Skip to content

Vedanta Dipa · Section 3 of 17

||atha prathamādhyāye dvitīyaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

१।२।१

Link copied

३३ सर्वत्र प्रसिद्धोपदेशात्॥१।२।१॥

Link copied

छान्दोग्ये श्रूयते सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति शान्त उपासीत, अथ खलु क्रतु-मयोऽयꣳ पुरुषो यथा क्रतुर् अस्मिꣳल् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुꣳ कुर्वीत मनो-मयः प्राण-शरीरः इति। अत्र सर्वꣳ खल्व् इदꣳ ब्रह्म इति सर्वात्मकत्वेन निर्दिष्टꣳ ब्रह्म किꣳ प्रत्यग्-आत्मा, उत परमात्मेति सꣳशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते। परस्य तु ब्रह्मणः सकल-हेय-प्रत्यनीक-कल्याणैकतानस्य समस्त-हेयाकर-सर्व-तादात्म्यꣳ विरोधाद् एव न सम्भवति। प्रत्यग्-आत्मनो हि कर्म-निमित्तो ब्रह्मादि-स्तम्ब-पर्यन्त-सर्व-भाव उपपद्यते। सृष्ट्य्-आदि-हेतुकत्वꣳ च तत्-तत्-कर्म-निमित्तत्त्वेन सृष्ट्य्-आदेर् उपपद्यते। ब्रह्म-शब्दोऽपि बृहत्व-गुण-योगेन तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नꣳ च जायते इतिवत् तत्रैव वर्तते। राद्धान्तस् तु तज् जलान् इति सर्वꣳ खल्व् इदꣳ ब्रह्म इति तज्-जन्म-स्थितिल्-अय-हेतुकꣳ तद्-आत्मकत्वꣳ प्रसिद्धवन् निर्दिश्यमानꣳ परस्यैव ब्रह्मण उपपद्यते। परस्माद् ब्रह्मण एव हि जगज्-जन्म-स्थिति-लयाः प्रसिद्धाः सोऽकामयत बहु स्याꣳ प्रजायेयेति, इदꣳ सर्वम् असृजत इत्य् आदिषु। तथा सर्वात्मकत्वꣳ च जन्मादि-हेतुकꣳ परस्यैव ब्रह्मणः प्रसिद्धꣳ सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः, ऐतदात्म्यम् इदꣳ सर्वम् इति। हेय-प्रत्यनीक-कल्याणैकतानात्मनश् च परस्य हेयाकर-सर्व-भूतात्मत्वम् अविरुद्धम्। यः पृथिव्याꣳ तिष्ठन्--- यस्य पृथिवी-शरीरम्। य आत्मनि तिष्ठन्। यस्यात्मा शरीरꣳ स त आत्मान्तर्याम्य् अमृत इत्य् आदिना शरीरात्म-भावेन सर्वात्मत्वोपपादनात्। शरीरात्मनोश् च स्वभाव व्यवस्थापनात्। सर्वꣳ ब्रह्मेति सामानाधिकरण्य् अनिर्देशश् च सर्व-शब्दस्य सर्व-शरीरके ब्रह्मण्य् एव प्रवृत्तेर् उपपद्यते। शरीर-वाची हि शब्दः शरीरिण्य् आत्मन्य् एव पर्यवस्यति। देव-मनुष्यादि-शब्दवत्। सूत्रार्थस् तु--- सर्वत्र सर्वꣳ खल्व् इदꣳ ब्रह्म इति निर्दिष्टे वस्तुनि सर्व-शब्द-वाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टꣳ परꣳ ब्रह्मैव। कुतः प्रसिद्धोपदेशात्। तज् जलान् इति, सर्वम् इदꣳ ब्रह्म खलु इति प्रसिद्धवत् तस्योपदेशात्। तद् एव हि जगज्-जन्म-स्थिति-लय-हेतुत्वेन वेदान्तेषु प्रसिद्धम्॥१॥

Link copied

३४ विवक्षित-गुणोपपत्तेश् च॥१।२।२॥

Link copied

मनो-मयत्वादिकाः सत्य-सङ्कल्पत्व-मिश्रा विवक्षिताः गुणाः परस्मिन्न् एवोपपद्यन्ते॥२॥

Link copied

३५ अनुपपत्तेस् तु न शारीरः॥१।२।३॥

Link copied

एतेषाꣳ गुणानाम् अनन्त-दुःख-मिश्र-परिमित-सुख-लव-भागिन्य् अज्ञे कर्म-परवशे शारीरे प्रत्यग्-आत्मन्य् अनुपपत्तेश् चायꣳ न शारीरः। अपि तु परम् एव ब्रह्म॥३॥

Link copied

३६ कर्म-कर्तृ-व्यपदेशाच् च॥१।२।४॥

Link copied

एतम् इतः प्रेत्याभिसम्भवितास्मि इति प्राप्यतयोपास्यो निर्दिश्यते, प्राप्तृतया च जीवः। अतश् च जीवाद् अन्यद् एवेदꣳ परꣳ ब्रह्म॥४॥

Link copied

३७ शब्द-विशेषात्॥१।२।५॥

Link copied

एष म आत्मान्तर्-हृदय इति शारीरः षष्ट्या निर्दिष्टः, उपास्यः प्रथमया। अतश् च जीवाद् अन्यः॥५॥

Link copied

३८ स्मृतेश् च॥१।२।६॥

Link copied

सर्वस्य चाहꣳ हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनꣳ च इति स्मृतेश् च। अतश् च जीवाद् अन्य उपास्यः परमात्मा॥६॥

Link copied

३९ अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवꣳ व्योमवच् च॥१।२।७॥

Link copied

एष म आत्मान्तर्-हृदय इत्य् अल्प-स्थानत्वाद् अणीयान् व्रीहेर् वा यवाद् वा इत्य् अल्पत्व-व्यपदेशाच् च न परꣳ ब्रह्मेति चेन् न। निचाय्यत्वाद् एवम्--- एवम् उपास्यत्वाद् धेतोर् अल्पायतनत्वाल्पत्व-व्यपदेशः। न स्वरूपाल्पत्वेन। ज्यायान् पृथिव्याः इत्य् आदिना सर्वस्माज् ज्यायस्त्वोपदेशात्। ज्यायसोऽप्य् अस्य हृदयायतनावच्छेदेन अल्पत्वानुसन्धानम् उपपद्यते। व्योमवत् यथा महतोऽपि व्योम्नः सूचि-पथादिष्व् अल्पत्वानुसन्धानम्। च-शब्दोऽवधारणे तद्वद् एवेत्य् अर्थः। स्वाभाविकꣳ चास्य महत्त्वम् अत्राभिधीयत इत्य् अर्थः। ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः इति ह्य् अनन्तरम् एव व्यपदिश्यते॥७॥

Link copied

४० सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्॥१।२।८॥

Link copied

यद्य् उपासक-शरीरे हृदयेऽयम् अपि वर्तते ततस् तद्वद् एवास्यापि शरीर-प्रयुक्त-सुख-दुःख-सम्भोग-प्राप्तिर् इति चेन् न, हेतु-वैशेष्यात्। न हि शरीरान्तर्वर्तित्वम् एव सुख-दुःखोप-भोग-हेतुः। अपि तु कर्म-परवशत्वम्। तत् त्व् अपहत-पाप्मनः परमात्मनो न सम्भवति॥८॥इति सर्वत्र प्रसिद्ध्य्-अधिकरणम्॥१॥

Link copied

१।२।२

Link copied

४१ अत्ता चराचर-ग्रहणात्॥१।२।९॥

Link copied

कठ-वल्लीष्व् आम्नायते यस्य ब्रह्म च क्षत्रꣳ चोभे भवत ओदनः मृत्युर् यस्योपसेचनꣳ क इत्था वेद यत्र स इति। अत्रोदनोपसेचन-सूचितोऽत्ता किꣳ जीव उत परमात्मेति सꣳशयः। जीव इति पूर्वः पक्षः। कुतः भोक्तृत्त्वस्य कर्म-निमित्तत्त्वाज् जीवस्यैव तत्-सम्भावात्। राद्धान्तस् तु--- सर्वोपसꣳहारे मृत्यूपसेचनम् अदनीयꣳ चराचरात्मकꣳ कृत्स्नꣳ जगद् इति तस्यैतस्यात्ता परमात्मैव। न चेदꣳ कर्म-निमित्तꣳ भोक्तृत्वम्। अपि तु जगत्-सृष्टि-स्थिति-लय-लीलस्य परमात्मनो जगद्-उपसꣳहारित्व-रूपꣳ भोक्तृत्वम्। सूत्रार्थः--- ब्रह्म-क्षत्रौदनस्यात्ता परमात्मा। ब्रह्म-क्षत्र-शब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात्। मृत्यूपसेचनो ह्य् ओदनो न ब्रह्म-क्षत्र-मात्रम्। अपि तु तद्-उपलक्षितꣳ चराचरात्मकꣳ कृत्स्नꣳ जगद् एव॥९॥

Link copied

४२ प्रकरणाच् च॥१।२।१०॥

Link copied

महान्तꣳ विभुम् आत्मानꣳ मत्वा धीरो न शोचति नायम् आत्मा प्रवचनेन लभ्यो न मेधया इति परस्यैव हीदꣳ प्रकरणम्। अतश् चायꣳ परमात्मा॥१०॥

Link copied

नन्व् अनन्तरम् ऋतꣳ पिबन्तौ सुकृतस्य लोके गुहाꣳ प्रविष्टौ परमे परार्ध्ये इति द्वयोः कर्म-फलादनादन-श्रवणात्, परमात्मनश् च कर्म-फलादनान्वयात्, अन्तःकरण-द्वितीयो जीव एव तत्रात्तेति प्रतीयते, अतोऽत्रापि स एव जीवोऽत्ता भवितुम् अर्हतीत्य् आशङ्क्याह---

Link copied

४३ गुहाꣳ प्रविष्टाव् आत्मानौ हि तद्-दर्शनात्॥१।२।११॥

Link copied

गुहाꣳ प्रविष्टौ जीवात्म-परमात्मानौ। जीवद् वितीयः परमात्मैव तत्र प्रतीयत इत्य् अर्थः। स्वयम् अनश्नतोऽपि परमात्मनः प्रयोजकतया पानेऽन्वयो विद्यते। जीवद् वितीयः परमात्मेति कथम् अवगम्यतꣳ तद्-दर्शनात्--- तयोर् एव ह्य् अस्मिन् प्रकरणे गुहा-प्रवेश-व्यपदेशो दृश्यते तꣳ दुर्दर्शꣳ गूढम् अनुप्रविष्टꣳ गुहाहितꣳ गह्वरेष्टꣳ पुराणम्, अध्यात्म-योगाधिगमेन देवꣳ मत्वा धीरो हर्ष-शोकौ जहाति इति परमात्मनः या प्राणेन सम्भवत्य् अदितिर् देवता-मयी, गुहाꣳ प्रविश्य तिष्ठन्ती या भूतेभिर् व्यजायत इति जीवस्य। कर्म-फलान्य् अत्तीत्य् अदितिर् जीवः॥११॥

Link copied

४४ विशेषणाच् च॥१।२।१२॥

Link copied

अस्मिन् प्रकरणे ह्य् उपक्रम-प्रभृत्योपसꣳहाराज् जीव-परमात्मानाव् एवोपास्यत्वोपासकत्व-प्राप्तृत्वादिभिर् विशिष्येते महान्तꣳ विभुम् आत्मानꣳ मत्वा धीरो न शोचति। विज्ञान-सारथिर् यस् तु मनः प्रग्रहवान् नरः, सोऽध्वनः पारमाप्नोति तद् विष्णोः परमꣳ पदम् इत्य् आदिषु। अतश् चात्ता परमात्मा॥१२॥इत्य् अत्त्रधिकरणम्॥२॥

Link copied

१।२।३

Link copied

४५ अन्तर उपपत्तेः॥१।२।१३॥

Link copied

छान्दोग्ये य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्म इत्य् अत्राक्ष्य्-आधारः पुरुषः किꣳ प्रतिबिम्बात्म-जीव-देवता-विशेषान्यतमः उत परमात्मेति सꣳशयः। एष्व् अन्यतम इति पूर्व-पक्षः। कुतः। य एष दृश्यते इति प्रसिद्धवत् साक्षात्कार-निर्देशात्। राद्धान्तस् तु--- परमात्मैवायम् अक्ष्य्-आधारः पुरुषः अक्षि-पुरुष-सम्बन्धितया श्रूयमाणा निरुपाधिकात्मत्वामृतत्वाभयत्व-ब्रह्मत्व-सꣳयद्-वामत्वादयः परमात्मन्य् एवोपपद्यन्ते। प्रसिद्धवन् निर्देशश् च यश् चक्षुषि तिष्ठन् इत्य् आदि श्रुत्य्-अन्तर-प्रसिद्धेर् उपपद्यते। साक्षात्कारश् च तद्-उपासन-निष्ठानाꣳ योगिनाम्। सूत्रार्थस् तु--- अक्ष्य्-अन्तरः परमात्मा। सꣳयद्-वामत्वादीनाꣳ गुणानाम् अत्रैवोपपत्तेः॥१३॥

Link copied

४६ स्थानादि-व्यपदेशाच् च॥१।२।१४॥

Link copied

स्थानꣳ स्थितिः। परमात्मन एव यश् चक्षुषि तिष्ठन् इत्य् आदौ चक्षुषि स्थिति-नियमनादीनाꣳ व्यपदेशाच् चायꣳ परमात्मा॥१४॥

Link copied

४७ सुख-विशिष्टाभिधानाद् एव च॥१।२।१५॥

Link copied

प्राणो ब्रह्म कꣳ ब्रह्म खꣳ ब्रह्म इति सुख-विशिष्टतया प्रकृतस्यैव परस्यैव ब्रह्मणोऽक्ष्य्-आधारतया उपास्यत्वाभिधानाच् चायꣳ परमात्मा। एवकारोऽस्यैव हेतोर् नैरपेक्ष्यावगमाय॥१५॥

Link copied

प्राणो ब्रह्म कꣳ ब्रह्म खꣳ ब्रह्म इत्य् अत्र सुख-विशिष्टꣳ परम् एव ब्रह्माभिहितम् इति कथम् इदम् अवगम्यते, यावता नामादिवत् प्रतीकोपासनम् एवेत्य् आशङ्क्याह---

Link copied

४८ अत एव च स ब्रह्म॥१।२।१६॥

Link copied

यतस् तत्र भव-भय-भीतायोपकोसलाय ब्रह्म-स्वरूप-जिज्ञासवे कꣳ च तु खꣳ च न विजानामि इति पृच्छते यद् एव कꣳ तद् एव खꣳ तद् एव खꣳ यद् एव कम् इत्य् अन्योन्य-व्यवच्छेदकतया अपरिछिन्न-सुख-स्वरूपꣳ ब्रह्मेत्य् अभिधाय प्राणꣳ च हास्मै तद्-आकाशꣳ चोचुः इत्य् उक्तम्। अत एव ख-शब्दाभिधेयः स आकाशोऽपरिछिन्न-सुख-विशिष्टꣳ परꣳ ब्रह्मैव॥१६॥

Link copied

४९ श्रुतोपनिषत्क-गत्य्-अभिधानाच् च॥१।२।१७॥

Link copied

श्रुतोपनिषत्कैः--- अधिगत-ब्रह्म-याथात्म्यैर् ब्रह्म-प्राप्तये या गतिर् अर्चिरादिर् अधिगन्तव्यतयावगता श्रुत्य्-अन्तरे तस्याश् चेहाक्षि-पुरुषꣳ श्रुतवतोऽधिगन्तव्यतया तेऽर्चिषम् एवाभिसम्भवन्ति इत्य् आदिनाभिधानाद् अक्षि-पुरुषः परमात्मा॥१७॥

Link copied

५० अनवस्थितेर् असम्भवाच् च नेतरः॥१।२।१८॥

Link copied

परमात्मन इतरः जीवादिकः, तस्याक्ष्णि नियमेन अनवस्थितेः, अमृतत्व-सꣳयद्-वामत्वादीनाꣳ चासम्भवान् न सोऽक्ष्य्-आधारः॥१८॥इत्य् अन्तराधिकरणम्॥३॥

Link copied

१।२।४

Link copied

५१ अन्तर्याम्य्-अधिदैवाधिलोकादिषु तद्-धर्म-व्यपदेशात्॥१।२।१९॥

Link copied

बृहदारण्यके यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः इत्य् आदिषु सर्वेषु पर्यायेषु श्रूयमाणोऽन्तर्यामी किꣳ प्रत्यग्-आत्मा उत परमात्मेति सꣳशयः। प्रत्यग्-आत्मेति पूर्व-पक्षः। वाक्य-शेषे द्रष्टा श्रोता मन्ता इति द्रष्टृत्वादि श्रुतेः। नान्योऽतोऽस्ति द्रष्टा इति द्रष्ट्रन्तर-निषेधाच् च। राद्धान्तस् तु--- पृथिव्याद्य्-आत्म-पर्यन्त-सर्व-तत्त्वानाꣳ सर्वैस् तैर् अदृष्टेनैकेन नियमनꣳ निरुपाधिकामृतत्वादिकꣳ च परमात्मन एव धर्म इत्य् अन्तर्यामी परमात्मा। द्रष्टृत्वादिश् च रूपादि-साक्षात्कारः। स च पश्यत्य् अचक्षुः इत्य् आदिना परमात्मानोऽप्य् अस्ति। नान्योऽतोऽस्ति द्रष्टा इति च जीवेनादृष्टान्तर्यामि-द्रष्टृवद् अन्तर्यामिणाप्य् अदृष्ट-द्रष्ट्रन्तर-निषेध-परः। सूत्रार्थः--- अधिदैवाधिलोकादि-पद-चिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्यामी परमात्मा। सर्वान्तरत्व-सर्वाविदितत्व-सर्व-शरीरकत्व-सर्व-नियमन-सर्वात्मत्वामृतत्वादि-परमात्म-धर्माणाꣳ व्यपदेशात्॥१९॥

Link copied

५२ न च स्मार्तम् अतद्-धर्माभिलापाच् छारीरश् च॥१।२।२०॥

Link copied

स्मार्तꣳ प्रधानम्। शारीरः प्रत्यग्-आत्मा। स्मार्तꣳ च शारीरश् च नान्तर्यामी। तयोर् असम्भावितोक्त-धर्माभिलापात्। यथा स्मार्तस्याचेतनस्यासम्भावनया नान्तर्यामित्व-प्रसक्तिस् तथा प्रत्यग्-आत्मनोऽपीत्य् अर्थः॥२०॥

Link copied

५३ उभयेऽपि हि भेदेनैनम् अधीयते॥१।२।२१॥

Link copied

उभये काण्वा माध्यन्दिना अपि यो विज्ञाने तिष्ठन्। य आत्मनि तिष्ठन् इति यतः प्रत्यग्-आत्मनो भेदेनैनम्--- अन्तर्यामिणम् अधीयते अतोऽयꣳ तद्-अतिरिक्तः परमात्मा॥२१॥इत्य् अन्तर्याम्य्-अधिकरणम्॥४॥

Link copied

१।२।५

Link copied

५४ अदृश्यत्वादि-गुणको धर्मोक्तेः॥१।२।२२॥

Link copied

आथर्वणे अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् इत्य् आरभ्य यद् भूत-योनिꣳ परिपश्यन्ति धीराः, अक्षरात् परतः परः इत्य् आदौ किꣳ प्रधान-पुरुषौ प्रतिपाद्येते उत परमात्मैवेति सꣳशयः। प्रधान-पुरुषाव् इति पूर्वः पक्षः। पृथिव्य्-आद्य्-अचेतन-गत-दृश्यत्वादीनाꣳ प्रतिषेधात् तज्-जातीय-चेतनꣳ प्रधानम् एव भूत-योन्य्-अक्षरम् इति प्रतीयते। तथा अक्षरात् परतः पर इति च तस्याधिष्ठाता पुरुष एवेति। राद्धान्तस् तु--- उत्तरत्र यः सर्वज्ञः सर्ववित् इति प्रधान-पुरुषयोर् असम्भावितꣳ सार्वज्ञ्यम् अभिधाय तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नꣳ च जायते इति सर्वज्ञात् सत्य-सङ्कल्पाज् जगद्-उत्पत्ति-श्रवणात् पूर्वोक्तम् अदृश्यत्वादि-गुणकꣳ भूत-योन्य्-अक्षरम्, अक्षरात् परतः परः इति च निर्दिष्टꣳ तद् अक्षरꣳ परꣳ ब्रह्मैवेति विज्ञायते। सूत्रार्थस् तु--- अदृश्यत्वादि-गुणकः परमात्मा। सर्वज्ञत्वादि तद्-धर्मोक्तेः॥२२॥

Link copied

५५ विशेषण-भेद-व्यपदेशाभ्याꣳ च नेतरौ॥१।२।२३॥

Link copied

विशिनष्टि हि प्रकरणꣳ प्रधानाद् भूत-योन्य्-अक्षरम् एक-विज्ञानेन सर्व-विज्ञानादिना। तथा अक्षरात् परतः पर इति, अक्षराद् अव्याकृतात् परतोऽवस्थितात् पुरुषात् पर इति पुरुषाच् चास्य भूत-योन्य्-अक्षरस्य भेदो व्यपदिश्यते। अतश् च न प्रधान-पुरुषौ। अपि तु परमात्मैवात्र निर्दिष्टः॥२३॥

Link copied

५६ रूपोपन्यासाच् च॥१।२।२४॥

Link copied

अग्निर् मूर्धा इत्य् आदिना समस्तस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य भूत-योन्य्-अक्षर-रूपत्वेनोपन्यासाच् चायम् अदृश्यत्वादि-गुणकः परमात्मा॥२४॥इत्य् अदृश्यत्वादि-गुणकाधिकरणम्॥५॥

Link copied

१।२।६

Link copied

५७ वैश्वानरः साधारण-शब्द-विशेषात्॥१।२।२५॥

Link copied

छान्दोग्ये आत्मानम् एवेमꣳ वैश्वानरꣳ सम्प्रत्यध्येषि। तम् एव नो ब्रूहि इत्य् आरभ्य यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते इत्य् अत्र किम् अयꣳ वैश्वानरः परमात्मेति शक्य-निर्णयः, उत नेति सꣳशयः। अशक्य-निर्णय इति पूर्वः पक्षः। वैश्वानर-शब्दस्य जाठराग्नौ, भूत-तृतीये देवता-विशेषे परमात्मनि च वैदिक-प्रयोग-दर्शनात्, अस्मिन् प्रकरणे सर्वेषाꣳ लिङ्गोपलब्धेश् च। राद्धान्तस् तु को न आत्मा किꣳ ब्रह्म इति सर्वेषाꣳ जीवानाम् आत्म-भूतꣳ ब्रह्म किम् इति प्रक्रमात्, उत्तरत्र च आत्मानꣳ वैश्वानरम् इति ब्रह्म-शब्द-स्थाने सर्वत्र वैश्वानर-शब्द-प्रयोगाच् च, वैश्वानरात्मा सर्वेषाꣳ जीवानाम् आत्म-भूतꣳ परꣳ ब्रह्मेति विज्ञायते। सूत्रार्थः--- वैश्वानर-शब्द-निर्दिष्टः परमात्मा, वैश्वानर-शब्दस्यानेकार्थ-साधारणस्याप्य् अस्मिन् प्रकरणे परमात्मासाधारण-विशेषणैः सर्वात्मत्वादिभिः विशेष्यमाणत्वात्। विशेष्यत इति विशेषः॥२५॥

Link copied

५८ स्मर्यमाणम् अनुमानꣳ स्याद् इति॥१।२।२६॥

Link copied

स्मर्यमाणꣳ--- प्रत्यभिज्ञायमानम्, अनुमीयते अनेनेत्य् अनुमानम्। इति-शब्दः प्रकार-वचनः, इत्थꣳ रूपꣳ स्मर्यमाणꣳ वैश्वानरस्य परमात्मत्वे अनुमानꣳ स्याद् द्यु-प्रभृति-पृथिव्य्-अन्तम् अवयव-विभागेन वैश्वानरस्य रूपम् इहोपदिष्टम्। अग्निर् मूर्धा चक्षुषी चन्द्र-सूर्यौ, द्याꣳ मूर्धाꣳ यस्य विप्रा वदन्ति इति श्रुतिस्-मृति-प्रसिद्धꣳ परम-पुरुष-रूपम् इह प्रत्यभिज्ञायमानꣳ वैश्वानरस्य परमात्मत्वे लिङ्गꣳ स्याद् इत्य् अर्थः ॥२६॥

Link copied

५९ शब्दादिभ्योऽन्तः प्रतिष्ठानाच् च नेति चेन् न॥१।२।२७॥

Link copied

तथा दृष्ट्य्-उपदेशाद् असम्भवात् पुरुषम् अपि चैनम् अधीयते--- अनिर्णयम् आशङ्क्य परिहरति--- शब्दादिभ्योऽन्तः प्रतिष्ठानाच् चेति। शब्दस् तावत् वाजिनाꣳ वैश्वानर-विद्या-प्रकरणे स एषोऽग्निर् वैश्वानर इति वैश्वानर-समानाधिकरणः अग्नि-शब्दः। अस्मिन् प्रकरणे च हृदये गार्हापत्य इत्य् आरभ्य वैश्वानरस्य हृदयादि-स्थानस्याग्नि-त्रय-परिकल्पनꣳ प्राणाहुत्य्-आधारत्वꣳ चेति प्रतीयते। वाजिनाम् अपि स यो ह वै तम् एवम् अग्निꣳ वैश्वानरꣳ पुरुष-विधꣳ पुरुषेऽन्तः प्रतिष्ठितꣳ वेद इति वैश्वानरस्य शरीरान्तः प्रतिष्ठितत्वꣳ प्रतीयते। अतः एतैः लिङ्गैर् वैश्वानरस्य जाठराग्नित्व-प्रतीतेर् नायꣳ परमात्मेति शक्य-निर्णय इति चेत् तन् न। तथा दृष्ट्य्-उपदेशात्। दृष्टिः--- उपासनम्, तथोपासनोपदेशाद् इत्य् अर्थः। जाठराग्नि-शरीरतया वैश्वानरस्य परमात्मानः उपासनꣳ ह्य् अत्रोपदिश्यते। अयम् अग्निर् वैश्वानरः पुरुषेऽन्तः प्रतिष्ठितः इत्य् आदौ। कथम् अवगम्यत इति चेत्, असम्भवात्--- केवल-जाठराग्नेस् त्रैलोक्य-शरीरत्वाद्य्-असम्भवात्। पुरुषम् अपि चैनम् अधीयते--- च-शब्दः प्रसिद्धौ, वाजिनस् तत्रैव स एषोऽग्निर् वैश्वानरो यत् पुरुषः इति, एनꣳ वैश्वानरꣳ पुरुषम् अपि ह्य् अधीयते। पुरुषश् च परमात्मैव पुरुष एवेदꣳ सर्वꣳ, पुरुषान् न परꣳ किञ्चित् इत्य् आदिषु प्रसिद्धेः॥२७॥

Link copied

६० अत एव न देवता भूतꣳ च॥१।२।२८॥

Link copied

यतः त्रैलोक्य शरीरः असौ वैश्वानरः, यतश् च निरुपाधिक-पुरुष-शब्द-निर्दिष्टः, अत एव नाग्न्य्-आख्या देवता, महापुरुष-तृतीयश् च वैश्वानरः शङ्कनीयः॥२८॥

Link copied

६१ साक्षाद् अप्य् अविरोधꣳ जैमिनिः॥१।२।२९॥

Link copied

अग्नि-शरीरतया वैश्वानरस्य उपासनार्थम् अग्नि-शब्द-सामानाधिकरण्य-निर्देश इत्य् उक्तम्। विश्वेषाꣳ नराणाꣳ नेतृत्वादिना सम्बन्धेन यथा वैश्वानर-शब्दः परमात्मनि वर्तते, यथैव अग्नि-शब्दस्याप्य् अग्रनयनादिना योगेन साक्षात् परमात्मनि वृत्तौ न कश्चिद् विरोध इति जैमिनिराचार्यो मन्यते॥२९॥

Link copied

यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् इति द्यु-प्रभृति-पृथिव्य्-अन्त-प्रदेश-सम्बन्धिन्या मात्रया परिच्छिन्नत्वम् अनवच्छिन्नस्य परमात्मनः वैश्वानरस्य कथम् उपपद्यत इत्य् अत्राह---

Link copied

६२ अभिव्यक्तेर् इत्य् आश्मरथ्यः॥१।२।३०॥

Link copied

अनवच्छिन्नस्यैव परमात्मनः उपासनाभिव्यक्त्यर्थꣳ द्यु-प्रभृति-पृथिव्य्-अन्त-प्रदेश-परिच्छिन्नत्वम् इत्य् आश्मरथ्य आचार्यो मन्यते॥३०॥

Link copied

द्यु-प्रभृति-प्रदेशावच्छेदेनाभिव्यक्तस्य परमात्मनः द्यु-भ्व्-आदित्यादीनाꣳ मूर्धाद्य्-अवयव-कल्पनꣳ किम् अर्थम् इति चेत् तत्राह---

Link copied

६३ अनुस्मृतेर् बादरिः॥१।२।३१॥

Link copied

अनुस्मृतिः उपासनम्। ब्रह्म-प्राप्तये व्रतोपासनार्थꣳ मूर्ध-प्रभृति-पादान्त-देह-परिकल्पनम् इति बादरिराचार्यो मन्यते॥३१॥

Link copied

अयꣳ वैश्वानरः परमात्मा। त्रैलोक्य-शरीरः उपास्य उपदिश्यते चेत्, उर एव वेदिर् लोमानिबर्हिर् हृदयꣳ गार्हापत्यः इत्य् आदिना उपासक-शरीरावयवानाꣳ गार्हापत्यादि-परिकल्पनꣳ किम् अर्थम् इत्य् अत्राह---

Link copied

६४ सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति॥१।२।३२॥

Link copied

वैश्वानर-विद्याङ्ग-भूतायाः उपासकैर् अहर् अहः क्रियमाणायाः प्राणाहुतेर् अग्निहोत्रत्व-सम्पादनाय गार्हापत्यादि-परिकल्पनम् इति जैमिनिर् आचार्यो मन्यते। तथा ह्य् अग्निहोत्र-सम्पत्तिम् एव दर्शयतीयꣳ श्रुतिः प्राणाहुतिꣳ विधाय, अथ य एवꣳ विद्वान् अग्निहोत्रꣳ जुहोति इति। उक्तानाम् अर्थानाꣳ पूजितत्व-ख्यापनायाचार्य-ग्रहणम्॥३२॥

Link copied

६५ आमनन्ति चैनम् अस्मिन्॥१।२।३३॥

Link copied

एनꣳ परम-पुरुषꣳ वैश्वानरꣳ द्यु-भ्व्-आदि-देहम्, अस्मिन्--- उपासक-देहे प्राणाग्निहोत्रेणाराध्यत्वायामनन्ति हि--- तस्य ह वा एतस्य वैश्वानरस्य मूर्धैव सुतेजा इत्य् आदिना। उपासक-मूर्धादि-पादान्ता एव द्यु-प्रभृतयः परम-पुरुषस्य मूर्धादय इति प्राणाग्निहोत्र-वेलायाम् अनुसन्धेया इत्य् अर्थः॥३३॥इति वैश्वानराधिकरणम्॥६॥

Link copied

इति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य द्वितीयः पादः॥

Link copied
Join our community