Bhagavad Gita Bhashya · Section 18 of 19
atha śraddhā-traya-vibhāga-yogaḥ saptadaśo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
देवासुर-विभागोक्ति-मुखेन प्राप्य-तत्त्व-ज्ञानꣳ तत्-प्राप्त्य्-उपाय-ज्ञानꣳ च वेदैक-मूलम् इत्य् उक्तम्। इदानीम् अशास्त्र-विहितस्यासुरत्वेनाफलत्वꣳ, शास्त्र-विहितस्य च गुणतस् त्रैविध्यꣳ शास्त्र-सिद्धस्य लक्षणꣳ चोच्यते। तत्राशास्त्र-विहितस्य निष्फलत्वम् अजानन् अशास्त्र-विहिते श्रद्धा-सꣳयुक्ते यागादौ सत्त्वादि-निमित्त-फल-भेद-बुभुत्सया अर्जुनः पृच्छति --
Link copiedये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः।
Link copiedतेषाꣳ निष्ठा तु का कृष्ण सत्त्वम् आहो रजस् तमः॥१॥
Link copiedशास्त्र-विधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते तेषाꣳ निष्ठा का। किꣳ स्अत्त्वम्। आहो स्वित् रजः। अथ तमः। निष्ठा स्थितिः। स्थीयतेऽस्मिन् इति स्थितिः। सत्त्वादिर् एव निष्ठेत्य् उच्यते, तेषाꣳ किꣳ सत्त्वे स्थितिः। किꣳ वा रजसि। किꣳ वा तमसि। इत्य् अर्थः॥१७।१॥
Link copiedएवꣳ पृष्टो भगवान् अशास्त्र-विहित-श्रद्धायास् तत्-पूर्वकस्य च यागादेर् निष्फलत्वꣳ हृदि निधाय शास्त्रीयस्य एव यागादेर् गुणतस् त्रैविध्यꣳ प्रतिपादयितुꣳ शास्त्रीय-श्रद्धायास् त्रैविध्यꣳ तावद् आह---
Link copiedत्रिविधा भवति श्रद्धा देहिनाꣳ सा स्वभावजा।
Link copiedसात्त्विकी राजसी चैव तामसी चेति ताꣳ शृणु॥२॥
Link copiedसर्वेषाꣳ देहिनाꣳ श्रद्धा त्रिविधा भवति। सा च स्वभावजा स्वभावः स्वासाधारणो भावः प्राचीन-वासना-निमित्तस् तत्-तद्-रुचि-विशेषः, यत्र रुचिस् तत्र श्रद्धा जायते। श्रद्धा हि स्वाभिमतꣳ साधयत्य् एतद् इति विश्वास-पूर्विका साधने त्वरा। वासना रुचिश् च श्रद्धा चात्म-धर्मा गुण-सꣳसर्ग-जाः। तेषाम् आत्म-धर्माणाꣳ वासनादीना जनका देहेन्द्रियान्तः-करण-विषय-गता धर्माः कार्यैक-निरूपणीयाः सत्त्वादयो गुणाः, सत्त्वादि-गुण-युक्त-देहाद्य्-अनुभव-जा इत्य् अर्थः। ततश् चेयꣳ श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा। ताम् इमाꣳ श्रद्धाꣳ शृणु। सा श्रद्धा यत्-स्वभावा तꣳ स्वभावꣳ सृण्व् इत्य् अर्थः॥१७।२॥
Link copiedसत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
Link copiedश्रद्धामयोऽयꣳ पुरुषो यो यच्छ्रद्धः स एव सः॥३॥
Link copiedसत्त्वम् अन्तः-करणम्, सर्वस्य पुरुषस्यान्तः-करणानुरूपा श्रद्धा भवति। अन्तः-करणꣳ यादृश-गुण-युक्तम्, तद्-विषया श्रद्धा जायते इत्य् अर्थः। सत्त्व-शब्दः पूर्वोक्तानाꣳ देहेन्द्रियादीनाꣳ प्रदर्शनार्थः। श्रद्धा-मयोऽयꣳ पुरुषः, श्रद्धा-मयः श्रद्धा-परिणामः। यो यच्-छ्रद्धः। यः पुरुषो यादृश्या श्रद्धया युक्तः। स एव सः। स तादृश-श्रद्धा-परिणामः। पुण्य-कर्म-विषये श्रद्धा-युक्तश् चेत् पुण्य-कर्म-फल-सꣳयुक्तो भवतीति श्रद्धा-प्रधानः फल-सꣳयोग इत्य् उक्तꣳ भवतीति॥१७।३॥
Link copiedतद् एव विवृणोति---
Link copiedयजन्ते सात्त्विका देवान् यक्ष-रक्षाꣳसि राजसाः।
Link copiedप्रेतान् भूत-गणाꣳश् चान्ये यजन्ते तामसा जनाः॥४॥
Link copiedसत्त्व-गुण-प्रचुराः सात्त्विक्या श्रद्धया युक्ता देवान् यजन्ते। दुःखासम्भिन्नोत्कृष्ट-सुख-हेतु-भूत-देव-याग-विषया श्रद्धा सात्त्विकी इत्य् उक्तꣳ भवति। राजसा जना यक्ष-रक्षाꣳसि यजन्ति। अन्ये तामसा जनाः प्रेतान् भूत-गणान् यजन्ते। दुःख-सम्भिन्नाल्प-सुख-जननी राजसी श्रद्धा, दुःख-प्रायात्यल्प-सुख-जननी तामसीत्य् अर्थः॥१७।४॥
Link copiedएवꣳ शास्त्रीयेष्व् एव यागादिषु श्रद्धा-युक्तेषु गुणतः फल-विशेषः। अशास्त्रीयेषु दान-तपो-याग-प्रभृतिषु मद्-अनुशासन-विपरीतत्वेन न कश्चिद् अपि सुख-लवः। अपि त्व् अनर्थ एव इति हृदि निहितꣳ व्यञ्जयन्न् आह---
Link copiedअशास्त्र-विहितꣳ घोरꣳ तप्यन्ते ये तपो जनाः।
Link copiedदम्भाहङ्कार-सꣳयुक्ताः काम-राग-बलान्विताः॥५॥
Link copiedकर्शयन्तः शरीर-स्थꣳ भूत-ग्रामम् अचेतसः।
Link copiedमाꣳ चैवान्तः-शरीर-स्थꣳ तान् विद्ध्य् आसुर-निश्चयान्॥६॥
Link copiedअशास्त्र-विहितम् अति घोरम् अपि तपो ये जनास् तप्यन्ते प्रदर्शनार्थम् इदम् अशास्त्र-विहितꣳ बह्व्-आयासꣳ यागादिकꣳ ये कुर्वते ते दम्भाहङ्कार-सꣳयुक्ताः काम-राग-बलान्विताः शरीर-स्थꣳ पृथिव्य्-आदि-भूत-समूहꣳ कर्शयन्तो मद्-अꣳश-भूतꣳ जीवꣳ चान्तः-शरीर-स्थꣳ कर्शयन्तो ये तप्यन्ते यागादिकꣳ च कुर्वते, तान् आसुर-निश्चयान् विद्धि। असुराणाꣳ निश्चयः आसुरो निश्चयः, असुरा हि मद्-आज्ञा-विपरीत-कारिणः। मद्-आज्ञा-विपरीत-कारित्वात् तेषाꣳ सुख-लव-सम्बन्धो न विद्यते। अपि त्व् अनर्थ-व्राते पतन्तीति पूर्वम् एवोक्तम्। पतन्ति नरकेऽशुचौ [गीता १६।१६] इति॥१७।५-६॥
Link copiedअथ प्रकृतम् एव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषꣳ प्रपञ्चयति। तत्राप्य् आहार-मूलत्वात् सत्त्वादि-वृद्धेः, आहार-त्रैविध्यꣳ प्रथमम् उच्यते। अन्न-मयꣳ हि सोम्य मनः [छा।उ। ६।५।४] आहार-शुद्धौ सत्त्व-शुद्धिः [छा।उ। ७।२६।२] इति हि श्रूयते।
Link copiedआहारस् त्व् अपि सर्वस्य त्रिविधो भवति प्रियः।
Link copiedयज्ञस् तपस् तथा दानꣳ तेषाꣳ भेदम् इमꣳ शृणु॥७॥
Link copiedआहारोऽपि सर्वस्य प्राणि-जातस्य सत्त्वादि-गुण-त्रयान्वयेन त्रिविधः प्रियो भवति। तथा एव यज्ञोऽपि त्रिविधः, तथा तपो दानꣳ च। तेषाꣳ भेदम् इमꣳ सृणु। तेषाम् आहार-यज्ञ-तपो-दानानाꣳ सत्त्वादि-गुण-भेदेन इमम् उच्यमानꣳ भेदꣳ सृणु॥१७।७॥
Link copiedआयुः-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धनाः।
Link copiedरस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक-प्रियाः॥८॥
Link copiedसत्त्व-गुणोपेतस्य सत्त्व-मया आहाराः प्रिया भवन्ति। सत्त्व-मयाश् चाहारा आयुर्-विवर्धनाः पुनर् अपि सत्त्वस्य विवर्धनाः। सत्त्वम् अन्तः-करणम्, अन्तः-करण-कार्यꣳ ज्ञानम् इह सत्त्व-शब्देन उच्यते। सत्त्वात् सञ्जायते ज्ञानम् [गीता १४।१७] इति सत्त्वस्य ज्ञान-विवृद्धि-हेतु-वचनात्। आहारोऽपि सत्त्व-मयो ज्ञान-विवृद्धि-हेतुः। तथा बलारोग्ययोर् अपि विवर्धनाः, सुख-प्रीत्योर् अपि विवर्धनाः। परिणाम-काले स्वयम् एव सुखस्य विवर्धनाः, तथा प्रीति-हेतु-भूत-कर्मारम्भ-द्वारेण प्रीति-वर्धनाः। रस्या मधुर-रसोपेताः, स्निग्धाः स्नेह-युक्ताः, स्थिराः स्थिर-परिणामाः, हृद्या रमणीय-वेषाः, एवꣳ-विधाः सत्त्व-मया आहाराः, सात्त्विकस्य पुरुषस्य प्रियाः॥१७।८॥
Link copiedकट्व्-अम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः।
Link copiedआहारा राजसस्येष्टा दुःख-शोकामय-प्रदाः॥९॥
Link copiedकटु-रसाः अम्ल-रसाः लवणोत्कटोऽत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनश् च इति कट्व्-अम्बल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विदाहिनः। अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास् तीक्ष्णाः, शोष-कराः रूक्षाः, ताप-करा विदाहिनः, एवꣳ-विधा आहारा राजसस्येष्टः। ते च रजो-मयत्वाद् दुःख-शोकामयत्वाद् दुःख-शोकामय-वर्धना रजो-वर्धनाश् च॥१७।९॥
Link copiedयात-यामꣳ गत-रसꣳ पूति पर्युषितꣳ च यत्।
Link copiedउच्छिष्टम् अपि चामेध्यꣳ भोजनꣳ तामस-प्रियम्॥१०॥
Link copiedयात-यामꣳ चिर-कालावस्थितम्, गत-रसꣳ त्यक्त-स्वाभाविक-रसम्, पूति दुर्गन्धोपेतम्, पर्युषितꣳ कालातिपत्त्या रसान्तरापन्नम्, उच्छिष्टꣳ गुर्व्-आदिभ्योऽन्येषाꣳ भुक्त-शिष्टम्, अमेध्यम् अयज्ञार्हम्, अयज्ञ-शिष्टम् इत्य् अर्थः। एवꣳ-विधꣳ तमो-मयꣳ भोजनꣳ तामस-प्रियꣳ भवति। भुज्यते इत्य् आहार एव भोजनम्, पुनश् च तमसो वर्धनम्। अतो हितैषिभिः सत्त्व-वृद्धये सात्त्विकाहार एव सेव्यः॥१७।१०॥
Link copiedअफलाकाङ्क्षिभिर् यज्ञो विधि-दृष्टो य इज्यते।
Link copiedयष्टव्यम् एवेति मनः समाधाय स सात्त्विकः॥११॥
Link copiedफलाकाङ्क्षा-रहितैः पुरुषैः विधि-दृष्टः शास्त्र-दृष्टो मन्त्र-द्रव्य-क्रियादिभिर् युक्तः। यष्टव्यम् एवेति भगवद्-आराधनत्वेन स्वयꣳ-प्रयोजनतया यष्टव्यम् इति मनः समाधाय यो यज्ञ इज्यते स सात्त्विकः॥१७।११॥
Link copiedअभिसन्धाय तु फलꣳ दम्भार्थम् अपि चैव यत्।
Link copiedइज्यते भरत-श्रेष्ठ तꣳ यज्ञꣳ विद्धि राजसम्॥१२॥
Link copiedफलाभिसन्धि-युक्तैर् दम्भ-गर्भो यशः-फलश् च यो यज्ञ इज्यते, तꣳ यज्ञꣳ राजसꣳ विद्धि॥१७।१२॥
Link copiedविधि-हीनम् असृष्टान्नꣳ मन्त्र-हीनम् अदक्षिणम्।
Link copiedश्रद्धा-विरहितꣳ यज्ञꣳ तामसꣳ परिचक्षते॥१३॥
Link copiedविधि-हीनꣳ ब्राह्मणोक्त-विधि-हीनꣳ सदाचार-युक्तैर् विधि-विद्भिर् ब्राह्मणैर् यज्ञस्य इत्य् उक्ति-हीनम् इत्य् अर्थः। असृष्टान्नम् अचोदित-द्रव्यम्। मन्त्र-हीनम् अदक्षिणꣳ श्रद्धा-विरहितꣳ च यज्ञꣳ तामसꣳ परिचक्षते॥१७।१३॥
Link copiedअथ तपसो गुणतस् त्रैविध्यꣳ वक्तुꣳ तस्य शरीर-वाङ्-मनोभिः निष्पाद्यतया तत्-स्वरूप-भेदꣳ तावद् आह---
Link copiedदेव-द्विज-गुरु-प्राज्ञ-पूजनꣳ शौचम् आर्जवम्।
Link copiedब्रह्मचर्यम् अहिꣳसा च शारीरꣳ तप उच्यते॥१४॥
Link copiedदेव-द्विज-गुरु-प्राज्ञानाꣳ पूजनम्। शौचꣳ तीर्थ-स्नानादिकम्। आर्जवꣳ यथा वाङ्-मनः-शारीर-वृत्तम्। ब्रह्मचर्यꣳ योषित्सु भोग्यता-बुद्धि-युक्तेक्षणादि-रहितत्वम्। अहिꣳसा अप्राणि-पीडा। एतत् शारीरꣳ तप उच्यते॥१७।१४॥
Link copiedअनुद्वेग-करꣳ वाक्यꣳ सत्यꣳ प्रिय-हितꣳ च यत्।
Link copiedस्वाध्यायाभ्यसनꣳ चैव वाङ्-मयꣳ तप उच्यते॥१५॥
Link copiedपरेषाम् अनुद्वेग-करꣳ सत्यꣳ प्रिय-हितꣳ च यद् वाक्यꣳ स्वाध्यायाभ्यसनꣳ चेत्य् एतद् वाङ्-मयꣳ तप उच्यते॥१७।१५॥
Link copiedमनः-प्रसादः सौम्यत्वꣳ मौनम् आत्म-विनिग्रहः।
Link copiedभाव-सꣳशुद्धिर् इत्य् एतत् तपो मानसम् उच्यते॥१६॥
Link copiedमनः-प्रसादः मनसः क्रोधादि-रहितत्वम्। सौम्यत्वꣳ मनसः परेषाम् अभ्युदय-प्रावण्यम्। मौनꣳ मनसा वाक्-प्रवृत्ति-नियमनम्। आत्म-विनिग्रहः मनो-वृत्तेः ध्येय-विषयेऽवस्थापनम्। भाव-सꣳशुद्धिर् आत्म-व्यतिरिक्त-विषय-चिन्ता-रहितत्वम्। एतत् मानसꣳ तपः॥१७।१६॥
Link copiedश्रद्धया परया तप्तꣳ तपस् तत् त्रिविधꣳ नरैः।
Link copiedअफलाकाङ्क्षिभिर् युक्तैः सात्त्विकꣳ परिचक्षते॥१७॥
Link copiedअफलाकङ्क्षिभिः फलाकाङ्क्षा-रहितैः। युक्तैः परम-पुरुषाराधन-रूपम् इदम् इति चिन्ता-युक्तैर् नरैः परया श्रद्धया यत् त्रिविधꣳ तपः काय-वाङ्-मनोभिस् तप्तꣳ तत् सात्त्विकꣳ परिचक्षते॥१७।१७॥
Link copiedसत्कार-मान-पूजार्थꣳ तपो दम्भेन चैव यत्।
Link copiedक्रियते तद् इह प्रोक्तꣳ राजसꣳ चलम् अध्रुवम्॥१८॥
Link copiedमनसादरः सत्कारः। वाचा प्रशꣳसा मानम्। शारीरो नमस्कारादिः पूजा। फलाभिसन्धि-पूर्वकꣳ सत्काराद्य्-अर्थꣳ च दम्भेन हेतुना यत् तपः क्रियते तद् इह राजसꣳ प्रोक्तम्। स्वर्गादि-फलासाधनत्वेनास्थिरत्वाच् चलम् अध्रुवम्। चलत्वꣳ पात-भयेन चलन-हेतुत्वम्। अध्रुवत्वꣳ क्षयिष्णुत्वम्॥१७।१८॥
Link copiedमूढ-ग्राहेणात्मनो यत् पीडया क्रियते तपः।
Link copiedपरस्योत्सादनार्थꣳ वा तत् तामसम् उदाहृतम्॥१९॥
Link copiedमूढाः अविवेकिनः। मूढ-ग्राहेण मूढैः कृतेनाभिनिविशेन। आत्मनः शक्त्य्-आदिकम् अपरीक्ष्य आत्म-पीडाया यत् तपः क्रियते परस्योत्सादनार्थꣳ च यत् तपः क्रियते, तत् तामसम् उदाहृतम्॥१७।१९॥
Link copiedदातव्यम् इति यद् दानꣳ दीयतेऽनुपकारिणे।
Link copiedदेशे काले च पात्रे च तद् दानꣳ सात्त्विकꣳ स्मृतम्॥२०॥
Link copiedफलाभिसन्धि-रहितꣳ दातव्यम् इति देशे काले पात्रे चानुपकारिणे यद् दानꣳ दीयते तद् दानꣳ सात्त्विकꣳ स्मृतम्॥१७।२०॥
Link copiedयत् तु प्रत्युपकारार्थꣳ फलम् उद्दिश्य वा पुनः।
Link copiedदीयते च परिक्लिष्टꣳ तद् दानꣳ राजसꣳ स्मृतम्॥२१॥
Link copiedप्रत्युपकार-कटक्ष-गर्भꣳ फलम् उद्दिश्य च परिक्लिष्टम् अकल्याण-द्रव्यकꣳ यद् दानꣳ दीयते तद् राजसम् उदाहृतम्॥१७।२१॥
Link copiedअदेश-काले यद् दानम् अपात्रेभ्यश् च दीयते।
Link copiedअसत्कृतम् अवज्ञातꣳ तत् तामसम् उदाहृतम्॥२२॥
Link copiedअदेश-कालेऽपात्रेभ्यश् च यद् दानꣳ दीयते, असत्कृतꣳ पाद-प्रक्षालनादि-गौरव-रहितम्, अवज्ञातꣳ सावज्ञम्, अनुपचार-युक्तꣳ यद् दीयते तत् तामसम् उदाहृतम्॥१७।२२॥
Link copiedएवꣳ वैदिकानाꣳ यज्ञ-तपो-दानानाꣳ सत्त्वादि-गुण-भेदेन भेद उक्तः। इदानीꣳ तस्यैव वैदिकस्य यज्ञादेः प्रणव-सꣳयोगेन तत्-सच्-छब्द-व्यपदेश्यतया च लक्षणम् उच्यते---
Link copiedओꣳ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः।
Link copiedब्राह्मणास् तेन वेदाश् च यज्ञाश् च विहिताः पुरा॥२३॥
Link copiedओꣳ तत् सत् इति त्रिविधोऽयꣳ निर्देशः शब्दो ब्रह्मणः स्मृतः, ब्रह्मणोऽन्वयी भवति। ब्रह्म च वेदः। वेद-शब्देन वैदिकꣳ कर्मोच्यते। वैदिकꣳ यज्ञादिकम्। यज्ञादिकꣳ कर्म ओꣳ तत् सद् इति शब्दान्वितꣳ भवति। ओम् इति शब्दस्यान्वयो वैदिक-कर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया। तत् सद् इति शब्दयोर् अन्वयः पूज्यत्वाय वाचकतया। तेन त्रिविधेन शब्देनान्विता ब्राह्मणा वेदान्वयिनस् त्रैवर्णिका वेदाश् च यज्ञाश् च पुरा विहिताः। पुरा मयैव निर्मिता इत्य् अर्थः॥१७।२३॥
Link copiedत्रयाणाम् ओꣳ तत् सत् इति शब्दानाम् अन्वय-प्रकारो वर्ण्यते। प्रथमम् ओम् इति शब्दस्यान्वय-प्रकारम् आह---
Link copiedतस्माद् ओम् इत्य् उदाहृत्य यज्ञ-दान-तपः-क्रियाः।
Link copiedप्रवर्तन्ते विधानोक्ताः सततꣳ ब्रह्म-वादिनाम्॥२४॥
Link copiedतस्माद् ब्रह्म-वादिनाꣳ वेद-वादिनाꣳ त्रैवर्णिकानाꣳ यज्ञ-दान-तपः-क्रिया विधानोक्ताः वेद-विधानोक्ताः आदौ ओम् इत्य् उदाहृत्य सततꣳ सर्वदा प्रवर्तन्ते। वेदार्थश् च ओम् इत्य् उदाहृयारभ्यन्ते। एवꣳ वेदानाꣳ वैदिकानाꣳ च यज्ञादीनाꣳ कर्मणाम् ओम् इति शब्दान्वयो वर्णितः। ओम् इति शब्दान्वित-वेद-धारणात् तद्-अन्वित-यज्ञादि-कर्म-करणाच् च ब्राह्मण-शब्द-निर्दिष्टानाꣳ त्रैवर्णिकानाम् अप्य् ओम् इति शब्दान्वयो वर्णितः॥१७।२४॥
Link copiedअथैतेषाꣳ तद् इति शब्दान्वय-प्रकारम् आह---
Link copiedतद् इत्य् अनभिसन्धाय फलꣳ यज्ञ-तपः-क्रियाः।
Link copiedदान-क्रियाश् च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः॥२५॥
Link copiedफलम् अनभिसन्धाय वेदाध्ययन-यज्ञ-तपो-दान-क्रिया मोक्ष-काङ्क्षिभिस् त्रैवर्णिकैर् याः क्रियन्ते, ता ब्रह्म-प्राप्ति-साधनतया ब्रह्म-वाचिना तद् इति शब्द-निर्देश्याः। सवः कः किꣳ यत् तत् पदम् अनुत्तमम् [म।भा। १३।१४९।९१; विष्णु-सहस्र-नाम ९३] इति तच्-छब्दो हि ब्रह्म-वाची प्रसिद्धः। एवꣳ वेदाध्ययन-यज्ञादीनाꣳ मोक्ष-साधन-भूतानाꣳ तच्-छब्द-निर्देश्यतया तद् इति शब्दान्वय उक्तः। त्रैवर्णिकानाम् अपि तथा-विध-वेदाध्ययनाद्य्-अनुष्ठानाद् एव तच्-छब्दान्वय उपपन्नः॥१७।२५॥
Link copiedअथैषाꣳ सच्-छब्दान्वय-प्रकारꣳ वक्तुꣳ लोके सच्-छब्दस्य व्युत्पत्ति-प्रकारम् आह---
Link copiedसद्-भावे साधु-भावे च सद् इत्य् एतत् प्रयुज्यते।
Link copiedप्रशस्ते कर्मणि तथा सच्-छब्दः पार्थ युज्यते॥२६॥
Link copiedसद्-भावे विद्यमानतायाꣳ साधु-भावे कल्याण-भावे च सर्व-वस्तुषु सद् इत्य् एतत् पदꣳ प्रयुज्यते लोक-वेदयोः। तथा केनचित् पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्-कर्मेदम् इति सच्-छब्दो युज्यते प्रयुज्यते इत्य् अर्थः॥१७।२६॥
Link copiedयज्ञे तपसि दाने च स्थितिः सद् इति चोच्यते।
Link copiedकर्म चैव तद्-अर्थीयꣳ सद् इत्य् एवाभिधीयते॥२७॥
Link copiedअतो वैदिकानाꣳ त्रैवर्णिकानाꣳ यज्ञे तपसि दाने च स्थितिः कल्याणतया सद् इत्य् उच्यते। कर्म च तद्-अर्थीयꣳ त्रैवर्णिकार्थीयꣳ यज्ञ-दानादिकꣳ सद् इत्य् एवाभिधीयते। तस्माद् वेदा वैदिकानि कर्माणि ब्राह्मण-शब्द-निर्दिष्टास् त्रैवर्णिकाश् च ओꣳ तत् सद् इति शब्दान्वय-रूप-लक्षणेनावेदेभ्यश् चावैदिकेभ्यश् च व्यावृत्ता वेदितव्याः॥१७।२७॥
Link copiedअश्रद्धया हुतꣳ दत्तꣳ तपस् तप्तꣳ कृतꣳ च यत्।
Link copiedअसद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह॥२८॥
Link copiedअश्रद्धया कृतꣳ शास्त्रीयम् अपि होमादिकम् असद् इत्य् उच्यते। कुतः। न च तत् प्रेत्य नो इह, न मोक्षाय न साꣳसारिकाय च फलायेति॥१७।२८॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये सप्तदशोऽध्यायः॥१७॥
Link copiedదేవాసుర-విభాగోక్తి-ముఖేన ప్రాప్య-తత్త్వ-జ్ఞానṁ తత్-ప్రాప్త్య్-ఉపాయ-జ్ఞానṁ చ వేదైక-మూలమ్ ఇత్య్ ఉక్తమ్। ఇదానీమ్ అశాస్త్ర-విహితస్యాసురత్వేనాఫలత్వṁ, శాస్త్ర-విహితస్య చ గుణతస్ త్రైవిధ్యṁ శాస్త్ర-సిద్ధస్య లక్షణṁ చోచ్యతే। తత్రాశాస్త్ర-విహితస్య నిష్ఫలత్వమ్ అజానన్ అశాస్త్ర-విహితే శ్రద్ధా-సṁయుక్తే యాగాదౌ సత్త్వాది-నిమిత్త-ఫల-భేద-బుభుత్సయా అర్జునః పృచ్ఛతి --
Link copiedయే శాస్త్ర-విధిమ్ ఉత్సృజ్య యజన్తే శ్రద్ధయాన్వితాః।
Link copiedతేషాṁ నిష్ఠా తు కా కృష్ణ సత్త్వమ్ ఆహో రజస్ తమః॥౧॥
Link copiedశాస్త్ర-విధిమ్ ఉత్సృజ్య శ్రద్ధయాన్వితా యే యజన్తే తేషాṁ నిష్ఠా కా। కిṁ స్అత్త్వమ్। ఆహో స్విత్ రజః। అథ తమః। నిష్ఠా స్థితిః। స్థీయతేఽస్మిన్ ఇతి స్థితిః। సత్త్వాదిర్ ఏవ నిష్ఠేత్య్ ఉచ్యతే, తేషాṁ కిṁ సత్త్వే స్థితిః। కిṁ వా రజసి। కిṁ వా తమసి। ఇత్య్ అర్థః॥౧౭।౧॥
Link copiedఏవṁ పృష్టో భగవాన్ అశాస్త్ర-విహిత-శ్రద్ధాయాస్ తత్-పూర్వకస్య చ యాగాదేర్ నిష్ఫలత్వṁ హృది నిధాయ శాస్త్రీయస్య ఏవ యాగాదేర్ గుణతస్ త్రైవిధ్యṁ ప్రతిపాదయితుṁ శాస్త్రీయ-శ్రద్ధాయాస్ త్రైవిధ్యṁ తావద్ ఆహ---
Link copiedత్రివిధా భవతి శ్రద్ధా దేహినాṁ సా స్వభావజా।
Link copiedసాత్త్వికీ రాజసీ చైవ తామసీ చేతి తాṁ శృణు॥౨॥
Link copiedసర్వేషాṁ దేహినాṁ శ్రద్ధా త్రివిధా భవతి। సా చ స్వభావజా స్వభావః స్వాసాధారణో భావః ప్రాచీన-వాసనా-నిమిత్తస్ తత్-తద్-రుచి-విశేషః, యత్ర రుచిస్ తత్ర శ్రద్ధా జాయతే। శ్రద్ధా హి స్వాభిమతṁ సాధయత్య్ ఏతద్ ఇతి విశ్వాస-పూర్వికా సాధనే త్వరా। వాసనా రుచిశ్ చ శ్రద్ధా చాత్మ-ధర్మా గుణ-సṁసర్గ-జాః। తేషామ్ ఆత్మ-ధర్మాణాṁ వాసనాదీనా జనకా దేహేన్ద్రియాన్తః-కరణ-విషయ-గతా ధర్మాః కార్యైక-నిరూపణీయాః సత్త్వాదయో గుణాః, సత్త్వాది-గుణ-యుక్త-దేహాద్య్-అనుభవ-జా ఇత్య్ అర్థః। తతశ్ చేయṁ శ్రద్ధా సాత్త్వికీ రాజసీ తామసీ చేతి త్రివిధా। తామ్ ఇమాṁ శ్రద్ధాṁ శృణు। సా శ్రద్ధా యత్-స్వభావా తṁ స్వభావṁ సృణ్వ్ ఇత్య్ అర్థః॥౧౭।౨॥
Link copiedసత్త్వానురూపా సర్వస్య శ్రద్ధా భవతి భారత।
Link copiedశ్రద్ధామయోఽయṁ పురుషో యో యచ్ఛ్రద్ధః స ఏవ సః॥౩॥
Link copiedసత్త్వమ్ అన్తః-కరణమ్, సర్వస్య పురుషస్యాన్తః-కరణానురూపా శ్రద్ధా భవతి। అన్తః-కరణṁ యాదృశ-గుణ-యుక్తమ్, తద్-విషయా శ్రద్ధా జాయతే ఇత్య్ అర్థః। సత్త్వ-శబ్దః పూర్వోక్తానాṁ దేహేన్ద్రియాదీనాṁ ప్రదర్శనార్థః। శ్రద్ధా-మయోఽయṁ పురుషః, శ్రద్ధా-మయః శ్రద్ధా-పరిణామః। యో యచ్-ఛ్రద్ధః। యః పురుషో యాదృశ్యా శ్రద్ధయా యుక్తః। స ఏవ సః। స తాదృశ-శ్రద్ధా-పరిణామః। పుణ్య-కర్మ-విషయే శ్రద్ధా-యుక్తశ్ చేత్ పుణ్య-కర్మ-ఫల-సṁయుక్తో భవతీతి శ్రద్ధా-ప్రధానః ఫల-సṁయోగ ఇత్య్ ఉక్తṁ భవతీతి॥౧౭।౩॥
Link copiedతద్ ఏవ వివృణోతి---
Link copiedయజన్తే సాత్త్వికా దేవాన్ యక్ష-రక్షాṁసి రాజసాః।
Link copiedప్రేతాన్ భూత-గణాṁశ్ చాన్యే యజన్తే తామసా జనాః॥౪॥
Link copiedసత్త్వ-గుణ-ప్రచురాః సాత్త్విక్యా శ్రద్ధయా యుక్తా దేవాన్ యజన్తే। దుఃఖాసమ్భిన్నోత్కృష్ట-సుఖ-హేతు-భూత-దేవ-యాగ-విషయా శ్రద్ధా సాత్త్వికీ ఇత్య్ ఉక్తṁ భవతి। రాజసా జనా యక్ష-రక్షాṁసి యజన్తి। అన్యే తామసా జనాః ప్రేతాన్ భూత-గణాన్ యజన్తే। దుఃఖ-సమ్భిన్నాల్ప-సుఖ-జననీ రాజసీ శ్రద్ధా, దుఃఖ-ప్రాయాత్యల్ప-సుఖ-జననీ తామసీత్య్ అర్థః॥౧౭।౪॥
Link copiedఏవṁ శాస్త్రీయేష్వ్ ఏవ యాగాదిషు శ్రద్ధా-యుక్తేషు గుణతః ఫల-విశేషః। అశాస్త్రీయేషు దాన-తపో-యాగ-ప్రభృతిషు మద్-అనుశాసన-విపరీతత్వేన న కశ్చిద్ అపి సుఖ-లవః। అపి త్వ్ అనర్థ ఏవ ఇతి హృది నిహితṁ వ్యఞ్జయన్న్ ఆహ---
Link copiedఅశాస్త్ర-విహితṁ ఘోరṁ తప్యన్తే యే తపో జనాః।
Link copiedదమ్భాహఙ్కార-సṁయుక్తాః కామ-రాగ-బలాన్వితాః॥౫॥
Link copiedకర్శయన్తః శరీర-స్థṁ భూత-గ్రామమ్ అచేతసః।
Link copiedమాṁ చైవాన్తః-శరీర-స్థṁ తాన్ విద్ధ్య్ ఆసుర-నిశ్చయాన్॥౬॥
Link copiedఅశాస్త్ర-విహితమ్ అతి ఘోరమ్ అపి తపో యే జనాస్ తప్యన్తే ప్రదర్శనార్థమ్ ఇదమ్ అశాస్త్ర-విహితṁ బహ్వ్-ఆయాసṁ యాగాదికṁ యే కుర్వతే తే దమ్భాహఙ్కార-సṁయుక్తాః కామ-రాగ-బలాన్వితాః శరీర-స్థṁ పృథివ్య్-ఆది-భూత-సమూహṁ కర్శయన్తో మద్-అṁశ-భూతṁ జీవṁ చాన్తః-శరీర-స్థṁ కర్శయన్తో యే తప్యన్తే యాగాదికṁ చ కుర్వతే, తాన్ ఆసుర-నిశ్చయాన్ విద్ధి। అసురాణాṁ నిశ్చయః ఆసురో నిశ్చయః, అసురా హి మద్-ఆజ్ఞా-విపరీత-కారిణః। మద్-ఆజ్ఞా-విపరీత-కారిత్వాత్ తేషాṁ సుఖ-లవ-సమ్బన్ధో న విద్యతే। అపి త్వ్ అనర్థ-వ్రాతే పతన్తీతి పూర్వమ్ ఏవోక్తమ్। పతన్తి నరకేఽశుచౌ [గీతా ౧౬।౧౬] ఇతి॥౧౭।౫-౬॥
Link copiedఅథ ప్రకృతమ్ ఏవ శాస్త్రీయేషు యజ్ఞాదిషు గుణతో విశేషṁ ప్రపఞ్చయతి। తత్రాప్య్ ఆహార-మూలత్వాత్ సత్త్వాది-వృద్ధేః, ఆహార-త్రైవిధ్యṁ ప్రథమమ్ ఉచ్యతే। అన్న-మయṁ హి సోమ్య మనః [ఛా।ఉ। ౬।౫।౪] ఆహార-శుద్ధౌ సత్త్వ-శుద్ధిః [ఛా।ఉ। ౭।౨౬।౨] ఇతి హి శ్రూయతే।
Link copiedఆహారస్ త్వ్ అపి సర్వస్య త్రివిధో భవతి ప్రియః।
Link copiedయజ్ఞస్ తపస్ తథా దానṁ తేషాṁ భేదమ్ ఇమṁ శృణు॥౭॥
Link copiedఆహారోఽపి సర్వస్య ప్రాణి-జాతస్య సత్త్వాది-గుణ-త్రయాన్వయేన త్రివిధః ప్రియో భవతి। తథా ఏవ యజ్ఞోఽపి త్రివిధః, తథా తపో దానṁ చ। తేషాṁ భేదమ్ ఇమṁ సృణు। తేషామ్ ఆహార-యజ్ఞ-తపో-దానానాṁ సత్త్వాది-గుణ-భేదేన ఇమమ్ ఉచ్యమానṁ భేదṁ సృణు॥౧౭।౭॥
Link copiedఆయుః-సత్త్వ-బలారోగ్య-సుఖ-ప్రీతి-వివర్ధనాః।
Link copiedరస్యాః స్నిగ్ధాః స్థిరా హృద్యా ఆహారాః సాత్త్విక-ప్రియాః॥౮॥
Link copiedసత్త్వ-గుణోపేతస్య సత్త్వ-మయా ఆహారాః ప్రియా భవన్తి। సత్త్వ-మయాశ్ చాహారా ఆయుర్-వివర్ధనాః పునర్ అపి సత్త్వస్య వివర్ధనాః। సత్త్వమ్ అన్తః-కరణమ్, అన్తః-కరణ-కార్యṁ జ్ఞానమ్ ఇహ సత్త్వ-శబ్దేన ఉచ్యతే। సత్త్వాత్ సఞ్జాయతే జ్ఞానమ్ [గీతా ౧౪।౧౭] ఇతి సత్త్వస్య జ్ఞాన-వివృద్ధి-హేతు-వచనాత్। ఆహారోఽపి సత్త్వ-మయో జ్ఞాన-వివృద్ధి-హేతుః। తథా బలారోగ్యయోర్ అపి వివర్ధనాః, సుఖ-ప్రీత్యోర్ అపి వివర్ధనాః। పరిణామ-కాలే స్వయమ్ ఏవ సుఖస్య వివర్ధనాః, తథా ప్రీతి-హేతు-భూత-కర్మారమ్భ-ద్వారేణ ప్రీతి-వర్ధనాః। రస్యా మధుర-రసోపేతాః, స్నిగ్ధాః స్నేహ-యుక్తాః, స్థిరాః స్థిర-పరిణామాః, హృద్యా రమణీయ-వేషాః, ఏవṁ-విధాః సత్త్వ-మయా ఆహారాః, సాత్త్వికస్య పురుషస్య ప్రియాః॥౧౭।౮॥
Link copiedకట్వ్-అమ్ల-లవణాత్యుష్ణ-తీక్ష్ణ-రూక్ష-విదాహినః।
Link copiedఆహారా రాజసస్యేష్టా దుఃఖ-శోకామయ-ప్రదాః॥౯॥
Link copiedకటు-రసాః అమ్ల-రసాః లవణోత్కటోఽత్యుష్ణాః అతితీక్ష్ణాః రూక్షాః విదాహినశ్ చ ఇతి కట్వ్-అమ్బల-లవణాత్యుష్ణ-తీక్ష్ణ-రూక్ష-విదాహినః। అతిశైత్యాతితైక్ష్ణ్యాదినా దురుపయోగాస్ తీక్ష్ణాః, శోష-కరాః రూక్షాః, తాప-కరా విదాహినః, ఏవṁ-విధా ఆహారా రాజసస్యేష్టః। తే చ రజో-మయత్వాద్ దుఃఖ-శోకామయత్వాద్ దుఃఖ-శోకామయ-వర్ధనా రజో-వర్ధనాశ్ చ॥౧౭।౯॥
Link copiedయాత-యామṁ గత-రసṁ పూతి పర్యుషితṁ చ యత్।
Link copiedఉచ్ఛిష్టమ్ అపి చామేధ్యṁ భోజనṁ తామస-ప్రియమ్॥౧౦॥
Link copiedయాత-యామṁ చిర-కాలావస్థితమ్, గత-రసṁ త్యక్త-స్వాభావిక-రసమ్, పూతి దుర్గన్ధోపేతమ్, పర్యుషితṁ కాలాతిపత్త్యా రసాన్తరాపన్నమ్, ఉచ్ఛిష్టṁ గుర్వ్-ఆదిభ్యోఽన్యేషాṁ భుక్త-శిష్టమ్, అమేధ్యమ్ అయజ్ఞార్హమ్, అయజ్ఞ-శిష్టమ్ ఇత్య్ అర్థః। ఏవṁ-విధṁ తమో-మయṁ భోజనṁ తామస-ప్రియṁ భవతి। భుజ్యతే ఇత్య్ ఆహార ఏవ భోజనమ్, పునశ్ చ తమసో వర్ధనమ్। అతో హితైషిభిః సత్త్వ-వృద్ధయే సాత్త్వికాహార ఏవ సేవ్యః॥౧౭।౧౦॥
Link copiedఅఫలాకాఙ్క్షిభిర్ యజ్ఞో విధి-దృష్టో య ఇజ్యతే।
Link copiedయష్టవ్యమ్ ఏవేతి మనః సమాధాయ స సాత్త్వికః॥౧౧॥
Link copiedఫలాకాఙ్క్షా-రహితైః పురుషైః విధి-దృష్టః శాస్త్ర-దృష్టో మన్త్ర-ద్రవ్య-క్రియాదిభిర్ యుక్తః। యష్టవ్యమ్ ఏవేతి భగవద్-ఆరాధనత్వేన స్వయṁ-ప్రయోజనతయా యష్టవ్యమ్ ఇతి మనః సమాధాయ యో యజ్ఞ ఇజ్యతే స సాత్త్వికః॥౧౭।౧౧॥
Link copiedఅభిసన్ధాయ తు ఫలṁ దమ్భార్థమ్ అపి చైవ యత్।
Link copiedఇజ్యతే భరత-శ్రేష్ఠ తṁ యజ్ఞṁ విద్ధి రాజసమ్॥౧౨॥
Link copiedఫలాభిసన్ధి-యుక్తైర్ దమ్భ-గర్భో యశః-ఫలశ్ చ యో యజ్ఞ ఇజ్యతే, తṁ యజ్ఞṁ రాజసṁ విద్ధి॥౧౭।౧౨॥
Link copiedవిధి-హీనమ్ అసృష్టాన్నṁ మన్త్ర-హీనమ్ అదక్షిణమ్।
Link copiedశ్రద్ధా-విరహితṁ యజ్ఞṁ తామసṁ పరిచక్షతే॥౧౩॥
Link copiedవిధి-హీనṁ బ్రాహ్మణోక్త-విధి-హీనṁ సదాచార-యుక్తైర్ విధి-విద్భిర్ బ్రాహ్మణైర్ యజ్ఞస్య ఇత్య్ ఉక్తి-హీనమ్ ఇత్య్ అర్థః। అసృష్టాన్నమ్ అచోదిత-ద్రవ్యమ్। మన్త్ర-హీనమ్ అదక్షిణṁ శ్రద్ధా-విరహితṁ చ యజ్ఞṁ తామసṁ పరిచక్షతే॥౧౭।౧౩॥
Link copiedఅథ తపసో గుణతస్ త్రైవిధ్యṁ వక్తుṁ తస్య శరీర-వాఙ్-మనోభిః నిష్పాద్యతయా తత్-స్వరూప-భేదṁ తావద్ ఆహ---
Link copiedదేవ-ద్విజ-గురు-ప్రాజ్ఞ-పూజనṁ శౌచమ్ ఆర్జవమ్।
Link copiedబ్రహ్మచర్యమ్ అహిṁసా చ శారీరṁ తప ఉచ్యతే॥౧౪॥
Link copiedదేవ-ద్విజ-గురు-ప్రాజ్ఞానాṁ పూజనమ్। శౌచṁ తీర్థ-స్నానాదికమ్। ఆర్జవṁ యథా వాఙ్-మనః-శారీర-వృత్తమ్। బ్రహ్మచర్యṁ యోషిత్సు భోగ్యతా-బుద్ధి-యుక్తేక్షణాది-రహితత్వమ్। అహిṁసా అప్రాణి-పీడా। ఏతత్ శారీరṁ తప ఉచ్యతే॥౧౭।౧౪॥
Link copiedఅనుద్వేగ-కరṁ వాక్యṁ సత్యṁ ప్రియ-హితṁ చ యత్।
Link copiedస్వాధ్యాయాభ్యసనṁ చైవ వాఙ్-మయṁ తప ఉచ్యతే॥౧౫॥
Link copiedపరేషామ్ అనుద్వేగ-కరṁ సత్యṁ ప్రియ-హితṁ చ యద్ వాక్యṁ స్వాధ్యాయాభ్యసనṁ చేత్య్ ఏతద్ వాఙ్-మయṁ తప ఉచ్యతే॥౧౭।౧౫॥
Link copiedమనః-ప్రసాదః సౌమ్యత్వṁ మౌనమ్ ఆత్మ-వినిగ్రహః।
Link copiedభావ-సṁశుద్ధిర్ ఇత్య్ ఏతత్ తపో మానసమ్ ఉచ్యతే॥౧౬॥
Link copiedమనః-ప్రసాదః మనసః క్రోధాది-రహితత్వమ్। సౌమ్యత్వṁ మనసః పరేషామ్ అభ్యుదయ-ప్రావణ్యమ్। మౌనṁ మనసా వాక్-ప్రవృత్తి-నియమనమ్। ఆత్మ-వినిగ్రహః మనో-వృత్తేః ధ్యేయ-విషయేఽవస్థాపనమ్। భావ-సṁశుద్ధిర్ ఆత్మ-వ్యతిరిక్త-విషయ-చిన్తా-రహితత్వమ్। ఏతత్ మానసṁ తపః॥౧౭।౧౬॥
Link copiedశ్రద్ధయా పరయా తప్తṁ తపస్ తత్ త్రివిధṁ నరైః।
Link copiedఅఫలాకాఙ్క్షిభిర్ యుక్తైః సాత్త్వికṁ పరిచక్షతే॥౧౭॥
Link copiedఅఫలాకఙ్క్షిభిః ఫలాకాఙ్క్షా-రహితైః। యుక్తైః పరమ-పురుషారాధన-రూపమ్ ఇదమ్ ఇతి చిన్తా-యుక్తైర్ నరైః పరయా శ్రద్ధయా యత్ త్రివిధṁ తపః కాయ-వాఙ్-మనోభిస్ తప్తṁ తత్ సాత్త్వికṁ పరిచక్షతే॥౧౭।౧౭॥
Link copiedసత్కార-మాన-పూజార్థṁ తపో దమ్భేన చైవ యత్।
Link copiedక్రియతే తద్ ఇహ ప్రోక్తṁ రాజసṁ చలమ్ అధ్రువమ్॥౧౮॥
Link copiedమనసాదరః సత్కారః। వాచా ప్రశṁసా మానమ్। శారీరో నమస్కారాదిః పూజా। ఫలాభిసన్ధి-పూర్వకṁ సత్కారాద్య్-అర్థṁ చ దమ్భేన హేతునా యత్ తపః క్రియతే తద్ ఇహ రాజసṁ ప్రోక్తమ్। స్వర్గాది-ఫలాసాధనత్వేనాస్థిరత్వాచ్ చలమ్ అధ్రువమ్। చలత్వṁ పాత-భయేన చలన-హేతుత్వమ్। అధ్రువత్వṁ క్షయిష్ణుత్వమ్॥౧౭।౧౮॥
Link copiedమూఢ-గ్రాహేణాత్మనో యత్ పీడయా క్రియతే తపః।
Link copiedపరస్యోత్సాదనార్థṁ వా తత్ తామసమ్ ఉదాహృతమ్॥౧౯॥
Link copiedమూఢాః అవివేకినః। మూఢ-గ్రాహేణ మూఢైః కృతేనాభినివిశేన। ఆత్మనః శక్త్య్-ఆదికమ్ అపరీక్ష్య ఆత్మ-పీడాయా యత్ తపః క్రియతే పరస్యోత్సాదనార్థṁ చ యత్ తపః క్రియతే, తత్ తామసమ్ ఉదాహృతమ్॥౧౭।౧౯॥
Link copiedదాతవ్యమ్ ఇతి యద్ దానṁ దీయతేఽనుపకారిణే।
Link copiedదేశే కాలే చ పాత్రే చ తద్ దానṁ సాత్త్వికṁ స్మృతమ్॥౨౦॥
Link copiedఫలాభిసన్ధి-రహితṁ దాతవ్యమ్ ఇతి దేశే కాలే పాత్రే చానుపకారిణే యద్ దానṁ దీయతే తద్ దానṁ సాత్త్వికṁ స్మృతమ్॥౧౭।౨౦॥
Link copiedయత్ తు ప్రత్యుపకారార్థṁ ఫలమ్ ఉద్దిశ్య వా పునః।
Link copiedదీయతే చ పరిక్లిష్టṁ తద్ దానṁ రాజసṁ స్మృతమ్॥౨౧॥
Link copiedప్రత్యుపకార-కటక్ష-గర్భṁ ఫలమ్ ఉద్దిశ్య చ పరిక్లిష్టమ్ అకల్యాణ-ద్రవ్యకṁ యద్ దానṁ దీయతే తద్ రాజసమ్ ఉదాహృతమ్॥౧౭।౨౧॥
Link copiedఅదేశ-కాలే యద్ దానమ్ అపాత్రేభ్యశ్ చ దీయతే।
Link copiedఅసత్కృతమ్ అవజ్ఞాతṁ తత్ తామసమ్ ఉదాహృతమ్॥౨౨॥
Link copiedఅదేశ-కాలేఽపాత్రేభ్యశ్ చ యద్ దానṁ దీయతే, అసత్కృతṁ పాద-ప్రక్షాలనాది-గౌరవ-రహితమ్, అవజ్ఞాతṁ సావజ్ఞమ్, అనుపచార-యుక్తṁ యద్ దీయతే తత్ తామసమ్ ఉదాహృతమ్॥౧౭।౨౨॥
Link copiedఏవṁ వైదికానాṁ యజ్ఞ-తపో-దానానాṁ సత్త్వాది-గుణ-భేదేన భేద ఉక్తః। ఇదానీṁ తస్యైవ వైదికస్య యజ్ఞాదేః ప్రణవ-సṁయోగేన తత్-సచ్-ఛబ్ద-వ్యపదేశ్యతయా చ లక్షణమ్ ఉచ్యతే---
Link copiedఓṁ తత్ సద్ ఇతి నిర్దేశో బ్రహ్మణస్ త్రివిధః స్మృతః।
Link copiedబ్రాహ్మణాస్ తేన వేదాశ్ చ యజ్ఞాశ్ చ విహితాః పురా॥౨౩॥
Link copiedఓṁ తత్ సత్ ఇతి త్రివిధోఽయṁ నిర్దేశః శబ్దో బ్రహ్మణః స్మృతః, బ్రహ్మణోఽన్వయీ భవతి। బ్రహ్మ చ వేదః। వేద-శబ్దేన వైదికṁ కర్మోచ్యతే। వైదికṁ యజ్ఞాదికమ్। యజ్ఞాదికṁ కర్మ ఓṁ తత్ సద్ ఇతి శబ్దాన్వితṁ భవతి। ఓమ్ ఇతి శబ్దస్యాన్వయో వైదిక-కర్మాఙ్గత్వేన ప్రయోగాదౌ ప్రయుజ్యమానతయా। తత్ సద్ ఇతి శబ్దయోర్ అన్వయః పూజ్యత్వాయ వాచకతయా। తేన త్రివిధేన శబ్దేనాన్వితా బ్రాహ్మణా వేదాన్వయినస్ త్రైవర్ణికా వేదాశ్ చ యజ్ఞాశ్ చ పురా విహితాః। పురా మయైవ నిర్మితా ఇత్య్ అర్థః॥౧౭।౨౩॥
Link copiedత్రయాణామ్ ఓṁ తత్ సత్ ఇతి శబ్దానామ్ అన్వయ-ప్రకారో వర్ణ్యతే। ప్రథమమ్ ఓమ్ ఇతి శబ్దస్యాన్వయ-ప్రకారమ్ ఆహ---
Link copiedతస్మాద్ ఓమ్ ఇత్య్ ఉదాహృత్య యజ్ఞ-దాన-తపః-క్రియాః।
Link copiedప్రవర్తన్తే విధానోక్తాః సతతṁ బ్రహ్మ-వాదినామ్॥౨౪॥
Link copiedతస్మాద్ బ్రహ్మ-వాదినాṁ వేద-వాదినాṁ త్రైవర్ణికానాṁ యజ్ఞ-దాన-తపః-క్రియా విధానోక్తాః వేద-విధానోక్తాః ఆదౌ ఓమ్ ఇత్య్ ఉదాహృత్య సతతṁ సర్వదా ప్రవర్తన్తే। వేదార్థశ్ చ ఓమ్ ఇత్య్ ఉదాహృయారభ్యన్తే। ఏవṁ వేదానాṁ వైదికానాṁ చ యజ్ఞాదీనాṁ కర్మణామ్ ఓమ్ ఇతి శబ్దాన్వయో వర్ణితః। ఓమ్ ఇతి శబ్దాన్విత-వేద-ధారణాత్ తద్-అన్విత-యజ్ఞాది-కర్మ-కరణాచ్ చ బ్రాహ్మణ-శబ్ద-నిర్దిష్టానాṁ త్రైవర్ణికానామ్ అప్య్ ఓమ్ ఇతి శబ్దాన్వయో వర్ణితః॥౧౭।౨౪॥
Link copiedఅథైతేషాṁ తద్ ఇతి శబ్దాన్వయ-ప్రకారమ్ ఆహ---
Link copiedతద్ ఇత్య్ అనభిసన్ధాయ ఫలṁ యజ్ఞ-తపః-క్రియాః।
Link copiedదాన-క్రియాశ్ చ వివిధాః క్రియన్తే మోక్ష-కాఙ్క్షిభిః॥౨౫॥
Link copiedఫలమ్ అనభిసన్ధాయ వేదాధ్యయన-యజ్ఞ-తపో-దాన-క్రియా మోక్ష-కాఙ్క్షిభిస్ త్రైవర్ణికైర్ యాః క్రియన్తే, తా బ్రహ్మ-ప్రాప్తి-సాధనతయా బ్రహ్మ-వాచినా తద్ ఇతి శబ్ద-నిర్దేశ్యాః। సవః కః కిṁ యత్ తత్ పదమ్ అనుత్తమమ్ [మ।భా। ౧౩।౧౪౯।౯౧; విష్ణు-సహస్ర-నామ ౯౩] ఇతి తచ్-ఛబ్దో హి బ్రహ్మ-వాచీ ప్రసిద్ధః। ఏవṁ వేదాధ్యయన-యజ్ఞాదీనాṁ మోక్ష-సాధన-భూతానాṁ తచ్-ఛబ్ద-నిర్దేశ్యతయా తద్ ఇతి శబ్దాన్వయ ఉక్తః। త్రైవర్ణికానామ్ అపి తథా-విధ-వేదాధ్యయనాద్య్-అనుష్ఠానాద్ ఏవ తచ్-ఛబ్దాన్వయ ఉపపన్నః॥౧౭।౨౫॥
Link copiedఅథైషాṁ సచ్-ఛబ్దాన్వయ-ప్రకారṁ వక్తుṁ లోకే సచ్-ఛబ్దస్య వ్యుత్పత్తి-ప్రకారమ్ ఆహ---
Link copiedసద్-భావే సాధు-భావే చ సద్ ఇత్య్ ఏతత్ ప్రయుజ్యతే।
Link copiedప్రశస్తే కర్మణి తథా సచ్-ఛబ్దః పార్థ యుజ్యతే॥౨౬॥
Link copiedసద్-భావే విద్యమానతాయాṁ సాధు-భావే కల్యాణ-భావే చ సర్వ-వస్తుషు సద్ ఇత్య్ ఏతత్ పదṁ ప్రయుజ్యతే లోక-వేదయోః। తథా కేనచిత్ పురుషేణానుష్ఠితే లౌకికే ప్రశస్తే కల్యాణే కర్మణి సత్-కర్మేదమ్ ఇతి సచ్-ఛబ్దో యుజ్యతే ప్రయుజ్యతే ఇత్య్ అర్థః॥౧౭।౨౬॥
Link copiedయజ్ఞే తపసి దానే చ స్థితిః సద్ ఇతి చోచ్యతే।
Link copiedకర్మ చైవ తద్-అర్థీయṁ సద్ ఇత్య్ ఏవాభిధీయతే॥౨౭॥
Link copiedఅతో వైదికానాṁ త్రైవర్ణికానాṁ యజ్ఞే తపసి దానే చ స్థితిః కల్యాణతయా సద్ ఇత్య్ ఉచ్యతే। కర్మ చ తద్-అర్థీయṁ త్రైవర్ణికార్థీయṁ యజ్ఞ-దానాదికṁ సద్ ఇత్య్ ఏవాభిధీయతే। తస్మాద్ వేదా వైదికాని కర్మాణి బ్రాహ్మణ-శబ్ద-నిర్దిష్టాస్ త్రైవర్ణికాశ్ చ ఓṁ తత్ సద్ ఇతి శబ్దాన్వయ-రూప-లక్షణేనావేదేభ్యశ్ చావైదికేభ్యశ్ చ వ్యావృత్తా వేదితవ్యాః॥౧౭।౨౭॥
Link copiedఅశ్రద్ధయా హుతṁ దత్తṁ తపస్ తప్తṁ కృతṁ చ యత్।
Link copiedఅసద్ ఇత్య్ ఉచ్యతే పార్థ న చ తత్ ప్రేత్య నో ఇహ॥౨౮॥
Link copiedఅశ్రద్ధయా కృతṁ శాస్త్రీయమ్ అపి హోమాదికమ్ అసద్ ఇత్య్ ఉచ్యతే। కుతః। న చ తత్ ప్రేత్య నో ఇహ, న మోక్షాయ న సాṁసారికాయ చ ఫలాయేతి॥౧౭।౨౮॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే సప్తదశోఽధ్యాయః॥౧౭॥
Link copieddevāsura-vibhāgokti-mukhena prāpya-tattva-jñānaṁ tat-prāpty-upāya-jñānaṁ ca vedaika-mūlam ity uktam| idānīm aśāstra-vihitasyāsuratvenāphalatvaṁ, śāstra-vihitasya ca guṇatas traividhyaṁ śāstra-siddhasya lakṣaṇaṁ cocyate| tatrāśāstra-vihitasya niṣphalatvam ajānan aśāstra-vihite śraddhā-saṁyukte yāgādau sattvādi-nimitta-phala-bheda-bubhutsayā arjunaḥ pṛcchati --
Link copiedye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ|
Link copiedteṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ||1||
Link copiedśāstra-vidhim utsṛjya śraddhayānvitā ye yajante teṣāṁ niṣṭhā kā| kiṁ sattvam| āho svit rajaḥ| atha tamaḥ| niṣṭhā sthitiḥ| sthīyate'smin iti sthitiḥ| sattvādir eva niṣṭhety ucyate, teṣāṁ kiṁ sattve sthitiḥ| kiṁ vā rajasi| kiṁ vā tamasi| ity arthaḥ||17.1||
Link copiedevaṁ pṛṣṭo bhagavān aśāstra-vihita-śraddhāyās tat-pūrvakasya ca yāgāder niṣphalatvaṁ hṛdi nidhāya śāstrīyasya eva yāgāder guṇatas traividhyaṁ pratipādayituṁ śāstrīya-śraddhāyās traividhyaṁ tāvad āha---
Link copiedtrividhā bhavati śraddhā dehināṁ sā svabhāvajā|
Link copiedsāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu||2||
Link copiedsarveṣāṁ dehināṁ śraddhā trividhā bhavati| sā ca svabhāvajā svabhāvaḥ svāsādhāraṇo bhāvaḥ prācīna-vāsanā-nimittas tat-tad-ruci-viśeṣaḥ, yatra rucis tatra śraddhā jāyate| śraddhā hi svābhimataṁ sādhayaty etad iti viśvāsa-pūrvikā sādhane tvarā| vāsanā ruciś ca śraddhā cātma-dharmā guṇa-saṁsarga-jāḥ| teṣām ātma-dharmāṇāṁ vāsanādīnā janakā dehendriyāntaḥ-karaṇa-viṣaya-gatā dharmāḥ kāryaika-nirūpaṇīyāḥ sattvādayo guṇāḥ, sattvādi-guṇa-yukta-dehādy-anubhava-jā ity arthaḥ| tataś ceyaṁ śraddhā sāttvikī rājasī tāmasī ceti trividhā| tām imāṁ śraddhāṁ śṛṇu| sā śraddhā yat-svabhāvā taṁ svabhāvaṁ sṛṇv ity arthaḥ||17.2||
Link copiedsattvānurūpā sarvasya śraddhā bhavati bhārata|
Link copiedśraddhāmayo'yaṁ puruṣo yo yacchraddhaḥ sa eva saḥ||3||
Link copiedsattvam antaḥ-karaṇam, sarvasya puruṣasyāntaḥ-karaṇānurūpā śraddhā bhavati| antaḥ-karaṇaṁ yādṛśa-guṇa-yuktam, tad-viṣayā śraddhā jāyate ity arthaḥ| sattva-śabdaḥ pūrvoktānāṁ dehendriyādīnāṁ pradarśanārthaḥ| śraddhā-mayo'yaṁ puruṣaḥ, śraddhā-mayaḥ śraddhā-pariṇāmaḥ| yo yac-chraddhaḥ| yaḥ puruṣo yādṛśyā śraddhayā yuktaḥ| sa eva saḥ| sa tādṛśa-śraddhā-pariṇāmaḥ| puṇya-karma-viṣaye śraddhā-yuktaś cet puṇya-karma-phala-saṁyukto bhavatīti śraddhā-pradhānaḥ phala-saṁyoga ity uktaṁ bhavatīti||17.3||
Link copiedtad eva vivṛṇoti---
Link copiedyajante sāttvikā devān yakṣa-rakṣāṁsi rājasāḥ|
Link copiedpretān bhūta-gaṇāṁś cānye yajante tāmasā janāḥ||4||
Link copiedsattva-guṇa-pracurāḥ sāttvikyā śraddhayā yuktā devān yajante| duḥkhāsambhinnotkṛṣṭa-sukha-hetu-bhūta-deva-yāga-viṣayā śraddhā sāttvikī ity uktaṁ bhavati| rājasā janā yakṣa-rakṣāṁsi yajanti| anye tāmasā janāḥ pretān bhūta-gaṇān yajante| duḥkha-sambhinnālpa-sukha-jananī rājasī śraddhā, duḥkha-prāyātyalpa-sukha-jananī tāmasīty arthaḥ||17.4||
Link copiedevaṁ śāstrīyeṣv eva yāgādiṣu śraddhā-yukteṣu guṇataḥ phala-viśeṣaḥ| aśāstrīyeṣu dāna-tapo-yāga-prabhṛtiṣu mad-anuśāsana-viparītatvena na kaścid api sukha-lavaḥ| api tv anartha eva iti hṛdi nihitaṁ vyañjayann āha---
Link copiedaśāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ|
Link copieddambhāhaṅkāra-saṁyuktāḥ kāma-rāga-balānvitāḥ||5||
Link copiedkarśayantaḥ śarīra-sthaṁ bhūta-grāmam acetasaḥ|
Link copiedmāṁ caivāntaḥ-śarīra-sthaṁ tān viddhy āsura-niścayān||6||
Link copiedaśāstra-vihitam ati ghoram api tapo ye janās tapyante pradarśanārtham idam aśāstra-vihitaṁ bahv-āyāsaṁ yāgādikaṁ ye kurvate te dambhāhaṅkāra-saṁyuktāḥ kāma-rāga-balānvitāḥ śarīra-sthaṁ pṛthivy-ādi-bhūta-samūhaṁ karśayanto mad-aṁśa-bhūtaṁ jīvaṁ cāntaḥ-śarīra-sthaṁ karśayanto ye tapyante yāgādikaṁ ca kurvate, tān āsura-niścayān viddhi| asurāṇāṁ niścayaḥ āsuro niścayaḥ, asurā hi mad-ājñā-viparīta-kāriṇaḥ| mad-ājñā-viparīta-kāritvāt teṣāṁ sukha-lava-sambandho na vidyate| api tv anartha-vrāte patantīti pūrvam evoktam| patanti narake'śucau [gītā 16.16] iti||17.5-6||
Link copiedatha prakṛtam eva śāstrīyeṣu yajñādiṣu guṇato viśeṣaṁ prapañcayati| tatrāpy āhāra-mūlatvāt sattvādi-vṛddheḥ, āhāra-traividhyaṁ prathamam ucyate| anna-mayaṁ hi somya manaḥ [chā.u. 6.5.4] āhāra-śuddhau sattva-śuddhiḥ [chā.u. 7.26.2] iti hi śrūyate|
Link copiedāhāras tv api sarvasya trividho bhavati priyaḥ|
Link copiedyajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu||7||
Link copiedāhāro'pi sarvasya prāṇi-jātasya sattvādi-guṇa-trayānvayena trividhaḥ priyo bhavati| tathā eva yajño'pi trividhaḥ, tathā tapo dānaṁ ca| teṣāṁ bhedam imaṁ sṛṇu| teṣām āhāra-yajña-tapo-dānānāṁ sattvādi-guṇa-bhedena imam ucyamānaṁ bhedaṁ sṛṇu||17.7||
Link copiedāyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ|
Link copiedrasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ||8||
Link copiedsattva-guṇopetasya sattva-mayā āhārāḥ priyā bhavanti| sattva-mayāś cāhārā āyur-vivardhanāḥ punar api sattvasya vivardhanāḥ| sattvam antaḥ-karaṇam, antaḥ-karaṇa-kāryaṁ jñānam iha sattva-śabdena ucyate| sattvāt sañjāyate jñānam [gītā 14.17] iti sattvasya jñāna-vivṛddhi-hetu-vacanāt| āhāro'pi sattva-mayo jñāna-vivṛddhi-hetuḥ| tathā balārogyayor api vivardhanāḥ, sukha-prītyor api vivardhanāḥ| pariṇāma-kāle svayam eva sukhasya vivardhanāḥ, tathā prīti-hetu-bhūta-karmārambha-dvāreṇa prīti-vardhanāḥ| rasyā madhura-rasopetāḥ, snigdhāḥ sneha-yuktāḥ, sthirāḥ sthira-pariṇāmāḥ, hṛdyā ramaṇīya-veṣāḥ, evaṁ-vidhāḥ sattva-mayā āhārāḥ, sāttvikasya puruṣasya priyāḥ||17.8||
Link copiedkaṭv-amla-lavaṇātyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ|
Link copiedāhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ||9||
Link copiedkaṭu-rasāḥ amla-rasāḥ lavaṇotkaṭo'tyuṣṇāḥ atitīkṣṇāḥ rūkṣāḥ vidāhinaś ca iti kaṭv-ambala-lavaṇātyuṣṇa-tīkṣṇa-rūkṣa-vidāhinaḥ| atiśaityātitaikṣṇyādinā durupayogās tīkṣṇāḥ, śoṣa-karāḥ rūkṣāḥ, tāpa-karā vidāhinaḥ, evaṁ-vidhā āhārā rājasasyeṣṭaḥ| te ca rajo-mayatvād duḥkha-śokāmayatvād duḥkha-śokāmaya-vardhanā rajo-vardhanāś ca||17.9||
Link copiedyāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat|
Link copieducchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa-priyam||10||
Link copiedyāta-yāmaṁ cira-kālāvasthitam, gata-rasaṁ tyakta-svābhāvika-rasam, pūti durgandhopetam, paryuṣitaṁ kālātipattyā rasāntarāpannam, ucchiṣṭaṁ gurv-ādibhyo'nyeṣāṁ bhukta-śiṣṭam, amedhyam ayajñārham, ayajña-śiṣṭam ity arthaḥ| evaṁ-vidhaṁ tamo-mayaṁ bhojanaṁ tāmasa-priyaṁ bhavati| bhujyate ity āhāra eva bhojanam, punaś ca tamaso vardhanam| ato hitaiṣibhiḥ sattva-vṛddhaye sāttvikāhāra eva sevyaḥ||17.10||
Link copiedaphalākāṅkṣibhir yajño vidhi-dṛṣṭo ya ijyate|
Link copiedyaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ||11||
Link copiedphalākāṅkṣā-rahitaiḥ puruṣaiḥ vidhi-dṛṣṭaḥ śāstra-dṛṣṭo mantra-dravya-kriyādibhir yuktaḥ| yaṣṭavyam eveti bhagavad-ārādhanatvena svayaṁ-prayojanatayā yaṣṭavyam iti manaḥ samādhāya yo yajña ijyate sa sāttvikaḥ||17.11||
Link copiedabhisandhāya tu phalaṁ dambhārtham api caiva yat|
Link copiedijyate bharata-śreṣṭha taṁ yajñaṁ viddhi rājasam||12||
Link copiedphalābhisandhi-yuktair dambha-garbho yaśaḥ-phalaś ca yo yajña ijyate, taṁ yajñaṁ rājasaṁ viddhi||17.12||
Link copiedvidhi-hīnam asṛṣṭānnaṁ mantra-hīnam adakṣiṇam|
Link copiedśraddhā-virahitaṁ yajñaṁ tāmasaṁ paricakṣate||13||
Link copiedvidhi-hīnaṁ brāhmaṇokta-vidhi-hīnaṁ sadācāra-yuktair vidhi-vidbhir brāhmaṇair yajñasya ity ukti-hīnam ity arthaḥ| asṛṣṭānnam acodita-dravyam| mantra-hīnam adakṣiṇaṁ śraddhā-virahitaṁ ca yajñaṁ tāmasaṁ paricakṣate||17.13||
Link copiedatha tapaso guṇatas traividhyaṁ vaktuṁ tasya śarīra-vāṅ-manobhiḥ niṣpādyatayā tat-svarūpa-bhedaṁ tāvad āha---
Link copieddeva-dvija-guru-prājña-pūjanaṁ śaucam ārjavam|
Link copiedbrahmacaryam ahiṁsā ca śārīraṁ tapa ucyate||14||
Link copieddeva-dvija-guru-prājñānāṁ pūjanam| śaucaṁ tīrtha-snānādikam| ārjavaṁ yathā vāṅ-manaḥ-śārīra-vṛttam| brahmacaryaṁ yoṣitsu bhogyatā-buddhi-yuktekṣaṇādi-rahitatvam| ahiṁsā aprāṇi-pīḍā| etat śārīraṁ tapa ucyate||17.14||
Link copiedanudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat|
Link copiedsvādhyāyābhyasanaṁ caiva vāṅ-mayaṁ tapa ucyate||15||
Link copiedpareṣām anudvega-karaṁ satyaṁ priya-hitaṁ ca yad vākyaṁ svādhyāyābhyasanaṁ cety etad vāṅ-mayaṁ tapa ucyate||17.15||
Link copiedmanaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ|
Link copiedbhāva-saṁśuddhir ity etat tapo mānasam ucyate||16||
Link copiedmanaḥ-prasādaḥ manasaḥ krodhādi-rahitatvam| saumyatvaṁ manasaḥ pareṣām abhyudaya-prāvaṇyam| maunaṁ manasā vāk-pravṛtti-niyamanam| ātma-vinigrahaḥ mano-vṛtteḥ dhyeya-viṣaye'vasthāpanam| bhāva-saṁśuddhir ātma-vyatirikta-viṣaya-cintā-rahitatvam| etat mānasaṁ tapaḥ||17.16||
Link copiedśraddhayā parayā taptaṁ tapas tat trividhaṁ naraiḥ|
Link copiedaphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate||17||
Link copiedaphalākaṅkṣibhiḥ phalākāṅkṣā-rahitaiḥ| yuktaiḥ parama-puruṣārādhana-rūpam idam iti cintā-yuktair naraiḥ parayā śraddhayā yat trividhaṁ tapaḥ kāya-vāṅ-manobhis taptaṁ tat sāttvikaṁ paricakṣate||17.17||
Link copiedsatkāra-māna-pūjārthaṁ tapo dambhena caiva yat|
Link copiedkriyate tad iha proktaṁ rājasaṁ calam adhruvam||18||
Link copiedmanasādaraḥ satkāraḥ| vācā praśaṁsā mānam| śārīro namaskārādiḥ pūjā| phalābhisandhi-pūrvakaṁ satkārādy-arthaṁ ca dambhena hetunā yat tapaḥ kriyate tad iha rājasaṁ proktam| svargādi-phalāsādhanatvenāsthiratvāc calam adhruvam| calatvaṁ pāta-bhayena calana-hetutvam| adhruvatvaṁ kṣayiṣṇutvam||17.18||
Link copiedmūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ|
Link copiedparasyotsādanārthaṁ vā tat tāmasam udāhṛtam||19||
Link copiedmūḍhāḥ avivekinaḥ| mūḍha-grāheṇa mūḍhaiḥ kṛtenābhiniviśena| ātmanaḥ śakty-ādikam aparīkṣya ātma-pīḍāyā yat tapaḥ kriyate parasyotsādanārthaṁ ca yat tapaḥ kriyate, tat tāmasam udāhṛtam||17.19||
Link copieddātavyam iti yad dānaṁ dīyate'nupakāriṇe|
Link copieddeśe kāle ca pātre ca tad dānaṁ sāttvikaṁ smṛtam||20||
Link copiedphalābhisandhi-rahitaṁ dātavyam iti deśe kāle pātre cānupakāriṇe yad dānaṁ dīyate tad dānaṁ sāttvikaṁ smṛtam||17.20||
Link copiedyat tu pratyupakārārthaṁ phalam uddiśya vā punaḥ|
Link copieddīyate ca parikliṣṭaṁ tad dānaṁ rājasaṁ smṛtam||21||
Link copiedpratyupakāra-kaṭakṣa-garbhaṁ phalam uddiśya ca parikliṣṭam akalyāṇa-dravyakaṁ yad dānaṁ dīyate tad rājasam udāhṛtam||17.21||
Link copiedadeśa-kāle yad dānam apātrebhyaś ca dīyate|
Link copiedasatkṛtam avajñātaṁ tat tāmasam udāhṛtam||22||
Link copiedadeśa-kāle'pātrebhyaś ca yad dānaṁ dīyate, asatkṛtaṁ pāda-prakṣālanādi-gaurava-rahitam, avajñātaṁ sāvajñam, anupacāra-yuktaṁ yad dīyate tat tāmasam udāhṛtam||17.22||
Link copiedevaṁ vaidikānāṁ yajña-tapo-dānānāṁ sattvādi-guṇa-bhedena bheda uktaḥ| idānīṁ tasyaiva vaidikasya yajñādeḥ praṇava-saṁyogena tat-sac-chabda-vyapadeśyatayā ca lakṣaṇam ucyate---
Link copiedoṁ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ|
Link copiedbrāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā||23||
Link copiedoṁ tat sat iti trividho'yaṁ nirdeśaḥ śabdo brahmaṇaḥ smṛtaḥ, brahmaṇo'nvayī bhavati| brahma ca vedaḥ| veda-śabdena vaidikaṁ karmocyate| vaidikaṁ yajñādikam| yajñādikaṁ karma oṁ tat sad iti śabdānvitaṁ bhavati| om iti śabdasyānvayo vaidika-karmāṅgatvena prayogādau prayujyamānatayā| tat sad iti śabdayor anvayaḥ pūjyatvāya vācakatayā| tena trividhena śabdenānvitā brāhmaṇā vedānvayinas traivarṇikā vedāś ca yajñāś ca purā vihitāḥ| purā mayaiva nirmitā ity arthaḥ||17.23||
Link copiedtrayāṇām oṁ tat sat iti śabdānām anvaya-prakāro varṇyate| prathamam om iti śabdasyānvaya-prakāram āha---
Link copiedtasmād om ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ|
Link copiedpravartante vidhānoktāḥ satataṁ brahma-vādinām||24||
Link copiedtasmād brahma-vādināṁ veda-vādināṁ traivarṇikānāṁ yajña-dāna-tapaḥ-kriyā vidhānoktāḥ veda-vidhānoktāḥ ādau om ity udāhṛtya satataṁ sarvadā pravartante| vedārthaś ca om ity udāhṛyārabhyante| evaṁ vedānāṁ vaidikānāṁ ca yajñādīnāṁ karmaṇām om iti śabdānvayo varṇitaḥ| om iti śabdānvita-veda-dhāraṇāt tad-anvita-yajñādi-karma-karaṇāc ca brāhmaṇa-śabda-nirdiṣṭānāṁ traivarṇikānām apy om iti śabdānvayo varṇitaḥ||17.24||
Link copiedathaiteṣāṁ tad iti śabdānvaya-prakāram āha---
Link copiedtad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ|
Link copieddāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ||25||
Link copiedphalam anabhisandhāya vedādhyayana-yajña-tapo-dāna-kriyā mokṣa-kāṅkṣibhis traivarṇikair yāḥ kriyante, tā brahma-prāpti-sādhanatayā brahma-vācinā tad iti śabda-nirdeśyāḥ| savaḥ kaḥ kiṁ yat tat padam anuttamam [ma.bhā. 13.149.91; Viṣṇu-sahasra-nāma 93] iti tac-chabdo hi brahma-vācī prasiddhaḥ| evaṁ vedādhyayana-yajñādīnāṁ mokṣa-sādhana-bhūtānāṁ tac-chabda-nirdeśyatayā tad iti śabdānvaya uktaḥ| traivarṇikānām api tathā-vidha-vedādhyayanādy-anuṣṭhānād eva tac-chabdānvaya upapannaḥ||17.25||
Link copiedathaiṣāṁ sac-chabdānvaya-prakāraṁ vaktuṁ loke sac-chabdasya vyutpatti-prakāram āha---
Link copiedsad-bhāve sādhu-bhāve ca sad ity etat prayujyate|
Link copiedpraśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate||26||
Link copiedsad-bhāve vidyamānatāyāṁ sādhu-bhāve kalyāṇa-bhāve ca sarva-vastuṣu sad ity etat padaṁ prayujyate loka-vedayoḥ| tathā kenacit puruṣeṇānuṣṭhite laukike praśaste kalyāṇe karmaṇi sat-karmedam iti sac-chabdo yujyate prayujyate ity arthaḥ||17.26||
Link copiedyajñe tapasi dāne ca sthitiḥ sad iti cocyate|
Link copiedkarma caiva tad-arthīyaṁ sad ity evābhidhīyate||27||
Link copiedato vaidikānāṁ traivarṇikānāṁ yajñe tapasi dāne ca sthitiḥ kalyāṇatayā sad ity ucyate| karma ca tad-arthīyaṁ traivarṇikārthīyaṁ yajña-dānādikaṁ sad ity evābhidhīyate| tasmād vedā vaidikāni karmāṇi brāhmaṇa-śabda-nirdiṣṭās traivarṇikāś ca oṁ tat sad iti śabdānvaya-rūpa-lakṣaṇenāvedebhyaś cāvaidikebhyaś ca vyāvṛttā veditavyāḥ||17.27||
Link copiedaśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat|
Link copiedasad ity ucyate pārtha na ca tat pretya no iha||28||
Link copiedaśraddhayā kṛtaṁ śāstrīyam api homādikam asad ity ucyate| kutaḥ| na ca tat pretya no iha, na mokṣāya na sāṁsārikāya ca phalāyeti||17.28||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye saptadaśo'dhyāyaḥ||17||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 17 — The Threefold Division of Faith (in Sanskrit: śraddhā-traya-vibhāga-yoga)
A modern English rendering of A. Govindacharya's 1898 translation of Bhagavad Ramanuja's Gita Bhashya.
Link copiedIntroduction
By the treatment of the two classes of Divine and Non-divine natures, it was shown that knowledge concerning the goal of man and the means of reaching it rests solely on the Vedas (XVI.24). Now it will be shown: (1) that works performed in contravention of śāstra — being of a Non-divine nature — prove abortive; (2) that works performed in accordance with śāstra are, by reason of their motive, divisible into three kinds; and (3) what works are known to be in agreement with śāstra.
Link copiedArjuna, forgetting the futility of works done against śāstra, asks how such works (yāgas and the like), if performed in faith, differ in their fruits by the three qualities (guṇas) — sattva and the rest.
Link copiedVerses 1–6 (The Threefold Faith and Acts Contrary to Śāstra)
Verse 17.1. "How is that sacrifice characterized, O Kṛṣṇa, which is done by men in faith (śraddhā), but incompatible with śāstra's canons?"
Link copiedWhat spiritual status consists in one renouncing śāstra's biddings but yet performing a sacrifice in full faith? Is it characterized as falling under sattva, rajas, or tamas?
Link copiedThus questioned, bhagavān, reserving the subject of the futility of anti-śāstra sacrifices, first expounds the threefold nature of even śāstra-conforming works.
Link copiedVerse 17.2. "Threefold is the faith of the embodied, according as it is begotten of sattva, rajas, or tamas. Hear it."
Link copiedThree-fold is the faith of all mankind; it conforms with the several dispositions of men. Tendencies carried forward from past incarnations beget corresponding tastes. For whatever the taste, faith is born. Faith is indicated by enthusiasm for a work lovingly undertaken with the belief in its success. Tendency, taste, and faith are powers of the soul, but are evoked when the soul contacts the guṇas. The causes which provoke these soul-affections are the sattva, rajas, and tamas qualities in the body, senses, and mind. From the bodily experience comes threefold faith.
Link copiedVerse 17.3. "The faith of every one, O Bhārata, accords with his mind; one is saturated with faith; of what one is, he is that."
Link copiedSattvam here = antaḥ-karaṇa (the inner sense, the mind). As is the mind, so is the faith. Śraddhāmaya: the man is the embodiment of faith itself. If a person is filled with faith for a meritorious work, he becomes entitled to meritorious fruit; faith of any kind leads to a fruit corresponding to that faith.
Link copiedVerse 17.4. "Those of sattva worship the devas; those of rajas, the yakṣas and rākṣasas; those of tamas worship the pretas and hosts of bhūtas."
Link copiedThose in whom sattva reigns become united to sattva-faith and worship the devas. That faith is sāttvika which concerns itself with supreme bliss-fraught deva-sacrifices — bliss unmixed with pain. Those of rajas worship yakṣas and rākṣasas. Those of tamas worship pretas and hosts of bhūtas. Rajas-faith gives birth to happiness mixed with pain; tamas-faith to little or no happiness, tantamount to pain.
Link copiedThus fruits differ according to the qualities even in śāstra-sanctioned sacrifices. Now the Lord declares what he reserved before — that no happiness attends the performance of anti-śāstra penances and sacrifices, for they are opposed to His mandates.
Link copiedVerse 17.5. "Those men who practise severe austerities unprescribed by śāstra — wedded to pretence and selfness, to lust, longing, and ability;"
Link copiedVerse 17.6. "Those fools molest the group of elements imbedded in the body, and Me too planted therein. Know them to be of demon-nature."
Link copiedTapas here implies sacrifices (yāgas) and other works. Me too planted: Me, the soul, who is of My nature and dwells in the body. Men who perform anti-śāstra sacrifices and penances at great loss of energy — wedded to pretence, selfness, lust — and who torture the elements lodged in the body as well as the jīvātman in it, are to be considered asuras (demons) — Non-divine beings who act contrary to My commands. They do not derive even the smallest particle of happiness.
Link copiedVerses 7–10 (The Three Kinds of Food)
Resuming the subject of śāstra-bid yajñas and their natures varying with the guṇas, it is said that the sattva and other qualities are themselves the effect of food eaten. The threefold nature of food is first described — the śruti itself proclaiming: "O son, the mind is made up of food" (Chāndogya VI.5.4); "Food being pure, mind becomes pure" (Chāndogya VII.26.2).
Link copiedVerse 17.7. "To all beings, food also is threefold, and liked accordingly. So are sacrifice, austerity, and charity. Listen to their distinction."
Link copiedVerse 17.8. "Dear to sāttvika men is food promoting life, mind, strength, health, comfort, and relish — tasteful, oleaginous, substantial, and cordial."
Link copiedTo those of sattva-quality, pure sattva-food is dear. It prolongs life, promotes the mind (its manifestation of intelligence), strength, and health; it gives comfort during assimilation and produces a relish for congenial works. Rasyāḥ (tasteful): savoury, sweet. Snigdhāḥ (oleaginous): mixed with clarified butter. Sthirāḥ (substantial): well assimilable. Hṛdyāḥ (cordial): agreeable.
Link copiedVerse 17.9. "Dear to rājasa men is food — bitter, sour, saltish, over-hot, pungent, dry, and burning — productive of pain, grief, and illness."
Link copiedSuch foods are liked by rājasa-full men. They promote pain, grief, ailments, and increase rajas.
Link copiedVerse 17.10. "Dear to tāmasa men is food which is stale, changed, stinking, putrid — refuse and foul."
Link copiedYātayāmam (stale): very old. Gata-rasam (changed): lost its natural taste. Pūti (stinking). Paryuṣitam (putrid): corrupted by long standing. Ucchiṣṭam (refuse): leavings of others, except of gurus and holy persons. Amedhyam (foul): not consecrated at a yajña. Tamas-food breeds still more tamas. Hence those who care for themselves should serve themselves with sāttvika food.
Link copiedVerses 11–13 (The Three Kinds of Sacrifice)
Verse 17.11. "That law-sanctioned sacrifice is sāttvika which is done regardless of fruit, with the resolve 'this ought to be done.'"
Link copiedVidhi-dṛṣṭa (law-sanctioned). Yaṣṭavyam: to be done as a duty — an end in itself, being worship to bhagavān — completely in its three features of mantra, money, and labour.
Link copiedVerse 17.12. "But that yajña, know, O Bhārata-chief, is rājasa, which is performed with an aim for fruit and for display."
Link copiedVerse 17.13. "That yajña they say is tāmasa which is void of authority, devoid of earned food, devoid of mantra and money-gifts, and devoid of faith."
Link copiedVidhi-hīna (void of authority): lacking the verbal sanction of wise brāhmaṇas. Asṛṣṭānnam: food not lawfully earned (or prohibited). Dravya: things required for a sacrifice. And unaccompanied by mantras, money-gifts, or faith.
Link copiedVerses 14–16 (The Three Kinds of Austerity)
Verse 17.14. "That is called bodily austerity which consists in the worship of the devas, the twice-born, the teachers, and wise men; in cleanliness, rectitude, chastity, and harmlessness."
Link copiedReverence to the gods, brāhmaṇas, gurus, and wise men. Śaucam: cleanliness by ablutions in holy waters. Ārjavam: conduct in keeping with intent. Brahmacarya: chastity, absence of lustful looking at women. Ahiṃsā: harmlessness.
Link copiedVerse 17.15. "That is called oral austerity which consists in inoffensive truthful speech, sweet and soft, and the reading of sacred writings."
Link copiedPriya (sweet) and hita (soft or comforting) language; recitations of Scripture (svādhyāya).
Link copiedVerse 17.16. "That is called mental austerity which consists in good temper, benevolence, quietude, self-control, and purity of purpose."
Link copiedManaḥ-prasāda (good temper): mind free of anger. Saumyatvam (benevolence): mind filled with love for others' happiness. Maunam (quietude): restraining speech by will. Ātma-vinigraha (self-control): keeping the mind engaged in holy objects of contemplation. Bhāva-saṃśuddhi (purity of purpose): absence of thoughts wandering from the ātman.
Link copiedVerse 17.17. "The threefold austerity done by men in fervid faith, exempt from hope of fruit, and devoutly, is called sāttvika."
Link copiedNot longing for fruit; devout (imbued with the thought that all is worship rendered to paramapuruṣa); united to ardent faith — austerity of the three kinds (bodily, oral, mental) is sāttvika.
Link copiedVerse 17.18. "That is called rājasa austerity which is practised for regard, praise, and worship, and for display — unstable and unenduring."
Link copiedPractised for satkāra (regard), māna (praise), pūjā (worship from others), and for parade. Since it results in transitory fruit like svarga, it is calam (unstable) — fraught with fear of falling — and adhruvam (not lasting).
Link copiedVerse 17.19. "That is declared tāmasa austerity which by the witless resolved is done to torture self or hurt others."
Link copiedWhatever austerity is done by foolish resolve, regardless of one's capacity, and to torture oneself or others, is tāmasa.
Link copiedVerses 20–22 (The Three Kinds of Gift)
Verse 17.20. "That is considered sāttvika gift which is given with the thought 'it ought to be given,' to one unable to return it, in proper place, time, and to a worthy recipient."
Link copiedGiven as a duty, not in expectation of reward; to one who cannot return it; in due place, time, and to a proper recipient.
Link copiedVerse 17.21. "That is considered rājasa gift given with hope of return, or for fruit, or unwillingly."
Link copiedOr with inferior or damaged articles while retaining good ones — from which unwillingness is evident.
Link copiedVerse 17.22. "That is considered tāmasa gift given in wrong place, wrong time, to wrong recipients — without honour and without ceremony."
Link copiedIn unholy places, wrong times (such as the dead of night), to unworthy persons; without respect such as washing the feet of the worthy; unceremoniously, with disdain.
Link copiedVerses 23–28 (OM, TAT, SAT)
So far the distinctions of Vedic yajña, tapas, and dāna by guṇas have been shown. Now how these same Vedic works become characterized when united with the praṇava (OM) and qualified by the symbols TAT and SAT:
Link copiedVerse 17.23. "Brahman's denomination is declared as triple: OM, TAT, and SAT. With these, of old, were brāhmaṇas, Vedas, and yajñas created."
Link copiedThe triple formula OM TAT SAT is used with reference to brahman. Brahman here means Veda. Veda means Veda-ordained work; Veda-ordained work means yajña and the rest. OM is used as a necessary part of Vedic ritualistic equipment; TAT and SAT are terms of worship symbolically related to the cult. Brāhmaṇas are those who have connection with these symbols — representing the three varṇas (Brāhmaṇa, Kṣatriya, Vaiśya) eligible for Vedic observances. They and the Vedas and the yajñas were, of old, created by Myself.
Link copiedVerse 17.24. "With brahma-vādins, therefore, all Veda-enjoined acts — sacrifice, gift, and austerity — always begin with the repetition of OM."
Link copiedBrahma-vādin = veda-vādin: one who follows the Vedas — or the three varṇas. Vedas begin with OM; sacrifices etc. begin with OM.
Link copiedVerse 17.25. "With TAT are done the acts of yajña, tapas, and dāna by mokṣa-aspirants wishing not for fruit."
Link copiedWhatever acts are done by mokṣa-aspiring persons of the three varṇas — Veda-learning, yajña, tapas, dāna — they are designated by TAT, since they are means to attain brahman. TAT signifies brahman (as per "Sa, Vaḥ, Kaḥ, Kim, yat, Tat denote the Most Supreme" — Viṣṇu-sahasranāma).
Link copiedNow the etymology of SAT, in common usage, is examined.
Link copiedVerse 17.26. "In the sense of existence and goodness, the word SAT is used. SAT is likewise used, O Pārtha, in relation to auspicious events."
Link copiedSad-bhāve: in the sense of existence. Sādhu-bhāve: in the sense of goodness. Used similarly for any auspicious undertaking, calling it sat-karma.
Link copiedVerse 17.27. "To be implanted in yajña, tapas, and dāna is called SAT; and all acts on that account are designated by SAT itself."
Link copiedHence the settlement of the three Vedic varṇas in yajña, tapas, and dāna is called SAT (good), since it is auspicious. These acts, performed for the sake of the three varṇas, are themselves called SAT.
Link copiedThus the relation of the symbols OM, TAT, SAT to (1) Vedas, (2) Vedic works, and (3) the three varṇas implied by the word brāhmaṇa is shown — denoting how these differ from what is non-Vedic.
Link copiedVerse 17.28. "What is given without faith, what tapas is done, and what yajña is done without faith — is called A-SAT, O Pārtha, and is neither for here nor for hereafter."
Link copiedEven if according to śāstra-ordinance, but without faith, homa and the rest done is called A-SAT — neither for any fruit in this world nor for any fruit in the shape of mokṣa.
Link copiedOṃ tat sat.
Link copiedThus closes the seventeenth discourse, named Śraddhā-Traya-Vibhāga-Yoga, or the Book of the Threefold Division of Faith, with Sri Ramanuja's commentary thereon, between Sri Krishna and Sri Arjuna, in the science of yoga, in the theosophy of the Upaniṣads.
Link copied