Skip to content

Vedanta Dipa · Section 6 of 17

||atha dvitīyādhyāye prathamaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

१३९। स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अनवकाश-दोष-प्रसङ्गात्॥२।१।१॥

Link copied

वेदान्तानाꣳ समस्त-चिद्-अचिद्-वस्तु-विलक्षणास्पृष्ट-हेय-गन्ध-सर्वज्ञताद्य्-अनन्त-कल्याण-गुणाकर-ब्रह्मैक-परत्वꣳ प्रतिपादितꣳ कपिल-स्मृति-विरोधेन चालयितुꣳ शक्यम्, उत नेति सꣳशयः। शक्यम् इति पूर्वः पक्षः, श्रुति-विरुद्धायाः स्मृतेर् अनादरणीयत्वे स्थितेऽपि वेदान्त-वेद्यार्थस्य दुर्ग्रहत्वेन अल्प-श्रुतैर् मन्द-मतिभिर् आप्त-प्रणीत-स्मृत्य्-उपबृꣳहणेन विना तेषाꣳ निश्चयो नोपपद्यते। कपिल-स्मृतिः केवल-तत्त्व-परेति तयैव ह्य् उपबृꣳहणꣳ न्याय्यम्। अन्यथा आप्त-प्रणीतायाः केवल-तत्त्व-परायास् तस्या अनवकाश-प्रसङ्ग इति वेदान्त-वेद्यꣳ जगत्-कारणꣳ प्रधानम्। राद्धान्तस् तु--- वेदान्तस्योपबृꣳहणापेक्षत्वेऽप्य् आप्ततम-मन्व्-आदि-स्मृतिभिर् वेदान्ताविरोधिनीभिर् एवोपबृꣳहणꣳ न्याय्यम्, अन्यथा तासाꣳ बह्वीनाम् अनवकाश-प्रसङ्गो महान् अयꣳ दोषः स्यात्। न च तासाꣳ धर्म-प्रतिपादनाꣳशोपबृꣳहणत्वेन सावकाशत्वम्, यतो धर्माणाम् अपि स्वरूपꣳ परब्रह्म-भूत-परम-पुरुषाराधनत्वम्, इष्टापूर्तꣳ बहुधा जातꣳ जायमानꣳ विश्वꣳ बिभर्ति भुवनस्य नाभिः। तद् एधाग्निस् तद् वायुस् तत् सूर्यस् तद् उ चन्द्रमाः, यज्ञैस् त्वम् इज्यसे नित्यꣳ सर्व-देव-मयाच्युत, इत्य् आदि श्रुति-स्मृतिभिः। सूत्रम् अपि व्याख्यातम्॥१॥

Link copied

अतीन्द्रियार्थ-साक्षात्कार-समर्थस्य कपिलस्य वेदान्तानाꣳ ब्रह्म-परत्वानुपलब्धेः प्रधान-परत्वम् एवाश्रयणीयम् इत्य् अत उत्तरꣳ पठति---

Link copied

१४०। इतरेषाꣳ चानुपलब्धः॥२।१।२॥

Link copied

इतरेषाꣳ मन्व्-आदीनाꣳ वेद-विद्-अग्रेसराणाꣳ सर्वातीन्द्रियार्थ-साक्षात्कार-समर्थानाꣳ प्रधान-परत्वानुपलब्धेर् ब्रह्म-परत्वोपलब्धेश् च ब्रह्म-परत्व-मेघाश्रयणीयम्; वेदान्त-प्रतिपन्नार्थ-विरुद्धायास् तु कपिलोपलब्धेर् भ्रान्ति-मूलत्वꣳ कल्पयितव्यम्॥२॥ इति स्मृत्य्-अधिकरणम्॥१॥

Link copied

१४१। एतेन योगः प्रत्युक्तः॥२।१।३॥

Link copied

किꣳ वेदान्तानाꣳ योग-स्मृत्योपबृꣳहणꣳ न्याय्यम्, उत नेति सꣳशयः। न्याय्यम् इति पूर्वः पक्षः, कृत्स्न-वेद-प्रवर्तनाधिकृत-हिरण्यगर्भ-प्रणीतत्वाद् योगस्य, ईश्वर-सद्-भावाभ्युपगमाच् च। अतो योग-स्मृत्योपबृꣳहितत्वेन वेदान्तानाम् अब्रह्मात्मक-प्रधानोपादान-प्रतिपादन-परत्वम्। राद्धान्तस् तु--- कपिल-स्मृतिवद् वेद-विरुद्ध्त्वाविशेषाद् अनादरणीयैव योग-स्मृतिः; हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रम-सम्भवात् योग-स्मृतेर् अपि भ्रान्ति-मूलकत्वम्। सूत्रम् अपि व्याख्यातम्॥३॥ इति योग-प्रत्युक्ताधिकरणम्॥२॥

Link copied

१४२। न विलक्षणत्वाद् अस्य तथात्वꣳ च शब्दात्॥२।१।४॥

Link copied

किꣳ वेदान्तानाꣳ जगत्-कारणतया प्रधान-परत्वम्, उत ब्रह्म-परत्वम् इति सꣳशयः। प्रधान-परत्वम् इति पूर्वः पक्षः, अज्ञत्वादिना जगतो ब्रह्म-विलक्षणत्वेन ब्रह्म-कार्यत्व-प्रतिपादनासम्भवात्, सालक्षण्येन प्रधान-कार्यत्व-प्रतिपादन-परत्वस्य च सम्भवात्। राद्धान्तस् तु--- माक्षिकादिभ्यः क्रिम्यादीनाꣳ विलक्षणानाम् उत्पत्ति-दर्शनात् ब्रह्म-विलक्षणस्य जगतः तत्-कार्यत्वꣳ सम्भवत्येव इति। सूत्रार्थस् तु --- अज्ञत्वेनासुखत्वेन चोपलब्धस्य चास्य चिद्-अचिन्-मिश्रस्य जगतः सर्व-ज्ञाद् धेय-प्रत्यनीकान् निरतिशयानन्दाद् ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्म-कार्यत्व-प्रतिपादनꣳ वेदान्तानाꣳ न सम्भवति। तथात्वꣳ--- विलक्षणत्वꣳ च शब्दाद् अवगम्यते, न केवलꣳ प्रत्यक्षाद्य्-उपलब्द्ध्या, विज्ञानꣳ चाविज्ञानꣳ च, अनीशया शोचति मुह्यमानः, अनीशश् चात्मा बध्यते भोक्तृ-भावात्, इत्य् आदेः॥४॥

Link copied

आपो वा अकामयन्त, तꣳ पृथिव्य् अब्रवीत्, इत्य् आदौ पृथिव्य्-आदेर् अपि ज्ञान-कार्यꣳ व्यपदिश्यते; तस्मात्--- अविज्ञानꣳ चेत्य् एतद् अन्य-परम् इत्य् अत उत्तरꣳ पठति---

Link copied

१४३। अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम्॥२।१।५॥

Link copied

तु-शब्दश् चोद्यꣳ व्यावर्तयति; पृथिव्य्-आद्य्-अभिमानि-देवतानाम् अयꣳ व्यपदेशः। कुतोऽवगम्यते, विशेषानुगतिभ्याꣳ--- विशेषः, विशेषणम्, हन्ताहम् इमास् तिस्रो देवताः, इति पृथिव्य्-आदेर् देवता-शब्देन विशेषणꣳ दृश्यते, सर्वा ह वै देवता अहꣳ श्रेयसे विवदमानाः, इति च वाग्-आदि-प्राण-पर्यन्तस्य च। तथानुगतिः--- अनुप्रवेशः, अग्न्य्-आदीनाꣳ वाग्-आद्य्-अनुप्रवेशो दृश्यते, अग्निर् वाग् भूत्वा मुखꣳ प्राविशत् आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशद् इत्य् आदौ॥५॥

Link copied

१४४। दृश्यते तु॥२।१।६॥

Link copied

तु-शब्दः पक्षꣳ व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानाꣳ क्रिम्य्-आदीनाम् उत्पत्तिर् दृश्यते; अतो ब्रह्म-विलक्षणस्यापि जगतस् तत्-कार्यत्वꣳ सम्भवति॥६॥

Link copied

१४५। असद् इति चेन् न प्रतिषेध-मात्रत्वात्॥२।१।७॥

Link copied

यदि कार्यस्य कारणाद् विलक्षण-द्रव्यत्वम् अभ्युपगम्यते, तर्हि कारणे कार्यꣳ न सद् भवतीत्य् असत्-कार्य-वादोऽभ्युपगतः स्यात्; तथा सति--- सर्वꣳ खल्व् इदꣳ ब्रह्मेति सामानाधि-करण्य-व्यपदेशो न घटत इति चेत् तन् न, कार्य-कारणयोः सालक्षण्य-नियम-प्रतिषेध-मात्रत्वाद् अस्माभिः पूर्वम् अभिहितस्य। कार्य-कारणयोर् एक-द्रव्यत्वꣳ स्वीकृतम् एव। एकम् एव कारणावस्थꣳ द्रव्यꣳ कार्यावस्थाꣳ भजमानꣳ सलक्षणावस्थाम् अपि भजते, विलक्षणावस्थाम् अपीत्य् अर्थः॥७॥

Link copied

१४६। अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम्॥२।१।८॥

Link copied

यदि ब्रह्मैव सर्व-ज्ञꣳ सत्य-सङ्कल्पꣳ निरतिशयानन्दम् अपहत-पाप्मत्वादि-स्वरूपꣳ तद्-विपरीत-जगद्-अवस्थाꣳ भजते तर्हि पिण्डत्व-घटत्वावस्थ-मृद्-द्रव्यवत् सर्व-ज्ञत्वम् अपहत-पाप्मत्वम् अज्ञत्वꣳ कर्म-वश्यत्वꣳ च ब्रह्मणः प्रसज्येतेति विरुद्धार्थाभिधानाद् वेदान्त-वाक्यम् असमञ्जसꣳ स्यात्। अपीताव् इति सृष्ट्य्-आदेः प्रदर्शनार्थम्। जगतो ब्रह्मण्य् अपीतौ ब्रह्मण उत्पत्ताव् अपीत्य् अर्थः। अपीतिर् अप्ययः॥८॥

Link copied

१४७। न तु दृष्टान्त-भावात्॥२।१।९॥

Link copied

न ब्रह्मण्य् अज्ञत्वादयः प्रसज्येरन्; अत एव न वेदान्तानाम् असामञ्जस्यम्। तु-शब्दः प्रसक्तस्यासम्भावनीयताꣳ द्योतयति। एकस्यैवावस्था-द्वयान्वयेऽपि गुण-दोष-व्यवस्थायाꣳ दृष्टान्त-सद्-भावात्, यथा मनुष्यो जातो बालो युवा स्थविरो भवतीत्य् अत्र मनुष्य-शरीरकस्य चेतनस्यैव सर्वावस्थान्वयेऽपि जन्म-बालत्व-युवत्व-स्थविरत्वादीनि नात्मनि सङ्गच्छन्ते; तथा ज्ञान-सुख-दुःखादयश् च न शरीरे। एवꣳ चिद्-अचिद्-वस्तु-शरीरकस्य परस्य ब्रह्मणः कार्य-कारणोभयावस्थान्वयेऽपि कर्म-वश्यत्वाज्ञत्वादयः शरीर-भूत-चिद्-अचिद्-वस्तु-गताः। अपहत-पाप्मत्व-सर्वज्ञत्वादयः परमात्मन्य् आत्म-भूतेऽवतिष्ठन्ते। सर्वावस्थस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वम्, ब्रह्मणश् च तद्-आत्मत्वम्, यस्य पृथिवी शरीरम् इत्य् आद्य् अन्तर्यामि-ब्राह्मणादिष्व् अवगतम् इति न कश्चिद् विरोधः॥९॥

Link copied

१४८। स्व-पक्ष-दोषाच् च॥२।१।१०॥

Link copied

न केवलꣳ ब्रह्म-कारण-वादस्य निर्दोषतया तत्-समाश्रयणम्, प्रधान-कारण-वादे दोषाच् चैतत् परित्यज्य स एव समाश्रयणीयः। प्रधान-कारण-वादे हि निर्विकारस्य चिन्-मात्रस्य पुरुषस्य प्रकृति-सन्निधान-कृत-तद्-धर्माध्यास-मूला जगत्-प्रवृत्तिर् अभ्युपगम्यते; तत्र प्रकृति-सद्-भाव-मात्रे सन्निधाने सति मुक्तस्यापि तद्-धर्माध्यास-प्रसङ्गः; विकार-विशेषे सति सन्निधाने कृत्स्नस्य विकारस्याध्यास-पूर्वकत्वान् नाध्यासस्य विकारो हेतुर् इति विरुद्धार्थाभिधानाद् असामञ्जस्य दोष इति न तत्-पक्ष-सम्भव-गन्धः॥१०॥

Link copied

१४९। तर्काप्रतिष्ठानाद् अपि॥२।१।११॥

Link copied

कापिल-तन्त्रस्य तर्क-मूलत्वेन शाक्यादि-तर्क-प्रतिहततयास्य तर्कस्याप्रतिष्ठितत्वाच् च न तत्-पक्ष-सम्भवः॥११॥

Link copied

१५०। अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः॥२।१।१२॥

Link copied

इतः पूर्वꣳ विद्यमानैस् तर्कैर् अप्रतिहतत्वꣳ यथा सम्भवति, तथा प्रधान-कारणवादम् अनुमास्यामह इति चेत् तथापि तर्काप्रतिष्ठान-दोषाद् अनिर्मोक्ष-प्रसङ्गो दुर्वारः; त्वद्-अधिक-कुतर्क-कुशल-सद्-भाव-सम्भवात्॥१२॥ इति विलक्षणत्वाधिकरणम्॥३॥

Link copied

१५१। एतेन शिष्टापरिग्रहा अपि व्याख्याताः॥२।१।१३॥

Link copied

न परिगृह्यन्ते वैदिकैर् इत्य् अपरिग्रहाः; शिष्टाश् च ते अपरिग्रहाश् च शिष्टापरिग्रहाः। एतेन--- तर्काप्रतिष्ठान-लक्षण-कपिल-स्मृति-निरसन-हेतुना, परिशिष्टाः कणभक्षादि-स्मृतयोऽपि निरस्ता व्याख्याताः। परमाणु-कारण-वादः सर्व-सम्मत इति न तेषाꣳ तर्कस्याप्रतिष्ठितत्वम् इत्य् अधिकाशङ्का। तर्क-मूलत्वाविशेषात् परमाणूनाꣳ शून्यत्वाद् द्रव्यत्वादि-विवादाच् च, तर्कस्याप्रतिष्ठितत्वम् एवेति परिहारः॥१३॥ इति शिष्टापरिग्रहाधिकरणम्॥४॥

Link copied

१५२। भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्॥२।१।१४॥

Link copied

सर्वात्म-भूतस्य परस्य ब्रह्मणः स्व-शरीर-भूताज् जीवान् निरतिशयानन्द-स्वभावतया यो विभाग उक्तः, स किꣳ विभागस् सम्भवति, उत नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः। सर्व-चिद्-अचिद्-वस्तु-शरीरतया सशरीरत्वाद् ब्रह्मणः, सशरीरस्य च सुख-दुःखयोर् भोक्तृत्वापत्तेः। तद्-आपत्तिश् च--- न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्त्य् अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः, इति श्रुतेः। राद्धान्तस् तु--- स्याद् एव विभागो जीवात् परस्याकर्म-वश्यतया। न सशरीरत्व-प्रयुक्तः सुख-दुःख-योगः, अपि तु शास्त्र-वश्यतया तद्-अतिवृत्ति-कृतः; स एकधा भवति त्रिधा भवतीत्य् आदिनावगत-शरीरस्य मुक्तस्य सशरीरस्याप्य् अशास्त्र-वश्यतया निरस्त-निखिल-दुःखत्व-दर्शनात्। यथा लोके राज-शासन-वश्यानाꣳ तच्-छासनातिवृत्ति-निमित्त-दुःखान्वयेऽपि राज्ञः सशरीरस्यापि प्रकारान्तरेण साधर्म्येऽपि स्व-शासनावश्यतया न तद्-अतिवृत्ति-कृत-दुःखान्वयः। विभागः वैलक्षण्यम्। सूत्रम् अपि व्याख्यातम्॥१४॥ इति भोक्त्रापत्त्य्-अधिकरणम्॥५॥

Link copied

१५३। तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः॥२।१।१५॥

Link copied

किꣳ ब्रह्म-कार्यꣳ जगद् ब्रह्मणोऽन्यत्, उतानन्यद् इति सꣳशयः। अन्यद् इति पूर्वः पक्षः, तथोपलब्धेः। न हि बुद्धि-शब्दान्तरादयः कारणात् कार्यस्यानन्यत्वे कथञ्चिद् उपपद्यन्ते; कारक-व्यापार-वैयर्थ्यꣳ चानन्यत्वे। अतो वस्तु-विरोधाद् अनन्यत्व-श्रुतयो लक्षणया नेयाः। राद्धान्तस् तु--- वाचारम्भणꣳ विकारो नामधेयꣳ मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयꣳ तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत, ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत् त्वम् असि श्वेतकेतो, सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति, तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियत, इत्य् आदि श्रुति-शत-सिद्धꣳ कार्यस्य जगतः कारणाद् ब्रह्मणोऽनन्यत्वम्। न चात्र वस्तु-विरोध-गन्धः; कारणीभूत-मृद्-आदि-द्रव्यस्यैव पृथु-बुध्नोदराद्य्-अवस्थान्तरापत्त्या बुद्धि-शब्दान्तरादयोऽप्य् उपपद्यन्ते। तत एव कारक-व्यापाराद्य्-अर्थवत्त्वꣳ च। एवꣳ कारणस्यैव कार्यावस्थायाम् अपि प्रत्यभिज्ञायमानस्यावस्थान्तरापत्त्यैव सर्वेषूपपन्नेष्व् अनुपलब्ध-द्रव्यान्तर-कल्पना न सम्भवति। तस्माद् ब्रह्म-कार्यꣳ जगद् ब्रह्मणोऽनन्यद् एव। सूत्रार्थस् तु--- तस्माद् ब्रह्मणः, अनन्यत्वꣳ कार्यस्य जगत आरम्भण-शब्दादिभ्यो वाक्येभ्यस् तद्-उपपादयद्भ्योऽवगम्यते, आरम्भणम् इति शब्द आदिर् येषाꣳ पूर्वोक्तानाꣳ वाक्यानाम्, तान्य् आरम्भण-शब्दादीनि; तान्य् अनन्यत्वम् उपपादयन्ति॥१५॥

Link copied

१५४। भावे चोपलब्धेः॥२।१।१६॥

Link copied

घटादि-कार्यꣳ भावे च तद् एवेदꣳ मृद्-द्रव्यम् इत्थम् अवस्थितम् इति कारणस्य उपलब्धेश् च कारणाद् अनन्यत्वꣳ कार्यस्य। यथा देवदत्तस्य बालत्व-युवत्वाद्य्-अवस्था-विशिष्टस्यानन्यत्वम्॥१६॥

Link copied

१५५। सत्त्वाच् चापरस्य॥२।१।१७॥

Link copied

अपरस्य कार्यस्य कारणे सत्त्वाच् च कारणाद् अनन्यत् कार्यम्। सर्वम् इदꣳ वट-शरावादि-कार्यꣳ पूर्वाह्ने मृद् एवासीद् इति हि कारणे कार्यम् उपलभ्यते। घट-शरावादि-सꣳस्थान-सꣳस्थितम् एव मृद्-द्रव्यꣳ पूर्व-काले पिण्डाकारम् उपलब्धम् इत्य् अर्थः॥१७॥

Link copied

१५६। असद्-व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च॥२।१।१८॥

Link copied

असद् एवेदम् अग्र आसीत्, इदꣳ वा अग्रे नैव किञ्चनासीत्, इत्य् आदिषु कारणावस्थायाꣳ कार्यस्यासत्त्व-व्यपदेशात् कारणे कार्यꣳ सद् इत्य् एतन् नोपपद्यत इति चेन् न, सद् इति व्यपदेश-हेतु-भूत-नाम-रूपावस्था-विरोधि-सूक्ष्मावस्थाख्य-धर्मान्तरेण योगाद् असद् इति न्यपदिश्यते। कथम् इदम् अवगम्यते। वाक्य-शेषाद्य्-उक्तेश् शब्दान्तराच् च। वाक्य-शेषस् तावत्--- तद् असद् एव सन् मनोऽकुरुत स्याम् इति। असद् इति व्यपदिष्टस्यैव मनस्कार-प्रतिपादनेन असद्-व्यपदेशो धर्मान्तर-योगाद् इत्य् अवगम्यते। युक्तिश् च धर्मान्तर-योगम् एवासद्-व्यपदेश-हेतुम् अवगमयति। घटोऽस्ति घटो नास्तीति सद्-असद्-व्यपदेशयोर् घटत्व-कपालत्वयोः परस्पर-विरोधि-धर्मयोर् एव हेतुत्वे सिद्धे तद्-अतिरिक्तानुपलब्ध-तुच्छत्वस्य हेतुत्व-कल्पनानुपपत्तेः। तथा शब्दान्तरꣳ च--- सद् एव सोम्येदम् अग्र आसीद् इति समान-प्रकरण-स्थम् असच्-छब्दꣳ धर्मान्तर-योग-निमित्तम् अवगमयति॥१८॥

Link copied

१५७। पटवच् च॥२।१।१९॥

Link copied

यथा तन्तव एव व्यतिषङ्ग-विशेष-भाजः पट इति नाम-रूपाभ्याꣳ कार्यान्तरादिकꣳ भजन्ते, तद् ब्रह्मापि॥१९॥

Link copied

१५८। यथा च प्राणादिः॥२।१।२०॥

Link copied

यथा च वायुर् एक एव शरीरे वृत्ति-विशेषꣳ भजमानः प्राणापानादि-नाम-रूप-कार्यान्तराणि भजते, तद् ब्रह्मापीति तद् अनन्यत्वꣳ जगतस् सिद्धम्॥२०॥ इत्य् आरम्भणाधिकरणम्॥६॥

Link copied

१५९। इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः॥२।१।२१॥

Link copied

ब्रह्मणो जगत्-कारणत्वꣳ सम्भवति नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः, अयम् आत्मा ब्रह्म, तत् त्वम् असीति सामानाधिकरण्येन जीवो ब्रह्मेत्य् अवगमात्, जगत्-सर्गस्य च जीव-दुःख-हेतुत्वात्, आत्म-हिताकरणादि-दोष-प्रसक्तेः सर्व-ज्ञस्य सत्य-सङ्कल्पस्य ब्रह्मणो जगत्-कारणत्वानुपपत्तेः। जीव-परयोर् भेद-वादिन्यः श्रुतयः, जगद्-ब्रह्मणोर् अनन्यत्वꣳ वदता त्वयैव परित्यक्ताः, भेदे सत्य् अनन्यत्वासिद्धेः। औपाधिक-भेद-विषया भेद-श्रुतयः, स्वाभाविकाभेद-विषया अभेद-श्रुतय इति चेत्; तत्रेदꣳ वक्तव्यम्--- स्वभावतः स्वस्माद् अभिन्नꣳ जीवꣳ किम् अनुपहितꣳ जगत्-कारणꣳ ब्रह्म जानाति न वा। न जानाति चेत्, सर्व-ज्ञत्व-हानिः। जानाति चेत्, स्वस्माद् अभिन्नस्य जीवस्य दुःखꣳ स्व-दुःखम् इति जानतो ब्रह्मणो हिताकरणाहित-करणादि-दोष-प्रसक्तिर् अनिवार्या। जीव-ब्रह्मणोर् अज्ञान-कृतो भेदः, तद्-विषया भेद-श्रुतिर् इति चेत्; तत्रापि जीवाज्ञान-पक्षे पूर्वोक्तो दोषस् तत्-फलꣳ च तद्-अवस्थम् एव। ब्रह्माज्ञान-पक्षे स्व-प्रकाश-स्वरूपस्य ब्रह्मणोऽज्ञान-साक्षित्वꣳ तत्-कृत-जगत्-सृष्टिश् च न सम्भवति; अज्ञानेन प्रकाशस् तिरोहितश् चेत्, तिरोधानस्य प्रकाश-निवृत्ति-करत्वेन प्रकाशस्यैव स्वरूपत्वात् स्वरूप-निवृत्तिर् एवेति स्वरूप-नाशादि-दोषाः भाष्ये प्रपञ्चिताः। राद्धान्तस् तु--- अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्धः, तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा, इत्य् आदिभिः प्रत्यगात्मनोऽर्थान्तर-भूतꣳ ब्रह्मेत्य् अवगमात्, जीव-कर्मानुगुणतया जगत्-सर्गस्य च ब्रह्मणो लीला-प्रयोजनत्वात्, जगत्-कारणत्वꣳ सम्भवत्य् एव। तत् त्वम् अस्य् आदि सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुतेर् जीवस्य ब्रह्म-शरीरत्वात् तच्-छरीरतया जीव-प्रकारक-ब्रह्म-प्रतिपादन-परः। सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कारणावस्थम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्मैव कार्यावस्थम् इति कार्य-कारणयोर् अनन्यत्वम्। एवम् अपि शरीर-भूतयोश् चिद्-अचिद्-वस्तुनोः शरीरिणो ब्रह्मणश् च दुःखित्व-परिणामित्व-हेय-प्रत्यनीकत्व-कल्याण-गुणाकरत्व-स्वभावास्वरूप-विवेक-विषय-श्रुति-सिद्धास् तथैव व्यवस्थिता इति ब्रह्मणो जगत्-कारणत्वꣳ सम्भवत्य् एव। सूत्रार्थस् तु--- इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः--- ब्रह्मण इतरः जीवः, ब्रह्मणो जीवतया व्यपदेशात्, जीवस्य च दुःखित्वात्, हित-रूप-जगद्-अकरणम् अहित-रूप-जगत्-करणम् इत्य् आदि दोष-प्रसक्तिर् ब्रह्मणः। अतो ब्रह्मणो जगत्-कारणत्वꣳ न सम्भवतीति॥२१॥

Link copied

अत उत्तरꣳ पठति---

Link copied

१६०। अधिकꣳ तु भेद-निर्देशात्॥२।१।२२॥

Link copied

तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। प्रत्यगात्मनः अधिकम्--- अर्थान्तर-भूतꣳ ब्रह्म। कुतः। भेद-निर्देशात्--- स कारणꣳ करणाधिपाधिपः, प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा, इत्य् आदिभ्यः प्रत्यगात्मनो जीवाद् ब्रह्मणो हि भेदो निर्दिश्यते॥२२॥

Link copied

१६१। अश्मादिवच् च तद्-अनुपपत्तिः॥२।१।२३॥

Link copied

अश्म-काष्ठ-लोष्ठ-तृणादेर् अचेतनस्येवानन्त-दुःखाकर-जीवस्य निरतिशयानन्द-सत्य-सङ्कल्प-ब्रह्म-भावानुपपत्तिश् च। न केवलꣳ भेद-श्रुत्यार्थान्तरत्वम् अवगम्यते, वस्त्व्-अनुपपत्त्या चेत्य् अर्थः। जीव-सामानाधिकरण्य-निर्देशः, यस्यात्मा शरीरम् इत्य् आदि श्रुति-शत-सिद्ध-जीव-प्रकारक-ब्रह्म-प्रतिपादन-पर इति, अवस्थितेर् इति काशकृत्स्न इत्य् अत्रैव प्रतिपादितः॥२३॥ इतीतर-व्यपदेशाधिकरणम्॥७॥

Link copied

१६२। उपसꣳहार-दर्शनान् नेति चेन् न क्षीरवद् धि॥२।१।२४॥

Link copied

ब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, न वेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; लोके कार्य-जनन-समर्थस्यापि वस्तुनस् तत्-तत्-कार्य-जनने अनेक-कारकोपसꣳहार-दर्शनाद् विचित्र-जगज्-जनन-समर्थस्यापि ब्रह्मणोऽसहायस्य जनयितृत्वानुपपत्तेः। राद्धान्तस् तु--- क्षीरस्य दधि-भावेऽनन्यापेक्षत्व-दर्शनान् नानेक-कारकोपसꣳहार-नियमो दृश्यत इति ब्रह्मणोऽनन्यापेक्षस्यैव कारणत्वꣳ सम्भवत्य् एव। सूत्रम् अपि व्याख्यातम्। क्षीरवद् धीति प्रसिद्धवन् निर्देशश् चोद्य-मान्द्य-परः॥२४॥

Link copied

१६३। देवादिवद् अपि लोके॥२।१।२५॥

Link copied

यथा देवादयः स्वे स्वे लोके स्वापेक्षितानि स्व-सङ्कल्पाद् एव सृजन्ति; तथा ब्रह्मापि--- देवादेः शास्त्रावसेय-शक्तितया ब्रह्म-तुल्यत्वेऽपि देवादि-ग्रहणꣳ ब्रह्मणो विचित्र-शक्तित्वस्य सुग्रहणायेति मन्तव्यम्॥२५॥ इत्य् उपसꣳहार-दर्शनाधिकरणम्॥८॥

Link copied

१६४। कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा॥२।१।२६॥

Link copied

ब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; निरवयवस्य ब्रह्मणो जगद्-उपादानत्वे कृत्स्नस्य ब्रह्मणो जगद्-आकारेणोपयोग-प्रसङ्गात्; तत्-परिजिहीर्षया सावयवाभ्युपगमे, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इत्य् आदि कारणावस्थायाꣳ निरवयवत्व-वाचि-शब्दो बाध्येत। यद्य् अपि सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कारणम्, स्थूल-चिद्-अचिद्-वस्तु-शरीरꣳ ब्रह्म कार्यम् इत्य् अभ्युपगम्यते; तथापि शरीर्य्-अꣳशस्यापि कार्यत्वाभ्युपगमात् कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-बाधो वा। राद्धान्तस् तु--- सकलेतर-विसजातीयꣳ श्रुत्य्-ऐक-समधिगम्यꣳ सर्व-शक्ति-युक्तꣳ ब्रह्म निरवयवम् अपि कार्यꣳ च भवति, अन्यच् च भवतीति परिमित-शक्ति-वस्तु-चोद्यꣳ न तत्र प्रसज्यते। यथा जाति-वादिनो जातिर् एकैवामूर्ता खण्ड-मुण्डादिष्व् अत्यन्त-विलक्षणेष्व् अनन्तेष्व् अपि परिसमाप्यैव वर्तते; न तत्रेतर-वस्तु-चोद्यम् इति। अतो ब्रह्मणो जगत्-कारणत्वꣳ सम्भवत्य् एव। सूत्रार्थस् तु--- कृत्स्न-प्रसक्तिर् निरवयवत्व-शब्द-कोपो वा--- ब्रह्म-कारणत्वे कृत्स्नस्य ब्रह्मणः कार्यत्वेनोपयोग-प्रसङ्गः, निरवयवत्वात्। सावयवत्वे निरवयवत्व-शब्द-कोपो वा--- निरवयवत्व-वादि-शब्द-बाध-प्रसङ्ग इत्य् अर्थः॥२६॥

Link copied

१६५। श्रुतेस् तु शब्द-मूलत्वात्॥२।१।२७॥

Link copied

तु-शब्दः पक्ष-व्यावृत्त्य्-अर्थः। श्रुतेः--- श्रुति-प्रामाण्यान् नैवꣳ प्रसज्यते; शब्द-मूलत्वात्--- शब्दैक-मूलत्वेन सकलेतर-विजातीयत्वाद् इत्य् अर्थः॥२७॥

Link copied

१६६। आत्मनि चैवꣳ विचित्राश् च हि॥२।१।२८॥

Link copied

आत्मनि चैवꣳ--- जीवात्मन्य् अचेतन-धर्माप्रसक्तिश् चैवम्--- अचेतन-विजातीयत्वाद् एवेत्य् अर्थः। विचित्राश् च हि--- अचेतनेषु च विसजातीयेष्व् अग्नि-जलादिषु विचित्रा हि शक्तयो दृश्यन्ते। एवꣳ परमात्मनश् चेतनाचेतन-विसजातीयस्य विचित्राः शक्तय उपपद्यन्ते॥२८॥

Link copied

१६७। स्व-पक्ष-दोषाच् च॥२।१।२९॥

Link copied

प्रधानादि-कारण-पक्षे दोषाच् च ब्रह्मैव जगत्-कारणम्। तत्र हि लौकिक-वस्तु-सजातीयत्वेन प्रधानादेर् उक्त-दोषोऽन्ये च प्रसज्येरन्॥२९॥

Link copied

१६८। सर्वोपेता च तद्-दर्शनात्॥२।१।३०॥

Link copied

न केवलꣳ सकलेतर-विसजातीयत्वेन सर्व-शक्त्य्-उपेता परा देवतेत्य् उच्यते; तद्-दर्शनात्--- सर्व-शक्ति-योग-श्रुतेर् इत्य् अर्थः। दर्शयतीति दर्शनꣳ श्रुतिः, परास्य शक्तिर् विविधैव श्रूयते, इत्य् आदिका॥३०॥

Link copied

१६९। विकरणत्वान् नेति चेत् तद् उक्तम्॥२।१।३१॥

Link copied

उक्तस्यार्थस्य द्रढिम्ने चोद्य-पूर्वकꣳ पूर्वोक्तꣳ स्मारयति--- विकरणत्वात्, करण-विरहितत्वाद् ब्रह्म न कारणम् इति चेत्, न तस्य कार्यꣳ करणꣳ च विद्यते, इति हि श्रूयते। तद् उक्तम्--- अत्र यद् वक्तव्यम्, तत् पूर्वम् एवोक्तम्, शब्द-मूलत्वात्, विचित्राश् च हीति। अयम् एव परिहारः--- शब्दैक-मूलत्वेन सकलेतर-विसजातीयत्वाद् ब्रह्मणः, विसजातीयानाꣳ च शक्ति-वैचित्र्यस्य लोक-दृष्टत्वात् सर्वम् उपपन्नम् इत्य् अर्थः॥३१॥ इति कृत्स्न-प्रसक्त्य्-अधिकरणम्॥९॥

Link copied

१७०। न प्रयोजनवत्वात्॥२।१।३२॥

Link copied

ब्रह्मणो जगत्-कारणत्वꣳ सम्भवति, नेति सꣳशयः। न सम्भवतीति पूर्वः पक्षः; बुद्धि-पूर्वारम्भाणाꣳ सप्रयोजनत्वात्, ईश्वरस्य च स्वत एवावाप्त-समस्त-कामस्य जगत्-सृष्ट्य्-आरम्भे प्रयोजन-भावाद् गर्भवासादि-दुःख-रूपत्वात् सृष्टेः, परानुग्रहेणापि न सप्रयोजनत्वम् इति। राद्धान्तस् तु--- परिपूर्णस्यापीश्वरस्य केवल-लीला-प्रयोजनाय जगत्-सृष्ट्य्-आद्य्-आरम्भः सम्भवति। यथा लोके सप्त-द्वीपवतीꣳ मेदिनीम् अधितिष्ठतो महाराजस्य परिपूर्णस्यापि केवल-लीलैक-फलाः कन्दुकाद्य्-आरम्भा दृश्यन्ते, तद्वद् ईश्वरस्यापि प्रयोजनाय जगत्-सृष्ट्य्-आरम्भः सम्भवति। सूत्रार्थस् तु--- न प्रयोजनवत्त्वात्--- प्रयोजनवत्त्वात् सृष्टेर् ईश्वरस्य स्वतः परिपूर्णस्य प्रयोजनाभावान् न स्रष्टृत्वम्॥३२॥

Link copied

१७१। लोकवत् तु लीला-कैवल्यम्॥२।१।३३॥

Link copied

लीला-कैवल्यꣳ--- लीलायाः प्रयोजनत्वे कैवल्यꣳ सम्भवति; केवलाया लीलायाः सृष्ट्य्-आरम्भ-प्रयोजनत्वꣳ सम्भवतीत्य् अर्थः। लोकवत्--- यथा लोके राज्ञः कन्दुकाद्य्-आरम्भे॥३३॥

Link copied

देव-मनुष्यादि-विषम-सृष्ट्या पक्ष-पात-प्रसङ्गाद् दुर्विषह-दुःख-गर्भत्वेन नैर्घृण्य-प्रसङ्गाच् च, परम-कारुणिकस्य परम-पुरुषस्य परिपूर्णस्य लीलार्थम् अपि जगत्-सर्गो न सम्भवतीत्य् आशङ्क्याह---

Link copied

१७२। वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति॥२।१।३४॥

Link copied

ईश्वरस्य विचित्र-जगत्-सृष्टौ देवादि-वैषम्य-प्रयुक्त-पक्ष-पातः, दुःख-प्रद-जगत्-सर्गे नैर्घृण्यꣳ च न सम्भवतः; वैषम्यादाव् ईश्वरस्य क्षेत्रज्ञ-कर्म-सापेक्षत्वात्। क्षेत्रज्ञानाꣳ पूर्व-पूर्व-कर्म पर्यालोच्य, तत्-तत्-कर्मानुगुणꣳ विषमꣳ जगत् सृजतीति तत्-कर्मैव वैषम्यादि-हेतुर् इत्य् अर्थः। तथा देवादि-देह-योगꣳ क्षेत्रज्ञानाꣳ तत्-कर्म-सापेक्षꣳ दर्शयति हि श्रुतिः, साधु-कारी साधुर् भवति पाप-कारी पापो भवतीति॥३४॥

Link copied

१७३। न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्य् उपलभ्यते च॥२।१।३५॥

Link copied

सृष्टेः प्राक् कर्म न विद्यते क्षेत्रज्ञाभावात्; तद्-अभावश् च, सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानाꣳ तत्-तत्-कर्म-प्रवाहाणाꣳ च। उपपद्यते च क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः। अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्--- तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियत, इति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानाꣳ स्वरूपानादित्वꣳ सिद्धम्; ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ। नित्यो नित्यानाम्, प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि, इति। अविभाग-श्रुतिर् अपि नाम-रूप-विभागाभावाद् एवोपपद्यत इत्य् अभिप्रायः॥

Link copied

[अत्र पाठान्तरम्]

Link copied

सृष्टेः प्राक् कर्म न विद्यते, क्षेत्रज्ञाभावात्। तद्-अभावश् च--- सद् एव सोम्येदम् इत्य् अवधारणावगताद् अविभागाद् इति चेत् तन् न, अनादित्वात् क्षेत्रज्ञानाꣳ तत्-तत्-कर्म-प्रवाहाणाꣳ च। तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याꣳ व्याक्रियतेति नाम-रूप-व्याकरण-मात्र-श्रवणात् क्षेत्रज्ञानाꣳ स्वरूपानादित्वꣳ सिद्धम्। उपपद्यते क्षेत्रज्ञ-स्वरूपानादित्वेऽपि नाम-रूप-विभागाभावाद् अविभाग-श्रुतिः; अन्यथा अकृताभ्यागम-कृत-विप्रणाश-प्रसङ्गात्। उपलभ्यते च श्रुति-स्मृत्योः क्षेत्रज्ञानाम् अनादित्वम्, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, नित्यो नित्यानाम्, प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि, न जायते, इत्य् आदिभिः॥३५॥

Link copied

१७४। सर्व-धर्मोपपत्तेश् च॥२।१।३६॥

Link copied

प्रधान-परमाण्व्-आदिष्व् अनुपपन्नानाꣳ स्व-पक्ष-दोषाद् इत्य् आदिषूक्तानाꣳ सर्वेषाꣳ धर्माणाꣳ कारणत्वोपपादकानाꣳ ब्रह्मण्य् उपपत्तेश् च ब्रह्मैव कारणम्। प्रधान-परमाण्व्-आदीनाꣳ परिमित-शक्तिकत्वाल् लोक-दृष्ट-वस्तु-सजातीयत्वाच् च अनुपपत्तयः सहस्त्रशः सन्ति। ब्रह्मणः शास्त्रैक-समधिगम्यतया सकलेतर-विसजातीयत्वेनाचिन्त्य-शक्तित्वात् सर्व-शक्तित्व-श्रुतेश् च सर्वम् उपपन्नम् इत्य् अर्थः॥३६॥ इति प्रयोजनवत्त्वाधिकरणम्॥१०॥

Link copied

इति श्री-रामानुजाचार्य-विरचिते श्री-वेदान्तदीपे द्वितीयस्याध्यायस्य प्रथमः पादः॥

Link copied
Join our community