Vedanta Dipa · Section 6 of 17
||atha dvitīyādhyāye prathamaḥ pādaḥ||
Sanskrit (IAST) · click to toggle
१३९। स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात्॥२।१।१॥
Link copiedवेदान्तानाꣳ समस्त-चिद्-अचिद्-वस्तु-विलक्षणास्पृष्ट-हेय-गन्ध-सर्वज्ञताद्य्-अनन्त-कल्याण-गुणाकर-ब्रह्मैक-परत्वꣳ प्रतिपादितꣳ कपिल-स्मृति-विरोधेन चालयितुꣳ शक्यम्, उत नेति सꣳशयः। शक्यम् इति पूर्वः पक्षः, श्रुति-विरुद्धायाः स्मृतेर् अनादरणीयत्वे स्थितेऽपि वेदान्त-वेद्यार्थस्य दुर्ग्रहत्वेन अल्प-श्रुतैर् मन्द-मतिभिर् आप्त-प्रणीत-स्मृत्य्-उपबृꣳहणेन विना तेषाꣳ निश्चयो नोपपद्यते। कपिल-स्मृतिः केवल-तत्त्व-परेति तयैव ह्य् उपबृꣳहणꣳ न्याय्यम्। अन्यथा आप्त-प्रणीतायाः केवल-तत्त्व-परायास् तस्या अनवकाश-प्रसङ्ग इति वेदान्त-वेद्यꣳ जगत्-कारणꣳ प्रधानम्। राद्धान्तस् तु--- वेदान्तस्योपबृꣳहणापेक्षत्वेऽप्य् आप्ततम-मन्व्-आदि-स्मृतिभिर् वेदान्ताविरोधिनीभिर् एवोपबृꣳहणꣳ न्याय्यम्, अन्यथा तासाꣳ बह्वीनाम् अनवकाश-प्रसङ्गो महान् अयꣳ दोषः स्यात्। न च तासाꣳ धर्म-प्रतिपादनाꣳशोपबृꣳहणत्वेन सावकाशत्वम्, यतो धर्माणाम् अपि स्वरूपꣳ परब्रह्म-भूत-परम-पुरुषाराधनत्वम्, इष्टापूर्तꣳ बहुधा जातꣳ जायमानꣳ विश्वꣳ बिभर्ति भुवनस्य नाभिः। तद् एधाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः, यज्ञैस् त्वम् इज्यसे नित्यꣳ सर्व-देव-मयाच्युत, इत्य् आदि श्रुति-स्मृतिभिः। सूत्रम् अपि व्याख्यातम्॥१॥
Link copiedअतीन्द्रियार्थ-साक्षात्कार-समर्थस्य कपिलस्य वेदान्तानाꣳ ब्रह्म-परत्वानुपलब्धेः प्रधान-परत्वम् एवाश्रयणीयम् इत्य् अत उत्तरꣳ पठति---
Link copied१४०। इतरेषाꣳ चानुपलब्धः॥२।१।२॥
Link copiedइतरेषाꣳ मन्व्-आदीनाꣳ वेद-विद्-अग्रेसराणाꣳ सर्वातीन्द्रियार्थ-साक्षात्कार-समर्थानाꣳ प्रधान-परत्वानुपलब्धेर् ब्रह्म-परत्वोपलब्धेश् च ब्रह्म-परत्व-मेघाश्रयणीयम्; वेदान्त-प्रतिपन्नार्थ-विरुद्धायास् तु कपिलोपलब्धेर् भ्रान्ति-मूलत्वꣳ कल्पयितव्यम्॥२॥ इति स्मृत्य्-अधिकरणम्॥१॥
Link copied१४१। एतेन योगः प्रत्युक्तः॥२।१।३॥
Link copiedकिꣳ वेदान्तानाꣳ योग-स्मृत्योपबृꣳहणꣳ न्याय्यम्, उत नेति सꣳशयः। न्याय्यम् इति पूर्वः पक्षः, कृत्स्न-वेद-प्रवर्तनाधिकृत-हिरण्यगर्भ-प्रणीतत्वाद् योगस्य, ईश्वर-सद्-भावाभ्युपगमाच् च। अतो योग-स्मृत्योपबृꣳहितत्वेन वेदान्तानाम् अब्रह्मात्मक-प्रधानोपादान-प्रतिपादन-परत्वम्। राद्धान्तस् तु--- कपिल-स्मृतिवद् वेद-विरुद्ध्त्वाविशेषाद् अनादरणीयैव योग-स्मृतिः; हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रम-सम्भवात् योग-स्मृतेर् अपि भ्रान्ति-मूलकत्वम्। सूत्रम् अपि व्याख्यातम्॥३॥ इति योग-प्रत्युक्ताधिकरणम्॥२॥
Link copied१४२। न विलक्षणत्वाद् अस्य तथात्वꣳ च शब्दात्॥२।१।४॥
Link copiedकिꣳ वेदान्तानाꣳ जगत्-कारणतया प्रधान-परत्वम्, उत ब्रह्म-परत्वम् इति सꣳशयः। प्रधान-परत्वम् इति पूर्वः पक्षः, अज्ञत्वादिना जगतो ब्रह्म-विलक्षणत्वेन ब्रह्म-कार्यत्व-प्रतिपादनासम्भवात्, सालक्षण्येन प्रधान-कार्यत्व-प्रतिपादन-परत्वस्य च सम्भवात्। राद्धान्तस् तु--- माक्षिकादिभ्यः क्रिम्यादीनाꣳ विलक्षणानाम् उत्पत्ति-दर्शनात् ब्रह्म-विलक्षणस्य जगतः तत्-कार्यत्वꣳ सम्भवत्येव इति। सूत्रार्थस् तु --- अज्ञत्वेनासुखत्वेन चोपलब्धस्य चास्य चिद्-अचिन्-मिश्रस्य जगतः सर्व-ज्ञाद् धेय-प्रत्यनीकान् निरतिशयानन्दाद् ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्म-कार्यत्व-प्रतिपादनꣳ वेदान्तानाꣳ न सम्भवति। तथात्वꣳ--- विलक्षणत्वꣳ च शब्दाद् अवगम्यते, न केवलꣳ प्रत्यक्षाद्य्-उपलब्द्ध्या, विज्ञानꣳ चाविज्ञानꣳ च, अनीशया शोचति मुह्यमानः, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, इत्य् आदेः॥४॥
Link copiedआपो वा अकामयन्त, तꣳ पृथिव्य् अब्रवीत्, इत्य् आदौ पृथिव्य्-आदेर् अपि ज्ञान-कार्यꣳ व्यपदिश्यते; तस्मात्--- अविज्ञानꣳ चेत्य् एतद् अन्य-परम् इत्य् अत उत्तरꣳ पठति---
Link copied१४३। अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम्॥२।१।५॥
Link copiedतु-शब्दश् चोद्यꣳ व्यावर्तयति; पृथिव्य्-आद्य्-अभिमानि-देवतानाम् अयꣳ व्यपदेशः। कुतोऽवगम्यते, विशेषानुगतिभ्याꣳ--- विशेषः, विशेषणम्, हन्ताहम् इमास् तिस्रो देवताः, इति पृथिव्य्-आदेर् देवता-शब्देन विशेषणꣳ दृश्यते, सर्वा ह वै देवता अहꣳ श्रेयसे विवदमानाः, इति च वाग्-आदि-प्राण-पर्यन्तस्य च। तथानुगतिः--- अनुप्रवेशः, अग्न्य्-आदीनाꣳ वाग्-आद्य्-अनुप्रवेशो दृश्यते, अग्निर् वाग् भूत्वा मुखꣳ प्राविशत् आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशद् इत्य् आदौ॥५॥
Link copied१४४। दृश्यते तु॥२।१।६॥
Link copiedतु-शब्दः पक्षꣳ व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानाꣳ क्रिम्य्-आदीनाम् उत्पत्तिर् दृश्यते; अतो ब्रह्म-विलक्षणस्यापि जगतस् तत्-कार्यत्वꣳ सम्भवति॥६॥
Link copied१४५। असद् इति चेन् न प्रतिषेध-मात्रत्वात्॥२।१।७॥
Link copiedयदि कार्यस्य कारणाद् विलक्षण-द्रव्यत्वम् अभ्युपगम्यते, तर्हि कारणे कार्यꣳ न सद् भवतीत्य् असत्-कार्य-वादोऽभ्युपगतः स्यात्; तथा सति--- सर्वꣳ खल्व् इदꣳ ब्रह्मेति सामानाधि-करण्य-व्यपदेशो न घटत इति चेत् तन् न, कार्य-कारणयोः सालक्षण्य-नियम-प्रतिषेध-मात्रत्वाद् अस्माभिः पूर्वम् अभिहितस्य। कार्य-कारणयोर् एक-द्रव्यत्वꣳ स्वीकृतम् एव। एकम् एव कारणावस्थꣳ द्रव्यꣳ कार्यावस्थाꣳ भजमानꣳ सलक्षणावस्थाम् अपि भजते, विलक्षणावस्थाम् अपीत्य् अर्थः॥७॥
Link copied१४६। अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्॥२।१।८॥
Link copiedयदि ब्रह्मैव सर्व-ज्ञꣳ सत्य-सङ्कल्पꣳ निरतिशयानन्दम् अपहत-पाप्मत्वादि-स्वरूपꣳ तद्-विपरीत-जगद्-अवस्थाꣳ भजते तर्हि पिण्डत्व-घटत्वावस्थ-मृद्-द्रव्यवत् सर्व-ज्ञत्वम् अपहत-पाप्मत्वम् अज्ञत्वꣳ कर्म-वश्यत्वꣳ च ब्रह्मणः प्रसज्येतेति विरुद्धार्थाभिधानाद् वेदान्त-वाक्यम् असमञ्जसꣳ स्यात्। अपीताव् इति सृष्ट्य्-आदेः प्रदर्शनार्थम्। जगतो ब्रह्मण्य् अपीतौ ब्रह्मण उत्पत्ताव् अपीत्य् अर्थः। अपीतिर् अप्ययः॥८॥
Link copied१४७। न तु दृष्टान्त-भावात्॥२।१।९॥
Link copiedन ब्रह्मण्य् अज्ञत्वादयः प्रसज्येरन्; अत एव न वेदान्तानाम् असामञ्जस्यम्। तु-शब्दः प्रसक्तस्यासम्भावनीयताꣳ द्योतयति। एकस्यैवावस्था-द्वयान्वयेऽपि गुण-दोष-व्यवस्थायाꣳ दृष्टान्त-सद्-भावात्, यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्य् अत्र मनुष्य-शरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्म-बालत्व-युवत्व-स्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञान-सुख-दुःखादयश् च न शरीरे। एवꣳ चिद्-अचिद्-वस्तु-शरीरकस्य परस्य ब्रह्मणः कार्य-कारणोभयावस्थान्वयेऽपि कर्म-वश्यत्वाज्ञत्वादयः शरीर-भूत-चिद्-अचिद्-वस्तु-गताः। अपहत-पाप्मत्व-सर्वज्ञत्वादयः परमात्मन्य् आत्म-भूतेऽवतिष्ठन्ते। सर्वावस्थस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वम्, ब्रह्मणश् च तद्-आत्मत्वम्, यस्य पृथिवी शरीरम् इत्य् आद्य् अन्तर्यामि-ब्राह्मणादिष्व् अवगतम् इति न कश्चिद् विरोधः॥९॥
Link copied१४८। स्व-पक्ष-दोषाच् च॥२।१।१०॥
Link copiedन केवलꣳ ब्रह्म-कारण-वादस्य निर्दोषतया तत्-समाश्रयणम्, प्रधान-कारण-वादे दोषाच् चैतत् परित्यज्य स एव समाश्रयणीयः। प्रधान-कारण-वादे हि निर्विकारस्य चिन्-मात्रस्य पुरुषस्य प्रकृति-सन्निधान-कृत-तद्-धर्माध्यास-मूला जगत्-प्रवृत्तिर् अभ्युपगम्यते; तत्र प्रकृति-सद्-भाव-मात्रे सन्निधाने सति मुक्तस्यापि तद्-धर्माध्यास-प्रसङ्गः; विकार-विशेषे सति सन्निधाने कृत्स्नस्य विकारस्याध्यास-पूर्वकत्वान् नाध्यासस्य विकारो हेतुर् इति विरुद्धार्थाभिधानाद् असामञ्जस्य दोष इति न तत्-पक्ष-सम्भव-गन्धः॥१०॥
Link copied१४९। तर्काप्रतिष्ठानाद् अपि॥२।१।११॥
Link copiedकापिल-तन्त्रस्य तर्क-मूलत्वेन शाक्यादि-तर्क-प्रतिहततयास्य तर्कस्याप्रतिष्ठितत्वाच् च न तत्-पक्ष-सम्भवः॥११॥
Link copied१५०। अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः॥२।१।१२॥
Link copiedइतः पूर्वꣳ विद्यमानैस् तर्कैर् अप्रतिहतत्वꣳ यथा सम्भवति, तथा प्रधान-कारणवादम् अनुमास्यामह इति चेत् तथापि तर्काप्रतिष्ठान-दोषाद् अनिर्मोक्ष-प्रसङ्गो दुर्वारः; त्वद्-अधिक-कुतर्क-कुशल-सद्-भाव-सम्भवात्॥१२॥ इति विलक्षणत्वाधिकरणम्॥३॥
Link copied१५१। एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥२।१।१३॥
Link copiedन परिगृह्यन्ते वैदिकैर् इत्य् अपरिग्रहाः; शिष्टाश् च ते अपरिग्रहाश् च शिष्टापरिग्रहाः। एतेन--- तर्काप्रतिष्ठान-लक्षण-कपिल-स्मृति-निरसन-हेतुना, परिशिष्टाः कणभक्षादि-स्मृतयोऽपि निरस्ता व्याख्याताः। परमाणु-कारण-वादः सर्व-सम्मत इति न तेषाꣳ तर्कस्याप्रतिष्ठितत्वम् इत्य् अधिकाशङ्का। तर्क-मूलत्वाविशेषात् परमाणूनाꣳ शून्यत्वाद् द्रव्यत्वादि-विवादाच् च, तर्कस्याप्रतिष्ठितत्वम् एवेति परिहारः॥१३॥ इति शिष्टापरिग्रहाधिकरणम्॥४॥
Link copied१५२। भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्॥२।१।१४॥
Link copiedसर्वात्म-भूतस्य परस्य ब्रह्मणः स्व-शरीर-भूताज् जीवान् निरतिशयानन्द-स्वभावतया यो विभाग उक्तः, स किꣳ विभागस् सम्भवति, उत नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः। सर्व-चिद्-अचिद्-वस्तु-शरीरतया सशरीरत्वाद् ब्रह्मणः, सशरीरस्य च सुख-दुःखयोर् भोक्तृत्वापत्तेः। तद्-आपत्तिश् च--- न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः, इति श्रुतेः। राद्धान्तस् तु--- स्याद् एव विभागो जीवात् परस्याकर्म-वश्यतया। न सशरीरत्व-प्रयुक्तः सुख-दुःख-योगः, अपि तु शास्त्र-वश्यतया तद्-अतिवृत्ति-कृतः; स एकधा भवति त्रिधा भवतीत्य् आदिनावगत-शरीरस्य मुक्तस्य सशरीरस्याप्य् अशास्त्र-वश्यतया निरस्त-निखिल-दुःखत्व-दर्शनात्। यथा लोके राज-शासन-वश्यानाꣳ तच्-छासनातिवृत्ति-निमित्त-दुःखान्वयेऽपि राज्ञः सशरीरस्यापि प्रकारान्तरेण साधर्म्येऽपि स्व-शासनावश्यतया न तद्-अतिवृत्ति-कृत-दुःखान्वयः। विभागः वैलक्षण्यम्। सूत्रम् अपि व्याख्यातम्॥१४॥ इति भोक्त्रापत्त्य्-अधिकरणम्॥५॥
Link copied१५३। तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः॥२।१।१५॥
Link copiedकिꣳ ब्रह्म-कार्यꣳ जगद् ब्रह्मणोऽन्यत्, उतानन्यद् इति सꣳशयः। अन्यद् इति पूर्वः पक्षः, तथोपलब्धेः। न हि बुद्धि-शब्दान्तरादयः कारणात् कार्यस्यानन्यत्वे कथञ्चिद् उपपद्यन्ते; कारक-व्यापार-वैयर्थ्यꣳ चानन्यत्वे। अतो वस्तु-विरोधाद् अनन्यत्व-श्रुतयो लक्षणया नेयाः। राद्धान्तस् तु--- वाचारम्भणꣳ विकारो नामधेयꣳ मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयꣳ तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत, ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत् त्वम् असि श्वेतकेतो, सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति, तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियत, इत्य् आदि श्रुति-शत-सिद्धꣳ कार्यस्य जगतः कारणाद् ब्रह्मणोऽनन्यत्वम्। न चात्र वस्तु-विरोध-गन्धः; कारणीभूत-मृद्-आदि-द्रव्यस्यैव पृथु-बुध्नोदराद्य्-अवस्थान्तरापत्त्या बुद्धि-शब्दान्तरादयोऽप्य् उपपद्यन्ते। तत एव कारक-व्यापाराद्य्-अर्थवत्त्वꣳ च। एवꣳ कारणस्यैव कार्यावस्थायाम् अपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेष्व् अनुपलब्ध-द्रव्यान्तर-कल्पना न सम्भवति। तस्माद् ब्रह्म-कार्यꣳ जगद् ब्रह्मणोऽनन्यद् एव। सूत्रार्थस् तु--- तस्माद् ब्रह्मणः, अनन्यत्वꣳ कार्यस्य जगत आरम्भण-शब्दादिभ्यो वाक्येभ्यस् तद्-उपपादयद्भ्योऽवगम्यते, आरम्भणम् इति शब्द आदिर् येषाꣳ पूर्वोक्तानाꣳ वाक्यानाम्, तान्य् आरम्भण-शब्दादीनि; तान्य् अनन्यत्वम् उपपादयन्ति॥१५॥
Link copied१५४। भावे चोपलब्धेः॥२।१।१६॥
Link copiedघटादि-कार्यꣳ भावे च तद् एवेदꣳ मृद्-द्रव्यम् इत्थम् अवस्थितम् इति कारणस्य उपलब्धेश् च कारणाद् अनन्यत्वꣳ कार्यस्य। यथा देवदत्तस्य बालत्व-युवत्वाद्य्-अवस्था-विशिष्टस्यानन्यत्वम्॥१६॥
Link copied१५५। सत्त्वाच् चापरस्य॥२।१।१७॥
Link copiedअपरस्य कार्यस्य कारणे सत्त्वाच् च कारणाद् अनन्यत् कार्यम्। सर्वम् इदꣳ वट-शरावादि-कार्यꣳ पूर्वाह्ने मृद् एवासीद् इति हि कारणे कार्यम् उपलभ्यते। घट-शरावादि-सꣳस्थान-सꣳस्थितम् एव मृद्-द्रव्यꣳ पूर्व-काले पिण्डाकारम् उपलब्धम् इत्य् अर्थः॥१७॥
Link copied१५६। असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च॥२।१।१८॥
Link copiedअसद् एवेदम् अग्र आसीत्, इदꣳ वा अग्रे नैव किञ्चनासीत्, इत्य् आदिषु कारणावस्थायाꣳ कार्यस्यासत्त्व-व्यपदेशात् कारणे कार्यꣳ सद् इत्य् एतन् नोपपद्यत इति चेन् न, सद् इति व्यपदेश-हेतु-भूत-नाम-रूपावस्था-विरोधि-सूक्ष्मावस्थाख्य-धर्मान्तरेण योगाद् असद् इति न्यपदिश्यते। कथम् इदम् अवगम्यते। वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च। वाक्य-शेषस् तावत्--- तद् असद् एव सन् मनोऽकुरुत स्याम् इति। असद् इति व्यपदिष्टस्यैव मनस्कार-प्रतिपादनेन असद्-व्यपदेशो धर्मान्तर-योगाद् इत्य् अवगम्यते। युक्तिश् च धर्मान्तर-योगम् एवासद्-व्यपदेश-हेतुम् अवगमयति। घटोऽस्ति घटो नास्तीति सद्-असद्-व्यपदेशयोर् घटत्व-कपालत्वयोः परस्पर-विरोधि-धर्मयोर् एव हेतुत्वे सिद्धे तद्-अतिरिक्तानुपलब्ध-तुच्छत्वस्य हेतुत्व-कल्पनानुपपत्तेः। तथा शब्दान्तरꣳ च--- सद् एव सोम्येदम् अग्र आसीद् इति समान-प्रकरण-स्थम् असच्-छब्दꣳ धर्मान्तर-योग-निमित्तम् अवगमयति॥१८॥
Link copied१५७। पटवच् च॥२।१।१९॥
Link copiedयथा तन्तव एव व्यतिषङ्ग-विशेष-भाजः पट इति नाम-रूपाभ्याꣳ कार्यान्तरादिकꣳ भजन्ते, तद् ब्रह्मापि॥१९॥
Link copied१५८। यथा च प्राणादिः॥२।१।२०॥
Link copiedयथा च वायुर् एक एव शरीरे वृत्ति-विशेषꣳ भजमानः प्राणापानादि-नाम-रूप-कार्यान्तराणि भजते, तद् ब्रह्मापीति तद् अनन्यत्वꣳ जगतस् सिद्धम्॥२०॥ इत्य् आरम्भणाधिकरणम्॥६॥
Link copied१५९। इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः॥२।१।२१॥
Link copiedब्रह्मणो जगत्-कारणत्वꣳ सम्भवति नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः, अयम् आत्मा ब्रह्म, तत् त्वम् असीति सामानाधिकरण्येन जीवो ब्रह्मेत्य् अवगमात्, जगत्-सर्गस्य च जीव-दुःख-हेतुत्वात्, आत्म-हिताकरणादि-दोष-प्रसक्तेः सर्व-ज्ञस्य सत्य-सङ्कल्पस्य ब्रह्मणो जगत्-कारणत्वानुपपत्तेः। जीव-परयोर् भेद-वादिन्यः श्रुतयः, जगद्-ब्रह्मणोर् अनन्यत्वꣳ वदता त्वयैव परित्यक्ताः, भेदे सत्य् अनन्यत्वासिद्धेः। औपाधिक-भेद-विषया भेद-श्रुतयः, स्वाभाविकाभेद-विषया अभेद-श्रुतय इति चेत्; तत्रेदꣳ वक्तव्यम्--- स्वभावतः स्वस्माद् अभिन्नꣳ जीवꣳ किम् अनुपहितꣳ जगत्-कारणꣳ ब्रह्म जानाति न वा। न जानाति चेत्, सर्व-ज्ञत्व-हानिः। जानाति चेत्, स्वस्माद् अभिन्नस्य जीवस्य दुःखꣳ स्व-दुःखम् इति जानतो ब्रह्मणो हिताकरणाहित-करणादि-दोष-प्रसक्तिर् अनिवार्या। जीव-ब्रह्मणोर् अज्ञान-कृतो भेदः, तद्-विषया भेद-श्रुतिर् इति चेत्; तत्रापि जीवाज्ञान-पक्षे पूर्वोक्तो दोषस् तत्-फलꣳ च तद्-अवस्थम् एव। ब्रह्माज्ञान-पक्षे स्व-प्रकाश-स्वरूपस्य ब्रह्मणोऽज्ञान-साक्षित्वꣳ तत्-कृत-जगत्-सृष्टिश् च न सम्भवति; अज्ञानेन प्रकाशस् तिरोहितश् चेत्, तिरोधानस्य प्रकाश-निवृत्ति-करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूप-निवृत्तिर् एवेति स्वरूप-नाशादि-दोषाः भाष्ये प्रपञ्चिताः। राद्धान्तस् तु--- अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्धः, तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा, इत्य् आदिभिः प्रत्यगात्मनोऽर्थान्तर-भूतꣳ ब्रह्मेत्य् अवगमात्, जीव-कर्मानुगुणतया जगत्-सर्गस्य च ब्रह्मणो लीला-प्रयोजनत्वात्, जगत्-कारणत्वꣳ सम्भवत्य् एव। तत् त्वम् अस्य् आदि सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुतेर् जीवस्य ब्रह्म-शरीरत्वात् तच्-छरीरतया जीव-प्रकारक-ब्रह्म-प्रतिपादन-परः। सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कारणावस्थम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्मैव कार्यावस्थम् इति कार्य-कारणयोर् अनन्यत्वम्। एवम् अपि शरीर-भूतयोश् चिद्-अचिद्-वस्तुनोः शरीरिणो ब्रह्मणश् च दुःखित्व-परिणामित्व-हेय-प्रत्यनीकत्व-कल्याण-गुणाकरत्व-स्वभावास्वरूप-विवेक-विषय-श्रुति-सिद्धास् तथैव व्यवस्थिता इति ब्रह्मणो जगत्-कारणत्वꣳ सम्भवत्य् एव। सूत्रार्थस् तु--- इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः--- ब्रह्मण इतरः जीवः, ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दुःखित्वात्, हित-रूप-जगद्-अकरणम् अहित-रूप-जगत्-करणम् इत्य् आदि दोष-प्रसक्तिर् ब्रह्मणः। अतो ब्रह्मणो जगत्-कारणत्वꣳ न सम्भवतीति॥२१॥
Link copiedअत उत्तरꣳ पठति---
Link copied१६०। अधिकꣳ तु भेद-निर्देशात्॥२।१।२२॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। प्रत्यगात्मनः अधिकम्--- अर्थान्तर-भूतꣳ ब्रह्म। कुतः। भेद-निर्देशात्--- स कारणꣳ करणाधिपाधिपः, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा, इत्य् आदिभ्यः प्रत्यगात्मनो जीवाद् ब्रह्मणो हि भेदो निर्दिश्यते॥२२॥
Link copied१६१। अश्मादिवच् च तद्-अनुपपत्तिः॥२।१।२३॥
Link copiedअश्म-काष्ठ-लोष्ठ-तृणादेर् अचेतनस्येवानन्त-दुःखाकर-जीवस्य निरतिशयानन्द-सत्य-सङ्कल्प-ब्रह्म-भावानुपपत्तिश् च। न केवलꣳ भेद-श्रुत्यार्थान्तरत्वम् अवगम्यते, वस्त्व्-अनुपपत्त्या चेत्य् अर्थः। जीव-सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुति-शत-सिद्ध-जीव-प्रकारक-ब्रह्म-प्रतिपादन-पर इति, अवस्थितेर् इति काशकृत्स्न इत्य् अत्रैव प्रतिपादितः॥२३॥ इतीतर-व्यपदेशाधिकरणम्॥७॥
Link copied१६२। उपसꣳहार-दर्शनान् नेति चेन् न क्षीरवद् धि॥२।१।२४॥
Link copiedब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, न वेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; लोके कार्य-जनन-समर्थस्यापि वस्तुनस् तत्-तत्-कार्य-जनने अनेक-कारकोपसꣳहार-दर्शनाद् विचित्र-जगज्-जनन-समर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्तेः। राद्धान्तस् तु--- क्षीरस्य दधि-भावेऽनन्यापेक्षत्व-दर्शनान् नानेक-कारकोपसꣳहार-नियमो दृश्यत इति ब्रह्मणोऽनन्यापेक्षस्यैव कारणत्वꣳ सम्भवत्य् एव। सूत्रम् अपि व्याख्यातम्। क्षीरवद् धीति प्रसिद्धवन् निर्देशश् चोद्य-मान्द्य-परः॥२४॥
Link copied१६३। देवादिवद् अपि लोके॥२।१।२५॥
Link copiedयथा देवादयः स्वे स्वे लोके स्वापेक्षितानि स्व-सङ्कल्पाद् एव सृजन्ति; तथा ब्रह्मापि--- देवादेः शास्त्रावसेय-शक्तितया ब्रह्म-तुल्यत्वेऽपि देवादि-ग्रहणꣳ ब्रह्मणो विचित्र-शक्तित्वस्य सुग्रहणायेति मन्तव्यम्॥२५॥ इत्य् उपसꣳहार-दर्शनाधिकरणम्॥८॥
Link copied१६४। कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा॥२।१।२६॥
Link copiedब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; निरवयवस्य ब्रह्मणो जगद्-उपादानत्वे कृत्स्नस्य ब्रह्मणो जगद्-आकारेणोपयोग-प्रसङ्गात्; तत्-परिजिहीर्षया सावयवाभ्युपगमे, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इत्य् आदि कारणावस्थायाꣳ निरवयवत्व-वाचि-शब्दो बाध्येत। यद्य् अपि सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कारणम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कार्यम् इत्य् अभ्युपगम्यते; तथापि शरीर्य्-अꣳशस्यापि कार्यत्वाभ्युपगमात् कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-बाधो वा। राद्धान्तस् तु--- सकलेतर-विसजातीयꣳ श्रुत्य्-ऐक-समधिगम्यꣳ सर्व-शक्ति-युक्तꣳ ब्रह्म निरवयवम् अपि कार्यꣳ च भवति, अन्यच् च भवतीति परिमित-शक्ति-वस्तु-चोद्यꣳ न तत्र प्रसज्यते। यथा जाति-वादिनो जातिर् एकैवामूर्ता खण्ड-मुण्डादिष्व् अत्यन्त-विलक्षणेष्व् अनन्तेष्व् अपि परिसमाप्यैव वर्तते; न तत्रेतर-वस्तु-चोद्यम् इति। अतो ब्रह्मणो जगत्-कारणत्वꣳ सम्भवत्य् एव। सूत्रार्थस् तु--- कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा--- ब्रह्म-कारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोग-प्रसङ्गः, निरवयवत्वात्। सावयवत्वे निरवयवत्व-शब्द-कोपो वा--- निरवयवत्व-वादि-शब्द-बाध-प्रसङ्ग इत्य् अर्थः॥२६॥
Link copied१६५। श्रुतेस् तु शब्द-मूलत्वात्॥२।१।२७॥
Link copiedतु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। श्रुतेः--- श्रुति-प्रामाण्यान् नैवꣳ प्रसज्यते; शब्द-मूलत्वात्--- शब्दैक-मूलत्वेन सकलेतर-विजातीयत्वाद् इत्य् अर्थः॥२७॥
Link copied१६६। आत्मनि चैवꣳ विचित्राश् च हि॥२।१।२८॥
Link copiedआत्मनि चैवꣳ--- जीवात्मन्य् अचेतन-धर्माप्रसक्तिश् चैवम्--- अचेतन-विजातीयत्वाद् एवेत्य् अर्थः। विचित्राश् च हि--- अचेतनेषु च विसजातीयेष्व् अग्नि-जलादिषु विचित्रा हि शक्तयो दृश्यन्ते। एवꣳ परमात्मनश् चेतनाचेतन-विसजातीयस्य विचित्राः शक्तय उपपद्यन्ते॥२८॥
Link copied१६७। स्व-पक्ष-दोषाच् च॥२।१।२९॥
Link copiedप्रधानादि-कारण-पक्षे दोषाच् च ब्रह्मैव जगत्-कारणम्। तत्र हि लौकिक-वस्तु-सजातीयत्वेन प्रधानादेर् उक्त-दोषोऽन्ये च प्रसज्येरन्॥२९॥
Link copied१६८। सर्वोपेता च तद्-दर्शनात्॥२।१।३०॥
Link copiedन केवलꣳ सकलेतर-विसजातीयत्वेन सर्व-शक्त्य्-उपेता परा देवतेत्य् उच्यते; तद्-दर्शनात्--- सर्व-शक्ति-योग-श्रुतेर् इत्य् अर्थः। दर्शयतीति दर्शनꣳ श्रुतिः, परास्य शक्तिर् विविधैव श्रूयते, इत्य् आदिका॥३०॥
Link copied१६९। विकरणत्वान् नेति चेत् तद् उक्तम्॥२।१।३१॥
Link copiedउक्तस्यार्थस्य द्रढिम्ने चोद्य-पूर्वकꣳ पूर्वोक्तꣳ स्मारयति--- विकरणत्वात्, करण-विरहितत्वाद् ब्रह्म न कारणम् इति चेत्, न तस्य कार्यꣳ करणꣳ च विद्यते, इति हि श्रूयते। तद् उक्तम्--- अत्र यद् वक्तव्यम्, तत् पूर्वम् एवोक्तम्, शब्द-मूलत्वात्, विचित्राश् च हीति। अयम् एव परिहारः--- शब्दैक-मूलत्वेन सकलेतर-विसजातीयत्वाद् ब्रह्मणः, विसजातीयानाꣳ च शक्ति-वैचित्र्यस्य लोक-दृष्टत्वात् सर्वम् उपपन्नम् इत्य् अर्थः॥३१॥ इति कृत्स्न-प्रसक्त्य्-अधिकरणम्॥९॥
Link copied१७०। न प्रयोजनवत्वात्॥२।१।३२॥
Link copiedब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; बुद्धि-पूर्वारम्भाणाꣳ सप्रयोजनत्वात्, ईश्वरस्य च स्वत एवावाप्त-समस्त-कामस्य जगत्-सृष्ट्य्-आरम्भे प्रयोजन-भावाद् गर्भवासादि-दुःख-रूपत्वात् सृष्टेः, परानुग्रहेणापि न सप्रयोजनत्वम् इति। राद्धान्तस् तु--- परिपूर्णस्यापीश्वरस्य केवल-लीला-प्रयोजनाय जगत्-सृष्ट्य्-आद्य्-आरम्भः सम्भवति। यथा लोके सप्त-द्वीपवतीꣳ मेदिनीम् अधितिष्ठतो महाराजस्य परिपूर्णस्यापि केवल-लीलैक-फलाः कन्दुकाद्य्-आरम्भा दृश्यन्ते, तद्वद् ईश्वरस्यापि प्रयोजनाय जगत्-सृष्ट्य्-आरम्भः सम्भवति। सूत्रार्थस् तु--- न प्रयोजनवत्त्वात्--- प्रयोजनवत्त्वात् सृष्टेर् ईश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान् न स्रष्टृत्वम्॥३२॥
Link copied१७१। लोकवत् तु लीला-कैवल्यम्॥२।१।३३॥
Link copiedलीला-कैवल्यꣳ--- लीलायाः प्रयोजनत्वे कैवल्यꣳ सम्भवति; केवलाया लीलायाः सृष्ट्य्-आरम्भ-प्रयोजनत्वꣳ सम्भवतीत्य् अर्थः। लोकवत्--- यथा लोके राज्ञः कन्दुकाद्य्-आरम्भे॥३३॥
Link copiedदेव-मनुष्यादि-विषम-सृष्ट्या पक्ष-पात-प्रसङ्गाद् दुर्विषह-दुःख-गर्भत्वेन नैर्घृण्य-प्रसङ्गाच् च, परम-कारुणिकस्य परम-पुरुषस्य परिपूर्णस्य लीलार्थम् अपि जगत्-सर्गो न सम्भवतीत्य् आशङ्क्याह---
Link copied१७२। वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति॥२।१।३४॥
Link copiedईश्वरस्य विचित्र-जगत्-सृष्टौ देवादि-वैषम्य-प्रयुक्त-पक्ष-पातः, दुःख-प्रद-जगत्-सर्गे नैर्घृण्यꣳ च न सम्भवतः; वैषम्यादाव् ईश्वरस्य क्षेत्रज्ञ-कर्म-सापेक्षत्वात्। क्षेत्रज्ञानाꣳ पूर्व-पूर्व-कर्म पर्यालोच्य, तत्-तत्-कर्मानुगुणꣳ विषमꣳ जगत् सृजतीति तत्-कर्मैव वैषम्यादि-हेतुर् इत्य् अर्थः। तथा देवादि-देह-योगꣳ क्षेत्रज्ञानाꣳ तत्-कर्म-सापेक्षꣳ दर्शयति हि श्रुतिः, साधु-कारी साधुर् भवति पाप-कारी पापो भवतीति॥३४॥
Link copied१७३। न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च॥२।१।३५॥
Link copiedसृष्टेः प्राक् कर्म न विद्यते क्षेत्रज्ञाभावात्; तद्-अभावश् च, सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानाꣳ तत्-तत्-कर्म-प्रवाहाणाꣳ च। उपपद्यते च क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः। अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्--- तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियत, इति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानाꣳ स्वरूपानादित्वꣳ सिद्धम्; ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ। नित्यो नित्यानाम्, प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि, इति। अविभाग-श्रुतिर् अपि नाम-रूप-विभागाभावाद् एवोपपद्यत इत्य् अभिप्रायः॥
Link copied[अत्र पाठान्तरम्]
Link copiedसृष्टेः प्राक् कर्म न विद्यते, क्षेत्रज्ञाभावात्। तद्-अभावश् च--- सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानाꣳ तत्-तत्-कर्म-प्रवाहाणाꣳ च। तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियतेति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानाꣳ स्वरूपानादित्वꣳ सिद्धम्। उपपद्यते क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः; अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, नित्यो नित्यानाम्, प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि, न जायते, इत्य् आदिभिः॥३५॥
Link copied१७४। सर्व-धर्मोपपत्तेश् च॥२।१।३६॥
Link copiedप्रधान-परमाण्व्-आदिष्व् अनुपपन्नानाꣳ स्व-पक्ष-दोषाद् इत्य् आदिषूक्तानाꣳ सर्वेषाꣳ धर्माणाꣳ कारणत्वोपपादकानाꣳ ब्रह्मण्य् उपपत्तेश् च ब्रह्मैव कारणम्। प्रधान-परमाण्व्-आदीनाꣳ परिमित-शक्तिकत्वाल् लोक-दृष्ट-वस्तु-सजातीयत्वाच् च अनुपपत्तयः सहस्त्रशः सन्ति। ब्रह्मणः शास्त्रैक-समधिगम्यतया सकलेतर-विसजातीयत्वेनाचिन्त्य-शक्तित्वात् सर्व-शक्तित्व-श्रुतेश् च सर्वम् उपपन्नम् इत्य् अर्थः॥३६॥ इति प्रयोजनवत्त्वाधिकरणम्॥१०॥
Link copiedइति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य प्रथमः पादः॥
Link copied౧౩౯। స్మృత్య్-అనవకాశ-దోష-ప్రసఙ్గ ఇతి చేన్ నాన్య-స్మృత్య్-అనవకాశ-దోష-ప్రసఙ్గాత్॥౨।౧।౧॥
Link copiedవేదాన్తానాṁ సమస్త-చిద్-అచిద్-వస్తు-విలక్షణాస్పృష్ట-హేయ-గన్ధ-సర్వజ్ఞతాద్య్-అనన్త-కల్యాణ-గుణాకర-బ్రహ్మైక-పరత్వṁ ప్రతిపాదితṁ కపిల-స్మృతి-విరోధేన చాలయితుṁ శక్యమ్, ఉత నేతి సṁశయః। శక్యమ్ ఇతి పూర్వః పక్షః, శ్రుతి-విరుద్ధాయాః స్మృతేర్ అనాదరణీయత్వే స్థితేఽపి వేదాన్త-వేద్యార్థస్య దుర్గ్రహత్వేన అల్ప-శ్రుతైర్ మన్ద-మతిభిర్ ఆప్త-ప్రణీత-స్మృత్య్-ఉపబృṁహణేన వినా తేషాṁ నిశ్చయో నోపపద్యతే। కపిల-స్మృతిః కేవల-తత్త్వ-పరేతి తయైవ హ్య్ ఉపబృṁహణṁ న్యాయ్యమ్। అన్యథా ఆప్త-ప్రణీతాయాః కేవల-తత్త్వ-పరాయాస్ తస్యా అనవకాశ-ప్రసఙ్గ ఇతి వేదాన్త-వేద్యṁ జగత్-కారణṁ ప్రధానమ్। రాద్ధాన్తస్ తు--- వేదాన్తస్యోపబృṁహణాపేక్షత్వేఽప్య్ ఆప్తతమ-మన్వ్-ఆది-స్మృతిభిర్ వేదాన్తావిరోధినీభిర్ ఏవోపబృṁహణṁ న్యాయ్యమ్, అన్యథా తాసాṁ బహ్వీనామ్ అనవకాశ-ప్రసఙ్గో మహాన్ అయṁ దోషః స్యాత్। న చ తాసాṁ ధర్మ-ప్రతిపాదనాṁశోపబృṁహణత్వేన సావకాశత్వమ్, యతో ధర్మాణామ్ అపి స్వరూపṁ పరబ్రహ్మ-భూత-పరమ-పురుషారాధనత్వమ్, ఇష్టాపూర్తṁ బహుధా జాతṁ జాయమానṁ విశ్వṁ బిభర్తి భువనస్య నాభిః। తద్ ఏధాగ్నిస్ తద్ వాయుస్ తత్ సూర్యస్ తద్ ఉ చన్ద్రమాః, యజ్ఞైస్ త్వమ్ ఇజ్యసే నిత్యṁ సర్వ-దేవ-మయాచ్యుత, ఇత్య్ ఆది శ్రుతి-స్మృతిభిః। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧॥
Link copiedఅతీన్ద్రియార్థ-సాక్షాత్కార-సమర్థస్య కపిలస్య వేదాన్తానాṁ బ్రహ్మ-పరత్వానుపలబ్ధేః ప్రధాన-పరత్వమ్ ఏవాశ్రయణీయమ్ ఇత్య్ అత ఉత్తరṁ పఠతి---
Link copied౧౪౦। ఇతరేషాṁ చానుపలబ్ధః॥౨।౧।౨॥
Link copiedఇతరేషాṁ మన్వ్-ఆదీనాṁ వేద-విద్-అగ్రేసరాణాṁ సర్వాతీన్ద్రియార్థ-సాక్షాత్కార-సమర్థానాṁ ప్రధాన-పరత్వానుపలబ్ధేర్ బ్రహ్మ-పరత్వోపలబ్ధేశ్ చ బ్రహ్మ-పరత్వ-మేఘాశ్రయణీయమ్; వేదాన్త-ప్రతిపన్నార్థ-విరుద్ధాయాస్ తు కపిలోపలబ్ధేర్ భ్రాన్తి-మూలత్వṁ కల్పయితవ్యమ్॥౨॥ ఇతి స్మృత్య్-అధికరణమ్॥౧॥
Link copied౧౪౧। ఏతేన యోగః ప్రత్యుక్తః॥౨।౧।౩॥
Link copiedకిṁ వేదాన్తానాṁ యోగ-స్మృత్యోపబృṁహణṁ న్యాయ్యమ్, ఉత నేతి సṁశయః। న్యాయ్యమ్ ఇతి పూర్వః పక్షః, కృత్స్న-వేద-ప్రవర్తనాధికృత-హిరణ్యగర్భ-ప్రణీతత్వాద్ యోగస్య, ఈశ్వర-సద్-భావాభ్యుపగమాచ్ చ। అతో యోగ-స్మృత్యోపబృṁహితత్వేన వేదాన్తానామ్ అబ్రహ్మాత్మక-ప్రధానోపాదాన-ప్రతిపాదన-పరత్వమ్। రాద్ధాన్తస్ తు--- కపిల-స్మృతివద్ వేద-విరుద్ధ్త్వావిశేషాద్ అనాదరణీయైవ యోగ-స్మృతిః; హిరణ్యగర్భస్యాపి క్షేత్రజ్ఞత్వేన భ్రమ-సమ్భవాత్ యోగ-స్మృతేర్ అపి భ్రాన్తి-మూలకత్వమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౩॥ ఇతి యోగ-ప్రత్యుక్తాధికరణమ్॥౨॥
Link copied౧౪౨। న విలక్షణత్వాద్ అస్య తథాత్వṁ చ శబ్దాత్॥౨।౧।౪॥
Link copiedకిṁ వేదాన్తానాṁ జగత్-కారణతయా ప్రధాన-పరత్వమ్, ఉత బ్రహ్మ-పరత్వమ్ ఇతి సṁశయః। ప్రధాన-పరత్వమ్ ఇతి పూర్వః పక్షః, అజ్ఞత్వాదినా జగతో బ్రహ్మ-విలక్షణత్వేన బ్రహ్మ-కార్యత్వ-ప్రతిపాదనాసమ్భవాత్, సాలక్షణ్యేన ప్రధాన-కార్యత్వ-ప్రతిపాదన-పరత్వస్య చ సమ్భవాత్। రాద్ధాన్తస్ తు--- మాక్షికాదిభ్యః క్రిమ్యాదీనాṁ విలక్షణానామ్ ఉత్పత్తి-దర్శనాత్ బ్రహ్మ-విలక్షణస్య జగతః తత్-కార్యత్వṁ సమ్భవత్యేవ ఇతి। సూత్రార్థస్ తు --- అజ్ఞత్వేనాసుఖత్వేన చోపలబ్ధస్య చాస్య చిద్-అచిన్-మిశ్రస్య జగతః సర్వ-జ్ఞాద్ ధేయ-ప్రత్యనీకాన్ నిరతిశయానన్దాద్ బ్రహ్మణో విలక్షణత్వేన జగతో బ్రహ్మ-కార్యత్వ-ప్రతిపాదనṁ వేదాన్తానాṁ న సమ్భవతి। తథాత్వṁ--- విలక్షణత్వṁ చ శబ్దాద్ అవగమ్యతే, న కేవలṁ ప్రత్యక్షాద్య్-ఉపలబ్ద్ధ్యా, విజ్ఞానṁ చావిజ్ఞానṁ చ, అనీశయా శోచతి ముహ్యమానః, అనీశశ్ చాత్మా బధ్యతే భోక్తృ-భావాత్, ఇత్య్ ఆదేః॥౪॥
Link copiedఆపో వా అకామయన్త, తṁ పృథివ్య్ అబ్రవీత్, ఇత్య్ ఆదౌ పృథివ్య్-ఆదేర్ అపి జ్ఞాన-కార్యṁ వ్యపదిశ్యతే; తస్మాత్--- అవిజ్ఞానṁ చేత్య్ ఏతద్ అన్య-పరమ్ ఇత్య్ అత ఉత్తరṁ పఠతి---
Link copied౧౪౩। అభిమాని-వ్యపదేశస్ తు విశేషానుగతిభ్యామ్॥౨।౧।౫॥
Link copiedతు-శబ్దశ్ చోద్యṁ వ్యావర్తయతి; పృథివ్య్-ఆద్య్-అభిమాని-దేవతానామ్ అయṁ వ్యపదేశః। కుతోఽవగమ్యతే, విశేషానుగతిభ్యాṁ--- విశేషః, విశేషణమ్, హన్తాహమ్ ఇమాస్ తిస్రో దేవతాః, ఇతి పృథివ్య్-ఆదేర్ దేవతా-శబ్దేన విశేషణṁ దృశ్యతే, సర్వా హ వై దేవతా అహṁ శ్రేయసే వివదమానాః, ఇతి చ వాగ్-ఆది-ప్రాణ-పర్యన్తస్య చ। తథానుగతిః--- అనుప్రవేశః, అగ్న్య్-ఆదీనాṁ వాగ్-ఆద్య్-అనుప్రవేశో దృశ్యతే, అగ్నిర్ వాగ్ భూత్వా ముఖṁ ప్రావిశత్ ఆదిత్యశ్ చక్షుర్ భూత్వాక్షిణీ ప్రావిశత్ వాయుః ప్రాణో భూత్వా నాసికే ప్రావిశద్ ఇత్య్ ఆదౌ॥౫॥
Link copied౧౪౪। దృశ్యతే తు॥౨।౧।౬॥
Link copiedతు-శబ్దః పక్షṁ వ్యావర్తయతి, మాక్షికాదిభ్యో విలక్షణానాṁ క్రిమ్య్-ఆదీనామ్ ఉత్పత్తిర్ దృశ్యతే; అతో బ్రహ్మ-విలక్షణస్యాపి జగతస్ తత్-కార్యత్వṁ సమ్భవతి॥౬॥
Link copied౧౪౫। అసద్ ఇతి చేన్ న ప్రతిషేధ-మాత్రత్వాత్॥౨।౧।౭॥
Link copiedయది కార్యస్య కారణాద్ విలక్షణ-ద్రవ్యత్వమ్ అభ్యుపగమ్యతే, తర్హి కారణే కార్యṁ న సద్ భవతీత్య్ అసత్-కార్య-వాదోఽభ్యుపగతః స్యాత్; తథా సతి--- సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మేతి సామానాధి-కరణ్య-వ్యపదేశో న ఘటత ఇతి చేత్ తన్ న, కార్య-కారణయోః సాలక్షణ్య-నియమ-ప్రతిషేధ-మాత్రత్వాద్ అస్మాభిః పూర్వమ్ అభిహితస్య। కార్య-కారణయోర్ ఏక-ద్రవ్యత్వṁ స్వీకృతమ్ ఏవ। ఏకమ్ ఏవ కారణావస్థṁ ద్రవ్యṁ కార్యావస్థాṁ భజమానṁ సలక్షణావస్థామ్ అపి భజతే, విలక్షణావస్థామ్ అపీత్య్ అర్థః॥౭॥
Link copied౧౪౬। అపీతౌ తద్వత్ ప్రసఙ్గాద్ అసమఞ్జసమ్॥౨।౧।౮॥
Link copiedయది బ్రహ్మైవ సర్వ-జ్ఞṁ సత్య-సఙ్కల్పṁ నిరతిశయానన్దమ్ అపహత-పాప్మత్వాది-స్వరూపṁ తద్-విపరీత-జగద్-అవస్థాṁ భజతే తర్హి పిణ్డత్వ-ఘటత్వావస్థ-మృద్-ద్రవ్యవత్ సర్వ-జ్ఞత్వమ్ అపహత-పాప్మత్వమ్ అజ్ఞత్వṁ కర్మ-వశ్యత్వṁ చ బ్రహ్మణః ప్రసజ్యేతేతి విరుద్ధార్థాభిధానాద్ వేదాన్త-వాక్యమ్ అసమఞ్జసṁ స్యాత్। అపీతావ్ ఇతి సృష్ట్య్-ఆదేః ప్రదర్శనార్థమ్। జగతో బ్రహ్మణ్య్ అపీతౌ బ్రహ్మణ ఉత్పత్తావ్ అపీత్య్ అర్థః। అపీతిర్ అప్యయః॥౮॥
Link copied౧౪౭। న తు దృష్టాన్త-భావాత్॥౨।౧।౯॥
Link copiedన బ్రహ్మణ్య్ అజ్ఞత్వాదయః ప్రసజ్యేరన్; అత ఏవ న వేదాన్తానామ్ అసామఞ్జస్యమ్। తు-శబ్దః ప్రసక్తస్యాసమ్భావనీయతాṁ ద్యోతయతి। ఏకస్యైవావస్థా-ద్వయాన్వయేఽపి గుణ-దోష-వ్యవస్థాయాṁ దృష్టాన్త-సద్-భావాత్, యథా మనుష్యో జాతో బాలో యువా స్థవిరో భవతీత్య్ అత్ర మనుష్య-శరీరకస్య చేతనస్యైవ సర్వావస్థాన్వయేఽపి జన్మ-బాలత్వ-యువత్వ-స్థవిరత్వాదీని నాత్మని సఙ్గచ్ఛన్తే; తథా జ్ఞాన-సుఖ-దుఃఖాదయశ్ చ న శరీరే। ఏవṁ చిద్-అచిద్-వస్తు-శరీరకస్య పరస్య బ్రహ్మణః కార్య-కారణోభయావస్థాన్వయేఽపి కర్మ-వశ్యత్వాజ్ఞత్వాదయః శరీర-భూత-చిద్-అచిద్-వస్తు-గతాః। అపహత-పాప్మత్వ-సర్వజ్ఞత్వాదయః పరమాత్మన్య్ ఆత్మ-భూతేఽవతిష్ఠన్తే। సర్వావస్థస్య చిద్-అచిద్-వస్తునో బ్రహ్మ-శరీరత్వమ్, బ్రహ్మణశ్ చ తద్-ఆత్మత్వమ్, యస్య పృథివీ శరీరమ్ ఇత్య్ ఆద్య్ అన్తర్యామి-బ్రాహ్మణాదిష్వ్ అవగతమ్ ఇతి న కశ్చిద్ విరోధః॥౯॥
Link copied౧౪౮। స్వ-పక్ష-దోషాచ్ చ॥౨।౧।౧౦॥
Link copiedన కేవలṁ బ్రహ్మ-కారణ-వాదస్య నిర్దోషతయా తత్-సమాశ్రయణమ్, ప్రధాన-కారణ-వాదే దోషాచ్ చైతత్ పరిత్యజ్య స ఏవ సమాశ్రయణీయః। ప్రధాన-కారణ-వాదే హి నిర్వికారస్య చిన్-మాత్రస్య పురుషస్య ప్రకృతి-సన్నిధాన-కృత-తద్-ధర్మాధ్యాస-మూలా జగత్-ప్రవృత్తిర్ అభ్యుపగమ్యతే; తత్ర ప్రకృతి-సద్-భావ-మాత్రే సన్నిధానే సతి ముక్తస్యాపి తద్-ధర్మాధ్యాస-ప్రసఙ్గః; వికార-విశేషే సతి సన్నిధానే కృత్స్నస్య వికారస్యాధ్యాస-పూర్వకత్వాన్ నాధ్యాసస్య వికారో హేతుర్ ఇతి విరుద్ధార్థాభిధానాద్ అసామఞ్జస్య దోష ఇతి న తత్-పక్ష-సమ్భవ-గన్ధః॥౧౦॥
Link copied౧౪౯। తర్కాప్రతిష్ఠానాద్ అపి॥౨।౧।౧౧॥
Link copiedకాపిల-తన్త్రస్య తర్క-మూలత్వేన శాక్యాది-తర్క-ప్రతిహతతయాస్య తర్కస్యాప్రతిష్ఠితత్వాచ్ చ న తత్-పక్ష-సమ్భవః॥౧౧॥
Link copied౧౫౦। అన్యథానుమేయమ్ ఇతి చేద్ ఏవమ్ అప్య్ అనిర్మోక్ష-ప్రసఙ్గః॥౨।౧।౧౨॥
Link copiedఇతః పూర్వṁ విద్యమానైస్ తర్కైర్ అప్రతిహతత్వṁ యథా సమ్భవతి, తథా ప్రధాన-కారణవాదమ్ అనుమాస్యామహ ఇతి చేత్ తథాపి తర్కాప్రతిష్ఠాన-దోషాద్ అనిర్మోక్ష-ప్రసఙ్గో దుర్వారః; త్వద్-అధిక-కుతర్క-కుశల-సద్-భావ-సమ్భవాత్॥౧౨॥ ఇతి విలక్షణత్వాధికరణమ్॥౩॥
Link copied౧౫౧। ఏతేన శిష్టాపరిగ్రహా అపి వ్యాఖ్యాతాః॥౨।౧।౧౩॥
Link copiedన పరిగృహ్యన్తే వైదికైర్ ఇత్య్ అపరిగ్రహాః; శిష్టాశ్ చ తే అపరిగ్రహాశ్ చ శిష్టాపరిగ్రహాః। ఏతేన--- తర్కాప్రతిష్ఠాన-లక్షణ-కపిల-స్మృతి-నిరసన-హేతునా, పరిశిష్టాః కణభక్షాది-స్మృతయోఽపి నిరస్తా వ్యాఖ్యాతాః। పరమాణు-కారణ-వాదః సర్వ-సమ్మత ఇతి న తేషాṁ తర్కస్యాప్రతిష్ఠితత్వమ్ ఇత్య్ అధికాశఙ్కా। తర్క-మూలత్వావిశేషాత్ పరమాణూనాṁ శూన్యత్వాద్ ద్రవ్యత్వాది-వివాదాచ్ చ, తర్కస్యాప్రతిష్ఠితత్వమ్ ఏవేతి పరిహారః॥౧౩॥ ఇతి శిష్టాపరిగ్రహాధికరణమ్॥౪॥
Link copied౧౫౨। భోక్త్రాపత్తేర్ అవిభాగశ్ చేత్ స్యాల్ లోకవత్॥౨।౧।౧౪॥
Link copiedసర్వాత్మ-భూతస్య పరస్య బ్రహ్మణః స్వ-శరీర-భూతాజ్ జీవాన్ నిరతిశయానన్ద-స్వభావతయా యో విభాగ ఉక్తః, స కిṁ విభాగస్ సమ్భవతి, ఉత నేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః। సర్వ-చిద్-అచిద్-వస్తు-శరీరతయా సశరీరత్వాద్ బ్రహ్మణః, సశరీరస్య చ సుఖ-దుఃఖయోర్ భోక్తృత్వాపత్తేః। తద్-ఆపత్తిశ్ చ--- న హ వై సశరీరస్య సతః ప్రియాప్రియయోర్ అపహతిర్ అస్త్య్ అశరీరṁ వావ సన్తṁ న ప్రియాప్రియే స్పృశతః, ఇతి శ్రుతేః। రాద్ధాన్తస్ తు--- స్యాద్ ఏవ విభాగో జీవాత్ పరస్యాకర్మ-వశ్యతయా। న సశరీరత్వ-ప్రయుక్తః సుఖ-దుఃఖ-యోగః, అపి తు శాస్త్ర-వశ్యతయా తద్-అతివృత్తి-కృతః; స ఏకధా భవతి త్రిధా భవతీత్య్ ఆదినావగత-శరీరస్య ముక్తస్య సశరీరస్యాప్య్ అశాస్త్ర-వశ్యతయా నిరస్త-నిఖిల-దుఃఖత్వ-దర్శనాత్। యథా లోకే రాజ-శాసన-వశ్యానాṁ తచ్-ఛాసనాతివృత్తి-నిమిత్త-దుఃఖాన్వయేఽపి రాజ్ఞః సశరీరస్యాపి ప్రకారాన్తరేణ సాధర్మ్యేఽపి స్వ-శాసనావశ్యతయా న తద్-అతివృత్తి-కృత-దుఃఖాన్వయః। విభాగః వైలక్షణ్యమ్। సూత్రమ్ అపి వ్యాఖ్యాతమ్॥౧౪॥ ఇతి భోక్త్రాపత్త్య్-అధికరణమ్॥౫॥
Link copied౧౫౩। తద్-అనన్యత్వమ్ ఆరమ్భణ-శబ్దాదిభ్యః॥౨।౧।౧౫॥
Link copiedకిṁ బ్రహ్మ-కార్యṁ జగద్ బ్రహ్మణోఽన్యత్, ఉతానన్యద్ ఇతి సṁశయః। అన్యద్ ఇతి పూర్వః పక్షః, తథోపలబ్ధేః। న హి బుద్ధి-శబ్దాన్తరాదయః కారణాత్ కార్యస్యానన్యత్వే కథఞ్చిద్ ఉపపద్యన్తే; కారక-వ్యాపార-వైయర్థ్యṁ చానన్యత్వే। అతో వస్తు-విరోధాద్ అనన్యత్వ-శ్రుతయో లక్షణయా నేయాః। రాద్ధాన్తస్ తు--- వాచారమ్భణṁ వికారో నామధేయṁ మృత్తికేత్య్ ఏవ సత్యమ్, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయṁ తద్ ఐక్షత బహు స్యాṁ ప్రజాయేయేతి తత్ తేజోఽసృజత, ఐతదాత్మ్యమ్ ఇదṁ సర్వṁ తత్ సత్యṁ స ఆత్మా తత్ త్వమ్ అసి శ్వేతకేతో, సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మ తజ్ జలాన్ ఇతి, తద్ ధేదṁ తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాṁ వ్యాక్రియత, ఇత్య్ ఆది శ్రుతి-శత-సిద్ధṁ కార్యస్య జగతః కారణాద్ బ్రహ్మణోఽనన్యత్వమ్। న చాత్ర వస్తు-విరోధ-గన్ధః; కారణీభూత-మృద్-ఆది-ద్రవ్యస్యైవ పృథు-బుధ్నోదరాద్య్-అవస్థాన్తరాపత్త్యా బుద్ధి-శబ్దాన్తరాదయోఽప్య్ ఉపపద్యన్తే। తత ఏవ కారక-వ్యాపారాద్య్-అర్థవత్త్వṁ చ। ఏవṁ కారణస్యైవ కార్యావస్థాయామ్ అపి ప్రత్యభిజ్ఞాయమానస్యావస్థాన్తరాపత్త్యైవ సర్వేషూపపన్నేష్వ్ అనుపలబ్ధ-ద్రవ్యాన్తర-కల్పనా న సమ్భవతి। తస్మాద్ బ్రహ్మ-కార్యṁ జగద్ బ్రహ్మణోఽనన్యద్ ఏవ। సూత్రార్థస్ తు--- తస్మాద్ బ్రహ్మణః, అనన్యత్వṁ కార్యస్య జగత ఆరమ్భణ-శబ్దాదిభ్యో వాక్యేభ్యస్ తద్-ఉపపాదయద్భ్యోఽవగమ్యతే, ఆరమ్భణమ్ ఇతి శబ్ద ఆదిర్ యేషాṁ పూర్వోక్తానాṁ వాక్యానామ్, తాన్య్ ఆరమ్భణ-శబ్దాదీని; తాన్య్ అనన్యత్వమ్ ఉపపాదయన్తి॥౧౫॥
Link copied౧౫౪। భావే చోపలబ్ధేః॥౨।౧।౧౬॥
Link copiedఘటాది-కార్యṁ భావే చ తద్ ఏవేదṁ మృద్-ద్రవ్యమ్ ఇత్థమ్ అవస్థితమ్ ఇతి కారణస్య ఉపలబ్ధేశ్ చ కారణాద్ అనన్యత్వṁ కార్యస్య। యథా దేవదత్తస్య బాలత్వ-యువత్వాద్య్-అవస్థా-విశిష్టస్యానన్యత్వమ్॥౧౬॥
Link copied౧౫౫। సత్త్వాచ్ చాపరస్య॥౨।౧।౧౭॥
Link copiedఅపరస్య కార్యస్య కారణే సత్త్వాచ్ చ కారణాద్ అనన్యత్ కార్యమ్। సర్వమ్ ఇదṁ వట-శరావాది-కార్యṁ పూర్వాహ్నే మృద్ ఏవాసీద్ ఇతి హి కారణే కార్యమ్ ఉపలభ్యతే। ఘట-శరావాది-సṁస్థాన-సṁస్థితమ్ ఏవ మృద్-ద్రవ్యṁ పూర్వ-కాలే పిణ్డాకారమ్ ఉపలబ్ధమ్ ఇత్య్ అర్థః॥౧౭॥
Link copied౧౫౬। అసద్-వ్యపదేశాన్ నేతి చేన్ న ధర్మాన్తరేణ వాక్య-శేషాద్య్-ఉక్తేశ్ శబ్దాన్తరాచ్ చ॥౨।౧।౧౮॥
Link copiedఅసద్ ఏవేదమ్ అగ్ర ఆసీత్, ఇదṁ వా అగ్రే నైవ కిఞ్చనాసీత్, ఇత్య్ ఆదిషు కారణావస్థాయాṁ కార్యస్యాసత్త్వ-వ్యపదేశాత్ కారణే కార్యṁ సద్ ఇత్య్ ఏతన్ నోపపద్యత ఇతి చేన్ న, సద్ ఇతి వ్యపదేశ-హేతు-భూత-నామ-రూపావస్థా-విరోధి-సూక్ష్మావస్థాఖ్య-ధర్మాన్తరేణ యోగాద్ అసద్ ఇతి న్యపదిశ్యతే। కథమ్ ఇదమ్ అవగమ్యతే। వాక్య-శేషాద్య్-ఉక్తేశ్ శబ్దాన్తరాచ్ చ। వాక్య-శేషస్ తావత్--- తద్ అసద్ ఏవ సన్ మనోఽకురుత స్యామ్ ఇతి। అసద్ ఇతి వ్యపదిష్టస్యైవ మనస్కార-ప్రతిపాదనేన అసద్-వ్యపదేశో ధర్మాన్తర-యోగాద్ ఇత్య్ అవగమ్యతే। యుక్తిశ్ చ ధర్మాన్తర-యోగమ్ ఏవాసద్-వ్యపదేశ-హేతుమ్ అవగమయతి। ఘటోఽస్తి ఘటో నాస్తీతి సద్-అసద్-వ్యపదేశయోర్ ఘటత్వ-కపాలత్వయోః పరస్పర-విరోధి-ధర్మయోర్ ఏవ హేతుత్వే సిద్ధే తద్-అతిరిక్తానుపలబ్ధ-తుచ్ఛత్వస్య హేతుత్వ-కల్పనానుపపత్తేః। తథా శబ్దాన్తరṁ చ--- సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఇతి సమాన-ప్రకరణ-స్థమ్ అసచ్-ఛబ్దṁ ధర్మాన్తర-యోగ-నిమిత్తమ్ అవగమయతి॥౧౮॥
Link copied౧౫౭। పటవచ్ చ॥౨।౧।౧౯॥
Link copiedయథా తన్తవ ఏవ వ్యతిషఙ్గ-విశేష-భాజః పట ఇతి నామ-రూపాభ్యాṁ కార్యాన్తరాదికṁ భజన్తే, తద్ బ్రహ్మాపి॥౧౯॥
Link copied౧౫౮। యథా చ ప్రాణాదిః॥౨।౧।౨౦॥
Link copiedయథా చ వాయుర్ ఏక ఏవ శరీరే వృత్తి-విశేషṁ భజమానః ప్రాణాపానాది-నామ-రూప-కార్యాన్తరాణి భజతే, తద్ బ్రహ్మాపీతి తద్ అనన్యత్వṁ జగతస్ సిద్ధమ్॥౨౦॥ ఇత్య్ ఆరమ్భణాధికరణమ్॥౬॥
Link copied౧౫౯। ఇతర-వ్యపదేశాద్ ధితాకరణాది-దోష-ప్రసక్తిః॥౨।౧।౨౧॥
Link copiedబ్రహ్మణో జగత్-కారణత్వṁ సమ్భవతి నేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః, అయమ్ ఆత్మా బ్రహ్మ, తత్ త్వమ్ అసీతి సామానాధికరణ్యేన జీవో బ్రహ్మేత్య్ అవగమాత్, జగత్-సర్గస్య చ జీవ-దుఃఖ-హేతుత్వాత్, ఆత్మ-హితాకరణాది-దోష-ప్రసక్తేః సర్వ-జ్ఞస్య సత్య-సఙ్కల్పస్య బ్రహ్మణో జగత్-కారణత్వానుపపత్తేః। జీవ-పరయోర్ భేద-వాదిన్యః శ్రుతయః, జగద్-బ్రహ్మణోర్ అనన్యత్వṁ వదతా త్వయైవ పరిత్యక్తాః, భేదే సత్య్ అనన్యత్వాసిద్ధేః। ఔపాధిక-భేద-విషయా భేద-శ్రుతయః, స్వాభావికాభేద-విషయా అభేద-శ్రుతయ ఇతి చేత్; తత్రేదṁ వక్తవ్యమ్--- స్వభావతః స్వస్మాద్ అభిన్నṁ జీవṁ కిమ్ అనుపహితṁ జగత్-కారణṁ బ్రహ్మ జానాతి న వా। న జానాతి చేత్, సర్వ-జ్ఞత్వ-హానిః। జానాతి చేత్, స్వస్మాద్ అభిన్నస్య జీవస్య దుఃఖṁ స్వ-దుఃఖమ్ ఇతి జానతో బ్రహ్మణో హితాకరణాహిత-కరణాది-దోష-ప్రసక్తిర్ అనివార్యా। జీవ-బ్రహ్మణోర్ అజ్ఞాన-కృతో భేదః, తద్-విషయా భేద-శ్రుతిర్ ఇతి చేత్; తత్రాపి జీవాజ్ఞాన-పక్షే పూర్వోక్తో దోషస్ తత్-ఫలṁ చ తద్-అవస్థమ్ ఏవ। బ్రహ్మాజ్ఞాన-పక్షే స్వ-ప్రకాశ-స్వరూపస్య బ్రహ్మణోఽజ్ఞాన-సాక్షిత్వṁ తత్-కృత-జగత్-సృష్టిశ్ చ న సమ్భవతి; అజ్ఞానేన ప్రకాశస్ తిరోహితశ్ చేత్, తిరోధానస్య ప్రకాశ-నివృత్తి-కరత్వేన ప్రకాశస్యైవ స్వరూపత్వాత్ స్వరూప-నివృత్తిర్ ఏవేతి స్వరూప-నాశాది-దోషాః భాష్యే ప్రపఞ్చితాః। రాద్ధాన్తస్ తు--- అస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్ తస్మిṁశ్ చాన్యో మాయయా సన్నిరుద్ధః, తయోర్ అన్యః పిప్పలṁ స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యో అభిచాకశీతి, ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః, పృథగ్ ఆత్మానṁ ప్రేరితారṁ చ మత్వా, ఇత్య్ ఆదిభిః ప్రత్యగాత్మనోఽర్థాన్తర-భూతṁ బ్రహ్మేత్య్ అవగమాత్, జీవ-కర్మానుగుణతయా జగత్-సర్గస్య చ బ్రహ్మణో లీలా-ప్రయోజనత్వాత్, జగత్-కారణత్వṁ సమ్భవత్య్ ఏవ। తత్ త్వమ్ అస్య్ ఆది సామానాధికరణ్య-నిర్దేశః, యస్యాత్మా శరీరమ్ ఇత్య్ ఆది శ్రుతేర్ జీవస్య బ్రహ్మ-శరీరత్వాత్ తచ్-ఛరీరతయా జీవ-ప్రకారక-బ్రహ్మ-ప్రతిపాదన-పరః। సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరṁ బ్రహ్మ కారణావస్థమ్, స్థూల-చిద్-అచిద్-వస్తు-శరీరṁ బ్రహ్మైవ కార్యావస్థమ్ ఇతి కార్య-కారణయోర్ అనన్యత్వమ్। ఏవమ్ అపి శరీర-భూతయోశ్ చిద్-అచిద్-వస్తునోః శరీరిణో బ్రహ్మణశ్ చ దుఃఖిత్వ-పరిణామిత్వ-హేయ-ప్రత్యనీకత్వ-కల్యాణ-గుణాకరత్వ-స్వభావాస్వరూప-వివేక-విషయ-శ్రుతి-సిద్ధాస్ తథైవ వ్యవస్థితా ఇతి బ్రహ్మణో జగత్-కారణత్వṁ సమ్భవత్య్ ఏవ। సూత్రార్థస్ తు--- ఇతర-వ్యపదేశాద్ ధితాకరణాది-దోష-ప్రసక్తిః--- బ్రహ్మణ ఇతరః జీవః, బ్రహ్మణో జీవతయా వ్యపదేశాత్, జీవస్య చ దుఃఖిత్వాత్, హిత-రూప-జగద్-అకరణమ్ అహిత-రూప-జగత్-కరణమ్ ఇత్య్ ఆది దోష-ప్రసక్తిర్ బ్రహ్మణః। అతో బ్రహ్మణో జగత్-కారణత్వṁ న సమ్భవతీతి॥౨౧॥
Link copiedఅత ఉత్తరṁ పఠతి---
Link copied౧౬౦। అధికṁ తు భేద-నిర్దేశాత్॥౨।౧।౨౨॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। ప్రత్యగాత్మనః అధికమ్--- అర్థాన్తర-భూతṁ బ్రహ్మ। కుతః। భేద-నిర్దేశాత్--- స కారణṁ కరణాధిపాధిపః, ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః, పృథగ్ ఆత్మానṁ ప్రేరితారṁ చ మత్వా, ఇత్య్ ఆదిభ్యః ప్రత్యగాత్మనో జీవాద్ బ్రహ్మణో హి భేదో నిర్దిశ్యతే॥౨౨॥
Link copied౧౬౧। అశ్మాదివచ్ చ తద్-అనుపపత్తిః॥౨।౧।౨౩॥
Link copiedఅశ్మ-కాష్ఠ-లోష్ఠ-తృణాదేర్ అచేతనస్యేవానన్త-దుఃఖాకర-జీవస్య నిరతిశయానన్ద-సత్య-సఙ్కల్ప-బ్రహ్మ-భావానుపపత్తిశ్ చ। న కేవలṁ భేద-శ్రుత్యార్థాన్తరత్వమ్ అవగమ్యతే, వస్త్వ్-అనుపపత్త్యా చేత్య్ అర్థః। జీవ-సామానాధికరణ్య-నిర్దేశః, యస్యాత్మా శరీరమ్ ఇత్య్ ఆది శ్రుతి-శత-సిద్ధ-జీవ-ప్రకారక-బ్రహ్మ-ప్రతిపాదన-పర ఇతి, అవస్థితేర్ ఇతి కాశకృత్స్న ఇత్య్ అత్రైవ ప్రతిపాదితః॥౨౩॥ ఇతీతర-వ్యపదేశాధికరణమ్॥౭॥
Link copied౧౬౨। ఉపసṁహార-దర్శనాన్ నేతి చేన్ న క్షీరవద్ ధి॥౨।౧।౨౪॥
Link copiedబ్రహ్మణో జగత్-కారణత్వṁ సమ్భవతి, న వేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః; లోకే కార్య-జనన-సమర్థస్యాపి వస్తునస్ తత్-తత్-కార్య-జననే అనేక-కారకోపసṁహార-దర్శనాద్ విచిత్ర-జగజ్-జనన-సమర్థస్యాపి బ్రహ్మణోఽసహాయస్య జనయితృత్వానుపపత్తేః। రాద్ధాన్తస్ తు--- క్షీరస్య దధి-భావేఽనన్యాపేక్షత్వ-దర్శనాన్ నానేక-కారకోపసṁహార-నియమో దృశ్యత ఇతి బ్రహ్మణోఽనన్యాపేక్షస్యైవ కారణత్వṁ సమ్భవత్య్ ఏవ। సూత్రమ్ అపి వ్యాఖ్యాతమ్। క్షీరవద్ ధీతి ప్రసిద్ధవన్ నిర్దేశశ్ చోద్య-మాన్ద్య-పరః॥౨౪॥
Link copied౧౬౩। దేవాదివద్ అపి లోకే॥౨।౧।౨౫॥
Link copiedయథా దేవాదయః స్వే స్వే లోకే స్వాపేక్షితాని స్వ-సఙ్కల్పాద్ ఏవ సృజన్తి; తథా బ్రహ్మాపి--- దేవాదేః శాస్త్రావసేయ-శక్తితయా బ్రహ్మ-తుల్యత్వేఽపి దేవాది-గ్రహణṁ బ్రహ్మణో విచిత్ర-శక్తిత్వస్య సుగ్రహణాయేతి మన్తవ్యమ్॥౨౫॥ ఇత్య్ ఉపసṁహార-దర్శనాధికరణమ్॥౮॥
Link copied౧౬౪। కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-కోపో వా॥౨।౧।౨౬॥
Link copiedబ్రహ్మణో జగత్-కారణత్వṁ సమ్భవతి, నేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః; నిరవయవస్య బ్రహ్మణో జగద్-ఉపాదానత్వే కృత్స్నస్య బ్రహ్మణో జగద్-ఆకారేణోపయోగ-ప్రసఙ్గాత్; తత్-పరిజిహీర్షయా సావయవాభ్యుపగమే, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ ఇత్య్ ఆది కారణావస్థాయాṁ నిరవయవత్వ-వాచి-శబ్దో బాధ్యేత। యద్య్ అపి సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరṁ బ్రహ్మ కారణమ్, స్థూల-చిద్-అచిద్-వస్తు-శరీరṁ బ్రహ్మ కార్యమ్ ఇత్య్ అభ్యుపగమ్యతే; తథాపి శరీర్య్-అṁశస్యాపి కార్యత్వాభ్యుపగమాత్ కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-బాధో వా। రాద్ధాన్తస్ తు--- సకలేతర-విసజాతీయṁ శ్రుత్య్-ఐక-సమధిగమ్యṁ సర్వ-శక్తి-యుక్తṁ బ్రహ్మ నిరవయవమ్ అపి కార్యṁ చ భవతి, అన్యచ్ చ భవతీతి పరిమిత-శక్తి-వస్తు-చోద్యṁ న తత్ర ప్రసజ్యతే। యథా జాతి-వాదినో జాతిర్ ఏకైవామూర్తా ఖణ్డ-ముణ్డాదిష్వ్ అత్యన్త-విలక్షణేష్వ్ అనన్తేష్వ్ అపి పరిసమాప్యైవ వర్తతే; న తత్రేతర-వస్తు-చోద్యమ్ ఇతి। అతో బ్రహ్మణో జగత్-కారణత్వṁ సమ్భవత్య్ ఏవ। సూత్రార్థస్ తు--- కృత్స్న-ప్రసక్తిర్ నిరవయవత్వ-శబ్ద-కోపో వా--- బ్రహ్మ-కారణత్వే కృత్స్నస్య బ్రహ్మణః కార్యత్వేనోపయోగ-ప్రసఙ్గః, నిరవయవత్వాత్। సావయవత్వే నిరవయవత్వ-శబ్ద-కోపో వా--- నిరవయవత్వ-వాది-శబ్ద-బాధ-ప్రసఙ్గ ఇత్య్ అర్థః॥౨౬॥
Link copied౧౬౫। శ్రుతేస్ తు శబ్ద-మూలత్వాత్॥౨।౧।౨౭॥
Link copiedతు-శబ్దః పక్ష-వ్యావృత్త్య్-అర్థః। శ్రుతేః--- శ్రుతి-ప్రామాణ్యాన్ నైవṁ ప్రసజ్యతే; శబ్ద-మూలత్వాత్--- శబ్దైక-మూలత్వేన సకలేతర-విజాతీయత్వాద్ ఇత్య్ అర్థః॥౨౭॥
Link copied౧౬౬। ఆత్మని చైవṁ విచిత్రాశ్ చ హి॥౨।౧।౨౮॥
Link copiedఆత్మని చైవṁ--- జీవాత్మన్య్ అచేతన-ధర్మాప్రసక్తిశ్ చైవమ్--- అచేతన-విజాతీయత్వాద్ ఏవేత్య్ అర్థః। విచిత్రాశ్ చ హి--- అచేతనేషు చ విసజాతీయేష్వ్ అగ్ని-జలాదిషు విచిత్రా హి శక్తయో దృశ్యన్తే। ఏవṁ పరమాత్మనశ్ చేతనాచేతన-విసజాతీయస్య విచిత్రాః శక్తయ ఉపపద్యన్తే॥౨౮॥
Link copied౧౬౭। స్వ-పక్ష-దోషాచ్ చ॥౨।౧।౨౯॥
Link copiedప్రధానాది-కారణ-పక్షే దోషాచ్ చ బ్రహ్మైవ జగత్-కారణమ్। తత్ర హి లౌకిక-వస్తు-సజాతీయత్వేన ప్రధానాదేర్ ఉక్త-దోషోఽన్యే చ ప్రసజ్యేరన్॥౨౯॥
Link copied౧౬౮। సర్వోపేతా చ తద్-దర్శనాత్॥౨।౧।౩౦॥
Link copiedన కేవలṁ సకలేతర-విసజాతీయత్వేన సర్వ-శక్త్య్-ఉపేతా పరా దేవతేత్య్ ఉచ్యతే; తద్-దర్శనాత్--- సర్వ-శక్తి-యోగ-శ్రుతేర్ ఇత్య్ అర్థః। దర్శయతీతి దర్శనṁ శ్రుతిః, పరాస్య శక్తిర్ వివిధైవ శ్రూయతే, ఇత్య్ ఆదికా॥౩౦॥
Link copied౧౬౯। వికరణత్వాన్ నేతి చేత్ తద్ ఉక్తమ్॥౨।౧।౩౧॥
Link copiedఉక్తస్యార్థస్య ద్రఢిమ్నే చోద్య-పూర్వకṁ పూర్వోక్తṁ స్మారయతి--- వికరణత్వాత్, కరణ-విరహితత్వాద్ బ్రహ్మ న కారణమ్ ఇతి చేత్, న తస్య కార్యṁ కరణṁ చ విద్యతే, ఇతి హి శ్రూయతే। తద్ ఉక్తమ్--- అత్ర యద్ వక్తవ్యమ్, తత్ పూర్వమ్ ఏవోక్తమ్, శబ్ద-మూలత్వాత్, విచిత్రాశ్ చ హీతి। అయమ్ ఏవ పరిహారః--- శబ్దైక-మూలత్వేన సకలేతర-విసజాతీయత్వాద్ బ్రహ్మణః, విసజాతీయానాṁ చ శక్తి-వైచిత్ర్యస్య లోక-దృష్టత్వాత్ సర్వమ్ ఉపపన్నమ్ ఇత్య్ అర్థః॥౩౧॥ ఇతి కృత్స్న-ప్రసక్త్య్-అధికరణమ్॥౯॥
Link copied౧౭౦। న ప్రయోజనవత్వాత్॥౨।౧।౩౨॥
Link copiedబ్రహ్మణో జగత్-కారణత్వṁ సమ్భవతి, నేతి సṁశయః। న సమ్భవతీతి పూర్వః పక్షః; బుద్ధి-పూర్వారమ్భాణాṁ సప్రయోజనత్వాత్, ఈశ్వరస్య చ స్వత ఏవావాప్త-సమస్త-కామస్య జగత్-సృష్ట్య్-ఆరమ్భే ప్రయోజన-భావాద్ గర్భవాసాది-దుఃఖ-రూపత్వాత్ సృష్టేః, పరానుగ్రహేణాపి న సప్రయోజనత్వమ్ ఇతి। రాద్ధాన్తస్ తు--- పరిపూర్ణస్యాపీశ్వరస్య కేవల-లీలా-ప్రయోజనాయ జగత్-సృష్ట్య్-ఆద్య్-ఆరమ్భః సమ్భవతి। యథా లోకే సప్త-ద్వీపవతీṁ మేదినీమ్ అధితిష్ఠతో మహారాజస్య పరిపూర్ణస్యాపి కేవల-లీలైక-ఫలాః కన్దుకాద్య్-ఆరమ్భా దృశ్యన్తే, తద్వద్ ఈశ్వరస్యాపి ప్రయోజనాయ జగత్-సృష్ట్య్-ఆరమ్భః సమ్భవతి। సూత్రార్థస్ తు--- న ప్రయోజనవత్త్వాత్--- ప్రయోజనవత్త్వాత్ సృష్టేర్ ఈశ్వరస్య స్వతః పరిపూర్ణస్య ప్రయోజనాభావాన్ న స్రష్టృత్వమ్॥౩౨॥
Link copied౧౭౧। లోకవత్ తు లీలా-కైవల్యమ్॥౨।౧।౩౩॥
Link copiedలీలా-కైవల్యṁ--- లీలాయాః ప్రయోజనత్వే కైవల్యṁ సమ్భవతి; కేవలాయా లీలాయాః సృష్ట్య్-ఆరమ్భ-ప్రయోజనత్వṁ సమ్భవతీత్య్ అర్థః। లోకవత్--- యథా లోకే రాజ్ఞః కన్దుకాద్య్-ఆరమ్భే॥౩౩॥
Link copiedదేవ-మనుష్యాది-విషమ-సృష్ట్యా పక్ష-పాత-ప్రసఙ్గాద్ దుర్విషహ-దుఃఖ-గర్భత్వేన నైర్ఘృణ్య-ప్రసఙ్గాచ్ చ, పరమ-కారుణికస్య పరమ-పురుషస్య పరిపూర్ణస్య లీలార్థమ్ అపి జగత్-సర్గో న సమ్భవతీత్య్ ఆశఙ్క్యాహ---
Link copied౧౭౨। వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ తథా హి దర్శయతి॥౨।౧।౩౪॥
Link copiedఈశ్వరస్య విచిత్ర-జగత్-సృష్టౌ దేవాది-వైషమ్య-ప్రయుక్త-పక్ష-పాతః, దుఃఖ-ప్రద-జగత్-సర్గే నైర్ఘృణ్యṁ చ న సమ్భవతః; వైషమ్యాదావ్ ఈశ్వరస్య క్షేత్రజ్ఞ-కర్మ-సాపేక్షత్వాత్। క్షేత్రజ్ఞానాṁ పూర్వ-పూర్వ-కర్మ పర్యాలోచ్య, తత్-తత్-కర్మానుగుణṁ విషమṁ జగత్ సృజతీతి తత్-కర్మైవ వైషమ్యాది-హేతుర్ ఇత్య్ అర్థః। తథా దేవాది-దేహ-యోగṁ క్షేత్రజ్ఞానాṁ తత్-కర్మ-సాపేక్షṁ దర్శయతి హి శ్రుతిః, సాధు-కారీ సాధుర్ భవతి పాప-కారీ పాపో భవతీతి॥౩౪॥
Link copied౧౭౩। న కర్మావిభాగాద్ ఇతి చేన్ నానాదిత్వాద్ ఉపపద్యతే చాప్య్ ఉపలభ్యతే చ॥౨।౧।౩౫॥
Link copiedసృష్టేః ప్రాక్ కర్మ న విద్యతే క్షేత్రజ్ఞాభావాత్; తద్-అభావశ్ చ, సద్ ఏవ సోమ్యేదమ్ ఇత్య్ అవధారణావగతాద్ అవిభాగాద్ ఇతి చేత్ తన్ న, అనాదిత్వాత్ క్షేత్రజ్ఞానాṁ తత్-తత్-కర్మ-ప్రవాహాణాṁ చ। ఉపపద్యతే చ క్షేత్రజ్ఞ-స్వరూపానాదిత్వేఽపి నామ-రూప-విభాగాభావాద్ అవిభాగ-శ్రుతిః। అన్యథా అకృతాభ్యాగమ-కృత-విప్రణాశ-ప్రసఙ్గాత్। ఉపలభ్యతే చ శ్రుతి-స్మృత్యోః క్షేత్రజ్ఞానామ్ అనాదిత్వమ్--- తద్ ధేదṁ తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాṁ వ్యాక్రియత, ఇతి నామ-రూప-వ్యాకరణ-మాత్ర-శ్రవణాత్ క్షేత్రజ్ఞానాṁ స్వరూపానాదిత్వṁ సిద్ధమ్; జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశనీశౌ। నిత్యో నిత్యానామ్, ప్రకృతిṁ పురుషṁ చైవ విద్ధ్య్ అనాదీ ఉభావ్ అపి, ఇతి। అవిభాగ-శ్రుతిర్ అపి నామ-రూప-విభాగాభావాద్ ఏవోపపద్యత ఇత్య్ అభిప్రాయః॥
Link copied[అత్ర పాఠాన్తరమ్]
Link copiedసృష్టేః ప్రాక్ కర్మ న విద్యతే, క్షేత్రజ్ఞాభావాత్। తద్-అభావశ్ చ--- సద్ ఏవ సోమ్యేదమ్ ఇత్య్ అవధారణావగతాద్ అవిభాగాద్ ఇతి చేత్ తన్ న, అనాదిత్వాత్ క్షేత్రజ్ఞానాṁ తత్-తత్-కర్మ-ప్రవాహాణాṁ చ। తద్ ధేదṁ తర్హ్య్ అవ్యాకృతమ్ ఆసీత్ తన్ నామ-రూపాభ్యాṁ వ్యాక్రియతేతి నామ-రూప-వ్యాకరణ-మాత్ర-శ్రవణాత్ క్షేత్రజ్ఞానాṁ స్వరూపానాదిత్వṁ సిద్ధమ్। ఉపపద్యతే క్షేత్రజ్ఞ-స్వరూపానాదిత్వేఽపి నామ-రూప-విభాగాభావాద్ అవిభాగ-శ్రుతిః; అన్యథా అకృతాభ్యాగమ-కృత-విప్రణాశ-ప్రసఙ్గాత్। ఉపలభ్యతే చ శ్రుతి-స్మృత్యోః క్షేత్రజ్ఞానామ్ అనాదిత్వమ్, జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశనీశౌ, నిత్యో నిత్యానామ్, ప్రకృతిṁ పురుషṁ చైవ విద్ధ్య్ అనాదీ ఉభావ్ అపి, న జాయతే, ఇత్య్ ఆదిభిః॥౩౫॥
Link copied౧౭౪। సర్వ-ధర్మోపపత్తేశ్ చ॥౨।౧।౩౬॥
Link copiedప్రధాన-పరమాణ్వ్-ఆదిష్వ్ అనుపపన్నానాṁ స్వ-పక్ష-దోషాద్ ఇత్య్ ఆదిషూక్తానాṁ సర్వేషాṁ ధర్మాణాṁ కారణత్వోపపాదకానాṁ బ్రహ్మణ్య్ ఉపపత్తేశ్ చ బ్రహ్మైవ కారణమ్। ప్రధాన-పరమాణ్వ్-ఆదీనాṁ పరిమిత-శక్తికత్వాల్ లోక-దృష్ట-వస్తు-సజాతీయత్వాచ్ చ అనుపపత్తయః సహస్త్రశః సన్తి। బ్రహ్మణః శాస్త్రైక-సమధిగమ్యతయా సకలేతర-విసజాతీయత్వేనాచిన్త్య-శక్తిత్వాత్ సర్వ-శక్తిత్వ-శ్రుతేశ్ చ సర్వమ్ ఉపపన్నమ్ ఇత్య్ అర్థః॥౩౬॥ ఇతి ప్రయోజనవత్త్వాధికరణమ్॥౧౦॥
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితే శ్రీ-వేదాన్తదీపే ద్వితీయస్యాధ్యాయస్య ప్రథమః పాదః॥
Link copied139. smṛty-anavakāśa-doṣa-prasaṅga iti cen nānya-smṛty-anavakāśa-doṣa-prasaṅgāt||2|1|1||
Link copiedvedāntānāṁ samasta-cid-acid-vastu-vilakṣaṇāspṛṣṭa-heya-gandha-sarvajñatādy-ananta-kalyāṇa-guṇākara-brahmaika-paratvaṁ pratipāditaṁ kapila-smṛti-virodhena cālayituṁ śakyam, uta neti saṁśayaḥ| śakyam iti pūrvaḥ pakṣaḥ, śruti-viruddhāyāḥ smṛter anādaraṇīyatve sthite'pi vedānta-vedyārthasya durgrahatvena alpa-śrutair manda-matibhir āpta-praṇīta-smṛty-upabṛṁhaṇena vinā teṣāṁ niścayo nopapadyate| kapila-smṛtiḥ kevala-tattva-pareti tayaiva hy upabṛṁhaṇaṁ nyāyyam| anyathā āpta-praṇītāyāḥ kevala-tattva-parāyās tasyā anavakāśa-prasaṅga iti vedānta-vedyaṁ jagat-kāraṇaṁ pradhānam| rāddhāntas tu--- vedāntasyopabṛṁhaṇāpekṣatve'py āptatama-manv-ādi-smṛtibhir vedāntāvirodhinībhir evopabṛṁhaṇaṁ nyāyyam, anyathā tāsāṁ bahvīnām anavakāśa-prasaṅgo mahān ayaṁ doṣaḥ syāt| na ca tāsāṁ dharma-pratipādanāṁśopabṛṁhaṇatvena sāvakāśatvam, yato dharmāṇām api svarūpaṁ parabrahma-bhūta-parama-puruṣārādhanatvam, iṣṭāpūrtaṁ bahudhā jātaṁ jāyamānaṁ viśvaṁ bibharti bhuvanasya nābhiḥ| tad edhāgnis tad vāyus tat sūryas tad u candramāḥ, yajñais tvam ijyase nityaṁ sarva-deva-mayācyuta, ity ādi śruti-smṛtibhiḥ| sūtram api vyākhyātam||1||
Link copiedatīndriyārtha-sākṣātkāra-samarthasya kapilasya vedāntānāṁ brahma-paratvānupalabdheḥ pradhāna-paratvam evāśrayaṇīyam ity ata uttaraṁ paṭhati---
Link copied140. itareṣāṁ cānupalabdhaḥ||2|1|2||
Link copieditareṣāṁ manv-ādīnāṁ veda-vid-agresarāṇāṁ sarvātīndriyārtha-sākṣātkāra-samarthānāṁ pradhāna-paratvānupalabdher brahma-paratvopalabdheś ca brahma-paratva-meghāśrayaṇīyam; vedānta-pratipannārtha-viruddhāyās tu kapilopalabdher bhrānti-mūlatvaṁ kalpayitavyam||2|| iti smṛty-adhikaraṇam||1||
Link copied141. etena yogaḥ pratyuktaḥ||2|1|3||
Link copiedkiṁ vedāntānāṁ yoga-smṛtyopabṛṁhaṇaṁ nyāyyam, uta neti saṁśayaḥ| nyāyyam iti pūrvaḥ pakṣaḥ, kṛtsna-veda-pravartanādhikṛta-hiraṇyagarbha-praṇītatvād yogasya, īśvara-sad-bhāvābhyupagamāc ca| ato yoga-smṛtyopabṛṁhitatvena vedāntānām abrahmātmaka-pradhānopādāna-pratipādana-paratvam| rāddhāntas tu--- kapila-smṛtivad veda-viruddhtvāviśeṣād anādaraṇīyaiva yoga-smṛtiḥ; hiraṇyagarbhasyāpi kṣetrajñatvena bhrama-sambhavāt yoga-smṛter api bhrānti-mūlakatvam| sūtram api vyākhyātam||3|| iti yoga-pratyuktādhikaraṇam||2||
Link copied142. na vilakṣaṇatvād asya tathātvaṁ ca śabdāt||2|1|4||
Link copiedkiṁ vedāntānāṁ jagat-kāraṇatayā pradhāna-paratvam, uta brahma-paratvam iti saṁśayaḥ| pradhāna-paratvam iti pūrvaḥ pakṣaḥ, ajñatvādinā jagato brahma-vilakṣaṇatvena brahma-kāryatva-pratipādanāsambhavāt, sālakṣaṇyena pradhāna-kāryatva-pratipādana-paratvasya ca sambhavāt| rāddhāntas tu--- mākṣikādibhyaḥ krimyādīnāṁ vilakṣaṇānām utpatti-darśanāt brahma-vilakṣaṇasya jagataḥ tat-kāryatvaṁ sambhavatyeva iti| sūtrārthas tu --- ajñatvenāsukhatvena copalabdhasya cāsya cid-acin-miśrasya jagataḥ sarva-jñād dheya-pratyanīkān niratiśayānandād brahmaṇo vilakṣaṇatvena jagato brahma-kāryatva-pratipādanaṁ vedāntānāṁ na sambhavati| tathātvaṁ--- vilakṣaṇatvaṁ ca śabdād avagamyate, na kevalaṁ pratyakṣādy-upalabddhyā, vijñānaṁ cāvijñānaṁ ca, anīśayā śocati muhyamānaḥ, anīśaś cātmā badhyate bhoktṛ-bhāvāt, ity ādeḥ||4||
Link copiedāpo vā akāmayanta, taṁ pṛthivy abravīt, ity ādau pṛthivy-āder api jñāna-kāryaṁ vyapadiśyate; tasmāt--- avijñānaṁ cety etad anya-param ity ata uttaraṁ paṭhati---
Link copied143. abhimāni-vyapadeśas tu viśeṣānugatibhyām||2|1|5||
Link copiedtu-śabdaś codyaṁ vyāvartayati; pṛthivy-ādy-abhimāni-devatānām ayaṁ vyapadeśaḥ| kuto'vagamyate, viśeṣānugatibhyāṁ--- viśeṣaḥ, viśeṣaṇam, hantāham imās tisro devatāḥ, iti pṛthivy-āder devatā-śabdena viśeṣaṇaṁ dṛśyate, sarvā ha vai devatā ahaṁ śreyase vivadamānāḥ, iti ca vāg-ādi-prāṇa-paryantasya ca| tathānugatiḥ--- anupraveśaḥ, agny-ādīnāṁ vāg-ādy-anupraveśo dṛśyate, agnir vāg bhūtvā mukhaṁ prāviśat ādityaś cakṣur bhūtvākṣiṇī prāviśat vāyuḥ prāṇo bhūtvā nāsike prāviśad ity ādau||5||
Link copied144. dṛśyate tu||2|1|6||
Link copiedtu-śabdaḥ pakṣaṁ vyāvartayati, mākṣikādibhyo vilakṣaṇānāṁ krimy-ādīnām utpattir dṛśyate; ato brahma-vilakṣaṇasyāpi jagatas tat-kāryatvaṁ sambhavati||6||
Link copied145. asad iti cen na pratiṣedha-mātratvāt||2|1|7||
Link copiedyadi kāryasya kāraṇād vilakṣaṇa-dravyatvam abhyupagamyate, tarhi kāraṇe kāryaṁ na sad bhavatīty asat-kārya-vādo'bhyupagataḥ syāt; tathā sati--- sarvaṁ khalv idaṁ brahmeti sāmānādhi-karaṇya-vyapadeśo na ghaṭata iti cet tan na, kārya-kāraṇayoḥ sālakṣaṇya-niyama-pratiṣedha-mātratvād asmābhiḥ pūrvam abhihitasya| kārya-kāraṇayor eka-dravyatvaṁ svīkṛtam eva| ekam eva kāraṇāvasthaṁ dravyaṁ kāryāvasthāṁ bhajamānaṁ salakṣaṇāvasthām api bhajate, vilakṣaṇāvasthām apīty arthaḥ||7||
Link copied146. apītau tadvat prasaṅgād asamañjasam||2|1|8||
Link copiedyadi brahmaiva sarva-jñaṁ satya-saṅkalpaṁ niratiśayānandam apahata-pāpmatvādi-svarūpaṁ tad-viparīta-jagad-avasthāṁ bhajate tarhi piṇḍatva-ghaṭatvāvastha-mṛd-dravyavat sarva-jñatvam apahata-pāpmatvam ajñatvaṁ karma-vaśyatvaṁ ca brahmaṇaḥ prasajyeteti viruddhārthābhidhānād vedānta-vākyam asamañjasaṁ syāt| apītāv iti sṛṣṭy-ādeḥ pradarśanārtham| jagato brahmaṇy apītau brahmaṇa utpattāv apīty arthaḥ| apītir apyayaḥ||8||
Link copied147. na tu dṛṣṭānta-bhāvāt||2|1|9||
Link copiedna brahmaṇy ajñatvādayaḥ prasajyeran; ata eva na vedāntānām asāmañjasyam| tu-śabdaḥ prasaktasyāsambhāvanīyatāṁ dyotayati| ekasyaivāvasthā-dvayānvaye'pi guṇa-doṣa-vyavasthāyāṁ dṛṣṭānta-sad-bhāvāt, yathā manuṣyo jāto bālo yuvā sthaviro bhavatīty atra manuṣya-śarīrakasya cetanasyaiva sarvāvasthānvaye'pi janma-bālatva-yuvatva-sthaviratvādīni nātmani saṅgacchante; tathā jñāna-sukha-duḥkhādayaś ca na śarīre| evaṁ cid-acid-vastu-śarīrakasya parasya brahmaṇaḥ kārya-kāraṇobhayāvasthānvaye'pi karma-vaśyatvājñatvādayaḥ śarīra-bhūta-cid-acid-vastu-gatāḥ| apahata-pāpmatva-sarvajñatvādayaḥ paramātmany ātma-bhūte'vatiṣṭhante| sarvāvasthasya cid-acid-vastuno brahma-śarīratvam, brahmaṇaś ca tad-ātmatvam, yasya pṛthivī śarīram ity ādy antaryāmi-brāhmaṇādiṣv avagatam iti na kaścid virodhaḥ||9||
Link copied148. sva-pakṣa-doṣāc ca||2|1|10||
Link copiedna kevalaṁ brahma-kāraṇa-vādasya nirdoṣatayā tat-samāśrayaṇam, pradhāna-kāraṇa-vāde doṣāc caitat parityajya sa eva samāśrayaṇīyaḥ| pradhāna-kāraṇa-vāde hi nirvikārasya cin-mātrasya puruṣasya prakṛti-sannidhāna-kṛta-tad-dharmādhyāsa-mūlā jagat-pravṛttir abhyupagamyate; tatra prakṛti-sad-bhāva-mātre sannidhāne sati muktasyāpi tad-dharmādhyāsa-prasaṅgaḥ; vikāra-viśeṣe sati sannidhāne kṛtsnasya vikārasyādhyāsa-pūrvakatvān nādhyāsasya vikāro hetur iti viruddhārthābhidhānād asāmañjasya doṣa iti na tat-pakṣa-sambhava-gandhaḥ||10||
Link copied149. tarkāpratiṣṭhānād api||2|1|11||
Link copiedkāpila-tantrasya tarka-mūlatvena śākyādi-tarka-pratihatatayāsya tarkasyāpratiṣṭhitatvāc ca na tat-pakṣa-sambhavaḥ||11||
Link copied150. anyathānumeyam iti ced evam apy anirmokṣa-prasaṅgaḥ||2|1|12||
Link copieditaḥ pūrvaṁ vidyamānais tarkair apratihatatvaṁ yathā sambhavati, tathā pradhāna-kāraṇavādam anumāsyāmaha iti cet tathāpi tarkāpratiṣṭhāna-doṣād anirmokṣa-prasaṅgo durvāraḥ; tvad-adhika-kutarka-kuśala-sad-bhāva-sambhavāt||12|| iti vilakṣaṇatvādhikaraṇam||3||
Link copied151. etena śiṣṭāparigrahā api vyākhyātāḥ||2|1|13||
Link copiedna parigṛhyante vaidikair ity aparigrahāḥ; śiṣṭāś ca te aparigrahāś ca śiṣṭāparigrahāḥ| etena--- tarkāpratiṣṭhāna-lakṣaṇa-kapila-smṛti-nirasana-hetunā, pariśiṣṭāḥ kaṇabhakṣādi-smṛtayo'pi nirastā vyākhyātāḥ| paramāṇu-kāraṇa-vādaḥ sarva-sammata iti na teṣāṁ tarkasyāpratiṣṭhitatvam ity adhikāśaṅkā| tarka-mūlatvāviśeṣāt paramāṇūnāṁ śūnyatvād dravyatvādi-vivādāc ca, tarkasyāpratiṣṭhitatvam eveti parihāraḥ||13|| iti śiṣṭāparigrahādhikaraṇam||4||
Link copied152. bhoktrāpatter avibhāgaś cet syāl lokavat||2|1|14||
Link copiedsarvātma-bhūtasya parasya brahmaṇaḥ sva-śarīra-bhūtāj jīvān niratiśayānanda-svabhāvatayā yo vibhāga uktaḥ, sa kiṁ vibhāgas sambhavati, uta neti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ| sarva-cid-acid-vastu-śarīratayā saśarīratvād brahmaṇaḥ, saśarīrasya ca sukha-duḥkhayor bhoktṛtvāpatteḥ| tad-āpattiś ca--- na ha vai saśarīrasya sataḥ priyāpriyayor apahatir asty aśarīraṁ vāva santaṁ na priyāpriye spṛśataḥ, iti śruteḥ| rāddhāntas tu--- syād eva vibhāgo jīvāt parasyākarma-vaśyatayā| na saśarīratva-prayuktaḥ sukha-duḥkha-yogaḥ, api tu śāstra-vaśyatayā tad-ativṛtti-kṛtaḥ; sa ekadhā bhavati tridhā bhavatīty ādināvagata-śarīrasya muktasya saśarīrasyāpy aśāstra-vaśyatayā nirasta-nikhila-duḥkhatva-darśanāt| yathā loke rāja-śāsana-vaśyānāṁ tac-chāsanātivṛtti-nimitta-duḥkhānvaye'pi rājñaḥ saśarīrasyāpi prakārāntareṇa sādharmye'pi sva-śāsanāvaśyatayā na tad-ativṛtti-kṛta-duḥkhānvayaḥ| vibhāgaḥ vailakṣaṇyam| sūtram api vyākhyātam||14|| iti bhoktrāpatty-adhikaraṇam||5||
Link copied153. tad-ananyatvam ārambhaṇa-śabdādibhyaḥ||2|1|15||
Link copiedkiṁ brahma-kāryaṁ jagad brahmaṇo'nyat, utānanyad iti saṁśayaḥ| anyad iti pūrvaḥ pakṣaḥ, tathopalabdheḥ| na hi buddhi-śabdāntarādayaḥ kāraṇāt kāryasyānanyatve kathañcid upapadyante; kāraka-vyāpāra-vaiyarthyaṁ cānanyatve| ato vastu-virodhād ananyatva-śrutayo lakṣaṇayā neyāḥ| rāddhāntas tu--- vācārambhaṇaṁ vikāro nāmadheyaṁ mṛttikety eva satyam, sad eva somyedam agra āsīd ekam evādvitīyaṁ tad aikṣata bahu syāṁ prajāyeyeti tat tejo'sṛjata, aitadātmyam idaṁ sarvaṁ tat satyaṁ sa ātmā tat tvam asi śvetaketo, sarvaṁ khalv idaṁ brahma taj jalān iti, tad dhedaṁ tarhy avyākṛtam āsīt tan nāma-rūpābhyāṁ vyākriyata, ity ādi śruti-śata-siddhaṁ kāryasya jagataḥ kāraṇād brahmaṇo'nanyatvam| na cātra vastu-virodha-gandhaḥ; kāraṇībhūta-mṛd-ādi-dravyasyaiva pṛthu-budhnodarādy-avasthāntarāpattyā buddhi-śabdāntarādayo'py upapadyante| tata eva kāraka-vyāpārādy-arthavattvaṁ ca| evaṁ kāraṇasyaiva kāryāvasthāyām api pratyabhijñāyamānasyāvasthāntarāpattyaiva sarveṣūpapanneṣv anupalabdha-dravyāntara-kalpanā na sambhavati| tasmād brahma-kāryaṁ jagad brahmaṇo'nanyad eva| sūtrārthas tu--- tasmād brahmaṇaḥ, ananyatvaṁ kāryasya jagata ārambhaṇa-śabdādibhyo vākyebhyas tad-upapādayadbhyo'vagamyate, ārambhaṇam iti śabda ādir yeṣāṁ pūrvoktānāṁ vākyānām, tāny ārambhaṇa-śabdādīni; tāny ananyatvam upapādayanti||15||
Link copied154. bhāve copalabdheḥ||2|1|16||
Link copiedghaṭādi-kāryaṁ bhāve ca tad evedaṁ mṛd-dravyam ittham avasthitam iti kāraṇasya upalabdheś ca kāraṇād ananyatvaṁ kāryasya| yathā devadattasya bālatva-yuvatvādy-avasthā-viśiṣṭasyānanyatvam||16||
Link copied155. sattvāc cāparasya||2|1|17||
Link copiedaparasya kāryasya kāraṇe sattvāc ca kāraṇād ananyat kāryam| sarvam idaṁ vaṭa-śarāvādi-kāryaṁ pūrvāhne mṛd evāsīd iti hi kāraṇe kāryam upalabhyate| ghaṭa-śarāvādi-saṁsthāna-saṁsthitam eva mṛd-dravyaṁ pūrva-kāle piṇḍākāram upalabdham ity arthaḥ||17||
Link copied156. asad-vyapadeśān neti cen na dharmāntareṇa vākya-śeṣādy-ukteś śabdāntarāc ca||2|1|18||
Link copiedasad evedam agra āsīt, idaṁ vā agre naiva kiñcanāsīt, ity ādiṣu kāraṇāvasthāyāṁ kāryasyāsattva-vyapadeśāt kāraṇe kāryaṁ sad ity etan nopapadyata iti cen na, sad iti vyapadeśa-hetu-bhūta-nāma-rūpāvasthā-virodhi-sūkṣmāvasthākhya-dharmāntareṇa yogād asad iti nyapadiśyate| katham idam avagamyate| vākya-śeṣādy-ukteś śabdāntarāc ca| vākya-śeṣas tāvat--- tad asad eva san mano'kuruta syām iti| asad iti vyapadiṣṭasyaiva manaskāra-pratipādanena asad-vyapadeśo dharmāntara-yogād ity avagamyate| yuktiś ca dharmāntara-yogam evāsad-vyapadeśa-hetum avagamayati| ghaṭo'sti ghaṭo nāstīti sad-asad-vyapadeśayor ghaṭatva-kapālatvayoḥ paraspara-virodhi-dharmayor eva hetutve siddhe tad-atiriktānupalabdha-tucchatvasya hetutva-kalpanānupapatteḥ| tathā śabdāntaraṁ ca--- sad eva somyedam agra āsīd iti samāna-prakaraṇa-stham asac-chabdaṁ dharmāntara-yoga-nimittam avagamayati||18||
Link copied157. paṭavac ca||2|1|19||
Link copiedyathā tantava eva vyatiṣaṅga-viśeṣa-bhājaḥ paṭa iti nāma-rūpābhyāṁ kāryāntarādikaṁ bhajante, tad brahmāpi||19||
Link copied158. yathā ca prāṇādiḥ||2|1|20||
Link copiedyathā ca vāyur eka eva śarīre vṛtti-viśeṣaṁ bhajamānaḥ prāṇāpānādi-nāma-rūpa-kāryāntarāṇi bhajate, tad brahmāpīti tad ananyatvaṁ jagatas siddham||20|| ity ārambhaṇādhikaraṇam||6||
Link copied159. itara-vyapadeśād dhitākaraṇādi-doṣa-prasaktiḥ||2|1|21||
Link copiedbrahmaṇo jagat-kāraṇatvaṁ sambhavati neti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ, ayam ātmā brahma, tat tvam asīti sāmānādhikaraṇyena jīvo brahmety avagamāt, jagat-sargasya ca jīva-duḥkha-hetutvāt, ātma-hitākaraṇādi-doṣa-prasakteḥ sarva-jñasya satya-saṅkalpasya brahmaṇo jagat-kāraṇatvānupapatteḥ| jīva-parayor bheda-vādinyaḥ śrutayaḥ, jagad-brahmaṇor ananyatvaṁ vadatā tvayaiva parityaktāḥ, bhede saty ananyatvāsiddheḥ| aupādhika-bheda-viṣayā bheda-śrutayaḥ, svābhāvikābheda-viṣayā abheda-śrutaya iti cet; tatredaṁ vaktavyam--- svabhāvataḥ svasmād abhinnaṁ jīvaṁ kim anupahitaṁ jagat-kāraṇaṁ brahma jānāti na vā| na jānāti cet, sarva-jñatva-hāniḥ| jānāti cet, svasmād abhinnasya jīvasya duḥkhaṁ sva-duḥkham iti jānato brahmaṇo hitākaraṇāhita-karaṇādi-doṣa-prasaktir anivāryā| jīva-brahmaṇor ajñāna-kṛto bhedaḥ, tad-viṣayā bheda-śrutir iti cet; tatrāpi jīvājñāna-pakṣe pūrvokto doṣas tat-phalaṁ ca tad-avastham eva| brahmājñāna-pakṣe sva-prakāśa-svarūpasya brahmaṇo'jñāna-sākṣitvaṁ tat-kṛta-jagat-sṛṣṭiś ca na sambhavati; ajñānena prakāśas tirohitaś cet, tirodhānasya prakāśa-nivṛtti-karatvena prakāśasyaiva svarūpatvāt svarūpa-nivṛttir eveti svarūpa-nāśādi-doṣāḥ bhāṣye prapañcitāḥ| rāddhāntas tu--- asmān māyī sṛjate viśvam etat tasmiṁś cānyo māyayā sanniruddhaḥ, tayor anyaḥ pippalaṁ svādv atty anaśnann anyo abhicākaśīti, pradhāna-kṣetrajña-patir guṇeśaḥ, pṛthag ātmānaṁ preritāraṁ ca matvā, ity ādibhiḥ pratyagātmano'rthāntara-bhūtaṁ brahmety avagamāt, jīva-karmānuguṇatayā jagat-sargasya ca brahmaṇo līlā-prayojanatvāt, jagat-kāraṇatvaṁ sambhavaty eva| tat tvam asy ādi sāmānādhikaraṇya-nirdeśaḥ, yasyātmā śarīram ity ādi śruter jīvasya brahma-śarīratvāt tac-charīratayā jīva-prakāraka-brahma-pratipādana-paraḥ| sūkṣma-cid-acid-vastu-śarīraṁ brahma kāraṇāvastham, sthūla-cid-acid-vastu-śarīraṁ brahmaiva kāryāvastham iti kārya-kāraṇayor ananyatvam| evam api śarīra-bhūtayoś cid-acid-vastunoḥ śarīriṇo brahmaṇaś ca duḥkhitva-pariṇāmitva-heya-pratyanīkatva-kalyāṇa-guṇākaratva-svabhāvāsvarūpa-viveka-viṣaya-śruti-siddhās tathaiva vyavasthitā iti brahmaṇo jagat-kāraṇatvaṁ sambhavaty eva| sūtrārthas tu--- itara-vyapadeśād dhitākaraṇādi-doṣa-prasaktiḥ--- brahmaṇa itaraḥ jīvaḥ, brahmaṇo jīvatayā vyapadeśāt, jīvasya ca duḥkhitvāt, hita-rūpa-jagad-akaraṇam ahita-rūpa-jagat-karaṇam ity ādi doṣa-prasaktir brahmaṇaḥ| ato brahmaṇo jagat-kāraṇatvaṁ na sambhavatīti||21||
Link copiedata uttaraṁ paṭhati---
Link copied160. adhikaṁ tu bheda-nirdeśāt||2|1|22||
Link copiedtu-śabdaḥ pakṣa-vyāvṛtty-arthaḥ| pratyagātmanaḥ adhikam--- arthāntara-bhūtaṁ brahma| kutaḥ| bheda-nirdeśāt--- sa kāraṇaṁ karaṇādhipādhipaḥ, pradhāna-kṣetrajña-patir guṇeśaḥ, pṛthag ātmānaṁ preritāraṁ ca matvā, ity ādibhyaḥ pratyagātmano jīvād brahmaṇo hi bhedo nirdiśyate||22||
Link copied161. aśmādivac ca tad-anupapattiḥ||2|1|23||
Link copiedaśma-kāṣṭha-loṣṭha-tṛṇāder acetanasyevānanta-duḥkhākara-jīvasya niratiśayānanda-satya-saṅkalpa-brahma-bhāvānupapattiś ca| na kevalaṁ bheda-śrutyārthāntaratvam avagamyate, vastv-anupapattyā cety arthaḥ| jīva-sāmānādhikaraṇya-nirdeśaḥ, yasyātmā śarīram ity ādi śruti-śata-siddha-jīva-prakāraka-brahma-pratipādana-para iti, avasthiter iti kāśakṛtsna ity atraiva pratipāditaḥ||23|| itītara-vyapadeśādhikaraṇam||7||
Link copied162. upasaṁhāra-darśanān neti cen na kṣīravad dhi||2|1|24||
Link copiedbrahmaṇo jagat-kāraṇatvaṁ sambhavati, na veti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ; loke kārya-janana-samarthasyāpi vastunas tat-tat-kārya-janane aneka-kārakopasaṁhāra-darśanād vicitra-jagaj-janana-samarthasyāpi brahmaṇo'sahāyasya janayitṛtvānupapatteḥ| rāddhāntas tu--- kṣīrasya dadhi-bhāve'nanyāpekṣatva-darśanān nāneka-kārakopasaṁhāra-niyamo dṛśyata iti brahmaṇo'nanyāpekṣasyaiva kāraṇatvaṁ sambhavaty eva| sūtram api vyākhyātam| kṣīravad dhīti prasiddhavan nirdeśaś codya-māndya-paraḥ||24||
Link copied163. devādivad api loke||2|1|25||
Link copiedyathā devādayaḥ sve sve loke svāpekṣitāni sva-saṅkalpād eva sṛjanti; tathā brahmāpi--- devādeḥ śāstrāvaseya-śaktitayā brahma-tulyatve'pi devādi-grahaṇaṁ brahmaṇo vicitra-śaktitvasya sugrahaṇāyeti mantavyam||25|| ity upasaṁhāra-darśanādhikaraṇam||8||
Link copied164. kṛtsna-prasaktir niravayavatva-śabda-kopo vā||2|1|26||
Link copiedbrahmaṇo jagat-kāraṇatvaṁ sambhavati, neti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ; niravayavasya brahmaṇo jagad-upādānatve kṛtsnasya brahmaṇo jagad-ākāreṇopayoga-prasaṅgāt; tat-parijihīrṣayā sāvayavābhyupagame, sad eva somyedam agra āsīd ekam evādvitīyam ity ādi kāraṇāvasthāyāṁ niravayavatva-vāci-śabdo bādhyeta| yady api sūkṣma-cid-acid-vastu-śarīraṁ brahma kāraṇam, sthūla-cid-acid-vastu-śarīraṁ brahma kāryam ity abhyupagamyate; tathāpi śarīry-aṁśasyāpi kāryatvābhyupagamāt kṛtsna-prasaktir niravayavatva-śabda-bādho vā| rāddhāntas tu--- sakaletara-visajātīyaṁ śruty-aika-samadhigamyaṁ sarva-śakti-yuktaṁ brahma niravayavam api kāryaṁ ca bhavati, anyac ca bhavatīti parimita-śakti-vastu-codyaṁ na tatra prasajyate| yathā jāti-vādino jātir ekaivāmūrtā khaṇḍa-muṇḍādiṣv atyanta-vilakṣaṇeṣv ananteṣv api parisamāpyaiva vartate; na tatretara-vastu-codyam iti| ato brahmaṇo jagat-kāraṇatvaṁ sambhavaty eva| sūtrārthas tu--- kṛtsna-prasaktir niravayavatva-śabda-kopo vā--- brahma-kāraṇatve kṛtsnasya brahmaṇaḥ kāryatvenopayoga-prasaṅgaḥ, niravayavatvāt| sāvayavatve niravayavatva-śabda-kopo vā--- niravayavatva-vādi-śabda-bādha-prasaṅga ity arthaḥ||26||
Link copied165. śrutes tu śabda-mūlatvāt||2|1|27||
Link copiedtu-śabdaḥ pakṣa-vyāvṛtty-arthaḥ| śruteḥ--- śruti-prāmāṇyān naivaṁ prasajyate; śabda-mūlatvāt--- śabdaika-mūlatvena sakaletara-vijātīyatvād ity arthaḥ||27||
Link copied166. ātmani caivaṁ vicitrāś ca hi||2|1|28||
Link copiedātmani caivaṁ--- jīvātmany acetana-dharmāprasaktiś caivam--- acetana-vijātīyatvād evety arthaḥ| vicitrāś ca hi--- acetaneṣu ca visajātīyeṣv agni-jalādiṣu vicitrā hi śaktayo dṛśyante| evaṁ paramātmanaś cetanācetana-visajātīyasya vicitrāḥ śaktaya upapadyante||28||
Link copied167. sva-pakṣa-doṣāc ca||2|1|29||
Link copiedpradhānādi-kāraṇa-pakṣe doṣāc ca brahmaiva jagat-kāraṇam| tatra hi laukika-vastu-sajātīyatvena pradhānāder ukta-doṣo'nye ca prasajyeran||29||
Link copied168. sarvopetā ca tad-darśanāt||2|1|30||
Link copiedna kevalaṁ sakaletara-visajātīyatvena sarva-śakty-upetā parā devatety ucyate; tad-darśanāt--- sarva-śakti-yoga-śruter ity arthaḥ| darśayatīti darśanaṁ śrutiḥ, parāsya śaktir vividhaiva śrūyate, ity ādikā||30||
Link copied169. vikaraṇatvān neti cet tad uktam||2|1|31||
Link copieduktasyārthasya draḍhimne codya-pūrvakaṁ pūrvoktaṁ smārayati--- vikaraṇatvāt, karaṇa-virahitatvād brahma na kāraṇam iti cet, na tasya kāryaṁ karaṇaṁ ca vidyate, iti hi śrūyate| tad uktam--- atra yad vaktavyam, tat pūrvam evoktam, śabda-mūlatvāt, vicitrāś ca hīti| ayam eva parihāraḥ--- śabdaika-mūlatvena sakaletara-visajātīyatvād brahmaṇaḥ, visajātīyānāṁ ca śakti-vaicitryasya loka-dṛṣṭatvāt sarvam upapannam ity arthaḥ||31|| iti kṛtsna-prasakty-adhikaraṇam||9||
Link copied170. na prayojanavatvāt||2|1|32||
Link copiedbrahmaṇo jagat-kāraṇatvaṁ sambhavati, neti saṁśayaḥ| na sambhavatīti pūrvaḥ pakṣaḥ; buddhi-pūrvārambhāṇāṁ saprayojanatvāt, īśvarasya ca svata evāvāpta-samasta-kāmasya jagat-sṛṣṭy-ārambhe prayojana-bhāvād garbhavāsādi-duḥkha-rūpatvāt sṛṣṭeḥ, parānugraheṇāpi na saprayojanatvam iti| rāddhāntas tu--- paripūrṇasyāpīśvarasya kevala-līlā-prayojanāya jagat-sṛṣṭy-ādy-ārambhaḥ sambhavati| yathā loke sapta-dvīpavatīṁ medinīm adhitiṣṭhato mahārājasya paripūrṇasyāpi kevala-līlaika-phalāḥ kandukādy-ārambhā dṛśyante, tadvad īśvarasyāpi prayojanāya jagat-sṛṣṭy-ārambhaḥ sambhavati| sūtrārthas tu--- na prayojanavattvāt--- prayojanavattvāt sṛṣṭer īśvarasya svataḥ paripūrṇasya prayojanābhāvān na sraṣṭṛtvam||32||
Link copied171. lokavat tu līlā-kaivalyam||2|1|33||
Link copiedlīlā-kaivalyaṁ--- līlāyāḥ prayojanatve kaivalyaṁ sambhavati; kevalāyā līlāyāḥ sṛṣṭy-ārambha-prayojanatvaṁ sambhavatīty arthaḥ| lokavat--- yathā loke rājñaḥ kandukādy-ārambhe||33||
Link copieddeva-manuṣyādi-viṣama-sṛṣṭyā pakṣa-pāta-prasaṅgād durviṣaha-duḥkha-garbhatvena nairghṛṇya-prasaṅgāc ca, parama-kāruṇikasya parama-puruṣasya paripūrṇasya līlārtham api jagat-sargo na sambhavatīty āśaṅkyāha---
Link copied172. vaiṣamya-nairghṛṇye na sāpekṣatvāt tathā hi darśayati||2|1|34||
Link copiedīśvarasya vicitra-jagat-sṛṣṭau devādi-vaiṣamya-prayukta-pakṣa-pātaḥ, duḥkha-prada-jagat-sarge nairghṛṇyaṁ ca na sambhavataḥ; vaiṣamyādāv īśvarasya kṣetrajña-karma-sāpekṣatvāt| kṣetrajñānāṁ pūrva-pūrva-karma paryālocya, tat-tat-karmānuguṇaṁ viṣamaṁ jagat sṛjatīti tat-karmaiva vaiṣamyādi-hetur ity arthaḥ| tathā devādi-deha-yogaṁ kṣetrajñānāṁ tat-karma-sāpekṣaṁ darśayati hi śrutiḥ, sādhu-kārī sādhur bhavati pāpa-kārī pāpo bhavatīti||34||
Link copied173. na karmāvibhāgād iti cen nānāditvād upapadyate cāpy upalabhyate ca||2|1|35||
Link copiedsṛṣṭeḥ prāk karma na vidyate kṣetrajñābhāvāt; tad-abhāvaś ca, sad eva somyedam ity avadhāraṇāvagatād avibhāgād iti cet tan na, anāditvāt kṣetrajñānāṁ tat-tat-karma-pravāhāṇāṁ ca| upapadyate ca kṣetrajña-svarūpānāditve'pi nāma-rūpa-vibhāgābhāvād avibhāga-śrutiḥ| anyathā akṛtābhyāgama-kṛta-vipraṇāśa-prasaṅgāt| upalabhyate ca śruti-smṛtyoḥ kṣetrajñānām anāditvam--- tad dhedaṁ tarhy avyākṛtam āsīt tan nāma-rūpābhyāṁ vyākriyata, iti nāma-rūpa-vyākaraṇa-mātra-śravaṇāt kṣetrajñānāṁ svarūpānāditvaṁ siddham; jñājñau dvāv ajāv īśanīśau| nityo nityānām, prakṛtiṁ puruṣaṁ caiva viddhy anādī ubhāv api, iti| avibhāga-śrutir api nāma-rūpa-vibhāgābhāvād evopapadyata ity abhiprāyaḥ||
Link copied[atra pāṭhāntaram]
Link copiedsṛṣṭeḥ prāk karma na vidyate, kṣetrajñābhāvāt| tad-abhāvaś ca--- sad eva somyedam ity avadhāraṇāvagatād avibhāgād iti cet tan na, anāditvāt kṣetrajñānāṁ tat-tat-karma-pravāhāṇāṁ ca| tad dhedaṁ tarhy avyākṛtam āsīt tan nāma-rūpābhyāṁ vyākriyateti nāma-rūpa-vyākaraṇa-mātra-śravaṇāt kṣetrajñānāṁ svarūpānāditvaṁ siddham| upapadyate kṣetrajña-svarūpānāditve'pi nāma-rūpa-vibhāgābhāvād avibhāga-śrutiḥ; anyathā akṛtābhyāgama-kṛta-vipraṇāśa-prasaṅgāt| upalabhyate ca śruti-smṛtyoḥ kṣetrajñānām anāditvam, jñājñau dvāv ajāv īśanīśau, nityo nityānām, prakṛtiṁ puruṣaṁ caiva viddhy anādī ubhāv api, na jāyate, ity ādibhiḥ||35||
Link copied174. sarva-dharmopapatteś ca||2|1|36||
Link copiedpradhāna-paramāṇv-ādiṣv anupapannānāṁ sva-pakṣa-doṣād ity ādiṣūktānāṁ sarveṣāṁ dharmāṇāṁ kāraṇatvopapādakānāṁ brahmaṇy upapatteś ca brahmaiva kāraṇam| pradhāna-paramāṇv-ādīnāṁ parimita-śaktikatvāl loka-dṛṣṭa-vastu-sajātīyatvāc ca anupapattayaḥ sahastraśaḥ santi| brahmaṇaḥ śāstraika-samadhigamyatayā sakaletara-visajātīyatvenācintya-śaktitvāt sarva-śaktitva-śruteś ca sarvam upapannam ity arthaḥ||36|| iti prayojanavattvādhikaraṇam||10||
Link copiediti śrī-rāmānujācārya-viracite śrī-vedāntadīpe dvitīyasyādhyāyasya prathamaḥ pādaḥ||
Link copied