Skip to content

Vedanta Dipa · Section 7 of 17

||atha dvitīyādhyāye dvitīyaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

१७५। रचनानुपपत्तेश् च नानुमानꣳ प्रवृत्तेश् च॥२।२।१॥

Link copied

साङ्ख्य-तन्त्र-सिद्धः प्रधान-कारण-वादः किꣳ समीचीन-युक्ति-मूल, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। घटादिवद् विचित्र-सन्निवेशꣳ जगत् कार्यꣳ तद्वद् एव स्व-सरूप-कारण-विशेषारब्धम्। सुख-दुःख-मोहाद्य्-आत्मकतया सत्त्वाद्य्-आत्मकꣳ जगत् सत्त्व-रजस्-तमो-मूलकम्। तत्र महद्-आदि-पृथिव्य्-अन्तानाꣳ घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगद्-उत्पत्तौ कारण-काष्ठा न भवन्ति; तेषाꣳ परिमितत्वेन अपरिमित-जगद्-उत्पादनाशक्तेः। अन्यूनानतिरिक्तानि साम्यावस्थान्य् अपरिमितानि सत्त्व-रजस्-तमाꣳस्य् अव्यक्त-प्रधानादि-शब्दाभिधेयानि जगत्-कारणम्। राद्धान्तस् तु--- रथ-प्रासादादि-हेतु-भूत-दार्वादिवद् अचेतनꣳ प्रधानꣳ स्व-स्वभावाद्य्-अभिज्ञ-चेतनानधिष्ठितꣳ विचित्र-जगद्-रचना-समर्थम् इति न केवलꣳ प्रधानꣳ कारणम्। सूत्रार्थस् तु--- रचनानुपपत्तेश् च नानुमानम्--- अनुमीयत इत्य् अनुमानꣳ प्रधानम्; तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्र-सन्निवेश-जगद्-रचनानुपपत्तेस् तन् न कारणम्। च-कारात् सत्त्वादीनाꣳ द्रव्य-गुणत्वेन शौक्ल्यादेर् इवोपादान-कारणत्वासम्भवꣳ समुच्चिनोति। सत्त्वादयो हि कार्य-गत-लाघव-प्रकाशादि-हेतु-भूताः कारण-भूत-पृथिव्य्-आदि-गतास् तत्-स्वभाव-विशेषाः। प्रवृत्तेश् च--- अनुपपत्तेर् इति वर्तते; प्राज्ञानधिष्ठितस्य प्रधानस्य विचित्र-जगद्-रचनानुगुणाद्य्-अपरिस्पन्द-रूप-प्रवृत्त्य्-अनुपपत्तेश् च न प्रधानꣳ कारणम्॥१॥

Link copied

१७६। पयोऽम्बुवच् चेत् तत्रापि॥२।२।२॥

Link copied

पयसः अम्बुनश् च यथा प्राज्ञानधिष्ठितस्यैव दधि-भावेन नारिकेल-चूतादि-विचित्र-रस-रूपेण च परिणामो दृश्यते; तद्वत् प्रधानस्यापि केवलस्यैव जगद्-आकारेण परिणाम उपपद्यत इति चेत् परिहरति तत्रापीति। तद् अपि पक्षीकृतम् इत्य् अर्थः। यत्र रथादिष्व् अचेतनस्य प्राज्ञाधिष्ठितत्वꣳ दृष्टम्, तद्-व्यतिरिक्तꣳ हि सर्वꣳ पक्षीकृतम् एव। योऽप्सु तिष्ठन्न् इत्य् आदि श्रुतेस् तद् अपि प्राज्ञाधिष्ठितम्॥२॥

Link copied

१७७। व्यतिरेकानवस्थितेश् चानपेक्षत्वात्॥२।२।३॥

Link copied

सर्ग-व्यतिरेकेण प्रतिसर्गावस्थयानवस्थिति-प्रसङ्गाच् च केवलꣳ प्रधानꣳ न कारणम्; अन्यानपेक्षत्वात् प्रधानस्य सर्वदैव सृष्टिः प्रसज्यते॥३॥

Link copied

१७८। अन्यत्राभावाच् च न तृणादिवत्॥२।२।४॥

Link copied

धेन्व्-आदिनोपयुक्तꣳ हि तृणोदकादि स्वयम् एव क्षीराकारेण परिणमते; तद्वत् प्रधानम् अपीति च वक्तुꣳ न शक्यते; धेन्व्-आदिनोपयुक्तस्यापि तृणादेः क्षीराकारेण परिणामः प्राज्ञाधिष्ठितत्वाद् एव भवतीत्य् अभ्युपेतव्यम्। कुतः। अन्यत्राभावात्--- अनडुहाद्य्-उपयुक्तस्य प्रहीणस्य वा तृणादेः क्षीराकारेण परिणामाभावात्॥४॥

Link copied

१७९। पुरुषाश्मवद् इति चेत् तथापि॥२।२।५॥

Link copied

प्राज्ञानधिष्ठितम् अपि प्रधानꣳ चैतन्य-मात्र-वपुर् निष्क्रियः पुरुषः स्व-सन्निधि-मात्रेण सर्गादौ प्रवर्तयति। यथा दृक्-शक्ति-युक्तो गमन-शक्ति-विकलः पङ्गुः पुरुषः, अन्धꣳ दृक्-शक्ति-विकलꣳ प्रवृत्ति-शक्ति-युक्तꣳ पुरुषꣳ स्व-सन्निधानात् प्रवर्तयति; यथा चायस्कान्ताश्मा स्व-सन्निधानादयः प्रवर्तयति तद्वद् इति चेत्; परिहरति--- तथापीति। तद्वद् अपि प्रधानस्य प्रवृत्तिर् नोपपद्यते; तत्र हिꣳ पङ्गोः पुरुषस्य गमन-शक्ति-विकलस्यापि मार्गोपदेशादि-व्यापारः कादाचित्को दृश्यते; अन्धस्य चाक्षुष-व्यापार-विरहेऽपि पङ्गूपदेश-ग्रहणादिश् चेतन-धर्मोऽस्ति। अयस्कान्त-मणेर् अप्य् अयः-प्रवृत्तौ कादाचित्कम् अयः-सन्निधानꣳ विद्यते। इह तु सन्निधि-मात्रातिरेकी तादृशः कश्चिद् विशेष उभयत्रापि न विद्यते। पुरुष-सन्निधानस्य नित्यत्वेन नित्य-सर्ग-प्रसक्तिः। तथा सति प्रतिसर्गाभावोऽपवर्गाभाव-प्रसङ्गश् च॥५॥

Link copied

इतश् च---

Link copied

१८०। अङ्गित्वानुपपत्तेश् च॥२।२।६॥

Link copied

गुणानाम् उत्कर्षापकर्ष-रूपाङ्गाङ्गि-भावेन जगत्-प्रवृत्तिः प्रतिसर्गावस्थायाꣳ साम्यावस्थानाम् एकस्योत्कर्ष-रूपाङ्गित्वानुपपत्तेश् च न सम्भवति। तत्राप्य् उत्कर्षोऽस्ति चेत्, सर्वदा सर्ग-प्रसङ्गः॥६॥

Link copied

१८१। अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात्॥२।२।७॥

Link copied

उक्त-प्रकाराद् व्यतिरिक्त-प्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्व-शक्ति-वियोगाद् रचनानुपपत्त्य्-आदयो दोषास् तद्-अवस्थाः॥७॥

Link copied

१८२। अभ्युपगमेऽप्य् अर्थाभावात्॥२।२।८॥

Link copied

प्रधानाभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान् न तद्-अनुमेयम्। पुरुषस्य भोगापवर्गार्थतया हि प्रधान-प्रवृत्तेः सप्रयोजनत्वम्। चैतन्य-मात्र-वपुषो निष्क्रियस्य नित्य-निर्विकारस्य पुरुषस्य इतरेतराध्यास-कृत-प्रकृति-दर्शन-रूप-भोगः, तद्-विवेक-रूपापवर्गश् च न सम्भवति। निर्विकारस्यैव प्रकृति-सन्निधानेन भोगः सम्भवति चेत्; उभयोर् नित्यत्वेन च सन्निधानस्य नित्यत्वाद् अपवर्गासिद्धिः; तथाविध-सन्निधेर् एवापवर्ग-हेतुत्वे भोगासिद्धिश् च॥८॥

Link copied

१८३। विप्रतिषेधाच् चासमञ्जसम्॥२।२।९॥

Link copied

विप्रतिषिद्धꣳ चेदꣳ साङ्ख्य-दर्शनम्; प्रकृतेः परार्थतया पुरुषो द्रष्टा भोक्ता अधिष्ठाता चेत्य् आहुः; प्रकृतेश् च पुरुषस्य भोगापवर्गार्थतया सप्रयोजनत्वꣳ च, प्रकृत्यैव साधन-भूतया पुरुषो भोगम् अपवर्गꣳ चाश्नुत इति चोक्तेः। स च पुरुषश् चैतन्य-मात्र-वपुर् नित्यो निर्विकारो न द्रष्टा न भोक्ता न कर्तेति च; अत एव पुरुषो न बध्यते, न च मोक्ष-साधनम् अनुतिष्ठति, न च मुच्यत इति च वदन्ति। प्रकृतिर् अचेतन-भूतैव पुरुष-सन्निधानात् पुरुष-धर्मꣳ चैतन्यꣳ स्वस्मिन् स्व-धर्मꣳ कर्तृत्वꣳ पुरुषे चानुसन्धाय बध्यते; मोक्ष-साधनम् अनुतिष्ठति, मुच्यते इति चाहुः। अध्यास-रूपम् अनुसन्धानꣳ हि चेतन-धर्मः; तथा प्रकृतिर् अनुपकारिणः पुरुषस्य भोगापवर्ग-स्वरूपꣳ प्रयोजनꣳ साधयतीत्य् उपकारिणीति चाहुः। अध्यास-रूप-बन्धादयः पुरुषस्य न सन्तीति चेत्, कस् तस्योपकारः। एवम् आद्य् अन्योन्य-विरुद्ध-भाषणाद् असमञ्जसम्॥१॥ इति रचनानुपपत्त्य्-अधिकरणम्॥१॥

Link copied

१८४। महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्॥२।२।१०॥

Link copied

किꣳ काणादाभ्युपगतः परमाणु-कारण-वादः समीचीन-युक्ति-मूलः, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्व-पक्षः, अवयव-सꣳयोगाद् अवयव-व्युत्पत्तेर् दर्शनात्, अवयवाल्पत्व-प्राचुर्याभ्याꣳ सर्षप-महीधर-वैषम्य-दर्शनाच् च अवयवाल्पत्व-काष्ठावश्याभ्युपगमनीयेति परमाणु-सिद्धिः। ते चतुर्-विधाः परमाणवो विपाक-दशापन्न-क्षेत्रज्ञादृष्ट-सचिवाः परमेश्वराधिष्ठिताः द्व्य्-अणुकादि-क्रमेण जगद्-आरम्भका इति।

Link copied

राद्धान्तस् तु--- अवयवाः स्वकीयैः षड्भिः पार्श्वैर् असꣳयुज्यमानाः स्वस्मान् महान्तम् अवयविनम् उत्पादयन्तीति परमाणुष्व् अपि तथैवोत्पादकत्वम् अभ्युपेतव्यम्। तथा सति परमाणवोऽपि साꣳशाः स्वकीयैर् अवयवैः, ते च स्वकीयैर् इति न क्वचित् कारणस्य व्यवस्थितिः। सूत्रार्थस् तु--- महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्; असमञ्जसम् इति वर्तते; वा-शब्दश् चार्थे। ह्रस्व-परिमण्डलाभ्याꣳ--- द्व्य्-अणुक-परमाणुभ्याꣳ महद् दीर्घवत्--- त्र्य्-अणुक-द्व्य्-अणुकोत्पत्तिवद् अन्यच् च तद्-अभ्युपगतꣳ सर्वम् असमञ्जसम्॥१०॥

Link copied

द्व्य्-अणुकादि-क्रमेणारम्भकत्वꣳ कारणानवस्थितेर् असमञ्जसम्। किम् अत्रान्यद् असमञ्जसम् इत्य् अत्राह---

Link copied

१८५। उभयथापि न कर्मातस् तद्-अभावः॥२।२।११॥

Link copied

परमाणूनाम् आद्यꣳ कर्म अदृष्ट-कारितम् इत्य् अभ्युपगम्यते; तद् अदृष्टꣳ किम् अणु-गतम्। उत क्षेत्रज्ञ-गतम्। उभयथाप्य् अदृष्टस्य अकादाचित्कत्वेन सदोत्पादकत्व-प्रसङ्गात् कादाचित्कꣳ कर्म न सम्भवति। अतः कर्मणा परमाणुसꣳयोगाभावः। विपाकापेक्षत्वेऽपि नाना-विधानन्तादृष्टानाम् एक-दैवैक-रूप-विपाकश् च न सम्भवति। आनुमानिकेश्वरासिद्धेर् ईश्वरेच्छयापि नियमो न सम्भवति॥११॥

Link copied

१८६। समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः॥२।२।१२॥

Link copied

समवायाभ्युपगमाच् चासमञ्जसम्; समवायो हि जाति-गुणादीनाꣳ द्रव्य-विशेषापृथक्-सिद्धि-हेतुतयाभ्युपगम्यते; समवायस्यापि तथाभावे हेत्व्-अपेक्षासाम्याद् अनवस्थितेः। समवायस्य तथाभावः स्वाभाविक इति चेत्; जाति-गुणादीनाम् एवैष स्वभाव इति युक्तम्॥

Link copied

इतश् च---

Link copied

१८७। नित्यमेव च भावात्॥२।२।१३॥

Link copied

समवाय-सम्बन्धस्य नित्यत्वाभ्युपगमात्, सम्बन्धि-नित्यत्वम् अन्तरेण तद्-अनुपपत्तेः, अवयवावयविनोर् उभयोर् अपि नित्यम् एव भावात् कार्य-कारण-भाव एव न सिद्ध्यति॥१३॥

Link copied

१८८। रूपादिमत्वाच् च विपर्ययो दर्शनात्॥२।२।१४॥

Link copied

परमाणूनाꣳ नित्यत्व-निरवयवत्वादि-विपर्ययश् च स्यात्, रूपादिमत्त्वात् तेषाम्, घटादिषु रूपादिमत्सु तथा दर्शनात्; दर्शनाद् एव हि त्वद्-अभिमतꣳ परिकल्प्यते॥१४॥

Link copied

१८९। उभयथा च दोषात्॥२।२।१५॥

Link copied

अनित्यत्वादि-भयात् परमाणूनाꣳ रूपादि-शून्यत्वे कार्य-गुणस्य कारण-गुण-पूर्वकत्वासिद्धिः, तत्-सिद्धये रूपादिमत्त्वे चानित्यत्वादि-दोष-प्रसक्तिर् इति, उभयथा च दोषाद् असमञ्जसम् एव॥१५॥

Link copied

१९०। अपरिग्रहाच् चात्यन्तम् अनपेक्षा॥२।२।१६॥

Link copied

कापिल-पक्षे हि श्रुति-न्याय-विरुद्धेऽपि सत्कार्यवादादि किञ्चिद् वैदिकैः परिगृह्यते; काणादे तु कस्यचिद् अप्य् अꣳशस्य वैदिकैः परिग्रहाभावाद् अनुपपन्नत्वाच् च निःश्रेयसार्थिभिर् अत्यन्तम् अनपेक्षा कार्या॥१६॥ इति महद्-दीर्घाधिकरणम्॥२॥

Link copied

१९१। समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः॥२।२।१७॥

Link copied

सौगताश् चतुर्विधाः--- प्रत्यक्ष-सिद्ध-स्थूल-द्रव्य-वादिनः केचिद् वैभाषिकाः; अन्ये विज्ञानानुमेय-स्थूल-द्रव्य-वादिनः। ते च सौत्रान्तिकाः। अपरे निरालम्बन-विज्ञान-मात्र-सद्-भावꣳ वदन्ति योगाचाराः। त्रयोऽप्य् एते स्वाभ्युपगत-वस्तुनः क्षणिकत्वꣳ वदन्ति। अन्ये तु सर्व-शून्य-वादिनो माध्यमिकाः। तत्राद्ययोर् बाह्य-सद्-भावम् अभ्युपगच्छतोर् जगद्-उत्पत्ति-प्रकारो लोक-व्यवहारश् च सूपपादः, उत दुरुपपाद इति सꣳशयः। सूपपाद इति पूर्वः पक्षः। तथा हि--- पर्थिवाप्य-तैजस-वायवीया गन्धादि-युक्ताः परमाणवो हि पृथिव्य्-आदि-रूपेण सꣳहता भवन्ति; भूतेभ्यश् च शरीरेन्द्रिय-विषय-लक्षण-सङ्घाताः। तत्र आन्तरो विज्ञान-सन्तानो ग्राहकाभिमानारूढ आत्मत्वेनावतिष्ठते। एषु क्षणिकेष्व् अपि स्थिरत्वादि-गोचर-बुद्ध्य्-आख्या-विद्यया सर्वम् उपपद्यत इति जगद्-उत्पत्तिर् लोक-व्यवहारश् च युज्यते। राद्धान्तस् तु--- क्षण-ध्वꣳसिनः परमाणवः कदा सꣳहतौ व्याप्रियन्ते। कदा सꣳहन्यन्ते। सꣳहतौ व्यापृतास् तस्मिन्न् एव क्षणे विनष्टाश् चेत्, के पुनः सꣳहन्यन्ते। कश् च विज्ञानात्मा कदा कꣳ विषयꣳ स्पृशति। कश् च कदा कꣳ जानाति। कश् च कदा कम् अर्थम् उपादत्ते। स्प्रष्टा नष्टः, स्पृष्टꣳ च नष्टम्, वेदिता नष्टः, वेद्यꣳ च नष्टम्। कथम् अन्येन स्पृष्टम् अन्यो विजानाति। कथꣳ वान्येन विदितम् अन्य उपादत्ते। सन्तानैकत्वे सिद्धेऽपि सन्तानिभ्यः सन्तानस्य परमार्थतो वस्त्व्-अन्तरत्वानभ्युपगमात्, सन्तानैक्यम् अपारमार्थिकम् अकिञ्चित्करम्। स्थिरत्वाद्य्-अविद्ययापि सङ्घातोत्पत्तिर् न सम्भवति; न हि शुक्तिकादिषु रजताविद्यया रजताद्य्-उत्पत्ति-सम्भवः। विदुषश् च पूर्वस्य नष्टत्वेन उत्तरेणाविदुषापूर्व-विनष्टेन विदुषानुसꣳहितार्थोपादानꣳ न सम्भवति; सꣳस्काराश्रयत्वेन चैकोऽर्थः स्थिरो नाभ्युपगम्यते। अतो जगद्-उत्पत्तिर् लोक-व्यवहारश् च दुरुपपाद एव। सूत्रार्थस् तु--- समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः--- उभय-हेतुकेऽपि समुदाये समुदायत्वाप्राप्तिः; परमाणु-हेतुकः पृथिव्य्-आदि-समुदायः; पृथिव्य्-आदि-हेतुकः शरीरेन्द्रिय-समुदायः--- इत्य् उभय-हेतुकोऽपि समुदायः क्षणिकत्वाभ्युपगमाद् उक्तेन न्यायेन न सिद्ध्यतीत्य् अर्थः॥१७॥

Link copied

१९२। इतरेतर-प्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घात-भावानिमित्तत्वात्॥२।२।१८॥

Link copied

यद्य् अपि क्षणिकाः सर्वे भावाः, तथाप्य् अविद्यादीनाम् इतरेतर-हेतुकत्वाद् उपपन्नꣳ लोक-व्यवहारादिकम्। अस्थिरेषु स्थिरत्व-बुद्धि-रूपया अविद्यया तत्र तत्र राग-द्वेषादयो जायन्ते; इत्य् एवम् आदि परम्परया पुनर् अप्य् अविद्येति चक्रवत् परिवर्तत इति चेन् नैतद् उपपद्यते, सङ्घात-भावानिमित्तत्वाद् अविद्यायाः--- यद्य् अप्य् अविद्याख्या विपरीत-बुद्धिः क्षणिकꣳ स्थिरत्वेन विषयीकरोति, तथापि तन् न वस्तुतः स्थिरꣳ भवतीति वस्तुतः स्थिर-कार्यꣳ न करोति; अतः सङ्घात-भावो न सिध्यतीत्य् अर्थः। अस्थिरे स्थिरत्व-बुद्धि-युक्तस्य विज्ञानात्मनस् तदैव नष्टत्वात् कस्य राग-द्वेषादयो जायन्त इति, राग-द्वेषादि-परम्परा च न सिध्यतीत्य् अभिप्रायः॥१८॥

Link copied

इतश् च---

Link copied

१९३। उत्तरोत्पादे च पूर्व-निरोधात्॥२।२।१९॥

Link copied

उत्तर-घट-क्षणोत्पत्ति-वेलायाꣳ पूर्वस्य विनष्टत्वाद् अभावस्यैव हेतुत्वेनाविशेषात् सर्वेषाꣳ सर्वदोत्पत्तिः प्रसज्येत। पूर्व-क्षण-वर्तिनो हेतुत्वोपगमेऽपि देशादेर् विशेषकस्य स्थिरस्यैकस्यानभ्युपगमाद् अविशेषेणोत्तर-क्षण-वर्तिनः सर्वस्य हेतुः स्यात्॥१९॥

Link copied

१९४। असति प्रतिज्ञोपरोधो योग-पद्यम् अन्यथा॥२।२।२०॥

Link copied

असत उत्पत्तौ प्रतिज्ञा-विरोधश् च भवताम्; अधिपति-सहकार्यादीनाꣳ विज्ञानोत्पत्ति-हेतुत्व-प्रतिज्ञानात्। अथैतत्-परिजिहीर्षया पूर्वो घट-क्षणस् तिष्ठतीत्य् उच्येत, तदा युगपद् घट-क्षण-द्वयोपलब्धि-प्रसङ्गः; न चोपलभ्यते। उपरोधो विरोधः॥२०॥

Link copied

सतो निरन्वय-विनाशोऽपि न सम्भवतीत्य् आह---

Link copied

१९५। प्रतिसङ्ख्याप्रतिसङ्ख्या निरोधाप्राप्तिर् अविच्छेदात्॥२।२।२१॥

Link copied

प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः--- स्थूल-सूक्ष्म-विनाशयोर् अप्राप्तिर् इत्य् अर्थः। स्थूल-विनाशो मुद्गराभिघाताद्य्-अनन्तर-भाव्य्-उपलब्धि-योग्यः; सूक्ष्मस् तु, प्रतिक्षण-भाव्य्-उपलब्ध्य्-अनर्हः। तौ निरन्वयौ न भवतः, उत्पत्ति-विनाश-धर्म-भागिनो द्रव्यस्याविच्छेदात्। तद्-अनन्यत्वम् इति सत्कार्यवादस्योपपादितत्वाद् इत्य् अभिप्रायः। घटादौ कपालादि-रूपावस्थया निरन्वय-विनाशादर्शनात् प्रदीपनिर्वाणेऽपि सूक्ष्मावस्थाप्राप्तिर् इत्य् अविरोधः॥२१॥

Link copied

१९६। उभयथा च दोषात्॥२।२।२२॥

Link copied

उत्पन्नस्य तुच्छतापत्तौ, तुच्छाद् उत्पत्तौ च, इत्य् उभय-प्रकारे च दोषापत्तेः, ते न सम्भवतः। उत्पन्नस्य तुच्छतापत्तौ हि पश्चात् तुच्छाद् उत्पद्यमानꣳ जगत्-तुच्छात्मकम् एव स्यात्; मृत्-सुवर्णादेर् उत्पद्यमान-मृत्-सुवर्णाद्य्-आत्मक-घट-मुकुटादिवत्। अतस् तुच्छाद् उत्पत्तिस् तुच्छतापत्तिश् च न सम्भवतः॥२२॥

Link copied

१९७। आकाशे चाविशेषात्॥२।२।२३॥

Link copied

आकाशे तुच्छ-स्वरूपता न सम्भवति, अबाधित-प्रतीति-सिद्ध-पृथिव्य्-आदिवद् आकाशेऽप्य् अबाधित-प्रतीतेर् अविशेषात्। प्रतीयते ह्य् आकाशः, अत्र श्येनः पतत्य् अत्र गृध्र इति श्येनादेः पतन-देशत्वेन॥२३॥

Link copied

१९८। अनुस्मृतेश् च॥२।२।२४॥

Link copied

प्रत्यभिज्ञानाꣳ च न घटादेः क्षणिकत्वम्। तद् एवेदम् इति हि प्रत्यभिज्ञायते। (प्रत्यभिज्ञानꣳ हि नाम, अतीत-वर्तमान-काल-वर्त्य्-एक-वस्तु-विषयम् एकꣳ प्रत्यक्ष-ज्ञानम्। तस्य काल-द्वय-सम्बन्ध-विशिष्टम् एव वस्तु विषयः। न च तद् इत्य् अꣳशः स्मरणम्, इदम् इत्य् अꣳशश् च ग्रहणम्, अतीत-काल-सम्बन्धिनीन्द्रिय-सम्प्रयोगाभावाद् इति वाच्यम्, तद् इदम् इति सामानाधिकरण्येन ग्रहणस्यैकत्व-स्फुरणात्। पूर्व-कालानुभव-जनित-सꣳस्कार-सहकृतेन्द्रिय-सम्प्रयोग-युक्तस्य पुरुषस्य यथा ग्रहणम् उपपद्यत एव। अन्वय-व्यतिरेकादीनꣳ हि सर्वत्र सामग्रीपरिकल्पनम्)। न च ज्वालादिवत्-सादृश्य-निबन्धना प्रत्यभिज्ञेति त्वया वक्तुꣳ शक्यम्, काल-द्वय-वर्तिनोर् द्वयोः सादृश्यस्यानुसन्धातुर् ज्ञातुर् एकस्यानभ्युपगमात्॥२४॥

Link copied

पृथिव्य्-आदि-विज्ञानानुमेयार्थ-वादिनꣳ प्रत्याह। स हि ज्ञाने नील-पीतादि-विचित्राकारꣳ दृष्त्वा ज्ञानात् पूर्व-क्षण-वर्तिनꣳ ज्ञाने स्वाकारꣳ समर्प्य विनष्टम् अर्थम् अनुमिनोति। तत्रोत्तरम्---

Link copied

१९९। नासतोऽदृष्टत्वात्॥२।२।२५॥

Link copied

असतो धर्मिणो धर्मस्यान्यत्र सङ्क्रमणꣳ न सम्भवति। कुतः। अदृष्टत्वात्। न हि धर्मिणि विनष्टे तद्-धर्मस्यान्यत्र सङ्क्रमणꣳ क्वचिद् दृष्टम्॥२५॥

Link copied

२००। उदासीनानाम् अपि चैवꣳ सिद्धिः॥२।२।२६॥

Link copied

वैभाषिक-सौत्रान्तिकयोर् द्वयोर् अपि साधारणम् इदꣳ दूषणम्। एवꣳ सर्व-भावानाꣳ क्षणिकत्वाभ्युपगमे सति, उदासीनानाꣳ--- निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्, प्रयत्नाद्य् अनुतिष्ठतस् तदानीम् एव विनष्टत्वात्, तत्-तत्-सꣳस्कारादेर् अपि कस्यचित् स्थिरस्यानुवर्तमानस्यानभ्युपगमाच् च, पश्चाद् आगता सिद्धिर् अहैतुकीति निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्॥२६॥ इति समुदायाधिकरणम्॥३॥

Link copied

२०१। नाभाव उपलब्धेः॥२।२।२७॥

Link copied

योगाचाराभिमतो ज्ञान-मात्र-सद्-भाव-वादः किꣳ समीचीन-युक्ति-मूलः, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। बाह्यार्थ-सद्-भाव-वादिनापि तत्-तद्-अर्थाकार-ज्ञानस्य प्रकाशमानत्वम् अवश्याश्रयणीयम्। सर्वस्य वस्तुनः प्रकाशमानस्य स्वासाधारणेनाकारेण प्रकाश इष्यते। तत्र घट-पटादि-ज्ञानस्य घट-पटाद्य्-आकार एवाकारः। अन्यथा घटाद्य्-असाधारण्यꣳ च तत्-तज्-ज्ञानस्य न सम्भवति। एकश् चायम् आकार उपलभ्यते। स तु ज्ञानस्यैवेति तद्-व्यतिरिक्तार्थ-सद्-भाव-वादोऽनुपपन्नः। तावतैव घटोऽयꣳ ज्ञात इति व्यवहारश् चोपपद्यते। तस्य बहिर्वद् अवभासो निर्मूलत्वाद् विभ्रम-कृतः। राद्धान्तस् तु--- घटम् अहꣳ जानामीति सकर्मकस्य सकर्तृकस्य ज्ञा-धात्व्-अर्थस्य च्छेदनादिवत् सर्व-लोक-साक्षिकम् उपलभ्यमानस्य कर्तृ-कर्म-व्यतिरेकेण केवलस्यैव सद्-भावम् अनुन्मत्तः को ब्रवीति। स्वासाधारणाकारश् च छेदनादिवत् तत्-तद्-अर्थ-व्यवहार-योग्यतापादनाकारेणोपलभ्यते। एवꣳ छेदनादेर् अप्य् आकारो द्विधा-भावनादि-हेतुतयैव कर्तृ-गतस्योपलभ्यते। न ह्य् अमूर्तानाꣳ क्रियादीनाꣳ कर्तृ-कर्म-निरूपणीय-स्वाकाराणाꣳ कर्माकारत्वम् आश्रीयते। सूत्रार्थस् तु--- नाभाव उपलब्धेः, ज्ञान-व्यतिरिक्तार्थाभावो न शक्यते वक्तुम्, उपलब्धेः--- घटम् अहꣳ जानामीति जानातेः कर्मतया कर्तृतया चोपलब्धेः॥२७॥

Link copied

२०२। वैधर्म्याच् च न स्वप्नादिवत्॥२।२।२८॥

Link copied

स्वप्न-ज्ञानादिवच् च जागरित-ज्ञानानाꣳ न मिथ्यार्थत्वम्, तद्-वैधर्म्यात् निद्रादि-कारण-दोष-बाधक-प्रत्यय-रहितत्वाद् इत्य् अर्थः। च-कारात् तान्य् अपि यथार्थानीत्य् अभिप्रायः॥२८॥

Link copied

२०३। न भावोऽनुपलब्धेः॥२।२।२९॥

Link copied

न केवलस्यार्थ-शून्यस्य ज्ञानस्य भावः सम्भवति, क्वचिद् अप्य् अनुपलब्धेः। अबाधित-प्रतीति-सिद्धस्यासद्-भावे सति ज्ञान-मात्रस्याप्य् असद्-भावो न शक्यते वारयितुम् इत्य् अभिप्रायः॥२९॥ इत्य् उपलब्ध्य्-अधिकरणम्॥४॥

Link copied

२०४। सर्वथानुपपत्तेश् च॥२।२।३०॥

Link copied

माध्यमिकोक्त-सर्व-शून्यवादः सम्भवति, नेति सꣳशयः। सम्भवतीति पूर्वः पक्षः। विज्ञानꣳ घटादयश् च सर्वे भावा न सन्ति। कुतः। उत्पत्त्य्-अनिरूपणाद् घटादि-भावानाम्। भावात् तावद् उत्पत्तिर् न सम्भवति; न हि घटादिर् उत्पद्यमानः असम्मृदितेन मृत्-पिण्डादिनोत्पद्यते। नाप्य् अभावात्, पश्चाद् अभावाद् उत्पद्यमानो घटादिर् अभावात्मक एव स्याद् इति सर्व-शून्यत्वम् एव युक्तिमत्। राद्धान्तस् तु--- लोके भावाभाव-शब्दयोस् तद्-बुद्धयोश् च प्रमाणेनोपलभ्यमानस्यैव वस्तुनः अवस्था-विशेष एव भाव-रूपो विषयः। वर्तमानतयोपलभ्यमानावस्था-विशेषो भाव-बुद्धि-विषयः। तद्-विरोध्य्-अवस्था-विशेषः अभाव-बुद्धि-विषयः। अतो न कुतश्चित् त्वद्-अभिप्रेतꣳ तुच्छत्वꣳ सिद्ध्यति। सूत्रार्थस् तु--- सर्वथानुपपत्तेश् च, सर्व-शून्यवादी सर्वꣳ सद् इति प्रतिज्ञाय स्वाभिप्रेतꣳ साधयति, उतासद् इति प्रतिज्ञाय। अथ प्रकारान्तरेण प्रतिज्ञाय। सर्वथापि सर्व-शून्यत्वानुपपत्तेः स्वाभिमतासिद्धिः, सद्-असद्-भावयोर् विद्यमान-वस्तु-धर्मतोपपादनात्॥३०॥ इति सर्वथानुपपत्त्य्-अधिकरणम्॥५॥

Link copied

२०५। नैकस्मिन्न् असम्भवात्॥२।२।३१॥

Link copied

जैन-मतꣳ युक्तिमद् उत नेति सꣳशयः, युक्तिमद् इति पूर्वः पक्षः; जीवाजीव-शब्दाभिलपनीय-भोक्तृ-भोग्यात्मकꣳ जगत् सत्त्वासत्त्व-नित्यत्वानित्यत्व-भिन्नत्वाभिन्नत्वैर् अनैकान्तिकम्; षड्-द्रव्य-तत्पर्यायात्मनावस्थितत्वात् कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्व-नित्यत्वान्य् उपपन्नानि; पर्यायात्मना च विपरीतानि। पर्यायाश् च--- घटत्व-पटत्वाद्य्-अवस्था-विशेषाः। द्रव्य-स्वरूपस्यैकत्वात् स्थिरत्वात् सद्-बुद्धि-बोद्धयत्वात् तेन रूपेणैकत्वादि युक्तम्; पर्याय-शब्दाभिधेयावस्था-विशेषाणाम् अनेकत्वाद् अस्थिरत्वाद् असद्-बुद्धि-बोध्यत्वात् तेन रूपेणासत्त्वानित्यत्व-नानात्वानि युक्तानि। प्रतीति-व्यवस्थाप्यत्वात् सर्वस्य वस्तुन उभयाकार-प्रतीतेर् उभयम् उपपन्नम्। राद्धान्तस् तु--- एकस्यास्तित्व-नास्तित्वादिभिर् अनैकान्तिकत्वम् अयुक्तम्, एकस्मिन् वस्तुन्य् अस्तित्व-नास्तित्वादेर् विरुद्धस्य च्छायातपवद् युगपद् असम्भवात्। तथा हि--- द्रव्यस्य तद्-विशेषण-भूत-पर्यायस्य इत्थꣳ-शब्दाभिधेयावस्था-विशेषस्य च इदम् इत्थम् इति प्रतीतेः प्रकार-प्रकारितया पृथक्-पदार्थत्वान् नैकस्मिन् विरुद्ध-प्रकार-भूत-सत्त्वासत्त्व-रूप-धर्म-समावेशो युगपत् सम्भवति। उत्पत्ति-विनाशाख्य-परिणाम-विशेषास्पदत्वꣳ च द्रव्यस्यानित्यत्वꣳ तद्-विपरीतꣳ च नित्यत्वꣳ तस्मिन् कथꣳ समवैति। विरोधि-धर्माश्रयत्वꣳ च भिन्नत्वꣳ तद्-विपरीतꣳ चाभिन्नत्वꣳ कथꣳ वा तस्मिन् समवैति। यथा--- अश्वत्व-महिषस्वयोर् युगपद् एकस्मिन्न् असम्भवः। (एकस्य पृथिवी-द्रव्यस्य घटत्वꣳ शरावत्वꣳ च प्रदेश-भेदेन; न त्व् एकेन प्रदेशेनोभयाश्रयत्वम्; यथैकस्य देवदत्तस्योत्पत्ति-विनाश-योगित्वꣳ काल-भेदेन। न ह्य् एतावता वस्तुनो द्वयात्मकत्वम्, अपि तु परिणाम-शक्ति-योग-मात्रम्) अतो न युक्तिमज् जैन-मतम्। सूत्रार्थस् तु--- नैकस्मिन्न् असम्भवात्, न जैन-मतꣳ युक्तम्। कुतः। एकस्मिन् वस्तुन्य् उक्त-रीत्या युगपद् विरुद्ध-धर्म-समावेशासम्भवात्। अतः सूत्र-विरुद्धꣳ वेदान्त-वादिभिर् अपि भेदाभेद-समाश्रयणम्॥३१॥

Link copied

२०६। एवꣳ चात्माकार्त्स्न्यम्॥२।२।३२॥

Link copied

एवम् आत्माकार्त्स्न्यꣳ चानुपपन्नम्; शरीर-परिमाणत्वे ह्य् आत्मनो बृहतः शरीराद् अल्पीयसि शरीरे प्रविशत अकार्त्स्न्यम्--- अपरिपूर्णत्वꣳ प्रसज्येत। तदानीम् अल्प-परिमाणत्वात्॥३२॥

Link copied

२०७। न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः॥२।२।३३॥

Link copied

तथाविधाल्पत्वावस्था-योगेनाप्य् अविरोधो न सम्भवति। घट-पटादेर् इव विकार-तत्-प्रयुक्त-दोषास्पदत्व-प्रसङ्गात्॥३३॥

Link copied

२०८। अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषः॥२।२।३४॥

Link copied

जीवस्य यद् अन्त्यꣳ परिमाणꣳ मोक्षावस्थम्, तस्य पश्चाद् एक-रूपेणावस्थितेस् तद् एव स्वाभाविकꣳ परिमाणम् इति, आत्मनश् च तत्-परिमाणस्य चोभयोर् नित्यत्वात् पूर्वम् अपि न शरीर-परिमाणत्व-सिद्धिर् इति पूर्वावस्थायाꣳ न विशेषः; अतः असङ्गतम् एवेदꣳ जैन-मतम्॥३४॥ इत्य् एकस्मिन्न् असम्भवाधिकरणम्॥६॥

Link copied

२०९। पत्युर् असामञ्जस्यात्॥२।२।३५॥

Link copied

पशुपति-मतꣳ निःश्रेयसार्थिभिर् आदरणीयम्, उत नेति सꣳशयः। आदरणीयम् इति पूर्वः पक्षः। परम-पुरुषार्थ-साधनावबोधित्वेन निखिल-वस्तु-साक्षात्कार-समर्थ-पशुपति-प्रणीतत्वात्। राद्धान्तस् तु--- अनादि-निधनाविच्छिन्न-पाठ-सम्प्रदाय-निरस्त-प्रमादादि-निखिल-दोष-गन्ध-वेद-सिद्ध-परावर-तत्त्व-व्यत्यय-प्रतिपादनात्, निमित्तोपादानभेदाभिधानात्, सुरा-कुम्भ-स्थापन-तत्-स्थ-देवतार्चन-मुद्रिका-षट्क-विज्ञान-तद्-धारणादि-वेद-विरुद्धाचार-प्रतिपादन-परत्वाच् च, असामञ्जस्याद् अनादरणीयम् इति। सूत्रार्थस् तु--- पत्युर् असामञ्जस्यात्, नैकस्मिन्न् असम्भवाद् इत्य् अतो नेत्य् अनुवर्तते। पत्युः--- पशुपतेर् मतम् अनादरणीयम्। कुतः। वेद-विरुद्ध-तत्त्वाचारावबोधित्वेनासामञ्जस्यात्॥३५॥

Link copied

२१०। अधिष्ठानानुपपत्तेश् च॥२।२।३६॥

Link copied

अनुमेयेश्वराभ्युपगमेन हि प्रधानस्याधिष्ठानम् ईश्वरस्योच्यते। सशरीरस्यैव कुलालादेर् अधिष्ठान-दर्शनाद् अशरीरस्येश्वरस्य प्रधानाधिष्ठानानुपपत्तेश् चासामञ्जस्यम्। सशरीरत्वाभ्युपगमेऽपि तच्-छरीरस्य सावयवस्य नित्यत्वेऽनित्यत्वे च दोषः पूर्वोक्त इत्य् अभिप्रायः॥३६॥

Link copied

२११। करणवच् चेन् न भोगादिभ्यः॥२।२।३७॥

Link copied

क्षेत्रज्ञस्य स्व-करण-कलेवराद्य्-अधिष्ठानवद् उपपद्यत इति चेन् न, पुण्यापुण्य-रूप-कर्म-निमित्तत्वात् क्षेत्रज्ञाधिष्ठानस्य; ईश्वरस्यापि तद्वत्तया तत्-फल-भोगादि-निखिल-तत्-स्वभाव-प्रसक्तेः॥३७॥

Link copied

२१२। अन्तवत्त्वम् असर्वज्ञता वा॥२।२।३८॥

Link copied

वा-शब्दश् चार्थे। पुण्यापुण्यवत्त्वे त्व् अन्तवत्त्वꣳ सृष्टि-सꣳहारास्पदत्वम् असर्वज्ञता च प्रसज्यत इत्य् असमञ्जसम् एवेदम्॥३८॥ इति पशुपत्य्-अधिकरणम्॥७॥

Link copied

२१३। उत्पत्त्य्-असम्भवात्॥२।२।३९॥

Link copied

साङ्ख्यादि-तन्त्रवत् पाञ्चरात्र-तन्त्रम् अप्य् अप्रमाणम्, उत नेति सꣳशयः। अप्रमाणम् इति पूर्वः पक्षः। वासुदेवात् सङ्कर्षणो नाम जीवो जायते, इति श्रुति-विरुद्ध-जीवोत्पत्त्य्-आदि-प्रतिपादनात्, चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति वेद-गणानादर-वचनाच् च। राद्धान्तस् तु--- सङ्कर्षण-प्रद्युम्नानिरुद्धानाꣳ परब्रह्म-भावानाम्, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतार-प्रतिपादनान् न क्वचिच् छ्रुति-विरोधः। जीवाहङ्कार-मनः-शब्दाश् च तत्-तच्-छरीरकाणाꣳ सङ्कर्षणादीनाम् एवाभिधायकाः, तत् तेज ऐक्षत, इति तेजः-प्रभृति-शब्दवत्। चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति चानुदित-होम-निन्दावत्; यथा--- ऋग्-वेदꣳ भगवोऽध्येमि, इत्य् आरभ्य, इतिहास-पुराणꣳ पञ्चमम्, इत्य् आदिना सर्वेषु विद्या-स्थानेषु चात्मनो वेदनाभाव-वचनꣳ वक्ष्यमाण-प्रशꣳसार्थम्। तन्त्रेऽस्मिन् वेदान्तोदित-ब्रह्मोपासन-विधानाद् वेदाविरुद्ध-तद्-अर्चनादि-विधानाच् चावगम्यते इति प्रमाणम् एव। सूत्रार्थस् तु--- उत्पत्त्य्-असम्भवात्, न जायते म्रियते वा, इत्य् आदि श्रुतेर् जीवस्योत्पत्त्य्-असम्भवाज् जीवोत्पत्ति-वचनाच् च न प्रमाणम्॥३९॥

Link copied

२१४। न च कर्तुः करणम्॥२।२।४०॥

Link copied

सङ्कर्षणात् प्रद्युम्न-सꣳज्ञꣳ मन उत्पद्यते, इति मनसः करणस्य कर्तुर् जीवाद् उत्पत्तिश् च श्रुति-विरुद्धत्वान् न सम्भवति; एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इति मनसो ब्रह्मण उत्पत्तिश् श्रूयते॥४०॥

Link copied

२१५। विज्ञानादि-भावे वा तद्-अप्रतिषेधः॥२।२।४१॥

Link copied

वा-शब्दात् पक्षो विपरिवर्तते। विज्ञानꣳ चादि च विज्ञानादि ब्रह्म। सङ्कर्षणादीनाꣳ ब्रह्म-भावे सति, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतारस्यैवात्राभिधानात्, तद्-अप्रतिषेधः, प्रामाण्याप्रतिषेधः। सङ्कर्षणादीनाꣳ जीवादि-समानाधिकरणतया निर्देशस् तेषाम् अधिष्ठातृतयोपपद्यते॥४१॥

Link copied

२१६। विप्रतिषेधाच् च॥२।२।४२॥

Link copied

अस्मिन्न् अपि तन्त्रे जीवोत्पत्ति-विप्रतिषेधाच् चाविरुद्धम् इदꣳ तन्त्रम्; व्याप्ति-रूपेण सम्बन्धस् तस्याश् च पुरुषस्य च। स ह्य् अनादिर् अनन्तश् च परमार्थेन निश्चितः, इति हि पुरुषस्योत्पत्तिः प्रतिषिध्यते॥४२॥ इत्य् उत्पत्त्य्-असम्भवाधिकरणम्॥८॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य द्वितीयः पादः॥

Link copied
Join our community