Vedanta Dipa · Section 7 of 17
||atha dvitīyādhyāye dvitīyaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
१७५। रचनानुपपत्तेश् च नानुमानꣳ प्रवृत्तेश् च॥२।२।१॥
Link copiedसाङ्ख्य-तन्त्र-सिद्धः प्रधान-कारण-वादः किꣳ समीचीन-युक्ति-मूल, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। घटादिवद् विचित्र-सन्निवेशꣳ जगत् कार्यꣳ तद्वद् एव स्व-सरूप-कारण-विशेषारब्धम्। सुख-दुःख-मोहाद्य्-आत्मकतया सत्त्वाद्य्-आत्मकꣳ जगत् सत्त्व-रजस्-तमो-मूलकम्। तत्र महद्-आदि-पृथिव्य्-अन्तानाꣳ घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगद्-उत्पत्तौ कारण-काष्ठा न भवन्ति; तेषाꣳ परिमितत्वेन अपरिमित-जगद्-उत्पादनाशक्तेः। अन्यूनानतिरिक्तानि साम्यावस्थान्य् अपरिमितानि सत्त्व-रजस्-तमाꣳस्य् अव्यक्त-प्रधानादि-शब्दाभिधेयानि जगत्-कारणम्। राद्धान्तस् तु--- रथ-प्रासादादि-हेतु-भूत-दार्वादिवद् अचेतनꣳ प्रधानꣳ स्व-स्वभावाद्य्-अभिज्ञ-चेतनानधिष्ठितꣳ विचित्र-जगद्-रचना-समर्थम् इति न केवलꣳ प्रधानꣳ कारणम्। सूत्रार्थस् तु--- रचनानुपपत्तेश् च नानुमानम्--- अनुमीयत इत्य् अनुमानꣳ प्रधानम्; तस्याचेतनस्य प्राज्ञानधिष्ठितस्य विचित्र-सन्निवेश-जगद्-रचनानुपपत्तेस् तन् न कारणम्। च-कारात् सत्त्वादीनाꣳ द्रव्य-गुणत्वेन शौक्ल्यादेर् इवोपादान-कारणत्वासम्भवꣳ समुच्चिनोति। सत्त्वादयो हि कार्य-गत-लाघव-प्रकाशादि-हेतु-भूताः कारण-भूत-पृथिव्य्-आदि-गतास् तत्-स्वभाव-विशेषाः। प्रवृत्तेश् च--- अनुपपत्तेर् इति वर्तते; प्राज्ञानधिष्ठितस्य प्रधानस्य विचित्र-जगद्-रचनानुगुणाद्य्-अपरिस्पन्द-रूप-प्रवृत्त्य्-अनुपपत्तेश् च न प्रधानꣳ कारणम्॥१॥
Link copied१७६। पयोऽम्बुवच् चेत् तत्रापि॥२।२।२॥
Link copiedपयसः अम्बुनश् च यथा प्राज्ञानधिष्ठितस्यैव दधि-भावेन नारिकेल-चूतादि-विचित्र-रस-रूपेण च परिणामो दृश्यते; तद्वत् प्रधानस्यापि केवलस्यैव जगद्-आकारेण परिणाम उपपद्यत इति चेत् परिहरति तत्रापीति। तद् अपि पक्षीकृतम् इत्य् अर्थः। यत्र रथादिष्व् अचेतनस्य प्राज्ञाधिष्ठितत्वꣳ दृष्टम्, तद्-व्यतिरिक्तꣳ हि सर्वꣳ पक्षीकृतम् एव। योऽप्सु तिष्ठन्न् इत्य् आदि श्रुतेस् तद् अपि प्राज्ञाधिष्ठितम्॥२॥
Link copied१७७। व्यतिरेकानवस्थितेश् चानपेक्षत्वात्॥२।२।३॥
Link copiedसर्ग-व्यतिरेकेण प्रतिसर्गावस्थयानवस्थिति-प्रसङ्गाच् च केवलꣳ प्रधानꣳ न कारणम्; अन्यानपेक्षत्वात् प्रधानस्य सर्वदैव सृष्टिः प्रसज्यते॥३॥
Link copied१७८। अन्यत्राभावाच् च न तृणादिवत्॥२।२।४॥
Link copiedधेन्व्-आदिनोपयुक्तꣳ हि तृणोदकादि स्वयम् एव क्षीराकारेण परिणमते; तद्वत् प्रधानम् अपीति च वक्तुꣳ न शक्यते; धेन्व्-आदिनोपयुक्तस्यापि तृणादेः क्षीराकारेण परिणामः प्राज्ञाधिष्ठितत्वाद् एव भवतीत्य् अभ्युपेतव्यम्। कुतः। अन्यत्राभावात्--- अनडुहाद्य्-उपयुक्तस्य प्रहीणस्य वा तृणादेः क्षीराकारेण परिणामाभावात्॥४॥
Link copied१७९। पुरुषाश्मवद् इति चेत् तथापि॥२।२।५॥
Link copiedप्राज्ञानधिष्ठितम् अपि प्रधानꣳ चैतन्य-मात्र-वपुर् निष्क्रियः पुरुषः स्व-सन्निधि-मात्रेण सर्गादौ प्रवर्तयति। यथा दृक्-शक्ति-युक्तो गमन-शक्ति-विकलः पङ्गुः पुरुषः, अन्धꣳ दृक्-शक्ति-विकलꣳ प्रवृत्ति-शक्ति-युक्तꣳ पुरुषꣳ स्व-सन्निधानात् प्रवर्तयति; यथा चायस्कान्ताश्मा स्व-सन्निधानादयः प्रवर्तयति तद्वद् इति चेत्; परिहरति--- तथापीति। तद्वद् अपि प्रधानस्य प्रवृत्तिर् नोपपद्यते; तत्र हिꣳ पङ्गोः पुरुषस्य गमन-शक्ति-विकलस्यापि मार्गोपदेशादि-व्यापारः कादाचित्को दृश्यते; अन्धस्य चाक्षुष-व्यापार-विरहेऽपि पङ्गूपदेश-ग्रहणादिश् चेतन-धर्मोऽस्ति। अयस्कान्त-मणेर् अप्य् अयः-प्रवृत्तौ कादाचित्कम् अयः-सन्निधानꣳ विद्यते। इह तु सन्निधि-मात्रातिरेकी तादृशः कश्चिद् विशेष उभयत्रापि न विद्यते। पुरुष-सन्निधानस्य नित्यत्वेन नित्य-सर्ग-प्रसक्तिः। तथा सति प्रतिसर्गाभावोऽपवर्गाभाव-प्रसङ्गश् च॥५॥
Link copiedइतश् च---
Link copied१८०। अङ्गित्वानुपपत्तेश् च॥२।२।६॥
Link copiedगुणानाम् उत्कर्षापकर्ष-रूपाङ्गाङ्गि-भावेन जगत्-प्रवृत्तिः प्रतिसर्गावस्थायाꣳ साम्यावस्थानाम् एकस्योत्कर्ष-रूपाङ्गित्वानुपपत्तेश् च न सम्भवति। तत्राप्य् उत्कर्षोऽस्ति चेत्, सर्वदा सर्ग-प्रसङ्गः॥६॥
Link copied१८१। अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात्॥२।२।७॥
Link copiedउक्त-प्रकाराद् व्यतिरिक्त-प्रकारेण प्रधानानुमितौ च प्रधानस्य ज्ञातृत्व-शक्ति-वियोगाद् रचनानुपपत्त्य्-आदयो दोषास् तद्-अवस्थाः॥७॥
Link copied१८२। अभ्युपगमेऽप्य् अर्थाभावात्॥२।२।८॥
Link copiedप्रधानाभ्युपगमेऽपि प्रधानेन प्रयोजनाभावान् न तद्-अनुमेयम्। पुरुषस्य भोगापवर्गार्थतया हि प्रधान-प्रवृत्तेः सप्रयोजनत्वम्। चैतन्य-मात्र-वपुषो निष्क्रियस्य नित्य-निर्विकारस्य पुरुषस्य इतरेतराध्यास-कृत-प्रकृति-दर्शन-रूप-भोगः, तद्-विवेक-रूपापवर्गश् च न सम्भवति। निर्विकारस्यैव प्रकृति-सन्निधानेन भोगः सम्भवति चेत्; उभयोर् नित्यत्वेन च सन्निधानस्य नित्यत्वाद् अपवर्गासिद्धिः; तथाविध-सन्निधेर् एवापवर्ग-हेतुत्वे भोगासिद्धिश् च॥८॥
Link copied१८३। विप्रतिषेधाच् चासमञ्जसम्॥२।२।९॥
Link copiedविप्रतिषिद्धꣳ चेदꣳ साङ्ख्य-दर्शनम्; प्रकृतेः परार्थतया पुरुषो द्रष्टा भोक्ता अधिष्ठाता चेत्य् आहुः; प्रकृतेश् च पुरुषस्य भोगापवर्गार्थतया सप्रयोजनत्वꣳ च, प्रकृत्यैव साधन-भूतया पुरुषो भोगम् अपवर्गꣳ चाश्नुत इति चोक्तेः। स च पुरुषश् चैतन्य-मात्र-वपुर् नित्यो निर्विकारो न द्रष्टा न भोक्ता न कर्तेति च; अत एव पुरुषो न बध्यते, न च मोक्ष-साधनम् अनुतिष्ठति, न च मुच्यत इति च वदन्ति। प्रकृतिर् अचेतन-भूतैव पुरुष-सन्निधानात् पुरुष-धर्मꣳ चैतन्यꣳ स्वस्मिन् स्व-धर्मꣳ कर्तृत्वꣳ पुरुषे चानुसन्धाय बध्यते; मोक्ष-साधनम् अनुतिष्ठति, मुच्यते इति चाहुः। अध्यास-रूपम् अनुसन्धानꣳ हि चेतन-धर्मः; तथा प्रकृतिर् अनुपकारिणः पुरुषस्य भोगापवर्ग-स्वरूपꣳ प्रयोजनꣳ साधयतीत्य् उपकारिणीति चाहुः। अध्यास-रूप-बन्धादयः पुरुषस्य न सन्तीति चेत्, कस् तस्योपकारः। एवम् आद्य् अन्योन्य-विरुद्ध-भाषणाद् असमञ्जसम्॥१॥ इति रचनानुपपत्त्य्-अधिकरणम्॥१॥
Link copied१८४। महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्॥२।२।१०॥
Link copiedकिꣳ काणादाभ्युपगतः परमाणु-कारण-वादः समीचीन-युक्ति-मूलः, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्व-पक्षः, अवयव-सꣳयोगाद् अवयव-व्युत्पत्तेर् दर्शनात्, अवयवाल्पत्व-प्राचुर्याभ्याꣳ सर्षप-महीधर-वैषम्य-दर्शनाच् च अवयवाल्पत्व-काष्ठावश्याभ्युपगमनीयेति परमाणु-सिद्धिः। ते चतुर्-विधाः परमाणवो विपाक-दशापन्न-क्षेत्रज्ञादृष्ट-सचिवाः परमेश्वराधिष्ठिताः द्व्य्-अणुकादि-क्रमेण जगद्-आरम्भका इति।
Link copiedराद्धान्तस् तु--- अवयवाः स्वकीयैः षड्भिः पार्श्वैर् असꣳयुज्यमानाः स्वस्मान् महान्तम् अवयविनम् उत्पादयन्तीति परमाणुष्व् अपि तथैवोत्पादकत्वम् अभ्युपेतव्यम्। तथा सति परमाणवोऽपि साꣳशाः स्वकीयैर् अवयवैः, ते च स्वकीयैर् इति न क्वचित् कारणस्य व्यवस्थितिः। सूत्रार्थस् तु--- महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम्; असमञ्जसम् इति वर्तते; वा-शब्दश् चार्थे। ह्रस्व-परिमण्डलाभ्याꣳ--- द्व्य्-अणुक-परमाणुभ्याꣳ महद् दीर्घवत्--- त्र्य्-अणुक-द्व्य्-अणुकोत्पत्तिवद् अन्यच् च तद्-अभ्युपगतꣳ सर्वम् असमञ्जसम्॥१०॥
Link copiedद्व्य्-अणुकादि-क्रमेणारम्भकत्वꣳ कारणानवस्थितेर् असमञ्जसम्। किम् अत्रान्यद् असमञ्जसम् इत्य् अत्राह---
Link copied१८५। उभयथापि न कर्मातस् तद्-अभावः॥२।२।११॥
Link copiedपरमाणूनाम् आद्यꣳ कर्म अदृष्ट-कारितम् इत्य् अभ्युपगम्यते; तद् अदृष्टꣳ किम् अणु-गतम्। उत क्षेत्रज्ञ-गतम्। उभयथाप्य् अदृष्टस्य अकादाचित्कत्वेन सदोत्पादकत्व-प्रसङ्गात् कादाचित्कꣳ कर्म न सम्भवति। अतः कर्मणा परमाणुसꣳयोगाभावः। विपाकापेक्षत्वेऽपि नाना-विधानन्तादृष्टानाम् एक-दैवैक-रूप-विपाकश् च न सम्भवति। आनुमानिकेश्वरासिद्धेर् ईश्वरेच्छयापि नियमो न सम्भवति॥११॥
Link copied१८६। समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः॥२।२।१२॥
Link copiedसमवायाभ्युपगमाच् चासमञ्जसम्; समवायो हि जाति-गुणादीनाꣳ द्रव्य-विशेषापृथक्-सिद्धि-हेतुतयाभ्युपगम्यते; समवायस्यापि तथाभावे हेत्व्-अपेक्षासाम्याद् अनवस्थितेः। समवायस्य तथाभावः स्वाभाविक इति चेत्; जाति-गुणादीनाम् एवैष स्वभाव इति युक्तम्॥
Link copiedइतश् च---
Link copied१८७। नित्यमेव च भावात्॥२।२।१३॥
Link copiedसमवाय-सम्बन्धस्य नित्यत्वाभ्युपगमात्, सम्बन्धि-नित्यत्वम् अन्तरेण तद्-अनुपपत्तेः, अवयवावयविनोर् उभयोर् अपि नित्यम् एव भावात् कार्य-कारण-भाव एव न सिद्ध्यति॥१३॥
Link copied१८८। रूपादिमत्वाच् च विपर्ययो दर्शनात्॥२।२।१४॥
Link copiedपरमाणूनाꣳ नित्यत्व-निरवयवत्वादि-विपर्ययश् च स्यात्, रूपादिमत्त्वात् तेषाम्, घटादिषु रूपादिमत्सु तथा दर्शनात्; दर्शनाद् एव हि त्वद्-अभिमतꣳ परिकल्प्यते॥१४॥
Link copied१८९। उभयथा च दोषात्॥२।२।१५॥
Link copiedअनित्यत्वादि-भयात् परमाणूनाꣳ रूपादि-शून्यत्वे कार्य-गुणस्य कारण-गुण-पूर्वकत्वासिद्धिः, तत्-सिद्धये रूपादिमत्त्वे चानित्यत्वादि-दोष-प्रसक्तिर् इति, उभयथा च दोषाद् असमञ्जसम् एव॥१५॥
Link copied१९०। अपरिग्रहाच् चात्यन्तम् अनपेक्षा॥२।२।१६॥
Link copiedकापिल-पक्षे हि श्रुति-न्याय-विरुद्धेऽपि सत्कार्यवादादि किञ्चिद् वैदिकैः परिगृह्यते; काणादे तु कस्यचिद् अप्य् अꣳशस्य वैदिकैः परिग्रहाभावाद् अनुपपन्नत्वाच् च निःश्रेयसार्थिभिर् अत्यन्तम् अनपेक्षा कार्या॥१६॥ इति महद्-दीर्घाधिकरणम्॥२॥
Link copied१९१। समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः॥२।२।१७॥
Link copiedसौगताश् चतुर्विधाः--- प्रत्यक्ष-सिद्ध-स्थूल-द्रव्य-वादिनः केचिद् वैभाषिकाः; अन्ये विज्ञानानुमेय-स्थूल-द्रव्य-वादिनः। ते च सौत्रान्तिकाः। अपरे निरालम्बन-विज्ञान-मात्र-सद्-भावꣳ वदन्ति योगाचाराः। त्रयोऽप्य् एते स्वाभ्युपगत-वस्तुनः क्षणिकत्वꣳ वदन्ति। अन्ये तु सर्व-शून्य-वादिनो माध्यमिकाः। तत्राद्ययोर् बाह्य-सद्-भावम् अभ्युपगच्छतोर् जगद्-उत्पत्ति-प्रकारो लोक-व्यवहारश् च सूपपादः, उत दुरुपपाद इति सꣳशयः। सूपपाद इति पूर्वः पक्षः। तथा हि--- पर्थिवाप्य-तैजस-वायवीया गन्धादि-युक्ताः परमाणवो हि पृथिव्य्-आदि-रूपेण सꣳहता भवन्ति; भूतेभ्यश् च शरीरेन्द्रिय-विषय-लक्षण-सङ्घाताः। तत्र आन्तरो विज्ञान-सन्तानो ग्राहकाभिमानारूढ आत्मत्वेनावतिष्ठते। एषु क्षणिकेष्व् अपि स्थिरत्वादि-गोचर-बुद्ध्य्-आख्या-विद्यया सर्वम् उपपद्यत इति जगद्-उत्पत्तिर् लोक-व्यवहारश् च युज्यते। राद्धान्तस् तु--- क्षण-ध्वꣳसिनः परमाणवः कदा सꣳहतौ व्याप्रियन्ते। कदा सꣳहन्यन्ते। सꣳहतौ व्यापृतास् तस्मिन्न् एव क्षणे विनष्टाश् चेत्, के पुनः सꣳहन्यन्ते। कश् च विज्ञानात्मा कदा कꣳ विषयꣳ स्पृशति। कश् च कदा कꣳ जानाति। कश् च कदा कम् अर्थम् उपादत्ते। स्प्रष्टा नष्टः, स्पृष्टꣳ च नष्टम्, वेदिता नष्टः, वेद्यꣳ च नष्टम्। कथम् अन्येन स्पृष्टम् अन्यो विजानाति। कथꣳ वान्येन विदितम् अन्य उपादत्ते। सन्तानैकत्वे सिद्धेऽपि सन्तानिभ्यः सन्तानस्य परमार्थतो वस्त्व्-अन्तरत्वानभ्युपगमात्, सन्तानैक्यम् अपारमार्थिकम् अकिञ्चित्करम्। स्थिरत्वाद्य्-अविद्ययापि सङ्घातोत्पत्तिर् न सम्भवति; न हि शुक्तिकादिषु रजताविद्यया रजताद्य्-उत्पत्ति-सम्भवः। विदुषश् च पूर्वस्य नष्टत्वेन उत्तरेणाविदुषापूर्व-विनष्टेन विदुषानुसꣳहितार्थोपादानꣳ न सम्भवति; सꣳस्काराश्रयत्वेन चैकोऽर्थः स्थिरो नाभ्युपगम्यते। अतो जगद्-उत्पत्तिर् लोक-व्यवहारश् च दुरुपपाद एव। सूत्रार्थस् तु--- समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः--- उभय-हेतुकेऽपि समुदाये समुदायत्वाप्राप्तिः; परमाणु-हेतुकः पृथिव्य्-आदि-समुदायः; पृथिव्य्-आदि-हेतुकः शरीरेन्द्रिय-समुदायः--- इत्य् उभय-हेतुकोऽपि समुदायः क्षणिकत्वाभ्युपगमाद् उक्तेन न्यायेन न सिद्ध्यतीत्य् अर्थः॥१७॥
Link copied१९२। इतरेतर-प्रत्ययत्वाद् उपपन्नम् इति चेन् न सङ्घात-भावानिमित्तत्वात्॥२।२।१८॥
Link copiedयद्य् अपि क्षणिकाः सर्वे भावाः, तथाप्य् अविद्यादीनाम् इतरेतर-हेतुकत्वाद् उपपन्नꣳ लोक-व्यवहारादिकम्। अस्थिरेषु स्थिरत्व-बुद्धि-रूपया अविद्यया तत्र तत्र राग-द्वेषादयो जायन्ते; इत्य् एवम् आदि परम्परया पुनर् अप्य् अविद्येति चक्रवत् परिवर्तत इति चेन् नैतद् उपपद्यते, सङ्घात-भावानिमित्तत्वाद् अविद्यायाः--- यद्य् अप्य् अविद्याख्या विपरीत-बुद्धिः क्षणिकꣳ स्थिरत्वेन विषयीकरोति, तथापि तन् न वस्तुतः स्थिरꣳ भवतीति वस्तुतः स्थिर-कार्यꣳ न करोति; अतः सङ्घात-भावो न सिध्यतीत्य् अर्थः। अस्थिरे स्थिरत्व-बुद्धि-युक्तस्य विज्ञानात्मनस् तदैव नष्टत्वात् कस्य राग-द्वेषादयो जायन्त इति, राग-द्वेषादि-परम्परा च न सिध्यतीत्य् अभिप्रायः॥१८॥
Link copiedइतश् च---
Link copied१९३। उत्तरोत्पादे च पूर्व-निरोधात्॥२।२।१९॥
Link copiedउत्तर-घट-क्षणोत्पत्ति-वेलायाꣳ पूर्वस्य विनष्टत्वाद् अभावस्यैव हेतुत्वेनाविशेषात् सर्वेषाꣳ सर्वदोत्पत्तिः प्रसज्येत। पूर्व-क्षण-वर्तिनो हेतुत्वोपगमेऽपि देशादेर् विशेषकस्य स्थिरस्यैकस्यानभ्युपगमाद् अविशेषेणोत्तर-क्षण-वर्तिनः सर्वस्य हेतुः स्यात्॥१९॥
Link copied१९४। असति प्रतिज्ञोपरोधो योग-पद्यम् अन्यथा॥२।२।२०॥
Link copiedअसत उत्पत्तौ प्रतिज्ञा-विरोधश् च भवताम्; अधिपति-सहकार्यादीनाꣳ विज्ञानोत्पत्ति-हेतुत्व-प्रतिज्ञानात्। अथैतत्-परिजिहीर्षया पूर्वो घट-क्षणस् तिष्ठतीत्य् उच्येत, तदा युगपद् घट-क्षण-द्वयोपलब्धि-प्रसङ्गः; न चोपलभ्यते। उपरोधो विरोधः॥२०॥
Link copiedसतो निरन्वय-विनाशोऽपि न सम्भवतीत्य् आह---
Link copied१९५। प्रतिसङ्ख्याप्रतिसङ्ख्या निरोधाप्राप्तिर् अविच्छेदात्॥२।२।२१॥
Link copiedप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः--- स्थूल-सूक्ष्म-विनाशयोर् अप्राप्तिर् इत्य् अर्थः। स्थूल-विनाशो मुद्गराभिघाताद्य्-अनन्तर-भाव्य्-उपलब्धि-योग्यः; सूक्ष्मस् तु, प्रतिक्षण-भाव्य्-उपलब्ध्य्-अनर्हः। तौ निरन्वयौ न भवतः, उत्पत्ति-विनाश-धर्म-भागिनो द्रव्यस्याविच्छेदात्। तद्-अनन्यत्वम् इति सत्कार्यवादस्योपपादितत्वाद् इत्य् अभिप्रायः। घटादौ कपालादि-रूपावस्थया निरन्वय-विनाशादर्शनात् प्रदीपनिर्वाणेऽपि सूक्ष्मावस्थाप्राप्तिर् इत्य् अविरोधः॥२१॥
Link copied१९६। उभयथा च दोषात्॥२।२।२२॥
Link copiedउत्पन्नस्य तुच्छतापत्तौ, तुच्छाद् उत्पत्तौ च, इत्य् उभय-प्रकारे च दोषापत्तेः, ते न सम्भवतः। उत्पन्नस्य तुच्छतापत्तौ हि पश्चात् तुच्छाद् उत्पद्यमानꣳ जगत्-तुच्छात्मकम् एव स्यात्; मृत्-सुवर्णादेर् उत्पद्यमान-मृत्-सुवर्णाद्य्-आत्मक-घट-मुकुटादिवत्। अतस् तुच्छाद् उत्पत्तिस् तुच्छतापत्तिश् च न सम्भवतः॥२२॥
Link copied१९७। आकाशे चाविशेषात्॥२।२।२३॥
Link copiedआकाशे तुच्छ-स्वरूपता न सम्भवति, अबाधित-प्रतीति-सिद्ध-पृथिव्य्-आदिवद् आकाशेऽप्य् अबाधित-प्रतीतेर् अविशेषात्। प्रतीयते ह्य् आकाशः, अत्र श्येनः पतत्य् अत्र गृध्र इति श्येनादेः पतन-देशत्वेन॥२३॥
Link copied१९८। अनुस्मृतेश् च॥२।२।२४॥
Link copiedप्रत्यभिज्ञानाꣳ च न घटादेः क्षणिकत्वम्। तद् एवेदम् इति हि प्रत्यभिज्ञायते। (प्रत्यभिज्ञानꣳ हि नाम, अतीत-वर्तमान-काल-वर्त्य्-एक-वस्तु-विषयम् एकꣳ प्रत्यक्ष-ज्ञानम्। तस्य काल-द्वय-सम्बन्ध-विशिष्टम् एव वस्तु विषयः। न च तद् इत्य् अꣳशः स्मरणम्, इदम् इत्य् अꣳशश् च ग्रहणम्, अतीत-काल-सम्बन्धिनीन्द्रिय-सम्प्रयोगाभावाद् इति वाच्यम्, तद् इदम् इति सामानाधिकरण्येन ग्रहणस्यैकत्व-स्फुरणात्। पूर्व-कालानुभव-जनित-सꣳस्कार-सहकृतेन्द्रिय-सम्प्रयोग-युक्तस्य पुरुषस्य यथा ग्रहणम् उपपद्यत एव। अन्वय-व्यतिरेकादीनꣳ हि सर्वत्र सामग्रीपरिकल्पनम्)। न च ज्वालादिवत्-सादृश्य-निबन्धना प्रत्यभिज्ञेति त्वया वक्तुꣳ शक्यम्, काल-द्वय-वर्तिनोर् द्वयोः सादृश्यस्यानुसन्धातुर् ज्ञातुर् एकस्यानभ्युपगमात्॥२४॥
Link copiedपृथिव्य्-आदि-विज्ञानानुमेयार्थ-वादिनꣳ प्रत्याह। स हि ज्ञाने नील-पीतादि-विचित्राकारꣳ दृष्त्वा ज्ञानात् पूर्व-क्षण-वर्तिनꣳ ज्ञाने स्वाकारꣳ समर्प्य विनष्टम् अर्थम् अनुमिनोति। तत्रोत्तरम्---
Link copied१९९। नासतोऽदृष्टत्वात्॥२।२।२५॥
Link copiedअसतो धर्मिणो धर्मस्यान्यत्र सङ्क्रमणꣳ न सम्भवति। कुतः। अदृष्टत्वात्। न हि धर्मिणि विनष्टे तद्-धर्मस्यान्यत्र सङ्क्रमणꣳ क्वचिद् दृष्टम्॥२५॥
Link copied२००। उदासीनानाम् अपि चैवꣳ सिद्धिः॥२।२।२६॥
Link copiedवैभाषिक-सौत्रान्तिकयोर् द्वयोर् अपि साधारणम् इदꣳ दूषणम्। एवꣳ सर्व-भावानाꣳ क्षणिकत्वाभ्युपगमे सति, उदासीनानाꣳ--- निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्, प्रयत्नाद्य् अनुतिष्ठतस् तदानीम् एव विनष्टत्वात्, तत्-तत्-सꣳस्कारादेर् अपि कस्यचित् स्थिरस्यानुवर्तमानस्यानभ्युपगमाच् च, पश्चाद् आगता सिद्धिर् अहैतुकीति निष्प्रयत्नानाम् अप्य् ऐहिकामुष्मिक-सर्वार्थ-सिद्धिः स्यात्॥२६॥ इति समुदायाधिकरणम्॥३॥
Link copied२०१। नाभाव उपलब्धेः॥२।२।२७॥
Link copiedयोगाचाराभिमतो ज्ञान-मात्र-सद्-भाव-वादः किꣳ समीचीन-युक्ति-मूलः, उत नेति सꣳशयः। समीचीन-युक्ति-मूल इति पूर्वः पक्षः। बाह्यार्थ-सद्-भाव-वादिनापि तत्-तद्-अर्थाकार-ज्ञानस्य प्रकाशमानत्वम् अवश्याश्रयणीयम्। सर्वस्य वस्तुनः प्रकाशमानस्य स्वासाधारणेनाकारेण प्रकाश इष्यते। तत्र घट-पटादि-ज्ञानस्य घट-पटाद्य्-आकार एवाकारः। अन्यथा घटाद्य्-असाधारण्यꣳ च तत्-तज्-ज्ञानस्य न सम्भवति। एकश् चायम् आकार उपलभ्यते। स तु ज्ञानस्यैवेति तद्-व्यतिरिक्तार्थ-सद्-भाव-वादोऽनुपपन्नः। तावतैव घटोऽयꣳ ज्ञात इति व्यवहारश् चोपपद्यते। तस्य बहिर्वद् अवभासो निर्मूलत्वाद् विभ्रम-कृतः। राद्धान्तस् तु--- घटम् अहꣳ जानामीति सकर्मकस्य सकर्तृकस्य ज्ञा-धात्व्-अर्थस्य च्छेदनादिवत् सर्व-लोक-साक्षिकम् उपलभ्यमानस्य कर्तृ-कर्म-व्यतिरेकेण केवलस्यैव सद्-भावम् अनुन्मत्तः को ब्रवीति। स्वासाधारणाकारश् च छेदनादिवत् तत्-तद्-अर्थ-व्यवहार-योग्यतापादनाकारेणोपलभ्यते। एवꣳ छेदनादेर् अप्य् आकारो द्विधा-भावनादि-हेतुतयैव कर्तृ-गतस्योपलभ्यते। न ह्य् अमूर्तानाꣳ क्रियादीनाꣳ कर्तृ-कर्म-निरूपणीय-स्वाकाराणाꣳ कर्माकारत्वम् आश्रीयते। सूत्रार्थस् तु--- नाभाव उपलब्धेः, ज्ञान-व्यतिरिक्तार्थाभावो न शक्यते वक्तुम्, उपलब्धेः--- घटम् अहꣳ जानामीति जानातेः कर्मतया कर्तृतया चोपलब्धेः॥२७॥
Link copied२०२। वैधर्म्याच् च न स्वप्नादिवत्॥२।२।२८॥
Link copiedस्वप्न-ज्ञानादिवच् च जागरित-ज्ञानानाꣳ न मिथ्यार्थत्वम्, तद्-वैधर्म्यात् निद्रादि-कारण-दोष-बाधक-प्रत्यय-रहितत्वाद् इत्य् अर्थः। च-कारात् तान्य् अपि यथार्थानीत्य् अभिप्रायः॥२८॥
Link copied२०३। न भावोऽनुपलब्धेः॥२।२।२९॥
Link copiedन केवलस्यार्थ-शून्यस्य ज्ञानस्य भावः सम्भवति, क्वचिद् अप्य् अनुपलब्धेः। अबाधित-प्रतीति-सिद्धस्यासद्-भावे सति ज्ञान-मात्रस्याप्य् असद्-भावो न शक्यते वारयितुम् इत्य् अभिप्रायः॥२९॥ इत्य् उपलब्ध्य्-अधिकरणम्॥४॥
Link copied२०४। सर्वथानुपपत्तेश् च॥२।२।३०॥
Link copiedमाध्यमिकोक्त-सर्व-शून्यवादः सम्भवति, नेति सꣳशयः। सम्भवतीति पूर्वः पक्षः। विज्ञानꣳ घटादयश् च सर्वे भावा न सन्ति। कुतः। उत्पत्त्य्-अनिरूपणाद् घटादि-भावानाम्। भावात् तावद् उत्पत्तिर् न सम्भवति; न हि घटादिर् उत्पद्यमानः असम्मृदितेन मृत्-पिण्डादिनोत्पद्यते। नाप्य् अभावात्, पश्चाद् अभावाद् उत्पद्यमानो घटादिर् अभावात्मक एव स्याद् इति सर्व-शून्यत्वम् एव युक्तिमत्। राद्धान्तस् तु--- लोके भावाभाव-शब्दयोस् तद्-बुद्धयोश् च प्रमाणेनोपलभ्यमानस्यैव वस्तुनः अवस्था-विशेष एव भाव-रूपो विषयः। वर्तमानतयोपलभ्यमानावस्था-विशेषो भाव-बुद्धि-विषयः। तद्-विरोध्य्-अवस्था-विशेषः अभाव-बुद्धि-विषयः। अतो न कुतश्चित् त्वद्-अभिप्रेतꣳ तुच्छत्वꣳ सिद्ध्यति। सूत्रार्थस् तु--- सर्वथानुपपत्तेश् च, सर्व-शून्यवादी सर्वꣳ सद् इति प्रतिज्ञाय स्वाभिप्रेतꣳ साधयति, उतासद् इति प्रतिज्ञाय। अथ प्रकारान्तरेण प्रतिज्ञाय। सर्वथापि सर्व-शून्यत्वानुपपत्तेः स्वाभिमतासिद्धिः, सद्-असद्-भावयोर् विद्यमान-वस्तु-धर्मतोपपादनात्॥३०॥ इति सर्वथानुपपत्त्य्-अधिकरणम्॥५॥
Link copied२०५। नैकस्मिन्न् असम्भवात्॥२।२।३१॥
Link copiedजैन-मतꣳ युक्तिमद् उत नेति सꣳशयः, युक्तिमद् इति पूर्वः पक्षः; जीवाजीव-शब्दाभिलपनीय-भोक्तृ-भोग्यात्मकꣳ जगत् सत्त्वासत्त्व-नित्यत्वानित्यत्व-भिन्नत्वाभिन्नत्वैर् अनैकान्तिकम्; षड्-द्रव्य-तत्पर्यायात्मनावस्थितत्वात् कृत्स्नस्य जगतो द्रव्यात्मना सत्त्वैकत्व-नित्यत्वान्य् उपपन्नानि; पर्यायात्मना च विपरीतानि। पर्यायाश् च--- घटत्व-पटत्वाद्य्-अवस्था-विशेषाः। द्रव्य-स्वरूपस्यैकत्वात् स्थिरत्वात् सद्-बुद्धि-बोद्धयत्वात् तेन रूपेणैकत्वादि युक्तम्; पर्याय-शब्दाभिधेयावस्था-विशेषाणाम् अनेकत्वाद् अस्थिरत्वाद् असद्-बुद्धि-बोध्यत्वात् तेन रूपेणासत्त्वानित्यत्व-नानात्वानि युक्तानि। प्रतीति-व्यवस्थाप्यत्वात् सर्वस्य वस्तुन उभयाकार-प्रतीतेर् उभयम् उपपन्नम्। राद्धान्तस् तु--- एकस्यास्तित्व-नास्तित्वादिभिर् अनैकान्तिकत्वम् अयुक्तम्, एकस्मिन् वस्तुन्य् अस्तित्व-नास्तित्वादेर् विरुद्धस्य च्छायातपवद् युगपद् असम्भवात्। तथा हि--- द्रव्यस्य तद्-विशेषण-भूत-पर्यायस्य इत्थꣳ-शब्दाभिधेयावस्था-विशेषस्य च इदम् इत्थम् इति प्रतीतेः प्रकार-प्रकारितया पृथक्-पदार्थत्वान् नैकस्मिन् विरुद्ध-प्रकार-भूत-सत्त्वासत्त्व-रूप-धर्म-समावेशो युगपत् सम्भवति। उत्पत्ति-विनाशाख्य-परिणाम-विशेषास्पदत्वꣳ च द्रव्यस्यानित्यत्वꣳ तद्-विपरीतꣳ च नित्यत्वꣳ तस्मिन् कथꣳ समवैति। विरोधि-धर्माश्रयत्वꣳ च भिन्नत्वꣳ तद्-विपरीतꣳ चाभिन्नत्वꣳ कथꣳ वा तस्मिन् समवैति। यथा--- अश्वत्व-महिषस्वयोर् युगपद् एकस्मिन्न् असम्भवः। (एकस्य पृथिवी-द्रव्यस्य घटत्वꣳ शरावत्वꣳ च प्रदेश-भेदेन; न त्व् एकेन प्रदेशेनोभयाश्रयत्वम्; यथैकस्य देवदत्तस्योत्पत्ति-विनाश-योगित्वꣳ काल-भेदेन। न ह्य् एतावता वस्तुनो द्वयात्मकत्वम्, अपि तु परिणाम-शक्ति-योग-मात्रम्) अतो न युक्तिमज् जैन-मतम्। सूत्रार्थस् तु--- नैकस्मिन्न् असम्भवात्, न जैन-मतꣳ युक्तम्। कुतः। एकस्मिन् वस्तुन्य् उक्त-रीत्या युगपद् विरुद्ध-धर्म-समावेशासम्भवात्। अतः सूत्र-विरुद्धꣳ वेदान्त-वादिभिर् अपि भेदाभेद-समाश्रयणम्॥३१॥
Link copied२०६। एवꣳ चात्माकार्त्स्न्यम्॥२।२।३२॥
Link copiedएवम् आत्माकार्त्स्न्यꣳ चानुपपन्नम्; शरीर-परिमाणत्वे ह्य् आत्मनो बृहतः शरीराद् अल्पीयसि शरीरे प्रविशत अकार्त्स्न्यम्--- अपरिपूर्णत्वꣳ प्रसज्येत। तदानीम् अल्प-परिमाणत्वात्॥३२॥
Link copied२०७। न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः॥२।२।३३॥
Link copiedतथाविधाल्पत्वावस्था-योगेनाप्य् अविरोधो न सम्भवति। घट-पटादेर् इव विकार-तत्-प्रयुक्त-दोषास्पदत्व-प्रसङ्गात्॥३३॥
Link copied२०८। अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषः॥२।२।३४॥
Link copiedजीवस्य यद् अन्त्यꣳ परिमाणꣳ मोक्षावस्थम्, तस्य पश्चाद् एक-रूपेणावस्थितेस् तद् एव स्वाभाविकꣳ परिमाणम् इति, आत्मनश् च तत्-परिमाणस्य चोभयोर् नित्यत्वात् पूर्वम् अपि न शरीर-परिमाणत्व-सिद्धिर् इति पूर्वावस्थायाꣳ न विशेषः; अतः असङ्गतम् एवेदꣳ जैन-मतम्॥३४॥ इत्य् एकस्मिन्न् असम्भवाधिकरणम्॥६॥
Link copied२०९। पत्युर् असामञ्जस्यात्॥२।२।३५॥
Link copiedपशुपति-मतꣳ निःश्रेयसार्थिभिर् आदरणीयम्, उत नेति सꣳशयः। आदरणीयम् इति पूर्वः पक्षः। परम-पुरुषार्थ-साधनावबोधित्वेन निखिल-वस्तु-साक्षात्कार-समर्थ-पशुपति-प्रणीतत्वात्। राद्धान्तस् तु--- अनादि-निधनाविच्छिन्न-पाठ-सम्प्रदाय-निरस्त-प्रमादादि-निखिल-दोष-गन्ध-वेद-सिद्ध-परावर-तत्त्व-व्यत्यय-प्रतिपादनात्, निमित्तोपादानभेदाभिधानात्, सुरा-कुम्भ-स्थापन-तत्-स्थ-देवतार्चन-मुद्रिका-षट्क-विज्ञान-तद्-धारणादि-वेद-विरुद्धाचार-प्रतिपादन-परत्वाच् च, असामञ्जस्याद् अनादरणीयम् इति। सूत्रार्थस् तु--- पत्युर् असामञ्जस्यात्, नैकस्मिन्न् असम्भवाद् इत्य् अतो नेत्य् अनुवर्तते। पत्युः--- पशुपतेर् मतम् अनादरणीयम्। कुतः। वेद-विरुद्ध-तत्त्वाचारावबोधित्वेनासामञ्जस्यात्॥३५॥
Link copied२१०। अधिष्ठानानुपपत्तेश् च॥२।२।३६॥
Link copiedअनुमेयेश्वराभ्युपगमेन हि प्रधानस्याधिष्ठानम् ईश्वरस्योच्यते। सशरीरस्यैव कुलालादेर् अधिष्ठान-दर्शनाद् अशरीरस्येश्वरस्य प्रधानाधिष्ठानानुपपत्तेश् चासामञ्जस्यम्। सशरीरत्वाभ्युपगमेऽपि तच्-छरीरस्य सावयवस्य नित्यत्वेऽनित्यत्वे च दोषः पूर्वोक्त इत्य् अभिप्रायः॥३६॥
Link copied२११। करणवच् चेन् न भोगादिभ्यः॥२।२।३७॥
Link copiedक्षेत्रज्ञस्य स्व-करण-कलेवराद्य्-अधिष्ठानवद् उपपद्यत इति चेन् न, पुण्यापुण्य-रूप-कर्म-निमित्तत्वात् क्षेत्रज्ञाधिष्ठानस्य; ईश्वरस्यापि तद्वत्तया तत्-फल-भोगादि-निखिल-तत्-स्वभाव-प्रसक्तेः॥३७॥
Link copied२१२। अन्तवत्त्वम् असर्वज्ञता वा॥२।२।३८॥
Link copiedवा-शब्दश् चार्थे। पुण्यापुण्यवत्त्वे त्व् अन्तवत्त्वꣳ सृष्टि-सꣳहारास्पदत्वम् असर्वज्ञता च प्रसज्यत इत्य् असमञ्जसम् एवेदम्॥३८॥ इति पशुपत्य्-अधिकरणम्॥७॥
Link copied२१३। उत्पत्त्य्-असम्भवात्॥२।२।३९॥
Link copiedसाङ्ख्यादि-तन्त्रवत् पाञ्चरात्र-तन्त्रम् अप्य् अप्रमाणम्, उत नेति सꣳशयः। अप्रमाणम् इति पूर्वः पक्षः। वासुदेवात् सङ्कर्षणो नाम जीवो जायते, इति श्रुति-विरुद्ध-जीवोत्पत्त्य्-आदि-प्रतिपादनात्, चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति वेद-गणानादर-वचनाच् च। राद्धान्तस् तु--- सङ्कर्षण-प्रद्युम्नानिरुद्धानाꣳ परब्रह्म-भावानाम्, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतार-प्रतिपादनान् न क्वचिच् छ्रुति-विरोधः। जीवाहङ्कार-मनः-शब्दाश् च तत्-तच्-छरीरकाणाꣳ सङ्कर्षणादीनाम् एवाभिधायकाः, तत् तेज ऐक्षत, इति तेजः-प्रभृति-शब्दवत्। चतुर्षु वेदेषु पुरुषार्थम् अलभमानः, इति चानुदित-होम-निन्दावत्; यथा--- ऋग्-वेदꣳ भगवोऽध्येमि, इत्य् आरभ्य, इतिहास-पुराणꣳ पञ्चमम्, इत्य् आदिना सर्वेषु विद्या-स्थानेषु चात्मनो वेदनाभाव-वचनꣳ वक्ष्यमाण-प्रशꣳसार्थम्। तन्त्रेऽस्मिन् वेदान्तोदित-ब्रह्मोपासन-विधानाद् वेदाविरुद्ध-तद्-अर्चनादि-विधानाच् चावगम्यते इति प्रमाणम् एव। सूत्रार्थस् तु--- उत्पत्त्य्-असम्भवात्, न जायते म्रियते वा, इत्य् आदि श्रुतेर् जीवस्योत्पत्त्य्-असम्भवाज् जीवोत्पत्ति-वचनाच् च न प्रमाणम्॥३९॥
Link copied२१४। न च कर्तुः करणम्॥२।२।४०॥
Link copiedसङ्कर्षणात् प्रद्युम्न-सꣳज्ञꣳ मन उत्पद्यते, इति मनसः करणस्य कर्तुर् जीवाद् उत्पत्तिश् च श्रुति-विरुद्धत्वान् न सम्भवति; एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च, इति मनसो ब्रह्मण उत्पत्तिश् श्रूयते॥४०॥
Link copied२१५। विज्ञानादि-भावे वा तद्-अप्रतिषेधः॥२।२।४१॥
Link copiedवा-शब्दात् पक्षो विपरिवर्तते। विज्ञानꣳ चादि च विज्ञानादि ब्रह्म। सङ्कर्षणादीनाꣳ ब्रह्म-भावे सति, अजायमानो बहुधा विजायते, इति श्रुति-प्रसिद्ध-स्वेच्छावतारस्यैवात्राभिधानात्, तद्-अप्रतिषेधः, प्रामाण्याप्रतिषेधः। सङ्कर्षणादीनाꣳ जीवादि-समानाधिकरणतया निर्देशस् तेषाम् अधिष्ठातृतयोपपद्यते॥४१॥
Link copied२१६। विप्रतिषेधाच् च॥२।२।४२॥
Link copiedअस्मिन्न् अपि तन्त्रे जीवोत्पत्ति-विप्रतिषेधाच् चाविरुद्धम् इदꣳ तन्त्रम्; व्याप्ति-रूपेण सम्बन्धस् तस्याश् च पुरुषस्य च। स ह्य् अनादिर् अनन्तश् च परमार्थेन निश्चितः, इति हि पुरुषस्योत्पत्तिः प्रतिषिध्यते॥४२॥ इत्य् उत्पत्त्य्-असम्भवाधिकरणम्॥८॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य द्वितीयः पादः॥
Link copied౧౭౫। రచనానుపపత్తేశ్ చ నానుమానṁ ప్రవృత్తేశ్ చ॥౨।౨।౧॥
Link copiedసాఙ్ఖ్య-తన్త్ర-సిద్ధః ప్రధాన-కారణ-వాదః కిṁ సమీచీన-యుక్తి-మూల, ఉత నేతి సṁశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వః పక్షః। ఘటాదివద్ విచిత్ర-సన్నివేశṁ జగత్ కార్యṁ తద్వద్ ఏవ స్వ-సరూప-కారణ-విశేషారబ్ధమ్। సుఖ-దుఃఖ-మోహాద్య్-ఆత్మకతయా సత్త్వాద్య్-ఆత్మకṁ జగత్ సత్త్వ-రజస్-తమో-మూలకమ్। తత్ర మహద్-ఆది-పృథివ్య్-అన్తానాṁ ఘటాదివత్ పరిణామిత్వేన కారణాపేక్షిత్వావిశేషాత్ తే జగద్-ఉత్పత్తౌ కారణ-కాష్ఠా న భవన్తి; తేషాṁ పరిమితత్వేన అపరిమిత-జగద్-ఉత్పాదనాశక్తేః। అన్యూనానతిరిక్తాని సామ్యావస్థాన్య్ అపరిమితాని సత్త్వ-రజస్-తమాṁస్య్ అవ్యక్త-ప్రధానాది-శబ్దాభిధేయాని జగత్-కారణమ్। రాద్ధాన్తస్ తు--- రథ-ప్రాసాదాది-హేతు-భూత-దార్వాదివద్ అచేతనṁ ప్రధానṁ స్వ-స్వభావాద్య్-అభిజ్ఞ-చేతనానధిష్ఠితṁ విచిత్ర-జగద్-రచనా-సమర్థమ్ ఇతి న కేవలṁ ప్రధానṁ కారణమ్। సూత్రార్థస్ తు--- రచనానుపపత్తేశ్ చ నానుమానమ్--- అనుమీయత ఇత్య్ అనుమానṁ ప్రధానమ్; తస్యాచేతనస్య ప్రాజ్ఞానధిష్ఠితస్య విచిత్ర-సన్నివేశ-జగద్-రచనానుపపత్తేస్ తన్ న కారణమ్। చ-కారాత్ సత్త్వాదీనాṁ ద్రవ్య-గుణత్వేన శౌక్ల్యాదేర్ ఇవోపాదాన-కారణత్వాసమ్భవṁ సముచ్చినోతి। సత్త్వాదయో హి కార్య-గత-లాఘవ-ప్రకాశాది-హేతు-భూతాః కారణ-భూత-పృథివ్య్-ఆది-గతాస్ తత్-స్వభావ-విశేషాః। ప్రవృత్తేశ్ చ--- అనుపపత్తేర్ ఇతి వర్తతే; ప్రాజ్ఞానధిష్ఠితస్య ప్రధానస్య విచిత్ర-జగద్-రచనానుగుణాద్య్-అపరిస్పన్ద-రూప-ప్రవృత్త్య్-అనుపపత్తేశ్ చ న ప్రధానṁ కారణమ్॥౧॥
Link copied౧౭౬। పయోఽమ్బువచ్ చేత్ తత్రాపి॥౨।౨।౨॥
Link copiedపయసః అమ్బునశ్ చ యథా ప్రాజ్ఞానధిష్ఠితస్యైవ దధి-భావేన నారికేల-చూతాది-విచిత్ర-రస-రూపేణ చ పరిణామో దృశ్యతే; తద్వత్ ప్రధానస్యాపి కేవలస్యైవ జగద్-ఆకారేణ పరిణామ ఉపపద్యత ఇతి చేత్ పరిహరతి తత్రాపీతి। తద్ అపి పక్షీకృతమ్ ఇత్య్ అర్థః। యత్ర రథాదిష్వ్ అచేతనస్య ప్రాజ్ఞాధిష్ఠితత్వṁ దృష్టమ్, తద్-వ్యతిరిక్తṁ హి సర్వṁ పక్షీకృతమ్ ఏవ। యోఽప్సు తిష్ఠన్న్ ఇత్య్ ఆది శ్రుతేస్ తద్ అపి ప్రాజ్ఞాధిష్ఠితమ్॥౨॥
Link copied౧౭౭। వ్యతిరేకానవస్థితేశ్ చానపేక్షత్వాత్॥౨।౨।౩॥
Link copiedసర్గ-వ్యతిరేకేణ ప్రతిసర్గావస్థయానవస్థితి-ప్రసఙ్గాచ్ చ కేవలṁ ప్రధానṁ న కారణమ్; అన్యానపేక్షత్వాత్ ప్రధానస్య సర్వదైవ సృష్టిః ప్రసజ్యతే॥౩॥
Link copied౧౭౮। అన్యత్రాభావాచ్ చ న తృణాదివత్॥౨।౨।౪॥
Link copiedధేన్వ్-ఆదినోపయుక్తṁ హి తృణోదకాది స్వయమ్ ఏవ క్షీరాకారేణ పరిణమతే; తద్వత్ ప్రధానమ్ అపీతి చ వక్తుṁ న శక్యతే; ధేన్వ్-ఆదినోపయుక్తస్యాపి తృణాదేః క్షీరాకారేణ పరిణామః ప్రాజ్ఞాధిష్ఠితత్వాద్ ఏవ భవతీత్య్ అభ్యుపేతవ్యమ్। కుతః। అన్యత్రాభావాత్--- అనడుహాద్య్-ఉపయుక్తస్య ప్రహీణస్య వా తృణాదేః క్షీరాకారేణ పరిణామాభావాత్॥౪॥
Link copied౧౭౯। పురుషాశ్మవద్ ఇతి చేత్ తథాపి॥౨।౨।౫॥
Link copiedప్రాజ్ఞానధిష్ఠితమ్ అపి ప్రధానṁ చైతన్య-మాత్ర-వపుర్ నిష్క్రియః పురుషః స్వ-సన్నిధి-మాత్రేణ సర్గాదౌ ప్రవర్తయతి। యథా దృక్-శక్తి-యుక్తో గమన-శక్తి-వికలః పఙ్గుః పురుషః, అన్ధṁ దృక్-శక్తి-వికలṁ ప్రవృత్తి-శక్తి-యుక్తṁ పురుషṁ స్వ-సన్నిధానాత్ ప్రవర్తయతి; యథా చాయస్కాన్తాశ్మా స్వ-సన్నిధానాదయః ప్రవర్తయతి తద్వద్ ఇతి చేత్; పరిహరతి--- తథాపీతి। తద్వద్ అపి ప్రధానస్య ప్రవృత్తిర్ నోపపద్యతే; తత్ర హిṁ పఙ్గోః పురుషస్య గమన-శక్తి-వికలస్యాపి మార్గోపదేశాది-వ్యాపారః కాదాచిత్కో దృశ్యతే; అన్ధస్య చాక్షుష-వ్యాపార-విరహేఽపి పఙ్గూపదేశ-గ్రహణాదిశ్ చేతన-ధర్మోఽస్తి। అయస్కాన్త-మణేర్ అప్య్ అయః-ప్రవృత్తౌ కాదాచిత్కమ్ అయః-సన్నిధానṁ విద్యతే। ఇహ తు సన్నిధి-మాత్రాతిరేకీ తాదృశః కశ్చిద్ విశేష ఉభయత్రాపి న విద్యతే। పురుష-సన్నిధానస్య నిత్యత్వేన నిత్య-సర్గ-ప్రసక్తిః। తథా సతి ప్రతిసర్గాభావోఽపవర్గాభావ-ప్రసఙ్గశ్ చ॥౫॥
Link copiedఇతశ్ చ---
Link copied౧౮౦। అఙ్గిత్వానుపపత్తేశ్ చ॥౨।౨।౬॥
Link copiedగుణానామ్ ఉత్కర్షాపకర్ష-రూపాఙ్గాఙ్గి-భావేన జగత్-ప్రవృత్తిః ప్రతిసర్గావస్థాయాṁ సామ్యావస్థానామ్ ఏకస్యోత్కర్ష-రూపాఙ్గిత్వానుపపత్తేశ్ చ న సమ్భవతి। తత్రాప్య్ ఉత్కర్షోఽస్తి చేత్, సర్వదా సర్గ-ప్రసఙ్గః॥౬॥
Link copied౧౮౧। అన్యథానుమితౌ చ జ్ఞ-శక్తి-వియోగాత్॥౨।౨।౭॥
Link copiedఉక్త-ప్రకారాద్ వ్యతిరిక్త-ప్రకారేణ ప్రధానానుమితౌ చ ప్రధానస్య జ్ఞాతృత్వ-శక్తి-వియోగాద్ రచనానుపపత్త్య్-ఆదయో దోషాస్ తద్-అవస్థాః॥౭॥
Link copied౧౮౨। అభ్యుపగమేఽప్య్ అర్థాభావాత్॥౨।౨।౮॥
Link copiedప్రధానాభ్యుపగమేఽపి ప్రధానేన ప్రయోజనాభావాన్ న తద్-అనుమేయమ్। పురుషస్య భోగాపవర్గార్థతయా హి ప్రధాన-ప్రవృత్తేః సప్రయోజనత్వమ్। చైతన్య-మాత్ర-వపుషో నిష్క్రియస్య నిత్య-నిర్వికారస్య పురుషస్య ఇతరేతరాధ్యాస-కృత-ప్రకృతి-దర్శన-రూప-భోగః, తద్-వివేక-రూపాపవర్గశ్ చ న సమ్భవతి। నిర్వికారస్యైవ ప్రకృతి-సన్నిధానేన భోగః సమ్భవతి చేత్; ఉభయోర్ నిత్యత్వేన చ సన్నిధానస్య నిత్యత్వాద్ అపవర్గాసిద్ధిః; తథావిధ-సన్నిధేర్ ఏవాపవర్గ-హేతుత్వే భోగాసిద్ధిశ్ చ॥౮॥
Link copied౧౮౩। విప్రతిషేధాచ్ చాసమఞ్జసమ్॥౨।౨।౯॥
Link copiedవిప్రతిషిద్ధṁ చేదṁ సాఙ్ఖ్య-దర్శనమ్; ప్రకృతేః పరార్థతయా పురుషో ద్రష్టా భోక్తా అధిష్ఠాతా చేత్య్ ఆహుః; ప్రకృతేశ్ చ పురుషస్య భోగాపవర్గార్థతయా సప్రయోజనత్వṁ చ, ప్రకృత్యైవ సాధన-భూతయా పురుషో భోగమ్ అపవర్గṁ చాశ్నుత ఇతి చోక్తేః। స చ పురుషశ్ చైతన్య-మాత్ర-వపుర్ నిత్యో నిర్వికారో న ద్రష్టా న భోక్తా న కర్తేతి చ; అత ఏవ పురుషో న బధ్యతే, న చ మోక్ష-సాధనమ్ అనుతిష్ఠతి, న చ ముచ్యత ఇతి చ వదన్తి। ప్రకృతిర్ అచేతన-భూతైవ పురుష-సన్నిధానాత్ పురుష-ధర్మṁ చైతన్యṁ స్వస్మిన్ స్వ-ధర్మṁ కర్తృత్వṁ పురుషే చానుసన్ధాయ బధ్యతే; మోక్ష-సాధనమ్ అనుతిష్ఠతి, ముచ్యతే ఇతి చాహుః। అధ్యాస-రూపమ్ అనుసన్ధానṁ హి చేతన-ధర్మః; తథా ప్రకృతిర్ అనుపకారిణః పురుషస్య భోగాపవర్గ-స్వరూపṁ ప్రయోజనṁ సాధయతీత్య్ ఉపకారిణీతి చాహుః। అధ్యాస-రూప-బన్ధాదయః పురుషస్య న సన్తీతి చేత్, కస్ తస్యోపకారః। ఏవమ్ ఆద్య్ అన్యోన్య-విరుద్ధ-భాషణాద్ అసమఞ్జసమ్॥౧॥ ఇతి రచనానుపపత్త్య్-అధికరణమ్॥౧॥
Link copied౧౮౪। మహద్ దీర్ఘవద్ వా హ్రస్వ-పరిమణ్డలాభ్యామ్॥౨।౨।౧౦॥
Link copiedకిṁ కాణాదాభ్యుపగతః పరమాణు-కారణ-వాదః సమీచీన-యుక్తి-మూలః, ఉత నేతి సṁశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వ-పక్షః, అవయవ-సṁయోగాద్ అవయవ-వ్యుత్పత్తేర్ దర్శనాత్, అవయవాల్పత్వ-ప్రాచుర్యాభ్యాṁ సర్షప-మహీధర-వైషమ్య-దర్శనాచ్ చ అవయవాల్పత్వ-కాష్ఠావశ్యాభ్యుపగమనీయేతి పరమాణు-సిద్ధిః। తే చతుర్-విధాః పరమాణవో విపాక-దశాపన్న-క్షేత్రజ్ఞాదృష్ట-సచివాః పరమేశ్వరాధిష్ఠితాః ద్వ్య్-అణుకాది-క్రమేణ జగద్-ఆరమ్భకా ఇతి।
Link copiedరాద్ధాన్తస్ తు--- అవయవాః స్వకీయైః షడ్భిః పార్శ్వైర్ అసṁయుజ్యమానాః స్వస్మాన్ మహాన్తమ్ అవయవినమ్ ఉత్పాదయన్తీతి పరమాణుష్వ్ అపి తథైవోత్పాదకత్వమ్ అభ్యుపేతవ్యమ్। తథా సతి పరమాణవోఽపి సాṁశాః స్వకీయైర్ అవయవైః, తే చ స్వకీయైర్ ఇతి న క్వచిత్ కారణస్య వ్యవస్థితిః। సూత్రార్థస్ తు--- మహద్ దీర్ఘవద్ వా హ్రస్వ-పరిమణ్డలాభ్యామ్; అసమఞ్జసమ్ ఇతి వర్తతే; వా-శబ్దశ్ చార్థే। హ్రస్వ-పరిమణ్డలాభ్యాṁ--- ద్వ్య్-అణుక-పరమాణుభ్యాṁ మహద్ దీర్ఘవత్--- త్ర్య్-అణుక-ద్వ్య్-అణుకోత్పత్తివద్ అన్యచ్ చ తద్-అభ్యుపగతṁ సర్వమ్ అసమఞ్జసమ్॥౧౦॥
Link copiedద్వ్య్-అణుకాది-క్రమేణారమ్భకత్వṁ కారణానవస్థితేర్ అసమఞ్జసమ్। కిమ్ అత్రాన్యద్ అసమఞ్జసమ్ ఇత్య్ అత్రాహ---
Link copied౧౮౫। ఉభయథాపి న కర్మాతస్ తద్-అభావః॥౨।౨।౧౧॥
Link copiedపరమాణూనామ్ ఆద్యṁ కర్మ అదృష్ట-కారితమ్ ఇత్య్ అభ్యుపగమ్యతే; తద్ అదృష్టṁ కిమ్ అణు-గతమ్। ఉత క్షేత్రజ్ఞ-గతమ్। ఉభయథాప్య్ అదృష్టస్య అకాదాచిత్కత్వేన సదోత్పాదకత్వ-ప్రసఙ్గాత్ కాదాచిత్కṁ కర్మ న సమ్భవతి। అతః కర్మణా పరమాణుసṁయోగాభావః। విపాకాపేక్షత్వేఽపి నానా-విధానన్తాదృష్టానామ్ ఏక-దైవైక-రూప-విపాకశ్ చ న సమ్భవతి। ఆనుమానికేశ్వరాసిద్ధేర్ ఈశ్వరేచ్ఛయాపి నియమో న సమ్భవతి॥౧౧॥
Link copied౧౮౬। సమవాయాభ్యుపగమాచ్ చ సామ్యాద్ అనవస్థితేః॥౨।౨।౧౨॥
Link copiedసమవాయాభ్యుపగమాచ్ చాసమఞ్జసమ్; సమవాయో హి జాతి-గుణాదీనాṁ ద్రవ్య-విశేషాపృథక్-సిద్ధి-హేతుతయాభ్యుపగమ్యతే; సమవాయస్యాపి తథాభావే హేత్వ్-అపేక్షాసామ్యాద్ అనవస్థితేః। సమవాయస్య తథాభావః స్వాభావిక ఇతి చేత్; జాతి-గుణాదీనామ్ ఏవైష స్వభావ ఇతి యుక్తమ్॥
Link copiedఇతశ్ చ---
Link copied౧౮౭। నిత్యమేవ చ భావాత్॥౨।౨।౧౩॥
Link copiedసమవాయ-సమ్బన్ధస్య నిత్యత్వాభ్యుపగమాత్, సమ్బన్ధి-నిత్యత్వమ్ అన్తరేణ తద్-అనుపపత్తేః, అవయవావయవినోర్ ఉభయోర్ అపి నిత్యమ్ ఏవ భావాత్ కార్య-కారణ-భావ ఏవ న సిద్ధ్యతి॥౧౩॥
Link copied౧౮౮। రూపాదిమత్వాచ్ చ విపర్యయో దర్శనాత్॥౨।౨।౧౪॥
Link copiedపరమాణూనాṁ నిత్యత్వ-నిరవయవత్వాది-విపర్యయశ్ చ స్యాత్, రూపాదిమత్త్వాత్ తేషామ్, ఘటాదిషు రూపాదిమత్సు తథా దర్శనాత్; దర్శనాద్ ఏవ హి త్వద్-అభిమతṁ పరికల్ప్యతే॥౧౪॥
Link copied౧౮౯। ఉభయథా చ దోషాత్॥౨।౨।౧౫॥
Link copiedఅనిత్యత్వాది-భయాత్ పరమాణూనాṁ రూపాది-శూన్యత్వే కార్య-గుణస్య కారణ-గుణ-పూర్వకత్వాసిద్ధిః, తత్-సిద్ధయే రూపాదిమత్త్వే చానిత్యత్వాది-దోష-ప్రసక్తిర్ ఇతి, ఉభయథా చ దోషాద్ అసమఞ్జసమ్ ఏవ॥౧౫॥
Link copied౧౯౦। అపరిగ్రహాచ్ చాత్యన్తమ్ అనపేక్షా॥౨।౨।౧౬॥
Link copiedకాపిల-పక్షే హి శ్రుతి-న్యాయ-విరుద్ధేఽపి సత్కార్యవాదాది కిఞ్చిద్ వైదికైః పరిగృహ్యతే; కాణాదే తు కస్యచిద్ అప్య్ అṁశస్య వైదికైః పరిగ్రహాభావాద్ అనుపపన్నత్వాచ్ చ నిఃశ్రేయసార్థిభిర్ అత్యన్తమ్ అనపేక్షా కార్యా॥౧౬॥ ఇతి మహద్-దీర్ఘాధికరణమ్॥౨॥
Link copied౧౯౧। సముదాయ ఉభయ-హేతుకేఽపి తద్-అప్రాప్తిః॥౨।౨।౧౭॥
Link copiedసౌగతాశ్ చతుర్విధాః--- ప్రత్యక్ష-సిద్ధ-స్థూల-ద్రవ్య-వాదినః కేచిద్ వైభాషికాః; అన్యే విజ్ఞానానుమేయ-స్థూల-ద్రవ్య-వాదినః। తే చ సౌత్రాన్తికాః। అపరే నిరాలమ్బన-విజ్ఞాన-మాత్ర-సద్-భావṁ వదన్తి యోగాచారాః। త్రయోఽప్య్ ఏతే స్వాభ్యుపగత-వస్తునః క్షణికత్వṁ వదన్తి। అన్యే తు సర్వ-శూన్య-వాదినో మాధ్యమికాః। తత్రాద్యయోర్ బాహ్య-సద్-భావమ్ అభ్యుపగచ్ఛతోర్ జగద్-ఉత్పత్తి-ప్రకారో లోక-వ్యవహారశ్ చ సూపపాదః, ఉత దురుపపాద ఇతి సṁశయః। సూపపాద ఇతి పూర్వః పక్షః। తథా హి--- పర్థివాప్య-తైజస-వాయవీయా గన్ధాది-యుక్తాః పరమాణవో హి పృథివ్య్-ఆది-రూపేణ సṁహతా భవన్తి; భూతేభ్యశ్ చ శరీరేన్ద్రియ-విషయ-లక్షణ-సఙ్ఘాతాః। తత్ర ఆన్తరో విజ్ఞాన-సన్తానో గ్రాహకాభిమానారూఢ ఆత్మత్వేనావతిష్ఠతే। ఏషు క్షణికేష్వ్ అపి స్థిరత్వాది-గోచర-బుద్ధ్య్-ఆఖ్యా-విద్యయా సర్వమ్ ఉపపద్యత ఇతి జగద్-ఉత్పత్తిర్ లోక-వ్యవహారశ్ చ యుజ్యతే। రాద్ధాన్తస్ తు--- క్షణ-ధ్వṁసినః పరమాణవః కదా సṁహతౌ వ్యాప్రియన్తే। కదా సṁహన్యన్తే। సṁహతౌ వ్యాపృతాస్ తస్మిన్న్ ఏవ క్షణే వినష్టాశ్ చేత్, కే పునః సṁహన్యన్తే। కశ్ చ విజ్ఞానాత్మా కదా కṁ విషయṁ స్పృశతి। కశ్ చ కదా కṁ జానాతి। కశ్ చ కదా కమ్ అర్థమ్ ఉపాదత్తే। స్ప్రష్టా నష్టః, స్పృష్టṁ చ నష్టమ్, వేదితా నష్టః, వేద్యṁ చ నష్టమ్। కథమ్ అన్యేన స్పృష్టమ్ అన్యో విజానాతి। కథṁ వాన్యేన విదితమ్ అన్య ఉపాదత్తే। సన్తానైకత్వే సిద్ధేఽపి సన్తానిభ్యః సన్తానస్య పరమార్థతో వస్త్వ్-అన్తరత్వానభ్యుపగమాత్, సన్తానైక్యమ్ అపారమార్థికమ్ అకిఞ్చిత్కరమ్। స్థిరత్వాద్య్-అవిద్యయాపి సఙ్ఘాతోత్పత్తిర్ న సమ్భవతి; న హి శుక్తికాదిషు రజతావిద్యయా రజతాద్య్-ఉత్పత్తి-సమ్భవః। విదుషశ్ చ పూర్వస్య నష్టత్వేన ఉత్తరేణావిదుషాపూర్వ-వినష్టేన విదుషానుసṁహితార్థోపాదానṁ న సమ్భవతి; సṁస్కారాశ్రయత్వేన చైకోఽర్థః స్థిరో నాభ్యుపగమ్యతే। అతో జగద్-ఉత్పత్తిర్ లోక-వ్యవహారశ్ చ దురుపపాద ఏవ। సూత్రార్థస్ తు--- సముదాయ ఉభయ-హేతుకేఽపి తద్-అప్రాప్తిః--- ఉభయ-హేతుకేఽపి సముదాయే సముదాయత్వాప్రాప్తిః; పరమాణు-హేతుకః పృథివ్య్-ఆది-సముదాయః; పృథివ్య్-ఆది-హేతుకః శరీరేన్ద్రియ-సముదాయః--- ఇత్య్ ఉభయ-హేతుకోఽపి సముదాయః క్షణికత్వాభ్యుపగమాద్ ఉక్తేన న్యాయేన న సిద్ధ్యతీత్య్ అర్థః॥౧౭॥
Link copied౧౯౨। ఇతరేతర-ప్రత్యయత్వాద్ ఉపపన్నమ్ ఇతి చేన్ న సఙ్ఘాత-భావానిమిత్తత్వాత్॥౨।౨।౧౮॥
Link copiedయద్య్ అపి క్షణికాః సర్వే భావాః, తథాప్య్ అవిద్యాదీనామ్ ఇతరేతర-హేతుకత్వాద్ ఉపపన్నṁ లోక-వ్యవహారాదికమ్। అస్థిరేషు స్థిరత్వ-బుద్ధి-రూపయా అవిద్యయా తత్ర తత్ర రాగ-ద్వేషాదయో జాయన్తే; ఇత్య్ ఏవమ్ ఆది పరమ్పరయా పునర్ అప్య్ అవిద్యేతి చక్రవత్ పరివర్తత ఇతి చేన్ నైతద్ ఉపపద్యతే, సఙ్ఘాత-భావానిమిత్తత్వాద్ అవిద్యాయాః--- యద్య్ అప్య్ అవిద్యాఖ్యా విపరీత-బుద్ధిః క్షణికṁ స్థిరత్వేన విషయీకరోతి, తథాపి తన్ న వస్తుతః స్థిరṁ భవతీతి వస్తుతః స్థిర-కార్యṁ న కరోతి; అతః సఙ్ఘాత-భావో న సిధ్యతీత్య్ అర్థః। అస్థిరే స్థిరత్వ-బుద్ధి-యుక్తస్య విజ్ఞానాత్మనస్ తదైవ నష్టత్వాత్ కస్య రాగ-ద్వేషాదయో జాయన్త ఇతి, రాగ-ద్వేషాది-పరమ్పరా చ న సిధ్యతీత్య్ అభిప్రాయః॥౧౮॥
Link copiedఇతశ్ చ---
Link copied౧౯౩। ఉత్తరోత్పాదే చ పూర్వ-నిరోధాత్॥౨।౨।౧౯॥
Link copiedఉత్తర-ఘట-క్షణోత్పత్తి-వేలాయాṁ పూర్వస్య వినష్టత్వాద్ అభావస్యైవ హేతుత్వేనావిశేషాత్ సర్వేషాṁ సర్వదోత్పత్తిః ప్రసజ్యేత। పూర్వ-క్షణ-వర్తినో హేతుత్వోపగమేఽపి దేశాదేర్ విశేషకస్య స్థిరస్యైకస్యానభ్యుపగమాద్ అవిశేషేణోత్తర-క్షణ-వర్తినః సర్వస్య హేతుః స్యాత్॥౧౯॥
Link copied౧౯౪। అసతి ప్రతిజ్ఞోపరోధో యోగ-పద్యమ్ అన్యథా॥౨।౨।౨౦॥
Link copiedఅసత ఉత్పత్తౌ ప్రతిజ్ఞా-విరోధశ్ చ భవతామ్; అధిపతి-సహకార్యాదీనాṁ విజ్ఞానోత్పత్తి-హేతుత్వ-ప్రతిజ్ఞానాత్। అథైతత్-పరిజిహీర్షయా పూర్వో ఘట-క్షణస్ తిష్ఠతీత్య్ ఉచ్యేత, తదా యుగపద్ ఘట-క్షణ-ద్వయోపలబ్ధి-ప్రసఙ్గః; న చోపలభ్యతే। ఉపరోధో విరోధః॥౨౦॥
Link copiedసతో నిరన్వయ-వినాశోఽపి న సమ్భవతీత్య్ ఆహ---
Link copied౧౯౫। ప్రతిసఙ్ఖ్యాప్రతిసఙ్ఖ్యా నిరోధాప్రాప్తిర్ అవిచ్ఛేదాత్॥౨।౨।౨౧॥
Link copiedప్రతిసఙ్ఖ్యాప్రతిసఙ్ఖ్యానిరోధాప్రాప్తిః--- స్థూల-సూక్ష్మ-వినాశయోర్ అప్రాప్తిర్ ఇత్య్ అర్థః। స్థూల-వినాశో ముద్గరాభిఘాతాద్య్-అనన్తర-భావ్య్-ఉపలబ్ధి-యోగ్యః; సూక్ష్మస్ తు, ప్రతిక్షణ-భావ్య్-ఉపలబ్ధ్య్-అనర్హః। తౌ నిరన్వయౌ న భవతః, ఉత్పత్తి-వినాశ-ధర్మ-భాగినో ద్రవ్యస్యావిచ్ఛేదాత్। తద్-అనన్యత్వమ్ ఇతి సత్కార్యవాదస్యోపపాదితత్వాద్ ఇత్య్ అభిప్రాయః। ఘటాదౌ కపాలాది-రూపావస్థయా నిరన్వయ-వినాశాదర్శనాత్ ప్రదీపనిర్వాణేఽపి సూక్ష్మావస్థాప్రాప్తిర్ ఇత్య్ అవిరోధః॥౨౧॥
Link copied౧౯౬। ఉభయథా చ దోషాత్॥౨।౨।౨౨॥
Link copiedఉత్పన్నస్య తుచ్ఛతాపత్తౌ, తుచ్ఛాద్ ఉత్పత్తౌ చ, ఇత్య్ ఉభయ-ప్రకారే చ దోషాపత్తేః, తే న సమ్భవతః। ఉత్పన్నస్య తుచ్ఛతాపత్తౌ హి పశ్చాత్ తుచ్ఛాద్ ఉత్పద్యమానṁ జగత్-తుచ్ఛాత్మకమ్ ఏవ స్యాత్; మృత్-సువర్ణాదేర్ ఉత్పద్యమాన-మృత్-సువర్ణాద్య్-ఆత్మక-ఘట-ముకుటాదివత్। అతస్ తుచ్ఛాద్ ఉత్పత్తిస్ తుచ్ఛతాపత్తిశ్ చ న సమ్భవతః॥౨౨॥
Link copied౧౯౭। ఆకాశే చావిశేషాత్॥౨।౨।౨౩॥
Link copiedఆకాశే తుచ్ఛ-స్వరూపతా న సమ్భవతి, అబాధిత-ప్రతీతి-సిద్ధ-పృథివ్య్-ఆదివద్ ఆకాశేఽప్య్ అబాధిత-ప్రతీతేర్ అవిశేషాత్। ప్రతీయతే హ్య్ ఆకాశః, అత్ర శ్యేనః పతత్య్ అత్ర గృధ్ర ఇతి శ్యేనాదేః పతన-దేశత్వేన॥౨౩॥
Link copied౧౯౮। అనుస్మృతేశ్ చ॥౨।౨।౨౪॥
Link copiedప్రత్యభిజ్ఞానాṁ చ న ఘటాదేః క్షణికత్వమ్। తద్ ఏవేదమ్ ఇతి హి ప్రత్యభిజ్ఞాయతే। (ప్రత్యభిజ్ఞానṁ హి నామ, అతీత-వర్తమాన-కాల-వర్త్య్-ఏక-వస్తు-విషయమ్ ఏకṁ ప్రత్యక్ష-జ్ఞానమ్। తస్య కాల-ద్వయ-సమ్బన్ధ-విశిష్టమ్ ఏవ వస్తు విషయః। న చ తద్ ఇత్య్ అṁశః స్మరణమ్, ఇదమ్ ఇత్య్ అṁశశ్ చ గ్రహణమ్, అతీత-కాల-సమ్బన్ధినీన్ద్రియ-సమ్ప్రయోగాభావాద్ ఇతి వాచ్యమ్, తద్ ఇదమ్ ఇతి సామానాధికరణ్యేన గ్రహణస్యైకత్వ-స్ఫురణాత్। పూర్వ-కాలానుభవ-జనిత-సṁస్కార-సహకృతేన్ద్రియ-సమ్ప్రయోగ-యుక్తస్య పురుషస్య యథా గ్రహణమ్ ఉపపద్యత ఏవ। అన్వయ-వ్యతిరేకాదీనṁ హి సర్వత్ర సామగ్రీపరికల్పనమ్)। న చ జ్వాలాదివత్-సాదృశ్య-నిబన్ధనా ప్రత్యభిజ్ఞేతి త్వయా వక్తుṁ శక్యమ్, కాల-ద్వయ-వర్తినోర్ ద్వయోః సాదృశ్యస్యానుసన్ధాతుర్ జ్ఞాతుర్ ఏకస్యానభ్యుపగమాత్॥౨౪॥
Link copiedపృథివ్య్-ఆది-విజ్ఞానానుమేయార్థ-వాదినṁ ప్రత్యాహ। స హి జ్ఞానే నీల-పీతాది-విచిత్రాకారṁ దృష్త్వా జ్ఞానాత్ పూర్వ-క్షణ-వర్తినṁ జ్ఞానే స్వాకారṁ సమర్ప్య వినష్టమ్ అర్థమ్ అనుమినోతి। తత్రోత్తరమ్---
Link copied౧౯౯। నాసతోఽదృష్టత్వాత్॥౨।౨।౨౫॥
Link copiedఅసతో ధర్మిణో ధర్మస్యాన్యత్ర సఙ్క్రమణṁ న సమ్భవతి। కుతః। అదృష్టత్వాత్। న హి ధర్మిణి వినష్టే తద్-ధర్మస్యాన్యత్ర సఙ్క్రమణṁ క్వచిద్ దృష్టమ్॥౨౫॥
Link copied౨౦౦। ఉదాసీనానామ్ అపి చైవṁ సిద్ధిః॥౨।౨।౨౬॥
Link copiedవైభాషిక-సౌత్రాన్తికయోర్ ద్వయోర్ అపి సాధారణమ్ ఇదṁ దూషణమ్। ఏవṁ సర్వ-భావానాṁ క్షణికత్వాభ్యుపగమే సతి, ఉదాసీనానాṁ--- నిష్ప్రయత్నానామ్ అప్య్ ఐహికాముష్మిక-సర్వార్థ-సిద్ధిః స్యాత్, ప్రయత్నాద్య్ అనుతిష్ఠతస్ తదానీమ్ ఏవ వినష్టత్వాత్, తత్-తత్-సṁస్కారాదేర్ అపి కస్యచిత్ స్థిరస్యానువర్తమానస్యానభ్యుపగమాచ్ చ, పశ్చాద్ ఆగతా సిద్ధిర్ అహైతుకీతి నిష్ప్రయత్నానామ్ అప్య్ ఐహికాముష్మిక-సర్వార్థ-సిద్ధిః స్యాత్॥౨౬॥ ఇతి సముదాయాధికరణమ్॥౩॥
Link copied౨౦౧। నాభావ ఉపలబ్ధేః॥౨।౨।౨౭॥
Link copiedయోగాచారాభిమతో జ్ఞాన-మాత్ర-సద్-భావ-వాదః కిṁ సమీచీన-యుక్తి-మూలః, ఉత నేతి సṁశయః। సమీచీన-యుక్తి-మూల ఇతి పూర్వః పక్షః। బాహ్యార్థ-సద్-భావ-వాదినాపి తత్-తద్-అర్థాకార-జ్ఞానస్య ప్రకాశమానత్వమ్ అవశ్యాశ్రయణీయమ్। సర్వస్య వస్తునః ప్రకాశమానస్య స్వాసాధారణేనాకారేణ ప్రకాశ ఇష్యతే। తత్ర ఘట-పటాది-జ్ఞానస్య ఘట-పటాద్య్-ఆకార ఏవాకారః। అన్యథా ఘటాద్య్-అసాధారణ్యṁ చ తత్-తజ్-జ్ఞానస్య న సమ్భవతి। ఏకశ్ చాయమ్ ఆకార ఉపలభ్యతే। స తు జ్ఞానస్యైవేతి తద్-వ్యతిరిక్తార్థ-సద్-భావ-వాదోఽనుపపన్నః। తావతైవ ఘటోఽయṁ జ్ఞాత ఇతి వ్యవహారశ్ చోపపద్యతే। తస్య బహిర్వద్ అవభాసో నిర్మూలత్వాద్ విభ్రమ-కృతః। రాద్ధాన్తస్ తు--- ఘటమ్ అహṁ జానామీతి సకర్మకస్య సకర్తృకస్య జ్ఞా-ధాత్వ్-అర్థస్య చ్ఛేదనాదివత్ సర్వ-లోక-సాక్షికమ్ ఉపలభ్యమానస్య కర్తృ-కర్మ-వ్యతిరేకేణ కేవలస్యైవ సద్-భావమ్ అనున్మత్తః కో బ్రవీతి। స్వాసాధారణాకారశ్ చ ఛేదనాదివత్ తత్-తద్-అర్థ-వ్యవహార-యోగ్యతాపాదనాకారేణోపలభ్యతే। ఏవṁ ఛేదనాదేర్ అప్య్ ఆకారో ద్విధా-భావనాది-హేతుతయైవ కర్తృ-గతస్యోపలభ్యతే। న హ్య్ అమూర్తానాṁ క్రియాదీనాṁ కర్తృ-కర్మ-నిరూపణీయ-స్వాకారాణాṁ కర్మాకారత్వమ్ ఆశ్రీయతే। సూత్రార్థస్ తు--- నాభావ ఉపలబ్ధేః, జ్ఞాన-వ్యతిరిక్తార్థాభావో న శక్యతే వక్తుమ్, ఉపలబ్ధేః--- ఘటమ్ అహṁ జానామీతి జానాతేః కర్మతయా కర్తృతయా చోపలబ్ధేః॥౨౭॥
Link copied౨౦౨। వైధర్మ్యాచ్ చ న స్వప్నాదివత్॥౨।౨।౨౮॥
Link copiedస్వప్న-జ్ఞానాదివచ్ చ జాగరిత-జ్ఞానానాṁ న మిథ్యార్థత్వమ్, తద్-వైధర్మ్యాత్ నిద్రాది-కారణ-దోష-బాధక-ప్రత్యయ-రహితత్వాద్ ఇత్య్ అర్థః। చ-కారాత్ తాన్య్ అపి యథార్థానీత్య్ అభిప్రాయః॥౨౮॥
Link copied౨౦౩। న భావోఽనుపలబ్ధేః॥౨।౨।౨౯॥
Link copiedన కేవలస్యార్థ-శూన్యస్య జ్ఞానస్య భావః సమ్భవతి, క్వచిద్ అప్య్ అనుపలబ్ధేః। అబాధిత-ప్రతీతి-సిద్ధస్యాసద్-భావే సతి జ్ఞాన-మాత్రస్యాప్య్ అసద్-భావో న శక్యతే వారయితుమ్ ఇత్య్ అభిప్రాయః॥౨౯॥ ఇత్య్ ఉపలబ్ధ్య్-అధికరణమ్॥౪॥
Link copied౨౦౪। సర్వథానుపపత్తేశ్ చ॥౨।౨।౩౦॥
Link copiedమాధ్యమికోక్త-సర్వ-శూన్యవాదః సమ్భవతి, నేతి సṁశయః। సమ్భవతీతి పూర్వః పక్షః। విజ్ఞానṁ ఘటాదయశ్ చ సర్వే భావా న సన్తి। కుతః। ఉత్పత్త్య్-అనిరూపణాద్ ఘటాది-భావానామ్। భావాత్ తావద్ ఉత్పత్తిర్ న సమ్భవతి; న హి ఘటాదిర్ ఉత్పద్యమానః అసమ్మృదితేన మృత్-పిణ్డాదినోత్పద్యతే। నాప్య్ అభావాత్, పశ్చాద్ అభావాద్ ఉత్పద్యమానో ఘటాదిర్ అభావాత్మక ఏవ స్యాద్ ఇతి సర్వ-శూన్యత్వమ్ ఏవ యుక్తిమత్। రాద్ధాన్తస్ తు--- లోకే భావాభావ-శబ్దయోస్ తద్-బుద్ధయోశ్ చ ప్రమాణేనోపలభ్యమానస్యైవ వస్తునః అవస్థా-విశేష ఏవ భావ-రూపో విషయః। వర్తమానతయోపలభ్యమానావస్థా-విశేషో భావ-బుద్ధి-విషయః। తద్-విరోధ్య్-అవస్థా-విశేషః అభావ-బుద్ధి-విషయః। అతో న కుతశ్చిత్ త్వద్-అభిప్రేతṁ తుచ్ఛత్వṁ సిద్ధ్యతి। సూత్రార్థస్ తు--- సర్వథానుపపత్తేశ్ చ, సర్వ-శూన్యవాదీ సర్వṁ సద్ ఇతి ప్రతిజ్ఞాయ స్వాభిప్రేతṁ సాధయతి, ఉతాసద్ ఇతి ప్రతిజ్ఞాయ। అథ ప్రకారాన్తరేణ ప్రతిజ్ఞాయ। సర్వథాపి సర్వ-శూన్యత్వానుపపత్తేః స్వాభిమతాసిద్ధిః, సద్-అసద్-భావయోర్ విద్యమాన-వస్తు-ధర్మతోపపాదనాత్॥౩౦॥ ఇతి సర్వథానుపపత్త్య్-అధికరణమ్॥౫॥
Link copied౨౦౫। నైకస్మిన్న్ అసమ్భవాత్॥౨।౨।౩౧॥
Link copiedజైన-మతṁ యుక్తిమద్ ఉత నేతి సṁశయః, యుక్తిమద్ ఇతి పూర్వః పక్షః; జీవాజీవ-శబ్దాభిలపనీయ-భోక్తృ-భోగ్యాత్మకṁ జగత్ సత్త్వాసత్త్వ-నిత్యత్వానిత్యత్వ-భిన్నత్వాభిన్నత్వైర్ అనైకాన్తికమ్; షడ్-ద్రవ్య-తత్పర్యాయాత్మనావస్థితత్వాత్ కృత్స్నస్య జగతో ద్రవ్యాత్మనా సత్త్వైకత్వ-నిత్యత్వాన్య్ ఉపపన్నాని; పర్యాయాత్మనా చ విపరీతాని। పర్యాయాశ్ చ--- ఘటత్వ-పటత్వాద్య్-అవస్థా-విశేషాః। ద్రవ్య-స్వరూపస్యైకత్వాత్ స్థిరత్వాత్ సద్-బుద్ధి-బోద్ధయత్వాత్ తేన రూపేణైకత్వాది యుక్తమ్; పర్యాయ-శబ్దాభిధేయావస్థా-విశేషాణామ్ అనేకత్వాద్ అస్థిరత్వాద్ అసద్-బుద్ధి-బోధ్యత్వాత్ తేన రూపేణాసత్త్వానిత్యత్వ-నానాత్వాని యుక్తాని। ప్రతీతి-వ్యవస్థాప్యత్వాత్ సర్వస్య వస్తున ఉభయాకార-ప్రతీతేర్ ఉభయమ్ ఉపపన్నమ్। రాద్ధాన్తస్ తు--- ఏకస్యాస్తిత్వ-నాస్తిత్వాదిభిర్ అనైకాన్తికత్వమ్ అయుక్తమ్, ఏకస్మిన్ వస్తున్య్ అస్తిత్వ-నాస్తిత్వాదేర్ విరుద్ధస్య చ్ఛాయాతపవద్ యుగపద్ అసమ్భవాత్। తథా హి--- ద్రవ్యస్య తద్-విశేషణ-భూత-పర్యాయస్య ఇత్థṁ-శబ్దాభిధేయావస్థా-విశేషస్య చ ఇదమ్ ఇత్థమ్ ఇతి ప్రతీతేః ప్రకార-ప్రకారితయా పృథక్-పదార్థత్వాన్ నైకస్మిన్ విరుద్ధ-ప్రకార-భూత-సత్త్వాసత్త్వ-రూప-ధర్మ-సమావేశో యుగపత్ సమ్భవతి। ఉత్పత్తి-వినాశాఖ్య-పరిణామ-విశేషాస్పదత్వṁ చ ద్రవ్యస్యానిత్యత్వṁ తద్-విపరీతṁ చ నిత్యత్వṁ తస్మిన్ కథṁ సమవైతి। విరోధి-ధర్మాశ్రయత్వṁ చ భిన్నత్వṁ తద్-విపరీతṁ చాభిన్నత్వṁ కథṁ వా తస్మిన్ సమవైతి। యథా--- అశ్వత్వ-మహిషస్వయోర్ యుగపద్ ఏకస్మిన్న్ అసమ్భవః। (ఏకస్య పృథివీ-ద్రవ్యస్య ఘటత్వṁ శరావత్వṁ చ ప్రదేశ-భేదేన; న త్వ్ ఏకేన ప్రదేశేనోభయాశ్రయత్వమ్; యథైకస్య దేవదత్తస్యోత్పత్తి-వినాశ-యోగిత్వṁ కాల-భేదేన। న హ్య్ ఏతావతా వస్తునో ద్వయాత్మకత్వమ్, అపి తు పరిణామ-శక్తి-యోగ-మాత్రమ్) అతో న యుక్తిమజ్ జైన-మతమ్। సూత్రార్థస్ తు--- నైకస్మిన్న్ అసమ్భవాత్, న జైన-మతṁ యుక్తమ్। కుతః। ఏకస్మిన్ వస్తున్య్ ఉక్త-రీత్యా యుగపద్ విరుద్ధ-ధర్మ-సమావేశాసమ్భవాత్। అతః సూత్ర-విరుద్ధṁ వేదాన్త-వాదిభిర్ అపి భేదాభేద-సమాశ్రయణమ్॥౩౧॥
Link copied౨౦౬। ఏవṁ చాత్మాకార్త్స్న్యమ్॥౨।౨।౩౨॥
Link copiedఏవమ్ ఆత్మాకార్త్స్న్యṁ చానుపపన్నమ్; శరీర-పరిమాణత్వే హ్య్ ఆత్మనో బృహతః శరీరాద్ అల్పీయసి శరీరే ప్రవిశత అకార్త్స్న్యమ్--- అపరిపూర్ణత్వṁ ప్రసజ్యేత। తదానీమ్ అల్ప-పరిమాణత్వాత్॥౩౨॥
Link copied౨౦౭। న చ పర్యాయాద్ అప్య్ అవిరోధో వికారాదిభ్యః॥౨।౨।౩౩॥
Link copiedతథావిధాల్పత్వావస్థా-యోగేనాప్య్ అవిరోధో న సమ్భవతి। ఘట-పటాదేర్ ఇవ వికార-తత్-ప్రయుక్త-దోషాస్పదత్వ-ప్రసఙ్గాత్॥౩౩॥
Link copied౨౦౮। అన్త్యావస్థితేశ్ చోభయ-నిత్యత్వాద్ అవిశేషః॥౨।౨।౩౪॥
Link copiedజీవస్య యద్ అన్త్యṁ పరిమాణṁ మోక్షావస్థమ్, తస్య పశ్చాద్ ఏక-రూపేణావస్థితేస్ తద్ ఏవ స్వాభావికṁ పరిమాణమ్ ఇతి, ఆత్మనశ్ చ తత్-పరిమాణస్య చోభయోర్ నిత్యత్వాత్ పూర్వమ్ అపి న శరీర-పరిమాణత్వ-సిద్ధిర్ ఇతి పూర్వావస్థాయాṁ న విశేషః; అతః అసఙ్గతమ్ ఏవేదṁ జైన-మతమ్॥౩౪॥ ఇత్య్ ఏకస్మిన్న్ అసమ్భవాధికరణమ్॥౬॥
Link copied౨౦౯। పత్యుర్ అసామఞ్జస్యాత్॥౨।౨।౩౫॥
Link copiedపశుపతి-మతṁ నిఃశ్రేయసార్థిభిర్ ఆదరణీయమ్, ఉత నేతి సṁశయః। ఆదరణీయమ్ ఇతి పూర్వః పక్షః। పరమ-పురుషార్థ-సాధనావబోధిత్వేన నిఖిల-వస్తు-సాక్షాత్కార-సమర్థ-పశుపతి-ప్రణీతత్వాత్। రాద్ధాన్తస్ తు--- అనాది-నిధనావిచ్ఛిన్న-పాఠ-సమ్ప్రదాయ-నిరస్త-ప్రమాదాది-నిఖిల-దోష-గన్ధ-వేద-సిద్ధ-పరావర-తత్త్వ-వ్యత్యయ-ప్రతిపాదనాత్, నిమిత్తోపాదానభేదాభిధానాత్, సురా-కుమ్భ-స్థాపన-తత్-స్థ-దేవతార్చన-ముద్రికా-షట్క-విజ్ఞాన-తద్-ధారణాది-వేద-విరుద్ధాచార-ప్రతిపాదన-పరత్వాచ్ చ, అసామఞ్జస్యాద్ అనాదరణీయమ్ ఇతి। సూత్రార్థస్ తు--- పత్యుర్ అసామఞ్జస్యాత్, నైకస్మిన్న్ అసమ్భవాద్ ఇత్య్ అతో నేత్య్ అనువర్తతే। పత్యుః--- పశుపతేర్ మతమ్ అనాదరణీయమ్। కుతః। వేద-విరుద్ధ-తత్త్వాచారావబోధిత్వేనాసామఞ్జస్యాత్॥౩౫॥
Link copied౨౧౦। అధిష్ఠానానుపపత్తేశ్ చ॥౨।౨।౩౬॥
Link copiedఅనుమేయేశ్వరాభ్యుపగమేన హి ప్రధానస్యాధిష్ఠానమ్ ఈశ్వరస్యోచ్యతే। సశరీరస్యైవ కులాలాదేర్ అధిష్ఠాన-దర్శనాద్ అశరీరస్యేశ్వరస్య ప్రధానాధిష్ఠానానుపపత్తేశ్ చాసామఞ్జస్యమ్। సశరీరత్వాభ్యుపగమేఽపి తచ్-ఛరీరస్య సావయవస్య నిత్యత్వేఽనిత్యత్వే చ దోషః పూర్వోక్త ఇత్య్ అభిప్రాయః॥౩౬॥
Link copied౨౧౧। కరణవచ్ చేన్ న భోగాదిభ్యః॥౨।౨।౩౭॥
Link copiedక్షేత్రజ్ఞస్య స్వ-కరణ-కలేవరాద్య్-అధిష్ఠానవద్ ఉపపద్యత ఇతి చేన్ న, పుణ్యాపుణ్య-రూప-కర్మ-నిమిత్తత్వాత్ క్షేత్రజ్ఞాధిష్ఠానస్య; ఈశ్వరస్యాపి తద్వత్తయా తత్-ఫల-భోగాది-నిఖిల-తత్-స్వభావ-ప్రసక్తేః॥౩౭॥
Link copied౨౧౨। అన్తవత్త్వమ్ అసర్వజ్ఞతా వా॥౨।౨।౩౮॥
Link copiedవా-శబ్దశ్ చార్థే। పుణ్యాపుణ్యవత్త్వే త్వ్ అన్తవత్త్వṁ సృష్టి-సṁహారాస్పదత్వమ్ అసర్వజ్ఞతా చ ప్రసజ్యత ఇత్య్ అసమఞ్జసమ్ ఏవేదమ్॥౩౮॥ ఇతి పశుపత్య్-అధికరణమ్॥౭॥
Link copied౨౧౩। ఉత్పత్త్య్-అసమ్భవాత్॥౨।౨।౩౯॥
Link copiedసాఙ్ఖ్యాది-తన్త్రవత్ పాఞ్చరాత్ర-తన్త్రమ్ అప్య్ అప్రమాణమ్, ఉత నేతి సṁశయః। అప్రమాణమ్ ఇతి పూర్వః పక్షః। వాసుదేవాత్ సఙ్కర్షణో నామ జీవో జాయతే, ఇతి శ్రుతి-విరుద్ధ-జీవోత్పత్త్య్-ఆది-ప్రతిపాదనాత్, చతుర్షు వేదేషు పురుషార్థమ్ అలభమానః, ఇతి వేద-గణానాదర-వచనాచ్ చ। రాద్ధాన్తస్ తు--- సఙ్కర్షణ-ప్రద్యుమ్నానిరుద్ధానాṁ పరబ్రహ్మ-భావానామ్, అజాయమానో బహుధా విజాయతే, ఇతి శ్రుతి-ప్రసిద్ధ-స్వేచ్ఛావతార-ప్రతిపాదనాన్ న క్వచిచ్ ఛ్రుతి-విరోధః। జీవాహఙ్కార-మనః-శబ్దాశ్ చ తత్-తచ్-ఛరీరకాణాṁ సఙ్కర్షణాదీనామ్ ఏవాభిధాయకాః, తత్ తేజ ఐక్షత, ఇతి తేజః-ప్రభృతి-శబ్దవత్। చతుర్షు వేదేషు పురుషార్థమ్ అలభమానః, ఇతి చానుదిత-హోమ-నిన్దావత్; యథా--- ఋగ్-వేదṁ భగవోఽధ్యేమి, ఇత్య్ ఆరభ్య, ఇతిహాస-పురాణṁ పఞ్చమమ్, ఇత్య్ ఆదినా సర్వేషు విద్యా-స్థానేషు చాత్మనో వేదనాభావ-వచనṁ వక్ష్యమాణ-ప్రశṁసార్థమ్। తన్త్రేఽస్మిన్ వేదాన్తోదిత-బ్రహ్మోపాసన-విధానాద్ వేదావిరుద్ధ-తద్-అర్చనాది-విధానాచ్ చావగమ్యతే ఇతి ప్రమాణమ్ ఏవ। సూత్రార్థస్ తు--- ఉత్పత్త్య్-అసమ్భవాత్, న జాయతే మ్రియతే వా, ఇత్య్ ఆది శ్రుతేర్ జీవస్యోత్పత్త్య్-అసమ్భవాజ్ జీవోత్పత్తి-వచనాచ్ చ న ప్రమాణమ్॥౩౯॥
Link copied౨౧౪। న చ కర్తుః కరణమ్॥౨।౨।౪౦॥
Link copiedసఙ్కర్షణాత్ ప్రద్యుమ్న-సṁజ్ఞṁ మన ఉత్పద్యతే, ఇతి మనసః కరణస్య కర్తుర్ జీవాద్ ఉత్పత్తిశ్ చ శ్రుతి-విరుద్ధత్వాన్ న సమ్భవతి; ఏతస్మాజ్ జాయతే ప్రాణో మనః సర్వేన్ద్రియాణి చ, ఇతి మనసో బ్రహ్మణ ఉత్పత్తిశ్ శ్రూయతే॥౪౦॥
Link copied౨౧౫। విజ్ఞానాది-భావే వా తద్-అప్రతిషేధః॥౨।౨।౪౧॥
Link copiedవా-శబ్దాత్ పక్షో విపరివర్తతే। విజ్ఞానṁ చాది చ విజ్ఞానాది బ్రహ్మ। సఙ్కర్షణాదీనాṁ బ్రహ్మ-భావే సతి, అజాయమానో బహుధా విజాయతే, ఇతి శ్రుతి-ప్రసిద్ధ-స్వేచ్ఛావతారస్యైవాత్రాభిధానాత్, తద్-అప్రతిషేధః, ప్రామాణ్యాప్రతిషేధః। సఙ్కర్షణాదీనాṁ జీవాది-సమానాధికరణతయా నిర్దేశస్ తేషామ్ అధిష్ఠాతృతయోపపద్యతే॥౪౧॥
Link copied౨౧౬। విప్రతిషేధాచ్ చ॥౨।౨।౪౨॥
Link copiedఅస్మిన్న్ అపి తన్త్రే జీవోత్పత్తి-విప్రతిషేధాచ్ చావిరుద్ధమ్ ఇదṁ తన్త్రమ్; వ్యాప్తి-రూపేణ సమ్బన్ధస్ తస్యాశ్ చ పురుషస్య చ। స హ్య్ అనాదిర్ అనన్తశ్ చ పరమార్థేన నిశ్చితః, ఇతి హి పురుషస్యోత్పత్తిః ప్రతిషిధ్యతే॥౪౨॥ ఇత్య్ ఉత్పత్త్య్-అసమ్భవాధికరణమ్॥౮॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య ద్వితీయః పాదః॥
Link copied175. racanānupapatteś ca nānumānaṁ pravṛtteś ca||2|2|1||
Link copiedsāṅkhya-tantra-siddhaḥ pradhāna-kāraṇa-vādaḥ kiṁ samīcīna-yukti-mūla, uta neti saṁśayaḥ| samīcīna-yukti-mūla iti pūrvaḥ pakṣaḥ| ghaṭādivad vicitra-sanniveśaṁ jagat kāryaṁ tadvad eva sva-sarūpa-kāraṇa-viśeṣārabdham| sukha-duḥkha-mohādy-ātmakatayā sattvādy-ātmakaṁ jagat sattva-rajas-tamo-mūlakam| tatra mahad-ādi-pṛthivy-antānāṁ ghaṭādivat pariṇāmitvena kāraṇāpekṣitvāviśeṣāt te jagad-utpattau kāraṇa-kāṣṭhā na bhavanti; teṣāṁ parimitatvena aparimita-jagad-utpādanāśakteḥ| anyūnānatiriktāni sāmyāvasthāny aparimitāni sattva-rajas-tamāṁsy avyakta-pradhānādi-śabdābhidheyāni jagat-kāraṇam| rāddhāntas tu--- ratha-prāsādādi-hetu-bhūta-dārvādivad acetanaṁ pradhānaṁ sva-svabhāvādy-abhijña-cetanānadhiṣṭhitaṁ vicitra-jagad-racanā-samartham iti na kevalaṁ pradhānaṁ kāraṇam| sūtrārthas tu--- racanānupapatteś ca nānumānam--- anumīyata ity anumānaṁ pradhānam; tasyācetanasya prājñānadhiṣṭhitasya vicitra-sanniveśa-jagad-racanānupapattes tan na kāraṇam| ca-kārāt sattvādīnāṁ dravya-guṇatvena śauklyāder ivopādāna-kāraṇatvāsambhavaṁ samuccinoti| sattvādayo hi kārya-gata-lāghava-prakāśādi-hetu-bhūtāḥ kāraṇa-bhūta-pṛthivy-ādi-gatās tat-svabhāva-viśeṣāḥ| pravṛtteś ca--- anupapatter iti vartate; prājñānadhiṣṭhitasya pradhānasya vicitra-jagad-racanānuguṇādy-aparispanda-rūpa-pravṛtty-anupapatteś ca na pradhānaṁ kāraṇam||1||
Link copied176. payo'mbuvac cet tatrāpi||2|2|2||
Link copiedpayasaḥ ambunaś ca yathā prājñānadhiṣṭhitasyaiva dadhi-bhāvena nārikela-cūtādi-vicitra-rasa-rūpeṇa ca pariṇāmo dṛśyate; tadvat pradhānasyāpi kevalasyaiva jagad-ākāreṇa pariṇāma upapadyata iti cet pariharati tatrāpīti| tad api pakṣīkṛtam ity arthaḥ| yatra rathādiṣv acetanasya prājñādhiṣṭhitatvaṁ dṛṣṭam, tad-vyatiriktaṁ hi sarvaṁ pakṣīkṛtam eva| yo'psu tiṣṭhann ity ādi śrutes tad api prājñādhiṣṭhitam||2||
Link copied177. vyatirekānavasthiteś cānapekṣatvāt||2|2|3||
Link copiedsarga-vyatirekeṇa pratisargāvasthayānavasthiti-prasaṅgāc ca kevalaṁ pradhānaṁ na kāraṇam; anyānapekṣatvāt pradhānasya sarvadaiva sṛṣṭiḥ prasajyate||3||
Link copied178. anyatrābhāvāc ca na tṛṇādivat||2|2|4||
Link copieddhenv-ādinopayuktaṁ hi tṛṇodakādi svayam eva kṣīrākāreṇa pariṇamate; tadvat pradhānam apīti ca vaktuṁ na śakyate; dhenv-ādinopayuktasyāpi tṛṇādeḥ kṣīrākāreṇa pariṇāmaḥ prājñādhiṣṭhitatvād eva bhavatīty abhyupetavyam| kutaḥ| anyatrābhāvāt--- anaḍuhādy-upayuktasya prahīṇasya vā tṛṇādeḥ kṣīrākāreṇa pariṇāmābhāvāt||4||
Link copied179. puruṣāśmavad iti cet tathāpi||2|2|5||
Link copiedprājñānadhiṣṭhitam api pradhānaṁ caitanya-mātra-vapur niṣkriyaḥ puruṣaḥ sva-sannidhi-mātreṇa sargādau pravartayati| yathā dṛk-śakti-yukto gamana-śakti-vikalaḥ paṅguḥ puruṣaḥ, andhaṁ dṛk-śakti-vikalaṁ pravṛtti-śakti-yuktaṁ puruṣaṁ sva-sannidhānāt pravartayati; yathā cāyaskāntāśmā sva-sannidhānādayaḥ pravartayati tadvad iti cet; pariharati--- tathāpīti| tadvad api pradhānasya pravṛttir nopapadyate; tatra hiṁ paṅgoḥ puruṣasya gamana-śakti-vikalasyāpi mārgopadeśādi-vyāpāraḥ kādācitko dṛśyate; andhasya cākṣuṣa-vyāpāra-virahe'pi paṅgūpadeśa-grahaṇādiś cetana-dharmo'sti| ayaskānta-maṇer apy ayaḥ-pravṛttau kādācitkam ayaḥ-sannidhānaṁ vidyate| iha tu sannidhi-mātrātirekī tādṛśaḥ kaścid viśeṣa ubhayatrāpi na vidyate| puruṣa-sannidhānasya nityatvena nitya-sarga-prasaktiḥ| tathā sati pratisargābhāvo'pavargābhāva-prasaṅgaś ca||5||
Link copieditaś ca---
Link copied180. aṅgitvānupapatteś ca||2|2|6||
Link copiedguṇānām utkarṣāpakarṣa-rūpāṅgāṅgi-bhāvena jagat-pravṛttiḥ pratisargāvasthāyāṁ sāmyāvasthānām ekasyotkarṣa-rūpāṅgitvānupapatteś ca na sambhavati| tatrāpy utkarṣo'sti cet, sarvadā sarga-prasaṅgaḥ||6||
Link copied181. anyathānumitau ca jña-śakti-viyogāt||2|2|7||
Link copiedukta-prakārād vyatirikta-prakāreṇa pradhānānumitau ca pradhānasya jñātṛtva-śakti-viyogād racanānupapatty-ādayo doṣās tad-avasthāḥ||7||
Link copied182. abhyupagame'py arthābhāvāt||2|2|8||
Link copiedpradhānābhyupagame'pi pradhānena prayojanābhāvān na tad-anumeyam| puruṣasya bhogāpavargārthatayā hi pradhāna-pravṛtteḥ saprayojanatvam| caitanya-mātra-vapuṣo niṣkriyasya nitya-nirvikārasya puruṣasya itaretarādhyāsa-kṛta-prakṛti-darśana-rūpa-bhogaḥ, tad-viveka-rūpāpavargaś ca na sambhavati| nirvikārasyaiva prakṛti-sannidhānena bhogaḥ sambhavati cet; ubhayor nityatvena ca sannidhānasya nityatvād apavargāsiddhiḥ; tathāvidha-sannidher evāpavarga-hetutve bhogāsiddhiś ca||8||
Link copied183. vipratiṣedhāc cāsamañjasam||2|2|9||
Link copiedvipratiṣiddhaṁ cedaṁ sāṅkhya-darśanam; prakṛteḥ parārthatayā puruṣo draṣṭā bhoktā adhiṣṭhātā cety āhuḥ; prakṛteś ca puruṣasya bhogāpavargārthatayā saprayojanatvaṁ ca, prakṛtyaiva sādhana-bhūtayā puruṣo bhogam apavargaṁ cāśnuta iti cokteḥ| sa ca puruṣaś caitanya-mātra-vapur nityo nirvikāro na draṣṭā na bhoktā na karteti ca; ata eva puruṣo na badhyate, na ca mokṣa-sādhanam anutiṣṭhati, na ca mucyata iti ca vadanti| prakṛtir acetana-bhūtaiva puruṣa-sannidhānāt puruṣa-dharmaṁ caitanyaṁ svasmin sva-dharmaṁ kartṛtvaṁ puruṣe cānusandhāya badhyate; mokṣa-sādhanam anutiṣṭhati, mucyate iti cāhuḥ| adhyāsa-rūpam anusandhānaṁ hi cetana-dharmaḥ; tathā prakṛtir anupakāriṇaḥ puruṣasya bhogāpavarga-svarūpaṁ prayojanaṁ sādhayatīty upakāriṇīti cāhuḥ| adhyāsa-rūpa-bandhādayaḥ puruṣasya na santīti cet, kas tasyopakāraḥ| evam ādy anyonya-viruddha-bhāṣaṇād asamañjasam||1|| iti racanānupapatty-adhikaraṇam||1||
Link copied184. mahad dīrghavad vā hrasva-parimaṇḍalābhyām||2|2|10||
Link copiedkiṁ kāṇādābhyupagataḥ paramāṇu-kāraṇa-vādaḥ samīcīna-yukti-mūlaḥ, uta neti saṁśayaḥ| samīcīna-yukti-mūla iti pūrva-pakṣaḥ, avayava-saṁyogād avayava-vyutpatter darśanāt, avayavālpatva-prācuryābhyāṁ sarṣapa-mahīdhara-vaiṣamya-darśanāc ca avayavālpatva-kāṣṭhāvaśyābhyupagamanīyeti paramāṇu-siddhiḥ| te catur-vidhāḥ paramāṇavo vipāka-daśāpanna-kṣetrajñādṛṣṭa-sacivāḥ parameśvarādhiṣṭhitāḥ dvy-aṇukādi-krameṇa jagad-ārambhakā iti|
Link copiedrāddhāntas tu--- avayavāḥ svakīyaiḥ ṣaḍbhiḥ pārśvair asaṁyujyamānāḥ svasmān mahāntam avayavinam utpādayantīti paramāṇuṣv api tathaivotpādakatvam abhyupetavyam| tathā sati paramāṇavo'pi sāṁśāḥ svakīyair avayavaiḥ, te ca svakīyair iti na kvacit kāraṇasya vyavasthitiḥ| sūtrārthas tu--- mahad dīrghavad vā hrasva-parimaṇḍalābhyām; asamañjasam iti vartate; vā-śabdaś cārthe| hrasva-parimaṇḍalābhyāṁ--- dvy-aṇuka-paramāṇubhyāṁ mahad dīrghavat--- try-aṇuka-dvy-aṇukotpattivad anyac ca tad-abhyupagataṁ sarvam asamañjasam||10||
Link copieddvy-aṇukādi-krameṇārambhakatvaṁ kāraṇānavasthiter asamañjasam| kim atrānyad asamañjasam ity atrāha---
Link copied185. ubhayathāpi na karmātas tad-abhāvaḥ||2|2|11||
Link copiedparamāṇūnām ādyaṁ karma adṛṣṭa-kāritam ity abhyupagamyate; tad adṛṣṭaṁ kim aṇu-gatam| uta kṣetrajña-gatam| ubhayathāpy adṛṣṭasya akādācitkatvena sadotpādakatva-prasaṅgāt kādācitkaṁ karma na sambhavati| ataḥ karmaṇā paramāṇusaṁyogābhāvaḥ| vipākāpekṣatve'pi nānā-vidhānantādṛṣṭānām eka-daivaika-rūpa-vipākaś ca na sambhavati| ānumānikeśvarāsiddher īśvarecchayāpi niyamo na sambhavati||11||
Link copied186. samavāyābhyupagamāc ca sāmyād anavasthiteḥ||2|2|12||
Link copiedsamavāyābhyupagamāc cāsamañjasam; samavāyo hi jāti-guṇādīnāṁ dravya-viśeṣāpṛthak-siddhi-hetutayābhyupagamyate; samavāyasyāpi tathābhāve hetv-apekṣāsāmyād anavasthiteḥ| samavāyasya tathābhāvaḥ svābhāvika iti cet; jāti-guṇādīnām evaiṣa svabhāva iti yuktam||
Link copieditaś ca---
Link copied187. nityameva ca bhāvāt||2|2|13||
Link copiedsamavāya-sambandhasya nityatvābhyupagamāt, sambandhi-nityatvam antareṇa tad-anupapatteḥ, avayavāvayavinor ubhayor api nityam eva bhāvāt kārya-kāraṇa-bhāva eva na siddhyati||13||
Link copied188. rūpādimatvāc ca viparyayo darśanāt||2|2|14||
Link copiedparamāṇūnāṁ nityatva-niravayavatvādi-viparyayaś ca syāt, rūpādimattvāt teṣām, ghaṭādiṣu rūpādimatsu tathā darśanāt; darśanād eva hi tvad-abhimataṁ parikalpyate||14||
Link copied189. ubhayathā ca doṣāt||2|2|15||
Link copiedanityatvādi-bhayāt paramāṇūnāṁ rūpādi-śūnyatve kārya-guṇasya kāraṇa-guṇa-pūrvakatvāsiddhiḥ, tat-siddhaye rūpādimattve cānityatvādi-doṣa-prasaktir iti, ubhayathā ca doṣād asamañjasam eva||15||
Link copied190. aparigrahāc cātyantam anapekṣā||2|2|16||
Link copiedkāpila-pakṣe hi śruti-nyāya-viruddhe'pi satkāryavādādi kiñcid vaidikaiḥ parigṛhyate; kāṇāde tu kasyacid apy aṁśasya vaidikaiḥ parigrahābhāvād anupapannatvāc ca niḥśreyasārthibhir atyantam anapekṣā kāryā||16|| iti mahad-dīrghādhikaraṇam||2||
Link copied191. samudāya ubhaya-hetuke'pi tad-aprāptiḥ||2|2|17||
Link copiedsaugatāś caturvidhāḥ--- pratyakṣa-siddha-sthūla-dravya-vādinaḥ kecid vaibhāṣikāḥ; anye vijñānānumeya-sthūla-dravya-vādinaḥ| te ca sautrāntikāḥ| apare nirālambana-vijñāna-mātra-sad-bhāvaṁ vadanti yogācārāḥ| trayo'py ete svābhyupagata-vastunaḥ kṣaṇikatvaṁ vadanti| anye tu sarva-śūnya-vādino mādhyamikāḥ| tatrādyayor bāhya-sad-bhāvam abhyupagacchator jagad-utpatti-prakāro loka-vyavahāraś ca sūpapādaḥ, uta durupapāda iti saṁśayaḥ| sūpapāda iti pūrvaḥ pakṣaḥ| tathā hi--- parthivāpya-taijasa-vāyavīyā gandhādi-yuktāḥ paramāṇavo hi pṛthivy-ādi-rūpeṇa saṁhatā bhavanti; bhūtebhyaś ca śarīrendriya-viṣaya-lakṣaṇa-saṅghātāḥ| tatra āntaro vijñāna-santāno grāhakābhimānārūḍha ātmatvenāvatiṣṭhate| eṣu kṣaṇikeṣv api sthiratvādi-gocara-buddhy-ākhyā-vidyayā sarvam upapadyata iti jagad-utpattir loka-vyavahāraś ca yujyate| rāddhāntas tu--- kṣaṇa-dhvaṁsinaḥ paramāṇavaḥ kadā saṁhatau vyāpriyante| kadā saṁhanyante| saṁhatau vyāpṛtās tasminn eva kṣaṇe vinaṣṭāś cet, ke punaḥ saṁhanyante| kaś ca vijñānātmā kadā kaṁ viṣayaṁ spṛśati| kaś ca kadā kaṁ jānāti| kaś ca kadā kam artham upādatte| spraṣṭā naṣṭaḥ, spṛṣṭaṁ ca naṣṭam, veditā naṣṭaḥ, vedyaṁ ca naṣṭam| katham anyena spṛṣṭam anyo vijānāti| kathaṁ vānyena viditam anya upādatte| santānaikatve siddhe'pi santānibhyaḥ santānasya paramārthato vastv-antaratvānabhyupagamāt, santānaikyam apāramārthikam akiñcitkaram| sthiratvādy-avidyayāpi saṅghātotpattir na sambhavati; na hi śuktikādiṣu rajatāvidyayā rajatādy-utpatti-sambhavaḥ| viduṣaś ca pūrvasya naṣṭatvena uttareṇāviduṣāpūrva-vinaṣṭena viduṣānusaṁhitārthopādānaṁ na sambhavati; saṁskārāśrayatvena caiko'rthaḥ sthiro nābhyupagamyate| ato jagad-utpattir loka-vyavahāraś ca durupapāda eva| sūtrārthas tu--- samudāya ubhaya-hetuke'pi tad-aprāptiḥ--- ubhaya-hetuke'pi samudāye samudāyatvāprāptiḥ; paramāṇu-hetukaḥ pṛthivy-ādi-samudāyaḥ; pṛthivy-ādi-hetukaḥ śarīrendriya-samudāyaḥ--- ity ubhaya-hetuko'pi samudāyaḥ kṣaṇikatvābhyupagamād uktena nyāyena na siddhyatīty arthaḥ||17||
Link copied192. itaretara-pratyayatvād upapannam iti cen na saṅghāta-bhāvānimittatvāt||2|2|18||
Link copiedyady api kṣaṇikāḥ sarve bhāvāḥ, tathāpy avidyādīnām itaretara-hetukatvād upapannaṁ loka-vyavahārādikam| asthireṣu sthiratva-buddhi-rūpayā avidyayā tatra tatra rāga-dveṣādayo jāyante; ity evam ādi paramparayā punar apy avidyeti cakravat parivartata iti cen naitad upapadyate, saṅghāta-bhāvānimittatvād avidyāyāḥ--- yady apy avidyākhyā viparīta-buddhiḥ kṣaṇikaṁ sthiratvena viṣayīkaroti, tathāpi tan na vastutaḥ sthiraṁ bhavatīti vastutaḥ sthira-kāryaṁ na karoti; ataḥ saṅghāta-bhāvo na sidhyatīty arthaḥ| asthire sthiratva-buddhi-yuktasya vijñānātmanas tadaiva naṣṭatvāt kasya rāga-dveṣādayo jāyanta iti, rāga-dveṣādi-paramparā ca na sidhyatīty abhiprāyaḥ||18||
Link copieditaś ca---
Link copied193. uttarotpāde ca pūrva-nirodhāt||2|2|19||
Link copieduttara-ghaṭa-kṣaṇotpatti-velāyāṁ pūrvasya vinaṣṭatvād abhāvasyaiva hetutvenāviśeṣāt sarveṣāṁ sarvadotpattiḥ prasajyeta| pūrva-kṣaṇa-vartino hetutvopagame'pi deśāder viśeṣakasya sthirasyaikasyānabhyupagamād aviśeṣeṇottara-kṣaṇa-vartinaḥ sarvasya hetuḥ syāt||19||
Link copied194. asati pratijñoparodho yoga-padyam anyathā||2|2|20||
Link copiedasata utpattau pratijñā-virodhaś ca bhavatām; adhipati-sahakāryādīnāṁ vijñānotpatti-hetutva-pratijñānāt| athaitat-parijihīrṣayā pūrvo ghaṭa-kṣaṇas tiṣṭhatīty ucyeta, tadā yugapad ghaṭa-kṣaṇa-dvayopalabdhi-prasaṅgaḥ; na copalabhyate| uparodho virodhaḥ||20||
Link copiedsato niranvaya-vināśo'pi na sambhavatīty āha---
Link copied195. pratisaṅkhyāpratisaṅkhyā nirodhāprāptir avicchedāt||2|2|21||
Link copiedpratisaṅkhyāpratisaṅkhyānirodhāprāptiḥ--- sthūla-sūkṣma-vināśayor aprāptir ity arthaḥ| sthūla-vināśo mudgarābhighātādy-anantara-bhāvy-upalabdhi-yogyaḥ; sūkṣmas tu, pratikṣaṇa-bhāvy-upalabdhy-anarhaḥ| tau niranvayau na bhavataḥ, utpatti-vināśa-dharma-bhāgino dravyasyāvicchedāt| tad-ananyatvam iti satkāryavādasyopapāditatvād ity abhiprāyaḥ| ghaṭādau kapālādi-rūpāvasthayā niranvaya-vināśādarśanāt pradīpanirvāṇe'pi sūkṣmāvasthāprāptir ity avirodhaḥ||21||
Link copied196. ubhayathā ca doṣāt||2|2|22||
Link copiedutpannasya tucchatāpattau, tucchād utpattau ca, ity ubhaya-prakāre ca doṣāpatteḥ, te na sambhavataḥ| utpannasya tucchatāpattau hi paścāt tucchād utpadyamānaṁ jagat-tucchātmakam eva syāt; mṛt-suvarṇāder utpadyamāna-mṛt-suvarṇādy-ātmaka-ghaṭa-mukuṭādivat| atas tucchād utpattis tucchatāpattiś ca na sambhavataḥ||22||
Link copied197. ākāśe cāviśeṣāt||2|2|23||
Link copiedākāśe tuccha-svarūpatā na sambhavati, abādhita-pratīti-siddha-pṛthivy-ādivad ākāśe'py abādhita-pratīter aviśeṣāt| pratīyate hy ākāśaḥ, atra śyenaḥ pataty atra gṛdhra iti śyenādeḥ patana-deśatvena||23||
Link copied198. anusmṛteś ca||2|2|24||
Link copiedpratyabhijñānāṁ ca na ghaṭādeḥ kṣaṇikatvam| tad evedam iti hi pratyabhijñāyate| (pratyabhijñānaṁ hi nāma, atīta-vartamāna-kāla-varty-eka-vastu-viṣayam ekaṁ pratyakṣa-jñānam| tasya kāla-dvaya-sambandha-viśiṣṭam eva vastu viṣayaḥ| na ca tad ity aṁśaḥ smaraṇam, idam ity aṁśaś ca grahaṇam, atīta-kāla-sambandhinīndriya-samprayogābhāvād iti vācyam, tad idam iti sāmānādhikaraṇyena grahaṇasyaikatva-sphuraṇāt| pūrva-kālānubhava-janita-saṁskāra-sahakṛtendriya-samprayoga-yuktasya puruṣasya yathā grahaṇam upapadyata eva| anvaya-vyatirekādīnaṁ hi sarvatra sāmagrīparikalpanam)| na ca jvālādivat-sādṛśya-nibandhanā pratyabhijñeti tvayā vaktuṁ śakyam, kāla-dvaya-vartinor dvayoḥ sādṛśyasyānusandhātur jñātur ekasyānabhyupagamāt||24||
Link copiedpṛthivy-ādi-vijñānānumeyārtha-vādinaṁ pratyāha| sa hi jñāne nīla-pītādi-vicitrākāraṁ dṛṣtvā jñānāt pūrva-kṣaṇa-vartinaṁ jñāne svākāraṁ samarpya vinaṣṭam artham anuminoti| tatrottaram---
Link copied199. nāsato'dṛṣṭatvāt||2|2|25||
Link copiedasato dharmiṇo dharmasyānyatra saṅkramaṇaṁ na sambhavati| kutaḥ| adṛṣṭatvāt| na hi dharmiṇi vinaṣṭe tad-dharmasyānyatra saṅkramaṇaṁ kvacid dṛṣṭam||25||
Link copied200. udāsīnānām api caivaṁ siddhiḥ||2|2|26||
Link copiedvaibhāṣika-sautrāntikayor dvayor api sādhāraṇam idaṁ dūṣaṇam| evaṁ sarva-bhāvānāṁ kṣaṇikatvābhyupagame sati, udāsīnānāṁ--- niṣprayatnānām apy aihikāmuṣmika-sarvārtha-siddhiḥ syāt, prayatnādy anutiṣṭhatas tadānīm eva vinaṣṭatvāt, tat-tat-saṁskārāder api kasyacit sthirasyānuvartamānasyānabhyupagamāc ca, paścād āgatā siddhir ahaitukīti niṣprayatnānām apy aihikāmuṣmika-sarvārtha-siddhiḥ syāt||26|| iti samudāyādhikaraṇam||3||
Link copied201. nābhāva upalabdheḥ||2|2|27||
Link copiedyogācārābhimato jñāna-mātra-sad-bhāva-vādaḥ kiṁ samīcīna-yukti-mūlaḥ, uta neti saṁśayaḥ| samīcīna-yukti-mūla iti pūrvaḥ pakṣaḥ| bāhyārtha-sad-bhāva-vādināpi tat-tad-arthākāra-jñānasya prakāśamānatvam avaśyāśrayaṇīyam| sarvasya vastunaḥ prakāśamānasya svāsādhāraṇenākāreṇa prakāśa iṣyate| tatra ghaṭa-paṭādi-jñānasya ghaṭa-paṭādy-ākāra evākāraḥ| anyathā ghaṭādy-asādhāraṇyaṁ ca tat-taj-jñānasya na sambhavati| ekaś cāyam ākāra upalabhyate| sa tu jñānasyaiveti tad-vyatiriktārtha-sad-bhāva-vādo'nupapannaḥ| tāvataiva ghaṭo'yaṁ jñāta iti vyavahāraś copapadyate| tasya bahirvad avabhāso nirmūlatvād vibhrama-kṛtaḥ| rāddhāntas tu--- ghaṭam ahaṁ jānāmīti sakarmakasya sakartṛkasya jñā-dhātv-arthasya cchedanādivat sarva-loka-sākṣikam upalabhyamānasya kartṛ-karma-vyatirekeṇa kevalasyaiva sad-bhāvam anunmattaḥ ko bravīti| svāsādhāraṇākāraś ca chedanādivat tat-tad-artha-vyavahāra-yogyatāpādanākāreṇopalabhyate| evaṁ chedanāder apy ākāro dvidhā-bhāvanādi-hetutayaiva kartṛ-gatasyopalabhyate| na hy amūrtānāṁ kriyādīnāṁ kartṛ-karma-nirūpaṇīya-svākārāṇāṁ karmākāratvam āśrīyate| sūtrārthas tu--- nābhāva upalabdheḥ, jñāna-vyatiriktārthābhāvo na śakyate vaktum, upalabdheḥ--- ghaṭam ahaṁ jānāmīti jānāteḥ karmatayā kartṛtayā copalabdheḥ||27||
Link copied202. vaidharmyāc ca na svapnādivat||2|2|28||
Link copiedsvapna-jñānādivac ca jāgarita-jñānānāṁ na mithyārthatvam, tad-vaidharmyāt nidrādi-kāraṇa-doṣa-bādhaka-pratyaya-rahitatvād ity arthaḥ| ca-kārāt tāny api yathārthānīty abhiprāyaḥ||28||
Link copied203. na bhāvo'nupalabdheḥ||2|2|29||
Link copiedna kevalasyārtha-śūnyasya jñānasya bhāvaḥ sambhavati, kvacid apy anupalabdheḥ| abādhita-pratīti-siddhasyāsad-bhāve sati jñāna-mātrasyāpy asad-bhāvo na śakyate vārayitum ity abhiprāyaḥ||29|| ity upalabdhy-adhikaraṇam||4||
Link copied204. sarvathānupapatteś ca||2|2|30||
Link copiedmādhyamikokta-sarva-śūnyavādaḥ sambhavati, neti saṁśayaḥ| sambhavatīti pūrvaḥ pakṣaḥ| vijñānaṁ ghaṭādayaś ca sarve bhāvā na santi| kutaḥ| utpatty-anirūpaṇād ghaṭādi-bhāvānām| bhāvāt tāvad utpattir na sambhavati; na hi ghaṭādir utpadyamānaḥ asammṛditena mṛt-piṇḍādinotpadyate| nāpy abhāvāt, paścād abhāvād utpadyamāno ghaṭādir abhāvātmaka eva syād iti sarva-śūnyatvam eva yuktimat| rāddhāntas tu--- loke bhāvābhāva-śabdayos tad-buddhayoś ca pramāṇenopalabhyamānasyaiva vastunaḥ avasthā-viśeṣa eva bhāva-rūpo viṣayaḥ| vartamānatayopalabhyamānāvasthā-viśeṣo bhāva-buddhi-viṣayaḥ| tad-virodhy-avasthā-viśeṣaḥ abhāva-buddhi-viṣayaḥ| ato na kutaścit tvad-abhipretaṁ tucchatvaṁ siddhyati| sūtrārthas tu--- sarvathānupapatteś ca, sarva-śūnyavādī sarvaṁ sad iti pratijñāya svābhipretaṁ sādhayati, utāsad iti pratijñāya| atha prakārāntareṇa pratijñāya| sarvathāpi sarva-śūnyatvānupapatteḥ svābhimatāsiddhiḥ, sad-asad-bhāvayor vidyamāna-vastu-dharmatopapādanāt||30|| iti sarvathānupapatty-adhikaraṇam||5||
Link copied205. naikasminn asambhavāt||2|2|31||
Link copiedjaina-mataṁ yuktimad uta neti saṁśayaḥ, yuktimad iti pūrvaḥ pakṣaḥ; jīvājīva-śabdābhilapanīya-bhoktṛ-bhogyātmakaṁ jagat sattvāsattva-nityatvānityatva-bhinnatvābhinnatvair anaikāntikam; ṣaḍ-dravya-tatparyāyātmanāvasthitatvāt kṛtsnasya jagato dravyātmanā sattvaikatva-nityatvāny upapannāni; paryāyātmanā ca viparītāni| paryāyāś ca--- ghaṭatva-paṭatvādy-avasthā-viśeṣāḥ| dravya-svarūpasyaikatvāt sthiratvāt sad-buddhi-boddhayatvāt tena rūpeṇaikatvādi yuktam; paryāya-śabdābhidheyāvasthā-viśeṣāṇām anekatvād asthiratvād asad-buddhi-bodhyatvāt tena rūpeṇāsattvānityatva-nānātvāni yuktāni| pratīti-vyavasthāpyatvāt sarvasya vastuna ubhayākāra-pratīter ubhayam upapannam| rāddhāntas tu--- ekasyāstitva-nāstitvādibhir anaikāntikatvam ayuktam, ekasmin vastuny astitva-nāstitvāder viruddhasya cchāyātapavad yugapad asambhavāt| tathā hi--- dravyasya tad-viśeṣaṇa-bhūta-paryāyasya itthaṁ-śabdābhidheyāvasthā-viśeṣasya ca idam ittham iti pratīteḥ prakāra-prakāritayā pṛthak-padārthatvān naikasmin viruddha-prakāra-bhūta-sattvāsattva-rūpa-dharma-samāveśo yugapat sambhavati| utpatti-vināśākhya-pariṇāma-viśeṣāspadatvaṁ ca dravyasyānityatvaṁ tad-viparītaṁ ca nityatvaṁ tasmin kathaṁ samavaiti| virodhi-dharmāśrayatvaṁ ca bhinnatvaṁ tad-viparītaṁ cābhinnatvaṁ kathaṁ vā tasmin samavaiti| yathā--- aśvatva-mahiṣasvayor yugapad ekasminn asambhavaḥ| (ekasya pṛthivī-dravyasya ghaṭatvaṁ śarāvatvaṁ ca pradeśa-bhedena; na tv ekena pradeśenobhayāśrayatvam; yathaikasya devadattasyotpatti-vināśa-yogitvaṁ kāla-bhedena| na hy etāvatā vastuno dvayātmakatvam, api tu pariṇāma-śakti-yoga-mātram) ato na yuktimaj jaina-matam| sūtrārthas tu--- naikasminn asambhavāt, na jaina-mataṁ yuktam| kutaḥ| ekasmin vastuny ukta-rītyā yugapad viruddha-dharma-samāveśāsambhavāt| ataḥ sūtra-viruddhaṁ vedānta-vādibhir api bhedābheda-samāśrayaṇam||31||
Link copied206. evaṁ cātmākārtsnyam||2|2|32||
Link copiedevam ātmākārtsnyaṁ cānupapannam; śarīra-parimāṇatve hy ātmano bṛhataḥ śarīrād alpīyasi śarīre praviśata akārtsnyam--- aparipūrṇatvaṁ prasajyeta| tadānīm alpa-parimāṇatvāt||32||
Link copied207. na ca paryāyād apy avirodho vikārādibhyaḥ||2|2|33||
Link copiedtathāvidhālpatvāvasthā-yogenāpy avirodho na sambhavati| ghaṭa-paṭāder iva vikāra-tat-prayukta-doṣāspadatva-prasaṅgāt||33||
Link copied208. antyāvasthiteś cobhaya-nityatvād aviśeṣaḥ||2|2|34||
Link copiedjīvasya yad antyaṁ parimāṇaṁ mokṣāvastham, tasya paścād eka-rūpeṇāvasthites tad eva svābhāvikaṁ parimāṇam iti, ātmanaś ca tat-parimāṇasya cobhayor nityatvāt pūrvam api na śarīra-parimāṇatva-siddhir iti pūrvāvasthāyāṁ na viśeṣaḥ; ataḥ asaṅgatam evedaṁ jaina-matam||34|| ity ekasminn asambhavādhikaraṇam||6||
Link copied209. patyur asāmañjasyāt||2|2|35||
Link copiedpaśupati-mataṁ niḥśreyasārthibhir ādaraṇīyam, uta neti saṁśayaḥ| ādaraṇīyam iti pūrvaḥ pakṣaḥ| parama-puruṣārtha-sādhanāvabodhitvena nikhila-vastu-sākṣātkāra-samartha-paśupati-praṇītatvāt| rāddhāntas tu--- anādi-nidhanāvicchinna-pāṭha-sampradāya-nirasta-pramādādi-nikhila-doṣa-gandha-veda-siddha-parāvara-tattva-vyatyaya-pratipādanāt, nimittopādānabhedābhidhānāt, surā-kumbha-sthāpana-tat-stha-devatārcana-mudrikā-ṣaṭka-vijñāna-tad-dhāraṇādi-veda-viruddhācāra-pratipādana-paratvāc ca, asāmañjasyād anādaraṇīyam iti| sūtrārthas tu--- patyur asāmañjasyāt, naikasminn asambhavād ity ato nety anuvartate| patyuḥ--- paśupater matam anādaraṇīyam| kutaḥ| veda-viruddha-tattvācārāvabodhitvenāsāmañjasyāt||35||
Link copied210. adhiṣṭhānānupapatteś ca||2|2|36||
Link copiedanumeyeśvarābhyupagamena hi pradhānasyādhiṣṭhānam īśvarasyocyate| saśarīrasyaiva kulālāder adhiṣṭhāna-darśanād aśarīrasyeśvarasya pradhānādhiṣṭhānānupapatteś cāsāmañjasyam| saśarīratvābhyupagame'pi tac-charīrasya sāvayavasya nityatve'nityatve ca doṣaḥ pūrvokta ity abhiprāyaḥ||36||
Link copied211. karaṇavac cen na bhogādibhyaḥ||2|2|37||
Link copiedkṣetrajñasya sva-karaṇa-kalevarādy-adhiṣṭhānavad upapadyata iti cen na, puṇyāpuṇya-rūpa-karma-nimittatvāt kṣetrajñādhiṣṭhānasya; īśvarasyāpi tadvattayā tat-phala-bhogādi-nikhila-tat-svabhāva-prasakteḥ||37||
Link copied212. antavattvam asarvajñatā vā||2|2|38||
Link copiedvā-śabdaś cārthe| puṇyāpuṇyavattve tv antavattvaṁ sṛṣṭi-saṁhārāspadatvam asarvajñatā ca prasajyata ity asamañjasam evedam||38|| iti paśupaty-adhikaraṇam||7||
Link copied213. utpatty-asambhavāt||2|2|39||
Link copiedsāṅkhyādi-tantravat pāñcarātra-tantram apy apramāṇam, uta neti saṁśayaḥ| apramāṇam iti pūrvaḥ pakṣaḥ| vāsudevāt saṅkarṣaṇo nāma jīvo jāyate, iti śruti-viruddha-jīvotpatty-ādi-pratipādanāt, caturṣu vedeṣu puruṣārtham alabhamānaḥ, iti veda-gaṇānādara-vacanāc ca| rāddhāntas tu--- saṅkarṣaṇa-pradyumnāniruddhānāṁ parabrahma-bhāvānām, ajāyamāno bahudhā vijāyate, iti śruti-prasiddha-svecchāvatāra-pratipādanān na kvacic chruti-virodhaḥ| jīvāhaṅkāra-manaḥ-śabdāś ca tat-tac-charīrakāṇāṁ saṅkarṣaṇādīnām evābhidhāyakāḥ, tat teja aikṣata, iti tejaḥ-prabhṛti-śabdavat| caturṣu vedeṣu puruṣārtham alabhamānaḥ, iti cānudita-homa-nindāvat; yathā--- ṛg-vedaṁ bhagavo'dhyemi, ity ārabhya, itihāsa-purāṇaṁ pañcamam, ity ādinā sarveṣu vidyā-sthāneṣu cātmano vedanābhāva-vacanaṁ vakṣyamāṇa-praśaṁsārtham| tantre'smin vedāntodita-brahmopāsana-vidhānād vedāviruddha-tad-arcanādi-vidhānāc cāvagamyate iti pramāṇam eva| sūtrārthas tu--- utpatty-asambhavāt, na jāyate mriyate vā, ity ādi śruter jīvasyotpatty-asambhavāj jīvotpatti-vacanāc ca na pramāṇam||39||
Link copied214. na ca kartuḥ karaṇam||2|2|40||
Link copiedsaṅkarṣaṇāt pradyumna-saṁjñaṁ mana utpadyate, iti manasaḥ karaṇasya kartur jīvād utpattiś ca śruti-viruddhatvān na sambhavati; etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca, iti manaso brahmaṇa utpattiś śrūyate||40||
Link copied215. vijñānādi-bhāve vā tad-apratiṣedhaḥ||2|2|41||
Link copiedvā-śabdāt pakṣo viparivartate| vijñānaṁ cādi ca vijñānādi brahma| saṅkarṣaṇādīnāṁ brahma-bhāve sati, ajāyamāno bahudhā vijāyate, iti śruti-prasiddha-svecchāvatārasyaivātrābhidhānāt, tad-apratiṣedhaḥ, prāmāṇyāpratiṣedhaḥ| saṅkarṣaṇādīnāṁ jīvādi-samānādhikaraṇatayā nirdeśas teṣām adhiṣṭhātṛtayopapadyate||41||
Link copied216. vipratiṣedhāc ca||2|2|42||
Link copiedasminn api tantre jīvotpatti-vipratiṣedhāc cāviruddham idaṁ tantram; vyāpti-rūpeṇa sambandhas tasyāś ca puruṣasya ca| sa hy anādir anantaś ca paramārthena niścitaḥ, iti hi puruṣasyotpattiḥ pratiṣidhyate||42|| ity utpatty-asambhavādhikaraṇam||8||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe dvitīyasyādhyāyasya dvitīyaḥ pādaḥ||
Link copied