భేద-శ్రుతేశ్ చ ముఖ్యత్వాద్ విశిష్ట-వస్త్వ్-ఏకదేశతయా చ విశేషణస్య పరమాత్మాṁశో జీవః। జీవ-శరీరత్వṁ చ పరమాత్మనః, యస్యాత్మా శరీరమ్ ఇత్య్ ఆదిషు సిద్ధమ్। సూత్రార్థస్ తు--- అṁశః, పరమాత్మాṁశో జీవః, నానా-వ్యపదేశాత్--- భేద-వ్యపదేశాత్, అన్యథా చ--- అభేద-వ్యపదేశాచ్ చ; ఉక్త-నీత్యా ఉభయ-ముఖ్యత్వాయేత్య్ అభిప్రాయః। దాశ-కితవాదిత్వమ్ అప్య్ అధీయత ఏకే, బ్రహ్మ దాశా బ్రహ్మ దాసాః, ఇత్య్ ఆదినా దాశ-కితవాదిత్వమ్ అప్య్ అధీయత ఏకే శాఖినః; సర్వ-జీవ-వ్యాపిత్వాద్ అభేదోపదేశస్య తత్రాత్యాదరః ప్రతీయత ఇత్య్ అర్థః॥౪౨॥
Link copied౨౫౯। మన్త్ర-వర్ణాత్॥౨।౩।౪౩॥
Link copiedమన్త్ర-వర్ణాచ్ చాṁశ ఏవ జీవః, పాదోఽస్య విశ్వా భూతానీతి; పాద-శబ్దోఽṁశ-వాచీ॥౪౩॥
Link copied౨౬౦। అపి స్మర్యతే॥౨।౩।౪౪॥
Link copiedమమైవాṁశో జీవ-లోకే జీవ-భూతః సనాతనః, ఇతి జీవస్య పరమాత్మాṁశత్వṁ స్మర్యతే చ॥౪౪॥
Link copiedఏక-ద్రవ్యైకదేశత్వṁ హ్య్ అṁశత్వమ్; అతో జీవస్య బ్రహ్మైకదేశత్వేన జీవ-దోషా బ్రహ్మణో దోషా ఏవేత్య్ ఆశఙ్క్యాహ---
Link copied౨౬౧। ప్రకాశాదివత్ తు నైవṁ పరః॥౨।౩।౪౫॥
Link copiedతు-శబ్దః శఙ్కా-నివృత్త్య్-అర్థః; ప్రకాశవతాṁ మణి-ద్యు-మణి-ప్రభృతీనాṁ ప్రకాశ-విశిష్టానాṁ విశేషణ-భూతః ప్రకాశో యథాṁశః, తద్వజ్-జీవ-శరీరతయా జీవ-విశిష్టస్య బ్రహ్మణోఽṁశో జీవః। విశిష్ట-వస్త్వ్-ఐకదేశతయా విశేషణస్య, విశేషణṁ విశిష్టస్యాṁశః। ఆది-శబ్దాద్ ద్రవ్య-విశేషణతైక-స్వభావ-జాతి-గుణ-శరీరాణి గృహ్యన్తే। విశేషణ-విశేష్యయోః స్వరూప-స్వభావ-భేదాద్ విశేషణ-భూతో జీవో యత్ స్వరూపో యత్ స్వభావశ్ చ, నైవṁ పరః--- సర్వ-జ్ఞః సత్య-సఙ్కల్పో నిత్య-నిరవద్యశ్ చేత్య్ అర్థః॥౪౫॥
Link copied౨౬౨। స్మరన్తి చ॥౨।౩।౪౬॥
Link copiedప్రకాశాదివజ్ జీవస్యాṁశత్వṁ పరాశరాదయః స్మరన్తి--- ఏకదేశ-స్థితస్యాగ్నేర్ జ్యోత్స్నా విస్తారిణీ యథా। పరస్య బ్రహ్మణః శక్తిస్ తథేదమ్ అఖిలṁ జగత్॥ తథా పరṁ ప్రతిశరీరత్వṁ చ, యత్ కిఞ్చిత్ సృజ్యతే యేన సత్త్వ-జాతేన వై ద్విజ। తస్య సృజ్యస్య సమ్భూతౌ తత్ సర్వṁ వై హరేస్ తనుః, ఇతి॥౪౬॥
Link copiedబ్రహ్మాṁశత్వేన చ సర్వేషామ్ ఆత్మనాṁ సమత్వాద్ వేదాధ్యయనాదౌ కేషాఞ్చిద్ అనుజ్ఞా, కేషాఞ్చిత్ పరిహారశ్ చ కథమ్ ఉపపద్యత ఇత్య్ అత్రాహ---
Link copied౨౬౩। అనుజ్ఞా-పరిహారౌ దేహ-సమ్బన్ధాజ్ జ్యోతిర్-ఆదివత్॥౨।౩।౪౭॥
Link copiedబ్రాహ్మణాది-శుచ్య్-అశుచి-దేహ-సమ్బన్ధాద్ అనుజ్ఞా-పరిహారౌ ఉపపద్యేతే, జ్యోతిర్-ఆదివత్। జ్యోతిః--- అగ్నిః, యథా శ్రోత్రియాగారాద్ అగ్నిర్ ఆహ్రియతే, శ్మశానాదేస్ తు పరిహ్రియతే; యథా చాన్నాదిః శ్రోత్రియాదేర్ అనుజ్ఞాయతే, అభిశస్తాదేశ్ చ పరిహ్రియతే, తద్వత్॥౪౭॥
Link copied౨౬౪ అసన్తతేశ్ చావ్యతికరః॥౨।౩।౪౮॥
Link copiedజీవానాṁ ప్రతిశరీరṁ భిన్నత్వాదణుత్వేన తత్ర తత్రావచ్ఛిన్నత్వాచ్ చ న భోగ-వ్యతికరశ్ చ। అజ్ఞ-బ్రహ్మ-జీవ-వాదే చోపహిత-బ్రహ్మ-జీవ-వాదే చాజ్ఞాన-సమ్బన్ధి చోపాధిసమ్బన్ధి చ బ్రహ్మైవేతి భోగ-వ్యవస్థా న సిద్ధ్యతీత్య్ అభిప్రాయః॥౪౮॥
Link copied౨౬౫। ఆభాసా ఏవ చ॥౨।౩।౪౯॥
Link copiedఅజ్ఞ-బ్రహ్మ-జీవ-వాదే సర్వ-జ్ఞస్య బ్రహ్మణః అజ్ఞాన-కల్పన-స్వరూప-తిరోధాన-కల్పనా-హేతవ ఆభాసా ఏవ। చ-కారాన్ నిరవద్యత్వాది-శ్రుతి-విరోధశ్ చ॥౪౯॥
Link copiedపారమార్థికోపాధి-సమ్బన్ధి-బ్రహ్మ-జీవ-వాదే అనాద్య్-అదృష్ట-ప్రవాహేణోపాధి-ప్రవాహానాదిత్వాత్ తత్-సమ్బన్ధిని యే దోషాః, న తే బ్రహ్మణి ప్రసజ్యన్త ఇత్య్ అత్రాహ---
Link copied౨౬౬। అదృష్టానియమాత్॥౨।౩।౫౦॥
Link copiedఅదృష్టైస్ తత్-కృతోపాధిభిశ్ చ బ్రహ్మణశ్ ఛేదాసమ్భవాత్ తత్-కృతా దోషా బ్రహ్మణ్య్ ఏవ సమ్భవేయుః॥౫౦॥
Link copied౨౬౭। అభిసన్ధ్యాదిష్వ్ అపి చైవమ్॥౨।౩।౫౧॥
Link copiedఅదృష్ట-హేతు-భూతాభిసన్ధ్యాదిష్వ్ అప్య్ ఉపాధి-బ్రహ్మ-వ్యతిరిక్త-వస్త్వ్-అన్తరాభావాత్ పూర్వ-పూర్వోపాధి-యుక్తṁ బ్రహ్మైవేతి న కశ్చిద్ విశేషః॥౫౧॥
Link copied౨౬౮। ప్రదేశ-భేదాద్ ఇతి చేన్ నాన్తర్భావాత్॥౨।౩।౫౨॥
Link copiedఉపాధి-సమ్బన్ధి-బ్రహ్మ-ప్రదేశాద్ అనుపహిత-బ్రహ్మ-దేశో భిద్యతే; అతో వ్యవస్థేతి చేన్ న, ఉపాధిషు గచ్ఛత్సు పూర్వమ్ అనుపహిత-బ్రహ్మ-ప్రదేశస్యాప్య్ అన్తర్భావాత్॥౫౨॥ ఇత్య్ అṁశాధికరణమ్॥౭॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య తృతీయః పాదః॥
Link copied217. na viyad aśruteḥ||2|3|1||
Link copiedviyad utpadyate neti saṁśayaḥ| notpadyate iti pūrvaḥ pakṣaḥ, niravayavasya sarva-gatasyātmana ivotpatty-asambhavāt| asambhāvanīyasya śravaṇaṁ ca na sambhavati| ata utpatti-śrutir gauṇīti| rāddhāntas tu--- viyad utpadyata eva, utpatti-śruteḥ| atīndriyārtha-viṣayayā śrutyābhihite'rthe niravayavatvādi-hetukaṁ nānutpatty-anumānam udetum alam| ātmano'py anutpatti-śruter eva nityatvam, na niravayavatvādinā| sūtrārthas tu--- na viyad aśruteḥ, viyan notpadyate| kutaḥ| aśruteḥ--- aśravaṇāt; asambhāvanīyasya śravaṇāsambhavāt||1||
Link copied218. asti tu||2|3|2||
Link copiedasti tu viyata utpattiḥ, ātmana ākāśaḥ sammūtaḥ, iti śruteḥ; atīndriyārtha-viṣayayā śrutyā pramāṇāntarāpratipanna-viyad-utpatti-pratipādanaṁ sambhavaty eva| nāgninā siñced itivad ayogyam ity arthaḥ||2||
Link copied219. gauṇy-asambhavāc chabdāc ca||2|3|3||
Link copiedtat tejo'sṛjateti pratipanna-tejaḥ-prāthamya-virodhāt madhye viyad-utpattir na sambhavatīty utpatti-śrutir gauṇī, vāyuś cāntarikṣaṁ caitad amṛtam ity amṛtatva-śravaṇāc ca||3||
Link copied220. syāc caikasya brahma-śabdavat||2|3|4||
Link copiedākāśaḥ sambhūtaḥ, ākāśād vāyuḥ, vāyor agniḥ, ity ādiṣu sarvatrānuṣaktasyaikasya sambhūta-śabdasya ākāśe gauṇatvam, vāyv-ādiṣu mukhyatvaṁ ca sambhavati; brahma-śabdavat--- yathaikasya brahma-śabdasyaika-prakaraṇe śrūyamāṇasya, tasmād etad brahma nāma rūpam annaṁ ca jāyate, iti pradhāne gauṇatvam, tapasā cīyate brahma, iti brahmaṇi mukhyatvaṁ ca| śravaṇāvṛttāv ivānuṣaṅge'py abhidhānāvṛtter anuṣaṅgo'pi tat-tulya ity abhiprāyaḥ||4||
Link copiedpariharati---
Link copied221. pratijñā-hānir avyatirekāt||2|3|5||
Link copiedyenāśrutaṁ śrutam iti brahma-vijñānenākāśādi-sarva-vijñāna-pratijñāyā ahāniḥ, ākāśasyāpi brahmaṇa utpattyā tad-avyatirekād eva bhavati||5||
Link copied222. śabdebhyaḥ||2|3|6||
Link copieditaś ca--- sad eva somyedam agra āsīt, aitadāmyam idaṁ sarvam, ity ādibhyo brahmaṇaḥ prāksṛṣṭer ekatvāvadhāraṇa-sarvātmakatvādi-vādibhyaḥ śabdebhyaś ca viyad-utpattiḥ pratīyate| tat tejo'sṛjata, ity etasmin vākye ākāśotpatty-avacanāt pratīyamānaṁ tejaḥ-prāthamyaṁ samāna-prakaraṇa-sthaiḥ prakaraṇāntara-sthaiś ca śabdaiḥ pratīyamānāṁ viyad-utpattiṁ na nivārayatīty abhiprāyaḥ||6||
Link copied223. yāvad-vikāraṁ tu vibhāgo lokavat||2|3|7||
Link copiedyady api cchāndogye--- tat tejo'sṛjatetivad ākāśotpattiḥ svarūpeṇa nābhidhīyate tathāpi tasminn eva--- aitadātmyam idaṁ sarvam ity ādinākāśādeḥ sarvasya vastuno brahma-vikāratva-vacanād yāvad-vikāraṁ vibhāgaḥ--- utpattir uktaiveti gamyate| lokavat--- yathā loke sarva ete devadatta-putrā ity abhidhāya teṣāṁ keṣāñcid devadattād utpatti-vacanaṁ sarveṣāṁ tata utpatti-pratipādanārtham iti gamyate| ākāśasyāmṛtatva-vacanaṁ surādivac cira-kāla-sthāyitva-viṣayam ity abhiprāyaḥ||7||
Link copied224. etena mātariśvā vyākhyātaḥ||2|3|8||
Link copiedanenaiva nyāyena mātariśvano'py utpattir uktā| nāyaṁ nyāyātideśaḥ, adhikāśaṅkābhāvāt| tejo'tas tathā hy āha, iti vāyos tejasa utpattiṁ vaktuṁ pṛthag upādānam||8||
Link copied225. asambhavas tu sato'nupapatteḥ||2|3|9||
Link copiedtu-śabdo'vadhāraṇārthaḥ| sataḥ parama-kāraṇasya parasyaiva brahmaṇaḥ asambhavaḥ--- utpatty-asambhavaḥ| tad-vyatiriktasya kṛtsnasyaiva eka-vijñānenaḥ sarva-jñāna-pratijñādy-anupapatteḥ sambhava ukta ity abhiprāyaḥ||9|| iti viyad-adhikaraṇam||1||
Link copied226. tejo'tas tathā hy āha||2|3|10||
Link copiedākāśād vāyuḥ, ity ādi vyavahita-kāryāṇi kiṁ svānantarākāśādeḥ kevalād utpadyante, uta tat-tac-charīrāt parasmād brahmaṇaḥ, iti saṁśayaḥ| svānantarād eveti pūrvaḥ pakṣaḥ--- ākāśād vāyur vāyor agniḥ, iti tasmāt kevalād evotpatti-śravaṇāt| etasmāj jāyate prāṇaḥ, iti parasmād brahmaṇaḥ sarvasyotpatti-vādaḥ, paramparayāpy upapadyate| rāddhāntas tu--- tat teja aikṣata bahu syām, tā āpa aikṣanta, iti bahu-bhavana-saṅkalpa-pūrvaka-sṛṣṭy-upadeśāt| kevalasya tv īdṛśa-saṅkalpānupapatteḥ, yas tejasi tiṣṭhan yasya tejaḥ śarīram .... yasyākāśaḥ śarīram, iti sarveṣāṁ parabrahma-śarīratva-śravaṇāc ca tat-tac-chabda-vācyāt parasmād brahmaṇa eva sākṣāt tejaḥ-prabhṛtīnām api sṛṣṭiḥ| sūtrārthas tu--- tejo'tas tathāhy āha--- ataḥ--- vāyor eva kevalād utpadyate tejaḥ, tathā hy āha śrutiḥ--- vāyor agnir iti||10||
Link copied227. āpaḥ||2|3|11||
Link copiedatas tathā hy āhety anuvartate| ataḥ--- tejasa eva kevalād āpa utpadyante, agner āpaḥ, tad apo'sṛjata, iti hy āha||11||
Link copied228. pṛthivīṁ||2|3|12||
Link copiedevaṁ pṛthivy apy utpadyate, adbhyaḥ pṛthivī, tā annam asṛjanta, iti hy āha||12||
Link copiedanna-śabdena kathaṁ pṛthivy abhidhīyata ity avagamyate| tatrāha---
Link copied229. adhikāra-rūpa-śabdāntarebhyaḥ||2|3|13||
Link copiedanna-śabdena pṛthivy ucyate, mahābhūta-sṛṣṭy-adhikārāt paścād api mahābhūta-rūpa-saṅkīrtane, yat kṛṣṇaṁ tad annasyeti rūpa-kīrtanāt, samāna-prakaraṇe, adbhyaḥ pṛthivīti pṛthivī-śabda-śravaṇāc ca||13||
Link copied230. tad-abhidhyānād eva tu tal-liṅgāt saḥ||2|3|14||
Link copiedtu-śabdaḥ pakṣa-vyāvṛtty-arthaḥ| na tejaḥ-prabhṛtayaḥ kevalāḥ svānantarāṇāṁ kāraṇāni; api tu tat-tac-charīraḥ saḥ--- paramāmaiva teṣāṁ kāraṇam| kutaḥ| paramātma-sṛṣṭi-liṅgāt tathāvidhābhidhyānāt| yathaiva hi--- tad aikṣata bahu syāṁ prajāyeyeti tat tejo'sṛjateti, tathaiva--- tat teja aikṣata bahu syāṁ prajāyeyeti bahu-bhavana-saṅkalpa-rūpābhidhyānaṁ dṛśyate; īdṛśam abhidhyānaṁ paramātmana eva hi sambhavati||14||
Link copied231. viparyayeṇa tu kramo'ta upapadyate ca||2|3|15||
Link copiedākāśād vāyuḥ, vāyor agnir iti pāramparya-kramād viparyayeṇa--- etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca, khaṁ vāyur jyotir āpaḥ pṛthivīḥ, iti sarveṣāṁ brahmānantarya-rūpo yaḥ kramaḥ, sa cāta eva tat-tac-charīrād brahmaṇaḥ sṛṣṭer upapadyate||15||
Link copied232. antarā vijñāna-manasī krameṇa tal-liṅgād iti cen nāviśeṣāt||2|3|16||
Link copiedvijñāna-sādhanatvād indriyāṇi prāṇaś ca vijñānam ity ucyate| etasmāj jāyate prāṇaḥ, ity etad vākyam ākāśa-tanmātra-pañcakayor antarāle vijñāna-manasī krameṇa utpadyete ity etat param| vijñāna-manasī, iti prāṇasyāpi pradarśanārtham, pṛthivy apsu pralīyate ity ārabhya, vāyur ākāśe līyate ākāśam indriyeṣu indriyāṇi tanmātreṣu tanmātrāṇi bhūtādau līyante, iti pralaya-krama-pratyabhijñānāt tal-liṅgāt| ato na śruty-antara-viruddhatvāt sākṣād brahmaṇaḥ sarveṣāṁ sṛṣṭi-param idaṁ vākyam| api tu śruty-antara-siddha-pāramparya-krama-param iti cet; pariharati nāviśeṣāt--- bhūta-tanmātrāntarāle vijñāna-manasor utpattāv api tat-tac-charīraka-brahmābhidhāyitvād bhūtendriya-manaḥ-prāṇa-śabdānāṁ sarveṣāṁ sākṣād utpatty-aviśeṣāt tat-param evedaṁ vākyam||16||
Link copiedloke tat-tad-vastu-vācitayā śabda-jātasya brahmaṇi vṛttir amukhyety āśaṅkyāha---
Link copied233. carācaravyapāśrayas tu syāt tad-vyapadeśo'bhāktas tad-bhāva-bhāvitvāt||2|3|17||
Link copiedtu-śabdaḥ śaṅkā-nivṛtty-arthaḥ| sthāvara-jaṅgama-vastu-vyapāśrayas tad-vyapadeśas tad-vāci-śabdo brahmaṇy abhāktaḥ--- mukhya eva| kutaḥ| tad-bhāva-bhāvitvāt--- tejaḥ-prabhṛtiṣv ātmatayā brahma-bhāva-bhāvitvena sarvasya vastunas tac-charīratayā tat-prakāratvāt tat-tad-vācināṁ śabdānāṁ tatraiva paryavasanāt| prakāra-vācināṁ śabdānāṁ prakāri-paryavasāyitvenābhāktatvaṁ gavādi-śabdeṣu siddham||17|| iti tejo-'dhikaraṇam||2||
Link copied234. nātmā śruter nityatvāc ca tābhyaḥ||2|3|18||
Link copiedkim ātmotpadyate, na veti saṁśayaḥ| utpadyata iti pūrvaḥ pakṣaḥ| eka-vijñānena sarva-vijñāna-pratijñādeḥ, toyena jīvān vyasasarja bhūmyām, prajāpatiḥ prajā asṛjata, ity ādi sṛṣṭi-vacanāc ca; nityādi-śrutir ākāśādy-amṛtatva-vacanavan neyā| rāddhāntas tu--- nātmotpadyate, anutpatti-śruteḥ| na jāyate mriyate vā vipaścit, iti jīvotpattir niṣidhyate; ajo nityaḥ, nityo nityānām ity ādi śrutibhyo nityatvāvagamāt| jīvotpatti-pakṣe akṛtābhyāgama-kṛta-vipraṇāśādi-prasaṅgāt, vaiṣamya-nairghṛṇya-prasaṅgāc ca| jīvasya sṛṣṭi-vacanaṁ bhoktṛtvānuguṇa-jñāna-vikāsābhiprāyam| prāk sṛṣṭer ekatvāvadhāraṇād avibhāga-vacanaṁ nāma-rūpa-vibhāgābhāvābhiprāyam| sūtram api vyākhyātam||18|| ity ātmādhikaraṇam||3||
Link copied235. jño'ta eva||2|3|19||
Link copiedkiṁ jīvaś caitanya-mātra-vapuḥ, uta jaḍa-svarūpa evāgantuka-caitanya-guṇaḥ, uta jñātṛtvaika-svarūpa iti saṁśayaḥ| caitanya-mātra-vapur iti prathamaḥ pakṣaḥ| vijñānaṁ yajñaṁ tanute, yo vijñāne tiṣṭhan, jñāna-svarūpam atyanta-nirmalam, ity ādi śruti-smṛtibhyaḥ| dvitīyas tu--- suṣupti-mūrcchādiṣu sato'py ātmanaś caitanyānupalabdheḥ, jāgrato'pīndriya-vyāpārānvaya-vyatirekānuvidhāyitvāc caitanyasya, na pretya saṁjñāstīti muktasya caitanya-pratiṣedhāc ca, pāṣāṇa-kalpa evāgantuka-caitanya-guṇaḥ| sarvatra kāryopalabdheḥ sarvatra sannidhānāt, śarīra-gamanenaiva kāya-sambhave gati-kalpanāyogāt, sarva-gataś ceti| rāddhāntas tu--- atha yo vededaṁ jighrāṇīti sa ātmā manasaitān kāmān paśyan ramate, na paśyo mṛtyuṁ paśyati, sarvaṁ ha paśyaḥ paśyati, draṣṭā śrotā ghrātā rasayitā, ity ādi śrutibhyo baddha-muktobhayāvastho jñātaivātmā| jñāna-mātra-vyapadeśas tu jñānasya pradhāna-guṇatvāt, svarūpānubandhitvena svarūpa-nirūpaka-guṇatvāt, ātma-svarūpasya jñānavat sva-prakāśatvād vopapadyate| suṣupti-mūrcchādau sad eva jñānaṁ karmaṇā saṅkucitam anabhivyaktam api jāgarādau vikasitam abhivyajyata iti na virodhaḥ| na pretya saṁjñāstīti sāṁsārika-dehādy-asmaraṇa-viṣayam, nopajanaṁ smarann idaṁ śarīram ity ādinaikārthyāt| sarva-gatatvaṁ tv aṇutva-gaty-ādi-śruti-viruddham| sūtrārthas tu--- jño'ta eva| ataḥ--- śruter jñātaiva||19||
Link copied236. utkrānti-gaty-āgatīnām||2|3|20||
Link copiedśruter iti vartate| tena pradyotenaiṣa ātmā niṣkrāmati--- ye vai kecāsmāl lokāt prayanti candramasam eva te sarve gacchanti--- tasmāl lokāt punar ety asmai lokāya karmaṇe, ity ādy utkrānti-gaty-āgatīnāṁ śravaṇād aṇur jīvaḥ||20||
Link copied237. svātmanā cottarayoḥ||2|3|21||
Link copiedca-śabdo'vadhāraṇārthaḥ| yady apy utkrāntau sthitasya śarīra-viśleṣeṇa kathañcit sampādyatvam asti; uttarayoḥ--- gamanāgamanayos tu svātmanaiva sampādyatvam avaśyābhyupeyam||21||
Link copied238. nāṇur atac chruter iti cen netarādhikārāt||2|3|22||
Link copiedyo'yaṁ vijñāna-maya iti jīvaṁ prastutya, sa vā eṣa mahān aja ātmā, iti mahatva-śruter nāṇur jīva iti cen na; itarādhikārāt--- jīvetara-paramātmādhikārāt, yasyānuvittaḥ pratibuddha ātmā, iti hi madhye paramātmā prastutaḥ||22||
Link copied239. sva-śabdonmānābhyāṁ ca||2|3|23||
Link copiedeṣo'ṇurātmā cetasā veditavyaḥ yasmin prāṇaḥ pañcadhā saṁviveśeti sākṣād aṇu-śabdād aṇur evāyam| unmānāc cāṇur eva| unmānam--- uddhṛtya mānam| ārāgra-mātro hy avaro'pi dṛṣṭaḥ, ity ārāgram uddhṛtya tan-mānatvaṁ hi jīvasya śrūyate||23||
Link copiedātmano'ṇuparimāṇasya sakala-dehavyāpi sukhādy-anubhavaḥ katham ity atra matāntareṇa parihāramāha---
Link copied240. avirodhaś candanavat||2|3|24||
Link copiedyathā hari-candana-binduḥ dehaika-deśa-varty api sakala-deha-vartinam āhlādaṁ janayati, tadvad avirodhaḥ||24||
Link copied241. avasthiti-vaiśeṣyād iti cen nābhyupagamād dhṛdi hi||2|3|25||
Link copiedcandana-bindor daihaika-deśa-viśeṣa-sthity-apekṣas tathābhāvaḥ; ātmanas tu na tatheti cen na, ātmano'pi tathābhāvābhyupagamāt; hṛdi hy ayam ātmā sthita iti śrūyate--- yo'yaṁ vijñāna-mayaḥ prāṇeṣu hṛdy antar jyotir ity ādau||25||
Link copiedsva-matenāha---
Link copied242. guṇād vālokavat||2|3|26||
Link copiedvā-śabdo matāntara-vyāvṛtty-arthaḥ| ātmā sva-guṇena jñānena sakala-dehaṁ vyāpyāvasthitaḥ; yathā dyu-maṇi-maṇi-prabhṛtīnām ekadeśa-vartinām ālokaḥ tad-guṇaḥ aneka-deśa-vyāpī dṛśyate||26||
Link copiedvijñānaṁ yajñaṁ tanute, ity ādī jñānam evātmeti vyapadiśyata iti cet; tatrāha---
Link copied243. vyatireko gandhavat tathā ca darśayati||2|3|27||
Link copiedjānāmīty ātma-guṇatvena pratīter vyatireko'bhyupagamanīyaḥ| yathā gandhavatī pṛthivī ity upalabdhau gandhas tad-guṇas tad-vyatiriktaḥ| darśayati ca śrutiḥ--- jānātv evāyaṁ puruṣa iti||27||
Link copied244. pṛthag upadeśāt||2|3|28||
Link copiedna kevalaṁ jānāmīti pṛthag-upalabdhi-mātram; ātmanaḥ pṛthaktvenopadiśyate ca jñānam--- na hi vijñātur vijñāter viparilopo vidyate, iti||28||
Link copiedvijñānam ātmeti vyapadeśaḥ katham upapadyata ity atrāha---
Link copied245. tad-guṇa-sāratvāt tu tad-vyapadeśaḥ prājñavat||2|3|29||
Link copiedjñāna-guṇa-sāratvād ātmano jñānam iti vyapadeśaḥ; yathā prājñaḥ--- brahmaṇā vipaścitā, yaḥ sarva-jñaḥ sarva-vit, iti sarva-jña eva jñāna-guṇa-sāratvāt, satyaṁ jñānam iti vyapadiśyate||29||
Link copied246. yāvad-ātma-bhāvitvāc ca na doṣas tad-darśanāt||2|3|30||
Link copiedjñānasya yāvad-ātma-svarūpa-bhāvitvāc ca tena tad-vyapadeśo na doṣaḥ, khaṇḍādiṣu tathā darśanāt; khaṇḍādiṣu hi yāvat-svarūpa-bhāvi-dharmatvena gotvasya gaur iti vyapadeśo dṛśyate; ca-kārād ātmanaḥ sva-prakāśatvena jñānam iti vyapade(śe)śo na doṣa ity ucyate||30||
Link copiedsuṣupty-ādiṣu jñānasyānupalabdher na yāvad-ātma-bhāvitvam ity āśaṅkyāha---
Link copied247. puṁstvādivat tv asya sato'bhivyakti-yogāt||2|3|31||
Link copiedtu-śabdaḥ śaṅkā-nivṛtty-arthaḥ; suṣupty-ādiṣv api sato jñānasyānabhivyaktasya jāgary-ādiṣv abhivyakti-sambhavād yāvad-ātma-bhāvyeva jñānam| puṁstvādivat--- puṁstvam iti puruṣāsādhāraṇa-dhātur ucyate; yathā sapta-dhātu-mayatvena śarīrasya puṁstvasya bālye'pi sato'nabhivyaktasya saptama-dhātor yuvatve'bhivyaktiḥ||31||
Link copiedevam ātmano jñātṛtvam aṇutvaṁ coktvā pakṣāntare doṣam āha---
Link copied248. nityopalabdhy-anupalabdhi-prasaṅgo'nyatara-niyamo vānyathā||2|3|32||
Link copiedanyathā--- jñānātma-vāde sarva-gatātma-vāde copalabdhy-anupalabdhī nityavat prasajyeyātām; upalabdhy-anupalabdhyor anyatara-niyamo vā| jñānātmapakṣe tāvaj jñānasya prakāśa-svabhāvatvāt prakāśa-paryāyopalabdher nityavat prasaktir anivāryā| jñāne vidyamāne sati hetv-antareṇānupalabdhi-jananāyogāj jñānam evānupalabdher api hetur ity āstheyam| jñānasya sarvadā vartamānatvāt sarvadobhaya-prasaktiḥ| atha yugapad-viruddha-kārya-jananāyogāj jñānam upalabdhy-anupalabdhyor anyatara-hetur āsthīyate, tadānyatara-niyamaḥ syāt| sarva-gatatva-pakṣe yathā jñānātma-vādinām, tathaiva hetu-janya-jñāna-vādino'pi sarveṣām ātmanāṁ sarva-gatatve sarvasyātmanaḥ saṁyogāder hetoḥ sarveṣāṁ sādhāraṇatvād ukta-rītyā tathaiva prasaktiḥ| adṛṣṭotpatti-hetor api sarvasya sādhāraṇatvād adṛṣṭenāpi na vyavasthā||32|| iti jñādhikaraṇam||4||
Link copied249. kartā śāstrārthavattvāt||2|3|33||
Link copiedātmano jñātṛtvavat kartṛtvam apy asti, neti saṁśayaḥ| pradhānasyaiva kartṛtvād ātmano na kartṛtvam astīti pūrvaḥ pakṣaḥ| ahaṅkāra-vimūḍhātmā kartāham iti manyate, nānyaṁ guṇebhyaḥ kartāram, ity ādiṣu guṇānām eva kartṛtva-vacanāt| rāddhāntas tu--- svargāpavarga-sādhanānuṣṭhāna-vidhāna-śāstrāṇām arthavattvāya kartaivātmā, boddhur eva hi śāsanam; nācetanasya pradhānasya| yajeta, upāsīteti kartari lakāraḥ| ataḥ kartāram eva bodhayati śāstram| sūtram api vyākhyātam||33||
Link copied250. upādānād vihāropadeśāc ca||2|3|34||
Link copiedupādānād upadiśyamānāt, vihāropadeśāc ca| upadiśyate upādānaṁ, vihāraś ca, evam evaiṣa etān prāṇān gṛhītvā sve śarīre yathākāmaṁ parivartate, ity upādāna-vihārayoḥ kartṛtvopadeśāc ca kartā||34||
Link copied251. vyapadeśāc ca kriyāyāṁ na cen nirdeśa-viparyayaḥ||2|3|35||
Link copiedvijñānaṁ yajñaṁ tanute karmaṇi tanute'pi ceti yajñādi-karmasv ātmanaḥ kartṛtvopadeśāc ca kartā| vijñāna-śabdena nātmano vyapadeśaḥ, api tv antaḥkaraṇa-rūpa-buddher eveti cet--- tathā sati vijñāneneti karaṇa-vibhakti-nirdeśaḥ syāt||35||
Link copied252. upalabdhivad aniyamaḥ||2|3|36||
Link copiedpradhānasya kartṛtvena ātmano bhoktṛtvam iti pakṣe pūrvoktopalabdhy-aniyamavat pradhānasya sarva-sādhāraṇatvād bhoktṛtvāniyamaḥ| antaḥkaraṇa-bhede'pi sarveṣām ātmanāṁ sarva-gatatvena sādhāraṇyam anivāryam||36||
Link copied253. śakti-viparyayāt||2|3|37||
Link copiedbuddheḥ kartṛtve kartur anyasya bhoktṛtvāyogād bhoktṛtva-śaktir api buddher evety ātmano bhoktṛtva-śakti-viparyayaḥ--- hānir ity arthaḥ||37||
Link copied254. samādhyabhāvāc ca||2|3|38||
Link copiedprakṛteḥ kartṛtve mokṣa-sādhana-bhūta-samādhy-abhāvaś ca syāt; prakṛter anyosmīti samādhāne prakṛteḥ kartṛtvāyogāt||38||
Link copied255. yathā ca takṣobhayathā||2|3|39||
Link copiedātmanaḥ kartṛtve('pi) bhoga-vāñchāyāṁ karoti, anyathā na karotīty ubhaya-prakāra-vyavasthopapadyate; yathā takṣā sva-kārye icchayā vyavasthitaḥ| buddheḥ kartṛtve acetanatvena svecchāyā abhāvād vyavasthā na sidhyatīty abhiprāyaḥ||39|| iti kartradhikaraṇam||5||
Link copied256-257. parāt tu tac-chruteḥ||2|3|40||
Link copiedkṛta-prayatnāpekṣas tu vihita-pratiṣiddhāvaiyarthyādibhyaḥ||2|3|41||
Link copiedidānīṁ jīvasya kartṛtvaṁ kiṁ paramātmāyattam, uta svāyattam iti saṁśayaḥ| svāyattam iti pūrvaḥ pakṣaḥ, vidhi-niṣedha-śāstrānarthakyāpatteḥ| yaḥ sva-buddhyaiva pravṛtti-nivṛtti-śaktaḥ, sa eva hi niyojyo nigrahānugrahāspadaṁ ca bhavatīti| rāddhāntas tu--- antaḥ praviṣṭaḥ śāstā janānāṁ sarvātmā, ya ātmānam antaro yamayati ity ādi śruteḥ paramātmāyattam eva kartṛtvam; tac ca jīvena sva-buddhyā kṛtaṁ prayatnam apekṣya tad-anumati-dāneneti vidhi-niṣedhāvaiyarthyam| ata eva nigrahānugrahāspadaṁ ca| sūtra-dvayam api vyākhyātam||40-41|| iti parāyattādhikaraṇam||6||
Link copied258. aṁśo nānā-vyapadeśād anyathā cāpi dāśa-kitavāditvam adhīyata eke||2|3|42||
Link copiedkiṁ jīvaḥ paramātmano'tyanta-bhinnaḥ, uta paramātmaivājñaḥ, atha paramātmaivopādhi-sambaddhaḥ, paramātmāṁśo veti saṁśayaḥ| atyanta-bhinnaḥ--- iti prathamaḥ pakṣaḥ, pṛthagātmānaṁ preritāraṁ ca mattvā, tayor anyaḥ pippalaṁ svādv atty anaśnann anyo abhicākaśīti, anīśaś cātmā badhyate bhoktṛ-bhāvāt, sarvasya vaśī sarvasyeśānaḥ, ity ādi bheda-śruteḥ, jīva-paramātmanoḥ karma-paratantratā-tad-viparītatva-śruteś ca; abheda-śrutayo narapatir eva sarva-loka itivad aupacārikyaḥ, iti| bheda-śrutīnām avidvad-viṣayatayā vā upādhi-sambandha-viṣayatayā vā amukhya-vṛtti-sambhavād abheda-śruti-mukhyatvāya ajñaḥ paramātmā, upādhi-sambaddho vā jīvaḥ, iti yuktam| rāddhāntas tu--- nānāttvaikatva-vyapadeśāt paramātmanaḥ satya-saṅkalpatva-sarvajñatva-niravadyatva-śruter ajñatvopādhi-sambandhādy-anupapatter jīva-śabdasya jīva-śarīraka-paramātma-vācitvena tat tvam asi, ayam ātmā brahmeti sāmānādhikaraṇyasya mukhyatvāc charīra-śarīriṇor viśeṣya-bhūtayoḥ svarūpa-svabhāva-bhedena ca bheda-śruteś ca mukhyatvād viśiṣṭa-vastv-ekadeśatayā ca viśeṣaṇasya paramātmāṁśo jīvaḥ| jīva-śarīratvaṁ ca paramātmanaḥ, yasyātmā śarīram ity ādiṣu siddham| sūtrārthas tu--- aṁśaḥ, paramātmāṁśo jīvaḥ, nānā-vyapadeśāt--- bheda-vyapadeśāt, anyathā ca--- abheda-vyapadeśāc ca; ukta-nītyā ubhaya-mukhyatvāyety abhiprāyaḥ| dāśa-kitavāditvam apy adhīyata eke, brahma dāśā brahma dāsāḥ, ity ādinā dāśa-kitavāditvam apy adhīyata eke śākhinaḥ; sarva-jīva-vyāpitvād abhedopadeśasya tatrātyādaraḥ pratīyata ity arthaḥ||42||
Link copied259. mantra-varṇāt||2|3|43||
Link copiedmantra-varṇāc cāṁśa eva jīvaḥ, pādo'sya viśvā bhūtānīti; pāda-śabdo'ṁśa-vācī||43||
Link copied260. api smaryate||2|3|44||
Link copiedmamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ, iti jīvasya paramātmāṁśatvaṁ smaryate ca||44||
Link copiedeka-dravyaikadeśatvaṁ hy aṁśatvam; ato jīvasya brahmaikadeśatvena jīva-doṣā brahmaṇo doṣā evety āśaṅkyāha---
Link copied261. prakāśādivat tu naivaṁ paraḥ||2|3|45||
Link copiedtu-śabdaḥ śaṅkā-nivṛtty-arthaḥ; prakāśavatāṁ maṇi-dyu-maṇi-prabhṛtīnāṁ prakāśa-viśiṣṭānāṁ viśeṣaṇa-bhūtaḥ prakāśo yathāṁśaḥ, tadvaj-jīva-śarīratayā jīva-viśiṣṭasya brahmaṇo'ṁśo jīvaḥ| viśiṣṭa-vastv-aikadeśatayā viśeṣaṇasya, viśeṣaṇaṁ viśiṣṭasyāṁśaḥ| ādi-śabdād dravya-viśeṣaṇataika-svabhāva-jāti-guṇa-śarīrāṇi gṛhyante| viśeṣaṇa-viśeṣyayoḥ svarūpa-svabhāva-bhedād viśeṣaṇa-bhūto jīvo yat svarūpo yat svabhāvaś ca, naivaṁ paraḥ--- sarva-jñaḥ satya-saṅkalpo nitya-niravadyaś cety arthaḥ||45||
Link copied262. smaranti ca||2|3|46||
Link copiedprakāśādivaj jīvasyāṁśatvaṁ parāśarādayaḥ smaranti--- ekadeśa-sthitasyāgner jyotsnā vistāriṇī yathā| parasya brahmaṇaḥ śaktis tathedam akhilaṁ jagat|| tathā paraṁ pratiśarīratvaṁ ca, yat kiñcit sṛjyate yena sattva-jātena vai dvija| tasya sṛjyasya sambhūtau tat sarvaṁ vai hares tanuḥ, iti||46||
Link copiedbrahmāṁśatvena ca sarveṣām ātmanāṁ samatvād vedādhyayanādau keṣāñcid anujñā, keṣāñcit parihāraś ca katham upapadyata ity atrāha---
Link copied263. anujñā-parihārau deha-sambandhāj jyotir-ādivat||2|3|47||
Link copiedbrāhmaṇādi-śucy-aśuci-deha-sambandhād anujñā-parihārau upapadyete, jyotir-ādivat| jyotiḥ--- agniḥ, yathā śrotriyāgārād agnir āhriyate, śmaśānādes tu parihriyate; yathā cānnādiḥ śrotriyāder anujñāyate, abhiśastādeś ca parihriyate, tadvat||47||
Link copied264 asantateś cāvyatikaraḥ||2|3|48||
Link copiedjīvānāṁ pratiśarīraṁ bhinnatvādaṇutvena tatra tatrāvacchinnatvāc ca na bhoga-vyatikaraś ca| ajña-brahma-jīva-vāde copahita-brahma-jīva-vāde cājñāna-sambandhi copādhisambandhi ca brahmaiveti bhoga-vyavasthā na siddhyatīty abhiprāyaḥ||48||
Link copied265. ābhāsā eva ca||2|3|49||
Link copiedajña-brahma-jīva-vāde sarva-jñasya brahmaṇaḥ ajñāna-kalpana-svarūpa-tirodhāna-kalpanā-hetava ābhāsā eva| ca-kārān niravadyatvādi-śruti-virodhaś ca||49||
Link copiedpāramārthikopādhi-sambandhi-brahma-jīva-vāde anādy-adṛṣṭa-pravāheṇopādhi-pravāhānāditvāt tat-sambandhini ye doṣāḥ, na te brahmaṇi prasajyanta ity atrāha---
Link copied266. adṛṣṭāniyamāt||2|3|50||
Link copiedadṛṣṭais tat-kṛtopādhibhiś ca brahmaṇaś chedāsambhavāt tat-kṛtā doṣā brahmaṇy eva sambhaveyuḥ||50||
Link copied267. abhisandhyādiṣv api caivam||2|3|51||
Link copiedadṛṣṭa-hetu-bhūtābhisandhyādiṣv apy upādhi-brahma-vyatirikta-vastv-antarābhāvāt pūrva-pūrvopādhi-yuktaṁ brahmaiveti na kaścid viśeṣaḥ||51||
Link copied268. pradeśa-bhedād iti cen nāntarbhāvāt||2|3|52||
Link copiedupādhi-sambandhi-brahma-pradeśād anupahita-brahma-deśo bhidyate; ato vyavastheti cen na, upādhiṣu gacchatsu pūrvam anupahita-brahma-pradeśasyāpy antarbhāvāt||52|| ity aṁśādhikaraṇam||7||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe dvitīyasyādhyāyasya tṛtīyaḥ pādaḥ||
Link copied