Skip to content

Vedanta Dipa · Section 5 of 17

||atha prathamādhyāye caturthaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

१।४।१

Link copied

११० आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च॥१।४।१॥

Link copied

कठ-वल्लीषु। इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परꣳ मनः। मनसश् च परा बुद्धिर् बुद्धेर् आत्मा महान् परः। महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः। पुरुषान् न परꣳ किञ्चित् सा काष्ठा सा परा गतिः इत्य् अत्र किꣳ साङ्ख्योक्तꣳ प्रधानम् अव्यक्त-शब्दाभिधेयम् उत नेति सꣳशयः। प्रधानम् इति पूर्वः पक्षः, महतः परम् इत्य् आदि तत्-तन्त्र-प्रक्रिया-प्रत्यभिज्ञानात्, पुरुषान् न परꣳ किञ्चित् इति पञ्च-विꣳशक-पुरुषातिरिक्त-तत्त्व-निषेधाच् च। राद्धान्तस् तु--- नाव्यक्त-शब्देन प्रधानम् इह गृह्यते। पूर्वत्र आत्मानꣳ रथिनꣳ विद्धि शरीरꣳ रथम् एव च इत्य् आदिना उपासना-निर्वृत्तये वश्येन्द्रियत्वापादानाय ये आत्म-शरीर-बुद्धिमन-इन्द्रिय-विषयाः, रथि-रथ-सारथि-प्रग्रह-हय-गोचरत्वेन रूपिता; तेषु वशीकार्यत्वे पराः। इन्द्रियेभ्यः परा इत्य् आदिनोच्यन्ते; तत्र चेन्द्रियादयः स्व-शब्देनैव गृह्यन्ते, रथत्वेन रूपितꣳ शरीरम् इहाव्यक्त-परिणामत्वेन अव्यक्त-शब्देन गृह्यत इति नेह तत्-तन्त्र-प्रक्रिया प्रत्यभिज्ञान-गन्धः। अव्यक्तात् पुरुषः पर इति च न पञ्च-विꣳशकः; अपि तु प्राप्यः परमात्मैव। अन्तर्यामितयोपासनस्याप्य् उपाय-भूत इति स इह वशीकार्य-काष्ठात्वेन पुरुषान् न परꣳ किञ्चित् इत्य् उक्तः। सूत्रार्थस् तु--- एकेषाꣳ कठानाꣳ शाखायाम्--- आनुमानिकꣳ प्रधानꣳ जगत्-कारणत्वेन महतः परम् अव्यक्तम् इत्य् आम्नायते इति चेत् तन् न, अव्यक्त-शब्देन शरीराख्य-रूपक-विन्यस्तस्य गृहीतेः--- पूर्वत्रात्मादिषु रथि-रथादि-रूपक-विन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्त-शब्देन गृहीतेर् इत्य् अर्थः। अतो वशीकार्यत्वे परा इहोच्यन्ते। दर्शयति चैनम् अर्थꣳ वाक्य-शेषः इन्द्रियादीनाꣳ नियमन-प्रकारꣳ प्रतिपादयन् यच्छेद् वाङ्-मनसी इत्य् आदिः॥१॥

Link copied

कथम् अव्यक्त-शब्दस्य शरीरꣳ वाच्यꣳ भवतीत्य् आशङ्क्याह---

Link copied

१११ सूक्ष्मꣳ तु तद्-अर्हात्वात्॥१।४।२॥

Link copied

तु-शब्दोऽवधारणे। सूक्ष्मम्--- अव्यक्तम् एवावस्थान्तरापन्नꣳ शरीरꣳ भवति, तद्-अवस्थस्यैव कार्यार्हात्वात्। यदि रूपक-विन्यस्ता आत्मादय एव वशीकार्यत्वे पराः। इन्द्रियेभ्यः परा इत्य् आदिना गृह्यन्ते॥२॥

Link copied

तर्ह्य् अव्यक्तात् पुरुषः परः, पुरुषान् न परꣳ किञ्चित् इति पुरुष-ग्रहणꣳ किम् अर्थम् इत्य् अताह---

Link copied

११२ तद्-अधीनत्वाद् अर्थवत्॥१।४।३॥

Link copied

अन्तर्यामि-रूपेणावस्थित-पुरुषाधीनत्वाद् आत्मादिकꣳ सर्वꣳ रथि-रथत्वादिना रूपितम् अर्थवत्--- प्रयोजनवद् भवति। अत उपासन-निर्वृत्तौ वशीकार्य-काष्ठा परम-पुरुष इति तद्-अर्थम् इह रूपक-विन्यस्तेषु परिगृह्यमाणेषु परस्यापि पुरुषस्य ग्रहणम्। उपासन-निर्वृत्त्य्-उपाय-काष्ठा पुरुषः प्राप्यश् चेति। पुरुषान् न परꣳ किञ्चित् सा काष्ठा सा परा गतिः इत्य् उक्तम्। भाष्य-प्रक्रियया वा नेयम् इदꣳ सूत्रम्--- परम-पुरुष-शरीरतया तद्-अधीनत्वाद् भूत-सूक्ष्मम् अव्याकृतम् अर्थवद् इति तद् इहाव्यक्त-शब्देन गृह्यते; नाब्रह्मात्मकꣳ स्व-निष्ठꣳ तन्त्र-सिद्धम् इति॥३॥

Link copied

११३ ज्ञेयत्वावचनाच् च॥१।४।४॥

Link copied

यदि तन्त्र-सिद्ध-प्रक्रियेहाभिप्रेता तद्-आव्यक्तस्यापि ज्ञेयत्वꣳ वक्तव्यम्। व्यक्ताव्यक्तज्ञ-विज्ञानात् इति हि तत्-प्रक्रिया। न ह्य् अव्यक्तम् इह ज्ञेयत्वेनोक्तम्। अतश् चात्र न तन्त्र-प्रक्रिया-गन्धः॥४॥

Link copied

११४ वदतीति चेन् न प्राज्ञो हि प्रकरणात्॥१।४।५॥

Link copied

अशब्दम् अस्पर्शम् इत्य् उपक्रम्य, महतः परꣳ ध्रुवꣳ निचाय्य तꣳ मृत्यु-मुखात् प्रमुच्यत इति प्रधानस्य ज्ञेयत्वम् अनन्तरम् एव वदतीयꣳ श्रुतिर् इति चेत्; तन् न, अशब्दम् अस्पर्शम् इत्य् आदिना प्राज्ञः--- परम-पुरुष एव ह्य् अत्रोच्यते; सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमꣳ पदम्। एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते॥इति प्राज्ञस्यैव प्रकृतत्वात्॥५॥

Link copied

११५ त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च॥१।४।६॥

Link copied

अस्मिन् प्रकरणे येयꣳ प्रेते विचिकित्सा मनुष्ये इत्य् आरभ्यासमाप्तेः परम-पुरुष-तद्-उपासनोपासकानाꣳ त्रयाणाम् एवैवꣳ ज्ञेयत्वेनोपन्यासः प्रश्नश् च दृश्यते, न प्रधानादेस् तान्त्रिकस्यापि। अतश् च न प्रधानम् इह ज्ञेयत्वेनोक्तम्॥६॥

Link copied

११६ महद्वच् च॥१।४।७॥

Link copied

यथा बुद्धेर् आत्मा महान् पर इत्य् आत्म-शब्द-सामानाधिकरण्यान् महच्-छब्देन न तान्त्रिकꣳ महत्-तत्त्वꣳ गृह्यते, एवम् अव्यक्त-शब्देनापि न तान्त्रिकꣳ प्रधानम्॥७॥इत्य् आनुमानिकाधिकरणम्॥१॥

Link copied

१।४।२

Link copied

११७ चमसवद् अविशेषात्॥१।४।८॥

Link copied

श्वेताश्वतरे अजाम् एकाꣳ लोहित-शुक्ल-कृष्णाꣳ बह्वीः प्रजाः सृजमानाꣳ सरूपाः, अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनाꣳ भुक्त-भोगाम् अजोऽन्यः इत्य् अत्र किम् अजा-शब्देन तन्त्र-सिद्धा प्रकृतिर् अभिधीयते, उत ब्रह्मात्मिकेति सꣳशयः। तन्त्र-सिद्धेति पूर्वः पक्षः, अजाम् एकाम् इत्य् अस्या अकार्यत्व-प्रतीतेः, बह्वीनाꣳ प्रजानाꣳ स्वातन्त्र्येण कारणत्व-श्रवणाच् च। राद्धान्तस् तु--- न तन्त्र-सिद्धायाः प्रकृतेर् अत्र ग्रहणम्, जनन-विरह-श्रवण-मात्रेण तन्त्र-सिद्धायाः प्रकृतेः प्रतीति-नियमाभावात्। न हि यौगिकानाꣳ शब्दानाम् अर्थ-प्रकरणादिभिर् विशेष्य-व्यवस्थापकैर् विना विशेषे वृत्ति-नियम-सम्भवः; न चास्याः स्वातन्त्र्येण सृष्टि-हेतुत्वम् इह प्रतीतम् अपि तु सृष्टि-हेतुत्व-मात्रम्; तद्-ब्रह्मात्मिकायाश् च न विरुद्धम्। अत्र तु ब्रह्मात्मिकाया एव शाखान्तर-सिद्धायाः एतत्-सरूप-मन्त्रोदितायाः प्रत्यभिज्ञानात् सैवेति निश्चीयते। सूत्रार्थस् तु--- नायम् अजा-शब्दस् तन्त्र-सिद्ध-प्रधान-विषयः; कुतः। चमसवद् अविशेषात्। यथा--- अर्वाग् बिलश् चमस इति मन्त्रे चमस-साधनत्व-योगेन प्रवृत्तस्य चमस-शब्दस्य शिरसि प्रवृत्तौ। यथेदꣳ तच्-छिर एष ह्य् अर्वाग् बिलश् चमसः इति वाक्य-शेषे विशेषो दृश्यते तथा। अजाम् एकाम् इत्य् अजा-शब्दस्य तन्त्र-सिद्ध-प्रधाने वृत्तौ विशेषाभावान् न तद्-ग्रहणꣳ न्याय्यम्॥८॥

Link copied

अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्य् आह---

Link copied

११८ ज्योतिर्-उपक्रमा तु तथा ह्य् अधीयत एके॥१।४।९॥

Link copied

ज्योतिः--- ब्रह्म यस्याः उपक्रमः--- कारणꣳ सा ज्योतिर्-उपक्रमा। तु-शब्दोऽवधारणे। ब्रह्म-कारणिकैवैषाजा। तथा ह्य् अधीयत एके--- यथा रूपोऽयम् अजायाः प्रतिपादको मन्त्रः। तथारूपम् एव मन्त्रꣳ ब्रह्मात्मिकायाः तस्याः प्रतिपादकम् अधीयत एके शाखिनः। अणोर् अणीयान् महतो महीयान् इत्य् आदिना ब्रह्म प्रतिपाद्य, सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त जिह्वाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान् निहिताः सप्त सप्त। अतः समुद्रा गिरयश् च सर्व इत्य् आदिना ब्रह्मण उत्पन्नत्वेन ब्रह्मात्मकतया सर्वानुसन्धान-विधान-समये। अजाम् एकाꣳ लोहित-शुक्ल-कृष्णाꣳ बह्वीꣳ प्रजाꣳ जनयन्तीꣳ सरूपाम् इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्-प्रत्यभिज्ञानाद् इहाप्य् अजा ब्रह्मात्मिकैवेति निश्चीयते॥९॥

Link copied

अजात्वꣳ ज्योतिर्-उपक्रमात्वꣳ च कथम् उपपद्यते इत्य् अताह---

Link copied

११९ कल्पनोपदेशाच् च मध्व्-आदिवद् अविरोधः॥१।४।१०॥

Link copied

कल्पना--- सृष्टिः, सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् इत्य् आदि दर्शनात्। अस्मान् मायी सृजते विश्वम् एतत् इति हि सृष्टिर् इहोपदिश्यते। प्रलय-वेलायाम् एषा प्रकृतिः परम-पुरुषाश्रया कारणावस्थातिसूक्ष्मावयवा शक्ति-रूपेणावतिष्ठते; तद्-अवस्थाभिप्रायेणास्या अजात्वम्। सृष्टि-वेलायाꣳ पुनस् तच्-छरीराद् ब्रह्मणः स्थूलावस्था जायते; तद्-अवस्था ज्योतिर्-उपक्रमेति न कश्चिद् विरोधः। मध्वादिवत्--- यथा आदित्यस्यैकस्यैव कार्यावस्थायाम्। असौ वा आदित्यो देव-मधु इति वस्व्-आदि-भोग्य-रसाधारतया मधुत्वꣳ, तस्यैव। अथ तत ऊर्ध्वम् उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता इत्य् आदिना नाम-रूप-प्रहाणेन कारणावस्थायाꣳ सूक्ष्मस्यैकस्यैवावस्थानꣳ न विरुध्यते, तद्वत्॥१०॥इति चमसाधिकरणम्॥२॥

Link copied

१।४।३

Link copied

१२० न सङ्ख्योपसङ्ग्रहाद् अपि नाना-भावाद् अतिरेकाच् च॥१।४।११॥

Link copied

वाजसनेयके--- यस्मिन् पञ्च पञ्च जना आकाशश् च प्रतिष्ठितः। तम् एवम् अन्य आत्मानꣳ विद्वान् ब्रह्मामृतोऽमृतम् इत्य् अत्र किꣳ साङ्ख्योक्तानि पञ्च-विꣳशति-तत्त्वानि प्रतिपाद्यन्ते, उत नेति सꣳशयः। तान्य् एवेति पूर्वः पक्षः। पञ्च पञ्च जना इति हि पञ्च-सङ्ख्या-विशिष्टाः पञ्च जना पञ्च-विꣳशतिः सम्पद्यन्ते। कथꣳ पञ्च जना इति समाहार-विषयोऽयꣳ समासः; पञ्च पूल्य इतिवत्। पञ्चभिर् जनैर् आरब्धः समूहः पञ्च-जनः--- पञ्च-जनीत्य् अर्थः। लिङ्ग-व्यत्ययः छान्दसः। पञ्च-जना इति बहुवचनात् समूह-बहुत्वꣳ चावगम्यते। ते च कतीत्य् अपेक्षायाꣳ पञ्च पञ्च जना इति पञ्च-शब्द-विशेषिताः पञ्च-जन-समूहा इति पञ्च-विꣳशतिस् तत्त्वानि भवन्ति। मोक्षाधिकारात् तान्त्रिकाण्य् एवेति निश्चीयन्ते। एवꣳ निश्चिते सति तम् एवम् अन्य आत्मानꣳ विद्वान् ब्रह्मामृतोऽमृतम् इति पञ्च-विꣳशकम् आत्मानꣳ ब्रह्म-भूतꣳ विद्वान् अमृतो भवतीति। राद्धान्तस् तु--- यस्मिन् पञ्च पञ्च जना आकाशश् च प्रतिष्ठितः। इति यच्-छब्द-निर्दिष्ट-ब्रह्माधारत्वात् तद्-आधेयानाꣳ तत्त्वानाꣳ ब्रह्मात्मकत्वम् अवगम्यते। यच्-छब्द-निर्दिष्टꣳ च तम् एवम् अन्य आत्मानम् (इति तच्-छब्देन परामृश्य, ब्रह्मामृतोऽमृतम्) इति निर्देशात् ब्रह्मेति निश्चीयते। अतो न तान्त्रिक-प्रसङ्गः। सूत्रार्थस् तु--- पञ्च पञ्च जना इत्य् अत्र पञ्च-विꣳशति-सङ्ख्योपसङ्ग्रहाद् अपि न तान्त्रिकाणीमानि तत्त्वानि, यस्मिन्न् इति यच्-छब्द-निर्दिष्ट-ब्रह्माधारतया तान्त्रिकेभ्यो नाना-भावात्--- एषाꣳ तत्त्वानाꣳ पृथग्भावाद् इत्य् अर्थः। अतिरेकाच् च--- तान्त्रिकेभ्यस् तत्त्वातिरेक-प्रतीतेश् च; यस्मिन्न् इति निर्दिष्टम् अतिरिक्तम् आकाशश् च। न सङ्ख्योपसङ्ग्रहाद् अपीत्य् अपि-शब्देन सङ्ख्योपसङ्ग्रहो न सम्भवतीत्य् आह, आकाशस्य पृथङ् निर्देशात्। अतः पञ्च जनाः इति न समाहार-विषयः, अपि तु दिक्-सङ्ख्ये सꣳज्ञायाम् इति सꣳज्ञा-विषयः; पञ्च-जन-सꣳज्ञिताः केचित्, ते च पञ्चैवेति। सप्त सप्तर्षय इतिवत्॥११॥

Link copied

१२१ प्राणादयो वाक्य-शेषात्॥१।४।१२॥

Link copied

पञ्च-जन-सꣳज्ञिताः पञ्च पदार्थाः प्राणादय इति वाक्य-शेषाद् अवगम्यते। प्राणस्य प्राणम् उत चक्षुषश् चक्षुः श्रोत्रस्य श्रोत्रम् अन्नस्यान्नꣳ मनसो ये मनो विदुः इति। ब्रह्मात्मकानीन्द्रियाणि पञ्च पञ्च जना इति निर्दिष्टानि। जननाच् च जनाः॥१२॥

Link copied

काण्व-पाठेऽन्न-वर्जितानाꣳ चतुर्णाꣳ निर्देशात् पञ्च-जन-सꣳज्ञितानीन्द्रियाणीति कथꣳ ज्ञायत इत्य् अत्राह---

Link copied

१२२ ज्योतिषैकेषाम् असत्य् अन्ने॥१।४।१३॥

Link copied

एकेषाꣳ--- काण्वानाꣳ वाक्य-शेषे असत्य् अन्न-शब्दे वाक्योपक्रम-गतेन तꣳ देवा ज्योतिषाꣳ ज्योतिर् इति ज्योतिः-शब्देन पञ्च-जनाः इन्द्रियाणीति विज्ञायन्ते। कथꣳ ज्योतिषाꣳ ज्योतिषि ब्रह्मणि निर्दिष्टे प्रकाशकानाꣳ प्रकाशकꣳ ब्रह्मेति प्रतीयते। के ते प्रकाशका इत्य् अपेक्षायाꣳ। पञ्च पञ्च जनाः। इत्य् अनिर्ज्ञात-विशेषाः पञ्च-सङ्ख्या-सङ्ख्याताः प्रकाशकानि पञ्चेन्द्रियाणीत्य् अवगम्यते। अतः यस्मिन् पञ्च पञ्च जना आकाशश् च प्रतिष्ठितः इतीन्द्रियाणि भूतानि च ब्रह्मणि प्रतिष्ठितानीति न तान्त्रिक-तत्त्व-गन्धः॥१३॥इति सङ्ख्योपसङ्ग्रहाधिकरणम्॥३॥

Link copied

१।४।४

Link copied

१२३ कारणत्वेन चाकाशादिषु यथा-व्यपदिष्टोक्तेः॥१।४।१४॥

Link copied

जगत्-कारण-वादीनि वेदान्त-वाक्यानि किꣳ प्रधान-कारणता-वादैकान्तानि, उत ब्रह्म-कारणता-वादैकान्तानीति सꣳशयः। प्रधान-कारणता-वादैकान्तानीति पूर्वः पक्षः, सद् एव सोम्येदम् अग्र आसीत् इति क्वचित् सत्-पूर्विका सृष्टिर् आम्नायते; अन्यत्र असद् एवेदेम् अग्र आसीत्--- असद् वा इदम् अग्र आसीत्, तथा तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याꣳ व्याक्रियत इति। अव्याकृतꣳ हि प्रधानम्। अतः प्रधानकारणतावादनिश्चयात्तदेकान्तान्येव। राद्धान्तस् तु--- सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इत्य् उपक्रम्य तस्माद् वा एतस्माद् आत्मन आकाशः-सम्भूतः तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत इत्य् आदिषु सर्वज्ञस्य परस्य ब्रह्मणः कारणत्व-प्रतिपादनात् तस्यैव ब्रह्मणः कारणावस्थायाꣳ नाम-रूप-विभाग-सम्बन्धितया सद्-भावाभावाद् असद्-अव्याकृतादि-शब्देन व्यपदेश इति ब्रह्म-कारणता-वादैकान्तान्य् एव। सूत्रार्थस् तु--- आकाशादि-पद-चिह्नितेषु तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आदिषु सर्वज्ञस्य परस्य ब्रह्मणः कारणत्व-प्रतिपादनात्, सर्वेषु सृष्टि-वाक्येषु यथा-व्यपदिष्टस्यैव कारणत्वेनोक्तेः ब्रह्म-कारणता-वादैकान्तानि। यथा-व्यपदिष्टम्--- सार्वज्ञ्यादि-युक्ततया अस्माभिर् व्यपदिष्टम्॥१४॥

Link copied

तथा सति। असद् वा इदम् अग्र आसीत् इति किꣳ ब्रवीतीत्य् अताह---

Link copied

१२४ समाकर्षात्॥१।४।१५॥

Link copied

सोऽकामयत बहु स्याꣳ प्रजायेयेति इति बहु-भवन-सङ्कल्प-पूर्वकꣳ जगत् सृजतो ब्रह्मणः सर्वज्ञस्य। असद् वा इदम् अग्र आसीत् इत्य् अत्र समाकर्षात् कारणावस्थायाꣳ नाम-रूप-सम्बन्धित्वाभावेन असद् इति ब्रवीति। एवꣳ तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् इत्य् आदिषु। स एष इहानुप्रविष्ट आनखाग्रेभ्यः पश्यत्य् अचक्षुः इत्य् आदि पूर्वापर-पर्यालोचनया तत्र तत्र सर्वज्ञस्य समाकर्षो द्रष्टव्यः॥१५॥इति कारणत्वाधिकरणम्॥४॥

Link copied

१।४।५

Link copied

१२५ जगद्-वाचित्वात्॥१।४।१६॥

Link copied

कौषीतकिनाꣳ ब्रह्म ते ब्रवाणि इत्य् उपक्रम्य, यो वै बालाक एतेषाꣳ पुरुषाणाꣳ कर्ता यस्य वैतत् कर्म स वै वेदितव्यः इत्य् अत्र वेदितव्यतयोपदिष्टः साङ्ख्य-तन्त्र-सिद्धः पुरुषः, उत परमात्मेति सꣳशयः। पुरुष एव प्रकृति-वियुक्त इति पूर्वः पक्षः--- यस्य वैतत् कर्म इति कर्म-शब्दस्य क्रियत इति व्युत्पत्त्या जगद्-वाचित्वात् कृत्स्नꣳ जगद् यस्य कार्यम्, स परम-पुरुष एव वेदितव्यतयोपदिष्टो भवतीति। सूत्रम् अपि व्याख्यातम्॥१६॥

Link copied

१२६ जीव-मुख्य-प्राण-लिङ्गान् नेति चेत् तद् व्याख्यातम्॥१।४।१७॥

Link copied

एवम् एवैष प्रज्ञात्मैतैर् आत्मभिर् भुङ्क्ते। इत्य् आदि भोक्तृत्व-रूप-जीव-लिङ्गात्। अथास्मिन् प्राण एवैकधा भवति इति मुख्य-प्राण-लिङ्गाच् च नायꣳ परमात्मेति चेत्; तस्य परिहारः प्रतर्दन-विद्यायाम् एव व्याख्यातः। पूर्वापर-प्रकरण-पर्यालोचनया परमात्म-परम् इदꣳ वाक्यम् इति निश्चिते सत्य् अन्य-लिङ्गानि तद्-अनुगुणतया नेतव्यानीत्य् अर्थः। ननु--- तौ ह सुप्तꣳ पुरुषमीयतुम् आजग्मतुः इति प्राण-नामभिर् आमन्त्रणाश्रवण-यष्टि-घातोत्थापनादिना शरीरेन्द्रिय-प्राणाद्य्-अतिरिक्त-जीवात्म-सद्-भाव-प्रतिपादन-परम् इदꣳ वाक्यम् इत्य् अवगम्यत इत्य् अत उत्तरꣳ पठति॥१७॥

Link copied

१२७ अन्यार्थꣳ तु जैमिनिः प्रश्न-व्याख्यानाभ्याम् अपि चैवम् एके॥१।४।१८॥

Link copied

तु-शब्दः शङ्का-निवृत्त्य्-अर्थः। जीव-सङ्कीर्तनम् अन्यार्थꣳ--- जीवातिरिक्त-ब्रह्म-सद्-भाव-प्रतिबोधनार्थम् इति प्रश्न-प्रतिवचनाभ्याम् अवगम्यते। प्रश्नस् तावज् जीव-प्रतिपादनानन्तरꣳ क्वैष एतद् बालाके पुरुषोऽशयिष्ट इत्य् आदिकः सुषुप्त-जीवाश्रय-विषयतया परमात्म-पर इति निश्चितः। प्रतिवचनम् अप्य् अथास्मिन् प्राण एवैकधा भवति इत्य् आदिकꣳ परमात्म-विषयम् एव। सुप्त-पुरुषाश्रयतया हि प्राण-शब्द-निर्दिष्टः परमात्मैव। सता सोम्य तदा सम्पन्नो भवति इत्य् आदिभ्यः। जैमिनि-ग्रहणम् उक्तस्यार्थस्य पूज्यत्वाय। अपि चैवम् एके--- एके वाजसनेयिनः इदम् एव बालाक्य्-अजातशत्रु-सꣳवाद-गतꣳ प्रश्न-प्रतिवचन-रूपꣳ वाक्यꣳ परमात्म-विषयꣳ स्पष्टम् अधीयते। क्वैष एतत् इत्य् आदि य एषोऽन्तर्-हृदय आकाशस् तस्मिञ् शेते इत्य् एतद् अन्तम्॥१८॥इति जगद्-वाचित्वाधिकरणम्॥५॥

Link copied

१।४।६

Link copied

१२८ वाक्यान्वयात्॥१।४।१९॥

Link copied

बृहदारण्यके मैत्रेयी-ब्राह्मणे न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय इत्य् आरभ्य आत्मा वा अरे द्रष्टव्य इति प्रतिपाद्यते। श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्य् आदौ द्रष्टव्यतया निर्दिष्टः पुरुषः तन्त्र-सिद्धः, उत परमात्मेति सꣳशयः। तन्त्र-सिद्धः पञ्च-विꣳशकः एवेति पूर्वः पक्षः। पति-जाया-पुत्र-वित्त-मित्र-पश्व्-आदि-प्रिय-सम्बन्ध्य्-आत्मा न परमात्मा भवितुम् अर्हति। स एव ह्य् आत्मा वा अरे द्रष्टव्य इति प्रतिपाद्यते। राद्धान्तस् तु--- न पत्य्-आदीनाꣳ कामाय पत्य्-आदयः प्रिया भवन्ति, आत्मनस् तु कामाय इत्य् उक्त्वा, आत्मा वा अरे द्रष्टव्यः इति निर्दिष्ट आत्मा जीवातिरिक्तः सत्य-सङ्कल्पः सर्वज्ञः परमात्मैव। यत् सङ्कल्पायत् तꣳ पत्य्-आदीनाꣳ स्व-सम्बन्धिनः प्रति प्रियत्वम्, स हि सत्य-सङ्कल्पः परमात्मा। आत्म-ज्ञानेन सर्वज्ञानादयोऽपि वक्ष्यमाणाः परमात्मन्य् एव सम्भवन्ति।

Link copied

सूत्रार्थस् तु--- वाक्यस्य कृत्स्नस्य परमात्मन्य् एवान्वयाद् द्रष्टव्यतया निर्दिष्ट आत्मा परमात्मैव। अमृतत्वस्य तु नाशास्ति वित्तेन आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वꣳ विदितम्। इदꣳ सर्वꣳ यद् अयम् आत्मा। तस्य ह वा एतस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः। येनेदꣳ सर्वꣳ विजानाति तꣳ केन विजानीयात्, इति हि कृत्स्नस्य वाक्यस्य परमात्मन्य् अन्वयो दृश्यते॥१९॥

Link copied

एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यतीति जीव-लिङ्गस्य मतान्तरेण निर्वाहम् आह---

Link copied

१२९ प्रतिज्ञा-सिद्धेर् लिङ्गम् आश्मरथ्यः॥१।४।२०॥

Link copied

एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-सिद्धये जीवस्य परमात्म-कार्यतया परमात्मनोऽनन्यो जीव इति जीव-शब्देन परमात्मनोऽभिधानम् इत्य् आश्मरथ्य-मतम्॥२०॥

Link copied

१३० उत्क्रमिष्यत एवꣳ भावाद् इत्य् औडुलोमिः॥१।४।२१॥

Link copied

परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति शरीराद् उत्क्रमिष्यतः अस्य जीवस्य परमात्म-भावाज् जीव-शब्देन परमात्मनोऽभिधानम् इत्य् औडुलोमिर् आचार्यो मेने॥२१॥

Link copied

१३१ अवस्थितेर् इति काशकृत्स्नः॥१।४।२२॥

Link copied

य आत्मनि तिष्ठन् इत्य् आदिभिर् जीवात्मन्य् अन्तरात्मतया परमात्मनोऽवस्थितेः जीवात्म-शब्दस्य परमात्मनि पर्यवसानाज् जीवात्म-शब्देन परमात्मनः अभिधानम् इति काशकृत्स्न आचार्यो मन्यते। इदम् एव सूत्र-काराभिमतम् इत्य् अवगम्यते, त्रयाणाम् अन्योन्य-विरोधात्, इतः परम-वचनाच् च॥२२॥इति वाक्यान्वयाधिकरणम्॥८॥

Link copied

१।४।७

Link copied

१३२ प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात्॥१।४।२३॥

Link copied

परꣳ ब्रह्म किꣳ जगतो निमित्त-कारण-मात्रम्, उतोपादान-कारणम् अपीति सꣳशयः। निमित्त-कारण-मात्रम् इति पूर्वः पक्षः, मृत्-कुलालादौ निमित्तोपादानयोर् भेद-दर्शनात्; अस्मान् मायी सृजते विश्वम् एतत् इत्य् आदिभिर् भेद-प्रतिपादनाद् ब्रह्मणोऽविकारत्व-श्रुति-विरोधाच् च। राद्धान्तस् तु--- येनाश्रुतꣳ श्रुतम् इति ब्रह्म-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञानान्यथानुपपत्त्या यथा सोम्यैकेन मृत्-पिण्डेन सर्वꣳ मृण्-मयम् इति मृत्-तत्-कार्य-दृष्टान्तेन तद्-उपपादनाच् च जगद्-उपादान-कारणम् अपि ब्रह्मैवेति विज्ञायते। प्रमाणान्तरावसित-सकल-वस्तु-विलक्षणस्य शास्त्रैक-समधिगम्यस्य परस्य ब्रह्मणः सर्वज्ञस्य सर्व-शक्तेः कार्य-कारणोभयावस्थायाम् अपि स्व-शरीर-भूत-चिद्-अचित्-प्रकारतयावस्थितस्यैकस्यैव निमित्तत्वम् उपादानत्वꣳ चाविरुद्धम्।

Link copied

शरीर-भूताचिद्-वस्तु-गतो विकार इति कार्यावस्थावस्थितस्यापि शरीरिणः परमात्मनोऽविकारित्वꣳ सिद्धम् एव। चिद्-अचिद्-वस्तु-शरीरस्य ब्रह्मण एवोपादानत्वेऽपि ब्रह्मण्य् अपुरुषार्थ-विकारास्पर्श-प्रदर्शनाय ह्य् अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्ध इति व्यपदेशः। प्रतिज्ञा-दृष्टान्तानुपरोधाद् उपादानꣳ च ब्रह्मैवेति सूत्रार्थः॥२३॥

Link copied

१३३ अभिध्योपदेशाच् च॥१।४।२४॥

Link copied

सोऽकामयत बहु स्याꣳ, तद् ऐक्षत बहु स्याꣳ प्रजायेय इति स्रष्टुर् ब्रह्मणः स्वस्यैव जगद्-आकारेण बहु-भवन-चिन्तनोपदेशाच् च जगद्-उपादानꣳ निमित्तꣳ च ब्रह्मैवेति निश्चीयते॥२४॥

Link copied

१३४ साक्षाच् चोभयाम्नानात्॥१।४।२५॥

Link copied

किꣳस्विद् वनꣳ क उ स वृक्ष आसीत् इत्य् आदिना जगद्-उपादान-निमित्तादौ पृष्टे ब्रह्म वनꣳ ब्रह्म स वृक्ष आसीत्। ब्रह्माध्यतिष्ठत् इत्य् उपादानꣳ निमित्तꣳ चोभयꣳ ब्रह्मैवेति हि साक्षाद् आम्नायते। अतश् चोभयꣳ ब्रह्म॥२५॥

Link copied

१३५ आत्म-कृतेः॥१।४।२६॥

Link copied

तद् आत्मानꣳ स्वयम् अकुरुत इति स्रष्टुर् आत्मन एव जगद्-आकारेण कृतिर् उपदिश्यते। अतश् चोभयꣳ ब्रह्मैव। नाम-रूप-भावाभावाभ्याम् एकस्य कर्म-कर्तृ-भावो न विरुद्धः॥२६॥

Link copied

यद्य् आत्मानम् एव ब्रह्म जगद्-आकारꣳ करोति, तर्हि ब्रह्मणोऽपहत-पाप्मत्वादिकम् अनवधिकातिशयानन्द-स्वरूपत्वꣳ सर्वज्ञत्वम् इत्य् आदि सर्वꣳ विरुध्यते, अज्ञत्वासुखित्व-कर्म-वश्यत्वादि-विपरीत-रूपत्वाज् जगत इत्य् अत उत्तरꣳ पठति---

Link copied

१३६ परिणामात्॥१।४।२७॥

Link copied

अज्ञ-ब्रह्म-विवर्त-वादे हि तद् भवत्य् एव। अज्ञानस्य तत्-कार्य-रूपानन्तापुरुषार्थस्य च वेदान्त-जन्य-ज्ञान-निवर्त्यस्य ब्रह्मण्य् एवान्वयात्, तदा शास्त्रस्य भ्रान्त-जल्पितत्वापाताच् च। अविभक्त-नाम-रूप-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरकस्य ब्रह्मणो विभक्त-नाम-रूप-चिद्-अचिद्-वस्तु-शरीरत्वेन परिणामो हि वेदान्तेषूपदिश्यते। तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याꣳ व्याक्रियत इत्य् एवम् आदिभिः, अपुरुषार्थाश् च विकाराः शरीर-भूत-चिद्-अचिद्-वस्तु-गताः। कारणावस्थायाꣳ कार्यावस्थायाꣳ चात्म-भूतꣳ ब्रह्मापहत-पाप्मत्वादि-गुणकम् एव। स्थूल-सूक्ष्मावस्थस्य कृत्स्नस्य चिद्-अचिद्-वस्तुनो ब्रह्म-शरीरत्वꣳ, ब्रह्मणश् च तद्-आत्मत्वꣳ, यः पृथिव्याꣳ तिष्ठन् यस्य पृथिवी शरीरम् इत्य् आरभ्य यस्याव्यक्तꣳ शरीरꣳ यस्याक्षरꣳ शरीरꣳ यस्य मृत्युः शरीरम् एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव इत्य् एवम् आदि-श्रुति-शत-समधिगतम्। अतः सर्वम् अनवद्यम्॥२७॥

Link copied

१३७ योनिश् च हि गीयते॥१।४।२८॥

Link copied

यद् भूत-योनिꣳ परिपश्यन्ति धीराः, कर्तारम् ईशꣳ पुरुषꣳ ब्रह्म-योनिम् इत्य् आदिषु सर्वस्य भूत-जातस्य परम-पुरुषः योनित्वेन गीयते। हि-शब्दो हेतौ, यस्माद् योनिर् इति गीयते, तस्माच् चोपादानम् अपि ब्रह्म। योनि-शब्दश् चोपादान-कारण-पर्ययः॥२८॥ इति प्रकृत्य्-अधिकरणम्॥७॥

Link copied

१।४।८

Link copied

१३८ एतेन सर्वे व्याख्याता व्याख्याताः॥१।४।२९॥

Link copied

यतो वा इमानि इत्य् आदिषूदाहृतेषु वाक्येषु जन्माद्य् अस्य यत इत्य् आदिनोक्त-न्याय-कलापेन सर्वे वेदान्ताः ब्रह्म-परा व्याख्याताः। पदाभ्यासोऽध्याय-परिसमाप्ति-द्योतनार्थः॥२९॥ इति सर्व-व्याख्यानाधिकरणम्॥८॥

Link copied

इति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः।

Link copied
Join our community