Skip to content

Bhagavad Gita Bhashya · Section 17 of 19

atha daivāsura-sampad-vibhāga-yogo nāma ṣoḍaśo'dhyāyaḥ

Sanskrit (IAST) · click to toggle

अतीतेनाध्याय-त्रयेण प्रकृति-पुरुषयोर् विविक्तयोः सꣳसृष्टयोश् च याथात्म्यꣳ तत्-सꣳसर्ग-वियोगयोश् च गुण-सङ्ग-तद्-विपर्यय-हेतुकत्वꣳ, सर्व-प्रकारेणावस्थितयोः प्रकृति-पुरुषयोर् भगवद्-विभूतित्वम्। विभूतिमतो भगवतो विभूति-भूताद् अचिद्-वस्तुनश् चिद्-वस्तुनश् च बद्ध-मुक्तोभय-रूपाद् अव्ययत्व-व्यापन-भरण-स्वाम्यैर् अर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यꣳ च वर्णितम्। अनन्तरम् उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्र-वश्यताꣳ वक्तुꣳ शास्त्र-वश्य-तद्-विपरीतयोर् दैवासुर-सर्गयोर् विभागꣳ श्री-भगवान् उवाच---

Link copied

अभयꣳ सत्त्व-सꣳशुद्धिर् ज्ञान-योग-व्यवस्थितिः

Link copied

दानꣳ दमश् च यज्ञश् च स्वाध्यायस् तप आर्जवम्

Link copied

इष्टानिष्ट-वियोग-सꣳयोग-रूपस्य दुःखस्य हेतु-दर्शन-जꣳ दुःखꣳ भयम्, तन्-निवृत्तिर् अभयम्सत्त्व-सꣳशुद्धिः सत्त्वस्यान्तः-करणस्य रजस्-तमोभ्याम् असꣳस्पृष्टत्वम्। ज्ञान-योग-व्यवस्थितिः प्रकृति-वियुक्तात्म-स्वरूप-विवेक-निष्ठा। दानꣳ न्यायार्जित-धनस्य पात्रे प्रतिपादनम्। दमो मनसो विषयोन्मुख-निवृत्ति-सꣳशीलनम्। यज्ञः फलाभिसन्धि-रहित-भगवद्-आराधन-रूप-महायज्ञाद्य्-अनुष्ठानम्। स्वाध्यायः स-विभूतेर् भगवतस् तद्-आराधन-प्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्य् अनुसन्धाय वेदाभ्यास-निष्ठा। तपः कृच्छ्र-चान्द्रायण-द्वादश्य्-उपवासादेर् भगवत्-प्रीणन-कर्म-योग्यतापादनस्य करणम्॥।१६।१॥

Link copied

आर्जवम् मनोवाक्कायकर्मवृत्तीनाम् एकनिष्ठा परेषु।

Link copied

अहिꣳसा सत्यम् अक्रोधस् त्यागः शान्तिर् अपैशुनम्

Link copied

दया भूतेष्व् अलोलुप्त्वꣳ मार्दवꣳ ह्रीर् अचापलम्

Link copied

अहिꣳसा पर-पीडा-वर्जनम्। सत्यꣳ यथा-दृष्टार्थ-गोचर-भूत-हित-वाक्यम्। अक्रोधः पर-पीडा-फल-चित्त-विकार-रहितत्वम्। त्याग आत्म-हित-प्रत्यनीक-परिग्रह-विमोचनम्। शान्तिः इन्द्रियाणाꣳ विषय-प्रावण्य-निरोध-सꣳशीलनम्। अपैशुनꣳ परानर्थ-कर-वाक्य-निवेदनाकरणम्। दया भूतेषु सर्वेषु दुःखासहिष्णुत्वम्। अलोलुप्त्वम् अलोलुपत्वम्, अलोलुत्वम् इति वा पाठः। विषयेषु निःस्पृहत्वम् इत्य् अर्थः। मार्दवम् अकाठिन्यम्। साधु-जन-सꣳश्लेषार्हता इत्य् अर्थः। ह्रीर् अकार्य-करणे व्रीडा। अचापलꣳ स्पृहणीय-विषय-सन्निधव् अचपलत्वम्॥१६।२॥

Link copied

तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता

Link copied

भवन्ति सम्पदꣳ दैवीम् अभिजातस्य भारत

Link copied

तेजः दुर्जनैर् अनभिभवनीयत्वम्। क्षमा पर-निमित्त-पीडानुभवेऽपि परेषु तꣳ प्रति चित्त-विकारर-हितता। धृतिर् महत्याम् अप्य् आपदि कृत्य-कर्तव्यतावधारणम्। शौचꣳ बाह्यान्तः-करणानाꣳ कृत्य-योग्यता शास्त्रीया। अद्रोहः परेष्व् अनुपरोधः। परेषु स्वच्छन्द-वृत्ति-निरोध-रहितत्वम् इत्य् अर्थः। नातिमानिता अस्थाने गर्वोऽतिमानित्वम्, तद्-रहितता। एते गुणा दैवीꣳ सम्पदम् अभिजातस्य भवन्ति। देव-सम्बन्धिनी सम्पत् दैवी। देवा भगवद्-आज्ञानुवृत्ति-शीलाः, तेषाꣳ सम्पत्। सा च भगवद्-आज्ञानुवृत्तिर् एव, ताम् आभिजातस्य ताम् अभिमुखी-कृतस्य जातस्य ताꣳ निर्वर्तयितुꣳ जातस्य भवन्तीत्य् अर्थः॥१६।३॥

Link copied

दम्भो दर्पोऽतिमानश् च क्रोधः पारुष्यम् एव च

Link copied

अज्ञानꣳ चाभिजातस्य पार्थ सम्पदम् आसुरीम्

Link copied

दम्भो धार्मिकत्व-ख्यापनाय धर्मानुष्ठानम्। दर्पः कृत्याकृत्याविवेक-करो विषयानुभव-निमित्तो हर्षः। अतिमानश् च स्व-विद्याभिजनाननुगुणोऽभिमानः। क्रोधः पर-पीडा-फल-चित्त-विकारः। पारुष्यꣳ साधूनाम् उद्वेग-करः स्वभावः। अज्ञानꣳ परावर-तत्त्व-कृत्याकृत्याविवेकः। एते स्वभावाः आसुरीꣳ सम्पदम् अभिजातस्य भवन्ति। असुरा भगवद्-आज्ञातिवृत्ति-शीलाः॥१६।४॥

Link copied

दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता

Link copied

मा शुचः सम्पदꣳ दैवीम् अभिजातोऽसि पाण्डव

Link copied

दैवी मदाज्ञानुवृत्तिरूपा सम्पद् विमोक्षाय बन्धात् मुक्तये भवति क्रमेण मत्-प्राप्तये भवतीत्य् अर्थः। आसुरी मदाज्ञातिवृत्तिरूपा सम्पद् निबन्धाय भवति, अधोगतिप्राप्तये भवतीत्य् अर्थः। एतत् श्रुत्वा स्वप्रकृत्यनिर्धारणाद् अतिभीतायार्जुनाय एवम् आह--- शोकꣳ मा कृथाः। त्वꣳ तु दैवीꣳ सम्पदम् अभिजातोऽसि। हे पाण्डाव धार्मिकाग्रेसरस्य हि पाण्डाएस् तनयस् त्वम् इत्य् अभिप्रायः॥१६।५॥

Link copied

द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च

Link copied

दैवो विस्तरशः प्रोक्त आसुरꣳ पार्थ मे शृणु

Link copied

अस्मिन् कर्म-लोके कर्म-कराणाꣳ भूतानाꣳ सर्गौ द्वौ द्वि-विधौ, दैवश् चासुरश् च इति। सर्ग उत्पत्तिः। प्राचीन-पुण्य-पाप-रूप-कर्म-वशाद् भगवद्-आज्ञानुवृत्ति-तद्-विपरीत-करणाय उत्पत्ति-काले एव विभागेन भूतान्य् उत्पद्यन्ते इत्य् अर्थः। तत्र दैवः सर्गो विस्तरशः प्रोक्तः। देवानाꣳ मद्-आज्ञानुवर्ति-शीलानाम् उत्पत्तिर् यद्-आचार-करणार्था। स आचारः कर्म-योग-ज्ञान-योग-भक्ति-योग-रूपो विस्तरशः प्रोक्तः। असुराणाꣳ सर्गश् च यद्-आचार-करणार्थस् तम् आचारꣳ मे सृणु, मम सकाशाच् छृणु॥१६।६॥

Link copied

प्रवृत्तिꣳ च निवृत्तिꣳ च जना न विदुर् आसुराः

Link copied

न शौचꣳ नापि चाचारो न सत्यꣳ तेषु विद्यते

Link copied

प्रवृत्तिꣳ च निवृत्तिꣳ चाभ्युदय-साधनꣳ मोक्ष-साधनꣳ च वैदिकꣳ धर्मम् आसुरा न विदुर् न जानन्ति। शौचꣳ वैदिक-कर्म-योग्यत्वꣳ शास्त्र-सिद्धम्। तद् बाह्यम् आभ्यन्तरꣳ चासुरेषु न विद्यते। नापि चाचारः, तद् बाह्याभ्यन्तर-शौचꣳ येन सन्ध्या-वन्दनादिनाचारेण जायते, साप्य् आचारस् तेषु न विद्यते। तथोक्तम्--- सत्ध्या-हीनोऽशुचि-नित्यम् अनर्हः सर्व-कर्मसु [दक्ष-स्मृति २।२३] इति॥१६।७॥

Link copied

किꣳ च---

Link copied

असत्यम् अप्रतिष्ठꣳ ते जगद् आहुर् अनीश्वरम्

Link copied

अपरस्पर-सम्भूतꣳ किम् अन्यत् काम-हैतुकम्

Link copied

असत्यꣳ जगद् एतत् सत्य-शब्द-निर्दिष्ट-ब्रह्म-कार्यतया ब्रह्मात्मकम् इति नाहुः। अप्रतिष्ठꣳ तथा ब्रह्मणि प्रतिष्ठितम् इति न वदन्ति। ब्रह्मणानन्तेन धृता हि पृथिवी, सर्वान् लोकान् बिभर्ति। यथोक्तम्---

Link copied

तेनेयꣳ नाग-वर्येण शिरसा विधृता मही।

Link copied

बिभर्ति मालाꣳ लोकानाꣳ स-देवासुर-मानुषाम्॥ [वि।पु। २।५।२७] इति।

Link copied

अनीश्वरꣳ सत्य-सङ्कल्पेन पर-ब्रह्मणा सर्वेश्वरेण मयैतन् नियमितम् इति च वदन्ति। अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [गीता १०।८] इति ह्य् उक्तम्। वदन्ति चैवम्। अपरस्पर-सम्भूतꣳ किम् अन्यत्। योषित्-पुरुषयोः परस्पर-सम्बन्धेन जातम् इदꣳ मनुष्य-पश्व्-आदिकम् उपलभ्यते। अनेवꣳ-भूतꣳ किम् अन्यद् उपलभ्यते। किञ्चिद् अपि नोपलभ्यते इत्य् अर्थः। अतः सर्वम् इदꣳ जगत् काम-हेतुकम् इति॥१६।८॥

Link copied

एताꣳ दृष्टिम् अवष्टभ्य नष्टात्मानोऽल्प-बुद्धयः

Link copied

प्रभवन्त्य् उग्र-कर्माणः क्षयाय जगतोऽहिताः

Link copied

एताꣳ दृष्टिम् अवष्टभ्य अवलम्ब्य नष्टात्मानः अदृष्ट-देहातिरिक्तात्मानः अल्प-बुद्धयः घटादिवज् ज्ञेय-भूते देहे ज्ञातृत्वेन देह-व्यतिरिक्त आत्मा नोपलभ्यत इति विवेकाकुशलाः। उग्र-कर्माणः सर्वेषाꣳ हिꣳसका जगतः क्षयाय प्रभवन्ति॥१६।९॥

Link copied

कामम् आश्रित्य दुष्पूरꣳ दम्भ-मान-मदान्विताः

Link copied

मोहाद् गृहीत्वासद्-ग्राहान् प्रवर्तन्तेऽशुचिव्रताः१०

Link copied

दुष्पूरꣳ दुष्प्राप-विषयꣳ कामम् आश्रित्य तत्-सिषाधयिषया मोहाद् अज्ञानाद् असद्-ग्राहान् अन्याय-गृहीतान् असत्-परिग्रहान् गृहीत्वा अशुचि-व्रताः अशास्त्र-विहित-व्रत-युक्ताः, दम्भ-मान-मदान्विताः प्रवर्तन्ते॥१६।१०॥

Link copied

चिन्ताम् अपरिमेयाꣳ च प्रलयान्ताम् उपाश्रिताः

Link copied

कामोपभोग-परमा एतावद् इति निश्चिताः११

Link copied

अद्य श्वो वा मुमूर्षवश् चिन्ताम् अपरिमेयाꣳ च अपरिच्छेद्याꣳ प्रलयान्ताꣳ प्राकृत-प्रलयावधि-काल-साध्य-विषयाम् उपाश्रिताः। तथा कामोपभोग-परमाः कामोपभोग एव परम-पुरुषार्थ इति मन्वानाः। एतावद् इति निश्चिताः, इतोऽधिकः पुरुषार्थो न विद्यत इति सञ्जात-निश्चयाः॥१६।११॥

Link copied

आशा-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः

Link copied

ईहन्ते काम-भोगार्थम् अन्यायेनार्थ-सञ्चयान्१२

Link copied

आशा-पाश-शतैः आशाख्य-पाश-शतैर् बद्धाः काम-क्रोध-परायणाः काम-क्रोधैक-निष्ठाः। काम-भोगार्थम् अन्यायेनार्थ-सञ्चयान् प्रति ईहन्ते॥१६।१२॥

Link copied

इदम् अद्य मया लब्धम् इदꣳ प्राप्स्ये मनोरथम्

Link copied

इदम् अस्तीदम् अपि मे भविष्यति पुनर् धनम्१३

Link copied

इदꣳ क्षेत्र-पुत्रादिकꣳ सर्वꣳ मया मत्-सामर्थ्येनैव लब्धम्, नादृष्टादिना, इमꣳ च मनोरथम् अहम् एव प्राप्स्ये, नादृष्टादि-सहितः। इदꣳ धनꣳ मत्-सामर्थ्येन लब्धꣳ मेऽस्ति, इदम् अपि पुनर् मे मत्-सामर्थ्येनैव भविष्यति॥१६।१३॥

Link copied

असौ मया हतः शत्रुर् हनिष्ये चापरान् अपि

Link copied

ईश्वरोऽहम् अहꣳ भोगी सिद्धोऽहꣳ बलवान् सुखी१४

Link copied

असौ मया बलवता हतः शत्रुः। अपरान् अपि शत्रून् अहꣳ शूरो धीरश् च हनिष्ये। किमत्र मन्दधीभिः दुर्बलैः परिकल्पितेनादृष्टदिपरिकरेण। तथा च ईश्वरोऽहꣳ स्वाधीनोऽहम् अन्येषाꣳ चाहम् एव नियन्ता। अहꣳ भोगी स्वत एवाहꣳ भोगी, नादृष्टदिभिः। सिद्धोऽहम्--- स्वतः सिद्धोऽहम् न कस्माच्-चिद् अदृष्टदेः। तथा स्वत एव बलवान् स्वत एव सुखी॥१६।१४॥

Link copied

आढ्योऽभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो मया

Link copied

यक्ष्ये दास्यामि मोदिष्य इत्य् अज्ञान-विमोहिताः१५

Link copied

अहꣳ स्वतश् च आढ¬ः अस्मि, अभिजनवान् अस्मि। स्वत एव उत्तम-कुले प्रसूतोऽस्मि। अस्मिन् लोके मया सदृशकोऽन्यः स्व-सामर्थ्य-लब्ध-सर्व-विभवो विद्यते। अहꣳ स्वयम् एवयक्ष्ये, दास्यामि, मोदिष्यते इत्य् अज्ञान-विमोहिताः ईश्वरानुग्रह-निरपेक्षेण स्वेनैव याग-दानादिकꣳ कर्तुꣳ शक्यम् इत्य् अज्ञान-विमोहिता मन्यन्ते॥१६।१५॥

Link copied

अनेक-चित्त-विभ्रान्ता मोह-जाल-समावृताः

Link copied

प्रसक्ताः काम-भोगेषु पतन्ति नरकेऽशुचौ१६

Link copied

अदृष्टेश्वरादि-सहकारम् ऋते स्वेनैव सर्वꣳ कर्तुꣳ शक्यम् इति कृत्वा एवꣳ कुर्याम् एतच् च कुर्याम् अन्यत् च कुर्याम् इत्य् अनेक-चित्त-विभ्रान्ताः--- अनेक-चित्ततया विभ्रान्ताः। एवꣳ-रूपेण मोह-जालेन समावृताः। काम-भोगेषु प्रकर्षेण सक्ताः। मध्ये मृताः अशुचौ नरके पतन्ति॥१६।१६॥

Link copied

आत्म-सम्भाविताः स्तब्धा धन-मान-मदान्विताः

Link copied

यजन्ते नाम-यज्ञैस् ते दम्भेनाविधि-पूर्वकम्१७

Link copied

आत्म-सम्भाविताः आत्मना एव सम्भाविताः आत्मना एव आत्मानꣳ सम्भावयन्तीत्य् अर्थः। स्तब्धाः परिपूर्णꣳ मन्यमाना न किञ्चित् कुर्वाणाः, कथम्। धन-मान-मदान्विताः--- धनेन विद्याभिजनाभिमानेन च जनित-मदान्विताः। नाम-यज्ञैः नाम-प्रयोजनैर् यष्ट इति नाम-मात्र-प्रयोजनैर् यज्ञैर् यजन्ते, तद् अपि दम्भेन हेतुना यष्टृत्व-ख्यापनाय, अविधि-पूर्वकम् अयथा-चोदनꣳ यजन्ते॥१६।१७॥

Link copied

ते च ईदृग्-भूता यजन्ते इत्य् आह---

Link copied

अहङ्कारꣳ बलꣳ दर्पꣳ कामꣳ क्रोधꣳ च सꣳश्रिताः

Link copied

माम् आत्म-पर-देहेषु प्रद्विषन्तोऽभ्यसूयकाः१८

Link copied

अनन्यापेक्षोऽहम् एव सर्वꣳ करोमीत्य् एवꣳ-रूपम् अहङ्कारम् आश्रिताः, तथा सर्वस्य करणे मद्-बलम् एव पर्याप्तम् इति च बलम्, अतो मत्-सदृशो न कश्चिद् अस्तीति च दर्पम्, एवꣳ-भूतस्य मम काम-मात्रेण सर्वꣳ सम्पत्स्यते इति कामम्, मम येऽनिष्ट-कारिणस् तान् सर्वान् हनिष्यामीति च क्रोधम्, एवम् एतान् सꣳश्रिताः स्व-देहेषु पर-देहेषु चावस्थितꣳ सर्वस्य कारयितारꣳ पुरुषोत्तमꣳ माम् अभ्यसूयकाः प्रद्विषन्तः कुयुक्तिभिर् मत्-स्थितौ दोषम् आविष्कुर्वन्तो माम् असहमानाः, अहङ्कारादिकान् सꣳश्रिताः, यागादिकꣳ सर्वꣳ क्रिया-जातꣳ कुर्वते इत्य् अर्थः॥१६।१८॥

Link copied

तान् अहꣳ द्विषतः क्रूरान् सꣳसारेषु नराधमान्

Link copied

क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु१९

Link copied

य एवꣳ माꣳ द्विषन्ति तान् क्रूरान् नराधमान् अशुभान् अहम् अजस्रꣳ सꣳसारेषु जन्म-जरा-मरणादि-रूपेण परिवर्तमानेषु सन्तानेषु, तत्राप्य् आसुरीषु एव योनिषु क्षिपामि। मद्-आनुकूल्य-प्रत्यनीकेषु एव जन्मसु क्षिपामि। तत्-तज्-जन्म-प्राप्त्य्-अनुगुण-प्रवृत्ति-हेतु-भूत-बुद्धिषु क्रूरास्व् अहम् एव सꣳयोजयामीत्य् अर्थः॥१६।१९॥

Link copied

आसुरीꣳ योनिम् आपन्ना मूढा जन्मनि जन्मनि

Link copied

माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमाꣳ गतिम्२०

Link copied

मद्-आनुकूल्य-प्रत्यनीक-जन्मापन्नाः पुनर् अपि जन्मनि जन्मनि मूढा मद्-विपरीत-ज्ञानाः माम् अप्राप्य एवꣳ "अस्ति भगवान् वासुदेवः सर्वेश्वरः" इति ज्ञानम् अप्राप्य, ततस् ततो जन्मनोऽधमाम् एव गतिꣳ यान्ति॥१६।२०॥

Link copied

अस्य आसुर-स्वभावस्य आत्म-नाशस्य मूल-हेतुम् आह---

Link copied

त्रि-विधꣳ नरकस्येदꣳ द्वारꣳ नाशनम् आत्मनः

Link copied

कामः क्रोधस् तथा लोभस् तस्माद् एतत् त्रयꣳ त्यजेत्२१

Link copied

अस्यासुर-स्वभाव-रूपस्य नरकस्य एतत् त्रिविधꣳ द्वारꣳ तत् चात्मनो नाशनम्। कामः क्रोधः लोभ इति। त्रयाणाꣳ स्वरूपꣳ पूर्वम् एव व्याख्यातम्। द्वारꣳ मार्गो हेतुः इत्य् अर्थः। तस्मात् एतत् त्रयꣳ त्यजेत्। तस्माद् अतिघोर-नरक-हेतुत्वात् काम-क्रोध-लोभानाम् एतत् त्रितयꣳ दूरतः परित्यजेत्॥१६।२१॥

Link copied

एतैर् विमुक्तः कौन्तेय तमो-द्वारैस् त्रिभिर् नरः

Link copied

आचरत्य् आत्मनः श्रेयस् ततो याति पराꣳ गतिम्२२

Link copied

एतैः काम-क्रोध-लोभैस् तमो-द्वारैर् मद्-विपरीत-ज्ञान-हेतुभिः विमुक्तः नर आत्मनः श्रेय आचरति। लब्ध-मद्-विषय-ज्ञानो मद्-आनुकूल्ये प्रवर्तते। ततो माम् एव पराꣳ गतिꣳ याति॥१६।२२॥

Link copied

शास्त्रानादरोऽस्य नरकस्य प्रधान-हेतुः इत्य् आह---

Link copied

यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः

Link copied

न स सिद्धिम् अवाप्नोति न सुखꣳ न पराꣳ गतिम्२३

Link copied

शास्त्रꣳ वेदाः विधिर् अनुशासनꣳ वेदाख्यꣳ मद्-अनुशासनम् उत्सृज्य यः काम-कारतो वर्तते स्वच्छन्दानुगुण-मार्गेण वर्तते, न स सिद्धिम् अवाप्नोति, न काम् अप्य् आमुष्मिकीꣳ सिद्धिम् अवाप्नोति। न सुखम् ऐहिकम् अपि किञ्चिद् अवाप्नोति। न पराꣳ गतिम्। कुतः पराꣳ गतिꣳ प्राप्नोतीत्य् अर्थः॥१६।२३॥

Link copied

तस्माच् छास्त्रꣳ प्रमाणꣳ ते कार्याकार्य-व्यवस्थितौ

Link copied

ज्ञात्वा शास्त्र-विधानोक्तꣳ कर्म कर्तुम् इहार्हसि२४

Link copied

तस्मात् कार्याकार्य-व्यवस्थिताव् उपादेयानुपादेय-व्यवस्थायाꣳ शास्त्रम् एव तव प्रमाणम्। धर्म-शास्त्रेतिहास-पुराणाद्य्-उपबृꣳहिता वेदा यद् एव पुरुषोत्तमाख्यꣳ परꣳ तत्त्वꣳ तत्-प्रीणन-रूपꣳ तत्-प्राप्त्य्-उपाय-भूतꣳ च कर्मावबोधयन्ति। तत् शास्त्र-विधानोक्तꣳ तत्त्वꣳ कर्म च ज्ञात्वा यथावद् अन्यूनातिरिक्तꣳ विज्ञाय कर्तुꣳ त्वम् अर्हसि तद् एव उपादातुम् अर्हसि॥१६।२४॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये षोडशोऽध्यायः॥१६॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 16 — The Division Between the Divine and the Undivine Natures (in Sanskrit: daivāsura-sampad-vibhāga-yoga)

A modern English rendering of A. Govindacharya's 1898 translation of Bhagavad Ramanuja's Gita Bhashya.

Link copied

Introduction

In the preceding three Lectures (XIII–XV), the topics dealt with were: (1) The essential natures of matter and spirit when separate and when conjoined. (2) That their conjunction was the result of attachment to matter's qualities (guṇas), and separation the result of non-attachment. (3) That matter and spirit — in whatever condition they be — both constitute the glorious cosmos of bhagavān. (4) That bhagavān, the Owner of such glory, is distinct from the owned — from the twofold division of bound and freed souls — in that He possesses such attributes and powers as Infinity, Pervasion, Sustenance, and Paramount Lordship.

Link copied

In order now to strengthen conviction in all that has been said, adherence to śāstra's authority is inculcated. This is done by comparing the Divine (daiva) and Non-divine (asura) natures in creation — who respectively profess and disown allegiance to śāstra.

Link copied

Verses 1–3 (The Divine Endowment)

Verse 16.1. "Fearlessness, purity of heart, settlement in jñāna-yoga, charity, self-restraint, and sacrifices, sacred study, penance, uprightness;"

Link copied

Verse 16.2. "Harmlessness, veracity, wrathlessness, renunciation, serenity, slanderlessness, sympathy for life, relishlessness, gentleness, modesty, fickle-lessness;"

Link copied

Verse 16.3. "Lustre, forgiveness, fortitude, cleanliness, non-interference, absence of self-esteem — these, O Bhārata, belong to him who is born of the Divine kind."

Link copied
  • Bhayam (fearlessness): absence of the pain of dread at the prospect of loss, or of what is hated befalling.
  • Sattva-saṃśuddhi (purity of heart): the reign of sattva-guṇa in the inner sense (antaḥ-karaṇa), undefiled by rajas and tamas.
  • Jñāna-yoga-vyavasthiti: settlement in devotion that arises from discriminative knowledge of soul from matter.
  • Dāna (charity): gifts from one's own rightful acquisition to deserving recipients.
  • Dama (self-restraint): the mind's power to withdraw from or oppose sense-objects.
  • Yajña (sacrifices): the performance of the mahā-yajñas and other ceremonies, regardless of fruit, as service rendered to bhagavān.
  • Svādhyāya (sacred study): devotion to the learning of the holy Vedas, with the belief that they teach of the glorious bhagavān and the methods of worshipping Him.
  • Tapas (penance): rigid performance of expiatory ceremonies such as kṛcchra, cāndrāyaṇa, dvādaśī-fasts, which qualify one for further acts of glorifying bhagavān.
  • Ārjavam (uprightness): conduct toward others consistent in thought, speech, and deed.
  • Ahiṃsā (harmlessness): absence of causing pain or injury to others.
  • Satyam (veracity): speaking bare truth beneficial to all beings.
  • Akrodha (wrathlessness): absence of resentment caused by others giving pain.
  • Tyāga (renunciation): giving up whatever is hostile or injurious to the soul or to soul-advancement.
  • Śānti (serenity): keeping the senses in peace against distractions.
  • Apaiśunam (slanderlessness): ceasing to utter language that injures another's reputation.
  • Dayā (sympathy for life): condolence for the grief or distress of others.
  • Aloluptvam (relishlessness): absence of relish for sense-pleasures.
  • Mārdavam (gentleness): opposite of hard-heartedness; fitness for the company of the good.
  • Hrī (modesty): shame at doing what is unworthy.
  • Acāpalam (fickle-lessness): remaining firm in the presence of attractive objects.
  • Tejas (lustre): the illustrious presence, proof against evil men's attacks.
  • Kṣamā (forgiveness): absence of revengeful feelings against those who cause suffering.
  • Dhṛti (fortitude): the capacity to continue doing what is right under the heaviest misfortunes.
  • Śaucam (cleanliness): the state of heart and senses fit to perform śāstra-enjoined duties.
  • Adroha (non-interference): not obstructing others in going their cherished ways.
  • Nātimānitā (absence of self-esteem): absence of boasting or rating oneself unduly.

Daivī-sampat: the endowment of virtues belonging to those loyal to the divine laws made by bhagavān. Abhijātaḥ: one born in harmony with this Divine nature, or born to walk the Divine path.

Link copied

Verse 4 (The Non-divine Endowment)

Verse 16.4. "Ostentation, pride, conceit, wrath, hauteur, and ignorance — these, O Pārtha, belong to him who is born of the Non-divine kind."

Link copied
  • Dambha (ostentation): display of virtue; pretentious parade of righteous acts for flattery.
  • Darpa (pride): unnatural exultation arising from sense-experience, which destroys discretion.
  • Abhimāna (conceit): self-opinion of one's own importance unwarranted by learning or birth.
  • Krodha (wrath): disposition to cause others suffering, enjoying that as one's own pleasure.
  • Pāruṣya (hauteur): overbearing, supercilious demeanour toward good and great men.
  • Ajñāna (ignorance): being destitute of understanding as to what is duty and what is not; unacquaintance with truths great and small.

The Non-divine (āsuri, demoniac) are those who rebel against bhagavān's commands.

Link copied

Verses 4½–5 (Destinies of the Two Natures)

Verse 16.4½. "The Divine character is destined for complete deliverance; the Non-divine for bondage."

Link copied

The Divine character consists in obedience to the authority of My will and in due course leads to release from bondage. The Non-divine consists in refusal to obey or to violate My commands and leads to bondage and downfall.

Link copied

Seeing Arjuna doubting his own nature, the Lord assures him:

Link copied

Verse 16.5. "Grieve not, O Pāṇḍava. You are born of the Divine kind."

Link copied

Sorrow not. You belong to the Divine lot — for are you not Pāṇḍava, the son of Pāṇḍu, that most eminent and righteous of men?

Link copied

Verses 6–20 (Description of the Non-divine Nature)

Verse 16.6. "Twofold is the creation of beings in this world — Divine and Non-divine. The Divine has been described at length. Hear from Me, O Pārtha, the Non-divine."

Link copied

This world is where works are performed — causes are created. Beings give birth to works; they are of two kinds. Creation is the time of birth. Beings are made so to be born as either to follow the commands of bhagavān or rebel — determined by merits and demerits accumulated in the past.

Link copied

The Divine (those who walk according to karma-yoga, jñāna-yoga, and bhakti-yoga) has been described. Listen now to the other kind.

Link copied

Verse 16.7. "The Non-divine know not the ways of activity or of passivity; neither cleanliness nor holy conduct nor truth is found in them."

Link copied

Pravṛtti: activity, engaging in Veda-enjoined dharma for securing material prosperity (power, riches, svarga). Nivṛtti: engaging in Veda-enjoined dharma that leads to mokṣa (spiritual beatitude). The Non-divine understand neither. Śaucam: purity of heart and person fit for Veda-bid works. Ācāra: good or holy conduct, such as performing twilight-prayers (sandhyā-vandana). Satyam: utterance in conformity with fact. These are not found in the Non-divine.

Link copied

Verse 16.8. "They say: 'The universe is unreal, without prop, without Lord; and what else is it but the product of mutual union — with lust for its cause?'"

Link copied

Asatyam (unreal): not an effect sprung from brahman who is Truth. Apratiṣṭham (without prop): not having brahman for its rest. Anīśvaram (without a Lord): not under the government of God — Myself, the Infallible-willed, Supreme brahman. They prate: "Is the universe anything more than the product of the mutual union of male and female — producing man, beast? Lust is the only cause."

Link copied

Verse 16.9. "Adopting this view, these soul-lost, small-witted, deed-cruel, vile beings become the ruin of the universe."

Link copied

Naṣṭātmānaḥ: soul-lost — those who have not seen that a soul is distinct from the body. Alpa-buddhayaḥ: small-witted — cannot cognize that there is a cognizer (ātman) in the cognized body. Ugra-karmāṇaḥ: deed-cruel — persecutors of all beings. These creatures are pests who undermine the universe.

Link copied

Verse 16.10. "Surrendered to unappeasable desires, seizing unlawful hold of things through delusion, associated with hypocrisy, pride, and passion, practising unholy vows, they prevail."

Link copied

Overtaken by desires insatiable, the endeavour to procure them is delusion; through this ignorance, unlawfully taking hold of things. Aśuci-vratāḥ: doing impure acts with a vow — prohibited by śāstra, or not śāstra-ordained — with hypocrisy, pride, and passion added.

Link copied

Verse 16.11. "Wedded to immense schemes stretching even to cosmic dissolution; indulging in lusts as the highest goal, assured that 'this is the be-all and end-all.'"

Link copied

Death waits at their door to carry them off at any moment; yet they are given to schemes so vast as to require all their time till dissolution. Lusts are the acme of their ambition; they are assured nothing lies beyond.

Link copied

Verse 16.12. "Bound by a hundred hopes, given up to lust and wrath, they unjustly yearn to hoard wealth to gratify their lust."

Link copied

Fettered by bonds of hope, they are wholly devoted to passions. To gratify them, they long, by illegitimate methods, to amass riches.

Link copied

Verse 16.13. "They say: 'By me has this today been gained; I shall gain this heart-desire; this money I have, and again I will earn it.'"

Link copied

Land, sons, and the rest — "they have all been acquired by my own exertion; there is no other unseen cause. Whatever my heart-desires, I shall fulfil them myself; no other unseen agent exists."

Link copied

Verse 16.14. "'By me has this foe been slain; and others too I am going to slay. I am Lord, I am the enjoyer, I am self-existent, I am powerful and happy.'"

Link copied

"Powerful as I am, this foe has been despatched by me; and I am going to do likewise to others. Are they not weak and witless who fancy a series of unseen causes? I am Lord, I am my own master and ruler of others. I am the enjoyer — not made so by anything unseen. I am self-existent; I am powerful and happy by my own means."

Link copied

Verse 16.15. "'Rich and well-born I am; who else is there like me? I will sacrifice, I will give, I will be merry.' Thus are they infatuated by ignorance."

Link copied

"By myself I am rich and well-born. Who else is like me? I will perform sacrifices, I will grant largess, I will be merry — no need of īśvara's help or grace!" So do the ignorance-blinded think.

Link copied

Verse 16.16. "Tossed by various fancies, meshed in the net of folly, steeped in the tastings of lust, they fall into foul hell."

Link copied

Deluding themselves that without an unseen īśvara they are themselves capable of everything, they are restlessly pitched about by foolish thoughts — "thus will I do," "and that will I do." They are caught in the trap of folly, steeped in lusts, snatched away by death, and flung into foul hell.

Link copied

Verse 16.17. "Self-adulated, self-sufficient, inflated with wealth and pride — they perform name-sacrifices for show, conforming to no rule."

Link copied

Self-adulated — flattering themselves. Self-sufficient — thinking themselves perfect. Puffed up with pride of wealth, learning, birth. Name-sacrifices: yajñas performed merely to acquire the name "I performed such a sacrifice," without regard to any rule.

Link copied

Verse 16.18. "Espoused to self-hood, strength, consequence, lust, and wrath, they antagonize Me in malice — in their own and others' bodies."

Link copied

Ahaṃkāra: the conceit "I can do everything without aid." Balam: "my single strength is all-sufficient." Darpam: "the importance of myself to the exclusion of others." "By my willing alone, every desire is fulfilled. Those who cross me I shall slay" — wrath (krodha). Surrendering to such passions, they evince malice toward Me, the Omnific puruṣottama, dwelling in themselves as well as others; they sophistically endeavour to disprove My existence and hate Me.

Link copied

Verse 16.19. "Them — the hating, cruel, evil, vile men — I ever cast into saṃsāra, into demoniac wombs."

Link copied

Whoever so antagonize Me, I hurl them into the current of existence — birth, decrepitude, death. Even there, I fling them into demoniac wombs — births which increase their aversion for Me; I give them cruel understanding suited to those births.

Link copied

Verse 16.20. "Entering demoniac wombs, in error spawning from birth to birth, they never find Me, O Kaunteya, but drag themselves down the nether path."

Link copied

Demoniac wombs: incarnate existences opposed to affinity with Me. Again and again they spawn in such wombs; their delusion increases. They never attain to the wisdom that bhagavān — the all-Lord, Vāsudeva — really exists. From such births they slip further down.

Link copied

Verses 21–24 (The Three Gates to Hell and the Authority of Śāstra)

Verse 16.21. "Triple is this door to hell, compassing souls' ruin — lust, wrath, and greed. Hence shun this triad."

Link copied

The Non-divine nature is itself hell. Its portal is triple — souls' ruin. Dvāra (door) = path, cause. Completely eschew these three enemies — lust, wrath, and greed — for they lead to the most dreadful hell.

Link copied

Verse 16.22. "The man, O Kaunteya, who is rescued from these triple dark portals works for soul's good; thence to the Highest End he proceeds."

Link copied

The three tamas-doors beget wrong notions of Myself. The man who shakes them off can work for the soul's good. Gaining true knowledge of Me, he will work in harmony with Me. Thence he proceeds to the Highest End — Myself, the Sublime Goal.

Link copied

Verse 16.23. "Whoso, discarding śāstra's rubric, freely roams at will, attains not to perfection, happiness, or the Highest Goal."

Link copied

Śāstra: Vedas — the inspired knowledge of revealed religion. Vidhi: rubric, scriptural injunction. Vedas are My mandates. Whoever abandons them and drifts at his unlicensed will attains neither (1) siddhi (transmundane perfection), (2) sukham (any sublunary happiness), nor (3) the Supreme Goal (the acme of spiritual beatitude, joining God).

Link copied

Verse 16.24. "Hence śāstra is your authority for judging what is duty and not. Knowing what śāstra's canons teach and enjoin, it is now for you to act."

Link copied

Śāstra alone is your supreme authority for deciding what is worthy to adopt and what to reject. Śāstra's canons — Vedas and their exegetic codes (dharma-śāstra, itihāsas, purāṇas) — teach the highest truth of puruṣottama and enjoin works pleasing to Him, which are the means of reaching Him. Knowing both — neither more nor less — it is meet for you now to act accordingly.

Link copied

Oṃ tat sat.

Link copied

Thus closes the sixteenth discourse, named Daiva-Āsura-Sampad-Vibhāga-Yoga, or the Book of the Division of the Divine and the Undivine, with Sri Ramanuja's commentary thereon, between Sri Krishna and Sri Arjuna, in the science of yoga, in the theosophy of the Upaniṣads.

Link copied
Join our community