Skip to content

Vedanta Dipa · Section 2 of 17

||atha prathamādhyāye prathamaḥ pādaḥ||

Sanskrit (IAST) · click to toggle

श्रियः कान्तोऽनन्तो वर-गुण-गणैकास्पद-वपुः

Link copied

हताशेषावद्यः परम-खपदो वाङ्-मनसयोः।

Link copied

अभूमिर् भूमिर् यो नत-जन-दृशाम् आदि-पुरुषो

Link copied

मनस् तत्-पादाब्जे परिचरण-सक्तꣳ भवतु मे॥

Link copied

प्रणम्य शिरसाचार्याꣳस् तद्-आदिष्टेन वर्त्मना।

Link copied

ब्रह्मसूत्र-पदान्त-स्थ-वेदान्तार्थः प्रकाश्यते॥

Link copied

अत्रेयम् एव हि वेद-विदाꣳ प्रक्रिया अचिद्-वस्तुनः स्वरूपतः स्वभावतश् चात्यन्त-विलक्षणः तद्-आत्म-भूतः चेतनः प्रत्यगात्मा। तस्माद् बद्धान् मुक्तान् नित्याच् च निखिल-हेय-प्रत्यनीकतया, कल्याण-गुणैकतानतया च, सर्वावस्थ-चिद्-अचिद्-व्यापकतया धारकतया नियन्तृतया शेषितया चात्यन्त-विलक्षणः परमात्मा। यथोक्तꣳ भगवता--- द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः। यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः। यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति।

Link copied

श्रुतिश् च--- प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः, पतिꣳ विश्वस्यात्मेश्वरम्, अन्तर् बहिश् च तत् सर्वꣳ व्याप्य नारायणः स्थितः इत्य् आदिका। कूटस्थः--- मुक्त-स्वरूपम्। ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तꣳ पर्युपासते। सर्वत्रगम् अचिन्त्यꣳ च कूटस्थम् अचलꣳ ध्रुवम् इत्य् आदि व्यपदेशात्। सूत्र-कारश् चैवम् एव वदति नेतरोऽनुपपत्तेः, भेदव्यपदेशात्। अनुपपत्तेस् तु न शारीरः, कर्म-कर्तृ-व्यपदेशाच् च, शब्द-विशेषात्, सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्, न च स्मार्त-मत-धर्माभिलापाच् छारीरश् च, उभयेऽपि हि भेदेनैनम् अधीयते, विशेषण-भेद-व्यपदेशाभ्याꣳ च नेतरौ, मुक्तोपसृप्यव्यपदेशाच् च, स्थित्य्-अदनाभ्याꣳ च, इतर-परामर्शात् स इति चेन् नासम्भवात्, उत्तराच् चेद् आविर्भूत-स्वरूपस् तु, सुषुप्त्य् उत्क्रान्त्योर् भेदेन, पत्य्-आदि-शब्देभ्यः। अधिकꣳ तु भेद-निर्देशात्। अधिकोपदेशात् तु बादरायणस्यैव तद्-दर्शनात्। जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च इत्य् आदिभिः। न चाविद्या-कृतम् उपाधिकृतꣳ वा भेदम् आश्रित्यैते निर्देशाः। इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च, तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपैति, मुक्तोपसृप्य व्यपदाशाच् च, उत्तराच् चेद् आविर्भूत-स्वरूपस् तु, सम्पद्याविर्भावः स्वेन-शब्दात्, जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च, इति सर्वाविद्योपाधि-विनिर्मुक्तम् अधिकृत्यैव भेदोपपादनात्। श्रुति-स्मृति-सूत्रेषु सर्वत्र भेदे निर्दिष्टे चिद्-अचिद्-ईश्वर-स्वरूप-भेदः स्वाभाविको विवक्षित इति निश्चीयते। सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति शान्त उपासीत, वाचारम्भणꣳ विकारो नामधेयꣳ मृत्तिकेत्य् एव सत्यम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयꣳ तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत, सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः, ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत् त्वम् असि श्वेतकेतो, क्षेत्रज्ञꣳ चापि माꣳ विद्धि, तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्य इति परस्य ब्रह्मणः कारणत्वꣳ, कृत्स्नस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य कार्यत्वꣳ, कारणात् कार्यस्यानन्यत्वꣳ चोच्यमानम् एवम् एवोपपद्यते। सर्वावस्थस्य चिद्-अचिद्-वस्तुनः परमात्म-शरीरत्वꣳ, परमात्मनश् चात्मत्वꣳ, यः पृथिव्याꣳ तिष्ठन् यस्य पृथिवी शरीरꣳ, य आत्मनि तिष्ठन् यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति, यस्याव्यक्तꣳ शरीरꣳ यस्याक्षरꣳ शरीरꣳ यस्य मृत्युः शरीरम्, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः, अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा इत्य् आदि श्रुत्यैवोपदिष्टम् इति सूक्ष्म-चिद्-अचिद्-वस्तु-विशिष्टः परमात्मा कारणम्, स एव परमात्मा स्थूल-चिद्-अचिद्-वस्तु-शरीरः कार्यम् इति, कारणावस्थायाꣳ कार्यावस्थायाꣳ च चिद्-अचिद्-वस्तु-शरीरकतया तत्-प्रकारः परमात्मैव सर्व-शब्द-वाच्य इति परमात्म-शब्देन सर्व-शब्द-सामानाधिकरण्यꣳ मुख्यम् एवोपपन्नतरम्। अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि, तत् सृष्ट्वा तद् एवानुप्राविशत् तद् अनुप्रविश्य सच् च त्यच् चाभवत् इत्य् आदि श्रुतिर् एवेमम् अर्थम् उपपादयति। सर्वम् आत्मतयानुप्रविश्य तच्-छरीरत्वेन सर्व-प्रकारतया स एव सर्व-शब्द-वाच्यो भवतीत्य् अर्थः। बहु स्याम् इति बहु-भवन-सङ्कल्पोऽपि नाम-रूप-विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरकतयैकधावस्थितस्य विभक्त-नाम-रूप-चिद्-अचित् शरीरकतया बहु-प्रकारता-विषयः, इति वेदवित्-प्रक्रिया।

Link copied

ये पुनर् निर्विशेष-कूटस्थ-स्व-प्रकाश-नित्य-चैतन्य-मात्रꣳ ब्रह्म ज्ञात-व्यतयोक्तम् इति वदन्ति, तेषाम्, जन्माद्यस्य यतः, शास्त्र-योनित्वात्, तत् तु समन्वयात्, ईक्षतेर् नाशब्दम् इत्य् आदेः--- जगद्-व्यापार-वर्जꣳ, प्रकरणाद् असनन्निहितत्वाच् च, भोग-मात्र-साम्य-लिङ्गाच् च, अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् इत्य् अन्तस्य सूत्र-गणस्य ब्रह्मणो जगत्-कारणत्व-बहु-भवन-सङ्कल्प-रूपेक्षणाद्य्-अनन्त-विशेष-प्रतिपादन-परत्वात्सर्वꣳ सूत्र-जातꣳ, सूत्र-कारोदाहृताः, यतो वा इमानि भूतानि जायन्ते, तद् ऐक्षत बहु स्याꣳ प्रजायेयेति इत्य् आद्याः सर्व-श्रुतयश् च न सङ्गच्छन्ते। अथोच्येत येनाश्रुतꣳ श्रुतम् इत्य् एक-विज्ञानेन सर्व-विज्ञानꣳ प्रतिज्ञाय, यथा सोम्यैकेन मृत्-पिण्डेन इत्य् एक-मृत्-पिण्डारब्ध-घट-शरावादीनाꣳ तन्-मृत्-पिण्डाद् अनन्य-द्रव्यतया तज्-ज्ञानेन तेषाꣳ ज्ञाततेव, ब्रह्म-ज्ञानेन तद्-आरब्धस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य जगतस् तस्माद् अनतिरिक्त-वस्तुतया ज्ञातता सम्भवतीत्य् उपपाद्य, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इतीदꣳ शब्द-वाच्यस्य चिद्-अचिद्-आत्मक-प्रपञ्चस्य सृष्टेः प्राङ्-निखिल-भेद-प्रहाणेन सच्-छब्द-वाच्येनैकतापत्तिꣳ घट-शरावाद्य्-उत्पत्तेः प्राग्-उत्पादक-मृत्-पिण्डैकतापत्तिवत् अभिधाय, तद् ऐक्षत बहु स्याम् इति तद् एव सच्-छब्द-वाच्यꣳ ब्रह्म चिद्-अचिद्-आत्मक-प्रपञ्च-रूपेणात्मनो बहु-भवनम् एक-मृत्-पिण्डस्य घट-शरावादि-रूपेण बहु-भवनवत् सङ्कल्प्य आत्मानम् एव तेजः प्रभृति-जगद्-आकारेण असृजतेति चाभिधाय, ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत् त्वम् असि इत्य् अभिधानात् ब्रह्मैवाविद्याकृतेन पारमार्थिकेन वोपाधिना सम्बद्धꣳ देवादि-रूपेण बहु-भूतम् इति वेदविद्भिर् अभ्युपगन्तव्यम् इति। तद् अयुक्तम्, ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ, नित्यो नित्यानाꣳ चेतनश् चेतनानाम् एको बहूनाꣳ यो विदधाति कामान् इत्य् आदि श्रुतिभिर् जीवानाम् अजत्व-नित्यत्व-बहुत्व-वचनात्। यदि घट-शरावादेर् उत्पत्तेः प्राग् एकीभूतस्य मृद्-द्रव्यस्य उत्पत्त्य्-उत्तर-काल-भावि-बहुत्ववत् सृष्टेः प्राग् एकीभूतस्यैव ब्रह्मणः सृष्ट्य्-उत्तर-कालीनꣳ नाना-विध-जीव-रूपेण बहुत्वम् उच्यते, तदा जीवानाम् अजत्व-नित्यत्व-बहुत्वादि विरुध्येत। सूत्र-विरोधश् च इतर-व्यपदेशाद् हिताकरणादि-दोष-प्रसक्तिः इति ब्रह्मैव देव-मनुष्यादि-जीव-स्वरूपेण बहु-भूतꣳ चेद् आत्मनो हिताकरणादि-दोष-प्रसक्तिर् इत्य् उक्त्वा, अधिकꣳ तु भेद-निर्देशाद् इति जीवाद् ब्रह्मणोऽर्थान्तरत्वम् उक्तम्। तथा च वैषम्य-नैर्घृण्ये न सापेक्षत्वाद् इति देवादि-विषम-सृष्टि-प्रयुक्त-पक्ष-पात-नैर्घृण्ये, जीवानाꣳ पूर्व-पूर्व-कर्मापेक्षत्वाद् विषम-सृष्टेः इति परिहृते। तथा न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्युपलभ्यते च इति, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इति सृष्टेः प्राग्-अविभाग-वचनात् सृष्टेः प्राग् जीवानाम् अभावात् तत्-कर्म न सम्भवतीति परिचोद्य, जीवानाꣳ तत्-कर्म-प्रवाहाणाꣳ चानादित्वाद् इति परिहृतम्। नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः इत्य् आत्मन उत्पत्त्य्-अभावश् चोक्तो नित्यत्वꣳ च स्वाभ्युपगम-विरोधश्च। आमोक्षाज् जीव-भेदस्यानादित्वꣳ सर्वैर् एव हि वेदान्तिभिर् अभ्युपगम्यते। अतः श्रुति-विरोधात् सूत्र-विरोधात् स्वाभ्युपग-विरोधाच् च सृष्टेः प्राग् एकत्वावधारणꣳ नाम-रूप-विभागाभावाभिप्रायꣳ, नाम-रूप-विभागानर्हासूक्ष्म-चिद्-अचिद्-वस्तु-शक्ति-भेद-सहꣳ चेति सर्वैर् अभ्युपगम्यते। इयाꣳस् तु विशेषः--- अविद्या-परिकल्पनेऽप्य् उपाधिपरि-कल्पनेऽपि ब्रह्म-व्यतिरिक्तस्याविद्या-सम्बन्धिनश् चोपाधिसम्बन्धिनः चेतनस्याभावाद् अविद्योपाधि-सम्बन्धौ तत्-कृताश् च दोषा ब्रह्मण एव भवेयुर् इति।

Link copied

सन्-मात्र-ब्रह्म-वादेऽपि प्राक्सृष्टेः सन्-मात्रꣳ ब्रह्मैकम् एव सृष्ट्य्-उत्तर-कालꣳ भोक्तृ-भोग्य-नियन्तृ-रूपेण त्रिधा-भूतꣳ चेद् घट-शराव-मणिकवज् जीवेश्वरयोर् उत्पत्तिमत्त्वम् अनित्यत्वꣳ च स्यात्। अथैकत्वापत्ति-वेलायाम् अपि भोक्तृ-भोग्य-नियन्तृ-शक्ति-त्रयम् अवस्थितम् इति चेत्, किम् इदꣳ शक्ति-त्रय-शब्द-वाच्यम् इति विवेचनीयम्। यदि सन्-मात्रस्यैकस्यैव भोक्तृ-भोग्य-नियन्तृ-रूपेण परिणाम-सामर्थ्यꣳ शक्ति-त्रय-शब्द-वाच्यम्, एवꣳ तर्हि मृत्-पिण्डस्य घट-शरावादि-परिणाम-समर्थस्य तद्-उत्पादकत्वम् इव ब्रह्मण ईश्वरादीनाम् उत्पादकत्वम् इति तेषाम् अनित्यत्वम् एव। अथेश्वरादीनाꣳ सूक्ष्म-रूपेणावस्थितिर् एव शक्तिर् इत्य् उच्येत, तर्हि तद्-अतिरिक्तस्य सन्-मात्रस्य ब्रह्मणः प्रमाणाभावात् तद्-अभ्युपगमे च तद्-उत्पाद्यतयेश्वरादीनाम् अनित्यत्व-प्रसङ्गाच् च त्रयाणाꣳ नाम-रूप-विभागानर्ह-सूक्ष्म-दशापत्तिर् एव प्राक्सृष्टेर् एकत्वावधारणावसेयेति वक्तव्यम्। न तदा तेषाꣳ ब्रह्मात्मकत्वावधारणꣳ विरुध्यते। अतः सर्वावस्थावस्थितस्य चिद्-अचिद्-वस्तुनः ब्रह्म-शरीरत्व-श्रुतेः सर्वदा सर्व-शब्दैर् ब्रह्मैव तत्-तच्-छरीरकतया तत्-तद्-विशिष्टम् एवाभिधीयत इति स्थूल-चिद्-अचिद्-वस्तु-विशिष्टꣳ ब्रह्मैव कार्य-भूतꣳ जगत्, नाम-रूप-विभागानर्ह-सूक्ष्म-चिद्-अचिद्-वस्तु-विशिष्टꣳ ब्रह्म-कारणम् इति तद् एव मृत्-पिण्ड-स्थानीयम्, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् इत्य् उच्यते, तद् एव विभक्त-नाम-रूप-चिद्-अचिद्-वस्तु-विशिष्टꣳ ब्रह्म कार्यम् इति सर्वꣳ समञ्जसम्। श्रुति-न्याय-विरोधस् तु तेषाꣳ भाष्ये प्रपञ्चित इति नेह प्रतन्यते। भाष्योदितः अधिकरणार्थः ससूत्रार्थ-विवरणः सुख-ग्रहणाय सङ्क्षेपेणोपन्यस्यते।

Link copied

शारीरकाध्याय-पादार्थ-सङ्ग्रहः

Link copied

तत्र प्रथमे पादे प्रधान-पुरुषाव् एव जगत्-कारणतया वेदान्ताः प्रतिपादयन्तीत्य् आशङ्क्य सर्वज्ञꣳ सत्य-सङ्कल्पꣳ निरवद्यꣳ समस्त-कल्याण-गुणाकरꣳ ब्रह्मैव जगत्-कारणतया प्रतिपादयन्तीत्य् उक्तम्। द्वितीय-तृतीय-चतुर्थ-पादेषु कानिचिद् वेदान्त-वाक्यानि प्रधानादि-प्रतिपादन-पराणीति तन्-मुखेन सर्वाक्षेपम् आशङ्क्य तान्य् अपि ब्रह्म-पराणीत्य् उक्तम्। तत्रास्पष्ट-जीवादि-लिङ्गकानि वाक्यानि द्वितीये निरूपितानि, स्पष्ट-लिङ्गकानि तृतीये। चतुर्थे तु प्रधानादि-प्रतिपादन-च्छायानुसारीणीति विशेषः। अतः प्रथमेऽध्याये सर्वꣳ वेदान्त-वाक्य-जातꣳ सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-युक्तꣳ ब्रह्मैव जगत्-कारणतया प्रतिपादयतीति स्थापितम्। द्वितीयेऽध्याये तस्यार्थस्य दुर्धर्षणत्व-प्रतिपादनेन द्रढिमोच्यते। तत्र प्रथमे पादे साङ्ख्यादि-स्मृति-विरोधान् न्याय-विरोधाच् च प्रसक्तो दोषः परिहृतः। द्वितीये तु साङ्ख्यादि-वेद-बाह्य-पक्ष-प्रतिक्षेप-मुखेन तस्यैवादरणीयता स्थिरीकृता। तृतीय-चतुर्थयोर् वेदान्त-वाक्यानाम् अन्योन्य-विप्रतिषेधादि-दोष-गन्धाभाव-ख्यापनाय वियद्-आदीनाꣳ ब्रह्म-कार्यता-प्रकारो विशोध्यते। तत्र तृतीये पादे च चिद्-अचित्-प्रपञ्चस्य ब्रह्म-कार्यत्वे सत्य् अप्य् अचिद् अꣳशस्य स्वरूपान्य् अथाभावेन कार्यत्वꣳ, चिद्-अꣳशस्य स्वभावान् यथाभावेन ज्ञान-सङ्कोच-विकास-रूपेण कार्यतोदिता। चतुर्थे तु जीवोपकरणानाम् इन्द्रियादीनाम् उत्पत्ति-प्रकारः इति प्रथमेनाध्याय-द्वयेन मुमुक्षुभिर् उपास्यꣳ निरस्त-निखिल-दोष-गन्ध-मनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणꣳ निखिल-जगद्-एक-कारणꣳ ब्रह्मेति प्रतिपादितम्। उत्तरेण द्वयेन ब्रह्मोपासन-प्रकारस् तत्-फल-भूत-मोक्ष-स्वरूपꣳ च चिन्त्यते। तत्र तृतीयस्य प्रथमे पादे ब्रह्मोपासिसिषोत्पत्तये जीवस्य सꣳसरतो दोषाः कीर्तिताः। द्वितीये चोपासिसिषोत्पत्तय एव ब्रह्मणो निरस्त-निखिल-दोषता-कल्याण-गुणाकरता-रूपोभय-लिङ्गता प्रतिपाद्यते। तृतीये तु ब्रह्मोपासनैकत्व-नानात्व-विचार-पूर्वकम् उपासनेषु उपसꣳहार्यानुपसꣳहार्य-गुण-विशेषाः प्रपञ्चिताः। चतुर्थे तु उपासनस्य वर्णाश्रम-धर्मेति-कर्तव्यताकत्वम् उक्तम्। चतुर्थेऽध्याये ब्रह्मोपासन-फल-चिन्ता क्रियते। तत्र प्रथमे पादे ब्रह्मोपासन-फलꣳ वक्तुम् उपासन-स्वरूप-पूर्वकोपासनानुष्ठान-प्रकारो विद्या-माहात्म्यꣳ चोच्यते। द्वितीये तु ब्रह्मोपासीनानाꣳ ब्रह्म-प्राप्ति-गत्य्-उपक्रम-प्रकारश् चिन्तितः। तृतीये त्व् अर्चिरादि-गति-स्वरूपम् अर्चिरादिनैव ब्रह्म-प्राप्तिर् इति च प्रतिपाद्यते। चतुर्थे तु मुक्तस्य ब्रह्मानुभव-प्रकारश् चिन्त्यते। अतो मुमुक्षुभिर् ज्ञातव्यꣳ निरस्त-निखिल-दोष-गन्धम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणाकरꣳ निखिल-जगद्-एक-कारणꣳ परꣳ ब्रह्म, तज्-ज्ञानꣳ च मोक्ष-साधनम् असकृद्-आवृत्त-स्मृति-सन्तान-रूपम् उपासनात्मकम्, उपासन-फलꣳ चार्चिरादिना परꣳ ब्रह्मोपसम्पद्य स्व-स्वरूप-भूत-ज्ञानादि-गुणाविर्भाव-पूर्वकानन्त-महा-विभूत्य्-अनवधिकातिशयानन्द-ब्रह्मानुभवोऽपुनर्-आवृत्ति-रूप इति शारीरक-शास्त्रेणोक्तꣳ भवति।

Link copied

१।१।१

Link copied

१ ओम् अथातो ब्रह्म-जिज्ञासा॥१।१।१॥

Link copied

ब्रह्म-मीमाꣳसा-विषयः। सा किम् आरम्भणीया, उत अनारम्भणीयेति सꣳशयः। तद्-अर्थꣳ परीक्ष्यते--- वेदान्ताः किꣳ ब्रह्मणि प्रमाणम् उत नेति। तद्-अर्थꣳ परिनिष्पन्नेऽर्थे शब्दस्य बोधन-सामर्थ्यावधारणꣳ सम्भवति, नेति। न सम्भवति इति पूर्व-पक्षः। सम्भवतीति राद्धान्तः। यदा न सम्भवति तदा परिनिष्पन्नेऽर्थे शब्दस्य बोधन-सामर्थ्याभावात् सिद्ध-रूपे ब्रह्मणि न वेदान्ताः प्रमाणम् इति तद्-विचाराकारा ब्रह्म-मीमाꣳसा नारम्भणीया। यदा सम्भवति तदा सिद्ध्येऽप्य् अर्थे शब्दस्य बोधन-सामर्थ्य-सम्भवाद् वेदान्ताः ब्रह्मणि प्रमाणम् इति सा चारम्भणीया स्यात्। अत्र पूर्व-पक्ष-वादी मन्यते--- वृद्ध-व्यवहाराद् अन्यत्र व्युत्पत्त्य्-असम्भवाद् व्यवहारस्य च कार्य-बुद्धि-पूर्वकत्वेन कार्य एवार्थे शब्द-शक्त्य्-अधारणात् परिनिष्पन्नेऽर्थे ब्रह्मणि न वेदान्ताः प्रमाणम् इति तद्-विचार-रूपा ब्रह्म-मीमाꣳसा नारम्भणीयेति। सिद्धान्तस् तु--- बालानाꣳ माता-पितृ-प्रभृतिभिर् अम्बा-तात-मातुल-शिशु-पशु-पक्षि-मृगादिष्व् अङ्गुल्या निर्दिश्य तत्-तद्-अभिधायिनः शब्दान् प्रयुञ्जानैः क्रमेण बहुशः शिक्षितानाꣳ तत्-तच्-छब्द-श्रवण-समनन्तरꣳ स्वात्मनाम् एव तद्-अर्थ-बुद्ध्य्-उत्पत्ति-दर्शनात्, शब्दार्थयोः सम्बन्धान्तरादर्शनात् सङ्केतयितृ-पुरुषाज्ञानाच् च बोध्य-बोधक-भाव एव शब्दार्थयोः सम्बन्ध इति निश्चिन्वानानाꣳ परिनिष्पन्नेऽर्थे शब्दस्य बोधकत्वावधारणꣳ सम्भवतीति ब्रह्मणि वेदान्त-वाक्यानाꣳ प्रामाण्यात् तद्-अर्थ-विचाराकारा ब्रह्म-मीमाꣳसा आरम्भणीयेति। सूत्रार्थस् तु--- अथातो ब्रह्म-जिज्ञासा--- अथ इत्य् आनन्तर्ये। अत इति च वृत्तस्य हेतु-भावे। ब्रह्मणो जिज्ञासा ब्रह्म-जिज्ञासा, ज्ञातुम् इच्छा जिज्ञासा। इच्छाया इष्यमाण-प्रधानत्वाद् इष्यमाणꣳ ज्ञानम् इहाभिप्रेतम्। पूर्व-वृत्ताद् अल्पास्थिर-फल-केवल-कर्माधिगमाद् अनन्तरꣳ तत एव हेतोर् अनन्त-स्थिर-फल-ब्रह्माधिगमः कर्तव्यः॥१॥इति जिज्ञासाधिकरणम्॥१॥

Link copied

१।१।२

Link copied

२ जन्माद्य् अस्य यतः॥१।१।२॥

Link copied

तैत्तरीयके--- यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसꣳविशन्ति तद् विजिज्ञासस्व तद् ब्रह्म इत्य् एतद् वाक्यꣳ विषयः। किम् एतज्-जिज्ञास्यतया प्रतिज्ञातꣳ ब्रह्म जगज्-जन्मादि-कारणतया लक्षणतः प्रतिपादयितुꣳ शक्नोति न वेति सꣳशयः। न शक्नोतीति पूर्व-पक्षः। कुतः। जगज्-जन्मादीनाम् उपलक्षणतया विशेषणतया वा ब्रह्म-लक्षणत्वासम्भवात्। उपलक्षणत्वे ह्य् उपलक्ष्यस्याकारान्तर-योगोऽपेक्षितः। न चेह तद् अस्ति। अत उपलक्षणत्वꣳ न सम्भवति। विशेषणत्वेऽप्य् अनेक-विशेषण-विशिष्टतयापूर्वस्यैकस्य प्रतिपादकत्वꣳ न सम्भवति, विशेषणानाꣳ व्यावर्तकत्वेन विशेषण-बहुत्वे ब्रह्म-बहुत्व-प्रसक्तेः। राद्धान्तस् तु--- एकस्मिन्न् अविरुद्धानाꣳ विशेषणानाम् अनेकत्वेऽपि श्यामत्व-युवत्वादि-विशिष्ट-देवदत्तवज् जगज्-जन्मादि-विशिष्टꣳ ब्रह्मैकम् एव विशेष्यꣳ भवति। उपलक्षणत्वे जन्मादिभिर् उपलक्ष्यस्य ब्रह्म-शब्दावगत-बृहत्त्वाद्य्-आकाराश् च सन्तीति जगज्-जन्मादि-कारणꣳ ब्रह्मेति लक्षणतः प्रतिपादयितुꣳ शक्नोतीति। सूत्रार्थः--- अस्य विविध-विचित्र-भोक्तृ-भोग्य-पूर्णस्य जगतो यतो जन्मादि, तद् ब्रह्मेति प्रतिपादयितुꣳ शक्नोत्य् एतद् वाक्यम् इति॥२॥इति जन्माद्य्-अधिकरणम्॥२॥

Link copied

१।१।३

Link copied

३ शास्त्र-योनित्वात्॥१।१।३॥

Link copied

यतो वा इमानि इत्य् आदि वाक्यम् एव विषयः। तत् किꣳ जगत्-कारणे ब्रह्मणि प्रमाणम् उत नेति सꣳशयः। नैतत् प्रमाणम् इति पूर्व-पक्षः, अनुमान-सिद्ध-ब्रह्म-विषयत्वात्। प्रमाणान्तराविषये हि शास्त्रꣳ प्रमाणम्। जगतः सावयवत्वेन कार्यत्वात्। कार्यस्य स्वोपादानोपकरण-सम्प्रदान-प्रयोजनाद्य्-अभिज्ञ-कर्तृकत्वात्, जगन्-निर्माण-कार्य-चतुरः कर्म-परवश-परिमित-शक्त्य्-आदि-क्षेत्रज्ञ-विलक्षणः सर्वज्ञः सर्व-शक्तः सर्वेश्वरः अनुमान-सिद्ध इति तस्मिन् यतो वा इमानि भूतानि इत्य् आदि वाक्यꣳ प्रमाणम् इति। राद्धान्तस् तु--- जगतः कार्यत्वेऽप्य् एकदैवैकेनैव कृत्स्नꣳ जगन् निर्मितम् इत्य् अत्र प्रमाणाभावात्। क्षेत्रज्ञानाम् एव विलक्षण-पुण्यानाꣳ ज्ञान-शक्ति-वैचित्र्य-सम्भावनया कदाचित् कस्यचिज् जगद्-एकदेश-निर्माण-सामर्थ्य-सम्भवात् तद्-अतिरिक्त-पुरुषानुमानꣳ न सम्भवतीति शास्त्रैक-प्रमाणकत्वाद् ब्रह्मणस् तत्-प्रतिपादकत्वेन तस्मिन्, यतो वा इमानि भूतानि इत्य् आदि वाक्यꣳ प्रमाणम् इति। शास्त्रꣳ योनिः यस्य कारणम्। प्रमाणꣳ तद् ब्रह्म शास्त्र-योनि; प्रमाणान्तराविषयत्वेन शास्त्रैक-प्रमाणकत्वाद् ब्रह्मणस् तस्मिन्, यतो वा इमानि इत्य् आदि वाक्यꣳ प्रमाणम् इति सूत्रार्थः॥३॥इति शास्त्र-योनित्वाधिकरणम्॥३॥

Link copied

१।१।४

Link copied

४ तत् तु समन्वयात्॥१।१।४॥

Link copied

ब्रह्मणः शास्त्र-प्रमाणकत्वꣳ सम्भवति, नेति विचार्यते। न सम्भवतीति पूर्वः पक्षः। कुतः प्रवृत्ति-निवृत्त्य्-अन्वय-विरहिणो ब्रह्मणः स्वरूपेणा पुरुषार्थत्वात्, पुरुषार्थावबोधकत्वेन च शास्त्रस्य प्रामाण्यात्, मोक्ष-साधन-ब्रह्म-ध्यान-विधि-परत्वेऽप्य् असत्य् अपि ब्रह्मणि तद्-ध्यान-विधान-सम्भवात्, न ब्रह्म-सद्-भावे तात्पर्यम् इति ब्रह्मणः शास्त्र-प्रमाणकत्वꣳ न सम्भवति। राद्धान्तस् त्व् अतिशयित-गुण-पितृ पुत्रादि-जीवन-ज्ञानवद्-अनवधिकातिशयानन्द-स्वरूप-ब्रह्म-ज्ञानस्य निरतिशय-पुरुषार्थत्वात् तस्य शास्त्र-प्रमाणकत्वꣳ सम्भवति, आनन्दो ब्रह्म, यद् एष आकाश आनन्दो न स्यात्, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दꣳ ब्रह्मणो विद्वान् इत्य् आदिभिर् अनवधिकातिशयानन्द-स्वरूपꣳ ब्रह्मेति हि प्रतिपाद्यते। अतो ब्रह्म स्वेन परेण वाप्य् अनुभूयमानꣳ निरतिशयानन्द-स्वरूपम् एवेति तत्-प्रतिपादन-परस्यैव साक्षात् पुरुषार्थान्वयः। प्रवृत्ति-निवृत्ति-परस्य तु तत्-साध्य-फल-सम्बन्धात् पुरुषार्थान्वय इति। सूत्रार्थः--- तु-शब्दः प्रसक्ताशङ्का-निवृत्त्य्-अर्थः। तत्--- पूर्वस्-ऊत्रोदितꣳ ब्रह्मणः शास्त्र-योनित्वꣳ समन्वयात् सिद्ध्यति। सम्यक् पुरुषार्थतया अन्वयः समन्वयः। वेदितुर् निरतिशयानन्द-स्वरूपत्वेन परम-पुरुषार्थ-रूपे परे ब्रह्मणि वेदकतया शास्त्रस्यान्वयाद् ब्रह्मणः शास्त्र-प्रमाणकत्वꣳ सिद्ध्यत्य् एवेति॥४॥ इति समन्वयाधिकरणम्॥४॥

Link copied

१।१।५

Link copied

५ ईक्षतेर् नाशब्दम्॥१।१।५॥

Link copied

येनाश्रुतꣳ श्रुतꣳ भवति इत्य् आदि जगत्-कारण-वादि-वेदान्त-वेद्यꣳ विषयः। तत् किꣳ साङ्ख्योक्तꣳ प्रधानम् उत अनवतिकातिशयानन्दꣳ ब्रह्मेति सꣳशयः। प्रधानम् इति पूर्व-पक्षः। कुतः प्रतिज्ञा-दृष्टान्तान्वयेनानुमानाकार-वाक्य-वेद्यत्वात्। येनाश्रुतꣳ श्रुतꣳ भवति इत्य् आदिना एक-विज्ञानेन सर्व-विज्ञानꣳ प्रतिज्ञाय, यथा सोम्यैकेन मृत्-पिण्डेन इति दृष्टान्तेन ह्य् उपपाद्यते। एवम् आनुमानिकम् एव एतद्-वाक्य-वेद्यम् इति निश्चीयते। सद् एव सोम्येदम् इति सच्-छब्दः प्रधान-विषयः। तद् ऐक्षत बहु स्याम् इति च गौणम् ईक्षणꣳ भवितुम् अर्हति; तत् तेज ऐक्षत इत्य् आदि गौणेक्षण-साहचर्याच् च। राद्धान्तस् तु--- तद् ऐक्षत बहु स्याम् इति बहु-भवन-सङ्कल्प-रूपेक्षणान्वयात्, सद् एव सोम्य इति कारण-वाचि-सच्-छब्द-विषयो नाचेतनꣳ प्रधानम् अपि तु सार्वज्ञ्य-सत्य-सङ्कल्पादि-युक्तꣳ परब्रह्मैवेति निश्चीयते। न चानुमानाकारम् एतद् वाक्यम्, हेत्व्-अनुपादानात्। अन्य-ज्ञानेनान्य-ज्ञानासम्भव-परिजिहीर्षया तु दृष्टान्तोपपादानम्। न च मुख्येक्षण-सम्भवे गौण-परिग्रह-सम्भवः। तेजः प्रभृति-शरीरकस्यान्तर्यामिणो वाचकत्वाद् इति परम् एव ब्रह्म जगत्-कारण-वादि-वेदान्त-वेद्यम् इति। सूत्रार्थश् च--- ईक्षतेर् इति ईक्षति-धात्व्-अर्थः ईक्षणम्। शब्दः प्रमाणꣳ यस्य न भवति तद् अशब्दꣳ--- परोक्तम् आनुमानिकꣳ प्रधानम्। सद् एव सोम्येदम् इति जगत्-कारणतया प्रतिपादितान्वयिनः ईक्षण-व्यापारान् नाचेतनम् अशब्दꣳ तद् अपि तु सर्वज्ञꣳ सत्य-सङ्कल्पꣳ ब्रह्मैव जगत्-कारणम् इति निश्चीयते इति॥५॥

Link copied

६ गौणश् चेन् नात्म-शब्दात्॥१।१।६॥

Link copied

तत् तेज ऐक्षत इत्य् अचेतन-गत-गौणेक्षण-साहचर्यात्, तद् ऐक्षत इत्य् अत्र ईक्षतिर् गौण इति चेन् न, आत्म-शब्दात्। सच्-छब्दाभिहिते ईक्षितरि, ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा इति श्रूयमाणाच् चेतन-वाचिनः आत्म-शब्दाद् अयम् ईक्षतिर् मुख्य एवेति प्रतीयते। ऐतदात्म्यम् इदꣳ सर्वम् इति तेजः-प्रभृतीनाम् अपि तद्-आत्मकत्वावगमात् तेजः-प्रभृतीक्षणम् अपि मुख्यम् एवेत्य् अभिप्रायः॥६॥

Link copied

७ तन्-निष्ठस्य मोक्षोपदेशात्॥१।१।७॥

Link copied

इतश् च सच्-छब्दाभिहितꣳ न प्रधानम् अपि तु परम् एव ब्रह्म। तत् त्वम् असि इति सद्-आत्मकतया प्रत्यग्-आत्मानुसन्धान-निष्ठस्य, तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्य इति मोक्षोपदेशात् तत्-कारणꣳ परम् एव ब्रह्म॥७॥

Link copied

८ हेयत्वावचनाच् च॥१।१।८॥

Link copied

यदि प्रधानम् इह कारणतया विवक्षितम्, तदा तस्य मोक्ष-विरोधित्वाद् धेयत्वम् उच्येत। न चोच्यते। अतश् च न प्रधानम्॥८॥

Link copied

९ प्रतिज्ञा-विरोधात्॥१।१।९॥

Link copied

प्रधान-वादे प्रतिज्ञा च विरुध्यते, येनाश्रुतꣳ श्रुतम् इति वक्ष्यमाण-कारण-विज्ञानेन चेतनाचेतन-मिश्र-कृत्स्न-प्रपञ्च-ज्ञानꣳ हि प्रतिज्ञातम्। चेतनाꣳशꣳ प्रति प्रधानस्याकारणत्वात्, तज्-ज्ञानेन चेतनाꣳशो न ज्ञायत इति न प्रधानꣳ कारणम्॥९॥

Link copied

१० स्वाप्ययात्॥१।१।१०॥

Link copied

स्वम् अपीतो भवति। सता सोम्य तदा सम्पन्नो भवति इति जीवस्य सुषुप्तस्य स्वाप्ययः श्रूयते। स्व-कारणे ह्य् अप्ययः स्वाप्ययः। जीवꣳ प्रति प्रधानस्याकारणत्वात् स्वाप्यय-श्रुतिः विरुध्यते। अतश् च न प्रधानम् अपि तु ब्रह्मैव॥१०॥

Link copied

११ गति-सामान्यात्॥१।१।११॥

Link copied

इतरोपनिषद्-गति-सामान्याद् अस्याꣳ चोपनिषदि न प्रधानꣳ कारणꣳ विवक्षितम्। इतरासु चोपनिषत्सु, यः सर्वज्ञः सर्ववित्। तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नꣳ च जायते, परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च, स कारणꣳ करणाधिपाधिपः, आत्मनि खल्व् अरे विदिते सर्वम् इदꣳ विदितꣳ, तस्य ह वा एतस्य महतो भूतस्य विश्वसितम् एतद् यद् ऋग्-वेदः, पुरुष एवेदꣳ सर्वꣳ यद् भूतꣳ यच् च भव्यम्, तस्माद् विराड् अजायत, आत्मा वा इदम् एक एवाग्र आसीत्। स इमान् लोकान् असृजत, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, एको ह वै नारायण आसीत्। स एकाकी न रमेत इति सर्वज्ञः पुरुषोत्तम एव कारणतया प्रतिपाद्यते। अस्याश् च तद्-गति-सामान्याद् अत्रापि स एव कारणतया प्रतिपादनम् अर्हतीति न प्रधानम्॥११॥

Link copied

१२ श्रुतत्वाश् च॥१।१।१२॥

Link copied

श्रुतम् एवास्याम् उपनिषद्य् आत्मत एवेदꣳ सर्वम् इति। अतश् च सद् एव सोम्य इत्य् आदि जगत्-कारण-वादि-वेदान्त-वेद्यꣳ न प्रधानम्। सर्वज्ञꣳ सत्य-सङ्कल्पꣳ परम् एव ब्रह्म इति स्थितम्॥१२॥इति ईक्षत्य्-अधिकरणम्॥५॥

Link copied

१।१।६

Link copied

१३ आनन्द-मयोऽभ्यासात्॥१।१।१३॥

Link copied

तैत्तिरीयके --- तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इति प्रकृत्य, तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मय इत्य् अत्र जगत्-कारणतयावगतः आनन्द-मयः किꣳ प्रत्यग्-आत्मा, उत परमात्मेति सꣳशयः। प्रत्यग्-आत्मेति पूर्वः पक्षः। कुतः। तस्यैष एव शारीर आत्मा इत्य् आनन्द-मयस्य शारीरत्व-श्रवणात्। शारीरो हि शरीर-सम्बन्धी। स च प्रत्यग्-आत्मैव। तस्य चेतनत्वेनेक्षा-पूर्विका सृष्टिर् उपपद्यत इति। राद्धान्तस् तु --- सैषानन्दस्य मीमाꣳसा भवति इत्य् आरभ्य, यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह, आनन्दꣳ ब्रह्मणो विद्वान् इति निरतिशय-दशाशिरस्कोऽभ्यस्यमान आनन्दः प्रत्यग्-आत्मनोऽर्थान्तर-भूतस्य परस्यैव ब्रह्मण इति निश्चीयते। शारीरात्मत्वꣳ च परमात्मन एव, तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् आकाशादि-जगत्-कारणतयावगत एवान्न-मयस्य शारीर आत्मेति प्रतीयते, आत्मान्तरानिर्देशात्। श्रुत्य्-अन्तरेषु पृथिव्य्-अक्षरादीनाꣳ शरीरत्वꣳ, परमात्मन आत्मत्वꣳ च श्रूयते यस्य पृथिवी शरीरम् इत्य् आरभ्य, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायण इति। अन्न-मयस्यात्मैव प्राण-मयादिषु, तस्यैष एव शारीर आत्मा यः पूर्वस्य इत्य् अनुकृष्यत इति प्रत्यग्-आत्मनो विज्ञान-मयस्य च स एव शारीर आत्मा। आनन्द-मये तु, तस्यैष एव शारीर आत्मा यः पूर्वस्य इति निर्देशः आनन्द-मयस्यानन्यात्मत्व-प्रदर्शनार्थः। अतो जगत्-कारणतया निर्दिष्टम् आनन्द-मयः परमात्मैवेति। सूत्रार्थस् तु आनन्द-मय-शब्द-निर्दिष्टः आकाशादि-जगत्-कारण-भूतः प्रत्यग्-आत्मनोऽर्थान्तर-भूतः परमात्मा। कुतः। तस्यानन्दस्य निरतिशय-प्रतीति-बलात्। स एको मानुष आनन्दः। ते ये शतम् इत्य् आद्य् अभ्यासात्, तस्य च प्रत्यग्-आत्मन्य् असम्भावितस्य तद्-अतिरिक्ते परमात्मन्य् एव सम्भवात्॥१३॥

Link copied

१४ विकार-शब्दान् नेति चेन् न प्राचुर्यात्॥१।१।१४॥

Link copied

आनन्द-मयः इति विकारार्थान् मयट्-छब्दान् नायम् अविकृतः परमात्मा। अस्य च विकारार्थत्वम् एव युक्तम्, अन्न-मयः इति विकारोपक्रमाद् इति चेन् न, प्रत्यग्-आत्मनोऽपि, न जायते म्रियते वा इत्य् आदि विकार-प्रतिषेधात् प्राचुर्यार्थ एवायꣳ मयड् इति निश्चयात्। अस्मिꣳश् चानन्दे, यतो वाचो निवर्तन्ते इत्य् आदि वक्ष्यमाणात् प्राचुर्याद् अयम् आनन्द-प्रचुरः परमात्मैव। न ह्य् अनवधिकातिशय-रूपः प्रभूतानन्दः प्रत्यग्-आत्मनि सम्भवति॥१४॥

Link copied

१५ तद् धेतु-व्यपदेशाच् च॥१।१।१५॥

Link copied

एष ह्य् एवानन्दयाति इति जीवान् प्रत्य् आनन्दयितृत्व-व्यपदेशाद् अयꣳ परमात्मैव॥१५॥

Link copied

१६ मान्त्र-वर्णिकम् एव च गीयते॥१।१।१६॥

Link copied

सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इति मन्त्र-वर्णोदितꣳ ब्रह्मैव, तस्माद् वा एतस्माद् आत्मन इत्य् आरभ्य, आनन्द-मयः इति च गीयते। ततश् चानन्द-मयो ब्रह्म॥१६॥

Link copied

प्रत्यग्-आत्मनः परिशुद्धꣳ स्वरूपꣳ मन्त्र-वर्णोदितम् इत्य् आशङ्क्याह---

Link copied

१७ नेतरोऽनुपपत्तेः॥१।१।१७॥

Link copied

परस्माद् ब्रह्मणः इतरः प्रत्यग्-आत्मा न मन्त्र-वर्णोदितः, तस्य, विपश्चिता ब्रह्मणा इति विपश्चित्त्वानुपपत्तेः। विविधꣳ पश्यच् चित्त्वꣳ हि विपश्चित्त्वम्। तच् च, सोऽकामयत बहु स्याꣳ प्रजायेय इत्य् आदि वाक्योदित-निरुपाधिक-बहु-भवन-सङ्कल्प-रूपꣳ सर्वज्ञत्वम्। तत् तु प्रत्यग्-आत्मनः परिशुद्धस्यापि न सम्भवति, जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च इति वक्ष्यमाणत्वात्। अतः परꣳ ब्रह्मैव मान्त्र-वर्णिकम्॥१७॥

Link copied

१८ भेद-व्यपदेशाश् च॥१।१।१८॥

Link copied

भीषास्माद् वातः पवते इत्य् आदिना अग्नि-वायु-सूर्यादि-जीव-वर्गस्य आनन्द-मयात् प्रशासितुः प्रशासितव्यत्वेन भेदो व्यपदिश्यते। अतश् चानन्द-मयः परमात्मेति। योजनान्तरम्--- तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मय इति विज्ञान-मयाज् जीवाद् आनन्द-मयस्य भेदो व्यपदिश्यति। विज्ञान-मयो हि जीव एव न बुद्धि-मात्रम्, मयट्-च्छ्रुतेः। अतश् चानन्द-मयः परमात्मा॥१८॥

Link copied

१९ कामाच् च नानुमानापेक्षा॥१।१।१९॥

Link copied

सोऽकामयत इत्य् आरभ्य, इदꣳ सर्वम् असृजत इति कामाद् एव जगत्-सर्ग-श्रवणाद् अस्यानन्द-मयस्य जगत्-सर्गे नानुमान-गम्य-प्रकृत्य्-अपेक्षा प्रतीयते। प्रत्यग्-आत्मनो यस्य कस्यचिद् अपि सर्गे प्रकृत्य्-अपेक्षास्ति। अतश् चायꣳ प्रत्यग्-आत्मनोऽन्यः परमात्मा॥१९॥

Link copied

२० अस्मिन्न् अस्य च तद् योगꣳ शास्ति॥१।१।२०॥

Link copied

रसो वै सः। रसꣳ ह्य् एवायꣳ लब्ध्वानन्दी भवति इत्य् अस्मिन्--- आनन्द-मये रस-शब्द-निर्दिष्टे, अस्य अयꣳ-शब्द-निर्दिष्टस्य, जीवस्य तल्-लब्धादानन्द-योगꣳ शास्ति शास्त्रम्। प्रत्यग्-आत्मनो यल्-लब्धादानन्द-योगः, स तस्माद् अन्यः परमात्मैवेत्य् आनन्द-मयः परꣳ ब्रह्म॥२०॥इत्य् आनन्द-मयाधिकरणम्॥६॥

Link copied

१।१।७

Link copied

२१ अन्तस् तद्-धर्मोपदेशात्॥१।१।२१॥

Link copied

छान्दोग्ये य एषोऽन्तर् आदित्ये हिरण्मयः पुरुषो दृश्यते, य एषोऽन्तर्-अक्षिणि पुरुषो दृश्यते इत्य् अक्ष्यादित्याधारतया श्रूयमाणः पुरुषः किꣳ जीव-विशेषः, उत परम-पुरुष इति सꣳशयः। जीव-विशेष इति पूर्व-पक्षः। कुतः। सशरीरत्वात्। शरीर-सꣳयोगो हि कर्म-वश्यस्य जीवस्य स्व-कर्म-फल-भोगायेति। राद्धान्तस् तु--- स एष सर्वेभ्यः पाप्मभ्य उदितः इत्य् आदिना अपहत-पाप्मत्व-पूर्वक-सर्व-लोक-कामेशत्वोपदेशात्, तेषाꣳ च जीवेष्व् असम्भवात्, अयम् अक्ष्यादित्याधारः पुरुषोत्तम एव। स्वासाधारण-विलक्षण-रूपवत्त्वꣳ च ज्ञान-बलैश्वर्य्-आदि-कल्याण-गुणवत्तस्य सम्भवति। श्रूयते च तद्-रूपस्य अप्राकृतत्वम्। आदित्य-वर्णꣳ तमसस् तु पारे इत्य् आदौ। सूत्रार्थस् तु--- आदित्याद्य्-अन्तः श्रूयमाणः पुरुषः परꣳ ब्रह्म। तद्-असाधारणापहत-पाप्मत्वादि-धर्मोपदेशात्॥२१॥

Link copied

२२ भेद-व्यपदेशाच् चान्यः॥१।१।२२॥

Link copied

य आदित्ये तिष्ठन्न् आदित्याद् अन्तरः, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरः इत्य् आदिभिः जीवाद् भेद-व्यपदेशाच् चायꣳ जीवाद् अन्यः परमात्मैव॥२२॥इत्य् अन्तर्-अधिकरणम्॥७॥

Link copied

१।१।८

Link copied

२३ आकाशस् तल्-लिङ्गात्॥१।१।२३॥

Link copied

(छान्दोग्ये)--- अस्य लोकस्य का गतिः इत्य् आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते आकाशꣳ प्रत्यस्तꣳ यन्ति इत्य् अत्र आकाश-शब्द-निर्दिष्टꣳ जगत्-कारणꣳ किꣳ प्रसिद्धाकाशः उत समस्त-चिद्-अचिद्-वस्तु-विलक्षणꣳ ब्रह्मेति सꣳशयः। प्रसिद्धाकाशः इति पूर्व-पक्षः। कुतः। आकाश-शब्दस्य लोके तत्रैव व्युत्पत्तेः, यतो वा इमानि भूतानि इत्य् आदि सामान्य-लक्षणस्य सद्-आदि-शब्दानाम् अपि साधारणत्वेन, आकाशद् एव समुत्पद्यन्ते, इति विशेषे पर्यवसानात्। ईक्षणादयोऽप्य् आकाश एव जगत्-कारणम् इति निश्चिते सति गौणा वर्णनीया इति। राद्धान्तस् तु--- सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन् निर्देशात्, प्रसिद्धेश् चेक्षा-पूर्वकत्वात् चिद्-अचिद्-वस्तु-विलक्षणꣳ सर्वज्ञꣳ ब्रह्माकाश-शब्द-निर्दिष्टम् इति। सूत्रार्थस् तु--- आकाश-शब्द-निर्दिष्टꣳ परम् एव ब्रह्म, प्रसिद्धवन् निर्दिश्यमानाज् जगत्-कारणत्वादि-लिङ्गात्॥२३॥इत्य् आकाशाधिकरणम्॥८॥

Link copied

१।१।९

Link copied

२४ अत एव प्राणः॥१।१।२४॥

Link copied

छान्दोग्ये--- प्रस्तोतर्या देवता प्रस्तावम् अन्वायत्ता इति प्रस्तुत्य, कतमा सा देवतेति। प्राण इति होवाच, सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसꣳविशन्ति; प्राणम् अभ्युज्जिहते, सैषा देवता प्रस्तावम् अन्वायत्ता इत्य् अत्र निखिल-जगत्-कारणतया प्राण-शब्द-निर्दिष्टः किꣳ प्रसिद्धः प्राणः, उतोक्त-लक्षणꣳ ब्रह्मेति सꣳशयः। प्रसिद्ध-प्राण इति पूर्व-पक्षः। कुतः सर्वस्य जगतः प्राणायत्त-स्थिति-दर्शनात्, स एव निखिल-जगद्-एक-कारणतया निर्देशम् अर्हतीति। राद्धान्तस् तु--- शिला-काष्टादिष्व् अचेतनेषु चेतन-स्वरूपेषु च प्राणायत्त-स्थित्य्-अभावत्, सर्वाणि ह वा इमानि भूतानि इति प्रसिद्धवन् निर्देशाद् एव हेतोः प्राण-शब्द-निर्दिष्टꣳ परम् एव ब्रह्म। सूत्रम् अपि व्याख्यातम्॥२४॥इति प्राणाधिकरणम्॥९॥

Link copied

१।१।१०

Link copied

२५ ज्योतिश् चरणाभिधानात्॥१।१।२५॥

Link copied

छान्दोग्ये अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतः पृष्टेषु सर्वतः पृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेषु इदꣳ वा व तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः इत्य् अत्र जगत्-कारणत्व-व्याप्त-निरतिशय-दीप्ति-युक्ततया ज्योतिः-शब्द-निर्दिष्टꣳ किꣳ प्रसिद्धाद् इत्य् आदि ज्योतिः, उत परम् एव ब्रह्मेति सꣳशयः। प्रसिद्ध-ज्योतिर् इति पूर्व-पक्षः। कुतः। इदꣳ वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः इति कौक्षेय-ज्योतिषा प्रसिद्धेनैक्यावगमात्, स्व-वाक्ये तद्-अतिरिक्त-परब्रह्मासाधारण-लिङ्गादर्शनाच् च। राद्धान्तस् तु--- प्रसिद्ध-ज्योतिषोऽन्यद् एव परꣳ ब्रह्मेह निरतिशय-दीप्ति-युक्तꣳ ज्योतिः-शब्द-निर्दिष्टम्। कुतः। पादोऽस्य सर्वा भूतानि त्रि-पादस्यामृतꣳ दिवि इति पूर्व-वाक्ये द्यु-सम्बन्धितया निर्दिष्टस्यैव चतुष्पदो ब्रह्मणः, अथ यद् अतः परो दिवो ज्योतिः इत्य् अत्र प्रत्यभिज्ञानात्। तच् च परम् एव ब्रह्मेति विज्ञातम्, सर्वेषाꣳ भूतानाꣳ तस्य पादत्वेन व्यपदेशात्। एवꣳ परब्रह्मत्वे निश्चिते कौक्षेय-ज्योतिषः तद्-आत्मकत्वानुसन्धानꣳ फलयोपदिश्यत इति ज्ञायते। सूत्रार्थस् तु--- ज्योतिः-शब्द-निर्दिष्टꣳ परꣳ ब्रह्म, अस्य ज्योतिषः पूर्व-वाक्ये सर्व-भूत-चरणत्वाभिधानात्। सर्व-भूत-पादत्वꣳ च परस्यैव ब्रह्मण उपपद्यते॥२५॥

Link copied

२६ छन्दोऽभिधानान् नेति चेन् न तथा चेतोऽर्पण-निगमात् तथा हि दर्शनम्॥१।१।२६॥

Link copied

गायत्री वा इदꣳ सर्वम् इति गायत्र्य्-आख्य-च्छन्दसः प्रकृतत्वात् सर्व-भूत-पादत्वेन गायत्र्या एवाभिधानान् न ब्रह्मेति चेत्, नैतत्। तथा चेतोऽर्पण-निगमात्--- गायत्री यथा भवति तथा ब्रह्मणि चेतोऽर्पणोपदेशात्। गायत्री-सादृश्यꣳ चतुष्पात्त्वꣳ ब्रह्मण्य् अनुसन्धेयम् इत्य् उपदिश्यते। गायत्र्याः सर्वात्मकत्वानुपपत्तेर् इत्य् अर्थः। तथा हि दर्शनꣳ तथा ह्य् अन्यत्राप्य् अछन्दस एव सादृश्याच् छन्दः-शब्देनाभिधानꣳ दृश्यते ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्त इत्य् आरभ्य सैषा विराड् अन्नात् इति॥२६॥

Link copied

२७ भूतादि-पाद-व्यपदेशोपपत्तैश् चैवम्॥१।१।२७॥

Link copied

भूत-पृथिवी-शरीर-हृदयानि निर्दिश्य सैषा चतुष्पदा इति भूतादीनाꣳ पादत्व-व्यपदेशो ब्रह्मण्य् एवोपपद्यत इति ब्रह्मैव गायत्री-शब्द-निर्दिष्टम् इति गम्यते॥२७॥

Link copied

२८ उपदेश-भेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्॥१।१।२८॥

Link copied

पादोऽस्य सर्वा भूतानि त्रि-पादस्यामृतꣳ दिवि इति पूर्व-वाक्योदितꣳ परꣳ ब्रह्मैवास्तु; तथाप्य् अथ यद् अतः परो दिवो ज्योतिः इति द्यु-सम्बन्ध-मात्रेण नेह तत् प्रत्यभिज्ञायते; तत्र चात्र चोपदेश-प्रकार-भेदात्; तत्र हि दिवि इति द्याः सप्तम्या निर्दिश्यते, इह च दिवः परो ज्योतिः इति पञ्चम्या, ततो न प्रतिसन्धानम् इति चेन् न, उभयस्मिन्न् अपि व्यपदेश उपरि-स्थिति-रूपार्थैक्येन प्रतिसन्धानाविरोधात्। यथा वृक्षाग्रे श्येनः, वृक्षाग्रात् परतः श्येन इति॥२८॥इति ज्योतिर्-अधिकरणम्॥१०॥

Link copied

१।१।११

Link copied

२९ प्राणस् तथानुगमात्॥१।१।२९॥

Link copied

कौषीतकी-ब्राह्मणे प्रतर्दन-विद्यायाꣳ त्वम् एव वरꣳ वृणीष्व यꣳ त्वꣳ मनुष्याय हिततमꣳ मन्यसे इति प्रतर्देनोक्त इन्द्रः प्राणोऽस्मि प्रज्ञात्मा तꣳ माम् आयुर् अमृतम् इत्य् उपास्स्व इत्य् आह। अत्र हिततमोपासन-कर्मतया निर्दिष्ट इन्द्र-प्राण-शब्दाभिधेयः किꣳ जीवः। उत परमात्मेति सꣳशयः। जीव इति पूर्वः पक्षः। कुतः। इन्द्र-शब्दस्य जीव-विशेषे प्रसिद्धेः, प्राण-शब्दस्यापि तत्-समानाधिकरणस्य स एवार्थ इति तꣳ माम् आयुर् अमृतम् इत्य् उपास्व इति तस्यैवोपास्यत्वोपदेशाद् इति। राद्धान्तस् तु--- इन्द्र-प्राण-शब्द-निर्दिष्टꣳ जीवाद् अर्थान्तर-भूतꣳ परꣳ ब्रह्म स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृत इतीन्द्र-प्राण-शब्द-निर्दिष्टस्यैव जीवेष्व् असम्भावितानन्दत्वाजरत्वामृतत्व-श्रवणात्। सूत्रार्थस् तु--- उपास्यतयोपदिष्टम् इन्द्र-प्राण-शब्दाभिधेयꣳ परꣳ ब्रह्म। तथेति प्रकार-वचनः परब्रह्म-प्रकार-भूतेष्व् आनन्दादिष्व् अस्यानुगमात्॥२९॥

Link copied

३० न वक्तुरात्मोपदेशाद् इति चेद् अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मिन्॥१।१।३०॥

Link copied

नायम् उपास्यः परमात्मा, माम् एव विजानीहि तꣳ माम् आयुर् अमृतम् इत्य् उपास्व इति प्रज्ञात-जीवस्येन्द्रस्य वक्तुः स्वात्मन उपास्यत्वोपदेशात्, उपक्रमे जीव-भाव-निश्चये सत्य् उपसꣳहारस्य तद्-अनुगुणतया नेयत्वाद् इति चेन् न। अध्यात्मसम्बन्धभूमा ह्यस्मिन् आत्मनि सम्बन्धः--- अध्यात्मसम्बन्धः तस्य भूमा बहुत्वम्। जीवाद् अर्थान्तर-भूतात्मासाधारण-धर्म-सम्बन्ध-बहुत्वम् अस्मिन् प्रकरणे उपक्रम-प्रभृत्योपसꣳहाराद् उपलभ्यते। उपक्रमे तावद् यꣳ त्वꣳ मनुष्याय हिततमꣳ मन्यसे इति ह्य् अनेनोच्यमानम् उपासनꣳ परमात्मोपासनम् एव, तस्यैव हिततमत्वात्। तथा एष एव साधु कर्म कारयति इत्य् आदि साध्व्-असाधु-कर्मणोः कारयितृत्वꣳ परमात्मान एव धर्मः। तद्य् अथा रथस्यारेषु नेमिर् अर्पिता नाभावरा अर्पिताः एवम् एवैता भूत-मात्राः प्रज्ञा-मात्रास्व् अर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः इति सर्वाधारत्वꣳ च तस्यैव धर्मः। आनन्दादयश् च। एष लोकाधिपतिर् एष सर्वेश इति च। हीति हेतौ। अतः परब्रह्मैवायम् इत्य् अर्थः॥३०॥

Link copied

परमात्मैवोपास्यश् चेत् कथम् इन्द्रो माम् उपास्व इत्य् उपादिदेशेत्य् अत आह---

Link copied

३१ शास्त्र-दृष्ट्या तूपदेशो वामदेववत्॥१।१।३१॥

Link copied

इन्द्रस्य जीवस्यैव सतः स्वात्मत्वेनोपास्य-भूत-परमात्मोपदेशोऽयꣳ शास्त्र-दृष्ट्या। अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा। तत् त्वम् असि। य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः। एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः इत्य् आदीनि हि शास्त्राणि परमात्मानꣳ जीवात्मन आत्मतयोपदिदिशुः। अतो जीवात्म-वाचिनः शब्दाः जीवात्म-शरीरकꣳ परमात्मानम् एव वदन्तीति शास्त्र-दृष्टार्थस्य तस्य माम् एव विजानीहि। माम् उपास्स्व इति स्वात्म-शब्देन परमात्मोपदेशोऽयꣳ न विरुद्ध्यते। यथा वामदेवः शास्त्र-दृष्ट्या स्वात्म-शरीरकꣳ परमात्मानꣳ पश्यन्न् अहम् इति परमात्मानम् अवोचत्। तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे अहꣳ मनुर् अभवꣳ सूर्यश् चाहꣳ कक्षीवान् ऋषिर् अस्मि विप्रः इति॥३१॥

Link copied

३२ जीव-मुख्य-प्राण-लिङ्गान् नेति चेन् नोपासा-त्रैविध्याद् आश्रितत्वाद् इह तद्-योगात्॥१।१।३२॥

Link copied

त्रिशिर्षाणꣳ त्वाष्ट्रमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्। यावद् ध्य् अस्मिञ् शरीरे प्राणो वसति तावद् आयुः इति जीव-मुख्य-प्राण-लिङ्गात् नाध्यात्म-सम्बन्ध-भूम्ना परमात्मत्व-निश्चय इति चेन् न। परमात्मन एव स्वाकारेण जीव-शरीरकत्वेन, प्राण-शरीरकत्वेन चोपासा-त्रैविध्याद् धेतोः तत्-तच्-छब्देनाभिधानम् इति निश्चीयते। अन्यत्रापि ब्रह्मोपासने त्रैविध्यस्याश्रितत्वात् सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म। आनन्दो ब्रह्म इति स्वाकारेणोपास्यत्वꣳ सच् च त्यच् चाभवत् इत्य् आदिना भोक्तृ-शरीरकत्वेन भोग्य-शरीरकत्वेन च। इह प्रतर्दन-विद्यायाम् अपि तस्य त्रैविध्यस्य सम्भवात्। अत इन्द्र-प्राण-शब्द-निर्दिष्टः परमात्मा॥३२॥इति इन्द्र-प्राणाधिकरणम्॥११॥

Link copied

इति श्री-रामानुजाचार्य-रचिते श्री-वेदान्तदीपे प्रथमस्याध्यायस्य प्रथमः पादः॥

Link copied
Join our community