Bhagavad Gita Bhashya · Section 15 of 19
atha guṇa-traya-vibhāga-yogo nāma caturdaśo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
त्रयोदशे प्रकृति-पुरुषयोर् अन्योन्य-सꣳसृष्टयोः स्वरूप-याथात्म्यꣳ विज्ञायामानित्वादिभिर् भगवद्-भक्त्य्-अनुगृहीतैर् बन्धान् मुच्यत इत्य् उक्तम्। तत्र बन्ध-हेतुः पूर्व-पूर्व-सत्त्वादि-गुण-मय-सुखादि-सङ्ग इति चाभिहितꣳ कारणꣳ गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु [गीता १३।२२] इति। अथेदानीꣳ गुणानाꣳ बन्ध-हेतुता-प्रकारो गुण-निवर्तन-प्रकारश् चोच्यते---
Link copiedपरꣳ भूयः प्रवक्ष्यामि ज्ञानानाꣳ ज्ञानम् उत्तमम्।
Link copiedयज् ज्ञात्वा मुनयः सर्वे पराꣳ सिद्धिम् इतो गताः॥१॥
Link copiedपरꣳ पूर्वोक्ताद् अन्यत् प्रकृति-पुरुषान्तर्-गतम् एव सत्त्वादि-गुण-विषयꣳ ज्ञानꣳ भूयः प्रवक्ष्यामि। तच् च ज्ञानꣳ सर्वेषाꣳ प्रकृति-पुरुष-विषय-ज्ञानानाम् उत्तमम्। यज् ज्ञानꣳ ज्ञात्वा सर्वे मुनयस् तन्-मनन-शीला इतः सꣳसार-मण्डालात् पराꣳ सिद्धिꣳ गताः परिशुद्धात्म-स्वरूप-प्राप्ति-रूपाꣳ सिद्धिम् अवाप्ताः॥१४।१॥
Link copiedपुनर् अपि तज् ज्ञानꣳ फलेन विशिनष्टि---
Link copiedइदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः।
Link copiedसर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥२॥
Link copiedइदꣳ वक्ष्यमाणꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगता मत्-साम्यꣳ प्राप्ताः। सर्गेऽपि नोपजायन्ते न सृजि-कर्मताꣳ भजन्ते। प्रलये न व्यथन्ति च, न च सꣳहृति-कर्मताꣳ भजन्ते॥१४।२॥
Link copiedअथ प्राकृतानाꣳ गुणानाꣳ बन्ध-हेतुता-प्रकारꣳ वक्तुꣳ सर्वस्य भूत-जातस्य प्रकृति-पुरुष-सꣳसर्गजत्वꣳ यावत् सञ्जायते किञ्चित् [१३।२६] इत्य् अनेनोक्तꣳ भगवता स्वेनैव कृतम् इत्य् आह---
Link copiedमम योनिर् महद् ब्रह्म तस्मिन् गर्भꣳ दधाम्य् अहम्।
Link copiedसम्भवः सर्व-भूतानाꣳ ततो भवति भारत॥३॥
Link copiedमम मदीयꣳ कृत्स्नस्य जगतो योनि-भूतꣳ महद् ब्रह्म यत् तस्मिन् गर्भꣳ दधाम्य् अहम्।
Link copiedभूमिर् आपोऽनलो वायुः खꣳ मनो बुद्धिर् एव च।
Link copiedअहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा॥
Link copied
अपेरयम् [७।४-५]
Link copiedइति निर्दिष्ट-चेतना प्रकृतिर् महद्-अहङ्कारादि-विकाराणाꣳ कारणतया महद् ब्रह्म इत्य् उच्यते। श्रुतव् अपि क्वचित् प्रकृतिर् अपि ब्रह्म इति निर्दिश्यते। यः सर्वज्ञः सर्व-वित्, यस्य ज्ञान-मयꣳ तपः, तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नꣳ च जायते [मु।उ। १।१।९] इति।
Link copiedइतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम्। जीव-भूताम् [७।५] इति चेतनपुज-रूपा या प्रकृति। निर्दिष्ट, सा इह सकल-प्राणि-बीजतया गर्भ-शब्देनोच्यते। तस्मिन् अचेतने योनि-भूते महति ब्रह्मणि चेतन-पुञ्ज-रूपꣳ गर्भꣳ दधामि। अचेतन-प्रकृत्या भोग-क्षेत्र-भूतया भोक्तृ-वर्ग-पुञ्ज-भूताꣳ चेतन-प्रकृतिꣳ सꣳयोजयामीत्य् अर्थः। ततस् तस्मात् प्रकृति-द्वय-सꣳयोगान् मत्-सङ्कल्प-कृतात् सर्व-भूतानाꣳ ब्रह्मादि-स्तम्ब-पर्यन्तानाꣳ सम्भवो भवति॥१४।३॥
Link copiedकार्यावस्थोऽपि चिद्-अचित्-प्रकृति-सꣳसर्गो मयैव कृतः इत्य् आह---
Link copiedसर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।
Link copiedतासाꣳ ब्रह्म महद् योनिर् अहꣳ बीज-प्रदः पिता॥४॥
Link copiedसर्वासु देव-गन्धर्व-यक्ष-राक्षस-मनुष्य-पशु-मृग-पक्षि-सरीसृपादिषु योनिषु तत्-तन्-मूर्तयो याः सम्भवन्ति जायन्ते तासाꣳ ब्रह्म महद् योनिः कारणꣳ मया सꣳयोजित-चेतन-वर्गा महद्-आदि-विशेषान्तावस्था प्रकृतिः कारणम् इत्य् अर्थः। अहꣳ बीज-प्रदः पिता तत्र तत्र च तत्-तत्-कर्मानुगुण्येन चेतन-वर्गस्य सꣳयोजकश् चाहम् इत्य् अर्थः॥१४।४॥
Link copiedएवꣳ सर्गादौ प्राचिन-कर्म-वशाद् अचित्-सꣳसर्गेण देवादि-योनिषु जातानाꣳ पुनः पुनर् देवादि-भावेन जन्म-हेतुम् आह---
Link copiedसत्त्वꣳ रजस् तम इति गुणाः प्रकृति-सम्भवाः।
Link copiedनिबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम्॥५॥
Link copiedसत्त्व-रजस्-तमाꣳसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभाव-विशेषाः प्रकाशादि-कार्यैक-निरूपणीयाः। प्रकृत्य्-अवस्थायाम् अनुद्भूतास् तद्-विकारेषु महद्-आदिषूद्भूताः। महद्-आदि-विशेषान्तैर् आरब्ध-देव-मनुष्यादि-देह-सम्बन्धिनम् एनꣳ देहिनम् अव्ययꣳ स्वतो गुण-सम्बन्धानर्हꣳ देहे वर्तमानꣳ निबध्नन्ति देहे वर्तमानत्वोपाधिना निबध्नन्तीत्य् अर्थः॥१४।५॥
Link copiedसत्त्व-रजस्-तमसाम् आकारꣳ बन्धन-प्रकारꣳ चाह---
Link copiedतत्र सत्त्वꣳ निर्मलत्वात् प्रकाशकम् अनामयम्।
Link copiedसुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ॥६॥
Link copiedतत्र सत्त्व-रजस्-तमःसु सत्त्वस्य स्वरूपम् ईदृशꣳ निर्मलत्वात् प्रकाशकम्। प्रकाश-सुखावरण-स्वभाव-रहितता निर्मलत्वम्। प्रकाश-सुख-जननैकान्त-स्वभावतया प्रकाश-सुख-हेतु-भूतम् इत्य् अर्थः। प्रकाशो वस्तु-याथात्म्यावबोधः। अनामयम् आमयाख्य-कार्यꣳ न विद्यते, इत्य् अनामयम् अरोगता-हेतुर् इत्य् अर्थः। एष सत्त्वाख्य-गुणो देहिनम् एनꣳ सुख-सङ्गेन ज्ञान-सङ्गेन च बध्नाति, पुरुषस्य सुख-सङ्गꣳ ज्ञान-सङ्गꣳ च जनयतीत्य् अर्थः। ज्ञान-सुखयोः सङ्गे हि जाते तत्-साधनेषु लौकिक-वैदिकेषु प्रवर्तते। ततश् च तत्-फलानुभव-साधन-भूतासु योनिषु जायते। इति सत्त्वꣳ सुख-ज्ञान-सङ्ग-द्वारेण पुरुषꣳ बध्नाति। ज्ञान-सुख-जननꣳ पुनर् अपि तयोः सङ्ग-जननꣳ च सत्त्वम् इत्य् उक्तꣳ भवति॥१४।६॥
Link copiedरजो रागात्मकꣳ विद्धि तृष्णासङ्ग-समुद्भवम्।
Link copiedतन् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम्॥७॥
Link copiedरजो रागात्मकꣳ राग-हेतु-भूतम्। रागो योषित्-पुरुषयोर् अन्योन्य-स्पृहा। तृष्णासङ्ग-समुद्भवꣳ तृष्णासङ्गयोर् उद्भव-स्थानꣳ तृष्णासङ्ग-हेतु-भूतम् इत्य् अर्थः। तृष्णा शब्दादि-सर्व-विषय-स्पृहा। सङ्गः पुत्र-मित्रादिषु सम्बन्धिषु सꣳश्लेष-स्पृहा। तथा देहिनꣳ कर्मसु क्रियासु स्पृहा-जनन-द्वारेण निबध्नाति। क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश् च पुण्य-पाप-रूपा इति तत्-फलानुभव-साधन-भूतासु योनिषु जन्म-हेतवो भवन्ति, अतः कर्म-सङ्ग-द्वारेण रजो देहिनꣳ निबध्नाति। तद् एवꣳ रजो राग-तृष्णा-सङ्ग-हेतुः कर्म-सङ्ग-हेतुश् चेत्य् उक्तꣳ भवति॥१४।७॥
Link copiedतमस् त्व् अज्ञान-जꣳ विद्धि मोहनꣳ सर्व-देहिनाम्।
Link copiedप्रमादालस्य-निद्राभिस् तन् निबध्नाति भारत॥८॥
Link copiedज्ञानाद् अन्यद् इह्आज्ञानम् अभिप्रेतम्। ज्ञानꣳ वस्तु-याथात्म्यावबोधः, तस्माद् अन्यत् तद्-विपर्यय-ज्ञानꣳ तमस् तु वस्तु-याथात्म्य-विपरीत-विषय-ज्ञान-जꣳ मोहनꣳ सर्व-देहिनाम्। मोहो विपर्यय-ज्ञानम्, विपर्यय-ज्ञान-हेतुर् इत्य् अर्थः। तत् तमः प्रमादालस्य-निद्रा-हेतुतया तद्-द्वारेण देहिनꣳ निबध्नाति। प्रमादः कर्तव्यात् कर्मणोऽन्यत्र प्रवृत्ति-हेतु-भूतम् अनवधानम्। आलस्यꣳ कर्मस्व् अनारम्भ-स्वभावः, स्तब्धता इति यावत्। पुरुषस्येन्द्रिय-प्रवर्तन-श्रान्त्या सर्वेन्द्रिय-प्रवर्तनोपरतिर् निद्रा। तत्र बाह्येन्द्रिय-प्रवर्तनोपरमः स्वप्नः। मनसोऽप्य् उपरतिः सुषुप्तिः॥१४।८॥
Link copiedसत्त्वादीनाꣳ बन्ध-द्वार-भूतेषु प्रधानान्य् आह---
Link copiedसत्त्वꣳ सुखे सञ्जयति रजः कर्मणि भारत।
Link copiedज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयत्य् उत॥९॥
Link copiedसत्त्वꣳ सुख-सङ्ग-प्रधानम्, रजः कर्म-सङ्ग-प्रधानम्, तमस् तु वस्तु-याथात्म्य-ज्ञानम् आवृत्य विपरीत-ज्ञान-हेतुतया कर्तव्य-विपरीत-प्रवृत्ति-सङ्ग-प्रधानम्॥१४।९॥
Link copiedदेहाकार-परिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः। ते च स्वरूपानु-सम्बन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्पर-विरुद्धꣳ कार्यꣳ कथꣳ जनयन्तीत्य् अत्राह---
Link copiedरजस् तमश् चाभिभूय सत्त्वꣳ भवति भारत।
Link copiedरजः सत्त्वꣳ तमश् चैव तमः सत्त्वꣳ रजस् तथा॥१०॥
Link copiedयद्यपि सत्त्वादयस् त्रयः प्रकृति-सꣳसृष्टात्म-स्वरूपानुबन्धिनः, तथापि प्राचीन-कर्म-वशाद् देहाप्यायन-भूताहार-वैषम्याच् च सत्त्वादयः परस्पर-समुद्भवाभिभव-रूपेण वर्तन्ते। रजस्-तमसी कदाचिद् अभिभूय सत्त्वम् उद्रिक्तꣳ वर्तते। तथा तमः-सत्त्वेऽभिभूय रजः कदाचित्। कदाचित् च रजः-सत्त्वेऽभिभूय तमः॥१४।१०॥
Link copiedतच् च कार्योपलब्ध्यैवावगच्छेद् इत्य् आह---
Link copiedसर्व-द्वारेषु देहेऽस्मिन् प्रकाश उपजायते।
Link copiedज्ञानꣳ यदा तदा विद्याद् विवृद्धꣳ सत्त्वम् इत्य् उत॥११॥
Link copiedसर्वेषु चक्षुर्-आदिषु ज्ञान-द्वारेषु यदा वस्तु-याथात्म्य-प्रकाशे ज्ञानम् उपजायते, तदा अस्मिन् देहे सत्त्वꣳ प्रवृद्धम् इति विद्यात्॥१४।११॥
Link copiedलोभः प्रवृत्तिर् आरम्भः कर्मणाम् अशमः स्पृहा।
Link copiedरजस्य् एतानि जायन्ते विवृद्धे भरतर्षभ॥१२॥
Link copiedलोभः स्वकीय-द्रव्यस्यात्याग-शीलता। प्रवृत्तिः प्रयोजनम् अनुद्दिश्यापि चलन-स्वभावता। आरम्भः कर्मणाꣳ फल-साधन-भूतानाꣳ कर्मणाम् आरम्भे उद्योगः। अशमः इन्द्रियानुपरतिः। स्पृहा विषयेच्छा। एतानि रजसि प्रवृद्धे जायन्ते। यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धम् इति विद्याद् इत्य् अर्थः॥१४।१२॥
Link copiedअप्रकाशोऽप्रवृत्तिश् च प्रमादो मोह एव च।
Link copiedतमस्य् एतानि जायन्ते विवृद्धे कुरु-नन्दन॥१३॥
Link copiedअप्रकाशः ज्ञानानुदयः। अप्रवृत्तिश् च स्तब्धता। प्रमादोऽकार्य-प्रवृत्ति-फलम् अनवधानम्। मोहो विपरीत-ज्ञानम्। एतानि तमसि प्रवृद्धे जायन्ते। एतैस् तमः प्रवृद्धम् इति विद्यात्॥१४।१३॥
Link copiedयदा सत्त्वे प्रवृद्धे तु प्रलयꣳ याति देह-भृत्।
Link copiedतदोत्तम-विदाꣳ लोकान् अमलान् प्रतिपद्यते॥१४॥
Link copiedयदा सत्त्वꣳ प्रवृद्धꣳ तदा सत्त्वे प्रवृद्धे देह-भृत् प्रलयꣳ मरणꣳ याति चेद् उत्तम-विदाम् उत्तम-तत्त्व-विदाम् आत्म-याथात्म्य-विदाꣳ लोकान् समूहान् अमलान् मल-रहितान् अज्ञान-रहितान् प्रतिपद्यते प्राप्नोति। सत्त्वे प्रवृद्धे तु मृत आत्म-विदाꣳ कुलेषु जनित्वात्म-याथात्म्य-ज्ञान-साधनेषु पुण्य-कर्मस्व् अधिकरोतीत्य् उक्तꣳ भवति॥१४।१४॥
Link copiedरजसि प्रलयꣳ गत्वा कर्म-सङ्गिषु जायते।
Link copiedतथा प्रलीनस् तमसि मूढ-योनिषु जायते॥१५॥
Link copiedरजसि प्रवृद्धे मरणꣳ प्राप्य फलार्थꣳ कर्म कुर्वताꣳ कुलेषु जायते। तत्र जनित्वा स्वर्गादि-फल-साधन-कर्मस्व् अधिकरोतीत्य् अर्थः। तथा तमसि प्रवृद्धे मृतो मूढ-योनिषु श्व-सूकरादि-योनिषु जायते। सकल-पुरुषार्थारम्भानर्हो जायत इत्य् अर्थः॥१४।१५॥
Link copiedकर्मणः सुकृतस्याहुः सात्त्विकꣳ निर्मलꣳ फलम्।
Link copiedरजसस् तु फलꣳ दुःखम् अज्ञानꣳ तमसः फलम्॥१६॥
Link copiedएवꣳ सत्त्व-वृद्धौ मरणम् उपगम्यात्म-विदाꣳ कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धि-रहितस्य मद्-आराधन-रूपस्य कर्मणः फलꣳ पुनर् अपि ततो ऽधिक-सत्त्व-जनितꣳ निर्मलꣳ दुःख-गन्ध-रहितꣳ भवतीत्य् आहुः सत्त्व-गुण-परिणाम-विदः। अन्त्य-काल-प्रवृद्धस्य रजसस् तु फलꣳ फल-साधन-कर्म-सङ्गि-कुले जन्म, फलाभिसन्धि-पूर्वक-कर्मारम्भ-तत्-फलानुभव-पुनर्-जन्म-रजो-वृद्धि-फलाभिसन्धि-पूर्वक-कर्मारम्भ-परम्परा-रूपꣳ साꣳसारिकꣳ दुख-प्रायम् एव इत्य् आहुस् तद्-गुण-याथात्म्य-विदः। अज्ञानꣳ तमसः फलम्। एवम् अन्त-काल-प्रवृद्धस्य तमसः फलम् अज्ञान-परम्परा-रूपम्॥१४।१६॥
Link copiedतद् अधिक-सत्त्वादि-जनितꣳ निर्मलादि-फलꣳ किम् इत्य् अत्राह---
Link copiedसत्त्वात् सञ्जायते ज्ञानꣳ रजसो लोभ एव च।
Link copiedप्रमाद-मोहौ तमसो भवतोऽज्ञानम् एव च॥१७॥
Link copiedएवꣳ परम्परया जाताद् अधिकसत्त्वाद् आत्म-याथात्म्यापरोक्षरूपꣳ ज्ञानꣳ जायते। तथा प्रवृद्धाद् रजसः स्वर्गादिफललोभः जायते। तथा प्रवृद्धाच् च तमसः प्रमादोऽनवधाननिमित्तासत्कर्मणि प्रवृत्तः, ततश् च मोहो विपरीतज्ञानम्, ततश् चाधिकतरꣳ तमः, ततश् चाज्ञानꣳ ज्ञानाभावः॥१४।१७॥
Link copiedऊर्ध्वꣳ गच्छन्ति सत्त्व-स्था मध्ये तिष्ठन्ति राजसाः।
Link copiedजघन्य-गुण-वृत्त-स्था अधो गच्छन्ति तामसाः॥१८॥
Link copiedएवम् उक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वꣳ गच्छन्ति क्रमेण सꣳसार-बन्धात् मोक्षꣳ गच्छन्ति। रजसः स्वर्गादिफललोभकरत्वाद् राजसाः फलसाधनभूतꣳ कर्मानुष्ठाय तत्-फलम् अनुभूय पुनर् अपि जनित्वा तद्-अपेक्षितꣳ कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति, पुनर्-आवृत्तिरूपतया दुःखप्रायम् एव तत्।
Link copiedतामसास् तु जघन्यगुणवृत्ति-स्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति। अन्त्यजत्वम्, ततस् तिर्यक्त्वम्, ततः कृमिकीटदिजन्म ततः स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश् च शिलाकाष्ठलोष्टतृणादित्वꣳ गच्छन्तीत्य् अर्थः॥१४।१८॥
Link copiedआहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश् च परम्परया प्रवङ्धतसत्त्वानाꣳ गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारम् आह---
Link copiedनान्यꣳ गुणेभ्यः कर्तारꣳ यदा द्रष्टानुपश्यति।
Link copiedगुणेभ्यश् च परꣳ वेत्ति मद्-भावꣳ सोऽधिगच्छति॥१९॥
Link copiedएवꣳ सात्त्विकाहार-सेवया फलाभिसन्धि-रहित-भगवद्-आराधन-रूप-कर्मानुष्ठानैश् च रजस्-तमसी सर्वात्मनाभिभूय उत्कृष्ट-सत्त्व-निष्ठो यदायꣳ द्रष्टा गुणेभ्योऽन्यꣳ कर्तारꣳ नानुपश्यति। गुणा एव स्वानुगुण-प्रवृत्तिषु कर्तार इति पश्यति, गुणेभ्यश् च परꣳ वेत्ति, कर्तृभ्यो गुणेभ्यश् च परम् अन्यम् आत्मानम् अकर्तारꣳ वेत्ति, समद्-भावम् अधिगच्छति, मम यो भावस् तम् अधिगच्छति। एतद् उक्तꣳ भवत्य् आत्मनः स्वतः परिशुद्ध-स्वभावस्य पूर्व-पूर्व-कर्म-मूल-गुण-सङ्ग-निमित्तꣳ विविध-कर्मसु कर्तृत्वम्, आत्मा स्वतस् त्व् अकर्ता अपरिच्छिन्न-ज्ञानैकाकारः इत्य् एवम् आत्मानꣳ यदा पश्यति, तदा मद्-भावम् अधिगच्छतीति॥१४।१९॥
Link copiedकर्तृभ्यो गुणेभ्योऽन्यम् अकर्तारम् आत्मानꣳ पश्यन् भगवद्भावम् अधिगच्छतीत्य् उक्तम्, स भगवद्भावः कीदृशः। इत्य् अत्राह---
Link copiedगुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान्।
Link copiedजन्म-मृत्यु-जरा-दुःखैर् विमुक्तोऽमृतम् अश्नुते॥२०॥
Link copiedअयꣳ देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवान् एतान् सत्त्वादीन् त्रीन् गुणान् अतीत्य तेभ्यश् चान्यम्, ज्ञानैकाकारम् आत्मानꣳ पश्यन् जन्ममृत्युजरादुःखैः विमुक्तोऽमृतम् आत्मानम् अनुभवति एष मद्-भाव इत्य् अर्थः॥१४।२०॥
Link copiedअथ गुणातीतस्य स्वरूपसूचनाचारप्रकारꣳ गुणात्ययहेतुꣳ च पृच्छन् अर्जुन उवाच---
Link copiedकैर् लिङ्गैस् त्रीन् गुणान् एतान् अतीतो भवति प्रभो।
Link copiedकिम्-आचारः कथꣳ चैताꣳस् त्रीन् गुणान् अतिवर्तते॥२१॥
Link copiedसत्त्वादीन् त्रीन् गुणान् एतान् अतीतः कैः लिङ्गैः कैः लक्षणैर् उपलक्षितो भवति किमाचारः केन आचारेण युक्तोऽसौ। अस्य स्वरूपावगतेः लिङ्गभूताचारः कीदृशः इत्य् अर्थः। कथꣳ च एतान् केनोपायेन सत्त्वादीन् त्रीन् गुणान् अतिवर्तते॥।१४।२१॥
Link copiedश्री-भगवान् उवाच
Link copiedप्रकाशꣳ च प्रवृत्तिꣳ च मोहम् एव च पाण्डव।
Link copiedन द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२॥
Link copiedआत्म-व्यतिरिक्तेषु वस्तुष्व् अनिष्टेषु सम्प्रवृत्तानि सत्त्व-रजस्-तमसाꣳ कार्याणि प्रकाश-प्रवृत्ति-मोहाख्यानि यो न द्वेष्टि, तथात्म-व्यतिरिक्तेष्व् इष्टेषु वस्तुषु तान्य् एव निवृत्तानि न काङ्क्षति॥१४।२२॥
Link copiedउदासीनवद् आसीनो गुणैर् यो न विचाल्यते।
Link copiedगुणा वर्तन्त इत्य् एव योऽवतिष्ठति नेङ्गते॥२३॥
Link copiedउदासीनवद् आसीनो गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्र उदासीनवद् आसीनः गुणैर् द्वेषाकाङ्क्षाद्वारेण यो न विचाल्यते, गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्ते इत्य् अनुसन्धाय यस् तूष्णीम् अवतिष्ठते, न इङ्गते न गुणकार्यानुगुणꣳ चेष्टते॥१४।२३॥
Link copiedसम-दुःख-सुखः स्वस्थः सम-लोष्टाश्म-काञ्चनः।
Link copiedतुल्य-प्रियाप्रियो धीरस् तुल्य-निन्दात्म-सꣳस्तुतिः॥२४॥
Link copiedमानापमानयोस् तुल्यस् तुल्यो मित्रारि-पक्षयोः।
Link copiedसर्वारम्भ-परित्यागी गुणातीतः स उच्यते॥२५॥
Link copiedसम-दुःख-सुखः दुःख-सुखयोः समश् चित्तः। स्वस्थः स्वस्मिन् स्थितः स्वात्मैक-प्रियत्वेन तद्-व्यतिरिक्त-पुत्रादि-जन्म-मरणादि-सुख-दुःखयोः सम-चित्त इत्य् अर्थः। तत एव सम-लोष्टाश्म-काञ्चनः। तत एव च तुल्य-प्रियाप्रियस् तुल्य-प्रियाप्रिय-विषयः। धीरः प्रकृत्य्-आत्म-विवेक-कुशलः। तत एव तुल्य-निन्दात्म-सꣳस्तुतिः। आत्मनि मनुष्यत्वाद्य्-अभिमान-कृत-गुणागुण-निमित्त-स्तुति-निन्दयोः स्व-सम्बन्धानु-सन्धानेन तुल्य-चित्तः। तत्-प्रयुक्त-मानापमानयोस् तत्-प्रयुक्त-मित्रारि-पक्षयोर् अपि स्व-सम्बन्धाभावाद् एव तुल्य-चित्तः। तथा देहित्व-प्रयुक्त-सर्वारम्भ-परित्यागी। य एवꣳ-भूतः स गुणातीत उच्यते॥१४।२४-२५॥
Link copiedअथ एवꣳ रूप-गुणात्यये प्रधान-हेतुम् आह---
Link copiedमाꣳ च योऽव्यभिचारेण भक्ति-योगेन सेवते।
Link copiedस गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते॥२६॥
Link copiedनान्यꣳ गुणेभ्यः कर्तारम् [१४।१९] इत्य्-आदिनोक्तेन प्रकृत्य्-आत्म-विवेकानुसन्धान-मात्रेण न गुणात्ययः सम्पत्स्यते, तस्यानादि-काल-प्रवृत्त-विपरीत-वासना-बाध्यत्व-सम्भवात्। माꣳ सत्य-सङ्कल्पꣳ परम-कारुणिकम् आश्रित-वात्सल्य-जलधिम् अव्यभिचारेण ऐकान्त्य-विशिष्टेन भक्ति-योगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययान् अतीत्य ब्रह्म-भूयाय ब्रह्मत्वाय कल्पते ब्रह्म-भाव-योग्यो भवति। यथावस्थितम् आत्मानम् अमृतम् अव्ययꣳ प्राप्नोतीत्य् अर्थः॥१४।२६॥
Link copiedब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च।
Link copiedशाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥
Link copiedहि शब्दो हेतौ। यस्माद् अहम् अव्यभिचारि-भक्ति-योगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयित-नित्यैश्वर्यस्यैकान्तिकस्य सुखस्य च वासुदेवः सर्वम् [८।९] इत्य् आदिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्य् अर्थः। यद्यपि शाश्वत-धर्म-शब्दः प्रापक-वचनः, तथापि पूर्वोत्तरयोः प्राप्य-रूपत्वेन तत्-साहचर्याद् अयम् अपि प्राप्य-लक्षकः।
Link copiedएतद् उक्तꣳ भवति पूर्वत्र--- दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया। माम् एव ये प्रपद्यन्ते [७।१४] इत्य् आरभ्य गुणात्ययस्य तत्-पूर्वकाक्षरैश्वर्य-भगवत्-प्राप्तीनाꣳ च भगवत्-प्रपत्त्य्-एकोपायतायाः प्रतिपादितत्वाद् एकान्त-भगवत्-प्रपत्त्य्-एकोपायो गुणात्ययस् तत्-पूर्वक-ब्रह्मानुभवश् चेति॥१४।२७॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये चतुर्दशोऽध्यायः॥१४॥
Link copiedత్రయోదశే ప్రకృతి-పురుషయోర్ అన్యోన్య-సṁసృష్టయోః స్వరూప-యాథాత్మ్యṁ విజ్ఞాయామానిత్వాదిభిర్ భగవద్-భక్త్య్-అనుగృహీతైర్ బన్ధాన్ ముచ్యత ఇత్య్ ఉక్తమ్। తత్ర బన్ధ-హేతుః పూర్వ-పూర్వ-సత్త్వాది-గుణ-మయ-సుఖాది-సఙ్గ ఇతి చాభిహితṁ కారణṁ గుణ-సఙ్గోఽస్య సద్-అసద్-యోని-జన్మసు [గీతా ౧౩।౨౨] ఇతి। అథేదానీṁ గుణానాṁ బన్ధ-హేతుతా-ప్రకారో గుణ-నివర్తన-ప్రకారశ్ చోచ్యతే---
Link copiedపరṁ భూయః ప్రవక్ష్యామి జ్ఞానానాṁ జ్ఞానమ్ ఉత్తమమ్।
Link copiedయజ్ జ్ఞాత్వా మునయః సర్వే పరాṁ సిద్ధిమ్ ఇతో గతాః॥౧॥
Link copiedపరṁ పూర్వోక్తాద్ అన్యత్ ప్రకృతి-పురుషాన్తర్-గతమ్ ఏవ సత్త్వాది-గుణ-విషయṁ జ్ఞానṁ భూయః ప్రవక్ష్యామి। తచ్ చ జ్ఞానṁ సర్వేషాṁ ప్రకృతి-పురుష-విషయ-జ్ఞానానామ్ ఉత్తమమ్। యజ్ జ్ఞానṁ జ్ఞాత్వా సర్వే మునయస్ తన్-మనన-శీలా ఇతః సṁసార-మణ్డాలాత్ పరాṁ సిద్ధిṁ గతాః పరిశుద్ధాత్మ-స్వరూప-ప్రాప్తి-రూపాṁ సిద్ధిమ్ అవాప్తాః॥౧౪।౧॥
Link copiedపునర్ అపి తజ్ జ్ఞానṁ ఫలేన విశినష్టి---
Link copiedఇదṁ జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః।
Link copiedసర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ॥౨॥
Link copiedఇదṁ వక్ష్యమాణṁ జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతా మత్-సామ్యṁ ప్రాప్తాః। సర్గేఽపి నోపజాయన్తే న సృజి-కర్మతాṁ భజన్తే। ప్రలయే న వ్యథన్తి చ, న చ సṁహృతి-కర్మతాṁ భజన్తే॥౧౪।౨॥
Link copiedఅథ ప్రాకృతానాṁ గుణానాṁ బన్ధ-హేతుతా-ప్రకారṁ వక్తుṁ సర్వస్య భూత-జాతస్య ప్రకృతి-పురుష-సṁసర్గజత్వṁ యావత్ సఞ్జాయతే కిఞ్చిత్ [౧౩।౨౬] ఇత్య్ అనేనోక్తṁ భగవతా స్వేనైవ కృతమ్ ఇత్య్ ఆహ---
Link copiedమమ యోనిర్ మహద్ బ్రహ్మ తస్మిన్ గర్భṁ దధామ్య్ అహమ్।
Link copiedసమ్భవః సర్వ-భూతానాṁ తతో భవతి భారత॥౩॥
Link copiedమమ మదీయṁ కృత్స్నస్య జగతో యోని-భూతṁ మహద్ బ్రహ్మ యత్ తస్మిన్ గర్భṁ దధామ్య్ అహమ్।
Link copiedభూమిర్ ఆపోఽనలో వాయుః ఖṁ మనో బుద్ధిర్ ఏవ చ।
Link copiedఅహఙ్కార ఇతీయṁ మే భిన్నా ప్రకృతిర్ అష్టధా॥
Link copied
అపేరయమ్ [౭।౪-౫]
Link copiedఇతి నిర్దిష్ట-చేతనా ప్రకృతిర్ మహద్-అహఙ్కారాది-వికారాణాṁ కారణతయా మహద్ బ్రహ్మ ఇత్య్ ఉచ్యతే। శ్రుతవ్ అపి క్వచిత్ ప్రకృతిర్ అపి బ్రహ్మ ఇతి నిర్దిశ్యతే। యః సర్వజ్ఞః సర్వ-విత్, యస్య జ్ఞాన-మయṁ తపః, తస్మాద్ ఏతద్ బ్రహ్మ నామ-రూపమ్ అన్నṁ చ జాయతే [ము।ఉ। ౧।౧।౯] ఇతి।
Link copiedఇతస్ త్వ్ అన్యాṁ ప్రకృతిṁ విద్ధి మే పరామ్। జీవ-భూతామ్ [౭।౫] ఇతి చేతనపుజ-రూపా యా ప్రకృతి। నిర్దిష్ట, సా ఇహ సకల-ప్రాణి-బీజతయా గర్భ-శబ్దేనోచ్యతే। తస్మిన్ అచేతనే యోని-భూతే మహతి బ్రహ్మణి చేతన-పుఞ్జ-రూపṁ గర్భṁ దధామి। అచేతన-ప్రకృత్యా భోగ-క్షేత్ర-భూతయా భోక్తృ-వర్గ-పుఞ్జ-భూతాṁ చేతన-ప్రకృతిṁ సṁయోజయామీత్య్ అర్థః। తతస్ తస్మాత్ ప్రకృతి-ద్వయ-సṁయోగాన్ మత్-సఙ్కల్ప-కృతాత్ సర్వ-భూతానాṁ బ్రహ్మాది-స్తమ్బ-పర్యన్తానాṁ సమ్భవో భవతి॥౧౪।౩॥
Link copiedకార్యావస్థోఽపి చిద్-అచిత్-ప్రకృతి-సṁసర్గో మయైవ కృతః ఇత్య్ ఆహ---
Link copiedసర్వ-యోనిషు కౌన్తేయ మూర్తయః సమ్భవన్తి యాః।
Link copiedతాసాṁ బ్రహ్మ మహద్ యోనిర్ అహṁ బీజ-ప్రదః పితా॥౪॥
Link copiedసర్వాసు దేవ-గన్ధర్వ-యక్ష-రాక్షస-మనుష్య-పశు-మృగ-పక్షి-సరీసృపాదిషు యోనిషు తత్-తన్-మూర్తయో యాః సమ్భవన్తి జాయన్తే తాసాṁ బ్రహ్మ మహద్ యోనిః కారణṁ మయా సṁయోజిత-చేతన-వర్గా మహద్-ఆది-విశేషాన్తావస్థా ప్రకృతిః కారణమ్ ఇత్య్ అర్థః। అహṁ బీజ-ప్రదః పితా తత్ర తత్ర చ తత్-తత్-కర్మానుగుణ్యేన చేతన-వర్గస్య సṁయోజకశ్ చాహమ్ ఇత్య్ అర్థః॥౧౪।౪॥
Link copiedఏవṁ సర్గాదౌ ప్రాచిన-కర్మ-వశాద్ అచిత్-సṁసర్గేణ దేవాది-యోనిషు జాతానాṁ పునః పునర్ దేవాది-భావేన జన్మ-హేతుమ్ ఆహ---
Link copiedసత్త్వṁ రజస్ తమ ఇతి గుణాః ప్రకృతి-సమ్భవాః।
Link copiedనిబధ్నన్తి మహా-బాహో దేహే దేహినమ్ అవ్యయమ్॥౫॥
Link copiedసత్త్వ-రజస్-తమాṁసి త్రయో గుణాః ప్రకృతేః స్వరూపానుబన్ధినః స్వభావ-విశేషాః ప్రకాశాది-కార్యైక-నిరూపణీయాః। ప్రకృత్య్-అవస్థాయామ్ అనుద్భూతాస్ తద్-వికారేషు మహద్-ఆదిషూద్భూతాః। మహద్-ఆది-విశేషాన్తైర్ ఆరబ్ధ-దేవ-మనుష్యాది-దేహ-సమ్బన్ధినమ్ ఏనṁ దేహినమ్ అవ్యయṁ స్వతో గుణ-సమ్బన్ధానర్హṁ దేహే వర్తమానṁ నిబధ్నన్తి దేహే వర్తమానత్వోపాధినా నిబధ్నన్తీత్య్ అర్థః॥౧౪।౫॥
Link copiedసత్త్వ-రజస్-తమసామ్ ఆకారṁ బన్ధన-ప్రకారṁ చాహ---
Link copiedతత్ర సత్త్వṁ నిర్మలత్వాత్ ప్రకాశకమ్ అనామయమ్।
Link copiedసుఖ-సఙ్గేన బధ్నాతి జ్ఞాన-సఙ్గేన చానఘ॥౬॥
Link copiedతత్ర సత్త్వ-రజస్-తమఃసు సత్త్వస్య స్వరూపమ్ ఈదృశṁ నిర్మలత్వాత్ ప్రకాశకమ్। ప్రకాశ-సుఖావరణ-స్వభావ-రహితతా నిర్మలత్వమ్। ప్రకాశ-సుఖ-జననైకాన్త-స్వభావతయా ప్రకాశ-సుఖ-హేతు-భూతమ్ ఇత్య్ అర్థః। ప్రకాశో వస్తు-యాథాత్మ్యావబోధః। అనామయమ్ ఆమయాఖ్య-కార్యṁ న విద్యతే, ఇత్య్ అనామయమ్ అరోగతా-హేతుర్ ఇత్య్ అర్థః। ఏష సత్త్వాఖ్య-గుణో దేహినమ్ ఏనṁ సుఖ-సఙ్గేన జ్ఞాన-సఙ్గేన చ బధ్నాతి, పురుషస్య సుఖ-సఙ్గṁ జ్ఞాన-సఙ్గṁ చ జనయతీత్య్ అర్థః। జ్ఞాన-సుఖయోః సఙ్గే హి జాతే తత్-సాధనేషు లౌకిక-వైదికేషు ప్రవర్తతే। తతశ్ చ తత్-ఫలానుభవ-సాధన-భూతాసు యోనిషు జాయతే। ఇతి సత్త్వṁ సుఖ-జ్ఞాన-సఙ్గ-ద్వారేణ పురుషṁ బధ్నాతి। జ్ఞాన-సుఖ-జననṁ పునర్ అపి తయోః సఙ్గ-జననṁ చ సత్త్వమ్ ఇత్య్ ఉక్తṁ భవతి॥౧౪।౬॥
Link copiedరజో రాగాత్మకṁ విద్ధి తృష్ణాసఙ్గ-సముద్భవమ్।
Link copiedతన్ నిబధ్నాతి కౌన్తేయ కర్మ-సఙ్గేన దేహినమ్॥౭॥
Link copiedరజో రాగాత్మకṁ రాగ-హేతు-భూతమ్। రాగో యోషిత్-పురుషయోర్ అన్యోన్య-స్పృహా। తృష్ణాసఙ్గ-సముద్భవṁ తృష్ణాసఙ్గయోర్ ఉద్భవ-స్థానṁ తృష్ణాసఙ్గ-హేతు-భూతమ్ ఇత్య్ అర్థః। తృష్ణా శబ్దాది-సర్వ-విషయ-స్పృహా। సఙ్గః పుత్ర-మిత్రాదిషు సమ్బన్ధిషు సṁశ్లేష-స్పృహా। తథా దేహినṁ కర్మసు క్రియాసు స్పృహా-జనన-ద్వారేణ నిబధ్నాతి। క్రియాసు హి స్పృహయా యాః క్రియా ఆరభతే దేహీ, తాశ్ చ పుణ్య-పాప-రూపా ఇతి తత్-ఫలానుభవ-సాధన-భూతాసు యోనిషు జన్మ-హేతవో భవన్తి, అతః కర్మ-సఙ్గ-ద్వారేణ రజో దేహినṁ నిబధ్నాతి। తద్ ఏవṁ రజో రాగ-తృష్ణా-సఙ్గ-హేతుః కర్మ-సఙ్గ-హేతుశ్ చేత్య్ ఉక్తṁ భవతి॥౧౪।౭॥
Link copiedతమస్ త్వ్ అజ్ఞాన-జṁ విద్ధి మోహనṁ సర్వ-దేహినామ్।
Link copiedప్రమాదాలస్య-నిద్రాభిస్ తన్ నిబధ్నాతి భారత॥౮॥
Link copiedజ్ఞానాద్ అన్యద్ ఇహ్ఆజ్ఞానమ్ అభిప్రేతమ్। జ్ఞానṁ వస్తు-యాథాత్మ్యావబోధః, తస్మాద్ అన్యత్ తద్-విపర్యయ-జ్ఞానṁ తమస్ తు వస్తు-యాథాత్మ్య-విపరీత-విషయ-జ్ఞాన-జṁ మోహనṁ సర్వ-దేహినామ్। మోహో విపర్యయ-జ్ఞానమ్, విపర్యయ-జ్ఞాన-హేతుర్ ఇత్య్ అర్థః। తత్ తమః ప్రమాదాలస్య-నిద్రా-హేతుతయా తద్-ద్వారేణ దేహినṁ నిబధ్నాతి। ప్రమాదః కర్తవ్యాత్ కర్మణోఽన్యత్ర ప్రవృత్తి-హేతు-భూతమ్ అనవధానమ్। ఆలస్యṁ కర్మస్వ్ అనారమ్భ-స్వభావః, స్తబ్ధతా ఇతి యావత్। పురుషస్యేన్ద్రియ-ప్రవర్తన-శ్రాన్త్యా సర్వేన్ద్రియ-ప్రవర్తనోపరతిర్ నిద్రా। తత్ర బాహ్యేన్ద్రియ-ప్రవర్తనోపరమః స్వప్నః। మనసోఽప్య్ ఉపరతిః సుషుప్తిః॥౧౪।౮॥
Link copiedసత్త్వాదీనాṁ బన్ధ-ద్వార-భూతేషు ప్రధానాన్య్ ఆహ---
Link copiedసత్త్వṁ సుఖే సఞ్జయతి రజః కర్మణి భారత।
Link copiedజ్ఞానమ్ ఆవృత్య తు తమః ప్రమాదే సఞ్జయత్య్ ఉత॥౯॥
Link copiedసత్త్వṁ సుఖ-సఙ్గ-ప్రధానమ్, రజః కర్మ-సఙ్గ-ప్రధానమ్, తమస్ తు వస్తు-యాథాత్మ్య-జ్ఞానమ్ ఆవృత్య విపరీత-జ్ఞాన-హేతుతయా కర్తవ్య-విపరీత-ప్రవృత్తి-సఙ్గ-ప్రధానమ్॥౧౪।౯॥
Link copiedదేహాకార-పరిణతాయాః ప్రకృతేః స్వరూపానుబన్ధినః సత్త్వాదయో గుణాః। తే చ స్వరూపాను-సమ్బన్ధిత్వేన సర్వదా సర్వే వర్తన్తే ఇతి పరస్పర-విరుద్ధṁ కార్యṁ కథṁ జనయన్తీత్య్ అత్రాహ---
Link copiedరజస్ తమశ్ చాభిభూయ సత్త్వṁ భవతి భారత।
Link copiedరజః సత్త్వṁ తమశ్ చైవ తమః సత్త్వṁ రజస్ తథా॥౧౦॥
Link copiedయద్యపి సత్త్వాదయస్ త్రయః ప్రకృతి-సṁసృష్టాత్మ-స్వరూపానుబన్ధినః, తథాపి ప్రాచీన-కర్మ-వశాద్ దేహాప్యాయన-భూతాహార-వైషమ్యాచ్ చ సత్త్వాదయః పరస్పర-సముద్భవాభిభవ-రూపేణ వర్తన్తే। రజస్-తమసీ కదాచిద్ అభిభూయ సత్త్వమ్ ఉద్రిక్తṁ వర్తతే। తథా తమః-సత్త్వేఽభిభూయ రజః కదాచిత్। కదాచిత్ చ రజః-సత్త్వేఽభిభూయ తమః॥౧౪।౧౦॥
Link copiedతచ్ చ కార్యోపలబ్ధ్యైవావగచ్ఛేద్ ఇత్య్ ఆహ---
Link copiedసర్వ-ద్వారేషు దేహేఽస్మిన్ ప్రకాశ ఉపజాయతే।
Link copiedజ్ఞానṁ యదా తదా విద్యాద్ వివృద్ధṁ సత్త్వమ్ ఇత్య్ ఉత॥౧౧॥
Link copiedసర్వేషు చక్షుర్-ఆదిషు జ్ఞాన-ద్వారేషు యదా వస్తు-యాథాత్మ్య-ప్రకాశే జ్ఞానమ్ ఉపజాయతే, తదా అస్మిన్ దేహే సత్త్వṁ ప్రవృద్ధమ్ ఇతి విద్యాత్॥౧౪।౧౧॥
Link copiedలోభః ప్రవృత్తిర్ ఆరమ్భః కర్మణామ్ అశమః స్పృహా।
Link copiedరజస్య్ ఏతాని జాయన్తే వివృద్ధే భరతర్షభ॥౧౨॥
Link copiedలోభః స్వకీయ-ద్రవ్యస్యాత్యాగ-శీలతా। ప్రవృత్తిః ప్రయోజనమ్ అనుద్దిశ్యాపి చలన-స్వభావతా। ఆరమ్భః కర్మణాṁ ఫల-సాధన-భూతానాṁ కర్మణామ్ ఆరమ్భే ఉద్యోగః। అశమః ఇన్ద్రియానుపరతిః। స్పృహా విషయేచ్ఛా। ఏతాని రజసి ప్రవృద్ధే జాయన్తే। యదా లోభాదయో వర్తన్తే, తదా రజః ప్రవృద్ధమ్ ఇతి విద్యాద్ ఇత్య్ అర్థః॥౧౪।౧౨॥
Link copiedఅప్రకాశోఽప్రవృత్తిశ్ చ ప్రమాదో మోహ ఏవ చ।
Link copiedతమస్య్ ఏతాని జాయన్తే వివృద్ధే కురు-నన్దన॥౧౩॥
Link copiedఅప్రకాశః జ్ఞానానుదయః। అప్రవృత్తిశ్ చ స్తబ్ధతా। ప్రమాదోఽకార్య-ప్రవృత్తి-ఫలమ్ అనవధానమ్। మోహో విపరీత-జ్ఞానమ్। ఏతాని తమసి ప్రవృద్ధే జాయన్తే। ఏతైస్ తమః ప్రవృద్ధమ్ ఇతి విద్యాత్॥౧౪।౧౩॥
Link copiedయదా సత్త్వే ప్రవృద్ధే తు ప్రలయṁ యాతి దేహ-భృత్।
Link copiedతదోత్తమ-విదాṁ లోకాన్ అమలాన్ ప్రతిపద్యతే॥౧౪॥
Link copiedయదా సత్త్వṁ ప్రవృద్ధṁ తదా సత్త్వే ప్రవృద్ధే దేహ-భృత్ ప్రలయṁ మరణṁ యాతి చేద్ ఉత్తమ-విదామ్ ఉత్తమ-తత్త్వ-విదామ్ ఆత్మ-యాథాత్మ్య-విదాṁ లోకాన్ సమూహాన్ అమలాన్ మల-రహితాన్ అజ్ఞాన-రహితాన్ ప్రతిపద్యతే ప్రాప్నోతి। సత్త్వే ప్రవృద్ధే తు మృత ఆత్మ-విదాṁ కులేషు జనిత్వాత్మ-యాథాత్మ్య-జ్ఞాన-సాధనేషు పుణ్య-కర్మస్వ్ అధికరోతీత్య్ ఉక్తṁ భవతి॥౧౪।౧౪॥
Link copiedరజసి ప్రలయṁ గత్వా కర్మ-సఙ్గిషు జాయతే।
Link copiedతథా ప్రలీనస్ తమసి మూఢ-యోనిషు జాయతే॥౧౫॥
Link copiedరజసి ప్రవృద్ధే మరణṁ ప్రాప్య ఫలార్థṁ కర్మ కుర్వతాṁ కులేషు జాయతే। తత్ర జనిత్వా స్వర్గాది-ఫల-సాధన-కర్మస్వ్ అధికరోతీత్య్ అర్థః। తథా తమసి ప్రవృద్ధే మృతో మూఢ-యోనిషు శ్వ-సూకరాది-యోనిషు జాయతే। సకల-పురుషార్థారమ్భానర్హో జాయత ఇత్య్ అర్థః॥౧౪।౧౫॥
Link copiedకర్మణః సుకృతస్యాహుః సాత్త్వికṁ నిర్మలṁ ఫలమ్।
Link copiedరజసస్ తు ఫలṁ దుఃఖమ్ అజ్ఞానṁ తమసః ఫలమ్॥౧౬॥
Link copiedఏవṁ సత్త్వ-వృద్ధౌ మరణమ్ ఉపగమ్యాత్మ-విదాṁ కులే జాతేనానుష్ఠితస్య సుకృతస్య ఫలాభిసన్ధి-రహితస్య మద్-ఆరాధన-రూపస్య కర్మణః ఫలṁ పునర్ అపి తతో ఽధిక-సత్త్వ-జనితṁ నిర్మలṁ దుఃఖ-గన్ధ-రహితṁ భవతీత్య్ ఆహుః సత్త్వ-గుణ-పరిణామ-విదః। అన్త్య-కాల-ప్రవృద్ధస్య రజసస్ తు ఫలṁ ఫల-సాధన-కర్మ-సఙ్గి-కులే జన్మ, ఫలాభిసన్ధి-పూర్వక-కర్మారమ్భ-తత్-ఫలానుభవ-పునర్-జన్మ-రజో-వృద్ధి-ఫలాభిసన్ధి-పూర్వక-కర్మారమ్భ-పరమ్పరా-రూపṁ సాṁసారికṁ దుఖ-ప్రాయమ్ ఏవ ఇత్య్ ఆహుస్ తద్-గుణ-యాథాత్మ్య-విదః। అజ్ఞానṁ తమసః ఫలమ్। ఏవమ్ అన్త-కాల-ప్రవృద్ధస్య తమసః ఫలమ్ అజ్ఞాన-పరమ్పరా-రూపమ్॥౧౪।౧౬॥
Link copiedతద్ అధిక-సత్త్వాది-జనితṁ నిర్మలాది-ఫలṁ కిమ్ ఇత్య్ అత్రాహ---
Link copiedసత్త్వాత్ సఞ్జాయతే జ్ఞానṁ రజసో లోభ ఏవ చ।
Link copiedప్రమాద-మోహౌ తమసో భవతోఽజ్ఞానమ్ ఏవ చ॥౧౭॥
Link copiedఏవṁ పరమ్పరయా జాతాద్ అధికసత్త్వాద్ ఆత్మ-యాథాత్మ్యాపరోక్షరూపṁ జ్ఞానṁ జాయతే। తథా ప్రవృద్ధాద్ రజసః స్వర్గాదిఫలలోభః జాయతే। తథా ప్రవృద్ధాచ్ చ తమసః ప్రమాదోఽనవధాననిమిత్తాసత్కర్మణి ప్రవృత్తః, తతశ్ చ మోహో విపరీతజ్ఞానమ్, తతశ్ చాధికతరṁ తమః, తతశ్ చాజ్ఞానṁ జ్ఞానాభావః॥౧౪।౧౭॥
Link copiedఊర్ధ్వṁ గచ్ఛన్తి సత్త్వ-స్థా మధ్యే తిష్ఠన్తి రాజసాః।
Link copiedజఘన్య-గుణ-వృత్త-స్థా అధో గచ్ఛన్తి తామసాః॥౧౮॥
Link copiedఏవమ్ ఉక్తేన ప్రకారేణ సత్త్వస్థా ఊర్ధ్వṁ గచ్ఛన్తి క్రమేణ సṁసార-బన్ధాత్ మోక్షṁ గచ్ఛన్తి। రజసః స్వర్గాదిఫలలోభకరత్వాద్ రాజసాః ఫలసాధనభూతṁ కర్మానుష్ఠాయ తత్-ఫలమ్ అనుభూయ పునర్ అపి జనిత్వా తద్-అపేక్షితṁ కర్మానుతిష్ఠన్తీతి మధ్యే తిష్ఠన్తి, పునర్-ఆవృత్తిరూపతయా దుఃఖప్రాయమ్ ఏవ తత్।
Link copiedతామసాస్ తు జఘన్యగుణవృత్తి-స్థా ఉత్తరోత్తరనికృష్టతమోగుణవృత్తిషు స్థితా అధో గచ్ఛన్తి। అన్త్యజత్వమ్, తతస్ తిర్యక్త్వమ్, తతః కృమికీటదిజన్మ తతః స్థావరత్వమ్, తతోఽపి గుల్మలతాత్వమ్, తతశ్ చ శిలాకాష్ఠలోష్టతృణాదిత్వṁ గచ్ఛన్తీత్య్ అర్థః॥౧౪।౧౮॥
Link copiedఆహారవిశేషైః ఫలాభిసన్ధిరహితసుకృతవిశేషైశ్ చ పరమ్పరయా ప్రవఙ్ధతసత్త్వానాṁ గుణాత్యయద్వారేణ ఊర్ధ్వగమనప్రకారమ్ ఆహ---
Link copiedనాన్యṁ గుణేభ్యః కర్తారṁ యదా ద్రష్టానుపశ్యతి।
Link copiedగుణేభ్యశ్ చ పరṁ వేత్తి మద్-భావṁ సోఽధిగచ్ఛతి॥౧౯॥
Link copiedఏవṁ సాత్త్వికాహార-సేవయా ఫలాభిసన్ధి-రహిత-భగవద్-ఆరాధన-రూప-కర్మానుష్ఠానైశ్ చ రజస్-తమసీ సర్వాత్మనాభిభూయ ఉత్కృష్ట-సత్త్వ-నిష్ఠో యదాయṁ ద్రష్టా గుణేభ్యోఽన్యṁ కర్తారṁ నానుపశ్యతి। గుణా ఏవ స్వానుగుణ-ప్రవృత్తిషు కర్తార ఇతి పశ్యతి, గుణేభ్యశ్ చ పరṁ వేత్తి, కర్తృభ్యో గుణేభ్యశ్ చ పరమ్ అన్యమ్ ఆత్మానమ్ అకర్తారṁ వేత్తి, సమద్-భావమ్ అధిగచ్ఛతి, మమ యో భావస్ తమ్ అధిగచ్ఛతి। ఏతద్ ఉక్తṁ భవత్య్ ఆత్మనః స్వతః పరిశుద్ధ-స్వభావస్య పూర్వ-పూర్వ-కర్మ-మూల-గుణ-సఙ్గ-నిమిత్తṁ వివిధ-కర్మసు కర్తృత్వమ్, ఆత్మా స్వతస్ త్వ్ అకర్తా అపరిచ్ఛిన్న-జ్ఞానైకాకారః ఇత్య్ ఏవమ్ ఆత్మానṁ యదా పశ్యతి, తదా మద్-భావమ్ అధిగచ్ఛతీతి॥౧౪।౧౯॥
Link copiedకర్తృభ్యో గుణేభ్యోఽన్యమ్ అకర్తారమ్ ఆత్మానṁ పశ్యన్ భగవద్భావమ్ అధిగచ్ఛతీత్య్ ఉక్తమ్, స భగవద్భావః కీదృశః। ఇత్య్ అత్రాహ---
Link copiedగుణాన్ ఏతాన్ అతీత్య త్రీన్ దేహీ దేహ-సముద్భవాన్।
Link copiedజన్మ-మృత్యు-జరా-దుఃఖైర్ విముక్తోఽమృతమ్ అశ్నుతే॥౨౦॥
Link copiedఅయṁ దేహీ దేహసముద్భవాన్ దేహాకారపరిణతప్రకృతిసముద్భవాన్ ఏతాన్ సత్త్వాదీన్ త్రీన్ గుణాన్ అతీత్య తేభ్యశ్ చాన్యమ్, జ్ఞానైకాకారమ్ ఆత్మానṁ పశ్యన్ జన్మమృత్యుజరాదుఃఖైః విముక్తోఽమృతమ్ ఆత్మానమ్ అనుభవతి ఏష మద్-భావ ఇత్య్ అర్థః॥౧౪।౨౦॥
Link copiedఅథ గుణాతీతస్య స్వరూపసూచనాచారప్రకారṁ గుణాత్యయహేతుṁ చ పృచ్ఛన్ అర్జున ఉవాచ---
Link copiedకైర్ లిఙ్గైస్ త్రీన్ గుణాన్ ఏతాన్ అతీతో భవతి ప్రభో।
Link copiedకిమ్-ఆచారః కథṁ చైతాṁస్ త్రీన్ గుణాన్ అతివర్తతే॥౨౧॥
Link copiedసత్త్వాదీన్ త్రీన్ గుణాన్ ఏతాన్ అతీతః కైః లిఙ్గైః కైః లక్షణైర్ ఉపలక్షితో భవతి కిమాచారః కేన ఆచారేణ యుక్తోఽసౌ। అస్య స్వరూపావగతేః లిఙ్గభూతాచారః కీదృశః ఇత్య్ అర్థః। కథṁ చ ఏతాన్ కేనోపాయేన సత్త్వాదీన్ త్రీన్ గుణాన్ అతివర్తతే॥।౧౪।౨౧॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedప్రకాశṁ చ ప్రవృత్తిṁ చ మోహమ్ ఏవ చ పాణ్డవ।
Link copiedన ద్వేష్టి సమ్ప్రవృత్తాని న నివృత్తాని కాఙ్క్షతి॥౨౨॥
Link copiedఆత్మ-వ్యతిరిక్తేషు వస్తుష్వ్ అనిష్టేషు సమ్ప్రవృత్తాని సత్త్వ-రజస్-తమసాṁ కార్యాణి ప్రకాశ-ప్రవృత్తి-మోహాఖ్యాని యో న ద్వేష్టి, తథాత్మ-వ్యతిరిక్తేష్వ్ ఇష్టేషు వస్తుషు తాన్య్ ఏవ నివృత్తాని న కాఙ్క్షతి॥౧౪।౨౨॥
Link copiedఉదాసీనవద్ ఆసీనో గుణైర్ యో న విచాల్యతే।
Link copiedగుణా వర్తన్త ఇత్య్ ఏవ యోఽవతిష్ఠతి నేఙ్గతే॥౨౩॥
Link copiedఉదాసీనవద్ ఆసీనో గుణవ్యతిరిక్తాత్మావలోకనతృప్త్యా అన్యత్ర ఉదాసీనవద్ ఆసీనః గుణైర్ ద్వేషాకాఙ్క్షాద్వారేణ యో న విచాల్యతే, గుణాః స్వేషు కార్యేషు ప్రకాశాదిషు వర్తన్తే ఇత్య్ అనుసన్ధాయ యస్ తూష్ణీమ్ అవతిష్ఠతే, న ఇఙ్గతే న గుణకార్యానుగుణṁ చేష్టతే॥౧౪।౨౩॥
Link copiedసమ-దుఃఖ-సుఖః స్వస్థః సమ-లోష్టాశ్మ-కాఞ్చనః।
Link copiedతుల్య-ప్రియాప్రియో ధీరస్ తుల్య-నిన్దాత్మ-సṁస్తుతిః॥౨౪॥
Link copiedమానాపమానయోస్ తుల్యస్ తుల్యో మిత్రారి-పక్షయోః।
Link copiedసర్వారమ్భ-పరిత్యాగీ గుణాతీతః స ఉచ్యతే॥౨౫॥
Link copiedసమ-దుఃఖ-సుఖః దుఃఖ-సుఖయోః సమశ్ చిత్తః। స్వస్థః స్వస్మిన్ స్థితః స్వాత్మైక-ప్రియత్వేన తద్-వ్యతిరిక్త-పుత్రాది-జన్మ-మరణాది-సుఖ-దుఃఖయోః సమ-చిత్త ఇత్య్ అర్థః। తత ఏవ సమ-లోష్టాశ్మ-కాఞ్చనః। తత ఏవ చ తుల్య-ప్రియాప్రియస్ తుల్య-ప్రియాప్రియ-విషయః। ధీరః ప్రకృత్య్-ఆత్మ-వివేక-కుశలః। తత ఏవ తుల్య-నిన్దాత్మ-సṁస్తుతిః। ఆత్మని మనుష్యత్వాద్య్-అభిమాన-కృత-గుణాగుణ-నిమిత్త-స్తుతి-నిన్దయోః స్వ-సమ్బన్ధాను-సన్ధానేన తుల్య-చిత్తః। తత్-ప్రయుక్త-మానాపమానయోస్ తత్-ప్రయుక్త-మిత్రారి-పక్షయోర్ అపి స్వ-సమ్బన్ధాభావాద్ ఏవ తుల్య-చిత్తః। తథా దేహిత్వ-ప్రయుక్త-సర్వారమ్భ-పరిత్యాగీ। య ఏవṁ-భూతః స గుణాతీత ఉచ్యతే॥౧౪।౨౪-౨౫॥
Link copiedఅథ ఏవṁ రూప-గుణాత్యయే ప్రధాన-హేతుమ్ ఆహ---
Link copiedమాṁ చ యోఽవ్యభిచారేణ భక్తి-యోగేన సేవతే।
Link copiedస గుణాన్ సమతీత్యైతాన్ బ్రహ్మ-భూయాయ కల్పతే॥౨౬॥
Link copiedనాన్యṁ గుణేభ్యః కర్తారమ్ [౧౪।౧౯] ఇత్య్-ఆదినోక్తేన ప్రకృత్య్-ఆత్మ-వివేకానుసన్ధాన-మాత్రేణ న గుణాత్యయః సమ్పత్స్యతే, తస్యానాది-కాల-ప్రవృత్త-విపరీత-వాసనా-బాధ్యత్వ-సమ్భవాత్। మాṁ సత్య-సఙ్కల్పṁ పరమ-కారుణికమ్ ఆశ్రిత-వాత్సల్య-జలధిమ్ అవ్యభిచారేణ ఐకాన్త్య-విశిష్టేన భక్తి-యోగేన చ యః సేవతే, స ఏతాన్ సత్త్వాదీన్ గుణాన్ దురత్యయాన్ అతీత్య బ్రహ్మ-భూయాయ బ్రహ్మత్వాయ కల్పతే బ్రహ్మ-భావ-యోగ్యో భవతి। యథావస్థితమ్ ఆత్మానమ్ అమృతమ్ అవ్యయṁ ప్రాప్నోతీత్య్ అర్థః॥౧౪।౨౬॥
Link copiedబ్రహ్మణో హి ప్రతిష్ఠాహమ్ అమృతస్యావ్యయస్య చ।
Link copiedశాశ్వతస్య చ ధర్మస్య సుఖస్యైకాన్తికస్య చ॥౨౭॥
Link copiedహి శబ్దో హేతౌ। యస్మాద్ అహమ్ అవ్యభిచారి-భక్తి-యోగేన సేవితోఽమృతస్యావ్యయస్య చ బ్రహ్మణః ప్రతిష్ఠా, తథా శాశ్వతస్య చ ధర్మస్య అతిశయిత-నిత్యైశ్వర్యస్యైకాన్తికస్య సుఖస్య చ వాసుదేవః సర్వమ్ [౮।౯] ఇత్య్ ఆదినా నిర్దిష్టస్య జ్ఞానినః ప్రాప్యస్య సుఖస్యేత్య్ అర్థః। యద్యపి శాశ్వత-ధర్మ-శబ్దః ప్రాపక-వచనః, తథాపి పూర్వోత్తరయోః ప్రాప్య-రూపత్వేన తత్-సాహచర్యాద్ అయమ్ అపి ప్రాప్య-లక్షకః।
Link copiedఏతద్ ఉక్తṁ భవతి పూర్వత్ర--- దైవీ హ్య్ ఏషా గుణ-మయీ మమ మాయా దురత్యయా। మామ్ ఏవ యే ప్రపద్యన్తే [౭।౧౪] ఇత్య్ ఆరభ్య గుణాత్యయస్య తత్-పూర్వకాక్షరైశ్వర్య-భగవత్-ప్రాప్తీనాṁ చ భగవత్-ప్రపత్త్య్-ఏకోపాయతాయాః ప్రతిపాదితత్వాద్ ఏకాన్త-భగవత్-ప్రపత్త్య్-ఏకోపాయో గుణాత్యయస్ తత్-పూర్వక-బ్రహ్మానుభవశ్ చేతి॥౧౪।౨౭॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే చతుర్దశోఽధ్యాయః॥౧౪॥
Link copiedtrayodaśe prakṛti-puruṣayor anyonya-saṁsṛṣṭayoḥ svarūpa-yāthātmyaṁ vijñāyāmānitvādibhir bhagavad-bhakty-anugṛhītair bandhān mucyata ity uktam| tatra bandha-hetuḥ pūrva-pūrva-sattvādi-guṇa-maya-sukhādi-saṅga iti cābhihitaṁ kāraṇaṁ guṇa-saṅgo'sya sad-asad-yoni-janmasu [gītā 13.22] iti| athedānīṁ guṇānāṁ bandha-hetutā-prakāro guṇa-nivartana-prakāraś cocyate---
Link copiedparaṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānam uttamam|
Link copiedyaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ||1||
Link copiedparaṁ pūrvoktād anyat prakṛti-puruṣāntar-gatam eva sattvādi-guṇa-viṣayaṁ jñānaṁ bhūyaḥ pravakṣyāmi| tac ca jñānaṁ sarveṣāṁ prakṛti-puruṣa-viṣaya-jñānānām uttamam| yaj jñānaṁ jñātvā sarve munayas tan-manana-śīlā itaḥ saṁsāra-maṇḍālāt parāṁ siddhiṁ gatāḥ pariśuddhātma-svarūpa-prāpti-rūpāṁ siddhim avāptāḥ||14.1||
Link copiedpunar api taj jñānaṁ phalena viśinaṣṭi---
Link copiedidaṁ jñānam upāśritya mama sādharmyam āgatāḥ|
Link copiedsarge'pi nopajāyante pralaye na vyathanti ca||2||
Link copiedidaṁ vakṣyamāṇaṁ jñānam upāśritya mama sādharmyam āgatā mat-sāmyaṁ prāptāḥ| sarge'pi nopajāyante na sṛji-karmatāṁ bhajante| pralaye na vyathanti ca, na ca saṁhṛti-karmatāṁ bhajante||14.2||
Link copiedatha prākṛtānāṁ guṇānāṁ bandha-hetutā-prakāraṁ vaktuṁ sarvasya bhūta-jātasya prakṛti-puruṣa-saṁsargajatvaṁ yāvat sañjāyate kiñcit [13.26] ity anenoktaṁ bhagavatā svenaiva kṛtam ity āha---
Link copiedmama yonir mahad brahma tasmin garbhaṁ dadhāmy aham|
Link copiedsambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata||3||
Link copiedmama madīyaṁ kṛtsnasya jagato yoni-bhūtaṁ mahad brahma yat tasmin garbhaṁ dadhāmy aham|
Link copiedbhūmir āpo'nalo vāyuḥ khaṁ mano buddhir eva ca|
Link copiedahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā||
Link copied
aperayam [7.4-5]
Link copiediti nirdiṣṭa-cetanā prakṛtir mahad-ahaṅkārādi-vikārāṇāṁ kāraṇatayā mahad brahma ity ucyate| śrutav api kvacit prakṛtir api brahma iti nirdiśyate| yaḥ sarvajñaḥ sarva-vit, yasya jñāna-mayaṁ tapaḥ, tasmād etad brahma nāma-rūpam annaṁ ca jāyate [mu.u. 1.1.9] iti|
Link copieditas tv anyāṁ prakṛtiṁ viddhi me parām| jīva-bhūtām [7.5] iti cetanapuja-rūpā yā prakṛti| nirdiṣṭa, sā iha sakala-prāṇi-bījatayā garbha-śabdenocyate| tasmin acetane yoni-bhūte mahati brahmaṇi cetana-puñja-rūpaṁ garbhaṁ dadhāmi| acetana-prakṛtyā bhoga-kṣetra-bhūtayā bhoktṛ-varga-puñja-bhūtāṁ cetana-prakṛtiṁ saṁyojayāmīty arthaḥ| tatas tasmāt prakṛti-dvaya-saṁyogān mat-saṅkalpa-kṛtāt sarva-bhūtānāṁ brahmādi-stamba-paryantānāṁ sambhavo bhavati||14.3||
Link copiedkāryāvastho'pi cid-acit-prakṛti-saṁsargo mayaiva kṛtaḥ ity āha---
Link copiedsarva-yoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ|
Link copiedtāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā||4||
Link copiedsarvāsu deva-gandharva-yakṣa-rākṣasa-manuṣya-paśu-mṛga-pakṣi-sarīsṛpādiṣu yoniṣu tat-tan-mūrtayo yāḥ sambhavanti jāyante tāsāṁ brahma mahad yoniḥ kāraṇaṁ mayā saṁyojita-cetana-vargā mahad-ādi-viśeṣāntāvasthā prakṛtiḥ kāraṇam ity arthaḥ| ahaṁ bīja-pradaḥ pitā tatra tatra ca tat-tat-karmānuguṇyena cetana-vargasya saṁyojakaś cāham ity arthaḥ||14.4||
Link copiedevaṁ sargādau prācina-karma-vaśād acit-saṁsargeṇa devādi-yoniṣu jātānāṁ punaḥ punar devādi-bhāvena janma-hetum āha---
Link copiedsattvaṁ rajas tama iti guṇāḥ prakṛti-sambhavāḥ|
Link copiednibadhnanti mahā-bāho dehe dehinam avyayam||5||
Link copiedsattva-rajas-tamāṁsi trayo guṇāḥ prakṛteḥ svarūpānubandhinaḥ svabhāva-viśeṣāḥ prakāśādi-kāryaika-nirūpaṇīyāḥ| prakṛty-avasthāyām anudbhūtās tad-vikāreṣu mahad-ādiṣūdbhūtāḥ| mahad-ādi-viśeṣāntair ārabdha-deva-manuṣyādi-deha-sambandhinam enaṁ dehinam avyayaṁ svato guṇa-sambandhānarhaṁ dehe vartamānaṁ nibadhnanti dehe vartamānatvopādhinā nibadhnantīty arthaḥ||14.5||
Link copiedsattva-rajas-tamasām ākāraṁ bandhana-prakāraṁ cāha---
Link copiedtatra sattvaṁ nirmalatvāt prakāśakam anāmayam|
Link copiedsukha-saṅgena badhnāti jñāna-saṅgena cānagha||6||
Link copiedtatra sattva-rajas-tamaḥsu sattvasya svarūpam īdṛśaṁ nirmalatvāt prakāśakam| prakāśa-sukhāvaraṇa-svabhāva-rahitatā nirmalatvam| prakāśa-sukha-jananaikānta-svabhāvatayā prakāśa-sukha-hetu-bhūtam ity arthaḥ| prakāśo vastu-yāthātmyāvabodhaḥ| anāmayam āmayākhya-kāryaṁ na vidyate, ity anāmayam arogatā-hetur ity arthaḥ| eṣa sattvākhya-guṇo dehinam enaṁ sukha-saṅgena jñāna-saṅgena ca badhnāti, puruṣasya sukha-saṅgaṁ jñāna-saṅgaṁ ca janayatīty arthaḥ| jñāna-sukhayoḥ saṅge hi jāte tat-sādhaneṣu laukika-vaidikeṣu pravartate| tataś ca tat-phalānubhava-sādhana-bhūtāsu yoniṣu jāyate| iti sattvaṁ sukha-jñāna-saṅga-dvāreṇa puruṣaṁ badhnāti| jñāna-sukha-jananaṁ punar api tayoḥ saṅga-jananaṁ ca sattvam ity uktaṁ bhavati||14.6||
Link copiedrajo rāgātmakaṁ viddhi tṛṣṇāsaṅga-samudbhavam|
Link copiedtan nibadhnāti kaunteya karma-saṅgena dehinam||7||
Link copiedrajo rāgātmakaṁ rāga-hetu-bhūtam| rāgo yoṣit-puruṣayor anyonya-spṛhā| tṛṣṇāsaṅga-samudbhavaṁ tṛṣṇāsaṅgayor udbhava-sthānaṁ tṛṣṇāsaṅga-hetu-bhūtam ity arthaḥ| tṛṣṇā śabdādi-sarva-viṣaya-spṛhā| saṅgaḥ putra-mitrādiṣu sambandhiṣu saṁśleṣa-spṛhā| tathā dehinaṁ karmasu kriyāsu spṛhā-janana-dvāreṇa nibadhnāti| kriyāsu hi spṛhayā yāḥ kriyā ārabhate dehī, tāś ca puṇya-pāpa-rūpā iti tat-phalānubhava-sādhana-bhūtāsu yoniṣu janma-hetavo bhavanti, ataḥ karma-saṅga-dvāreṇa rajo dehinaṁ nibadhnāti| tad evaṁ rajo rāga-tṛṣṇā-saṅga-hetuḥ karma-saṅga-hetuś cety uktaṁ bhavati||14.7||
Link copiedtamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām|
Link copiedpramādālasya-nidrābhis tan nibadhnāti bhārata||8||
Link copiedjñānād anyad ihājñānam abhipretam| jñānaṁ vastu-yāthātmyāvabodhaḥ, tasmād anyat tad-viparyaya-jñānaṁ tamas tu vastu-yāthātmya-viparīta-viṣaya-jñāna-jaṁ mohanaṁ sarva-dehinām| moho viparyaya-jñānam, viparyaya-jñāna-hetur ity arthaḥ| tat tamaḥ pramādālasya-nidrā-hetutayā tad-dvāreṇa dehinaṁ nibadhnāti| pramādaḥ kartavyāt karmaṇo'nyatra pravṛtti-hetu-bhūtam anavadhānam| ālasyaṁ karmasv anārambha-svabhāvaḥ, stabdhatā iti yāvat| puruṣasyendriya-pravartana-śrāntyā sarvendriya-pravartanoparatir nidrā| tatra bāhyendriya-pravartanoparamaḥ svapnaḥ| manaso'py uparatiḥ suṣuptiḥ||14.8||
Link copiedsattvādīnāṁ bandha-dvāra-bhūteṣu pradhānāny āha---
Link copiedsattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata|
Link copiedjñānam āvṛtya tu tamaḥ pramāde sañjayaty uta||9||
Link copiedsattvaṁ sukha-saṅga-pradhānam, rajaḥ karma-saṅga-pradhānam, tamas tu vastu-yāthātmya-jñānam āvṛtya viparīta-jñāna-hetutayā kartavya-viparīta-pravṛtti-saṅga-pradhānam||14.9||
Link copieddehākāra-pariṇatāyāḥ prakṛteḥ svarūpānubandhinaḥ sattvādayo guṇāḥ| te ca svarūpānu-sambandhitvena sarvadā sarve vartante iti paraspara-viruddhaṁ kāryaṁ kathaṁ janayantīty atrāha---
Link copiedrajas tamaś cābhibhūya sattvaṁ bhavati bhārata|
Link copiedrajaḥ sattvaṁ tamaś caiva tamaḥ sattvaṁ rajas tathā||10||
Link copiedyadyapi sattvādayas trayaḥ prakṛti-saṁsṛṣṭātma-svarūpānubandhinaḥ, tathāpi prācīna-karma-vaśād dehāpyāyana-bhūtāhāra-vaiṣamyāc ca sattvādayaḥ paraspara-samudbhavābhibhava-rūpeṇa vartante| rajas-tamasī kadācid abhibhūya sattvam udriktaṁ vartate| tathā tamaḥ-sattve'bhibhūya rajaḥ kadācit| kadācit ca rajaḥ-sattve'bhibhūya tamaḥ||14.10||
Link copiedtac ca kāryopalabdhyaivāvagacched ity āha---
Link copiedsarva-dvāreṣu dehe'smin prakāśa upajāyate|
Link copiedjñānaṁ yadā tadā vidyād vivṛddhaṁ sattvam ity uta||11||
Link copiedsarveṣu cakṣur-ādiṣu jñāna-dvāreṣu yadā vastu-yāthātmya-prakāśe jñānam upajāyate, tadā asmin dehe sattvaṁ pravṛddham iti vidyāt||14.11||
Link copiedlobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā|
Link copiedrajasy etāni jāyante vivṛddhe bharatarṣabha||12||
Link copiedlobhaḥ svakīya-dravyasyātyāga-śīlatā| pravṛttiḥ prayojanam anuddiśyāpi calana-svabhāvatā| ārambhaḥ karmaṇāṁ phala-sādhana-bhūtānāṁ karmaṇām ārambhe udyogaḥ| aśamaḥ indriyānuparatiḥ| spṛhā viṣayecchā| etāni rajasi pravṛddhe jāyante| yadā lobhādayo vartante, tadā rajaḥ pravṛddham iti vidyād ity arthaḥ||14.12||
Link copiedaprakāśo'pravṛttiś ca pramādo moha eva ca|
Link copiedtamasy etāni jāyante vivṛddhe kuru-nandana||13||
Link copiedaprakāśaḥ jñānānudayaḥ| apravṛttiś ca stabdhatā| pramādo'kārya-pravṛtti-phalam anavadhānam| moho viparīta-jñānam| etāni tamasi pravṛddhe jāyante| etais tamaḥ pravṛddham iti vidyāt||14.13||
Link copiedyadā sattve pravṛddhe tu pralayaṁ yāti deha-bhṛt|
Link copiedtadottama-vidāṁ lokān amalān pratipadyate||14||
Link copiedyadā sattvaṁ pravṛddhaṁ tadā sattve pravṛddhe deha-bhṛt pralayaṁ maraṇaṁ yāti ced uttama-vidām uttama-tattva-vidām ātma-yāthātmya-vidāṁ lokān samūhān amalān mala-rahitān ajñāna-rahitān pratipadyate prāpnoti| sattve pravṛddhe tu mṛta ātma-vidāṁ kuleṣu janitvātma-yāthātmya-jñāna-sādhaneṣu puṇya-karmasv adhikarotīty uktaṁ bhavati||14.14||
Link copiedrajasi pralayaṁ gatvā karma-saṅgiṣu jāyate|
Link copiedtathā pralīnas tamasi mūḍha-yoniṣu jāyate||15||
Link copiedrajasi pravṛddhe maraṇaṁ prāpya phalārthaṁ karma kurvatāṁ kuleṣu jāyate| tatra janitvā svargādi-phala-sādhana-karmasv adhikarotīty arthaḥ| tathā tamasi pravṛddhe mṛto mūḍha-yoniṣu śva-sūkarādi-yoniṣu jāyate| sakala-puruṣārthārambhānarho jāyata ity arthaḥ||14.15||
Link copiedkarmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam|
Link copiedrajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam||16||
Link copiedevaṁ sattva-vṛddhau maraṇam upagamyātma-vidāṁ kule jātenānuṣṭhitasya sukṛtasya phalābhisandhi-rahitasya mad-ārādhana-rūpasya karmaṇaḥ phalaṁ punar api tato 'dhika-sattva-janitaṁ nirmalaṁ duḥkha-gandha-rahitaṁ bhavatīty āhuḥ sattva-guṇa-pariṇāma-vidaḥ| antya-kāla-pravṛddhasya rajasas tu phalaṁ phala-sādhana-karma-saṅgi-kule janma, phalābhisandhi-pūrvaka-karmārambha-tat-phalānubhava-punar-janma-rajo-vṛddhi-phalābhisandhi-pūrvaka-karmārambha-paramparā-rūpaṁ sāṁsārikaṁ dukha-prāyam eva ity āhus tad-guṇa-yāthātmya-vidaḥ| ajñānaṁ tamasaḥ phalam| evam anta-kāla-pravṛddhasya tamasaḥ phalam ajñāna-paramparā-rūpam||14.16||
Link copiedtad adhika-sattvādi-janitaṁ nirmalādi-phalaṁ kim ity atrāha---
Link copiedsattvāt sañjāyate jñānaṁ rajaso lobha eva ca|
Link copiedpramāda-mohau tamaso bhavato'jñānam eva ca||17||
Link copiedevaṁ paramparayā jātād adhikasattvād ātma-yāthātmyāparokṣarūpaṁ jñānaṁ jāyate| tathā pravṛddhād rajasaḥ svargādiphalalobhaḥ jāyate| tathā pravṛddhāc ca tamasaḥ pramādo'navadhānanimittāsatkarmaṇi pravṛttaḥ, tataś ca moho viparītajñānam, tataś cādhikataraṁ tamaḥ, tataś cājñānaṁ jñānābhāvaḥ||14.17||
Link copiedūrdhvaṁ gacchanti sattva-sthā madhye tiṣṭhanti rājasāḥ|
Link copiedjaghanya-guṇa-vṛtta-sthā adho gacchanti tāmasāḥ||18||
Link copiedevam uktena prakāreṇa sattvasthā ūrdhvaṁ gacchanti krameṇa saṁsāra-bandhāt mokṣaṁ gacchanti| rajasaḥ svargādiphalalobhakaratvād rājasāḥ phalasādhanabhūtaṁ karmānuṣṭhāya tat-phalam anubhūya punar api janitvā tad-apekṣitaṁ karmānutiṣṭhantīti madhye tiṣṭhanti, punar-āvṛttirūpatayā duḥkhaprāyam eva tat|
Link copiedtāmasās tu jaghanyaguṇavṛtti-sthā uttarottaranikṛṣṭatamoguṇavṛttiṣu sthitā adho gacchanti| antyajatvam, tatas tiryaktvam, tataḥ kṛmikīṭadijanma tataḥ sthāvaratvam, tato'pi gulmalatātvam, tataś ca śilākāṣṭhaloṣṭatṛṇāditvaṁ gacchantīty arthaḥ||14.18||
Link copiedāhāraviśeṣaiḥ phalābhisandhirahitasukṛtaviśeṣaiś ca paramparayā pravaṄdhatasattvānāṁ guṇātyayadvāreṇa ūrdhvagamanaprakāram āha---
Link copiednānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati|
Link copiedguṇebhyaś ca paraṁ vetti mad-bhāvaṁ so'dhigacchati||19||
Link copiedevaṁ sāttvikāhāra-sevayā phalābhisandhi-rahita-bhagavad-ārādhana-rūpa-karmānuṣṭhānaiś ca rajas-tamasī sarvātmanābhibhūya utkṛṣṭa-sattva-niṣṭho yadāyaṁ draṣṭā guṇebhyo'nyaṁ kartāraṁ nānupaśyati| guṇā eva svānuguṇa-pravṛttiṣu kartāra iti paśyati, guṇebhyaś ca paraṁ vetti, kartṛbhyo guṇebhyaś ca param anyam ātmānam akartāraṁ vetti, samad-bhāvam adhigacchati, mama yo bhāvas tam adhigacchati| etad uktaṁ bhavaty ātmanaḥ svataḥ pariśuddha-svabhāvasya pūrva-pūrva-karma-mūla-guṇa-saṅga-nimittaṁ vividha-karmasu kartṛtvam, ātmā svatas tv akartā aparicchinna-jñānaikākāraḥ ity evam ātmānaṁ yadā paśyati, tadā mad-bhāvam adhigacchatīti||14.19||
Link copiedkartṛbhyo guṇebhyo'nyam akartāram ātmānaṁ paśyan bhagavadbhāvam adhigacchatīty uktam, sa bhagavadbhāvaḥ kīdṛśaḥ| ity atrāha---
Link copiedguṇān etān atītya trīn dehī deha-samudbhavān|
Link copiedjanma-mṛtyu-jarā-duḥkhair vimukto'mṛtam aśnute||20||
Link copiedayaṁ dehī dehasamudbhavān dehākārapariṇataprakṛtisamudbhavān etān sattvādīn trīn guṇān atītya tebhyaś cānyam, jñānaikākāram ātmānaṁ paśyan janmamṛtyujarāduḥkhaiḥ vimukto'mṛtam ātmānam anubhavati eṣa mad-bhāva ity arthaḥ||14.20||
Link copiedatha guṇātītasya svarūpasūcanācāraprakāraṁ guṇātyayahetuṁ ca pṛcchan arjuna uvāca---
Link copiedkair liṅgais trīn guṇān etān atīto bhavati prabho|
Link copiedkim-ācāraḥ kathaṁ caitāṁs trīn guṇān ativartate||21||
Link copiedsattvādīn trīn guṇān etān atītaḥ kaiḥ liṅgaiḥ kaiḥ lakṣaṇair upalakṣito bhavati kimācāraḥ kena ācāreṇa yukto'sau| asya svarūpāvagateḥ liṅgabhūtācāraḥ kīdṛśaḥ ity arthaḥ| kathaṁ ca etān kenopāyena sattvādīn trīn guṇān ativartate|||14.21||
Link copiedśrī-bhagavān uvāca
Link copiedprakāśaṁ ca pravṛttiṁ ca moham eva ca pāṇḍava|
Link copiedna dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati||22||
Link copiedātma-vyatirikteṣu vastuṣv aniṣṭeṣu sampravṛttāni sattva-rajas-tamasāṁ kāryāṇi prakāśa-pravṛtti-mohākhyāni yo na dveṣṭi, tathātma-vyatirikteṣv iṣṭeṣu vastuṣu tāny eva nivṛttāni na kāṅkṣati||14.22||
Link copiedudāsīnavad āsīno guṇair yo na vicālyate|
Link copiedguṇā vartanta ity eva yo'vatiṣṭhati neṅgate||23||
Link copiedudāsīnavad āsīno guṇavyatiriktātmāvalokanatṛptyā anyatra udāsīnavad āsīnaḥ guṇair dveṣākāṅkṣādvāreṇa yo na vicālyate, guṇāḥ sveṣu kāryeṣu prakāśādiṣu vartante ity anusandhāya yas tūṣṇīm avatiṣṭhate, na iṅgate na guṇakāryānuguṇaṁ ceṣṭate||14.23||
Link copiedsama-duḥkha-sukhaḥ svasthaḥ sama-loṣṭāśma-kāñcanaḥ|
Link copiedtulya-priyāpriyo dhīras tulya-nindātma-saṁstutiḥ||24||
Link copiedmānāpamānayos tulyas tulyo mitrāri-pakṣayoḥ|
Link copiedsarvārambha-parityāgī guṇātītaḥ sa ucyate||25||
Link copiedsama-duḥkha-sukhaḥ duḥkha-sukhayoḥ samaś cittaḥ| svasthaḥ svasmin sthitaḥ svātmaika-priyatvena tad-vyatirikta-putrādi-janma-maraṇādi-sukha-duḥkhayoḥ sama-citta ity arthaḥ| tata eva sama-loṣṭāśma-kāñcanaḥ| tata eva ca tulya-priyāpriyas tulya-priyāpriya-viṣayaḥ| dhīraḥ prakṛty-ātma-viveka-kuśalaḥ| tata eva tulya-nindātma-saṁstutiḥ| ātmani manuṣyatvādy-abhimāna-kṛta-guṇāguṇa-nimitta-stuti-nindayoḥ sva-sambandhānu-sandhānena tulya-cittaḥ| tat-prayukta-mānāpamānayos tat-prayukta-mitrāri-pakṣayor api sva-sambandhābhāvād eva tulya-cittaḥ| tathā dehitva-prayukta-sarvārambha-parityāgī| ya evaṁ-bhūtaḥ sa guṇātīta ucyate||14.24-25||
Link copiedatha evaṁ rūpa-guṇātyaye pradhāna-hetum āha---
Link copiedmāṁ ca yo'vyabhicāreṇa bhakti-yogena sevate|
Link copiedsa guṇān samatītyaitān brahma-bhūyāya kalpate||26||
Link copiednānyaṁ guṇebhyaḥ kartāram [14.19] ity-ādinoktena prakṛty-ātma-vivekānusandhāna-mātreṇa na guṇātyayaḥ sampatsyate, tasyānādi-kāla-pravṛtta-viparīta-vāsanā-bādhyatva-sambhavāt| māṁ satya-saṅkalpaṁ parama-kāruṇikam āśrita-vātsalya-jaladhim avyabhicāreṇa aikāntya-viśiṣṭena bhakti-yogena ca yaḥ sevate, sa etān sattvādīn guṇān duratyayān atītya brahma-bhūyāya brahmatvāya kalpate brahma-bhāva-yogyo bhavati| yathāvasthitam ātmānam amṛtam avyayaṁ prāpnotīty arthaḥ||14.26||
Link copiedbrahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca|
Link copiedśāśvatasya ca dharmasya sukhasyaikāntikasya ca||27||
Link copiedhi śabdo hetau| yasmād aham avyabhicāri-bhakti-yogena sevito'mṛtasyāvyayasya ca brahmaṇaḥ pratiṣṭhā, tathā śāśvatasya ca dharmasya atiśayita-nityaiśvaryasyaikāntikasya sukhasya ca vāsudevaḥ sarvam [8.9] ity ādinā nirdiṣṭasya jñāninaḥ prāpyasya sukhasyety arthaḥ| yadyapi śāśvata-dharma-śabdaḥ prāpaka-vacanaḥ, tathāpi pūrvottarayoḥ prāpya-rūpatvena tat-sāhacaryād ayam api prāpya-lakṣakaḥ|
Link copiedetad uktaṁ bhavati pūrvatra--- daivī hy eṣā guṇa-mayī mama māyā duratyayā| mām eva ye prapadyante [7.14] ity ārabhya guṇātyayasya tat-pūrvakākṣaraiśvarya-bhagavat-prāptīnāṁ ca bhagavat-prapatty-ekopāyatāyāḥ pratipāditatvād ekānta-bhagavat-prapatty-ekopāyo guṇātyayas tat-pūrvaka-brahmānubhavaś ceti||14.27||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye caturdaśo'dhyāyaḥ||14||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 14 — The Division of the Three Qualities (in Sanskrit: guṇa-traya-vibhāga-yoga)
A modern English rendering of A. Govindacharya's 1898 translation of Bhagavad Ramanuja's Gita Bhashya.
Link copiedIntroduction
In Lecture XIII, Bhagavad Ramanuja showed that by understanding the true nature of prakṛti and puruṣa and then practising the virtues of reverence and the rest — sanctified by the grace of the Blessed Lord, obtained through bhakti — release from bondage results. He also showed that the cause of bondage is attachment to the sattva and other guṇa-imbued material pleasures: "Attachment to the qualities is the cause of births in good and evil wombs." (XIII.21)
Link copiedIn this lecture, it is proposed to treat of how the guṇas bind, and how deliverance from them is effected.
Link copiedVerses 1–2 (The Wisdom That Transcends the Gunas)
Verse 14.1. "Yet more, I shall declare, of the best wisdom of all wisdoms — having which the munis have all, from here, passed to the highest perfection."
Link copiedParam: yet more — wisdom concerning sattva and the other qualities influencing the matter–soul union, beyond what has already been told. This wisdom surpasses all that has so far been told regarding this union. Munis are those who, possessing this wisdom, ponder over it and pass on from the sphere of saṃsāra to the supreme state of spiritual realization (siddhi).
Link copiedVerse 14.2. "Those who, embracing this wisdom, have attained to My state are neither born at evolution nor suffer at dissolution."
Link copiedThis wisdom is what will now be expounded. My state (mama sādharmyam) is a state resembling My divine status. Born at evolution means to be subjected to the processes of cosmic evolution; similarly, to suffer at dissolution. Those who have obtained this wisdom undergo neither.
Link copiedVerses 3–4 (The Lord as Source of All Beings)
To show how matter's qualities come to bind the soul, it is first declared that all existing beings — composed of matter and souls — are fashioned by the Blessed Lord Himself.
Link copiedVerse 14.3. "The vast brahman (matter) is My womb, into which I sow the germ (soul). Thence comes, O Bhārata, the birth of all beings."
Link copiedThe inert matter-stuff alluded to in "Earth, water, fire, air, space, manas, buddhi, and ahaṅkāra — thus is My eightfold differentiated matter. But this is inferior" (VII.4–5) is here designated brahman (the vast, the infinitely extended), because it is the primal cause of all the differentiations that emanate from it in the forms of mahat, ahaṅkāra, and so on. Śrutis also call matter-stuff by this name brahman: "Whose meditation is wisdom-full, from whom this brahman and the cosmos of names and forms spring forth." (Muṇḍaka I.1.9)
Link copiedBy garbha (germ, foetus, embryo), the seed en masse of all animate creatures is meant — alluded to in "Other than this, My superior nature, the life-nature" (VII.5).
Link copiedThus in the inanimate, womb-like vast matter-stuff I cast the seed of the aggregate of the animate principle (the jīva or soul). All beings, from Brahmā down to the tuft of grass, are by My will produced from the conjunction of these two principles.
Link copiedVerse 14.4. "Of every form, O Kaunteya, that is born of every womb, matter is the great womb of all, and I am the seed-giver, the father."
Link copiedWhatever forms proceed from the wombs of devas, gandharvas, yakṣas, rakṣas, men, animals, birds, serpents — matter-stuff is the great field of conception. I am the father, the uniter — determining, according to each soul's karma, how matter and soul are joined.
Link copiedVerses 5–18 (The Three Qualities)
Thus, in the manner determined by past karma, souls spring forth from various wombs. The cause that perpetuates such generation is now pointed out.
Link copiedVerse 14.5. "Sattva, rajas, and tamas are the matter-born qualities which, O Mighty-armed, bind the imperishable ego in the body."
Link copiedThese three guṇas are the attributes of matter. Their existence is inferred from the effects they produce, such as brightness or dullness of disposition. They are latent in unevolved matter but manifest in its evolutes, mahat and the rest. They bind the essentially free soul to bodies like those of deva and man — bodies manufactured out of the evolutes of matter.
Link copiedVerse 14.6. "Of these, O Sinless One, sattva — luminous and painless from its purity — links souls to blessedness and wisdom."
Link copiedBeing pure or lucid, sattva is bright. Its characteristics are the negation of obscuration, brightness, and happiness. Prakāśa (luminosity) means true enlightenment, exact knowledge of things. Anāmayam means the absence of causes of pain, and therefore sattva is the cause of health. Sattva produces in the embodied creature a predisposition for happiness and knowledge. This leads to worldly and spiritual pursuits of the same kind, and to birth in wombs favourably fitted for such enjoyment; the cycle continues, with happiness and knowledge begetting more desire for them.
Link copiedVerse 14.7. "Rajas, know, O Kaunteya, is lustful; it engenders desire and attachment; it ties the embodied to work."
Link copiedRajas is lustful — the cause of lust, carnal desire. Rajas is the birth-place of tṛṣṇā (thirst for all sensual enjoyments) and saṅga (attachment to sons, friends, and so on). Thus rajas, by engendering desires, ties one to activity — then the performance of merits and demerits, then birth into bodies and places suited to reap those fruits. By provoking an itch for works, rajas confines the man.
Link copiedVerse 14.8. "Tamas, O Bhārata, begets ignorance, fascinating all embodied beings; by listlessness it binds one to sloth and sleep."
Link copiedAjñāna (ignorance) is the reverse of knowledge — perverted or wrong perception. Tamas, literally "darkness," is completely reversed perception of what a thing actually is. Mohanam — that which deludes — is tamas. It binds through pramāda (listlessness: distraction of attention), ālasya (sloth: inability to engage in any occupation), and nidrā (sleep: sublation of sense-functions, with mind also sublating).
Link copiedVerse 14.9. "Sattva, O Bhārata, unites one to blessedness; rajas to activity; and tamas, forsooth, beclouds intelligence and unites one to inattention."
Link copiedSattva is chief in creating a predisposition for blessedness; rajas is chief in impelling one to work; tamas is chief in obscuring intelligence and producing perversity of understanding.
Link copiedIf sattva and the other qualities are all natural properties of matter, then they dwell together in matter. How do they give birth to such conflicting consequences? The reply:
Link copiedVerse 14.10. "Overpowering rajas and tamas, O Bhārata, sattva prevails; similarly rajas over sattva and tamas; and tamas over sattva and rajas."
Link copiedAll three qualities attach to matter-bound souls. Owing to conditions imposed by past karma, and determined further by the varieties of food eaten, one quality predominates over the other at various times.
Link copiedVerse 14.11. "When intelligence shines through all the avenues of this body, then it is to be known that sattva is regnant."
Link copiedWhen intelligence is seen to shine through all the channels of knowledge — eye and the rest — producing a right conception of things, then sattva is in the ascendant.
Link copiedVerse 14.12. "When rajas, O Bhārata-chief, is uppermost, then are bred parsimony, unrest, engagement in works, disquiet, and craving."
Link copiedLobha (parsimony): close-fistedness. Pravṛtti (unrest): a disposition to be active with no definite purpose. Ārambha: engagement in fruit-bearing works. Aśama: disquiet of the senses. Spṛhā: craving for sense-objects. When these are seen, rajas is predominant.
Link copiedVerse 14.13. "When tamas, O Kuru's son, is regnant, then are bred obscurity, inertness, listlessness, and error."
Link copiedAprakāśa (obscurity): absence of illumination, stupidity. Apravṛtti (inertness): disinclination to work. Pramāda (listlessness): attention diverted to misdeeds. Moha (error): distorted intellect, misinterpretation of things.
Link copiedVerse 14.14. "If the embodied passes into death when sattva is regnant, he attains to the spotless abodes of the blest."
Link copiedIf he dies under the dominance of sattva, he attains the blessed regions of those who know the good — the knowers of the truth of the ātman. Amalān (spotless): exempt from blemish, free of ignorance. His future incarnations will be among holy and wisdom-enlightened people, and he will be impelled to continue meritorious works to further improve his ātman-knowledge.
Link copiedVerse 14.15. "Dying when rajas is regnant, one is born among those attached to works. Dying when tamas is regnant, one is born in the wombs of the witless."
Link copiedDying under rajas, he is born among those who perform works for reward; dying under tamas, he is born in wombs such as those of dogs, swine — where the performance of any worthy ambition is incapacitated.
Link copiedVerse 14.16. "The fruit of good works, the wise say, is sāttvika purity; but pain is the fruit of rajas, and unwisdom is the fruit of tamas."
Link copiedOne dying under sattva is born among the enlightened. He performs virtuous acts without motives of reward — solely as worship to the Blessed Lord. The fruit is more sattva; purity is painlessness. The fruit of rajas is birth among those tied down to fructiferous works; the perpetuation of saṃsāra's sorrows. The fruit of tamas is the perpetuation of ignorance.
Link copiedVerse 14.17. "From sattva springs forth wisdom; from rajas, avidity itself; and from tamas, inattention, infatuation, and unwisdom."
Link copiedAs sattva increases, wisdom — or direct enlightenment of ātman-nature — is produced. As rajas increases, more avidity for svarga and similar fruits is produced. As tamas increases, inattention arises (proclivity for wickedness); from this, infatuation; from this, more tamas; and finally the nullification of wisdom.
Link copiedVerse 14.18. "Upward rise those fixed in sattva; in the middle stay those of rajas; downward go those fixed in the low impulses of tamas."
Link copiedThose established in sattva rise upward, gradually accomplishing liberation from saṃsāra-bondage. Those of rajas, from greed for svarga, engage in fruitful works and return to be born again; this cycle is attended with recurring misery. Those of tamas descend into meaner acts and lower types — humanity, animals, worms, plants, grass, stones.
Link copiedVerses 19–27 (Transcending the Gunas)
Verse 14.19. "When the seer cognizes no agent other than the guṇas, and knows what is beyond the guṇas, then does he reach My state."
Link copiedBy eating sāttvika food and performing works without regard to fruit but solely as worship of the Blessed Lord, the rajas and tamas qualities must be suppressed and one must become established in pure sattva. When the seer perceives that the guṇas themselves are the actors according to their natures, and that there is the ātman, actionless, beyond the guṇas, he reaches My state.
Link copiedThe ātman in itself is perfectly pure; agency in performing acts comes to it derivatively from the union with the guṇas, predetermined by past karma. Ātman in itself is no actor, and is essentially of the nature of infinitely expanded intelligence. When ātman-nature is thus realized, a state equal to My state is reached.
Link copiedVerse 14.20. "Transcending these three body-bred qualities, the embodied ego, freed from the pains of birth, death, and old age, tastes immortality."
Link copiedThe three guṇas are born of matter-stuff symbolized by "body." When the embodied one crosses these and cognizes what is different from them — the ātman, essentially of the nature of intelligence — he is relieved from birth, death, and similar sorrows and attains ātman-enjoyment. This is akin to My state.
Link copiedArjuna asks what signs distinguish the person who has transcended the guṇas, and how one can so transcend them.
Link copiedVerse 14.21. "By what signs is he to be recognized, O Lord, who has surmounted these three qualities? What is his conduct, and how does he step beyond these qualities?"
Link copiedVerse 14.22. "He is one, O Pāṇḍava, who is exempt from hate when lucidity, activity, and folly prevail; and who, when they prevail not, desires them not."
Link copiedPrakāśa (lucidity) is the effect of sattva; pravṛtti (activity), of rajas; moha (folly), of tamas. External things are of two kinds — those desired and those shunned. The sign of one above the guṇas is that he does not hate lucidity and the rest when they come (regarding things unwished for), nor long for them when they are absent (regarding things wished for).
Link copiedVerse 14.23. "Sitting unconcerned, whoso is unruffled by the qualities, who calmly reflects that 'the qualities revolve,' is not disturbed."
Link copiedLike one unconcerned (udāsīnavat), because his delight is in ātman-vision, he is indifferent to all else. He is never agitated by the desires and aversions the guṇas beget; he keeps silent by reflecting that "it is natural for the qualities to parade themselves." He does not allow himself to be impelled to act as the qualities provoke.
Link copiedVerses 14.24–25. "Equal in grief and joy; self-centred; looking on clod, stone, and gold alike; the same in likes and dislikes; equal to blame and praise; wise; equal-minded in honour or ignominy; the same toward friends and foes; retired from all effort — such a one is called the surmounter of the qualities."
Link copiedSama (equal): keeping the mind balanced in grief and joy. Svastha (self-centred): established in himself — from his love centred in ātman, his mind is not distracted by external events such as the birth or death of a son. Hence clod, stone, and gold appear of equal worth. Dhīra (wise): edified on the distinction between matter and ātman; therefore he preserves equanimity in blame or praise. Love of praise is a consequence of egotism, which inheres in the body but is mistakenly referred to ātman; so is aversion to blame. The ātman-wise are free of these. Similarly, honour and disgrace, friends and enemies, do not affect ātman. All effort is the outcome of the embodied state, so the ātman-wise abandon all such effort. Such a person has surmounted the qualities.
Link copiedThe chief means of surmounting these qualities is now stated.
Link copiedVerse 14.26. "And whoever serves Me with unerring bhakti-yoga surmounts these qualities and becomes fit to be brahman."
Link copiedMere reflection on the matter–soul distinction (XIV.19) cannot alone cross the qualities, for reflection is liable to be violated by the mind's old habits. Me: the Infallible-willed, the Infinitely Merciful, the Ocean of Love to My faithful. Avyabhicāreṇa (unerring): one-pointed and exclusively devoted to Me. Bhakti-yoga: intense, incessant, all-absorbing love-devotion to Me. The votary of bhakti will surmount the otherwise insurmountable qualities. Brahma-bhūyāya: eligibility to partake of brahman-nature. This state is the realization of the essential nature of ātman — immortal and imperishable.
Link copiedVerse 14.27. "For I am the support of brahman (the soul), the eternal and infinite; and of the eternal dharma; and of absolute bliss."
Link copiedHi (for/indeed): when I am worshipped by unerring bhakti-yoga, I become the support (or centre) for the eternal and infinite brahman (soul). Eternal dharma: exquisite eternal happiness. Ekāntika-sukha: absolute unique bliss, the fruit of the saint who answers to "Vāsudeva is all" (VII.19).
Link copiedThough "eternal dharma" usually means a means to an end, here it means the end itself, occurring between two other expressions meaning ends (soul-acquisition and God-acquisition).
Link copiedThe sense is that, as declared in "Verily is this, My divine māyā, guṇa-imbued and hard to surmount; but those who resort to Me alone as their Refuge pass this māyā" (VII.14), the surmounting of the qualities, and the securing of any of the goals — (1) kaivalya (soul-gain), (2) aiśvarya (material prosperity), (3) bhagavat-prāpti (joining the Blessed Lord) — depends upon the only means: loving devotion to the Lord and prayer for His grace.
Link copiedOṃ tat sat.
Link copiedThus closes the fourteenth discourse, named Guṇa-Traya-Vibhāga-Yoga, or the Book of the Division of the Three Qualities, with Sri Ramanuja's commentary thereon, between Sri Krishna and Sri Arjuna, in the science of yoga, in the theosophy of the Upaniṣads.
Link copied