Bhagavad Gita Bhashya · Section 16 of 19
atha puruṣottama-yogo nāma pañcadaśo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
क्षेत्राध्याये क्षेत्र-क्षेत्रज्ञ-भूतयोः प्रकृति-पुरुषयोः स्वरूपꣳ विशोध्य विशुद्धस्यापरिच्छिन्न-ज्ञानैकाकारस्यैव पुरुषस्य प्राकृत-गुण-सङ्ग-प्रवाह-निमित्तो देवाद्य्-आकार-परिणत-प्रकृति-सम्बन्धोऽनादिर् इत्य् उक्तम्। अनन्तरे चाध्याये पुरुषस्य कार्य-कारणयोभयावस्थ-प्रकृति-सम्बन्धो गुण-सङ्ग-मूलो भगवतैव कृत इत्य् उक्त्वा गुण-सङ्ग-प्रकारꣳ स-विस्तरꣳ प्रतिपाद्य गुण-सङ्ग-निवृत्ति-पूर्वकात्म-याथात्म्यावाप्तिश् च भगवद्-भक्ति-मूलेत्य् उक्तम्। इदानीꣳ भजनीयस्य भगवतः क्षराक्षऋआत्मक-बद्ध-मुक्त-विभूतिमत्ताꣳ विभूति-भूतात् क्षराक्षर-पुरुष-द्वयात् निखिल-हेय-प्रत्यनीक-कल्याणैकतानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वꣳ च वक्तुम् आरभते। तत्र तावत् असङ्ग-रूप-शस्त्र-च्छिन्न-बन्धाम् अक्षराख्य-विभूतिꣳ च वक्तुꣳ छेद्य-रूप-बन्धाकारेण विततम् अचित्-परिणाम-विशेषम् अश्वत्थ-वृक्षाकारꣳ कल्पयन् श्री-भगवान् उवाच---
Link copiedऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थꣳ प्राहुर् अव्ययम्।
Link copiedछन्दाꣳसि यस्य पर्णानि यस् तꣳ वेद स वेदवित्॥१॥
Link copiedयꣳ सꣳसाराख्यम् अश्वत्थम् ऊर्ध्व-मूलम् अधः-शाखम् अव्ययꣳ प्राहुः श्रुतयः--- ऊर्ध्व-मूलोऽवाक्-शाख एषोऽश्वत्थः सनातनः [क।उ। २।३।१] ऊर्ध्व-मूलम् अवाक्-शाखꣳ वृक्षꣳ यो वेद सम्प्रति [आरण्यके १।११।५] इत्य् आद्याः। सप्त-लोकोपरि निविष्ट-चतुर्-मुखादित्वेन तस्य ऊर्ध्व-मूलत्वम्। पृथिवी-निवासि-सकल-नर-पशु-मृग-पक्षि-कृमि-कीट-पतङ्ग-स्थावरान्ततया अधः-शाखत्वम् असङ्ग-हेतु-भूताद् आसम्यग् ज्ञानोदयात् प्रवाह-रूपेणाच्छेद्यत्वेनाव्ययत्वम्। यस्य चाश्वत्थस्य छन्दाꣳसि पर्णान्य् आहुः। छन्दाꣳसि श्रुतयः। वायव्यꣳ श्वेतम् आलभेत भूति-कामः [यजुः २।१।१], ऐन्द्राग्नम् एकादश-कपालꣳ निर्वपेत् प्रजा-कामः [यजुः २।१] इत्य् आदि श्रुति-प्रतिपादितैः काम्य-कर्मभिर् विवर्धतेऽयꣳ सꣳसार-वृक्षः। इति छन्दाꣳस्य् एवास्य पर्णानि। पत्रैर् हि वृक्षो वर्धते। यस् तम् एवꣳ-भूतम् अश्वत्थꣳ वेद स वेद-वित्, वेदो हि सꣳसार-वृक्षस्य छेदोपायꣳ वदति, छेद्यस्य वृक्षस्य स्वरूप-ज्ञानꣳ छेदनोपाय-ज्ञानोपयोगीति वेद-विद् इत्य् उच्यते॥१५।१॥
Link copiedतस्य मनुष्यादि-शाखस्य वृक्षस्य तत्-तत्-कर्म-कृतापराश् चाधः-शाखाः पुनर् अपि मनुष्य-पश्व्-आदि-रूपेण प्रसृता भवन्ति। ऊर्ध्वꣳ च गन्धर्व-यक्ष-देवादि-रूपेण प्रसृता भवन्ति। ताश् च गुण-प्रवृद्धा गुणैः सत्त्वादिभिः प्रवृद्धाः, विषय-प्रवालाः शब्दादि-विषय-पल्लवाः। कथम्। इत्य् अत्राह---
Link copiedअधश् चोर्ध्वꣳ प्रसृतास् तस्य शाखा
Link copiedगुण-प्रवृद्धा विषय-प्रवालाः।
Link copiedअधश् च मूलान्य् अनुसन्ततानि
Link copiedकर्मानुबन्धीनि मनुष्य-लोके॥२॥
Link copiedब्रह्म-लोक-मूलस्यास्य वृक्षस्य मनुष्याग्रस्य्आधो मनुष्य-लोके मूलान्य् अनुसन्ततानि तानि च कर्मानुबन्धीनि। कर्माण्य् एवानुबन्धीनि मूलान्य् अधो मनुष्य-लोके च भवतीत्य् अर्थः। मनुष्यत्वावस्थायाꣳ कृतैर् हि कर्मभिर् अधो मनुष्य-पश्व्-आदय ऊर्ध्वꣳ च देवादयो भवन्ति॥१५।२॥
Link copiedन रूपम् अस्येह तथोपलभ्यते
Link copiedनान्तो न चादिर् न च सम्प्रतिष्ठा।
Link copiedअश्वत्थम् एनꣳ सु-विरूढ-मूलम्
Link copiedअसङ्ग-शस्त्रेण दृढेन छित्त्वा॥३॥
Link copiedततः पदꣳ तत्-परिमार्गितव्यꣳ
Link copiedयस्मिन् गता न निवर्तन्ति भूयः।
Link copiedतम् एव चाद्यꣳ पुरुषꣳ प्रपद्ये
Link copiedयतः प्रवृत्तिः प्रसृता पुराणी॥४॥
Link copiedअस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्व-मूलत्वꣳ तत्-सन्तान-परम्परया मनुष्याग्रत्वेनाधः-शाखत्वꣳ मनुष्यत्वे कृतैः कर्मभिर् मूल-भूतैः पुनर् अप्य् अधश् चोर्ध्वꣳ च प्रसृत-शाखत्वम् इति यथेदꣳ रूपꣳ निर्दिष्टꣳ न तथा सꣳसारिभिर् उपलभ्यते। मनुष्योऽहꣳ देव-दत्तस्य पुत्रो यज्ञ-दत्तस्य पिता तद्-अनुरूप-परिग्रहश् चेत्य् एतावन्-मात्रम् उपलभ्यते।
Link copiedतथास्य वृक्षस्यान्तो विनाशोऽपि गुण-मय-भोगेष्व् असङ्ग-कृत इति नोपलभ्यते तथास्य गुण-सङ्ग एवादिर् इति नोपलभ्यते। तस्य प्रतिष्ठा चानात्मन्य् आत्माभिमान-रूपम् अज्ञानम् इति नोपलभ्यते। प्रतितिष्ठत्य् अस्मिन्न् एवेति ह्य् अज्ञानम् एवास्य प्रतिष्ठा। एनम् उक्त-प्रकारꣳ सुविरूढ-मूलꣳ सुष्ठु विविधꣳ रूढ-मूलम् अश्वत्थꣳ सम्यग्-ज्ञान-मूलेन दृढेन गुण-मय-भोग्आसङ्गाख्येन शस्त्रेण छित्त्वा ततो विषयासङ्गाद् हेतोस् तत् पदꣳ परिमार्गितव्यम् अन्वेषणीयाꣳ य्अस्मिन् गता भूयो न निवर्तन्ते।
Link copiedकथम् अनादि-काल-प्रवृत्तो गुण-मय-भोग-सङ्गस् तन्-मूलꣳ च विपरीत-ज्ञानꣳ निवर्तते इत्य् अत्राह--- अज्ञानादि-निवृत्तये तम् एव चाद्यꣳ कृत्स्नस्यादि-भूतम्। मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् [गीता ९।१०], अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [गीता १०।८], मत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय [गीता ७।७] इत्य् आदिषूक्तम्। आद्यꣳ पुरुषम् एव शरणꣳ प्रपद्ये तम् एव शरणꣳ प्रपद्येत। यतो यस्मात् कृत्स्नस्य स्रष्टुर् इयꣳ गुण-मय-भोग-सङ्ग-प्रवृत्तिः पुराणी पुरातनी प्रसृता। उक्तꣳ हि मयैव पूर्वम् एतत्---
Link copiedदैवी ह्य् एषा गुण-मयी मम माया दुरत्यया।
Link copiedमाम् एव ये प्रपद्यन्ते मायाम् एताꣳ तरन्ति ते॥ [गीता ७।१४] इति।
Link copied
प्रपद्ये यतः प्रवृत्तिर् इति वा पाठः। तम् एव चाद्यꣳ पुरुषꣳ प्रपद्य शरणम् उपगम्य। यतोऽज्ञान-निवृत्त्य्-आदेः कृत्स्नस्यैतस्य साधन-भूता प्रवृत्तिः पुराणी पुरातनी प्रसृता। पुरातनानाꣳ मुमुक्षूणाꣳ प्रवृत्तिः पुराणी। पुरातना हि मुमुक्षवो माम् एव शरणम् उपगम्य निर्मुक्त-बन्धाः सञ्जाता इत्य् अर्थः॥१५।३-४॥
Link copiedनिर्मान-मोहा जित-सङ्ग-दोषा
Link copiedअध्यात्म-नित्या विनिवृत्त-कामाः।
Link copiedद्वन्द्वैर् विमुक्ताः सुख-दुःख-सꣳज्ञैर्
Link copiedगच्छन्त्य् अमूढाः पदम् अव्ययꣳ तत्॥५॥
Link copiedएवꣳ माꣳ शरणम् उपगम्य निर्मान-मोहाः। निर्गतानात्मात्माभिमान-रूप-मोहाः। जित-सङ्ग-दोषाः। जित-गुण-मय-भोग-सङ्गाख्य-दोषाः। अध्यात्म-नित्या आत्मनि यज् ज्ञानꣳ तद् अध्यात्मम् आत्म-ध्यान-निरताः। विनिवृत्त-तद्-इतर-कामाः। सुख-दुःख-सꣳज्ञैर् द्वन्द्वैश् च विमुक्ता अमूढाः आत्मानात्म-स्वभाव-ज्ञास् तद् अव्ययꣳ पदꣳ गच्छन्त्य् अनवच्छिन्न-ज्ञानाकारम् आत्मानꣳ यथावस्थितꣳ प्राप्नुवन्ति। माꣳ शरणम् उपागतानाꣳ मत्-प्रसादाद् एव ताः सर्वाः प्रवृत्तयः सुशक्याः सिद्धि-पर्यन्ता भवन्तीत्य् अर्थः॥१५।५॥
Link copiedन तद् भासयते सूर्यो न शशाङ्को न पावकः।
Link copiedयद् गत्वा न निवर्तन्ते तद् धाम परमꣳ मम॥६॥
Link copiedतद् आत्म-ज्योतिर् न सूर्यो भासयते न शशाङ्को न पावकश् च। ज्ञानम् एव हि सर्वस्य प्रकाशकम्। बाह्यानि तु ज्योतीꣳषि विषयेन्द्रिय-सम्बन्ध-विरोधि-तमो-निरसन-द्वारेण उपकारकाणि। अस्य च प्रकाशको योगस् तद्-विरोधि चानादि-कर्म, तन्-निवर्तनꣳ चोक्तꣳ भगवत्-प्रपत्ति-मूलम् असङ्गादि यद् गत्वा पुनर् न निवर्तन्ते तत् परमꣳ धाम परमꣳ ज्योतिर् मम मदीयꣳ मद्-विभूति-भूतो ममाꣳश इत्य् अर्थः। आदित्यादीनाम् अपि प्रकाशकत्वेन तस्य परमत्वम्। आदित्यादीनि हि ज्योतीꣳषि न ज्ञान-ज्योतिषः प्रकाशकानि, ज्ञानम् एव हि सर्वस्य प्रकाशकम्॥१५।६॥
Link copiedममैवाꣳशो जीव-लोके जीव-भूतः सनातनः।
Link copiedमनः-षष्ठानीन्द्रियाणि प्रकृति-स्थानि कर्षति॥७॥
Link copiedइत्थम् उक्त-स्वरूपः सनातनो ममाꣳश एव सन् कश्चिद् अनादि-कर्म-रूपाविद्यावेष्टन-तिरोहित-स्वरूपो जीव-भूतो जीव-लोके वर्तमानो देव-मनुष्यादि-प्रकृति-परिणाम-विशेष-शरीर-स्थानि मनः-षष्ठानीन्द्रियाणि कर्षति। कश्चित् च पूर्वोक्त-मार्गेणास्या अविद्याया मुक्तः स्वेन रूपेणावतिष्ठते। जीव-भूतस् त्व् अतिसङ्कुचित-ज्ञानैश्वर्यः कर्म-लब्ध-प्रकृति-परिणाम-विशेष-रूप-शरीर-स्थानाम् इन्द्रियाणाꣳ मनः-षष्ठानाम् ईश्वरस् तानि कर्मानुगुणम् इतस् ततः कर्षति॥१५।७॥
Link copiedशरीरꣳ यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः।
Link copiedगृहीत्वैतानि सꣳयाति वायुर् गन्धान् इवाशयात्॥८॥
Link copiedयत् शरीरम् अवाप्नोति, यस्मात् शरीराद् उत्क्रामति, तत्रायम् इन्द्रियाणाम् ईश्वरः एतानि इन्द्रियाणि भूत-सूक्ष्मैः सह गृहीत्वा सꣳयाति। वायुः गन्धान् इव आशयात्। यथा वायुः स्रक्-चन्दन-कस्तूरिकाद्य्-आशयात् तत्-स्थानात् सूक्ष्मावयवैः सह गन्धान् गृहीत्वा अन्यत्र सꣳयाति तद्वद् इत्य् अर्थः॥१५।८॥
Link copiedकानि पुनस् तानीन्द्रियाणि। इत्य् आह---
Link copiedश्रोत्रꣳ चक्षुः स्पर्शनꣳ च रसनꣳ घ्राणम् एव च।
Link copiedअधिष्ठाय मनश् चायꣳ विषयान् उपसेवते॥९॥
Link copiedएतानि मनः-षष्ठानीन्द्रियाण्य् अधिष्ठाय स्व-स्व-विषय-वृत्त्य्-अनुगुणानि कृत्वा तान् शब्दादीन् विषयान् उपसेवते उपभुङ्क्ते॥१५।९॥
Link copiedउत्क्रामन्तꣳ स्थितꣳ वापि भुञ्जानꣳ वा गुणान्वितम्।
Link copiedविमूढा नानुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः॥१०॥
Link copiedएवꣳ गुणान्वितꣳ सत्त्वादि-गुण-मय-प्रकृति-परिणाम-विशेष-मनुष्यत्वादि सꣳस्थान-पिण्ड-सꣳसृष्टꣳ पिण्ड-विशेषाद् उत्क्रामन्तꣳ पिण्ड-विशेषेऽवस्थितꣳ वा गुण-मयान् विषयान् भुञ्जानꣳ वा कदाचिद् अपि प्रकृति-परिणाम-विशेष-मनुष्यत्वादि-पिण्डाद् विलक्षणꣳ ज्ञानैकाकारꣳ विमूढा नानुपश्यन्ति। विमूढा मनुष्यत्वादि-पिण्डात्माभिमानिनः।
Link copiedज्ञान-चक्षुषस् तु पिण्डात्म-विवेक-विषय-ज्ञानवन्तः सर्वावस्थम् अप्य् एनꣳ विविक्ताकारम् एव पश्यन्ति॥१५।१०॥
Link copiedयतन्तो योगिनश् चैनꣳ पश्यन्त्य् आत्मन्य् अवस्थितम्।
Link copiedयतन्तोऽप्य् अकृतात्मानो नैनꣳ पश्यन्त्य् अचेतसः॥११॥
Link copiedमत्-प्रपत्ति-पूर्वकꣳ कर्म-योगादिषु यतमानास् तैर् निर्मलान्तः-करणा योगिनो योगाख्येन चक्षुषात्मनि शरीरेऽवस्थितम् अपि शरीराद् विविक्तꣳ स्वेन रूपेणावस्थितम् एनꣳ पश्यन्ति। यतमाना अप्य् अकृतात्मानो मत्-प्रपत्ति-विरहिणस् तत एवासꣳस्कृत-मनसस् तत एवाचेतस आत्मावलोकन-समर्थश् चेतो-रहिता नैनꣳ पश्यन्ति॥१५।११॥
Link copiedएवꣳ रवि-चन्द्राग्नीनाम् इन्द्रिय-सन्निकर्ष-विरोधि-सन्तमस-निरसन-मुखेन इन्द्रियानुग्राहकतया प्रकाशकानाꣳ ज्योतिष्मताम् अपि प्रकाशकꣳ ज्ञान-ज्योतिर् आत्मा मुक्तावस्थो जीवावस्थश् च भगवद्-विभूतिर् इत्य् उक्तꣳ तद् धाम परमꣳ मम [गीता १५।६], ममैवाꣳशो जीव-लोके जीव-भूतः सनातनः [गीता १५।७] इति। इदानीम् अचित्-परिणाम-विशेष-भूतम् आदित्यादीनाꣳ ज्योतिष्मताꣳ ज्योतिर् अपि भगवद्-विभूतिर् इत्य् आह---
Link copiedयद् आदित्य-गतꣳ तेजो जगद् भासयतेऽखिलम्।
Link copiedयच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम्॥१२॥
Link copiedअखिलस्य जगतो भासकम् एतेषाम् आदित्यादीनाꣳ यत् तेजस् तन् मदीयꣳ तेजस् तैस् तैर् आराधितेन मया तेभ्यो दत्तम् इति विद्धि॥१५।१२॥
Link copiedपृथिव्याश् च भूत-धारिण्या धारकत्व-शक्तिर् मदीया इत्य् आह---
Link copiedगाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा।
Link copiedपुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥१३॥
Link copiedअहꣳ पृथिवीम् आविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहत-सामर्थ्येन धारयामि। तथाहम् अमृत-रस-मयः सोमो भूत्वा सर्वोषधीः पुष्णामि॥१५।१३॥
Link copiedअहꣳ वैश्वानरो भूत्वा प्राणिनाꣳ देहम् आश्रितः।
Link copiedप्राणापान-समायुक्तः पचाम्य् अन्नꣳ चतुर्-विधम्॥१४॥
Link copiedअहꣳ वैश्वानरो जाठरानलो भूत्वा सर्वेषाꣳ प्राणिनाꣳ देहम् आश्रितस् तैर् भुक्तꣳ खाद्य-चोष्य-लेह्य-पेयात्मकꣳ चतुर्विधम् अन्नꣳ प्राणापान-वृत्ति-भेद-समायुक्तः पचामि॥१५।१४॥
Link copiedअत्र परम-पुरुष-विभूति-भूतौ सोम-वैश्वानरौ अहꣳ सोमो भूत्वा वैश्वानरो भूत्वा इति तत्-सामानाधिकरण्येन निर्दिष्टौ। तयोश् च सर्वस्य भूत-जातस्य च परम-पुरुष-सामानाधिकरण्य-निर्देशे हेतुम् आह---
Link copiedसर्वस्य चाहꣳ हृदि सन्निविष्टो
Link copiedमत्तः स्मृतिर् ज्ञानम् अपोहनꣳ च।
Link copiedवेदैश् च सर्वैर् अहम् एव वेद्यो
Link copiedवेदान्त-कृद् वेद-विद् एव चाहम्॥१५॥
Link copiedतयोः सोम-वैश्वानरयोः सर्वस्य भूत-जातस्य च सकल-प्रवृत्ति-निवृत्ति-मूल-ज्ञानोदय-देशे हृदि सर्वꣳ मत्-सङ्कल्पेन नियच्छन् अहम् आत्मतया सन्निविष्टः। तथा आहुः श्रुतयः--- अन्तः-प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।आ। ३।११], यः पृथिव्याꣳ तिष्ठन् [बृ।आ।उ। ३।७।३], य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यमयति [बृ।आ।उ। ३।७।२२], पद्म-कोश-प्रतीकाशꣳ हृदयꣳ चाप्य् अधो-मुखम् [तै।ना ११], अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डारीकꣳ वेश्म [छा।उ। ८।१।१] इत्य् आद्याः। स्मृतयश् च--- शास्ता विष्णुर् अशेषस्य जगतो यो जगन्-मयः [वि।पु। १।१७।२०], प्रशासितारꣳ सर्वेषाम् अणीयाꣳसम् अणीयसाम् [मनु १२।१२२], यमो वैवस्वतो राजा यस् तवैष हृदि स्थितः [मनु ८।९२] इत्य् आद्याः।
Link copiedअतो मत्त एव सर्वेषाꣳ स्मृतिर् जायते, स्मृतिः पूर्वानुभूत-विषयम् अनुभव-सꣳस्कार-मात्र-जꣳ ज्ञानम्। ज्ञानम् इन्द्रिय-लिङ्गागम् अयोगजो वस्तु-निश्चयः, सोऽपि मत्तः। अपोहनꣳ च। अपोहनꣳ ज्ञान-निवृत्तिः। अपोहनम् ऊहनꣳ वा ऊहनम् ऊहः। ऊहो नाम इदꣳ प्रमाणम् इत्थꣳ प्रवर्तितुम् अर्हतीति प्रमाण-प्रवृत्त्य्-अर्हता-विषयꣳ सामग्र्यादि-निरूपण-जन्यꣳ प्रमाणानुग्राहकꣳ ज्ञानम्। ऊहो नाम वितर्कः, स च मत्त एव।
Link copiedवेदैश् च सर्वैः अहम् एव वेद्यः। अतोऽग्नि-वायु-सूर्य-सोमेन्द्रादीनाꣳ मद्-अन्तर्यामिकत्वेन मद्-आत्मकत्वात् तत्-प्रतिपादन-परैर् अपि सर्वैर् वेदैर् अहम् एव वेद्यः, देव-मनुष्यादि-शब्दैर् जीवात्मा इव। वेदान्त-कृद् वेदानाम् इन्द्रꣳ यजेत् [शत्ब्र् ५।१।६], वरुणꣳ यजेत [शत्ब्र् २।३।३७] इत्य् एवम् आदीनाम् अन्तः फलꣳ फले हि ते सर्वे वेदाः पर्यवस्यन्ति, अन्त-कृत् फल-कृत्, वेदोदित-फलस्य प्रदाता चाहम् एवेत्य् अर्थः। तद् उक्तꣳ पूर्वम् एव--- यो यो याꣳ याꣳ तनुꣳ भक्तः श्रद्धयार्चितुम् इच्छति [गीता ७।२१] इत्य् आरभ्य लभते च ततः कामान् मयैव विहितान् हि तान् [गीता ७।२२] इति। अहꣳ हि सर्व-यज्ञानाꣳ भोक्ता च प्रभुर् एव च [गीता ९।२४] इति च।
Link copiedवेद-विद् एव चाहम्। वेद-विच् चाहम् एव, एवꣳ मद्-अभिधायिनꣳ वेदम् अहम् एव वेद। इतोऽन्यथा यो वेदार्थꣳ ब्रूते, न स वेद-विद् इत्य् अभिप्रायः॥१५।१५॥
Link copiedअतो मत्त एव सर्व-वेदानाꣳ सार-भूतम् अर्थꣳ सृणु---
Link copiedद्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च।
Link copiedक्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥१६॥
Link copiedक्षरश् चाक्षर एव च इति द्वाव् इमौ पुरुषौ लोके प्रथितौ। तत्र क्षर-शब्द-निर्दिष्टः पुरुषो जीव-शब्दाभिलपनीय-ब्रह्मादि-स्तम्ब-पर्यन्त-क्षरण-स्वभावाचित्-सꣳसृष्ट-सर्व-भूतानि। अत्राचित्-सङ्ग-रूपैकोपधिना पुरुष इत्य् एकत्व-निर्देशः। अक्षर-शब्द-निर्दिष्टः कूटस्थः, अचित्-सꣳसर्ग-वियुक्तः, स्वेन रूपेणावस्थितो मुक्तात्मा। स त्व् अचित्-सꣳसर्गाभावाद् अचित्-परिणाम-विशेष-ब्रह्मादि-देह-साधारणो न भवतीति कूटस्थ इत्य् उच्यते। अत्रापि एकत्व-निर्देशोऽचिद्-वियोग-रूपैकोपाधिनाभिहितः। न हीतः पूर्वम् अनादौ काले मुक्त एक एव। यथोक्तम्--- बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः [गीता ४।१०] मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च [गीता १४।२] इति॥१५।१६॥
Link copiedउत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः।
Link copiedयो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः॥१७॥
Link copiedउत्तमः पुरुषस् तु ताभ्याꣳ क्षराक्षर-शब्द-निर्दिष्टाभ्याꣳ बद्ध-मुक्त-पुरुषाभ्याम् अन्योऽर्थान्तर-भूतः परमात्मेत्य् उदाहृतः। सर्वासु श्रुतिषु परमात्मेति निर्देशाद् एव ह्य् उत्तमः पुरुषो बद्ध-मुक्त-पुरुषाभ्याम् अर्थान्तर-भूत इत्य् अवगम्यते। कथम्। यो लोक-त्रयम् आविश्य बिभर्ति। लोक्यत इति लोकस् तत् त्रयꣳ लोक-त्रयम् अचेतनꣳ तत्-सꣳसृष्टश् चेतनो मुक्तश् चेति प्रमाणावगम्यम् एतत् त्रयꣳ य आत्मतयाविश्य बिभर्ति, स तस्माद् व्याप्याद् भर्तव्याच् चार्थान्तर-भूतः।
Link copiedइतश् चोक्ताल् लोक-त्रयाद् अर्थान्तर-भूतः। यतः सोऽव्यय ईश्वरश् च। अव्यय-स्वभावो हि व्यय-स्वभावाद् अचेतनात् तत्-सम्बन्धेन तद्-अनुसारिणश् च चेतनाद् अचित्-सम्बन्ध-योग्यता पूर्व-सम्बन्धिनो मुक्ताच् चार्थान्तर-भूत एव, तथैतस्य लोक-त्रयस्येश्वर ईशितव्यात् तस्माद् अर्थान्तर-भूतः॥१५।१७॥
Link copiedयस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः।
Link copiedअतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८॥
Link copiedयस्माद् एवम् उक्तैः स्वभावैः क्षरꣳ पुरुषम् अतीतोऽहम्, अक्षरान् मुक्ताद् अप्य् उक्तैर् हेतुभिर् उत्कृष्टतमः, अतोऽहꣳ लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि। वेदार्थावलोकनाल् लोक इति स्मृतिर् इहोच्यते। श्रुतौ स्मृतौ चेत्य् अर्थः। श्रुतौ तावत्--- परꣳ ज्योति-रूपꣳ सम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः [छा।उ। ८।१२।३] इत्य् आदौ। स्मृतव् अप्य् अꣳशावतारꣳ पुरुषोत्तमस्य ह्य् अनादि-मध्यान्तम् अजस्य विष्णोः [वि।पु। ५।१७।३३] इत्य् आदौ॥१५।१८॥
Link copiedयो माम् एवम् असꣳमूढो जानाति पुरुषोत्तमम्।
Link copiedस सर्व-विद् भजति माꣳ सर्व-भावेन भारत॥१९॥
Link copiedय एवम् उक्तेन प्रकारेण पुरुषोत्तमꣳ माम् असꣳमूढो जानाति, क्षराक्षर-पुरुषाभ्याम् अव्यय-स्वभावतया व्यापन-भरणैश्वर्यादि-योगेन च विसजातीयꣳ जानाति, स सर्व-विन् मत्-प्राप्त्य्-उपायतया यद् वेदितव्यꣳ तत् सर्वꣳ वेद। भजति माꣳ सर्व-भावेन ये च मत्-प्राप्त्य्-उपायतया मद्-भजन-प्रकारा निर्दिष्टस् तैश् च सर्वैर् भजन-प्रकारैर् माꣳ भजते। सर्वैर् मद्-विषयैर् वेदनैर् मम या प्रीतिर् या च मम सर्वैर् मद्-विषयैर् भजनैर् उभय-विधा सा प्रीतिर् अनेन वेदनेन मम जायते॥१५।१९॥
Link copiedइत्य् एतत् पुरुषोत्तमत्व-वेदनꣳ पूजयति।
Link copiedइति गुह्यतमꣳ शास्त्रम् इदम् उक्तꣳ मयानघ।
Link copiedएतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च भारत॥२०॥
Link copiedइत्थꣳ मम पुरुषोत्तमत्व-प्रतिपादनꣳ सर्वेषाꣳ गुह्यानाꣳ गुह्यतमम् इदꣳ शास्त्रꣳ त्वम् अनघतया योग्यतम इति कृत्वा मया तव उक्तम्। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृत-कृत्यश् च माꣳ प्रेप्सुनोपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्। यच् च तेन कर्तव्यम्, तच् च सर्वꣳ कृतꣳ स्याद् इत्य् अर्थः। अनेन श्लोकेनानन्तरोक्तꣳ पुरुषोत्तम-विषयꣳ ज्ञानꣳ शास्त्र-जन्यम् एवैतत् सर्वꣳ करोति। न तु साक्षात्-कार-रूपम् इत्य् उच्यते॥१५।२०॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये पञ्चदशोऽध्यायः॥१५॥
Link copiedక్షేత్రాధ్యాయే క్షేత్ర-క్షేత్రజ్ఞ-భూతయోః ప్రకృతి-పురుషయోః స్వరూపṁ విశోధ్య విశుద్ధస్యాపరిచ్ఛిన్న-జ్ఞానైకాకారస్యైవ పురుషస్య ప్రాకృత-గుణ-సఙ్గ-ప్రవాహ-నిమిత్తో దేవాద్య్-ఆకార-పరిణత-ప్రకృతి-సమ్బన్ధోఽనాదిర్ ఇత్య్ ఉక్తమ్। అనన్తరే చాధ్యాయే పురుషస్య కార్య-కారణయోభయావస్థ-ప్రకృతి-సమ్బన్ధో గుణ-సఙ్గ-మూలో భగవతైవ కృత ఇత్య్ ఉక్త్వా గుణ-సఙ్గ-ప్రకారṁ స-విస్తరṁ ప్రతిపాద్య గుణ-సఙ్గ-నివృత్తి-పూర్వకాత్మ-యాథాత్మ్యావాప్తిశ్ చ భగవద్-భక్తి-మూలేత్య్ ఉక్తమ్। ఇదానీṁ భజనీయస్య భగవతః క్షరాక్షఋఆత్మక-బద్ధ-ముక్త-విభూతిమత్తాṁ విభూతి-భూతాత్ క్షరాక్షర-పురుష-ద్వయాత్ నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానతయా అత్యన్తోత్కర్షేణ విసజాతీయస్య భగవతః పురుషోత్తమత్వṁ చ వక్తుమ్ ఆరభతే। తత్ర తావత్ అసఙ్గ-రూప-శస్త్ర-చ్ఛిన్న-బన్ధామ్ అక్షరాఖ్య-విభూతిṁ చ వక్తుṁ ఛేద్య-రూప-బన్ధాకారేణ వితతమ్ అచిత్-పరిణామ-విశేషమ్ అశ్వత్థ-వృక్షాకారṁ కల్పయన్ శ్రీ-భగవాన్ ఉవాచ---
Link copiedఊర్ధ్వ-మూలమ్ అధః-శాఖమ్ అశ్వత్థṁ ప్రాహుర్ అవ్యయమ్।
Link copiedఛన్దాṁసి యస్య పర్ణాని యస్ తṁ వేద స వేదవిత్॥౧॥
Link copiedయṁ సṁసారాఖ్యమ్ అశ్వత్థమ్ ఊర్ధ్వ-మూలమ్ అధః-శాఖమ్ అవ్యయṁ ప్రాహుః శ్రుతయః--- ఊర్ధ్వ-మూలోఽవాక్-శాఖ ఏషోఽశ్వత్థః సనాతనః [క।ఉ। ౨।౩।౧] ఊర్ధ్వ-మూలమ్ అవాక్-శాఖṁ వృక్షṁ యో వేద సమ్ప్రతి [ఆరణ్యకే ౧।౧౧।౫] ఇత్య్ ఆద్యాః। సప్త-లోకోపరి నివిష్ట-చతుర్-ముఖాదిత్వేన తస్య ఊర్ధ్వ-మూలత్వమ్। పృథివీ-నివాసి-సకల-నర-పశు-మృగ-పక్షి-కృమి-కీట-పతఙ్గ-స్థావరాన్తతయా అధః-శాఖత్వమ్ అసఙ్గ-హేతు-భూతాద్ ఆసమ్యగ్ జ్ఞానోదయాత్ ప్రవాహ-రూపేణాచ్ఛేద్యత్వేనావ్యయత్వమ్। యస్య చాశ్వత్థస్య ఛన్దాṁసి పర్ణాన్య్ ఆహుః। ఛన్దాṁసి శ్రుతయః। వాయవ్యṁ శ్వేతమ్ ఆలభేత భూతి-కామః [యజుః ౨।౧।౧], ఐన్ద్రాగ్నమ్ ఏకాదశ-కపాలṁ నిర్వపేత్ ప్రజా-కామః [యజుః ౨।౧] ఇత్య్ ఆది శ్రుతి-ప్రతిపాదితైః కామ్య-కర్మభిర్ వివర్ధతేఽయṁ సṁసార-వృక్షః। ఇతి ఛన్దాṁస్య్ ఏవాస్య పర్ణాని। పత్రైర్ హి వృక్షో వర్ధతే। యస్ తమ్ ఏవṁ-భూతమ్ అశ్వత్థṁ వేద స వేద-విత్, వేదో హి సṁసార-వృక్షస్య ఛేదోపాయṁ వదతి, ఛేద్యస్య వృక్షస్య స్వరూప-జ్ఞానṁ ఛేదనోపాయ-జ్ఞానోపయోగీతి వేద-విద్ ఇత్య్ ఉచ్యతే॥౧౫।౧॥
Link copiedతస్య మనుష్యాది-శాఖస్య వృక్షస్య తత్-తత్-కర్మ-కృతాపరాశ్ చాధః-శాఖాః పునర్ అపి మనుష్య-పశ్వ్-ఆది-రూపేణ ప్రసృతా భవన్తి। ఊర్ధ్వṁ చ గన్ధర్వ-యక్ష-దేవాది-రూపేణ ప్రసృతా భవన్తి। తాశ్ చ గుణ-ప్రవృద్ధా గుణైః సత్త్వాదిభిః ప్రవృద్ధాః, విషయ-ప్రవాలాః శబ్దాది-విషయ-పల్లవాః। కథమ్। ఇత్య్ అత్రాహ---
Link copiedఅధశ్ చోర్ధ్వṁ ప్రసృతాస్ తస్య శాఖా
Link copiedగుణ-ప్రవృద్ధా విషయ-ప్రవాలాః।
Link copiedఅధశ్ చ మూలాన్య్ అనుసన్తతాని
Link copiedకర్మానుబన్ధీని మనుష్య-లోకే॥౨॥
Link copiedబ్రహ్మ-లోక-మూలస్యాస్య వృక్షస్య మనుష్యాగ్రస్య్ఆధో మనుష్య-లోకే మూలాన్య్ అనుసన్తతాని తాని చ కర్మానుబన్ధీని। కర్మాణ్య్ ఏవానుబన్ధీని మూలాన్య్ అధో మనుష్య-లోకే చ భవతీత్య్ అర్థః। మనుష్యత్వావస్థాయాṁ కృతైర్ హి కర్మభిర్ అధో మనుష్య-పశ్వ్-ఆదయ ఊర్ధ్వṁ చ దేవాదయో భవన్తి॥౧౫।౨॥
Link copiedన రూపమ్ అస్యేహ తథోపలభ్యతే
Link copiedనాన్తో న చాదిర్ న చ సమ్ప్రతిష్ఠా।
Link copiedఅశ్వత్థమ్ ఏనṁ సు-విరూఢ-మూలమ్
Link copiedఅసఙ్గ-శస్త్రేణ దృఢేన ఛిత్త్వా॥౩॥
Link copiedతతః పదṁ తత్-పరిమార్గితవ్యṁ
Link copiedయస్మిన్ గతా న నివర్తన్తి భూయః।
Link copiedతమ్ ఏవ చాద్యṁ పురుషṁ ప్రపద్యే
Link copiedయతః ప్రవృత్తిః ప్రసృతా పురాణీ॥౪॥
Link copiedఅస్య వృక్షస్య చతుర్ముఖాదిత్వేనోర్ధ్వ-మూలత్వṁ తత్-సన్తాన-పరమ్పరయా మనుష్యాగ్రత్వేనాధః-శాఖత్వṁ మనుష్యత్వే కృతైః కర్మభిర్ మూల-భూతైః పునర్ అప్య్ అధశ్ చోర్ధ్వṁ చ ప్రసృత-శాఖత్వమ్ ఇతి యథేదṁ రూపṁ నిర్దిష్టṁ న తథా సṁసారిభిర్ ఉపలభ్యతే। మనుష్యోఽహṁ దేవ-దత్తస్య పుత్రో యజ్ఞ-దత్తస్య పితా తద్-అనురూప-పరిగ్రహశ్ చేత్య్ ఏతావన్-మాత్రమ్ ఉపలభ్యతే।
Link copiedతథాస్య వృక్షస్యాన్తో వినాశోఽపి గుణ-మయ-భోగేష్వ్ అసఙ్గ-కృత ఇతి నోపలభ్యతే తథాస్య గుణ-సఙ్గ ఏవాదిర్ ఇతి నోపలభ్యతే। తస్య ప్రతిష్ఠా చానాత్మన్య్ ఆత్మాభిమాన-రూపమ్ అజ్ఞానమ్ ఇతి నోపలభ్యతే। ప్రతితిష్ఠత్య్ అస్మిన్న్ ఏవేతి హ్య్ అజ్ఞానమ్ ఏవాస్య ప్రతిష్ఠా। ఏనమ్ ఉక్త-ప్రకారṁ సువిరూఢ-మూలṁ సుష్ఠు వివిధṁ రూఢ-మూలమ్ అశ్వత్థṁ సమ్యగ్-జ్ఞాన-మూలేన దృఢేన గుణ-మయ-భోగ్ఆసఙ్గాఖ్యేన శస్త్రేణ ఛిత్త్వా తతో విషయాసఙ్గాద్ హేతోస్ తత్ పదṁ పరిమార్గితవ్యమ్ అన్వేషణీయాṁ య్అస్మిన్ గతా భూయో న నివర్తన్తే।
Link copiedకథమ్ అనాది-కాల-ప్రవృత్తో గుణ-మయ-భోగ-సఙ్గస్ తన్-మూలṁ చ విపరీత-జ్ఞానṁ నివర్తతే ఇత్య్ అత్రాహ--- అజ్ఞానాది-నివృత్తయే తమ్ ఏవ చాద్యṁ కృత్స్నస్యాది-భూతమ్। మయాధ్యక్షేణ ప్రకృతిః సూయతే స-చరాచరమ్ [గీతా ౯।౧౦], అహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే [గీతా ౧౦।౮], మత్తః పరతరṁ నాన్యత్ కిఞ్చిద్ అస్తి ధనఞ్జయ [గీతా ౭।౭] ఇత్య్ ఆదిషూక్తమ్। ఆద్యṁ పురుషమ్ ఏవ శరణṁ ప్రపద్యే తమ్ ఏవ శరణṁ ప్రపద్యేత। యతో యస్మాత్ కృత్స్నస్య స్రష్టుర్ ఇయṁ గుణ-మయ-భోగ-సఙ్గ-ప్రవృత్తిః పురాణీ పురాతనీ ప్రసృతా। ఉక్తṁ హి మయైవ పూర్వమ్ ఏతత్---
Link copiedదైవీ హ్య్ ఏషా గుణ-మయీ మమ మాయా దురత్యయా।
Link copiedమామ్ ఏవ యే ప్రపద్యన్తే మాయామ్ ఏతాṁ తరన్తి తే॥ [గీతా ౭।౧౪] ఇతి।
Link copied
ప్రపద్యే యతః ప్రవృత్తిర్ ఇతి వా పాఠః। తమ్ ఏవ చాద్యṁ పురుషṁ ప్రపద్య శరణమ్ ఉపగమ్య। యతోఽజ్ఞాన-నివృత్త్య్-ఆదేః కృత్స్నస్యైతస్య సాధన-భూతా ప్రవృత్తిః పురాణీ పురాతనీ ప్రసృతా। పురాతనానాṁ ముముక్షూణాṁ ప్రవృత్తిః పురాణీ। పురాతనా హి ముముక్షవో మామ్ ఏవ శరణమ్ ఉపగమ్య నిర్ముక్త-బన్ధాః సఞ్జాతా ఇత్య్ అర్థః॥౧౫।౩-౪॥
Link copiedనిర్మాన-మోహా జిత-సఙ్గ-దోషా
Link copiedఅధ్యాత్మ-నిత్యా వినివృత్త-కామాః।
Link copiedద్వన్ద్వైర్ విముక్తాః సుఖ-దుఃఖ-సṁజ్ఞైర్
Link copiedగచ్ఛన్త్య్ అమూఢాః పదమ్ అవ్యయṁ తత్॥౫॥
Link copiedఏవṁ మాṁ శరణమ్ ఉపగమ్య నిర్మాన-మోహాః। నిర్గతానాత్మాత్మాభిమాన-రూప-మోహాః। జిత-సఙ్గ-దోషాః। జిత-గుణ-మయ-భోగ-సఙ్గాఖ్య-దోషాః। అధ్యాత్మ-నిత్యా ఆత్మని యజ్ జ్ఞానṁ తద్ అధ్యాత్మమ్ ఆత్మ-ధ్యాన-నిరతాః। వినివృత్త-తద్-ఇతర-కామాః। సుఖ-దుఃఖ-సṁజ్ఞైర్ ద్వన్ద్వైశ్ చ విముక్తా అమూఢాః ఆత్మానాత్మ-స్వభావ-జ్ఞాస్ తద్ అవ్యయṁ పదṁ గచ్ఛన్త్య్ అనవచ్ఛిన్న-జ్ఞానాకారమ్ ఆత్మానṁ యథావస్థితṁ ప్రాప్నువన్తి। మాṁ శరణమ్ ఉపాగతానాṁ మత్-ప్రసాదాద్ ఏవ తాః సర్వాః ప్రవృత్తయః సుశక్యాః సిద్ధి-పర్యన్తా భవన్తీత్య్ అర్థః॥౧౫।౫॥
Link copiedన తద్ భాసయతే సూర్యో న శశాఙ్కో న పావకః।
Link copiedయద్ గత్వా న నివర్తన్తే తద్ ధామ పరమṁ మమ॥౬॥
Link copiedతద్ ఆత్మ-జ్యోతిర్ న సూర్యో భాసయతే న శశాఙ్కో న పావకశ్ చ। జ్ఞానమ్ ఏవ హి సర్వస్య ప్రకాశకమ్। బాహ్యాని తు జ్యోతీṁషి విషయేన్ద్రియ-సమ్బన్ధ-విరోధి-తమో-నిరసన-ద్వారేణ ఉపకారకాణి। అస్య చ ప్రకాశకో యోగస్ తద్-విరోధి చానాది-కర్మ, తన్-నివర్తనṁ చోక్తṁ భగవత్-ప్రపత్తి-మూలమ్ అసఙ్గాది యద్ గత్వా పునర్ న నివర్తన్తే తత్ పరమṁ ధామ పరమṁ జ్యోతిర్ మమ మదీయṁ మద్-విభూతి-భూతో మమాṁశ ఇత్య్ అర్థః। ఆదిత్యాదీనామ్ అపి ప్రకాశకత్వేన తస్య పరమత్వమ్। ఆదిత్యాదీని హి జ్యోతీṁషి న జ్ఞాన-జ్యోతిషః ప్రకాశకాని, జ్ఞానమ్ ఏవ హి సర్వస్య ప్రకాశకమ్॥౧౫।౬॥
Link copiedమమైవాṁశో జీవ-లోకే జీవ-భూతః సనాతనః।
Link copiedమనః-షష్ఠానీన్ద్రియాణి ప్రకృతి-స్థాని కర్షతి॥౭॥
Link copiedఇత్థమ్ ఉక్త-స్వరూపః సనాతనో మమాṁశ ఏవ సన్ కశ్చిద్ అనాది-కర్మ-రూపావిద్యావేష్టన-తిరోహిత-స్వరూపో జీవ-భూతో జీవ-లోకే వర్తమానో దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేష-శరీర-స్థాని మనః-షష్ఠానీన్ద్రియాణి కర్షతి। కశ్చిత్ చ పూర్వోక్త-మార్గేణాస్యా అవిద్యాయా ముక్తః స్వేన రూపేణావతిష్ఠతే। జీవ-భూతస్ త్వ్ అతిసఙ్కుచిత-జ్ఞానైశ్వర్యః కర్మ-లబ్ధ-ప్రకృతి-పరిణామ-విశేష-రూప-శరీర-స్థానామ్ ఇన్ద్రియాణాṁ మనః-షష్ఠానామ్ ఈశ్వరస్ తాని కర్మానుగుణమ్ ఇతస్ తతః కర్షతి॥౧౫।౭॥
Link copiedశరీరṁ యద్ అవాప్నోతి యచ్ చాప్య్ ఉత్క్రామతీశ్వరః।
Link copiedగృహీత్వైతాని సṁయాతి వాయుర్ గన్ధాన్ ఇవాశయాత్॥౮॥
Link copiedయత్ శరీరమ్ అవాప్నోతి, యస్మాత్ శరీరాద్ ఉత్క్రామతి, తత్రాయమ్ ఇన్ద్రియాణామ్ ఈశ్వరః ఏతాని ఇన్ద్రియాణి భూత-సూక్ష్మైః సహ గృహీత్వా సṁయాతి। వాయుః గన్ధాన్ ఇవ ఆశయాత్। యథా వాయుః స్రక్-చన్దన-కస్తూరికాద్య్-ఆశయాత్ తత్-స్థానాత్ సూక్ష్మావయవైః సహ గన్ధాన్ గృహీత్వా అన్యత్ర సṁయాతి తద్వద్ ఇత్య్ అర్థః॥౧౫।౮॥
Link copiedకాని పునస్ తానీన్ద్రియాణి। ఇత్య్ ఆహ---
Link copiedశ్రోత్రṁ చక్షుః స్పర్శనṁ చ రసనṁ ఘ్రాణమ్ ఏవ చ।
Link copiedఅధిష్ఠాయ మనశ్ చాయṁ విషయాన్ ఉపసేవతే॥౯॥
Link copiedఏతాని మనః-షష్ఠానీన్ద్రియాణ్య్ అధిష్ఠాయ స్వ-స్వ-విషయ-వృత్త్య్-అనుగుణాని కృత్వా తాన్ శబ్దాదీన్ విషయాన్ ఉపసేవతే ఉపభుఙ్క్తే॥౧౫।౯॥
Link copiedఉత్క్రామన్తṁ స్థితṁ వాపి భుఞ్జానṁ వా గుణాన్వితమ్।
Link copiedవిమూఢా నానుపశ్యన్తి పశ్యన్తి జ్ఞాన-చక్షుషః॥౧౦॥
Link copiedఏవṁ గుణాన్వితṁ సత్త్వాది-గుణ-మయ-ప్రకృతి-పరిణామ-విశేష-మనుష్యత్వాది సṁస్థాన-పిణ్డ-సṁసృష్టṁ పిణ్డ-విశేషాద్ ఉత్క్రామన్తṁ పిణ్డ-విశేషేఽవస్థితṁ వా గుణ-మయాన్ విషయాన్ భుఞ్జానṁ వా కదాచిద్ అపి ప్రకృతి-పరిణామ-విశేష-మనుష్యత్వాది-పిణ్డాద్ విలక్షణṁ జ్ఞానైకాకారṁ విమూఢా నానుపశ్యన్తి। విమూఢా మనుష్యత్వాది-పిణ్డాత్మాభిమానినః।
Link copiedజ్ఞాన-చక్షుషస్ తు పిణ్డాత్మ-వివేక-విషయ-జ్ఞానవన్తః సర్వావస్థమ్ అప్య్ ఏనṁ వివిక్తాకారమ్ ఏవ పశ్యన్తి॥౧౫।౧౦॥
Link copiedయతన్తో యోగినశ్ చైనṁ పశ్యన్త్య్ ఆత్మన్య్ అవస్థితమ్।
Link copiedయతన్తోఽప్య్ అకృతాత్మానో నైనṁ పశ్యన్త్య్ అచేతసః॥౧౧॥
Link copiedమత్-ప్రపత్తి-పూర్వకṁ కర్మ-యోగాదిషు యతమానాస్ తైర్ నిర్మలాన్తః-కరణా యోగినో యోగాఖ్యేన చక్షుషాత్మని శరీరేఽవస్థితమ్ అపి శరీరాద్ వివిక్తṁ స్వేన రూపేణావస్థితమ్ ఏనṁ పశ్యన్తి। యతమానా అప్య్ అకృతాత్మానో మత్-ప్రపత్తి-విరహిణస్ తత ఏవాసṁస్కృత-మనసస్ తత ఏవాచేతస ఆత్మావలోకన-సమర్థశ్ చేతో-రహితా నైనṁ పశ్యన్తి॥౧౫।౧౧॥
Link copiedఏవṁ రవి-చన్ద్రాగ్నీనామ్ ఇన్ద్రియ-సన్నికర్ష-విరోధి-సన్తమస-నిరసన-ముఖేన ఇన్ద్రియానుగ్రాహకతయా ప్రకాశకానాṁ జ్యోతిష్మతామ్ అపి ప్రకాశకṁ జ్ఞాన-జ్యోతిర్ ఆత్మా ముక్తావస్థో జీవావస్థశ్ చ భగవద్-విభూతిర్ ఇత్య్ ఉక్తṁ తద్ ధామ పరమṁ మమ [గీతా ౧౫।౬], మమైవాṁశో జీవ-లోకే జీవ-భూతః సనాతనః [గీతా ౧౫।౭] ఇతి। ఇదానీమ్ అచిత్-పరిణామ-విశేష-భూతమ్ ఆదిత్యాదీనాṁ జ్యోతిష్మతాṁ జ్యోతిర్ అపి భగవద్-విభూతిర్ ఇత్య్ ఆహ---
Link copiedయద్ ఆదిత్య-గతṁ తేజో జగద్ భాసయతేఽఖిలమ్।
Link copiedయచ్ చన్ద్రమసి యచ్ చాగ్నౌ తత్ తేజో విద్ధి మామకమ్॥౧౨॥
Link copiedఅఖిలస్య జగతో భాసకమ్ ఏతేషామ్ ఆదిత్యాదీనాṁ యత్ తేజస్ తన్ మదీయṁ తేజస్ తైస్ తైర్ ఆరాధితేన మయా తేభ్యో దత్తమ్ ఇతి విద్ధి॥౧౫।౧౨॥
Link copiedపృథివ్యాశ్ చ భూత-ధారిణ్యా ధారకత్వ-శక్తిర్ మదీయా ఇత్య్ ఆహ---
Link copiedగామ్ ఆవిశ్య చ భూతాని ధారయామ్య్ అహమ్ ఓజసా।
Link copiedపుష్ణామి చౌషధీః సర్వాః సోమో భూత్వా రసాత్మకః॥౧౩॥
Link copiedఅహṁ పృథివీమ్ ఆవిశ్య సర్వాణి భూతాని ఓజసా మమాప్రతిహత-సామర్థ్యేన ధారయామి। తథాహమ్ అమృత-రస-మయః సోమో భూత్వా సర్వోషధీః పుష్ణామి॥౧౫।౧౩॥
Link copiedఅహṁ వైశ్వానరో భూత్వా ప్రాణినాṁ దేహమ్ ఆశ్రితః।
Link copiedప్రాణాపాన-సమాయుక్తః పచామ్య్ అన్నṁ చతుర్-విధమ్॥౧౪॥
Link copiedఅహṁ వైశ్వానరో జాఠరానలో భూత్వా సర్వేషాṁ ప్రాణినాṁ దేహమ్ ఆశ్రితస్ తైర్ భుక్తṁ ఖాద్య-చోష్య-లేహ్య-పేయాత్మకṁ చతుర్విధమ్ అన్నṁ ప్రాణాపాన-వృత్తి-భేద-సమాయుక్తః పచామి॥౧౫।౧౪॥
Link copiedఅత్ర పరమ-పురుష-విభూతి-భూతౌ సోమ-వైశ్వానరౌ అహṁ సోమో భూత్వా వైశ్వానరో భూత్వా ఇతి తత్-సామానాధికరణ్యేన నిర్దిష్టౌ। తయోశ్ చ సర్వస్య భూత-జాతస్య చ పరమ-పురుష-సామానాధికరణ్య-నిర్దేశే హేతుమ్ ఆహ---
Link copiedసర్వస్య చాహṁ హృది సన్నివిష్టో
Link copiedమత్తః స్మృతిర్ జ్ఞానమ్ అపోహనṁ చ।
Link copiedవేదైశ్ చ సర్వైర్ అహమ్ ఏవ వేద్యో
Link copiedవేదాన్త-కృద్ వేద-విద్ ఏవ చాహమ్॥౧౫॥
Link copiedతయోః సోమ-వైశ్వానరయోః సర్వస్య భూత-జాతస్య చ సకల-ప్రవృత్తి-నివృత్తి-మూల-జ్ఞానోదయ-దేశే హృది సర్వṁ మత్-సఙ్కల్పేన నియచ్ఛన్ అహమ్ ఆత్మతయా సన్నివిష్టః। తథా ఆహుః శ్రుతయః--- అన్తః-ప్రవిష్టః శాస్తా జనానాṁ సర్వాత్మా [తై।ఆ। ౩।౧౧], యః పృథివ్యాṁ తిష్ఠన్ [బృ।ఆ।ఉ। ౩।౭।౩], య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమయతి [బృ।ఆ।ఉ। ౩।౭।౨౨], పద్మ-కోశ-ప్రతీకాశṁ హృదయṁ చాప్య్ అధో-ముఖమ్ [తై।నా ౧౧], అథ యద్ ఇదమ్ అస్మిన్ బ్రహ్మ-పురే దహరṁ పుణ్డారీకṁ వేశ్మ [ఛా।ఉ। ౮।౧।౧] ఇత్య్ ఆద్యాః। స్మృతయశ్ చ--- శాస్తా విష్ణుర్ అశేషస్య జగతో యో జగన్-మయః [వి।పు। ౧।౧౭।౨౦], ప్రశాసితారṁ సర్వేషామ్ అణీయాṁసమ్ అణీయసామ్ [మను ౧౨।౧౨౨], యమో వైవస్వతో రాజా యస్ తవైష హృది స్థితః [మను ౮।౯౨] ఇత్య్ ఆద్యాః।
Link copiedఅతో మత్త ఏవ సర్వేషాṁ స్మృతిర్ జాయతే, స్మృతిః పూర్వానుభూత-విషయమ్ అనుభవ-సṁస్కార-మాత్ర-జṁ జ్ఞానమ్। జ్ఞానమ్ ఇన్ద్రియ-లిఙ్గాగమ్ అయోగజో వస్తు-నిశ్చయః, సోఽపి మత్తః। అపోహనṁ చ। అపోహనṁ జ్ఞాన-నివృత్తిః। అపోహనమ్ ఊహనṁ వా ఊహనమ్ ఊహః। ఊహో నామ ఇదṁ ప్రమాణమ్ ఇత్థṁ ప్రవర్తితుమ్ అర్హతీతి ప్రమాణ-ప్రవృత్త్య్-అర్హతా-విషయṁ సామగ్ర్యాది-నిరూపణ-జన్యṁ ప్రమాణానుగ్రాహకṁ జ్ఞానమ్। ఊహో నామ వితర్కః, స చ మత్త ఏవ।
Link copiedవేదైశ్ చ సర్వైః అహమ్ ఏవ వేద్యః। అతోఽగ్ని-వాయు-సూర్య-సోమేన్ద్రాదీనాṁ మద్-అన్తర్యామికత్వేన మద్-ఆత్మకత్వాత్ తత్-ప్రతిపాదన-పరైర్ అపి సర్వైర్ వేదైర్ అహమ్ ఏవ వేద్యః, దేవ-మనుష్యాది-శబ్దైర్ జీవాత్మా ఇవ। వేదాన్త-కృద్ వేదానామ్ ఇన్ద్రṁ యజేత్ [శత్బ్ర్ ౫।౧।౬], వరుణṁ యజేత [శత్బ్ర్ ౨।౩।౩౭] ఇత్య్ ఏవమ్ ఆదీనామ్ అన్తః ఫలṁ ఫలే హి తే సర్వే వేదాః పర్యవస్యన్తి, అన్త-కృత్ ఫల-కృత్, వేదోదిత-ఫలస్య ప్రదాతా చాహమ్ ఏవేత్య్ అర్థః। తద్ ఉక్తṁ పూర్వమ్ ఏవ--- యో యో యాṁ యాṁ తనుṁ భక్తః శ్రద్ధయార్చితుమ్ ఇచ్ఛతి [గీతా ౭।౨౧] ఇత్య్ ఆరభ్య లభతే చ తతః కామాన్ మయైవ విహితాన్ హి తాన్ [గీతా ౭।౨౨] ఇతి। అహṁ హి సర్వ-యజ్ఞానాṁ భోక్తా చ ప్రభుర్ ఏవ చ [గీతా ౯।౨౪] ఇతి చ।
Link copiedవేద-విద్ ఏవ చాహమ్। వేద-విచ్ చాహమ్ ఏవ, ఏవṁ మద్-అభిధాయినṁ వేదమ్ అహమ్ ఏవ వేద। ఇతోఽన్యథా యో వేదార్థṁ బ్రూతే, న స వేద-విద్ ఇత్య్ అభిప్రాయః॥౧౫।౧౫॥
Link copiedఅతో మత్త ఏవ సర్వ-వేదానాṁ సార-భూతమ్ అర్థṁ సృణు---
Link copiedద్వావ్ ఇమౌ పురుషౌ లోకే క్షరశ్ చాక్షర ఏవ చ।
Link copiedక్షరః సర్వాణి భూతాని కూటస్థోఽక్షర ఉచ్యతే॥౧౬॥
Link copiedక్షరశ్ చాక్షర ఏవ చ ఇతి ద్వావ్ ఇమౌ పురుషౌ లోకే ప్రథితౌ। తత్ర క్షర-శబ్ద-నిర్దిష్టః పురుషో జీవ-శబ్దాభిలపనీయ-బ్రహ్మాది-స్తమ్బ-పర్యన్త-క్షరణ-స్వభావాచిత్-సṁసృష్ట-సర్వ-భూతాని। అత్రాచిత్-సఙ్గ-రూపైకోపధినా పురుష ఇత్య్ ఏకత్వ-నిర్దేశః। అక్షర-శబ్ద-నిర్దిష్టః కూటస్థః, అచిత్-సṁసర్గ-వియుక్తః, స్వేన రూపేణావస్థితో ముక్తాత్మా। స త్వ్ అచిత్-సṁసర్గాభావాద్ అచిత్-పరిణామ-విశేష-బ్రహ్మాది-దేహ-సాధారణో న భవతీతి కూటస్థ ఇత్య్ ఉచ్యతే। అత్రాపి ఏకత్వ-నిర్దేశోఽచిద్-వియోగ-రూపైకోపాధినాభిహితః। న హీతః పూర్వమ్ అనాదౌ కాలే ముక్త ఏక ఏవ। యథోక్తమ్--- బహవో జ్ఞాన-తపసా పూతా మద్-భావమ్ ఆగతాః [గీతా ౪।౧౦] మమ సాధర్మ్యమ్ ఆగతాః। సర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ [గీతా ౧౪।౨] ఇతి॥౧౫।౧౬॥
Link copiedఉత్తమః పురుషస్ త్వ్ అన్యః పరమాత్మేత్య్ ఉదాహృతః।
Link copiedయో లోక-త్రయమ్ ఆవిశ్య బిభర్త్య్ అవ్యయ ఈశ్వరః॥౧౭॥
Link copiedఉత్తమః పురుషస్ తు తాభ్యాṁ క్షరాక్షర-శబ్ద-నిర్దిష్టాభ్యాṁ బద్ధ-ముక్త-పురుషాభ్యామ్ అన్యోఽర్థాన్తర-భూతః పరమాత్మేత్య్ ఉదాహృతః। సర్వాసు శ్రుతిషు పరమాత్మేతి నిర్దేశాద్ ఏవ హ్య్ ఉత్తమః పురుషో బద్ధ-ముక్త-పురుషాభ్యామ్ అర్థాన్తర-భూత ఇత్య్ అవగమ్యతే। కథమ్। యో లోక-త్రయమ్ ఆవిశ్య బిభర్తి। లోక్యత ఇతి లోకస్ తత్ త్రయṁ లోక-త్రయమ్ అచేతనṁ తత్-సṁసృష్టశ్ చేతనో ముక్తశ్ చేతి ప్రమాణావగమ్యమ్ ఏతత్ త్రయṁ య ఆత్మతయావిశ్య బిభర్తి, స తస్మాద్ వ్యాప్యాద్ భర్తవ్యాచ్ చార్థాన్తర-భూతః।
Link copiedఇతశ్ చోక్తాల్ లోక-త్రయాద్ అర్థాన్తర-భూతః। యతః సోఽవ్యయ ఈశ్వరశ్ చ। అవ్యయ-స్వభావో హి వ్యయ-స్వభావాద్ అచేతనాత్ తత్-సమ్బన్ధేన తద్-అనుసారిణశ్ చ చేతనాద్ అచిత్-సమ్బన్ధ-యోగ్యతా పూర్వ-సమ్బన్ధినో ముక్తాచ్ చార్థాన్తర-భూత ఏవ, తథైతస్య లోక-త్రయస్యేశ్వర ఈశితవ్యాత్ తస్మాద్ అర్థాన్తర-భూతః॥౧౫।౧౭॥
Link copiedయస్మాత్ క్షరమ్ అతీతోఽహమ్ అక్షరాద్ అపి చోత్తమః।
Link copiedఅతోఽస్మి లోకే వేదే చ ప్రథితః పురుషోత్తమః॥౧౮॥
Link copiedయస్మాద్ ఏవమ్ ఉక్తైః స్వభావైః క్షరṁ పురుషమ్ అతీతోఽహమ్, అక్షరాన్ ముక్తాద్ అప్య్ ఉక్తైర్ హేతుభిర్ ఉత్కృష్టతమః, అతోఽహṁ లోకే వేదే చ పురుషోత్తమ ఇతి ప్రథితోఽస్మి। వేదార్థావలోకనాల్ లోక ఇతి స్మృతిర్ ఇహోచ్యతే। శ్రుతౌ స్మృతౌ చేత్య్ అర్థః। శ్రుతౌ తావత్--- పరṁ జ్యోతి-రూపṁ సమ్పద్య స్వేన రూపేణాభినిష్పద్యతే స ఉత్తమః పురుషః [ఛా।ఉ। ౮।౧౨।౩] ఇత్య్ ఆదౌ। స్మృతవ్ అప్య్ అṁశావతారṁ పురుషోత్తమస్య హ్య్ అనాది-మధ్యాన్తమ్ అజస్య విష్ణోః [వి।పు। ౫।౧౭।౩౩] ఇత్య్ ఆదౌ॥౧౫।౧౮॥
Link copiedయో మామ్ ఏవమ్ అసṁమూఢో జానాతి పురుషోత్తమమ్।
Link copiedస సర్వ-విద్ భజతి మాṁ సర్వ-భావేన భారత॥౧౯॥
Link copiedయ ఏవమ్ ఉక్తేన ప్రకారేణ పురుషోత్తమṁ మామ్ అసṁమూఢో జానాతి, క్షరాక్షర-పురుషాభ్యామ్ అవ్యయ-స్వభావతయా వ్యాపన-భరణైశ్వర్యాది-యోగేన చ విసజాతీయṁ జానాతి, స సర్వ-విన్ మత్-ప్రాప్త్య్-ఉపాయతయా యద్ వేదితవ్యṁ తత్ సర్వṁ వేద। భజతి మాṁ సర్వ-భావేన యే చ మత్-ప్రాప్త్య్-ఉపాయతయా మద్-భజన-ప్రకారా నిర్దిష్టస్ తైశ్ చ సర్వైర్ భజన-ప్రకారైర్ మాṁ భజతే। సర్వైర్ మద్-విషయైర్ వేదనైర్ మమ యా ప్రీతిర్ యా చ మమ సర్వైర్ మద్-విషయైర్ భజనైర్ ఉభయ-విధా సా ప్రీతిర్ అనేన వేదనేన మమ జాయతే॥౧౫।౧౯॥
Link copiedఇత్య్ ఏతత్ పురుషోత్తమత్వ-వేదనṁ పూజయతి।
Link copiedఇతి గుహ్యతమṁ శాస్త్రమ్ ఇదమ్ ఉక్తṁ మయానఘ।
Link copiedఏతద్ బుద్ధ్వా బుద్ధిమాన్ స్యాత్ కృత-కృత్యశ్ చ భారత॥౨౦॥
Link copiedఇత్థṁ మమ పురుషోత్తమత్వ-ప్రతిపాదనṁ సర్వేషాṁ గుహ్యానాṁ గుహ్యతమమ్ ఇదṁ శాస్త్రṁ త్వమ్ అనఘతయా యోగ్యతమ ఇతి కృత్వా మయా తవ ఉక్తమ్। ఏతద్ బుద్ధ్వా బుద్ధిమాన్ స్యాత్ కృత-కృత్యశ్ చ మాṁ ప్రేప్సునోపాదేయా యా బుద్ధిః సా సర్వా ఉపాత్తా స్యాత్। యచ్ చ తేన కర్తవ్యమ్, తచ్ చ సర్వṁ కృతṁ స్యాద్ ఇత్య్ అర్థః। అనేన శ్లోకేనానన్తరోక్తṁ పురుషోత్తమ-విషయṁ జ్ఞానṁ శాస్త్ర-జన్యమ్ ఏవైతత్ సర్వṁ కరోతి। న తు సాక్షాత్-కార-రూపమ్ ఇత్య్ ఉచ్యతే॥౧౫।౨౦॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే పఞ్చదశోఽధ్యాయః॥౧౫॥
Link copiedkṣetrādhyāye kṣetra-kṣetrajña-bhūtayoḥ prakṛti-puruṣayoḥ svarūpaṁ viśodhya viśuddhasyāparicchinna-jñānaikākārasyaiva puruṣasya prākṛta-guṇa-saṅga-pravāha-nimitto devādy-ākāra-pariṇata-prakṛti-sambandho'nādir ity uktam| anantare cādhyāye puruṣasya kārya-kāraṇayobhayāvastha-prakṛti-sambandho guṇa-saṅga-mūlo bhagavataiva kṛta ity uktvā guṇa-saṅga-prakāraṁ sa-vistaraṁ pratipādya guṇa-saṅga-nivṛtti-pūrvakātma-yāthātmyāvāptiś ca bhagavad-bhakti-mūlety uktam| idānīṁ bhajanīyasya bhagavataḥ kṣarākṣaṛātmaka-baddha-mukta-vibhūtimattāṁ vibhūti-bhūtāt kṣarākṣara-puruṣa-dvayāt nikhila-heya-pratyanīka-kalyāṇaikatānatayā atyantotkarṣeṇa visajātīyasya bhagavataḥ puruṣottamatvaṁ ca vaktum ārabhate| tatra tāvat asaṅga-rūpa-śastra-cchinna-bandhām akṣarākhya-vibhūtiṁ ca vaktuṁ chedya-rūpa-bandhākāreṇa vitatam acit-pariṇāma-viśeṣam aśvattha-vṛkṣākāraṁ kalpayan śrī-bhagavān uvāca---
Link copiedūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayam|
Link copiedchandāṁsi yasya parṇāni yas taṁ veda sa vedavit||1||
Link copiedyaṁ saṁsārākhyam aśvattham ūrdhva-mūlam adhaḥ-śākham avyayaṁ prāhuḥ śrutayaḥ--- ūrdhva-mūlo'vāk-śākha eṣo'śvatthaḥ sanātanaḥ [ka.u. 2.3.1] ūrdhva-mūlam avāk-śākhaṁ vṛkṣaṁ yo veda samprati [āraṇyake 1.11.5] ity ādyāḥ| sapta-lokopari niviṣṭa-catur-mukhāditvena tasya ūrdhva-mūlatvam| pṛthivī-nivāsi-sakala-nara-paśu-mṛga-pakṣi-kṛmi-kīṭa-pataṅga-sthāvarāntatayā adhaḥ-śākhatvam asaṅga-hetu-bhūtād āsamyag jñānodayāt pravāha-rūpeṇācchedyatvenāvyayatvam| yasya cāśvatthasya chandāṁsi parṇāny āhuḥ| chandāṁsi śrutayaḥ| vāyavyaṁ śvetam ālabheta bhūti-kāmaḥ [yajuḥ 2.1.1], aindrāgnam ekādaśa-kapālaṁ nirvapet prajā-kāmaḥ [yajuḥ 2.1] ity ādi śruti-pratipāditaiḥ kāmya-karmabhir vivardhate'yaṁ saṁsāra-vṛkṣaḥ| iti chandāṁsy evāsya parṇāni| patrair hi vṛkṣo vardhate| yas tam evaṁ-bhūtam aśvatthaṁ veda sa veda-vit, vedo hi saṁsāra-vṛkṣasya chedopāyaṁ vadati, chedyasya vṛkṣasya svarūpa-jñānaṁ chedanopāya-jñānopayogīti veda-vid ity ucyate||15.1||
Link copiedtasya manuṣyādi-śākhasya vṛkṣasya tat-tat-karma-kṛtāparāś cādhaḥ-śākhāḥ punar api manuṣya-paśv-ādi-rūpeṇa prasṛtā bhavanti| ūrdhvaṁ ca gandharva-yakṣa-devādi-rūpeṇa prasṛtā bhavanti| tāś ca guṇa-pravṛddhā guṇaiḥ sattvādibhiḥ pravṛddhāḥ, viṣaya-pravālāḥ śabdādi-viṣaya-pallavāḥ| katham| ity atrāha---
Link copiedadhaś cordhvaṁ prasṛtās tasya śākhā
Link copiedguṇa-pravṛddhā viṣaya-pravālāḥ|
Link copiedadhaś ca mūlāny anusantatāni
Link copiedkarmānubandhīni manuṣya-loke||2||
Link copiedbrahma-loka-mūlasyāsya vṛkṣasya manuṣyāgrasyādho manuṣya-loke mūlāny anusantatāni tāni ca karmānubandhīni| karmāṇy evānubandhīni mūlāny adho manuṣya-loke ca bhavatīty arthaḥ| manuṣyatvāvasthāyāṁ kṛtair hi karmabhir adho manuṣya-paśv-ādaya ūrdhvaṁ ca devādayo bhavanti||15.2||
Link copiedna rūpam asyeha tathopalabhyate
Link copiednānto na cādir na ca sampratiṣṭhā|
Link copiedaśvattham enaṁ su-virūḍha-mūlam
Link copiedasaṅga-śastreṇa dṛḍhena chittvā||3||
Link copiedtataḥ padaṁ tat-parimārgitavyaṁ
Link copiedyasmin gatā na nivartanti bhūyaḥ|
Link copiedtam eva cādyaṁ puruṣaṁ prapadye
Link copiedyataḥ pravṛttiḥ prasṛtā purāṇī||4||
Link copiedasya vṛkṣasya caturmukhāditvenordhva-mūlatvaṁ tat-santāna-paramparayā manuṣyāgratvenādhaḥ-śākhatvaṁ manuṣyatve kṛtaiḥ karmabhir mūla-bhūtaiḥ punar apy adhaś cordhvaṁ ca prasṛta-śākhatvam iti yathedaṁ rūpaṁ nirdiṣṭaṁ na tathā saṁsāribhir upalabhyate| manuṣyo'haṁ deva-dattasya putro yajña-dattasya pitā tad-anurūpa-parigrahaś cety etāvan-mātram upalabhyate|
Link copiedtathāsya vṛkṣasyānto vināśo'pi guṇa-maya-bhogeṣv asaṅga-kṛta iti nopalabhyate tathāsya guṇa-saṅga evādir iti nopalabhyate| tasya pratiṣṭhā cānātmany ātmābhimāna-rūpam ajñānam iti nopalabhyate| pratitiṣṭhaty asminn eveti hy ajñānam evāsya pratiṣṭhā| enam ukta-prakāraṁ suvirūḍha-mūlaṁ suṣṭhu vividhaṁ rūḍha-mūlam aśvatthaṁ samyag-jñāna-mūlena dṛḍhena guṇa-maya-bhogāsaṅgākhyena śastreṇa chittvā tato viṣayāsaṅgād hetos tat padaṁ parimārgitavyam anveṣaṇīyāṁ yasmin gatā bhūyo na nivartante|
Link copiedkatham anādi-kāla-pravṛtto guṇa-maya-bhoga-saṅgas tan-mūlaṁ ca viparīta-jñānaṁ nivartate ity atrāha--- ajñānādi-nivṛttaye tam eva cādyaṁ kṛtsnasyādi-bhūtam| mayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram [gītā 9.10], ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate [gītā 10.8], mattaḥ parataraṁ nānyat kiñcid asti dhanañjaya [gītā 7.7] ity ādiṣūktam| ādyaṁ puruṣam eva śaraṇaṁ prapadye tam eva śaraṇaṁ prapadyeta| yato yasmāt kṛtsnasya sraṣṭur iyaṁ guṇa-maya-bhoga-saṅga-pravṛttiḥ purāṇī purātanī prasṛtā| uktaṁ hi mayaiva pūrvam etat---
Link copieddaivī hy eṣā guṇa-mayī mama māyā duratyayā|
Link copiedmām eva ye prapadyante māyām etāṁ taranti te|| [gītā 7.14] iti|
Link copied
prapadye yataḥ pravṛttir iti vā pāṭhaḥ| tam eva cādyaṁ puruṣaṁ prapadya śaraṇam upagamya| yato'jñāna-nivṛtty-ādeḥ kṛtsnasyaitasya sādhana-bhūtā pravṛttiḥ purāṇī purātanī prasṛtā| purātanānāṁ mumukṣūṇāṁ pravṛttiḥ purāṇī| purātanā hi mumukṣavo mām eva śaraṇam upagamya nirmukta-bandhāḥ sañjātā ity arthaḥ||15.3-4||
Link copiednirmāna-mohā jita-saṅga-doṣā
Link copiedadhyātma-nityā vinivṛtta-kāmāḥ|
Link copieddvandvair vimuktāḥ sukha-duḥkha-saṁjñair
Link copiedgacchanty amūḍhāḥ padam avyayaṁ tat||5||
Link copiedevaṁ māṁ śaraṇam upagamya nirmāna-mohāḥ| nirgatānātmātmābhimāna-rūpa-mohāḥ| jita-saṅga-doṣāḥ| jita-guṇa-maya-bhoga-saṅgākhya-doṣāḥ| adhyātma-nityā ātmani yaj jñānaṁ tad adhyātmam ātma-dhyāna-niratāḥ| vinivṛtta-tad-itara-kāmāḥ| sukha-duḥkha-saṁjñair dvandvaiś ca vimuktā amūḍhāḥ ātmānātma-svabhāva-jñās tad avyayaṁ padaṁ gacchanty anavacchinna-jñānākāram ātmānaṁ yathāvasthitaṁ prāpnuvanti| māṁ śaraṇam upāgatānāṁ mat-prasādād eva tāḥ sarvāḥ pravṛttayaḥ suśakyāḥ siddhi-paryantā bhavantīty arthaḥ||15.5||
Link copiedna tad bhāsayate sūryo na śaśāṅko na pāvakaḥ|
Link copiedyad gatvā na nivartante tad dhāma paramaṁ mama||6||
Link copiedtad ātma-jyotir na sūryo bhāsayate na śaśāṅko na pāvakaś ca| jñānam eva hi sarvasya prakāśakam| bāhyāni tu jyotīṁṣi viṣayendriya-sambandha-virodhi-tamo-nirasana-dvāreṇa upakārakāṇi| asya ca prakāśako yogas tad-virodhi cānādi-karma, tan-nivartanaṁ coktaṁ bhagavat-prapatti-mūlam asaṅgādi yad gatvā punar na nivartante tat paramaṁ dhāma paramaṁ jyotir mama madīyaṁ mad-vibhūti-bhūto mamāṁśa ity arthaḥ| ādityādīnām api prakāśakatvena tasya paramatvam| ādityādīni hi jyotīṁṣi na jñāna-jyotiṣaḥ prakāśakāni, jñānam eva hi sarvasya prakāśakam||15.6||
Link copiedmamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ|
Link copiedmanaḥ-ṣaṣṭhānīndriyāṇi prakṛti-sthāni karṣati||7||
Link copiedittham ukta-svarūpaḥ sanātano mamāṁśa eva san kaścid anādi-karma-rūpāvidyāveṣṭana-tirohita-svarūpo jīva-bhūto jīva-loke vartamāno deva-manuṣyādi-prakṛti-pariṇāma-viśeṣa-śarīra-sthāni manaḥ-ṣaṣṭhānīndriyāṇi karṣati| kaścit ca pūrvokta-mārgeṇāsyā avidyāyā muktaḥ svena rūpeṇāvatiṣṭhate| jīva-bhūtas tv atisaṅkucita-jñānaiśvaryaḥ karma-labdha-prakṛti-pariṇāma-viśeṣa-rūpa-śarīra-sthānām indriyāṇāṁ manaḥ-ṣaṣṭhānām īśvaras tāni karmānuguṇam itas tataḥ karṣati||15.7||
Link copiedśarīraṁ yad avāpnoti yac cāpy utkrāmatīśvaraḥ|
Link copiedgṛhītvaitāni saṁyāti vāyur gandhān ivāśayāt||8||
Link copiedyat śarīram avāpnoti, yasmāt śarīrād utkrāmati, tatrāyam indriyāṇām īśvaraḥ etāni indriyāṇi bhūta-sūkṣmaiḥ saha gṛhītvā saṁyāti| vāyuḥ gandhān iva āśayāt| yathā vāyuḥ srak-candana-kastūrikādy-āśayāt tat-sthānāt sūkṣmāvayavaiḥ saha gandhān gṛhītvā anyatra saṁyāti tadvad ity arthaḥ||15.8||
Link copiedkāni punas tānīndriyāṇi| ity āha---
Link copiedśrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇam eva ca|
Link copiedadhiṣṭhāya manaś cāyaṁ viṣayān upasevate||9||
Link copiedetāni manaḥ-ṣaṣṭhānīndriyāṇy adhiṣṭhāya sva-sva-viṣaya-vṛtty-anuguṇāni kṛtvā tān śabdādīn viṣayān upasevate upabhuṅkte||15.9||
Link copiedutkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam|
Link copiedvimūḍhā nānupaśyanti paśyanti jñāna-cakṣuṣaḥ||10||
Link copiedevaṁ guṇānvitaṁ sattvādi-guṇa-maya-prakṛti-pariṇāma-viśeṣa-manuṣyatvādi saṁsthāna-piṇḍa-saṁsṛṣṭaṁ piṇḍa-viśeṣād utkrāmantaṁ piṇḍa-viśeṣe'vasthitaṁ vā guṇa-mayān viṣayān bhuñjānaṁ vā kadācid api prakṛti-pariṇāma-viśeṣa-manuṣyatvādi-piṇḍād vilakṣaṇaṁ jñānaikākāraṁ vimūḍhā nānupaśyanti| vimūḍhā manuṣyatvādi-piṇḍātmābhimāninaḥ|
Link copiedjñāna-cakṣuṣas tu piṇḍātma-viveka-viṣaya-jñānavantaḥ sarvāvastham apy enaṁ viviktākāram eva paśyanti||15.10||
Link copiedyatanto yoginaś cainaṁ paśyanty ātmany avasthitam|
Link copiedyatanto'py akṛtātmāno nainaṁ paśyanty acetasaḥ||11||
Link copiedmat-prapatti-pūrvakaṁ karma-yogādiṣu yatamānās tair nirmalāntaḥ-karaṇā yogino yogākhyena cakṣuṣātmani śarīre'vasthitam api śarīrād viviktaṁ svena rūpeṇāvasthitam enaṁ paśyanti| yatamānā apy akṛtātmāno mat-prapatti-virahiṇas tata evāsaṁskṛta-manasas tata evācetasa ātmāvalokana-samarthaś ceto-rahitā nainaṁ paśyanti||15.11||
Link copiedevaṁ ravi-candrāgnīnām indriya-sannikarṣa-virodhi-santamasa-nirasana-mukhena indriyānugrāhakatayā prakāśakānāṁ jyotiṣmatām api prakāśakaṁ jñāna-jyotir ātmā muktāvastho jīvāvasthaś ca bhagavad-vibhūtir ity uktaṁ tad dhāma paramaṁ mama [gītā 15.6], mamaivāṁśo jīva-loke jīva-bhūtaḥ sanātanaḥ [gītā 15.7] iti| idānīm acit-pariṇāma-viśeṣa-bhūtam ādityādīnāṁ jyotiṣmatāṁ jyotir api bhagavad-vibhūtir ity āha---
Link copiedyad āditya-gataṁ tejo jagad bhāsayate'khilam|
Link copiedyac candramasi yac cāgnau tat tejo viddhi māmakam||12||
Link copiedakhilasya jagato bhāsakam eteṣām ādityādīnāṁ yat tejas tan madīyaṁ tejas tais tair ārādhitena mayā tebhyo dattam iti viddhi||15.12||
Link copiedpṛthivyāś ca bhūta-dhāriṇyā dhārakatva-śaktir madīyā ity āha---
Link copiedgām āviśya ca bhūtāni dhārayāmy aham ojasā|
Link copiedpuṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ||13||
Link copiedahaṁ pṛthivīm āviśya sarvāṇi bhūtāni ojasā mamāpratihata-sāmarthyena dhārayāmi| tathāham amṛta-rasa-mayaḥ somo bhūtvā sarvoṣadhīḥ puṣṇāmi||15.13||
Link copiedahaṁ vaiśvānaro bhūtvā prāṇināṁ deham āśritaḥ|
Link copiedprāṇāpāna-samāyuktaḥ pacāmy annaṁ catur-vidham||14||
Link copiedahaṁ vaiśvānaro jāṭharānalo bhūtvā sarveṣāṁ prāṇināṁ deham āśritas tair bhuktaṁ khādya-coṣya-lehya-peyātmakaṁ caturvidham annaṁ prāṇāpāna-vṛtti-bheda-samāyuktaḥ pacāmi||15.14||
Link copiedatra parama-puruṣa-vibhūti-bhūtau soma-vaiśvānarau ahaṁ somo bhūtvā vaiśvānaro bhūtvā iti tat-sāmānādhikaraṇyena nirdiṣṭau| tayoś ca sarvasya bhūta-jātasya ca parama-puruṣa-sāmānādhikaraṇya-nirdeśe hetum āha---
Link copiedsarvasya cāhaṁ hṛdi sanniviṣṭo
Link copiedmattaḥ smṛtir jñānam apohanaṁ ca|
Link copiedvedaiś ca sarvair aham eva vedyo
Link copiedvedānta-kṛd veda-vid eva cāham||15||
Link copiedtayoḥ soma-vaiśvānarayoḥ sarvasya bhūta-jātasya ca sakala-pravṛtti-nivṛtti-mūla-jñānodaya-deśe hṛdi sarvaṁ mat-saṅkalpena niyacchan aham ātmatayā sanniviṣṭaḥ| tathā āhuḥ śrutayaḥ--- antaḥ-praviṣṭaḥ śāstā janānāṁ sarvātmā [tai.ā. 3.11], yaḥ pṛthivyāṁ tiṣṭhan [bṛ.ā.u. 3.7.3], ya ātmani tiṣṭhann ātmano'ntaro yamayati [bṛ.ā.u. 3.7.22], padma-kośa-pratīkāśaṁ hṛdayaṁ cāpy adho-mukham [tai.nā 11], atha yad idam asmin brahma-pure daharaṁ puṇḍārīkaṁ veśma [chā.u. 8.1.1] ity ādyāḥ| smṛtayaś ca--- śāstā viṣṇur aśeṣasya jagato yo jagan-mayaḥ [vi.pu. 1.17.20], praśāsitāraṁ sarveṣām aṇīyāṁsam aṇīyasām [manu 12.122], yamo vaivasvato rājā yas tavaiṣa hṛdi sthitaḥ [manu 8.92] ity ādyāḥ|
Link copiedato matta eva sarveṣāṁ smṛtir jāyate, smṛtiḥ pūrvānubhūta-viṣayam anubhava-saṁskāra-mātra-jaṁ jñānam| jñānam indriya-liṅgāgam ayogajo vastu-niścayaḥ, so'pi mattaḥ| apohanaṁ ca| apohanaṁ jñāna-nivṛttiḥ| apohanam ūhanaṁ vā ūhanam ūhaḥ| ūho nāma idaṁ pramāṇam itthaṁ pravartitum arhatīti pramāṇa-pravṛtty-arhatā-viṣayaṁ sāmagryādi-nirūpaṇa-janyaṁ pramāṇānugrāhakaṁ jñānam| ūho nāma vitarkaḥ, sa ca matta eva|
Link copiedvedaiś ca sarvaiḥ aham eva vedyaḥ| ato'gni-vāyu-sūrya-somendrādīnāṁ mad-antaryāmikatvena mad-ātmakatvāt tat-pratipādana-parair api sarvair vedair aham eva vedyaḥ, deva-manuṣyādi-śabdair jīvātmā iva| vedānta-kṛd vedānām indraṁ yajet [ŚatBr 5.1.6], varuṇaṁ yajeta [ŚatBr 2.3.37] ity evam ādīnām antaḥ phalaṁ phale hi te sarve vedāḥ paryavasyanti, anta-kṛt phala-kṛt, vedodita-phalasya pradātā cāham evety arthaḥ| tad uktaṁ pūrvam eva--- yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati [gītā 7.21] ity ārabhya labhate ca tataḥ kāmān mayaiva vihitān hi tān [gītā 7.22] iti| ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca [gītā 9.24] iti ca|
Link copiedveda-vid eva cāham| veda-vic cāham eva, evaṁ mad-abhidhāyinaṁ vedam aham eva veda| ito'nyathā yo vedārthaṁ brūte, na sa veda-vid ity abhiprāyaḥ||15.15||
Link copiedato matta eva sarva-vedānāṁ sāra-bhūtam arthaṁ sṛṇu---
Link copieddvāv imau puruṣau loke kṣaraś cākṣara eva ca|
Link copiedkṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate||16||
Link copiedkṣaraś cākṣara eva ca iti dvāv imau puruṣau loke prathitau| tatra kṣara-śabda-nirdiṣṭaḥ puruṣo jīva-śabdābhilapanīya-brahmādi-stamba-paryanta-kṣaraṇa-svabhāvācit-saṁsṛṣṭa-sarva-bhūtāni| atrācit-saṅga-rūpaikopadhinā puruṣa ity ekatva-nirdeśaḥ| akṣara-śabda-nirdiṣṭaḥ kūṭasthaḥ, acit-saṁsarga-viyuktaḥ, svena rūpeṇāvasthito muktātmā| sa tv acit-saṁsargābhāvād acit-pariṇāma-viśeṣa-brahmādi-deha-sādhāraṇo na bhavatīti kūṭastha ity ucyate| atrāpi ekatva-nirdeśo'cid-viyoga-rūpaikopādhinābhihitaḥ| na hītaḥ pūrvam anādau kāle mukta eka eva| yathoktam--- bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ [gītā 4.10] mama sādharmyam āgatāḥ| sarge'pi nopajāyante pralaye na vyathanti ca [gītā 14.2] iti||15.16||
Link copieduttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ|
Link copiedyo loka-trayam āviśya bibharty avyaya īśvaraḥ||17||
Link copieduttamaḥ puruṣas tu tābhyāṁ kṣarākṣara-śabda-nirdiṣṭābhyāṁ baddha-mukta-puruṣābhyām anyo'rthāntara-bhūtaḥ paramātmety udāhṛtaḥ| sarvāsu śrutiṣu paramātmeti nirdeśād eva hy uttamaḥ puruṣo baddha-mukta-puruṣābhyām arthāntara-bhūta ity avagamyate| katham| yo loka-trayam āviśya bibharti| lokyata iti lokas tat trayaṁ loka-trayam acetanaṁ tat-saṁsṛṣṭaś cetano muktaś ceti pramāṇāvagamyam etat trayaṁ ya ātmatayāviśya bibharti, sa tasmād vyāpyād bhartavyāc cārthāntara-bhūtaḥ|
Link copieditaś coktāl loka-trayād arthāntara-bhūtaḥ| yataḥ so'vyaya īśvaraś ca| avyaya-svabhāvo hi vyaya-svabhāvād acetanāt tat-sambandhena tad-anusāriṇaś ca cetanād acit-sambandha-yogyatā pūrva-sambandhino muktāc cārthāntara-bhūta eva, tathaitasya loka-trayasyeśvara īśitavyāt tasmād arthāntara-bhūtaḥ||15.17||
Link copiedyasmāt kṣaram atīto'ham akṣarād api cottamaḥ|
Link copiedato'smi loke vede ca prathitaḥ puruṣottamaḥ||18||
Link copiedyasmād evam uktaiḥ svabhāvaiḥ kṣaraṁ puruṣam atīto'ham, akṣarān muktād apy uktair hetubhir utkṛṣṭatamaḥ, ato'haṁ loke vede ca puruṣottama iti prathito'smi| vedārthāvalokanāl loka iti smṛtir ihocyate| śrutau smṛtau cety arthaḥ| śrutau tāvat--- paraṁ jyoti-rūpaṁ sampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ [chā.u. 8.12.3] ity ādau| smṛtav apy aṁśāvatāraṁ puruṣottamasya hy anādi-madhyāntam ajasya viṣṇoḥ [vi.pu. 5.17.33] ity ādau||15.18||
Link copiedyo mām evam asaṁmūḍho jānāti puruṣottamam|
Link copiedsa sarva-vid bhajati māṁ sarva-bhāvena bhārata||19||
Link copiedya evam uktena prakāreṇa puruṣottamaṁ mām asaṁmūḍho jānāti, kṣarākṣara-puruṣābhyām avyaya-svabhāvatayā vyāpana-bharaṇaiśvaryādi-yogena ca visajātīyaṁ jānāti, sa sarva-vin mat-prāpty-upāyatayā yad veditavyaṁ tat sarvaṁ veda| bhajati māṁ sarva-bhāvena ye ca mat-prāpty-upāyatayā mad-bhajana-prakārā nirdiṣṭas taiś ca sarvair bhajana-prakārair māṁ bhajate| sarvair mad-viṣayair vedanair mama yā prītir yā ca mama sarvair mad-viṣayair bhajanair ubhaya-vidhā sā prītir anena vedanena mama jāyate||15.19||
Link copiedity etat puruṣottamatva-vedanaṁ pūjayati|
Link copiediti guhyatamaṁ śāstram idam uktaṁ mayānagha|
Link copiedetad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata||20||
Link copieditthaṁ mama puruṣottamatva-pratipādanaṁ sarveṣāṁ guhyānāṁ guhyatamam idaṁ śāstraṁ tvam anaghatayā yogyatama iti kṛtvā mayā tava uktam| etad buddhvā buddhimān syāt kṛta-kṛtyaś ca māṁ prepsunopādeyā yā buddhiḥ sā sarvā upāttā syāt| yac ca tena kartavyam, tac ca sarvaṁ kṛtaṁ syād ity arthaḥ| anena ślokenānantaroktaṁ puruṣottama-viṣayaṁ jñānaṁ śāstra-janyam evaitat sarvaṁ karoti| na tu sākṣāt-kāra-rūpam ity ucyate||15.20||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye pañcadaśo'dhyāyaḥ||15||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 15 — The Way to the Supreme Person (in Sanskrit: puruṣottama-yoga)
A modern English rendering of A. Govindacharya's 1898 translation of Bhagavad Ramanuja's Gita Bhashya.
Link copiedIntroduction
In Lecture XIII, the distinction between matter and soul as kṣetra and kṣetrajña was expounded, and it was shown that the pure and infinitely conscious soul's association with matter — represented by the bodies of deva, man, and so on, and brought about by its attachment for ages to the guṇas — is beginningless.
Link copiedIn Lecture XIV the points were: (1) that this association with matter — in its subtle and manifest forms — results from the soul's attachment to matter's qualities and arises by the decree of the Blessed Lord Himself; (2) the manner in which this association is formed; and (3) that the method by which to surmount these qualities and realize soul-nature is loving devotion to the Blessed Lord.
Link copiedIn this Lecture (XV) it will be shown how the Blessed Lord's sovereign glory of the universe is constituted of kṣara — transient bound souls — and akṣara — souls freed for eternity — and how from this twofold kṣara–akṣara the Lord differs, being the Supreme Person (puruṣottama), supreme beyond description, endowed with glorious attributes, and free from all evil.
Link copiedFor the elucidation of this truth, the Blessed Lord takes the aśvattha tree as the symbol, to represent the evolved material universe as a bondage keeping the kṣara souls in bondage, and as one which the souls ought to cut down — so that the kṣara souls may escape from bondage and become the akṣara souls of His glorious scheme. This freedom from the tree of saṃsāra is to be effected by cutting it asunder with the weapon of non-attachment.
Link copiedVerses 1–3 (The Tree of Samsara)
Verse 15.1. "With root above and branches below, they speak of an aśvattha tree, indestructible, of which the leaves are the Vedas. Whoso knows this, knows the Vedas."
Link copiedSaṃsāra is emblematized as the aśvattha tree, with root above and branches below. Its indestructible (avyaya) nature is declared by śrutis: "Having root above and branches below, this aśvattha is primeval." (Kaṭha VI.1)
Link copiedThe tree has its root above, since the four-faced Brahmā (the demiurge of the brahmāṇḍa) is seated above the seven worlds. It has branches below since on earth are its denizens: men, animals, worms, insects, plants.
Link copiedIt is indestructible, never-ending like a ceaseless stream, or a tree that cannot be felled, until the dawn of spiritual illumination which weans one from material clingings.
Link copiedChandāṃsi — the śrutis, the Vedas — are said to be the tree's leaves, since the tree of saṃsāra flourishes in proportion to the performance of kāmya-karmas (works performed for material fruit) enjoined by the śrutis, such as: "He who desires riches shall sacrifice a white victim for Vāyu-deva" (Taittirīya-saṃhitā V.1.1); "He who desires offspring shall oblate to Indra-Agni." (Taittirīya-saṃhitā II.2.1). Leaves preserve trees.
Link copiedWhoever knows this tree is the knower of the Vedas, for the Vedas teach the way to fell it.
Link copiedVerse 15.1b. "Below as well as above, its branches spread, nourished by the guṇas; its sprouts are the sense-objects."
Link copiedThe branches ramify downwards in the forms of men and animals arising from karma, and upwards as gandharvas, yakṣas, devas. The branches are nourished by the guṇas (sattva and the rest). Its sprouts are the objects of the senses.
Link copiedVerse 15.2. "Below, in the world of men, its karma-bound rootlets stretch."
Link copiedWith its root in Brahmā-loka and the branch-ends in the world of men, it has its rootlets again in the world of men. These rootlets are caused by karma (works). Works performed in the human state are the roots from which the states of man, animal, and even deva arise.
Link copiedVerse 15.2b. "Its shape as such, its end, its beginning, and its source are not here understood."
Link copiedBy people immersed in saṃsāra, the shape of this tree is not understood — with root above (where Brahmā is), branches spreading downward to man, and branches again ramifying up and down according to karmas performed in the state of man. They perceive only: "I am man," "I am the son of Devadatta," "I am the father of Yajñadatta," and occupy themselves with relations appropriate to these.
Link copiedThey perceive not that an end can be put to the tree by weaning themselves from guṇa-generated enjoyments; nor its beginning in the connection with the guṇas; nor its source in avidyā (unwisdom) — the delusion of mistaking the non-self for the self.
Link copiedPratiṣṭhā (source): the seat in which all this want of perception is fixed, namely ajñāna itself.
Link copiedVerses 3–5 (Cutting the Tree and Seeking Refuge)
Verses 15.3–3b. "Having by the mighty weapon of non-attachment hewn down this firm-rooted aśvattha, then is that state to be sought after, reaching which they return not again."
Link copiedThe aśvattha tree has its diverse roots widely spreading below. The strong weapon is non-attachment (asaṅga) for guṇa-saturated enjoyments — a weapon furnished by ripe spiritual enlightenment.
Link copiedCleaving the tree by this weapon, detachment from sense-delights is produced, followed by a search for that high spiritual state from which, once attained, there is no falling back.
Link copiedHow will this attachment — persisting for so long — depart? And its cause, viparīta-jñāna (perverted understanding)?
Link copiedVerse 15.4. "Let the Primal Puruṣa alone be sought as the Refuge — He from Whom the ancient stream has proceeded."
Link copiedHe is Primal — the Beginning of everything, as declared: "By Me the Presider, matter begets all the mobiles and immobiles" (IX.10); "I am the origin of all; from Me operates everything" (X.8); "Naught whatsoever higher than I, the Primal Puruṣa, exists, O Dhanañjaya" (VII.6½). Let Him therefore be sought as Refuge, since all old material instincts in the shape of attachment for guṇa-charged enjoyments proceed from Him, the all-Creator.
Link copiedI Myself have already declared: "Verily is this My divine māyā, guṇa-full, hard to surmount. Those who resort to Me alone as their Refuge do pass this māyā." (VII.14)
Link copied(A variant reading yields: by the mere step taken — of having taken Him as Refuge — all those spiritual instincts of old will awaken in the seeker. "Old" because they are the instincts of the ancient mokṣa-seekers, who sought Me alone as their Asylum and became released from bondage.)
Link copiedVerse 15.5. "That enduring state only those enlightened reach who are rid of love for the non-self — those victors over the evils of attachment, the soul-absorbed, the weaned from lusts, the freed from the 'pairs' of joys and griefs."
Link copiedAttaining to Me as their Shelter, they become rid of such illusions as love of the non-self. They conquer the evils of attachment to guṇa-impregnate enjoyments. Adhyātma-nityāḥ: engrossed in soul-knowledge — the soul-absorbed. Lust-weaned: from whom all appetites save the one for the soul have departed. They become delivered from the pairs of opposites — joys and griefs. Enlightened: ripe in the wisdom of the distinction between soul-nature and non-soul nature. Avyayam padam (the enduring state): the realization of the true nature of ātman in its unbounded-intelligence state.
Link copiedTo those who claim Me as their Saviour, all these stages are effected through My sole agency; the path is easily traversed to perfection.
Link copiedVerses 6–11 (The Supreme Light and the Soul in the World)
Verse 15.6. "That which the sun illumines not, nor the moon, nor fire — that, My supreme light, going whence they return not."
Link copiedThe ātman-light no sun can illuminate, nor the moon, nor fire; for intelligence itself is what gives light to all. External luminaries only scatter the obscurity between sense and object. What reveals the ātman is yoga.
Link copiedThat light supreme is Mine — a portion (aṃśa) of My splendour. Its supremacy consists in its efficiency to light up even the sun — for the lights of sun and the rest cannot illumine the light of intelligence; intelligence alone illumines all.
Link copiedVerse 15.7. "This portion of Myself — ancient — is the life-entity in this world of life; it attracts to itself the matter-seated senses (five) with manas as the sixth."
Link copiedThis ātman of the aforesaid nature, ancient and eternal, constituting a portion of Myself, yet becomes enmeshed in the immemorial nescience of karma and becomes a life-entity, attracting the five senses and manas situated in matter and fashioned into specific shapes as deva, man, and the like. But when it treads the path laid down (XV.4–5), it frees itself from avidyā and reasserts its native soul-nature.
Link copiedVerse 15.8. "Whichever body the lord (soul) enters or quits, it takes them (the senses) and goes, like the wind the odour from its seat."
Link copiedWhatever body is entered into or departed from, the lord of the senses (the soul) always takes the senses with him — as also the essences of the elements — like the wind abstracting scents from flowers, sandal, or musk, and carrying them elsewhere.
Link copiedVerse 15.9. "Presiding over hearing, sight, touch, taste, and smell, and manas, the soul enjoys sense-objects."
Link copiedRuling these senses as they are fitted to function, the soul enjoys their appropriate objects — sound and the rest.
Link copiedVerse 15.10. "The unenlightened perceive not the guṇa-conjoined quitter, dweller, enjoyer; but they perceive — the wisdom-eyed."
Link copiedVimūḍhāḥ (the unenlightened): those who fancy the corporeal configuration, the man and the rest, to be the soul; these perceive not the soul itself — which is bound into the conditions of man and other matter-moulded forms, which quits or abides in such forms, which enjoys guṇa-sated sense-objects, which is essentially intelligent.
Link copiedJñāna-cakṣuṣaḥ (the wisdom-eyed): those enlightened as to how ātman-nature differs from body-forms. They perceive the ātman in its essential nature wherever it may dwell.
Link copiedVerse 15.11. "And the persisting yogis perceive him who dwells in the body; but if they be of mind unrefined and impotent, they perceive him not in spite of their effort."
Link copiedThe persistence is the effort of yogis in the paths of karma and the rest, undertaken after resorting to Me. Their culture purifies their inner nature, and with the eye of yoga, they perceive the true nature of the ātman abiding in the body as distinct from the body. But if their effort is destitute of confidence and trust in Me, their inner nature remains unrefined, they are impotent, incapacitated for ātman-vision, and perceive not.
Link copiedVerses 12–15 (The Lord's Cosmic Glory)
After affirming that both the state of liberated souls — described as the light of intelligence lighting up even the sun, moon, and fire — and the state of bound souls are constituent features of bhagavān's manifested cosmic glory (XV.6, 7), it is now declared that even the lights of those luminaries are a part of bhagavān's glory.
Link copiedVerse 15.12. "Know that light in the sun which lights up all the cosmos, that in the moon, and that in fire, as Mine."
Link copiedAll the lights of the sun and the rest which illumine the worlds are Mine — light granted them by Me in answer to the worship they severally paid to Me.
Link copiedVerse 15.12b. "Interpenetrating the earth, I by My vigour support creatures."
Link copiedGām: earth; ojas: irresistible vigour. Entering into the earth, I support all creatures.
Link copiedVerse 15.13. "And becoming the juicy moon, I nourish all the plants."
Link copiedSimilarly, I become the moon full of the essence (rasa) of ambrosia and nourish the growth of plants.
Link copiedVerse 15.14. "Becoming vaiśvānara, I take possession of the bodies of living creatures, and joined with prāṇa and apāna, I digest the fourfold food."
Link copiedVaiśvānara: the digesting heat in the stomach. Joined with the vital breaths, I digest the four kinds of food — that which is chewed (khādya), sucked (coṣya), licked (lehya), and drunk (peya).
Link copiedVerse 15.15. "Verily I am enshrined in the hearts of all; from Me comes memory, wisdom, and their loss. I, by all the Vedas, am to be known; I am the Maker of the ends of the Vedas; and I am the Veda-knower."
Link copiedAs their Soul, ruling by My will, I am seated in the hearts of the moon, fire, and all beings — the heart being the centre from which all intelligence radiates. The śrutis aver this: "Penetrating the interior, the all-Soul directs all creatures" (Taittirīya-āraṇyaka III.11); "Who, seated in the earth... who, seated in the soul, guides the soul from within" (Bṛhadāraṇyaka V.7). Also: "Viṣṇu is the Judge of all the universe; He permeates and directs the minutiae of the minutest things" (Viṣṇu-purāṇa).
Link copiedHence, from Me to all comes memory (smṛti) — the consciousness of past experience — and wisdom (jñāna) — right knowledge accruing from perception, inference, scripture, and meditation. Also from Me is apohana — the loss of wisdom — or (reading ohana) the conjectural power of hypothesis.
Link copiedI am to be known by all the Vedas: the Vedas assert that of fire, sun, wind, moon, and Indra, I am the Soul and the Inner Guide. The terms deva and man occurring in the Vedas allude to the individual souls infilling those forms.
Link copiedVedānta-kṛt: anta means end or fruit — the fruit of performing yāgas ("sacrifice to Indra, sacrifice to Varuṇa"); all Vedas find their consummation in fruit. I am the Maker (Bestower) of that fruit — as declared: "Whatsoever form a devotee wishes in faith to worship, that faith in him I render firm" (VII.21); "He obtains his wishes thence, granted verily by Myself" (VII.22); "I am the Enjoyer of all sacrifices and the Sole Lord" (IX.24).
Link copiedI am also the Veda-knower, for I know the Veda that teaches about Myself — in that I am the Giver of the fruit. Whoever understands the Veda otherwise is no knower of it at all. Therefore learn from Myself the essence of all Veda-teaching.
Link copiedVerses 16–20 (The Supreme Person — Puruṣottama)
Verse 15.16. "Twofold are the puruṣas (souls) in the world, the kṣara and the akṣara. The kṣara is the sum of all bound beings; the akṣara is the constant."
Link copiedTwo kinds of souls are known: kṣara (the perishable) and akṣara (the imperishable).
Link copiedThe soul designated kṣara is the jīva — the sum of matter-tied creatures from Brahmā down to a blade of grass — of momentarily enduring existences. The singular term "soul" denotes the totality of all creatures by virtue of their common condition of being matter-wedded.
Link copiedBy akṣara — the constant, the imperishable, the freed soul, detached from matter's connections and in its own essential nature — is denoted. It is called kūṭastha (constant) because, once exempted from matter, it forms no further connection with bodies like Brahmā's — which are modifications of matter-stuff. The singular is a collective term denoting the totality of souls whose common characteristic is being matter-free. It does not mean there is but a single liberated soul, for many are declared: "Many, purified by wisdom-meditation, have come to My state" (IV.10); "They are neither born at creation nor suffer at dissolution" (XIV.2).
Link copiedVerse 15.17. "But the Soul Paramount is another, who is proclaimed as paramātman, the Infinite, the King, who penetrates and sustains the three worlds."
Link copiedThere is a Supreme Soul different from both kṣara and akṣara — conditioned and freed souls. That Spirit is declared as a distinct postulate in all the śrutis. The very epithet paramātman (the Supreme Soul) shows Him as a distinct verity other than bound and freed souls. Why? Because He penetrates the three worlds and sustains them.
Link copiedLoka (world) — three in number: (1) the inanimate world (acetana), (2) the animate world conjoined with the inanimate (baddha-cetana), and (3) the freed souls (mukta). He — the Spirit Paramount — permeates and sustains all three. Because these are worlds permeated and sustained by Him, He is a Principle distinct from them. Also because He is Infinite and King — only the Infinite can be distinct from the finite-natured acetana, the souls conjoined to it, and the liberated once conjoined; only a King can be distinct from those He holds sway over.
Link copiedVerse 15.18. "Since I surpass the kṣara and even excel the akṣara, I am reputed as puruṣottama both in the smṛtis and the Vedas."
Link copiedBecause, for the reasons stated, I am beyond the kṣara soul and transcend even the akṣara — the mukta — I am renowned as puruṣottama, the Sublimest Puruṣa. Loka here means smṛti (by reason of its seeing the meanings of the Vedas). So, as puruṣottama, I am famous in both smṛtis and Vedas.
Link copiedŚruti: "Reaching the Sublime Light, the soul resuscitates in its own nature. He is the Person Supremest." (Chāndogya VIII.12.3)
Link copiedSmṛti: "Verily the incarnate portion of puruṣottama, of Viṣṇu, who is without beginning, middle, or end." (Viṣṇu-purāṇa V.17.33)
Link copiedVerse 15.19. "Thus, whoever wise man, O Bhārata, knows Me as the puruṣottama, knows all and serves Me in every manner."
Link copiedWhoever has grown wise and knows Me as puruṣottama — as the distinct from kṣara and akṣara, as the Infinite, the Pervader, Sustainer, Sovereign — knows all: whatever is to be known as the means to attain Me. He serves Me in every manner: whatever ways of service have been prescribed, he serves Me by all of them. By knowing Me as puruṣottama, he may assure himself of My love — such as is gainable by all other kinds of service.
Link copiedVerse 15.20. "Thus this most occult science is unfolded by Me, O Sinless One. Knowing it, O Bhārata, one shall become wise and shall have accomplished all his work."
Link copiedConsidering you worthy, this secret of all secret sciences — the revelation of the puruṣottama-aspect of Myself — has been divulged. He who knows this shall have acquired every wisdom which one who aspires to reach Me ought to possess. He shall have accomplished every act of duty expected of him.
Link copiedThis stanza informs us that the puruṣottama-knowledge — learnt from śāstra — is alone sufficient to accomplish what is stated here (becoming wise, and so on); no direct vision of puruṣottama is demanded as a prerequisite for growth of spiritual wisdom.
Link copiedOṃ tat sat.
Link copiedThus closes the fifteenth discourse, named Puruṣottama-Yoga, or the Way to the Supreme Person, with Sri Ramanuja's commentary thereon, between Sri Krishna and Sri Arjuna, in the science of yoga, in the theosophy of the Upaniṣads.
Link copied