Skip to content

Bhagavad Gita Bhashya · Section 12 of 19

athaikādaśo'dhyāyaḥ viśva-rūpa-darśana-yogaḥ

Sanskrit (IAST) · click to toggle

एवꣳ भक्ति-योग-निष्पत्तये सद्-विवृद्धये च सकलेतर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवत सर्वात्मत्वम्। तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तित्वꣳ चोक्तम्। तम् एतꣳ भगवद्-असाधारणꣳ स्वभावꣳ कृत्स्नस्य तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिताꣳ च भगवत्-सकाशाद् उपश्रुत्य एवम् एवेति निश्चित्य तथा-भूतꣳ भगवन्तꣳ साक्षात्कर्तु-कामोऽर्जुन उवाच। तथैव भगवत्-प्रसादाद् अनन्तरꣳ द्रक्ष्यति। सर्वाश्चर्यमयꣳ देवम् अनन्तꣳ विश्वतो-मुखम् [गीता ११।११], तत्रैकस्थꣳ जगत् कृत्स्नꣳ प्रविभक्तम् अनेकधा [गीता ११।१३] इति हि वक्ष्यते।

Link copied

मद्-अनुग्रहाय परमꣳ गुह्यम् अध्यात्म-सꣳज्ञितम्

Link copied

यत् त्वयोक्तꣳ वचस् तेन मोहोऽयꣳ विगतो मम

Link copied

देहात्माभिमान-रूप-मोहेन मोहितस्य ममानुग्रहैक-प्रयोजनाय परमꣳ गुह्यꣳ परमꣳ रहस्यम् अध्यात्म-सꣳज्ञितम् आत्मनि वक्तव्यꣳ वचो न त्व् एवाहꣳ जातु नासम् [२।१२] इत्य्-आदि। तस्माद् योगी भवार्जुन [६।४६] इत्य् एतद् अन्तꣳ यत् त्वयोक्तम्, तेनायꣳ मम आत्म-विषयो मोहः सर्वो विगतः दूरतो निरस्तः॥११।१॥

Link copied

भवाप्ययौ हि भूतानाꣳ श्रुतौ विस्तरशो मया

Link copied

त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम्

Link copied

तथा सप्तम-प्रभृति दशम-पर्यन्तꣳ त्वद्-व्यतिरिक्तानाꣳ सर्वेषाꣳ भूतानाꣳ त्वत्तः परमात्मानो भवाप्ययाव् उत्पत्ति-प्रलयौ विस्तरशो मया श्रुतौ। हे कमल-पत्राक्ष ! तवाव्ययꣳ नित्यꣳ सर्व-चेतनाचेतन-वस्तु-शेषित्वꣳ ज्ञान-बलादि-कल्याण-गुण-गणैस् तव एव परतरत्वꣳ सर्वाधारत्वꣳ चिन्तित-निमिषितादि-सर्व-प्रवृत्तिषु तवैव प्रवर्तयितृत्वम्, इत्य् आदि अपरिमितꣳ माहात्म्यꣳ च श्रुतꣳ हि शब्दो वक्ष्यमाण-दिदृक्षा-द्योतनार्थः॥११।२॥

Link copied

एवम् एतद् यथात्थ त्वम् आत्मानꣳ परमेश्वर

Link copied

द्रष्टुम् इच्छामि ते रूपम् ऐश्वरꣳ पुरुषोत्तम

Link copied

हे परमेश्वर ! एवम् एतद् इत्य् अवधृतꣳ यथात्थ त्वम् आत्मानꣳ ब्रवीषि। पुरुषोत्तम आश्रित-वात्सल्य-जलधे ! तवैश्वरꣳ त्वद्-असाधारणꣳ सर्वस्य प्रशासितृत्वे पालयितृत्वे स्रष्टृत्वे सꣳहर्तृत्वे भर्तृत्वे कल्याण-गुणाकरत्वे परतरत्वे सकलेतर-विसजातीयत्वे चावस्थितꣳ रूपꣳ द्रष्टुम् साक्षात्-कर्तुम् इच्छामि॥११।३॥

Link copied

मन्यसे यदि तच् छक्यꣳ मया द्रष्टुम् इति प्रभो

Link copied

योगेश्वर ततो मे त्वꣳ दर्शयात्मानम् अव्ययम्

Link copied

तत् सर्वस्य स्रष्टृ सर्वस्य प्रशासितृ सर्वस्याधार-भूतꣳ त्वद्-रूपꣳ मया द्रष्टुꣳ शक्यम् इति यदि मन्यसे। ततो योगेश्वर ! योगो ज्ञानादि-कल्याण-गुण-योगः पश्य मे योगम् ऐश्वरम् [गीता ११।८] इति हि वक्ष्यते। त्वद्-व्यतिरिक्तस्य कस्याप्य् असम्भावितानाꣳ ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजसाꣳ निधे ! आत्मानꣳ त्वाम् अव्ययꣳ मे दर्शय त्वम् अव्ययम् इति क्रिया-विशेषणम्। त्वाꣳ सकलꣳ मे दर्शयेत्य् अर्थः॥११।४॥

Link copied

एवꣳ कौतूहलान्वितेन हर्ष-गद्गद-कण्ठेन पार्थेन प्रार्थितो भगवान् उवाच---

Link copied

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः

Link copied

नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च

Link copied

पश्य मे सर्वाश्रयाणि रूपाण्य् अथ शतशः सहस्रशश् च नाना-विधानि नाना-प्रकाराणि दिव्यान्य् अप्राकृतानि नाना-वर्णाकृतीनि शुक्ल-कृष्णादि-नाना-वर्णानि नानाकाराणि च पश्य॥११।५॥

Link copied

पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा

Link copied

बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत

Link copied

ममैकस्मिन् रूपे पश्यादित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् चैकोनपञ्चाशतम्। प्रदर्शनार्थम् इदम्। इह जगति प्रत्यक्ष-दृष्टानि शास्त्र-दृष्टानि च यानि वस्तूनि तानि सर्वाण्य् अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट-पूर्वाणि बहून्य् आश्चर्याणि पश्य॥११।६॥

Link copied

इहैकस्थꣳ जगत् कृत्स्नꣳ पश्याद्य स-चराचरम्

Link copied

मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि

Link copied

इह माम एकस्मिन् देहे तत्रापि एकस्थम् एकदेशस्थꣳ सचराचरꣳ कृत्स्नꣳ जगत् पश्य। यत् चान्यद् द्रष्टुम् इच्छसि तद् अपि एकदेहैकदेशे एव पश्य॥११।७॥

Link copied

न तु माꣳ शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा

Link copied

दिव्यꣳ ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम्

Link copied

अहꣳ मम देहैक-देशे सर्वꣳ जगद् दर्शयिष्यामि, त्वꣳ त्व् अनेन नियमित-परिमित-वस्तु-ग्राहिणा प्राकृतेन स्व-चक्षुषा माꣳ तथा-भूतꣳ सकलेतर-विसजातीयम् अपरिमेयꣳ द्रष्टुꣳ न शक्यसे। तव दिव्यम् अप्राकृतꣳ मद्-दर्शन-साधनꣳ चक्षुर् ददामि। पश्य मे योगम् ऐश्वरꣳ मद्-असाधारणꣳ योगꣳ पश्य। ममानन्त-ज्ञानादि-योगम् अनन्त-विभूति-योगꣳ च पश्येत्य् अर्थः॥११।८॥

Link copied

सञ्जय उवाच---

Link copied

एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः

Link copied

दर्शयाम् आस पार्थाय परमꣳ रूपम् ऐश्वरम्

Link copied

एवम् उक्त्वा सारथ्येऽवस्थितः पार्थ-मातुल-जो महा-योगेश्वरो हरिर् महाश्चर्य-योगानाम् ईश्वरः पर-ब्रह्म-भूतो नारायणः परमम् ऐश्वरꣳ स्वासाधारणꣳ रूपꣳ पार्थाय पितृ-ष्वसुः पृथायाः पुत्राय दर्शयामास तद् विविध-विचित्र-निखिल-जगद्-आश्रयꣳ विश्वस्य प्रशासितृ च रूपम्॥११।९॥

Link copied

तच् चेदृशम्---

Link copied

अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम्

Link copied

अनेक-दिव्याभरणꣳ दिव्यानेकोद्यतायुधम्१०

Link copied

दिव्य-माल्याम्बर-धरꣳ दिव्य-गन्धानुलेपनम्

Link copied

सर्वाश्चर्य-मयꣳ देवम् अनन्तꣳ विश्वतो-मुखम्११

Link copied

देवꣳ द्योतमानम् अनन्तꣳ काल-त्रय-वर्ति-निखिल-जगद्-आश्रयतया देश-काल-परिच्छेदनार्हꣳ विश्वतो-मुखꣳ विश्व-दिग्-वर्ति-मुखꣳ स्वोचित-दिव्याम्बर-गन्ध-माल्याभरणायुधान्वितम्॥११।१०-११॥

Link copied

ताम् एव देव-शब्द-निर्दिष्टꣳ द्योतमानताꣳ विशिनष्टि---

Link copied

दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता

Link copied

यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः१२

Link copied

तेजसोऽपरिमितत्व-दर्शनार्थम् इदम्। अक्षय-तेजः-स्वरूपम् इत्य् अर्थः॥११।१२॥

Link copied

तत्रैकस्थꣳ जगत् कृत्स्नꣳ प्रविभक्तम् अनेकधा

Link copied

अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा१३

Link copied

तत्रानन्तायाम-विस्तारेऽनन्त-बाहूदर-वक्त्र-नेत्रेऽपरिमित-तेजस्केऽपरिमित-दिव्यायुधोपेते स्वोचितापरिमित-दिव्य-भूषणे दिव्य-माल्याम्बर-धरे दिव्य-गन्धानुलेपनेऽनन्ताश्चर्य-मये देव-देवस्य दिव्ये शरीरेऽनेकाधा प्रविभक्तꣳ ब्रह्मादि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावरादि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पातालातल-वितल-सुतलादि-भोग-स्थान-भोग्य-भोगोपकरण-भेद-भिन्नꣳ प्रकृति-पुरुषात्मकꣳ कृत्स्नꣳ जगद् अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [गीता १०।८], हन्त ते कथयिष्यामि विभूतीर् आत्मनः शुभाः [गीता १०।१९], अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः [गीता १०।२०], आदित्यानाम् अहꣳ विष्णुः [गीता १०।२१] इत्य्-आदिना, न तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम् [गीता १०।३९], विष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत् [१०।४२] इत्य् अन्तेन उदितम्। एक-स्थम् एक-देश-स्थꣳ पाण्डावो भगवत्-प्रसाद-लब्ध-तद्-दर्शनानुगुण-दिव्य-चक्षुर् अपश्यत्॥११।१३॥

Link copied

ततः स विस्मयाविष्टो हृष्ट-रोमा धनञ्जयः

Link copied

प्रणम्य शिरसा देवꣳ कृताञ्जलिर् अभाषत१४

Link copied

ततो धनञ्जयः महाश्चर्यस्य कृत्स्नस्य जगतः स्व-देहैक-देशेन आश्रय-भूतꣳ कृत्स्नस्य प्रवर्तयितारꣳ चाश्चर्यतमानन्त-ज्ञानादि-कल्याण-गुण-गणꣳ देवꣳ दृष्ट्वा विस्मयाविष्टे हृष्ट-रोमा शिरसा दण्डावत् प्रणम्य कृताञ्जलिर् अभाषत॥११।१४॥

Link copied

अर्जुन उवाच---

Link copied

पश्यामि देवाꣳस् तव देव देहे

Link copied

सर्वाꣳस् तथा भूत-विशेष-सङ्घान्

Link copied

ब्रह्माणम् ईशꣳ कमलासन-स्थम्

Link copied

ऋषीꣳश् च सर्वान् उरगाꣳश् च दिव्यान्१५

Link copied

देव ! तव देहे सर्वान् देवान् पश्यामि। तथा सर्वान् प्राणि-विशेषाणाꣳ सङ्घान्, तथा ब्रह्माणꣳ चतुर्-मुखम् अण्डाधिपतिम्, तथेशꣳ कमलासन-स्थꣳ कमलासने ब्रह्मणि स्थितम् ईशꣳ तन्-मतेऽवस्थितꣳ तथा देवर्षि-प्रमुखान् सर्वान् ऋषीन्, उरगाꣳश् च वासुकि-तक्षकादीन् दीप्तान्॥११।१५॥

Link copied

अनेक-बाहूदर-वक्त्र-नेत्रꣳ

Link copied

पश्यामि त्वा सर्वतोऽनन्त-रूपम्

Link copied

नान्तꣳ न मध्यꣳ न पुनस् तवादिꣳ

Link copied

पश्यामि विश्वेश्वर विश्व-रूप१६

Link copied

अनेक-बाहूदर-वक्त्र-नेत्रम् अनन्त-रूपꣳ त्वाꣳ सर्वतः पश्यामि। विश्वेश्वर विश्वस्य नियन्तः ! विश्व-रूप विश्व-शरीर यतस् त्वम् अनन्तः। अतस् तव नान्तꣳ न मध्यꣳ न पुनस् तवादिꣳ च पश्यामि॥११।१६॥

Link copied

किरीटिनꣳ गदिनꣳ चक्रिणꣳ च

Link copied

तेजो-राशिꣳ सर्वतो दीप्तिमन्तम्

Link copied

पश्यामि त्वाꣳ दुर्निरीक्ष्यꣳ समन्ताद्

Link copied

दीप्तानलार्क-द्युतिम् अप्रमेयम्१७

Link copied

तेजो-राशिꣳ सर्व तो दीप्तिमन्तꣳ समन्ताद् दुर्निरीक्ष्यꣳ दीप्तानलार्क-द्युतिम् अप्रमेयꣳ त्वाꣳ किरीटिनꣳ गदिनꣳ चक्रिणꣳ च पश्यामि॥११।१७॥

Link copied

त्वम् अक्षरꣳ परमꣳ वेदितव्यꣳ

Link copied

त्वम् अस्य विश्वस्य परꣳ निधानम्

Link copied

त्वम् अव्ययः शाश्वत-धर्म-गोप्ता

Link copied

सनातनस् त्वꣳ पुरुषो मतो मे१८

Link copied

उपनिषत्सु द्वे विद्ये वेदितव्ये [मु।उ। १।१।४] इत्य्-आदिषु वेदितव्यतया निर्दिष्टꣳ परमम् अक्षरꣳ त्वम् एव। अस्य विश्वस्य परꣳ निधानꣳ विश्वस्यास्य परमाधार-भूतस् त्वम् एव। त्वम् अव्ययो व्यय-रहितः। यत्-स्वरूपो यद्-गुणो यद्-विभवश् च त्वꣳ तेनैव रूपेण सर्वदावतिष्ठसे। शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्यैवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता। सनातनस् त्वꣳ पुरुषो मतो मे--- वेदाहम् एतꣳ पुरुषꣳ महान्तम् [यजुः ३१।१८; तै।आ। ३।१२।७; श्वे।उ। ३।८] परात् परꣳ पुरुषम् [मु।उ। ३।२।८] इत्य्-आदिषूदितः सनातन-पुरुषस् त्वम् एवेति मे मतो ज्ञातः। यदु-कुल-तिलकस् त्वम् एवꣳ-भूत इदानीꣳ साक्षात्-कृतो मयेत्य् अर्थः॥११।१८॥

Link copied

अनादि-मध्यान्तम् अनन्त-वीर्यम्

Link copied

अनन्त-बाहुꣳ शशि-सूर्य-नेत्रम्

Link copied

पश्यामि त्वाꣳ दीप्त-हुताश-वक्त्रꣳ

Link copied

स्व-तेजसा विश्वम् इदꣳ तपन्तम्१९

Link copied

अनादि-मध्यान्तम् आदि-मध्यान्त-रहितम्। अनन्त-वीर्यम् अनवधिकातिशय-वीर्यम्, वीर्य-शब्दः प्रदर्शनार्थम्। अनवधिकातिशय-ज्ञान-बलैश्वर्य-शक्ति-तेजसाꣳ निधिम् इत्य् अर्थः। अनन्त-बाहुम् असङ्ख्येय-बाहुम्। सोऽपि प्रदर्शनार्थम्, अनन्त-बाहूदर-पाद-वक्त्रादिकम्। शशि-सूर्य-नेत्रꣳ शशिवत् सूर्यवत् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम्। देवादीन् अनुकूलान् नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षसादीन् प्रति प्रतापः। रक्षाꣳसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः [११।३६] इति हि वक्ष्यते।

Link copied

दीप्त-हुताश-वक्त्रꣳ प्रदीप्त-कालानलवत् सꣳहारानुगुण-वक्त्रम्। स्व-तेजसा विश्वम् इदꣳ तपन्तम्--- तेजः पराभिभवन-सामर्थ्यम्, स्वकीयेन तेजसा विश्वम् इदꣳ तपन्तꣳ त्वाꣳ पश्यामि। एवꣳ-भूतꣳ सर्वस्य स्रष्टारम्, सर्वस्याधार-भूतꣳ सर्वस्य प्रशासितारम्, सर्वस्य सꣳहर्तारम्, ज्ञानाद्य्-अपरिमित-गुण-सागरम्, आदि-मध्यान्त-रहितम् एवꣳ-भूत-दिव्य-देहꣳ त्वाꣳ यथोपदेशꣳ साक्षात्-करोमीत्य् अर्थः।

Link copied

एकस्मिन् दिव्य-देहेऽनेकोदरादिकꣳ कथम्। इत्थम् उपपद्यते--- एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथोदित-दिव्योदरादयः, अधश् च यथोदित-दिव्य-पादाः, तत्रैकस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः॥११।१९॥

Link copied

एवꣳ-भूतꣳ त्वाꣳ दृष्ट्वा देवादयोऽहꣳ च प्रव्यथिता भवामीत्य् आह---

Link copied

द्याव्-आपृथिव्योर् इदम् अन्तरꣳ हि

Link copied

व्याप्तꣳ त्वयैकेन दिशश् च सर्वाः

Link copied

दृष्ट्वाद्भुतꣳ रूपम् इदꣳ तवोग्रꣳ

Link copied

लोक-त्रयꣳ प्रव्यथितꣳ महात्मन्२०

Link copied

द्यु-शब्दः पृथिवी-शब्दश् च उभाव् उपरितनानाम् अधस्तनानाꣳ च लोकानाꣳ प्रदर्शनार्थम्। द्याव्-आपृथिव्योर् अन्तरम् अवकाशः, यस्मिन् अवकाशे सर्वे लोकास् तिष्ठन्ति, सर्वोऽयम् अवकाशः दिशश् च सर्वास् त्वयैकेन व्याप्ताः।

Link copied

दृष्ट्वाद्भूतꣳ रूपम् उग्रꣳ तवेदम् अनन्तायाम-विस्तारम् अत्यद्भुतम् आत्युग्रꣳ तव रूपꣳ दृष्ट्वा लोक-त्रयꣳ प्रव्यथितम्--- युद्ध-दिदृक्षयागतेषु ब्रह्मादि-देवासुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूलानुकूल-मध्यस्थ-रूपꣳ लोक-त्रयꣳ सर्वꣳ प्रव्यथितम्, अत्यन्त-भीतम्। महात्मन् अपरिच्छेद्य-मनो-वृत्ते !

Link copied

एतेषाम् अप्य् अर्जुनस्येव विश्वाश्रय-रूप-साक्षात्-कार-साधनꣳ दिव्यꣳ चक्षुर् भगवता दत्तम्। किम्-अर्थम् इति चेत्। अर्जुनाय स्वैश्वर्यꣳ सर्वꣳ प्रदर्शयितुम्। अत इदम् उच्यते--- दृष्ट्वाद्भुतꣳ रूपम् उग्रꣳ तवेदꣳ लोक-त्रयꣳ प्रव्यथितꣳ महात्मन् इति॥११।२०॥

Link copied

अमी हि त्वा सुर-सङ्घा विशन्ति

Link copied

केचिद् भीताः प्राञ्जलयो गृणन्ति

Link copied

स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-सङ्घाः

Link copied

स्तुवन्ति त्वाꣳ स्तुतिभिः पुष्कलाभिः२१

Link copied

अमी सुर-सङ्घा उत्कृष्टस् त्वाꣳ विश्वाश्रयम् अवलोक्य हृष्ट-मनसस् त्वत्-समीपꣳ विशान्ति। तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतꣳ च तवाकारम् आलोक्य भीताः प्राञ्जलयः स्व-ज्ञानानुगुणꣳ स्तुति-रूपाणि वाक्यानि गृणन्त्य् उच्चारयन्ति। अपरे महार्षि-सङ्घाः सिद्ध-सङ्घाश् च परावर-तत्त्व-याथात्म्य-विदः स्वस्तीत्य् उक्त्वा पुष्कलाभिर् भगवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति॥११।२१॥

Link copied

रूपꣳ महत् ते बहु-वक्त्र-नेत्रꣳ

Link copied

महा-बाहो बहु-बाहूरु-पादम्

Link copied

बहूदरꣳ बहु-दꣳष्ट्रा-करालꣳ

Link copied

दृष्ट्वा लोकाः प्रव्यथितास् तथाहम्२३

Link copied

ऊष्मपाः पितर ऊष्म-भागा हि पितरः [तै।ब्रा। १।३।१०] इति श्रुतेः। एते सर्वे विस्मयम् आपन्नास् त्वाꣳ वीक्षन्ते॥११।२२॥

Link copied

नभः-स्पृशꣳ दीप्तम् अनेक-वर्णꣳ

Link copied

व्यात्ताननꣳ दीप्त-विशाल-नेत्रम्

Link copied

दृष्ट्वा हि त्वाꣳ प्रव्यथितान्तरात्मा

Link copied

धृतिꣳ न विन्दामि शमꣳ च विष्णो२४

Link copied

बह्वीभिः दꣳष्ट्राभिर् अतिभीषणाकारꣳ लोकाः पूर्वोक्ताः प्रतिकूलानुकूल-मध्यस्थास् त्रि-विधाः सर्व एवाहꣳ च तवेदम् ईदृशꣳ रूपꣳ दृष्ट्वातीव व्यथिता भवामः॥११।२३॥

Link copied

नभः-स्पृशꣳ दीप्तम् अनेक-वर्णꣳ

Link copied

व्यात्ताननꣳ दीप्त-विशाल-नेत्रम्

Link copied

दृष्ट्वा हि त्वाꣳ प्रव्यथितान्तरात्मा

Link copied

धृतिꣳ न विन्दामि शमꣳ च विष्णो२४

Link copied

नभः-शब्दस् तद्-अक्षरे परमे व्योमन् [म।ना।उ। १।२], आदित्य-वर्णꣳ तमसः परस्तात् [श्वे।उ। ३।८, य।वे। ३१।१८], क्षयꣳ तमस्य रजसः पराके [ऋग्।वे। २।६।२५।५] यो अस्याध्यक्षः परमे व्योमन् [ऋग्।वे। ८।९।१७।७] इत्य्-आदि-श्रुति-सिद्ध-त्रिगुण-प्रकृत्य्-अतीत-परम-व्योम-वाची। स-विकारस्य प्रकृति-तत्त्वस्य पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्य आश्रयतया नभः-स्पृशम् इति वचनात्। द्याव्-आपृथिव्योर् इदम् अन्तरꣳ हि व्याप्तम् [११।२०] इति पूर्वोक्तत्वाच् च। दीप्तम् अनेक-वर्णꣳ व्यात्ताननꣳ दीप्त-विशाल-नेत्रꣳ त्वाꣳ दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्त-भीत-मना धृतिꣳ न विन्दामि, देहस्य धारणꣳ न लभे। मनसश् च इन्द्रियाणाꣳ च शमꣳ न लभे॥११।२४॥

Link copied

विष्णो व्यापिन् सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरꣳ च त्वाꣳ दृष्ट्वा प्रशिथिलवसर्वावयवो व्याकुलेन्द्रियश् च भवामीत्य् अर्थः।

Link copied

दꣳष्ट्रा-करालानि च ते मुखानि

Link copied

दृष्ट्वैव कालानल-सन्निभानि

Link copied

दिशो न जाने न लभे च शर्म

Link copied

प्रसीद देवेश जगन्-निवास२५

Link copied

युगान्त-कालानलवत् सर्व-सꣳहारे प्रवृत्तान्य् अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने सुखꣳ च न लभे। जगताꣳ निवास देवेशे ब्रह्मादीनाम् ईश्वराणाम् अपि परम-महेश्वरꣳ माꣳ प्रति प्रसन्नो भव। यथाहꣳ प्रकृतिꣳ गतो भवामि, तथा कुर्व् इत्य् अर्थः॥११।२५॥

Link copied

एवꣳ सर्वस्य जगतः स्वायत्त-स्थिति-प्रवृत्तित्वꣳ दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मनावस्थितानाꣳ धार्तराष्ट्राणाꣳ यौधिष्ठिरेष्व् अनुप्रविष्टानाꣳ चासुराꣳशानाꣳ सꣳहारेण भू-भारावतरणꣳ स्वम् अनीषितꣳ स्वेनैव करिष्यमाणꣳ पार्थाय दर्शयामास। स च पार्थो भगवतः स्रष्टृत्वादिकꣳ सर्वैश्वर्यꣳ साक्षात्-कृत्य तस्मिन् एव भगवति सर्वात्मनि धार्तराष्ट्रादीनाम् उपसꣳहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदꣳ प्रोवाच---

Link copied

अमी च त्वाꣳ धृतराष्ट्रस्य पुत्राः

Link copied

सर्वे सहैवावनिपाल-सङ्घैः

Link copied

भीष्मो द्रोणः सूत-पुत्रस् तथासौ

Link copied

सहास्मदीयैर् अपि योध-मुख्यैः२६

Link copied

वक्त्राणि ते त्वरमाणा विशन्ति

Link copied

दꣳष्ट्रा-करालानि भयानकानि

Link copied

केचिद् विलग्ना दशनान्तरेषु

Link copied

सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः२७

Link copied

अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनि-पाल-समूहैः सर्वैः अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैः सह त्वरमाणा दꣳष्ट्रा-करालाणि भयानकानि तव वक्त्राणि विनाशय विशन्ति। तत्र केचित् चूर्णितैर् उत्तमाङ्गैर् दशनान्तरेषु विलग्नाः सन्दृश्यन्ते॥११।२६-२७॥

Link copied

यथा नदीनाꣳ बहवोऽम्बु-वेगाः

Link copied

समुद्रम् एवाभिमुखा द्रवन्ति

Link copied

तथा तवामी नर-लोक-वीरा

Link copied

विशन्ति वक्त्राण्य् अभिविज्वलन्ति२८

Link copied

यथा प्रदीप्तꣳ ज्वलनꣳ पतङ्गा

Link copied

विशन्ति नाशाय समृद्ध-वेगाः

Link copied

तथैव नाशाय विशन्ति लोकास्

Link copied

तवापि वक्त्राणि समृद्ध-वेगाः२९

Link copied

एते राज-लोका बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव प्रदीप्त-ज्वलनम् इव च शलभास् तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति॥११।२८-२९॥

Link copied

लेलिह्यसे ग्रसमानः समन्ताल्

Link copied

लोकान् समग्रान् वदनैर् ज्वलद्भिः

Link copied

तेजोभिर् आपूर्य जगत् समग्रꣳ

Link copied

भासस् तवोग्राः प्रतपन्ति विष्णो३०

Link copied

राज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिरावसिक्तम् ओष्ठ-पुटादिकꣳ लेलिह्यसे पुनः पुनर् लेहनꣳ करोषि। तवातिघोरा भासो रश्मयस् तेजोभिः स्वकीयैः प्रकाशैर् जगत् समग्रम् आपूर्य प्रतपन्ति॥११।३०॥

Link copied

दर्शयात्मानम् अव्ययम् [११।४] इति तवैश्वर्यꣳ निरङ्कुशꣳ साक्षात्-कर्तुꣳ प्रार्थि तेन भवता निरङ्कुशम् ऐश्वर्यꣳ दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम्---

Link copied

आख्याहि मे को भवान् उग्र-रूपो

Link copied

नमोऽस्तु ते देव-वर प्रसीद

Link copied

विज्ञातुम् इच्छामि भवन्तम् आद्यꣳ

Link copied

न हि प्रजानामि तव प्रवृत्तिम्३१

Link copied

अतिघोर-रूपः को भवान्। किꣳ कर्तुꣳ प्रवृत्तः। इति भवन्तꣳ ज्ञातुम् इच्छामि। तवाभिप्रेताꣳ प्रवृत्तिꣳ न जानामि। एतद् आख्याहि मे। नमोऽस्तु ते देव-वर प्रसीद--- नमस् तेऽस्तु सर्वेश्वर एवꣳ कर्तुम् अनेनाभिप्रायेण इदꣳ सꣳहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव॥११।३१॥

Link copied

आश्रित-वात्सल्यातिरेकेण विश्वैश्वर्यꣳ दर्शयतो भवतो घोर-रूपाविष्कारे कोऽभिप्रायः। इति पृष्टे भगवान् पार्थ-सारथिः स्वाभिप्रायम् आह। पार्थोद्योगेन विनापि धार्तराष्ट्र-प्रमुखम् अशेषꣳ राज-लोकꣳ निहन्तुम् अहम् एव प्रवृत्तः, इति ज्ञापनाय मम घोर-रूपाविष्कारः। तज्-ज्ञापनꣳ च पार्थम् उद्योजयितुम् इति श्री-भगवान् उवाच---

Link copied

कालोऽस्मि लोक-क्षय-कृत् प्रवृद्धो

Link copied

लोकान् समाहर्तुम् इह प्रवृत्तः

Link copied

ऋतेऽपि त्वा न भविष्यन्ति सर्वे

Link copied

येऽवस्थिताः प्रत्यनीकेषु योधाः३२

Link copied

कलयति गणयतीति कालः। सर्वेषाꣳ धार्तराष्ट्र-प्रमुखानाꣳ राज-लोकानाम् आयुर्-अवसानꣳ गणयन् अहꣳ तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन सꣳहर्तुम् इह प्रवृत्तोऽस्मि। अतो मत्-सङ्कल्पाद् एव त्वाम् ऋतेऽपि त्वद्-उद्योगम् ऋतेऽप्य् एते धार्तराष्ट्र-प्रमुखतस् तव प्रत्यनीकेषु येऽवस्थिता योधास् ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति॥११।३२॥

Link copied

तस्मात् त्वम् उत्तिष्ठ यशो लभस्व

Link copied

जित्वा शत्रून् भुङ्क्ष्व राज्यꣳ समृद्धम्

Link copied

मयैवैते निहताः पूर्वम् एव

Link copied

निमित्त-मात्रꣳ भव सव्यसाचिन्३३

Link copied

तस्मात् त्वꣳ तान् प्रति युद्धायोत्तिष्ठ। तान् शत्रून् जित्वा यशो लभस्व। धर्म्यꣳ राज्यꣳ च समृद्धꣳ भुङ्क्ष्व। मयैवैते कृतापराधाः पूर्वम् एव निहताः, हनने विनियुक्ताः। त्वꣳ तु तेषाꣳ हनने निमित्त-मात्रꣳ भव। मया हन्यमानानाꣳ शस्त्रादि-स्थानीयो भव। सव्यसाचिन् ! षच समवाये [धातु १।१०२२] सव्येन शर-सचन-शीलः सव्यसाची। सव्येनापि करेण शर-समवाय-करः। कर-द्वयेन योद्धुꣳ समर्थ इत्य् अर्थः॥११।३३॥

Link copied

द्रोणꣳ च भीष्मꣳ च जयद्रथꣳ च

Link copied

कर्णꣳ तथान्यान् अपि योध-वीरान्

Link copied

मया हताꣳस् त्वꣳ जहि मा व्यथिष्ठा

Link copied

युध्यस्व जेतासि रणे सपत्नान्३४

Link copied

द्रोण-भीष्म-कर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वꣳ जहि, त्वꣳ हन्याः। एतान् गुरून् बन्धून् चान्यान् अपि भोग-सक्तान् कथꣳ हनिष्यामि। इति मा व्यथिष्ठाः, तान् उद्दिश्य धर्माधर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथाꣳ कृथाः। यतस् ते कृतापराधाः। मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व। रणे सपत्नान् जेतासि, जेष्यसि। नैतेषाꣳ वधे नृशꣳसता-गन्धः, अपि तु जय एव लभ्यत इत्य् अर्थः॥११।३४॥

Link copied

सञ्जय उवाच---

Link copied

एतच् छ्रुत्वा वचनꣳ केशवस्य

Link copied

कृताञ्जलिर् वेपमानः किरीटी

Link copied

नमस्कृत्वा भूय एवाह कृष्णꣳ

Link copied

स-गद्गदꣳ भीत-भीतः प्रणम्य३५

Link copied

एतद् आश्रित-वात्सल्य-जलधेः केशवस्य वचनꣳ श्रुत्वार्जुनस् तस्मै नमस्कृत्य भीत-भीतोऽतिभीतो भूयस् तꣳ प्रणम्य कृताञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह॥११।३५॥

Link copied

अर्जुन उवाच---

Link copied

स्थाने हृषीकेश तव प्रकीर्त्या

Link copied

जगत् प्रहृष्यत्य् अनुरज्यते च

Link copied

रक्षाꣳसि भीतानि दिशो द्रवन्ति

Link copied

सर्वे नमस्यन्ति च सिद्ध-सङ्घाः३६

Link copied

स्थाने युक्तम्, यद् एतद् युद्ध-दिदृक्षया आगतम् अशेषꣳ देव-गन्धर्व-सिद्ध-यक्ष-विद्याधर-किन्नर-किम्पुरुषादिकꣳ जगत् त्वत्-प्रसादात् त्वाꣳ सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वꣳ प्रहृष्यत्य् अनुरज्यते च। यत् च त्वाम् अवलोक्य रक्षाꣳसि भीतानि सर्वा दिशः प्रद्रवन्ति। सर्वे सिद्ध-सङ्घाः सिद्धाद्य्-अनुकूल-सङ्घा नमस्यन्ति च। तद् एतत् सर्वꣳ युक्तम् इति पूर्वेण सम्बन्धः॥११।३६॥

Link copied

युक्तताम् एवोपपादयति---

Link copied

कस्माच् च ते न नमेरन् महात्मन्

Link copied

गरीयसे ब्रह्मणोऽप्य् आदि-कर्त्रे

Link copied

अनन्त देवेश जगन्-निवास

Link copied

त्वम् अक्षरꣳ सद् असत् तत्-परꣳ यत्३७

Link copied

महात्मन् ! ते तुभ्यꣳ गरीयसे ब्रह्मणो हिरण्यगर्भस्याप्य् आदि-भूताय कर्त्रे, हिरण्यगर्भादयः कस्माद् हेतोर् न नमस्कुर्युः। अनन्त देवेश जगन्-निवास त्वम् एवाक्षरम् न क्षरतीत्य् अक्षरꣳ जीवात्म-तत्त्वम्। न जायते म्रियते वा विपश्चित् [क।उ। १।२।१८] इत्य्-आदि-श्रुति-सिद्धो जीवात्मा हि न क्षरति।

Link copied

सद् असच् च त्वम् एव, सद्-असच्-छब्द-निर्दिष्टꣳ कार्य-कारण-भावेनावस्थितꣳ प्रकृति-तत्त्वम्, नाम-रूप-विभागवत्तया कार्यावस्थꣳ सच्-छब्द-निर्दिष्टꣳ तद्-अनर्हतया कारणावस्थम् असच्-छब्द-निर्दिष्टꣳ च त्वम् एव। तत्-परꣳ यत् तस्मात् प्रकृतेः प्रकृति-सम्बन्धिनश् च जीवात्मनः परम् अन्यन् मुक्तात्म-तत्त्वꣳ यत् तद् अपि त्वम् एव॥११।३७॥

Link copied

अतः---

Link copied

त्वम् आदि-देवः पुरुषः पुराणस्

Link copied

त्वम् अस्य विश्वस्य परꣳ निधानम्

Link copied

वेत्तासि वेद्यꣳ च परꣳ च धाम

Link copied

त्वया ततꣳ विश्वम् अनन्त-रूप३८

Link copied

त्वम् आदि-देवः पुरुषः पुराणः। त्वम् अस्य विश्वस्य परꣳ निधानम्, निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परꣳ निधानम्, विश्वस्य शरीर-भूतस्यात्मतया परमाधार-भूतस् त्वम् एव इत्य् अर्थः। जगति सर्वो वेदिता वेद्यꣳ च सर्वꣳ त्वम् एव, एवꣳ सर्वात्मतयावस्थितस् त्वम् एव परꣳ च धाम स्थानꣳ प्राप्य-स्थानम् इत्य् अर्थः। त्वया ततꣳ विश्वम् अनन्त-रूप त्वयात्मत्वेन विश्वꣳ चिद्-अचिन्-मिश्रꣳ जगत् ततꣳ व्याप्तम्॥११।३८॥

Link copied

अतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह---

Link copied

वायुर् यमोऽग्निर् वरुणः शशाङ्कः

Link copied

प्रजापतिस् त्वꣳ प्रपितामहश् च

Link copied

नमो नमस् तेऽस्तु सहस्र-कृत्वः

Link copied

पुनश् च भूयोऽपि नमो नमस् ते३९

Link copied

सर्वेषाꣳ प्रपितामहस् त्वम् एव, पितामहादयश् च। सर्वासाꣳ प्रजानाꣳ पितरः प्रजापतयः प्रजापतीनाꣳ पिता हिरण्यगर्भः प्रजानाꣳ पितामहः, हिरण्यगर्भस्यापि पिता त्वꣳ प्रजानाꣳ प्रपितामहः। पितामहादीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् एवेत्य् अर्थः॥११।३९॥

Link copied

अत्यद्भुताकारꣳ भगवन्तꣳ दृष्ट्वा हर्षोत्फुल्ल-नयनोऽत्यन्त-साध्वसावनतः सर्वतो नमस्करोति---

Link copied

नमः पुरस्ताद् अथ पृष्ठतस् ते

Link copied

नमोऽस्तु ते सर्वत एव सर्व

Link copied

अनन्त-वीर्यामित-विक्रमस् त्वꣳ

Link copied

सर्वꣳ समाप्नोषि ततोऽसि सर्वः४०

Link copied

अनन्त-वीर्यामित-विक्रमस् त्वꣳ सर्वम् आत्मतया समाप्नोषि ततः सर्वोऽसि। यतस् त्वꣳ सर्वꣳ चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि। अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्योऽसीत्य् अर्थः। त्वम् अक्षरꣳ सद् असत् [गीता ११।३७] वायुर् यमोऽग्निः [गीता ११।३९] इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्यात्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्। त्वया ततꣳ विश्वम् अनन्त-रूप [गीता ११।३८] सर्वꣳ समाप्नोषि ततोऽसि सर्वः इति च॥११।४०॥

Link copied

सखेति मत्वा प्रसभꣳ यद् उक्तꣳ

Link copied

हे कृष्ण हे यादव हे सखेति

Link copied

अजानता महिमानꣳ तवेदꣳ

Link copied

मया प्रमादात् प्रणयेन वापि४१

Link copied

यच् चावहासार्थम् असत्कृतोऽसि

Link copied

विहार-शय्यासन-भोजनेषु

Link copied

एकोऽथ वाप्य् अच्युत तत्-समक्षꣳ

Link copied

तत् क्षामये त्वाम् अहम् अप्रमेयम्४२

Link copied

तवानन्त-वीर्यत्वामित-विक्रमत्व-सर्वान्तर्-आत्मत्व-स्रष्टृत्वादिको यो महिमा तम् इमम् अजानतया मया प्रमादान् मोहात् प्रणयेन चिर-परिचयेन वा सखेति मम वयस्य इति मत्वा, हे कृष्ण हे यादव हे सखे ! इति त्वयि प्रसभꣳ विनयापेतꣳ यद् उक्तꣳ यच् च परिहासार्थꣳ सर्वदैव सत्-कारार्हस् त्वम् असत्कृतोऽसि, विहार-शय्यासन-भोजनेषु च सह-कृतेष्व् एकान्ते वा समक्षꣳ वा यद् असत्कृतोऽसि, तत् सर्वꣳ त्वाम् अप्रमेयम् अहꣳ क्षामये॥११।४१-४२॥

Link copied

पितासि लोकस्य चराचरस्य

Link copied

त्वम् अस्य पूज्यश् च गुरुर् गरीयान्

Link copied

न त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यो

Link copied

लोक-त्रयेऽप्य् अप्रतिम-प्रभाव४३

Link copied

अप्रतिम-प्रभावस् त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पिता अस्य् अस्य लोकस्य गुरुश् चासि। अतस् त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः। न त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यः। लोक-त्रयेऽपि त्वद्-अन्यः कारुण्यादिना केनापि गुणेन न त्वत्-समोऽस्ति कुतोऽभ्यधिकः॥११।४३॥

Link copied

यस्मात् त्वꣳ सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्यादि-गुणैश् च सर्वाधिकोऽसि---

Link copied

तस्मात् प्रणम्य प्रणिधाय कायꣳ

Link copied

प्रसादये त्वाम् अहम् ईशम् ईड्यम्

Link copied

पितेव पुत्रस्य सखेव सख्युः

Link copied

प्रियः प्रियायार्हसि देव सोढुम्४४

Link copied

तस्मात् त्वाम् ईशम् ईड्यꣳ प्रणम्य प्रणिधाय च कायꣳ प्रसादये। यथा कृतापराधस्यापि पुत्रस्य यथा च सख्युः प्रणाम-पूर्वकꣳ प्रार्थितः पिता सखा वा प्रसीदति, तथा त्वꣳ परम-कारुणिकः प्रियः प्रियाय मे सर्वꣳ सोढुम् अर्हसि॥११।४४॥

Link copied

अदृष्ट-पूर्वꣳ हृषितोऽस्मि दृष्ट्वा

Link copied

भयेन च प्रव्यथितꣳ मनो मे

Link copied

तद् एव मे दर्शय देव रूपꣳ

Link copied

प्रसीद देवेश जगन्-निवास४५

Link copied

अदृष्ट-पूर्वम् अत्यद्भुतम् अत्युग्रꣳ च तव रूपꣳ दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि, भयेन प्रव्यथितꣳ च मे मनः, अतस् तद् एव तव सुप्रसन्नꣳ रूपꣳ मे दर्शय। प्रसीद देवेश जगन्-निवास मयि प्रसादꣳ कुरु देवानाꣳ ब्रह्मादीनाम् अपि ईश निखिल-जगद्-आश्रय-भूत॥११।४५॥

Link copied

किरीटिनꣳ गदिनꣳ चक्र-हस्तम्

Link copied

इच्छामि त्वाꣳ द्रष्टुम् अहꣳ तथैव

Link copied

तेनैव रूपेण चतुर्-भुजेन

Link copied

सहस्र-बाहो भव विश्व-मूर्ते४६

Link copied

तथैव पूर्ववत् किरीटिनꣳ गदिनꣳ चक्र-हस्तꣳ त्वाꣳ द्रष्टुम् इच्छामि, अतस् तेनैव पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव सहस्र-बाहो विश्व-मूर्ते इदानीꣳ सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वꣳ तेनैव रूपेण युक्तो भवेत्य् अर्थः॥११।४६॥

Link copied

श्री-भगवान् उवाच---

Link copied

मया प्रसन्नेन तवार्जुनेदꣳ

Link copied

रूपꣳ परꣳ दर्शितम् आत्म-योगात्

Link copied

तेजो-मयꣳ विश्वम् अनन्तम्

Link copied

आद्यꣳ यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम्४७

Link copied

यत् मे तेजो-मयꣳ तेजो-राशिꣳ विश्वꣳ सर्वात्म-भूतम् अनन्तम् अन्त-रहितम्। प्रदर्शनार्थम् इदम्, आदि-मध्यान्त-रहितम्। आद्यꣳ मद्-व्यतिरिक्तस्य कृत्स्नस्य आदि-भूतꣳ त्वद्-अन्येन केनापि न दृष्ट-पूर्वꣳ रूपꣳ तद् इदꣳ प्रसन्नेन मया मद्-भक्ताय ते दर्शितम् आत्म-योगाद् आत्मनः सत्य-सङ्कल्पत्व-योगात्॥११।४७॥

Link copied

अनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितोऽहꣳ द्रष्टुꣳ न शक्य इत्य् आह---

Link copied

न वेद यज्ञाध्ययनैर् न दानैर्

Link copied

न च क्रियाभिर् न तपोभिर् उग्रैः

Link copied

एवꣳ-रूपः शक्य अहꣳ नृ-लोके

Link copied

द्रष्टुꣳ त्वद्-अन्येन कुरु-प्रवीर४८

Link copied

एवꣳ-रूपो यथावस्थितोऽहꣳ मयि भक्ति-मतस् त्वत्तोऽन्येनैकान्तिकात्यन्तिक-भक्ति-रहितेन केनापि पुरुषेण केवलैर् वेद-यज्ञादिभिर् द्रष्टुꣳ न शक्यः॥११।४८॥

Link copied

मा ते व्यथा मा च विमूढ-भावो

Link copied

दृष्ट्वा रूपꣳ घोरम् ईदृङ् ममेदम्

Link copied

व्यपेत-भीः प्रीत-मनाः पुनस् त्वꣳ

Link copied

तद् एव मे रूपम् इदꣳ प्रपश्य४९

Link copied

ईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च विमूढ-भावो वर्तते, तद् उभयꣳ मा भूत्, त्वयाभ्यस्त-पूर्वम् एव सौम्य-रूपꣳ दर्शयामि, तद् एवेदꣳ मम रूपꣳ प्रपश्य॥११।४९॥

Link copied

सञ्जय उवाच---

Link copied

इत्य् अर्जुनꣳ वासुदेवस् तथोक्त्वा

Link copied

स्वकꣳ रूपꣳ दर्शयाम् आस भूयः

Link copied

आश्वासयाम् आस च भीतम् एनꣳ

Link copied

भूत्वा पुनः सौम्य-वपुर् महात्मा५०

Link copied

एवꣳ पाण्डु-तनयꣳ भगवान् वसुदेव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुज-रूपꣳ दर्शयामास, अपरिचित-स्वरूप-दर्शनेन भीतम् एवꣳ पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयामास च, महात्मा सत्य-सङ्कल्पः।

Link copied

अस्य सर्वेश्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसुदेव-सूनोश् चतुर्-भुजम् एव स्वकीयꣳ रूपꣳ कꣳसाद् भीत-वसुदेव-प्रार्थनेन आ-कꣳस-वधात् पूर्वꣳ भुज-द्वयम् उपसꣳहृतꣳ पश्चाद् आविष्कृतꣳ च।

Link copied

जातोऽसि देव-देवेश शङ्ख-चक्र-गदाधर।

Link copied

दिव्य-रूपम् इदꣳ देव प्रसादेनोपसꣳहर॥ [वि।पु। ५।३।१०]

Link copied

उपसꣳहर विश्वात्मन् रूपम् एतच् चतुर्-भुजम्॥ [वि।पु। ५।३।१३] इति हि प्रार्थितम्।

Link copied

शिशुपालस्यापि द्विषतोऽनवरत-भावना-विषयꣳ चतुर्-भुजम् एव वसुदेव-सूनो रूपम् उदार-पीवर चतुर्-बाहुꣳ शङ्ख-चक्र-गदाधरम् [वि।पु। ४।१५।१०] इति। अतः पार्थेनात्र तेनैव रूपेण चतुर्-भुजेन [गीता ११।४६] इत्य् उच्यते॥११।५०॥

Link copied

अर्जुन उवाच---

Link copied

दृष्ट्वेदꣳ मानुषꣳ रूपꣳ तव सौम्यꣳ जनार्दन

Link copied

इदानीम् अस्मि सꣳवृत्तः स-चेताः प्रकृतिꣳ गतः५१

Link copied

अनवधिकातिशय-सौन्दर्य-सौकुमार्य-लावण्यादि-युक्तꣳ तवैवासाधारणꣳ मनुष्यत्व-सꣳस्थान-सꣳस्थितम् अतिसौम्यम् इदꣳ तव रूपꣳ दृष्ट्वा स-चेताः सꣳवृत्तोऽस्मि, प्रकृतिꣳ गतश् च॥११।५१॥

Link copied

श्री-भगवान् उवाच---

Link copied

सुदुर्दर्शम् इदꣳ रूपꣳ दृष्टवान् असि यन् मम

Link copied

देवा अप्य् अस्य रूपस्य नित्यꣳ दर्शन-काङ्क्षिणः५२

Link copied

ममेदꣳ सर्वस्य प्रशासनेऽवस्थितꣳ सर्वाश्रयꣳ सर्व-कारण-भूतꣳ रूपꣳ यत् दृष्टवान् असि, तत् सुदुर्दर्शो न केनापि द्रष्टुꣳ शक्यम्। अस्य रूपस्य देवा अपि नित्यꣳ दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः॥११।५२॥

Link copied

कुतः। इत्य् अत्राह---

Link copied

नाहꣳ वेदैर् न तपसा न दानेन न चेज्यया

Link copied

शक्य एवꣳ-विधो द्रष्टुꣳ दृष्टवान् असि माꣳ यथा५३

Link copied

भक्त्या त्व् अनन्यया शक्य अहम् एवꣳ-विधोऽर्जुन

Link copied

ज्ञातुꣳ द्रष्टुꣳ च तत्त्वेन प्रवेष्टुꣳ च परन्तप५४

Link copied

वेदैर् अध्यापन-प्रवचनाध्ययन-श्रवण-जप-विषयैर् याग-दान-होम-तपोभिश् च मद्-भक्ति-रहितैः केवलैर् यथावद् अवस्थितोऽहꣳ द्रष्टुꣳ न शक्यः। अनन्यया तु भक्त्या तत्त्वतः शास्त्रैर् ज्ञातुꣳ तत्त्वतः साक्षात्-कर्तुꣳ तत्त्वतः प्रवेष्टुꣳ च शक्यः। तथा च श्रुतिः---

Link copied

नायम् आत्मा प्रवचनेन लभ्यो

Link copied

न मेधया न बहुना श्रुतेन।

Link copied

यम् एवैष वृणुते तेन लभ्यस्

Link copied

तस्यैष आत्मा विवृणुते तनूꣳ स्वाम्। [क।उ। २।२३] इति॥११।५३-५४॥

Link copied

मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः

Link copied

निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव५५

Link copied

वेदाध्ययनादीनि सर्वाणि कर्माणि मद्-आराधन-रूपाणीति यः करोति स मत्-कर्म-कृत्। मत्-परमः--- सर्वेषाम् आरम्भाणाम् अहम् एव परमोद्देश्यो यस्य स मत्-परमः। मद्-भक्तः--- अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-स्तुति-ध्यानार्चन-प्रणामादिभिर् विनात्म-धारणम् अलभमानो मद्-एक-प्रयोजनतया यः सततꣳ तानि करोति स मद्-भक्तः।

Link copied

सङ्ग-वर्जितः--- मद्-एक-प्रियत्वेनेतर-सङ्गम् असहमानो निर्वैरः सर्व-भूतेषु--- मत्-सꣳश्लेष-वियोगैक-सुख-दुःख-स्वभावत्वात् स्व-दुःखस्य स्वापराध-निमित्तत्वानुसन्धानाच् च सर्व-भूतानाꣳ परम-पुरुष-पर-तन्त्रत्वानुसन्धानाच् च सर्व-भूतेषु वैर-निमित्ताभावात् तेषु निर्वैरः। य एवꣳ-भूतः स माम् एति, माꣳ यथावद् अवस्थितꣳ प्राप्नोति। निरस्ताविद्याद्य्-अशेष-दोष-गन्धो मद्-एकानुभवो भवतीत्य् अर्थः॥११।५५॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये एकादशोऽध्यायः॥११॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 11 — The Book of the Cosmic Vision (in Sanskrit: Viśvarūpa-Sandarśana-Yoga)

This is the devotional and emotional summit of the Gita. Having heard from the Lord's own mouth the singularity of His nature and the dependence of all things on Him, Arjuna — convinced but longing to see for himself — asks to behold the Lord's Sovereign Form. Sri Krishna responds by granting him the divine eye and revealing the viśvarūpa — the cosmic form in which the whole universe lies in a corner of the Lord's body. This chapter, verse by verse, is the unveiling of that vision, Arjuna's trembling praise, his terror, and his plea for the return of the familiar, gentle form. It concludes with Sri Krishna's profound declaration that by bhakti alone — unmixed, exclusive bhakti — is He truly seen, known, and entered.

Link copied

Verses 1–4 (Arjuna's request)

Verse 11.1. — "By the gracious speech You have made concerning the Supreme Mystery of adhyātma, my delusion is dispelled."

Link copied

Until now, Arjuna labored under the misconception of loving the body as though it were the soul; the Lord's teaching has removed this error.

Link copied

Verse 11.2. — "In detail have I heard from You, O Lotus-eyed, of the coming and going of beings, and of Your eternal Majesty."

Link copied

From the Seventh to the Tenth chapters, Arjuna has heard of the efflux and influx of all beings, and of the Lord's majesty as the Unrelated to all the related, the Support of all, the Director of every thought.

Link copied

Verse 11.3. — "As You have described Yourself, O Parameśvara, so I wish to see Your Sovereign Form, O Puruṣottama."

Link copied

Verse 11.4. — "If, Master, You deem me fit, then reveal Yourself to me, O Lord of Yoga, in all Your entirety."

Link copied

Verses 5–8 (The Lord grants the divine eye)

Verse 11.5. — "Behold My forms divine, O Partha, by the hundred and the thousand, in every variety, color, and contour."

Link copied

Verse 11.6. — "Behold the Ādityas, the Vasus, the Rudras, the Aśvins, the Maruts. Behold many wonders, O Bhārata, never before seen."

Link copied

In His one form, He contains the twelve Ādityas, eight Vasus, eleven Rudras, two Aśvins, forty-nine Maruts, and all the marvels of all worlds recorded in Śāstra and never yet seen.

Link copied

Verse 11.7. — "Behold here, O Guḍākeśa, all the cosmos, moving and non-moving, nestling in one corner of My body — and whatever else you may wish to see."

Link copied

Verse 11.8. — "But with this eye of yours you cannot see Me. I give you the divine eye. Behold My Sovereign yoga."

Link copied

The physical eye, fitted only for limited and conditioned objects, cannot see the unique, immeasurable Form. So the Lord grants the divya-cakṣus, the divine eye.

Link copied

Verses 9–14 (The unveiling)

Verse 11.9. — "So saying, O King, Hari, the great Lord of yoga, disclosed to Partha His supreme Sovereign form."

Link copied

Thus did He who was seated as Charioteer — Arjuna's own maternal cousin — unravel to his paternal cousin the extraordinary Sovereign Form, the Seat of the diverse and wonderful cosmos.

Link copied

Verse 11.10. — "— with countless mouths and eyes, the focus of countless marvels, with countless divine ornaments, with countless divine weapons upraised; —"

Link copied

Verse 11.11. — "— wreathed in divine garlands, robed in divine garments, anointed in divine unguents, all-wondrous, brilliant, infinite, all-faced."

Link copied

Devam — brilliant, shining, resplendent. Anantam — infinite, the receptacle of all universes past, present, and future; unmeasurable by space or time. Viśvato-mukham — all-faced, turned to every quarter of the cosmos.

Link copied

Verse 11.12. — "Were a thousand suns to burst forth in the heavens at once, that brilliance might compare with the radiance of that Great Soul."

Link copied

This is but an illustration to hint at the infinite, undiminishing splendor.

Link copied

Verse 11.13. — "Then did Arjuna see there, resting in a single spot in the body of the God of gods, all the universe in its manifold divisions."

Link copied

In that divine body — infinitely long, infinitely broad, of many hands and trunks, many faces and eyes, of endless effulgence, countless celestial weapons and ornaments — Arjuna saw all the universe: Brahmā and all the devas, the human and animal and vegetable and mineral kingdoms, the enjoyers and the enjoyed and the instruments of enjoyment, the worlds of Svarga, Pātāla, Atala, Vitala, Sutala — the whole composite of prakṛti and puruṣa.

Link copied

Verse 11.14. — "Then, struck with amazement, hairs thrilling in ecstasy, Dhanañjaya bowed his head reverently before the God, and with folded palms said —"

Link copied

Verses 15–31 (Arjuna's vision and hymn)

Verse 11.15. — "I see all the Gods, O Lord, in Your frame; and the diverse hosts of beings; Brahmā, and Īśa seated in Brahmā (upon the lotus); all the Ṛṣis, and all the shining races of serpents."

Link copied

Verse 11.16. — "I see You on every side, of countless arms, countless breasts, countless faces, countless eyes, of boundless form. I see no end, no middle, no beginning of You, O Lord of the universe, O Cosmic Figure."

Link copied

Viśveśvara — Wielder of the universe. Viśvarūpa — He to whom the cosmos is the body.

Link copied

Verse 11.17. — "I see You, crowned, with mace and discus in hand; a pile of light, dazzling on every side; a blaze of sun-and-moon, measureless."

Link copied

Verse 11.18. — "You are to be known as the Supreme Imperishable; the Shelter of this cosmos; the Undecaying; the Shield of the permanent dharma. I know You as the Primal Puruṣa."

Link copied

He is the Akṣara declared in the Upaniṣads as what is to be known; the Support and Prop of the universe; the Avyaya who remains whatever He wills to be; the Protector of the eternal laws by His incarnations as Rāma, Krishna, and others; the Ancient Spirit, the Sublimer than the sublime.

Link copied

Verse 11.19. — "I see You, beginningless, middleless, endless; of infinite energy; of countless arms; eyes like moon and sun; mouths with blazing fire; Your glory warming the cosmos."

Link copied

The gladdening eye is for the devoted; the blazing for the hostile. The mouth with fire is as if the Fire of Destruction raged within it at the end of yugas. His life-giving glory flows unresisted into the universe.

Link copied

Verse 11.20. — "Indeed, the space between heaven and earth and every direction is filled by You alone. At the sight of Your wondrous, awful Form, all three worlds, O Great Soul, are panic-struck."

Link copied

All three worlds — gathered to witness the impending conflict between the Pāṇḍavas and Kauravas, the friendly, the inimical, the indifferent — are overwhelmed with awe.

Link copied

Verse 11.21. — "The hosts of Suras enter into You; some in fear, with folded hands, extol You. Crying 'Hail,' the Maharṣis and Siddhas lavish hymns upon You."

Link copied

Verse 11.22. — "The Rudras, the Ādityas, the Vasus, the Sādhyas, the Viśvas, the Aśvins, the Maruts, the Uṣmapas, the hosts of Gandharvas, Yakṣas, Asuras, and Siddhas — all behold You in astonishment."

Link copied

Verse 11.23. — "The worlds tremble at sight of Your magnificent Form, O mighty-armed, of many faces, many eyes, many arms, many feet, many breasts, and terror-striking tusks. I too tremble."

Link copied

Verse 11.24. — "O Viṣṇu! my inner soul quakes at seeing You reaching the firmament, effulgent, many-hued, wide-mouthed, with large shining eyes. I can find neither courage nor peace."

Link copied

The firmament here is the parama-vyoma — the Supreme Space above the three guṇas, chanted in the Upaniṣads as "the High Imperishable Vault" and "beyond this rajas."

Link copied

Verse 11.25. — "Seeing Your mouths terrible with tusks, blazing like the Fires of Time, I forget where I am and find no comfort. Mercy, O God of gods, O Refuge of the cosmos!"

Link copied

At this point the Charioteer has proved to Arjuna how all the cosmos rests in Him. Now He will show, out of His sovereign will, the destruction He is about to bring upon the kings arrayed in Duryodhana's faction and among Yudhiṣṭhira's side too, so that earth may be rid of its burdens. With the same spiritual eye, Arjuna now sees the event before it has yet happened.

Link copied

Verse 11.26. — "All these scions of Dhṛtarāṣṭra, together with the bands of kings — Bhīṣma and Droṇa and yon Charioteer's son Karṇa, and also our own warrior-chiefs —"

Link copied

Verse 11.27. — "— rush fast into Your mouths terrific with terrible teeth. Some are seen, heads caught between Your teeth and ground to dust."

Link copied

Verse 11.28. — "Like the waters of rivers flowing seaward, so do these heroes of earth pour into Your blazing mouths."

Link copied

Verse 11.29. — "Like moths rushing into flame to die, these men hurl themselves headlong into Your mouths to perish."

Link copied

Verse 11.30. — "You lick up, with Your fiery mouths, all the worlds morsel-made. Your fierce rays fill and burn the cosmos, O Viṣṇu."

Link copied

Verse 11.31. — "Tell me who You are, of this dreadful form. Salutation to You, Chief of gods; be merciful. I wish to learn of You, the Primitive. Your work I do not understand."

Link copied

Verses 32–34 (The Lord's declaration of His work)

Verse 11.32. — "I am Time, the world-Effacer, come to do the work of destroying the worlds. Even without you, none of these warriors arrayed against you shall remain."

Link copied

Kāla — Time — reckons when the life-span of Dhṛtarāṣṭra and the others has run out. He is now manifest in this awful form to complete that work directly; without Arjuna's help, by His mere fiat, the warriors opposed will meet their ruin.

Link copied

Verse 11.33. — "Therefore arise; win renown. Vanquishing your foes, enjoy the prosperous kingdom. These have already been slain by Me. Be but the instrument, O Savya-sācin."

Link copied

The unrighteous have already been picked out for destruction; Arjuna's part is that of an implement in the work. Savya-sācin — the ambidextrous — who can shoot with either hand.

Link copied

Verse 11.34. — "Smite Droṇa, Bhīṣma, Jayadratha, Karṇa, and the other valiant heroes, already slain by Me. Do not hesitate. Fight. You shall conquer your enemies in the contest."

Link copied

Do not be paralyzed by considerations of affection, compassion, or fear in regard to teachers and kinsmen; they have been chosen for destruction. Victory is certain.

Link copied

Verses 35–46 (Arjuna's hymn of homage and plea)

Verse 11.35. — "Hearing Keśava's speech, with trembling Kirīṭī clasped his palms, bowed reverently, and in timorous, broken accents again addressed Krishna."

Link copied

Verse 11.36. — "Rightly does the universe rejoice and revel at Your glory, O Hṛṣīkeśa. Panic-struck, the Rākṣasas flee to every quarter; and the Siddha-ranks salute You."

Link copied

It is right that the devas, gandharvas, siddhas, yakṣas, vidyādharas, kinnaras, and kimpuruṣas — come to witness the conflict — should admire and rejoice. Right that the demons should flee and the Siddhas revere.

Link copied

Verse 11.36½. — "How should they not bow to You, O noble Soul — the Sublime, the Creator prior even to Brahmā?"

Link copied

Verses 11.37–37½. — "O Infinite! Lord of gods! Abode of the universe! You are the Imperishable, the Effect and the Cause, and what is beyond. You are the Original Lord, the Ancient Puruṣa, the superb Prop of the cosmos."

Link copied

Ananta — Infinite; Nivāsa — Abode; Akṣara — the Category of individual souls. Sat is matter in its manifest, differentiated state (Effect); asat is matter in its undifferentiated, latent state (Cause). What is beyond both is the liberated souls. You are all of these.

Link copied

Verse 11.38. — "You are the Knower and the Knowable, the supreme Asylum; by You, O Infinite-formed, is the cosmos pervaded."

Link copied

Since all intelligents and non-intelligents are impregnated with Him as Spirit, every name — of wind, of fire, of moon — is ultimately His.

Link copied

Verse 11.38½. — "You are Vāyu, Yama, Agni, Varuṇa, the moon; the Grandsire and the Great-Grandsire."

Link copied

The Prajāpatis are the patriarchs of creatures; the Father of the Prajāpatis is Hiraṇyagarbha — so You are Pitāmaha. Of Hiraṇyagarbha too You are Father — so Prapitāmaha. Every such name is Yours, since You are the indwelling Soul of all.

Link copied

Verses 11.39–39½. — "Salutation, salutation to You a thousand times; again and again salutation to You. Salutation before, salutation behind; salutation on every side, O All!"

Link copied

Verse 11.40. — "O of infinite energy, of infinite prowess! You interpenetrate all things. Therefore You are the All."

Link copied

As Soul, He enters into all things. He is the All, the Substance of which everything else is a mode; every name is His name. This is the rationale of predications like "You are akṣara, sat, asat," and "You are Vāyu, Yama, Agni" — known as sāmānādhikaraṇya, the common reference of predicates.

Link copied

Verse 11.41. — "Whatever I may have rashly said — by mistake, out of affection, thinking of You as a friend, ignorant of this Your Majesty — calling 'O Krishna, O Yādava, O Comrade' —"

Link copied

Verse 11.42. — "— and whatever slight I may, in jest, have shown You, O Acyuta, at play or at rest, seated or at meals, alone or in company — I beseech Your forgiveness, O Boundless."

Link copied

In moments of heedlessness or long familiarity, speaking as to an equal, or in play together, sleeping and eating together, words or acts derogatory to His dignity may have occurred; Arjuna asks pardon.

Link copied

Verse 11.43. — "O Matchless Glory! You are Father of all that moves and stands; Adorable; Teacher; Venerable. None is equal to You in the three worlds — how then could any be superior?"

Link copied

Verse 11.44. — "Therefore bowing and with body bent, I ask Your grace, Lord Adorable. As father to son, friend to friend, lover to the beloved — it is fitting, O Lord, to bear with me."

Link copied

Verse 11.45. — "Sighting what never before was sighted, I am glad; but troubled in mind. Show me Your other Form, O Lord of lords. Have mercy, O Refuge of the worlds."

Link copied

Verse 11.46. — "Fain would I see You in that four-armed Form, O many-Armed; O Cosmic Form — with crown and club and discus in hand."

Link copied

That same familiar Form of four arms — with diadem, mace, and wheel — Arjuna asks to see again.

Link copied

Verses 47–50 (The Lord's return to the gentle form)

Verse 11.47. — "In gracious response, O Arjuna, by My own will, I have revealed to you this supreme Form — glorious, all-souled, infinite, and first — seen by none other than you."

Link copied

Tejo-maya — a flood of brilliant light; viśvam — pervading all as Spirit; anantam — without beginning, middle, or end; ādyam — prior to all besides Him. Arjuna, being His devotee, has been shown a spectacle witnessed by no other.

Link copied

Verse 11.48. — "Not by Vedas, not by yajñas, not by Veda-study, not by gifts, not by works, not even by hard austerities am I, in this kind of Form, seeable by any in this world except you, O Kuru-hero."

Link copied

Verse 11.49. — "Be not alarmed; be not bewildered at seeing this terrible Form of Mine. Rid of fear and glad of heart, behold again My former Form."

Link copied

Verse 11.50. — "So speaking to Arjuna, Vāsudeva revealed again His wonted figure. Resuming His gentler guise, the Great-Souled One comforted the dismayed Arjuna."

Link copied

The Lord's incarnation as son of Vasudeva was originally with four arms, but at Vasudeva's prayer — fearful of Kaṁsa — two arms were made invisible until Kaṁsa was slain. This four-armed form haunted even Śiśupāla's mind. Now the familiar two-armed, gentle Krishna reappears.

Link copied

Verses 51–55 (The supremacy of bhakti)

Verse 11.51. — "Seeing this Your pleasing human Form, O Janārdana, my mind is serene and I am restored to myself."

Link copied

Gazing on the lovely human vesture — radiant with comeliness, tenderness, and grace — Arjuna's heart is calm again.

Link copied

Verse 11.52. — "That Form of Mine you have seen is most hard to see. Even the devas ever long to see it."

Link copied

That form — revealing Him as Universal Director, Asylum, Cause of all — even the gods long to see but have not seen.

Link copied

Verse 11.53. — "Not by Vedas, not by austerities, not by gifts, not by sacrifices can I be so easily seen as you have seen."

Link copied

Verse 11.54. — "By bhakti alone, exclusive, O Arjuna, am I possible, in essence, to be seen, to be known, and to be entered, O Parantapa."

Link copied

Devoid of love, none of these — Veda-teaching, alms, austerities, sacrifices — can, independently, disclose Him. But by exclusive bhakti He becomes easy to know as He is declared in Śāstra, easy to see as He is in essence, and easy to be entered — the blessed divine communion of soul with God. So chants the Upaniṣad: "This Self is not reached by argument, nor by concentration, nor by much learning; but is reached by him whom He may elect."

Link copied

Verse 11.55. — "Doing work for Me, having Me as Aim, being My devotee, weaned from attachments, free from hatred toward any being — he comes to Me, O Pāṇḍava."

Link copied

Mat-karma-kṛt — he who does every scriptural work as an act of worship rendered to the Lord. Mat-paramaḥ — he to whom the Lord alone is the Supreme End. Mad-bhakta — his sole Hope; who cannot live without hymning, praising, meditating, worshipping, and bowing to the Lord. Saṅga-varjitaḥ — weaned from other attachments. Nirvairaḥ sarva-bhūteṣu — free from hatred toward any being, from three considerations: first, his only happiness is to be with the Lord, his only misery to be without Him; second, he attributes all afflictions to his own past guilt; third, he has implicit faith that all beings are subject to the Lord's sovereign Providence. Such a devotee comes to the Lord — realizing Him as He is — resting in the blessed enjoyment of the Divine, devoid of the faintest traces of avidyā.

Link copied

Thus closes the eleventh discourse, named Viśvarūpa-Sandarśana-Yoga — the Book of the Cosmic Vision.

Link copied
Join our community