Bhagavad Gita Bhashya · Section 12 of 19
athaikādaśo'dhyāyaḥ viśva-rūpa-darśana-yogaḥ
Sanskrit (IAST) · click to toggle
एवꣳ भक्ति-योग-निष्पत्तये सद्-विवृद्धये च सकलेतर-विलक्षणेन स्वाभाविकेन भगवद्-असाधारणेन कल्याण-गुण-गणेन सह भगवत सर्वात्मत्वम्। तत एव तद्-व्यतिरिक्तस्य कृत्स्नस्य चिद्-अचिद्-आत्मकस्य वस्तु-जातस्य तच्-छरीरतया तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तित्वꣳ चोक्तम्। तम् एतꣳ भगवद्-असाधारणꣳ स्वभावꣳ कृत्स्नस्य तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिताꣳ च भगवत्-सकाशाद् उपश्रुत्य एवम् एवेति निश्चित्य तथा-भूतꣳ भगवन्तꣳ साक्षात्कर्तु-कामोऽर्जुन उवाच। तथैव भगवत्-प्रसादाद् अनन्तरꣳ द्रक्ष्यति। सर्वाश्चर्यमयꣳ देवम् अनन्तꣳ विश्वतो-मुखम् [गीता ११।११], तत्रैकस्थꣳ जगत् कृत्स्नꣳ प्रविभक्तम् अनेकधा [गीता ११।१३] इति हि वक्ष्यते।
Link copiedमद्-अनुग्रहाय परमꣳ गुह्यम् अध्यात्म-सꣳज्ञितम्।
Link copiedयत् त्वयोक्तꣳ वचस् तेन मोहोऽयꣳ विगतो मम॥१॥
Link copiedदेहात्माभिमान-रूप-मोहेन मोहितस्य ममानुग्रहैक-प्रयोजनाय परमꣳ गुह्यꣳ परमꣳ रहस्यम् अध्यात्म-सꣳज्ञितम् आत्मनि वक्तव्यꣳ वचो न त्व् एवाहꣳ जातु नासम् [२।१२] इत्य्-आदि। तस्माद् योगी भवार्जुन [६।४६] इत्य् एतद् अन्तꣳ यत् त्वयोक्तम्, तेनायꣳ मम आत्म-विषयो मोहः सर्वो विगतः दूरतो निरस्तः॥११।१॥
Link copiedभवाप्ययौ हि भूतानाꣳ श्रुतौ विस्तरशो मया।
Link copiedत्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम्॥२॥
Link copiedतथा सप्तम-प्रभृति दशम-पर्यन्तꣳ त्वद्-व्यतिरिक्तानाꣳ सर्वेषाꣳ भूतानाꣳ त्वत्तः परमात्मानो भवाप्ययाव् उत्पत्ति-प्रलयौ विस्तरशो मया श्रुतौ। हे कमल-पत्राक्ष ! तवाव्ययꣳ नित्यꣳ सर्व-चेतनाचेतन-वस्तु-शेषित्वꣳ ज्ञान-बलादि-कल्याण-गुण-गणैस् तव एव परतरत्वꣳ सर्वाधारत्वꣳ चिन्तित-निमिषितादि-सर्व-प्रवृत्तिषु तवैव प्रवर्तयितृत्वम्, इत्य् आदि अपरिमितꣳ माहात्म्यꣳ च श्रुतꣳ हि शब्दो वक्ष्यमाण-दिदृक्षा-द्योतनार्थः॥११।२॥
Link copiedएवम् एतद् यथात्थ त्वम् आत्मानꣳ परमेश्वर।
Link copiedद्रष्टुम् इच्छामि ते रूपम् ऐश्वरꣳ पुरुषोत्तम॥३॥
Link copiedहे परमेश्वर ! एवम् एतद् इत्य् अवधृतꣳ यथात्थ त्वम् आत्मानꣳ ब्रवीषि। पुरुषोत्तम आश्रित-वात्सल्य-जलधे ! तवैश्वरꣳ त्वद्-असाधारणꣳ सर्वस्य प्रशासितृत्वे पालयितृत्वे स्रष्टृत्वे सꣳहर्तृत्वे भर्तृत्वे कल्याण-गुणाकरत्वे परतरत्वे सकलेतर-विसजातीयत्वे चावस्थितꣳ रूपꣳ द्रष्टुम् साक्षात्-कर्तुम् इच्छामि॥११।३॥
Link copiedमन्यसे यदि तच् छक्यꣳ मया द्रष्टुम् इति प्रभो।
Link copiedयोगेश्वर ततो मे त्वꣳ दर्शयात्मानम् अव्ययम्॥४॥
Link copiedतत् सर्वस्य स्रष्टृ सर्वस्य प्रशासितृ सर्वस्याधार-भूतꣳ त्वद्-रूपꣳ मया द्रष्टुꣳ शक्यम् इति यदि मन्यसे। ततो योगेश्वर ! योगो ज्ञानादि-कल्याण-गुण-योगः पश्य मे योगम् ऐश्वरम् [गीता ११।८] इति हि वक्ष्यते। त्वद्-व्यतिरिक्तस्य कस्याप्य् असम्भावितानाꣳ ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजसाꣳ निधे ! आत्मानꣳ त्वाम् अव्ययꣳ मे दर्शय त्वम् अव्ययम् इति क्रिया-विशेषणम्। त्वाꣳ सकलꣳ मे दर्शयेत्य् अर्थः॥११।४॥
Link copiedएवꣳ कौतूहलान्वितेन हर्ष-गद्गद-कण्ठेन पार्थेन प्रार्थितो भगवान् उवाच---
Link copiedपश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः।
Link copiedनाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च॥५॥
Link copiedपश्य मे सर्वाश्रयाणि रूपाण्य् अथ शतशः सहस्रशश् च नाना-विधानि नाना-प्रकाराणि दिव्यान्य् अप्राकृतानि नाना-वर्णाकृतीनि शुक्ल-कृष्णादि-नाना-वर्णानि नानाकाराणि च पश्य॥११।५॥
Link copiedपश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा।
Link copiedबहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत॥६॥
Link copiedममैकस्मिन् रूपे पश्यादित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतश् चैकोनपञ्चाशतम्। प्रदर्शनार्थम् इदम्। इह जगति प्रत्यक्ष-दृष्टानि शास्त्र-दृष्टानि च यानि वस्तूनि तानि सर्वाण्य् अन्यान्य् अपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्व् अदृष्ट-पूर्वाणि बहून्य् आश्चर्याणि पश्य॥११।६॥
Link copiedइहैकस्थꣳ जगत् कृत्स्नꣳ पश्याद्य स-चराचरम्।
Link copiedमम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि॥७॥
Link copiedइह माम एकस्मिन् देहे तत्रापि एकस्थम् एकदेशस्थꣳ सचराचरꣳ कृत्स्नꣳ जगत् पश्य। यत् चान्यद् द्रष्टुम् इच्छसि तद् अपि एकदेहैकदेशे एव पश्य॥११।७॥
Link copiedन तु माꣳ शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा।
Link copiedदिव्यꣳ ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम्॥८॥
Link copiedअहꣳ मम देहैक-देशे सर्वꣳ जगद् दर्शयिष्यामि, त्वꣳ त्व् अनेन नियमित-परिमित-वस्तु-ग्राहिणा प्राकृतेन स्व-चक्षुषा माꣳ तथा-भूतꣳ सकलेतर-विसजातीयम् अपरिमेयꣳ द्रष्टुꣳ न शक्यसे। तव दिव्यम् अप्राकृतꣳ मद्-दर्शन-साधनꣳ चक्षुर् ददामि। पश्य मे योगम् ऐश्वरꣳ मद्-असाधारणꣳ योगꣳ पश्य। ममानन्त-ज्ञानादि-योगम् अनन्त-विभूति-योगꣳ च पश्येत्य् अर्थः॥११।८॥
Link copiedसञ्जय उवाच---
Link copiedएवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः।
Link copiedदर्शयाम् आस पार्थाय परमꣳ रूपम् ऐश्वरम्॥९॥
Link copiedएवम् उक्त्वा सारथ्येऽवस्थितः पार्थ-मातुल-जो महा-योगेश्वरो हरिर् महाश्चर्य-योगानाम् ईश्वरः पर-ब्रह्म-भूतो नारायणः परमम् ऐश्वरꣳ स्वासाधारणꣳ रूपꣳ पार्थाय पितृ-ष्वसुः पृथायाः पुत्राय दर्शयामास तद् विविध-विचित्र-निखिल-जगद्-आश्रयꣳ विश्वस्य प्रशासितृ च रूपम्॥११।९॥
Link copiedतच् चेदृशम्---
Link copiedअनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम्।
Link copiedअनेक-दिव्याभरणꣳ दिव्यानेकोद्यतायुधम्॥१०॥
Link copiedदिव्य-माल्याम्बर-धरꣳ दिव्य-गन्धानुलेपनम्।
Link copiedसर्वाश्चर्य-मयꣳ देवम् अनन्तꣳ विश्वतो-मुखम्॥११॥
Link copiedदेवꣳ द्योतमानम् अनन्तꣳ काल-त्रय-वर्ति-निखिल-जगद्-आश्रयतया देश-काल-परिच्छेदनार्हꣳ विश्वतो-मुखꣳ विश्व-दिग्-वर्ति-मुखꣳ स्वोचित-दिव्याम्बर-गन्ध-माल्याभरणायुधान्वितम्॥११।१०-११॥
Link copiedताम् एव देव-शब्द-निर्दिष्टꣳ द्योतमानताꣳ विशिनष्टि---
Link copiedदिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता।
Link copiedयदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः॥१२॥
Link copiedतेजसोऽपरिमितत्व-दर्शनार्थम् इदम्। अक्षय-तेजः-स्वरूपम् इत्य् अर्थः॥११।१२॥
Link copiedतत्रैकस्थꣳ जगत् कृत्स्नꣳ प्रविभक्तम् अनेकधा।
Link copiedअपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा॥१३॥
Link copiedतत्रानन्तायाम-विस्तारेऽनन्त-बाहूदर-वक्त्र-नेत्रेऽपरिमित-तेजस्केऽपरिमित-दिव्यायुधोपेते स्वोचितापरिमित-दिव्य-भूषणे दिव्य-माल्याम्बर-धरे दिव्य-गन्धानुलेपनेऽनन्ताश्चर्य-मये देव-देवस्य दिव्ये शरीरेऽनेकाधा प्रविभक्तꣳ ब्रह्मादि-विविध-विचित्र-देव-तिर्यङ्-मनुष्य-स्थावरादि-भोक्तृ-वर्ग-पृथिव्य्-अन्तरिक्ष-स्वर्ग-पातालातल-वितल-सुतलादि-भोग-स्थान-भोग्य-भोगोपकरण-भेद-भिन्नꣳ प्रकृति-पुरुषात्मकꣳ कृत्स्नꣳ जगद् अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [गीता १०।८], हन्त ते कथयिष्यामि विभूतीर् आत्मनः शुभाः [गीता १०।१९], अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः [गीता १०।२०], आदित्यानाम् अहꣳ विष्णुः [गीता १०।२१] इत्य्-आदिना, न तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम् [गीता १०।३९], विष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत् [१०।४२] इत्य् अन्तेन उदितम्। एक-स्थम् एक-देश-स्थꣳ पाण्डावो भगवत्-प्रसाद-लब्ध-तद्-दर्शनानुगुण-दिव्य-चक्षुर् अपश्यत्॥११।१३॥
Link copiedततः स विस्मयाविष्टो हृष्ट-रोमा धनञ्जयः।
Link copiedप्रणम्य शिरसा देवꣳ कृताञ्जलिर् अभाषत॥१४॥
Link copiedततो धनञ्जयः महाश्चर्यस्य कृत्स्नस्य जगतः स्व-देहैक-देशेन आश्रय-भूतꣳ कृत्स्नस्य प्रवर्तयितारꣳ चाश्चर्यतमानन्त-ज्ञानादि-कल्याण-गुण-गणꣳ देवꣳ दृष्ट्वा विस्मयाविष्टे हृष्ट-रोमा शिरसा दण्डावत् प्रणम्य कृताञ्जलिर् अभाषत॥११।१४॥
Link copiedअर्जुन उवाच---
Link copiedपश्यामि देवाꣳस् तव देव देहे
Link copiedसर्वाꣳस् तथा भूत-विशेष-सङ्घान्।
Link copiedब्रह्माणम् ईशꣳ कमलासन-स्थम्
Link copiedऋषीꣳश् च सर्वान् उरगाꣳश् च दिव्यान्॥१५॥
Link copiedदेव ! तव देहे सर्वान् देवान् पश्यामि। तथा सर्वान् प्राणि-विशेषाणाꣳ सङ्घान्, तथा ब्रह्माणꣳ चतुर्-मुखम् अण्डाधिपतिम्, तथेशꣳ कमलासन-स्थꣳ कमलासने ब्रह्मणि स्थितम् ईशꣳ तन्-मतेऽवस्थितꣳ तथा देवर्षि-प्रमुखान् सर्वान् ऋषीन्, उरगाꣳश् च वासुकि-तक्षकादीन् दीप्तान्॥११।१५॥
Link copiedअनेक-बाहूदर-वक्त्र-नेत्रꣳ
Link copiedपश्यामि त्वा सर्वतोऽनन्त-रूपम्।
Link copiedनान्तꣳ न मध्यꣳ न पुनस् तवादिꣳ
Link copiedपश्यामि विश्वेश्वर विश्व-रूप॥१६॥
Link copiedअनेक-बाहूदर-वक्त्र-नेत्रम् अनन्त-रूपꣳ त्वाꣳ सर्वतः पश्यामि। विश्वेश्वर विश्वस्य नियन्तः ! विश्व-रूप विश्व-शरीर यतस् त्वम् अनन्तः। अतस् तव नान्तꣳ न मध्यꣳ न पुनस् तवादिꣳ च पश्यामि॥११।१६॥
Link copiedकिरीटिनꣳ गदिनꣳ चक्रिणꣳ च
Link copiedतेजो-राशिꣳ सर्वतो दीप्तिमन्तम्।
Link copiedपश्यामि त्वाꣳ दुर्निरीक्ष्यꣳ समन्ताद्
Link copiedदीप्तानलार्क-द्युतिम् अप्रमेयम्॥१७॥
Link copiedतेजो-राशिꣳ सर्व तो दीप्तिमन्तꣳ समन्ताद् दुर्निरीक्ष्यꣳ दीप्तानलार्क-द्युतिम् अप्रमेयꣳ त्वाꣳ किरीटिनꣳ गदिनꣳ चक्रिणꣳ च पश्यामि॥११।१७॥
Link copiedत्वम् अक्षरꣳ परमꣳ वेदितव्यꣳ
Link copiedत्वम् अस्य विश्वस्य परꣳ निधानम्।
Link copiedत्वम् अव्ययः शाश्वत-धर्म-गोप्ता
Link copiedसनातनस् त्वꣳ पुरुषो मतो मे॥१८॥
Link copiedउपनिषत्सु द्वे विद्ये वेदितव्ये [मु।उ। १।१।४] इत्य्-आदिषु वेदितव्यतया निर्दिष्टꣳ परमम् अक्षरꣳ त्वम् एव। अस्य विश्वस्य परꣳ निधानꣳ विश्वस्यास्य परमाधार-भूतस् त्वम् एव। त्वम् अव्ययो व्यय-रहितः। यत्-स्वरूपो यद्-गुणो यद्-विभवश् च त्वꣳ तेनैव रूपेण सर्वदावतिष्ठसे। शाश्वत-धर्म-गोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्यैवम् आदिभिर् अवतारैस् त्वम् एव गोप्ता। सनातनस् त्वꣳ पुरुषो मतो मे--- वेदाहम् एतꣳ पुरुषꣳ महान्तम् [यजुः ३१।१८; तै।आ। ३।१२।७; श्वे।उ। ३।८] परात् परꣳ पुरुषम् [मु।उ। ३।२।८] इत्य्-आदिषूदितः सनातन-पुरुषस् त्वम् एवेति मे मतो ज्ञातः। यदु-कुल-तिलकस् त्वम् एवꣳ-भूत इदानीꣳ साक्षात्-कृतो मयेत्य् अर्थः॥११।१८॥
Link copiedअनादि-मध्यान्तम् अनन्त-वीर्यम्
Link copiedअनन्त-बाहुꣳ शशि-सूर्य-नेत्रम्।
Link copiedपश्यामि त्वाꣳ दीप्त-हुताश-वक्त्रꣳ
Link copiedस्व-तेजसा विश्वम् इदꣳ तपन्तम्॥१९॥
Link copiedअनादि-मध्यान्तम् आदि-मध्यान्त-रहितम्। अनन्त-वीर्यम् अनवधिकातिशय-वीर्यम्, वीर्य-शब्दः प्रदर्शनार्थम्। अनवधिकातिशय-ज्ञान-बलैश्वर्य-शक्ति-तेजसाꣳ निधिम् इत्य् अर्थः। अनन्त-बाहुम् असङ्ख्येय-बाहुम्। सोऽपि प्रदर्शनार्थम्, अनन्त-बाहूदर-पाद-वक्त्रादिकम्। शशि-सूर्य-नेत्रꣳ शशिवत् सूर्यवत् च प्रसाद-प्रताप-युक्त-सर्व-नेत्रम्। देवादीन् अनुकूलान् नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्-विपरीतान् असुर-राक्षसादीन् प्रति प्रतापः। रक्षाꣳसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः [११।३६] इति हि वक्ष्यते।
Link copiedदीप्त-हुताश-वक्त्रꣳ प्रदीप्त-कालानलवत् सꣳहारानुगुण-वक्त्रम्। स्व-तेजसा विश्वम् इदꣳ तपन्तम्--- तेजः पराभिभवन-सामर्थ्यम्, स्वकीयेन तेजसा विश्वम् इदꣳ तपन्तꣳ त्वाꣳ पश्यामि। एवꣳ-भूतꣳ सर्वस्य स्रष्टारम्, सर्वस्याधार-भूतꣳ सर्वस्य प्रशासितारम्, सर्वस्य सꣳहर्तारम्, ज्ञानाद्य्-अपरिमित-गुण-सागरम्, आदि-मध्यान्त-रहितम् एवꣳ-भूत-दिव्य-देहꣳ त्वाꣳ यथोपदेशꣳ साक्षात्-करोमीत्य् अर्थः।
Link copiedएकस्मिन् दिव्य-देहेऽनेकोदरादिकꣳ कथम्। इत्थम् उपपद्यते--- एकस्मात् कटि-प्रदेशाद् अनन्त-परिमाणाद् ऊर्ध्वम् उद्गता यथोदित-दिव्योदरादयः, अधश् च यथोदित-दिव्य-पादाः, तत्रैकस्मिन् मुखे नेत्र-द्वयम् इति च न विरोधः॥११।१९॥
Link copiedएवꣳ-भूतꣳ त्वाꣳ दृष्ट्वा देवादयोऽहꣳ च प्रव्यथिता भवामीत्य् आह---
Link copiedद्याव्-आपृथिव्योर् इदम् अन्तरꣳ हि
Link copiedव्याप्तꣳ त्वयैकेन दिशश् च सर्वाः।
Link copiedदृष्ट्वाद्भुतꣳ रूपम् इदꣳ तवोग्रꣳ
Link copiedलोक-त्रयꣳ प्रव्यथितꣳ महात्मन्॥२०॥
Link copiedद्यु-शब्दः पृथिवी-शब्दश् च उभाव् उपरितनानाम् अधस्तनानाꣳ च लोकानाꣳ प्रदर्शनार्थम्। द्याव्-आपृथिव्योर् अन्तरम् अवकाशः, यस्मिन् अवकाशे सर्वे लोकास् तिष्ठन्ति, सर्वोऽयम् अवकाशः दिशश् च सर्वास् त्वयैकेन व्याप्ताः।
Link copiedदृष्ट्वाद्भूतꣳ रूपम् उग्रꣳ तवेदम् अनन्तायाम-विस्तारम् अत्यद्भुतम् आत्युग्रꣳ तव रूपꣳ दृष्ट्वा लोक-त्रयꣳ प्रव्यथितम्--- युद्ध-दिदृक्षयागतेषु ब्रह्मादि-देवासुर-पितृ-गण-सिद्ध-गन्धर्व-यक्ष-राक्षसेषु प्रतिकूलानुकूल-मध्यस्थ-रूपꣳ लोक-त्रयꣳ सर्वꣳ प्रव्यथितम्, अत्यन्त-भीतम्। महात्मन् अपरिच्छेद्य-मनो-वृत्ते !
Link copiedएतेषाम् अप्य् अर्जुनस्येव विश्वाश्रय-रूप-साक्षात्-कार-साधनꣳ दिव्यꣳ चक्षुर् भगवता दत्तम्। किम्-अर्थम् इति चेत्। अर्जुनाय स्वैश्वर्यꣳ सर्वꣳ प्रदर्शयितुम्। अत इदम् उच्यते--- दृष्ट्वाद्भुतꣳ रूपम् उग्रꣳ तवेदꣳ लोक-त्रयꣳ प्रव्यथितꣳ महात्मन् इति॥११।२०॥
Link copiedअमी हि त्वा सुर-सङ्घा विशन्ति
Link copiedकेचिद् भीताः प्राञ्जलयो गृणन्ति।
Link copiedस्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-सङ्घाः
Link copiedस्तुवन्ति त्वाꣳ स्तुतिभिः पुष्कलाभिः॥२१॥
Link copiedअमी सुर-सङ्घा उत्कृष्टस् त्वाꣳ विश्वाश्रयम् अवलोक्य हृष्ट-मनसस् त्वत्-समीपꣳ विशान्ति। तेष्व् एव केचिद् अत्युग्रम् अत्यद्भुतꣳ च तवाकारम् आलोक्य भीताः प्राञ्जलयः स्व-ज्ञानानुगुणꣳ स्तुति-रूपाणि वाक्यानि गृणन्त्य् उच्चारयन्ति। अपरे महार्षि-सङ्घाः सिद्ध-सङ्घाश् च परावर-तत्त्व-याथात्म्य-विदः स्वस्तीत्य् उक्त्वा पुष्कलाभिर् भगवद्-अनुरूपाभिः स्तुतिभिः स्तुवन्ति॥११।२१॥
Link copiedरूपꣳ महत् ते बहु-वक्त्र-नेत्रꣳ
Link copiedमहा-बाहो बहु-बाहूरु-पादम्।
Link copiedबहूदरꣳ बहु-दꣳष्ट्रा-करालꣳ
Link copiedदृष्ट्वा लोकाः प्रव्यथितास् तथाहम्॥२३॥
Link copiedऊष्मपाः पितर ऊष्म-भागा हि पितरः [तै।ब्रा। १।३।१०] इति श्रुतेः। एते सर्वे विस्मयम् आपन्नास् त्वाꣳ वीक्षन्ते॥११।२२॥
Link copiedनभः-स्पृशꣳ दीप्तम् अनेक-वर्णꣳ
Link copiedव्यात्ताननꣳ दीप्त-विशाल-नेत्रम्।
Link copiedदृष्ट्वा हि त्वाꣳ प्रव्यथितान्तरात्मा
Link copiedधृतिꣳ न विन्दामि शमꣳ च विष्णो॥२४॥
Link copiedबह्वीभिः दꣳष्ट्राभिर् अतिभीषणाकारꣳ लोकाः पूर्वोक्ताः प्रतिकूलानुकूल-मध्यस्थास् त्रि-विधाः सर्व एवाहꣳ च तवेदम् ईदृशꣳ रूपꣳ दृष्ट्वातीव व्यथिता भवामः॥११।२३॥
Link copiedनभः-स्पृशꣳ दीप्तम् अनेक-वर्णꣳ
Link copiedव्यात्ताननꣳ दीप्त-विशाल-नेत्रम्।
Link copiedदृष्ट्वा हि त्वाꣳ प्रव्यथितान्तरात्मा
Link copiedधृतिꣳ न विन्दामि शमꣳ च विष्णो॥२४॥
Link copiedनभः-शब्दस् तद्-अक्षरे परमे व्योमन् [म।ना।उ। १।२], आदित्य-वर्णꣳ तमसः परस्तात् [श्वे।उ। ३।८, य।वे। ३१।१८], क्षयꣳ तमस्य रजसः पराके [ऋग्।वे। २।६।२५।५] यो अस्याध्यक्षः परमे व्योमन् [ऋग्।वे। ८।९।१७।७] इत्य्-आदि-श्रुति-सिद्ध-त्रिगुण-प्रकृत्य्-अतीत-परम-व्योम-वाची। स-विकारस्य प्रकृति-तत्त्वस्य पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्य आश्रयतया नभः-स्पृशम् इति वचनात्। द्याव्-आपृथिव्योर् इदम् अन्तरꣳ हि व्याप्तम् [११।२०] इति पूर्वोक्तत्वाच् च। दीप्तम् अनेक-वर्णꣳ व्यात्ताननꣳ दीप्त-विशाल-नेत्रꣳ त्वाꣳ दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्त-भीत-मना धृतिꣳ न विन्दामि, देहस्य धारणꣳ न लभे। मनसश् च इन्द्रियाणाꣳ च शमꣳ न लभे॥११।२४॥
Link copiedविष्णो व्यापिन् सर्व-व्यापिनम् अतिमात्रम् अत्यद्भुतम् अतिघोरꣳ च त्वाꣳ दृष्ट्वा प्रशिथिलवसर्वावयवो व्याकुलेन्द्रियश् च भवामीत्य् अर्थः।
Link copiedदꣳष्ट्रा-करालानि च ते मुखानि
Link copiedदृष्ट्वैव कालानल-सन्निभानि।
Link copiedदिशो न जाने न लभे च शर्म
Link copiedप्रसीद देवेश जगन्-निवास॥२५॥
Link copiedयुगान्त-कालानलवत् सर्व-सꣳहारे प्रवृत्तान्य् अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने सुखꣳ च न लभे। जगताꣳ निवास देवेशे ब्रह्मादीनाम् ईश्वराणाम् अपि परम-महेश्वरꣳ माꣳ प्रति प्रसन्नो भव। यथाहꣳ प्रकृतिꣳ गतो भवामि, तथा कुर्व् इत्य् अर्थः॥११।२५॥
Link copiedएवꣳ सर्वस्य जगतः स्वायत्त-स्थिति-प्रवृत्तित्वꣳ दर्शयन् पार्थ-सारथी राज-वेष-च्छद्मनावस्थितानाꣳ धार्तराष्ट्राणाꣳ यौधिष्ठिरेष्व् अनुप्रविष्टानाꣳ चासुराꣳशानाꣳ सꣳहारेण भू-भारावतरणꣳ स्वम् अनीषितꣳ स्वेनैव करिष्यमाणꣳ पार्थाय दर्शयामास। स च पार्थो भगवतः स्रष्टृत्वादिकꣳ सर्वैश्वर्यꣳ साक्षात्-कृत्य तस्मिन् एव भगवति सर्वात्मनि धार्तराष्ट्रादीनाम् उपसꣳहारम् अनागतम् अपि तत्-प्रसाद-लब्धेन दिव्येन चक्षुषा पश्यन्न् इदꣳ प्रोवाच---
Link copiedअमी च त्वाꣳ धृतराष्ट्रस्य पुत्राः
Link copiedसर्वे सहैवावनिपाल-सङ्घैः।
Link copiedभीष्मो द्रोणः सूत-पुत्रस् तथासौ
Link copiedसहास्मदीयैर् अपि योध-मुख्यैः॥२६॥
Link copiedवक्त्राणि ते त्वरमाणा विशन्ति
Link copiedदꣳष्ट्रा-करालानि भयानकानि।
Link copiedकेचिद् विलग्ना दशनान्तरेषु
Link copiedसन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः॥२७॥
Link copiedअमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयः सर्वे भीष्मो द्रोणः सूत-पुत्रः कर्णश् च तत्-पक्षीयैर् अवनि-पाल-समूहैः सर्वैः अस्मदीयैर् अपि कैश्चिद् योध-मुख्यैः सह त्वरमाणा दꣳष्ट्रा-करालाणि भयानकानि तव वक्त्राणि विनाशय विशन्ति। तत्र केचित् चूर्णितैर् उत्तमाङ्गैर् दशनान्तरेषु विलग्नाः सन्दृश्यन्ते॥११।२६-२७॥
Link copiedयथा नदीनाꣳ बहवोऽम्बु-वेगाः
Link copiedसमुद्रम् एवाभिमुखा द्रवन्ति।
Link copiedतथा तवामी नर-लोक-वीरा
Link copiedविशन्ति वक्त्राण्य् अभिविज्वलन्ति॥२८॥
Link copiedयथा प्रदीप्तꣳ ज्वलनꣳ पतङ्गा
Link copiedविशन्ति नाशाय समृद्ध-वेगाः।
Link copiedतथैव नाशाय विशन्ति लोकास्
Link copiedतवापि वक्त्राणि समृद्ध-वेगाः॥२९॥
Link copiedएते राज-लोका बहवो नदीनाम् अम्बु-प्रवाहाः समुद्रम् इव प्रदीप्त-ज्वलनम् इव च शलभास् तव वक्त्राण्य् अभिविज्वलन्ति स्वयम् एव त्वरमाणा आत्म-नाशाय विशन्ति॥११।२८-२९॥
Link copiedलेलिह्यसे ग्रसमानः समन्ताल्
Link copiedलोकान् समग्रान् वदनैर् ज्वलद्भिः।
Link copiedतेजोभिर् आपूर्य जगत् समग्रꣳ
Link copiedभासस् तवोग्राः प्रतपन्ति विष्णो॥३०॥
Link copiedराज-लोकान् समग्रान् ज्वलद्भिर् वदनैर् ग्रसमानः कोप-वेगेन तद्-रुधिरावसिक्तम् ओष्ठ-पुटादिकꣳ लेलिह्यसे पुनः पुनर् लेहनꣳ करोषि। तवातिघोरा भासो रश्मयस् तेजोभिः स्वकीयैः प्रकाशैर् जगत् समग्रम् आपूर्य प्रतपन्ति॥११।३०॥
Link copiedदर्शयात्मानम् अव्ययम् [११।४] इति तवैश्वर्यꣳ निरङ्कुशꣳ साक्षात्-कर्तुꣳ प्रार्थि तेन भवता निरङ्कुशम् ऐश्वर्यꣳ दर्शयता अतिघोर-रूपम् इदम् आविष्कृतम्---
Link copiedआख्याहि मे को भवान् उग्र-रूपो
Link copiedनमोऽस्तु ते देव-वर प्रसीद।
Link copiedविज्ञातुम् इच्छामि भवन्तम् आद्यꣳ
Link copiedन हि प्रजानामि तव प्रवृत्तिम्॥३१॥
Link copiedअतिघोर-रूपः को भवान्। किꣳ कर्तुꣳ प्रवृत्तः। इति भवन्तꣳ ज्ञातुम् इच्छामि। तवाभिप्रेताꣳ प्रवृत्तिꣳ न जानामि। एतद् आख्याहि मे। नमोऽस्तु ते देव-वर प्रसीद--- नमस् तेऽस्तु सर्वेश्वर एवꣳ कर्तुम् अनेनाभिप्रायेण इदꣳ सꣳहर्तृ-रूपम् आविष्कृतम् इत्य् उक्त्वा प्रसन्न-रूपश् च भव॥११।३१॥
Link copiedआश्रित-वात्सल्यातिरेकेण विश्वैश्वर्यꣳ दर्शयतो भवतो घोर-रूपाविष्कारे कोऽभिप्रायः। इति पृष्टे भगवान् पार्थ-सारथिः स्वाभिप्रायम् आह। पार्थोद्योगेन विनापि धार्तराष्ट्र-प्रमुखम् अशेषꣳ राज-लोकꣳ निहन्तुम् अहम् एव प्रवृत्तः, इति ज्ञापनाय मम घोर-रूपाविष्कारः। तज्-ज्ञापनꣳ च पार्थम् उद्योजयितुम् इति श्री-भगवान् उवाच---
Link copiedकालोऽस्मि लोक-क्षय-कृत् प्रवृद्धो
Link copiedलोकान् समाहर्तुम् इह प्रवृत्तः।
Link copiedऋतेऽपि त्वा न भविष्यन्ति सर्वे
Link copiedयेऽवस्थिताः प्रत्यनीकेषु योधाः॥३२॥
Link copiedकलयति गणयतीति कालः। सर्वेषाꣳ धार्तराष्ट्र-प्रमुखानाꣳ राज-लोकानाम् आयुर्-अवसानꣳ गणयन् अहꣳ तत्-क्षय-कृद् घोर-रूपेण प्रवृद्धो राज-लोकान् समाहर्तुम् आभिमुख्येन सꣳहर्तुम् इह प्रवृत्तोऽस्मि। अतो मत्-सङ्कल्पाद् एव त्वाम् ऋतेऽपि त्वद्-उद्योगम् ऋतेऽप्य् एते धार्तराष्ट्र-प्रमुखतस् तव प्रत्यनीकेषु येऽवस्थिता योधास् ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति॥११।३२॥
Link copiedतस्मात् त्वम् उत्तिष्ठ यशो लभस्व
Link copiedजित्वा शत्रून् भुङ्क्ष्व राज्यꣳ समृद्धम्।
Link copiedमयैवैते निहताः पूर्वम् एव
Link copiedनिमित्त-मात्रꣳ भव सव्यसाचिन्॥३३॥
Link copiedतस्मात् त्वꣳ तान् प्रति युद्धायोत्तिष्ठ। तान् शत्रून् जित्वा यशो लभस्व। धर्म्यꣳ राज्यꣳ च समृद्धꣳ भुङ्क्ष्व। मयैवैते कृतापराधाः पूर्वम् एव निहताः, हनने विनियुक्ताः। त्वꣳ तु तेषाꣳ हनने निमित्त-मात्रꣳ भव। मया हन्यमानानाꣳ शस्त्रादि-स्थानीयो भव। सव्यसाचिन् ! षच समवाये [धातु १।१०२२] सव्येन शर-सचन-शीलः सव्यसाची। सव्येनापि करेण शर-समवाय-करः। कर-द्वयेन योद्धुꣳ समर्थ इत्य् अर्थः॥११।३३॥
Link copiedद्रोणꣳ च भीष्मꣳ च जयद्रथꣳ च
Link copiedकर्णꣳ तथान्यान् अपि योध-वीरान्।
Link copiedमया हताꣳस् त्वꣳ जहि मा व्यथिष्ठा
Link copiedयुध्यस्व जेतासि रणे सपत्नान्॥३४॥
Link copiedद्रोण-भीष्म-कर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वꣳ जहि, त्वꣳ हन्याः। एतान् गुरून् बन्धून् चान्यान् अपि भोग-सक्तान् कथꣳ हनिष्यामि। इति मा व्यथिष्ठाः, तान् उद्दिश्य धर्माधर्म-भयेन बन्धु-स्नेहेन कारुण्येन च मा व्यथाꣳ कृथाः। यतस् ते कृतापराधाः। मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व। रणे सपत्नान् जेतासि, जेष्यसि। नैतेषाꣳ वधे नृशꣳसता-गन्धः, अपि तु जय एव लभ्यत इत्य् अर्थः॥११।३४॥
Link copiedसञ्जय उवाच---
Link copiedएतच् छ्रुत्वा वचनꣳ केशवस्य
Link copiedकृताञ्जलिर् वेपमानः किरीटी।
Link copiedनमस्कृत्वा भूय एवाह कृष्णꣳ
Link copiedस-गद्गदꣳ भीत-भीतः प्रणम्य॥३५॥
Link copiedएतद् आश्रित-वात्सल्य-जलधेः केशवस्य वचनꣳ श्रुत्वार्जुनस् तस्मै नमस्कृत्य भीत-भीतोऽतिभीतो भूयस् तꣳ प्रणम्य कृताञ्जलिर् वेपमानः किरीटी स-गद्गदम् आह॥११।३५॥
Link copiedअर्जुन उवाच---
Link copiedस्थाने हृषीकेश तव प्रकीर्त्या
Link copiedजगत् प्रहृष्यत्य् अनुरज्यते च।
Link copiedरक्षाꣳसि भीतानि दिशो द्रवन्ति
Link copiedसर्वे नमस्यन्ति च सिद्ध-सङ्घाः॥३६॥
Link copiedस्थाने युक्तम्, यद् एतद् युद्ध-दिदृक्षया आगतम् अशेषꣳ देव-गन्धर्व-सिद्ध-यक्ष-विद्याधर-किन्नर-किम्पुरुषादिकꣳ जगत् त्वत्-प्रसादात् त्वाꣳ सर्वेश्वरम् अवलोक्य तव प्रकीर्त्या सर्वꣳ प्रहृष्यत्य् अनुरज्यते च। यत् च त्वाम् अवलोक्य रक्षाꣳसि भीतानि सर्वा दिशः प्रद्रवन्ति। सर्वे सिद्ध-सङ्घाः सिद्धाद्य्-अनुकूल-सङ्घा नमस्यन्ति च। तद् एतत् सर्वꣳ युक्तम् इति पूर्वेण सम्बन्धः॥११।३६॥
Link copiedयुक्तताम् एवोपपादयति---
Link copiedकस्माच् च ते न नमेरन् महात्मन्
Link copiedगरीयसे ब्रह्मणोऽप्य् आदि-कर्त्रे।
Link copiedअनन्त देवेश जगन्-निवास
Link copiedत्वम् अक्षरꣳ सद् असत् तत्-परꣳ यत्॥३७॥
Link copiedमहात्मन् ! ते तुभ्यꣳ गरीयसे ब्रह्मणो हिरण्यगर्भस्याप्य् आदि-भूताय कर्त्रे, हिरण्यगर्भादयः कस्माद् हेतोर् न नमस्कुर्युः। अनन्त देवेश जगन्-निवास त्वम् एवाक्षरम् न क्षरतीत्य् अक्षरꣳ जीवात्म-तत्त्वम्। न जायते म्रियते वा विपश्चित् [क।उ। १।२।१८] इत्य्-आदि-श्रुति-सिद्धो जीवात्मा हि न क्षरति।
Link copiedसद् असच् च त्वम् एव, सद्-असच्-छब्द-निर्दिष्टꣳ कार्य-कारण-भावेनावस्थितꣳ प्रकृति-तत्त्वम्, नाम-रूप-विभागवत्तया कार्यावस्थꣳ सच्-छब्द-निर्दिष्टꣳ तद्-अनर्हतया कारणावस्थम् असच्-छब्द-निर्दिष्टꣳ च त्वम् एव। तत्-परꣳ यत् तस्मात् प्रकृतेः प्रकृति-सम्बन्धिनश् च जीवात्मनः परम् अन्यन् मुक्तात्म-तत्त्वꣳ यत् तद् अपि त्वम् एव॥११।३७॥
Link copiedअतः---
Link copiedत्वम् आदि-देवः पुरुषः पुराणस्
Link copiedत्वम् अस्य विश्वस्य परꣳ निधानम्।
Link copiedवेत्तासि वेद्यꣳ च परꣳ च धाम
Link copiedत्वया ततꣳ विश्वम् अनन्त-रूप॥३८॥
Link copiedत्वम् आदि-देवः पुरुषः पुराणः। त्वम् अस्य विश्वस्य परꣳ निधानम्, निधीयते त्वयि विश्वम् इति त्वम् अस्य विश्वस्य परꣳ निधानम्, विश्वस्य शरीर-भूतस्यात्मतया परमाधार-भूतस् त्वम् एव इत्य् अर्थः। जगति सर्वो वेदिता वेद्यꣳ च सर्वꣳ त्वम् एव, एवꣳ सर्वात्मतयावस्थितस् त्वम् एव परꣳ च धाम स्थानꣳ प्राप्य-स्थानम् इत्य् अर्थः। त्वया ततꣳ विश्वम् अनन्त-रूप त्वयात्मत्वेन विश्वꣳ चिद्-अचिन्-मिश्रꣳ जगत् ततꣳ व्याप्तम्॥११।३८॥
Link copiedअतस् त्वम् एव वाय्व्-आदि-शब्द-वाच्य इत्य् आह---
Link copiedवायुर् यमोऽग्निर् वरुणः शशाङ्कः
Link copiedप्रजापतिस् त्वꣳ प्रपितामहश् च।
Link copiedनमो नमस् तेऽस्तु सहस्र-कृत्वः
Link copiedपुनश् च भूयोऽपि नमो नमस् ते॥३९॥
Link copiedसर्वेषाꣳ प्रपितामहस् त्वम् एव, पितामहादयश् च। सर्वासाꣳ प्रजानाꣳ पितरः प्रजापतयः प्रजापतीनाꣳ पिता हिरण्यगर्भः प्रजानाꣳ पितामहः, हिरण्यगर्भस्यापि पिता त्वꣳ प्रजानाꣳ प्रपितामहः। पितामहादीनाम् आत्मतया तत्-तच्-छब्द-वाच्यस् त्वम् एवेत्य् अर्थः॥११।३९॥
Link copiedअत्यद्भुताकारꣳ भगवन्तꣳ दृष्ट्वा हर्षोत्फुल्ल-नयनोऽत्यन्त-साध्वसावनतः सर्वतो नमस्करोति---
Link copiedनमः पुरस्ताद् अथ पृष्ठतस् ते
Link copiedनमोऽस्तु ते सर्वत एव सर्व।
Link copiedअनन्त-वीर्यामित-विक्रमस् त्वꣳ
Link copiedसर्वꣳ समाप्नोषि ततोऽसि सर्वः॥४०॥
Link copiedअनन्त-वीर्यामित-विक्रमस् त्वꣳ सर्वम् आत्मतया समाप्नोषि ततः सर्वोऽसि। यतस् त्वꣳ सर्वꣳ चिद्-अचिद्-वस्तु-जातम् आत्मतया समाप्नोषि। अतः सर्वस्य चिद्-अचिद्-वस्तु-जातस्य त्वच्-छरीरतया त्वत्-प्रकारत्वात् सर्व-प्रकारस् त्वम् एव सर्व-शब्द-वाच्योऽसीत्य् अर्थः। त्वम् अक्षरꣳ सद् असत् [गीता ११।३७] वायुर् यमोऽग्निः [गीता ११।३९] इत्य्-आदि-सर्व-सामानाधिकरण्य-निर्देशस्यात्मतया व्याप्तिर् एव हेतुर् इति सुव्यक्तम् उक्तम्। त्वया ततꣳ विश्वम् अनन्त-रूप [गीता ११।३८] सर्वꣳ समाप्नोषि ततोऽसि सर्वः इति च॥११।४०॥
Link copiedसखेति मत्वा प्रसभꣳ यद् उक्तꣳ
Link copiedहे कृष्ण हे यादव हे सखेति।
Link copiedअजानता महिमानꣳ तवेदꣳ
Link copiedमया प्रमादात् प्रणयेन वापि॥४१॥
Link copiedयच् चावहासार्थम् असत्कृतोऽसि
Link copiedविहार-शय्यासन-भोजनेषु।
Link copiedएकोऽथ वाप्य् अच्युत तत्-समक्षꣳ
Link copiedतत् क्षामये त्वाम् अहम् अप्रमेयम्॥४२॥
Link copiedतवानन्त-वीर्यत्वामित-विक्रमत्व-सर्वान्तर्-आत्मत्व-स्रष्टृत्वादिको यो महिमा तम् इमम् अजानतया मया प्रमादान् मोहात् प्रणयेन चिर-परिचयेन वा सखेति मम वयस्य इति मत्वा, हे कृष्ण हे यादव हे सखे ! इति त्वयि प्रसभꣳ विनयापेतꣳ यद् उक्तꣳ यच् च परिहासार्थꣳ सर्वदैव सत्-कारार्हस् त्वम् असत्कृतोऽसि, विहार-शय्यासन-भोजनेषु च सह-कृतेष्व् एकान्ते वा समक्षꣳ वा यद् असत्कृतोऽसि, तत् सर्वꣳ त्वाम् अप्रमेयम् अहꣳ क्षामये॥११।४१-४२॥
Link copiedपितासि लोकस्य चराचरस्य
Link copiedत्वम् अस्य पूज्यश् च गुरुर् गरीयान्।
Link copiedन त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यो
Link copiedलोक-त्रयेऽप्य् अप्रतिम-प्रभाव॥४३॥
Link copiedअप्रतिम-प्रभावस् त्वम् अस्य सर्वस्य चराचरस्य लोकस्य पिता अस्य् अस्य लोकस्य गुरुश् चासि। अतस् त्वम् अस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः। न त्वत्-समोऽस्त्य् अभ्यधिकः कुतोऽन्यः। लोक-त्रयेऽपि त्वद्-अन्यः कारुण्यादिना केनापि गुणेन न त्वत्-समोऽस्ति कुतोऽभ्यधिकः॥११।४३॥
Link copiedयस्मात् त्वꣳ सर्वस्य पिता पूज्यतमो गुरुश् च कारुण्यादि-गुणैश् च सर्वाधिकोऽसि---
Link copiedतस्मात् प्रणम्य प्रणिधाय कायꣳ
Link copiedप्रसादये त्वाम् अहम् ईशम् ईड्यम्।
Link copiedपितेव पुत्रस्य सखेव सख्युः
Link copiedप्रियः प्रियायार्हसि देव सोढुम्॥४४॥
Link copiedतस्मात् त्वाम् ईशम् ईड्यꣳ प्रणम्य प्रणिधाय च कायꣳ प्रसादये। यथा कृतापराधस्यापि पुत्रस्य यथा च सख्युः प्रणाम-पूर्वकꣳ प्रार्थितः पिता सखा वा प्रसीदति, तथा त्वꣳ परम-कारुणिकः प्रियः प्रियाय मे सर्वꣳ सोढुम् अर्हसि॥११।४४॥
Link copiedअदृष्ट-पूर्वꣳ हृषितोऽस्मि दृष्ट्वा
Link copiedभयेन च प्रव्यथितꣳ मनो मे।
Link copiedतद् एव मे दर्शय देव रूपꣳ
Link copiedप्रसीद देवेश जगन्-निवास॥४५॥
Link copiedअदृष्ट-पूर्वम् अत्यद्भुतम् अत्युग्रꣳ च तव रूपꣳ दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि, भयेन प्रव्यथितꣳ च मे मनः, अतस् तद् एव तव सुप्रसन्नꣳ रूपꣳ मे दर्शय। प्रसीद देवेश जगन्-निवास मयि प्रसादꣳ कुरु देवानाꣳ ब्रह्मादीनाम् अपि ईश निखिल-जगद्-आश्रय-भूत॥११।४५॥
Link copiedकिरीटिनꣳ गदिनꣳ चक्र-हस्तम्
Link copiedइच्छामि त्वाꣳ द्रष्टुम् अहꣳ तथैव।
Link copiedतेनैव रूपेण चतुर्-भुजेन
Link copiedसहस्र-बाहो भव विश्व-मूर्ते॥४६॥
Link copiedतथैव पूर्ववत् किरीटिनꣳ गदिनꣳ चक्र-हस्तꣳ त्वाꣳ द्रष्टुम् इच्छामि, अतस् तेनैव पूर्व-सिद्धेन चतुर्-भुजेन रूपेण युक्तो भव सहस्र-बाहो विश्व-मूर्ते इदानीꣳ सहस्र-बाहुत्वेन विश्व-शरीरत्वेन दृश्यमान-रूपस् त्वꣳ तेनैव रूपेण युक्तो भवेत्य् अर्थः॥११।४६॥
Link copiedश्री-भगवान् उवाच---
Link copiedमया प्रसन्नेन तवार्जुनेदꣳ
Link copiedरूपꣳ परꣳ दर्शितम् आत्म-योगात्।
Link copiedतेजो-मयꣳ विश्वम् अनन्तम्
Link copiedआद्यꣳ यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम्॥४७॥
Link copiedयत् मे तेजो-मयꣳ तेजो-राशिꣳ विश्वꣳ सर्वात्म-भूतम् अनन्तम् अन्त-रहितम्। प्रदर्शनार्थम् इदम्, आदि-मध्यान्त-रहितम्। आद्यꣳ मद्-व्यतिरिक्तस्य कृत्स्नस्य आदि-भूतꣳ त्वद्-अन्येन केनापि न दृष्ट-पूर्वꣳ रूपꣳ तद् इदꣳ प्रसन्नेन मया मद्-भक्ताय ते दर्शितम् आत्म-योगाद् आत्मनः सत्य-सङ्कल्पत्व-योगात्॥११।४७॥
Link copiedअनन्य-भक्ति-व्यतिरिक्तैः सर्वैर् अप्य् उपायैर् यथावद् अवस्थितोऽहꣳ द्रष्टुꣳ न शक्य इत्य् आह---
Link copiedन वेद यज्ञाध्ययनैर् न दानैर्
Link copiedन च क्रियाभिर् न तपोभिर् उग्रैः।
Link copiedएवꣳ-रूपः शक्य अहꣳ नृ-लोके
Link copiedद्रष्टुꣳ त्वद्-अन्येन कुरु-प्रवीर॥४८॥
Link copiedएवꣳ-रूपो यथावस्थितोऽहꣳ मयि भक्ति-मतस् त्वत्तोऽन्येनैकान्तिकात्यन्तिक-भक्ति-रहितेन केनापि पुरुषेण केवलैर् वेद-यज्ञादिभिर् द्रष्टुꣳ न शक्यः॥११।४८॥
Link copiedमा ते व्यथा मा च विमूढ-भावो
Link copiedदृष्ट्वा रूपꣳ घोरम् ईदृङ् ममेदम्।
Link copiedव्यपेत-भीः प्रीत-मनाः पुनस् त्वꣳ
Link copiedतद् एव मे रूपम् इदꣳ प्रपश्य॥४९॥
Link copiedईदृश-घोर-रूप-दर्शनेन ते या व्यथा, यश् च विमूढ-भावो वर्तते, तद् उभयꣳ मा भूत्, त्वयाभ्यस्त-पूर्वम् एव सौम्य-रूपꣳ दर्शयामि, तद् एवेदꣳ मम रूपꣳ प्रपश्य॥११।४९॥
Link copiedसञ्जय उवाच---
Link copiedइत्य् अर्जुनꣳ वासुदेवस् तथोक्त्वा
Link copiedस्वकꣳ रूपꣳ दर्शयाम् आस भूयः।
Link copiedआश्वासयाम् आस च भीतम् एनꣳ
Link copiedभूत्वा पुनः सौम्य-वपुर् महात्मा॥५०॥
Link copiedएवꣳ पाण्डु-तनयꣳ भगवान् वसुदेव-सूनुर् उक्त्वा भूयः स्वकीयम् एव चतुर्-भुज-रूपꣳ दर्शयामास, अपरिचित-स्वरूप-दर्शनेन भीतम् एवꣳ पुनर् अपि परिचित-सौम्य-वपुर् भूत्वा आश्वासयामास च, महात्मा सत्य-सङ्कल्पः।
Link copiedअस्य सर्वेश्वरस्य परम-पुरुषस्य परस्य ब्रह्मणो जगद्-उपकृति-मर्त्यस्य वसुदेव-सूनोश् चतुर्-भुजम् एव स्वकीयꣳ रूपꣳ कꣳसाद् भीत-वसुदेव-प्रार्थनेन आ-कꣳस-वधात् पूर्वꣳ भुज-द्वयम् उपसꣳहृतꣳ पश्चाद् आविष्कृतꣳ च।
Link copiedजातोऽसि देव-देवेश शङ्ख-चक्र-गदाधर।
Link copiedदिव्य-रूपम् इदꣳ देव प्रसादेनोपसꣳहर॥ [वि।पु। ५।३।१०]
Link copiedउपसꣳहर विश्वात्मन् रूपम् एतच् चतुर्-भुजम्॥ [वि।पु। ५।३।१३] इति हि प्रार्थितम्।
Link copied
शिशुपालस्यापि द्विषतोऽनवरत-भावना-विषयꣳ चतुर्-भुजम् एव वसुदेव-सूनो रूपम् उदार-पीवर चतुर्-बाहुꣳ शङ्ख-चक्र-गदाधरम् [वि।पु। ४।१५।१०] इति। अतः पार्थेनात्र तेनैव रूपेण चतुर्-भुजेन [गीता ११।४६] इत्य् उच्यते॥११।५०॥
Link copiedअर्जुन उवाच---
Link copiedदृष्ट्वेदꣳ मानुषꣳ रूपꣳ तव सौम्यꣳ जनार्दन।
Link copiedइदानीम् अस्मि सꣳवृत्तः स-चेताः प्रकृतिꣳ गतः॥५१॥
Link copiedअनवधिकातिशय-सौन्दर्य-सौकुमार्य-लावण्यादि-युक्तꣳ तवैवासाधारणꣳ मनुष्यत्व-सꣳस्थान-सꣳस्थितम् अतिसौम्यम् इदꣳ तव रूपꣳ दृष्ट्वा स-चेताः सꣳवृत्तोऽस्मि, प्रकृतिꣳ गतश् च॥११।५१॥
Link copiedश्री-भगवान् उवाच---
Link copiedसुदुर्दर्शम् इदꣳ रूपꣳ दृष्टवान् असि यन् मम।
Link copiedदेवा अप्य् अस्य रूपस्य नित्यꣳ दर्शन-काङ्क्षिणः॥५२॥
Link copiedममेदꣳ सर्वस्य प्रशासनेऽवस्थितꣳ सर्वाश्रयꣳ सर्व-कारण-भूतꣳ रूपꣳ यत् दृष्टवान् असि, तत् सुदुर्दर्शो न केनापि द्रष्टुꣳ शक्यम्। अस्य रूपस्य देवा अपि नित्यꣳ दर्शन-काङ्क्षिणः, न तु दृष्टवन्तः॥११।५२॥
Link copiedकुतः। इत्य् अत्राह---
Link copiedनाहꣳ वेदैर् न तपसा न दानेन न चेज्यया।
Link copiedशक्य एवꣳ-विधो द्रष्टुꣳ दृष्टवान् असि माꣳ यथा॥५३॥
Link copiedभक्त्या त्व् अनन्यया शक्य अहम् एवꣳ-विधोऽर्जुन।
Link copiedज्ञातुꣳ द्रष्टुꣳ च तत्त्वेन प्रवेष्टुꣳ च परन्तप॥५४॥
Link copiedवेदैर् अध्यापन-प्रवचनाध्ययन-श्रवण-जप-विषयैर् याग-दान-होम-तपोभिश् च मद्-भक्ति-रहितैः केवलैर् यथावद् अवस्थितोऽहꣳ द्रष्टुꣳ न शक्यः। अनन्यया तु भक्त्या तत्त्वतः शास्त्रैर् ज्ञातुꣳ तत्त्वतः साक्षात्-कर्तुꣳ तत्त्वतः प्रवेष्टुꣳ च शक्यः। तथा च श्रुतिः---
Link copiedनायम् आत्मा प्रवचनेन लभ्यो
Link copiedन मेधया न बहुना श्रुतेन।
Link copiedयम् एवैष वृणुते तेन लभ्यस्
Link copiedतस्यैष आत्मा विवृणुते तनूꣳ स्वाम्। [क।उ। २।२३] इति॥११।५३-५४॥
Link copied
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः।
Link copiedनिर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव॥५५॥
Link copiedवेदाध्ययनादीनि सर्वाणि कर्माणि मद्-आराधन-रूपाणीति यः करोति स मत्-कर्म-कृत्। मत्-परमः--- सर्वेषाम् आरम्भाणाम् अहम् एव परमोद्देश्यो यस्य स मत्-परमः। मद्-भक्तः--- अत्यर्थ-मत्-प्रियत्वेन मत्-कीर्तन-स्तुति-ध्यानार्चन-प्रणामादिभिर् विनात्म-धारणम् अलभमानो मद्-एक-प्रयोजनतया यः सततꣳ तानि करोति स मद्-भक्तः।
Link copiedसङ्ग-वर्जितः--- मद्-एक-प्रियत्वेनेतर-सङ्गम् असहमानो निर्वैरः सर्व-भूतेषु--- मत्-सꣳश्लेष-वियोगैक-सुख-दुःख-स्वभावत्वात् स्व-दुःखस्य स्वापराध-निमित्तत्वानुसन्धानाच् च सर्व-भूतानाꣳ परम-पुरुष-पर-तन्त्रत्वानुसन्धानाच् च सर्व-भूतेषु वैर-निमित्ताभावात् तेषु निर्वैरः। य एवꣳ-भूतः स माम् एति, माꣳ यथावद् अवस्थितꣳ प्राप्नोति। निरस्ताविद्याद्य्-अशेष-दोष-गन्धो मद्-एकानुभवो भवतीत्य् अर्थः॥११।५५॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये एकादशोऽध्यायः॥११॥
Link copied**
Link copiedఏవṁ భక్తి-యోగ-నిష్పత్తయే సద్-వివృద్ధయే చ సకలేతర-విలక్షణేన స్వాభావికేన భగవద్-అసాధారణేన కల్యాణ-గుణ-గణేన సహ భగవత సర్వాత్మత్వమ్। తత ఏవ తద్-వ్యతిరిక్తస్య కృత్స్నస్య చిద్-అచిద్-ఆత్మకస్య వస్తు-జాతస్య తచ్-ఛరీరతయా తద్-ఆయత్త-స్వరూప-స్థితి-ప్రవృత్తిత్వṁ చోక్తమ్। తమ్ ఏతṁ భగవద్-అసాధారణṁ స్వభావṁ కృత్స్నస్య తద్-ఆయత్త-స్వరూప-స్థితి-ప్రవృత్తితాṁ చ భగవత్-సకాశాద్ ఉపశ్రుత్య ఏవమ్ ఏవేతి నిశ్చిత్య తథా-భూతṁ భగవన్తṁ సాక్షాత్కర్తు-కామోఽర్జున ఉవాచ। తథైవ భగవత్-ప్రసాదాద్ అనన్తరṁ ద్రక్ష్యతి। సర్వాశ్చర్యమయṁ దేవమ్ అనన్తṁ విశ్వతో-ముఖమ్ [గీతా ౧౧।౧౧], తత్రైకస్థṁ జగత్ కృత్స్నṁ ప్రవిభక్తమ్ అనేకధా [గీతా ౧౧।౧౩] ఇతి హి వక్ష్యతే।
Link copiedమద్-అనుగ్రహాయ పరమṁ గుహ్యమ్ అధ్యాత్మ-సṁజ్ఞితమ్।
Link copiedయత్ త్వయోక్తṁ వచస్ తేన మోహోఽయṁ విగతో మమ॥౧॥
Link copiedదేహాత్మాభిమాన-రూప-మోహేన మోహితస్య మమానుగ్రహైక-ప్రయోజనాయ పరమṁ గుహ్యṁ పరమṁ రహస్యమ్ అధ్యాత్మ-సṁజ్ఞితమ్ ఆత్మని వక్తవ్యṁ వచో న త్వ్ ఏవాహṁ జాతు నాసమ్ [౨।౧౨] ఇత్య్-ఆది। తస్మాద్ యోగీ భవార్జున [౬।౪౬] ఇత్య్ ఏతద్ అన్తṁ యత్ త్వయోక్తమ్, తేనాయṁ మమ ఆత్మ-విషయో మోహః సర్వో విగతః దూరతో నిరస్తః॥౧౧।౧॥
Link copiedభవాప్యయౌ హి భూతానాṁ శ్రుతౌ విస్తరశో మయా।
Link copiedత్వత్తః కమల-పత్రాక్ష మాహాత్మ్యమ్ అపి చావ్యయమ్॥౨॥
Link copiedతథా సప్తమ-ప్రభృతి దశమ-పర్యన్తṁ త్వద్-వ్యతిరిక్తానాṁ సర్వేషాṁ భూతానాṁ త్వత్తః పరమాత్మానో భవాప్యయావ్ ఉత్పత్తి-ప్రలయౌ విస్తరశో మయా శ్రుతౌ। హే కమల-పత్రాక్ష ! తవావ్యయṁ నిత్యṁ సర్వ-చేతనాచేతన-వస్తు-శేషిత్వṁ జ్ఞాన-బలాది-కల్యాణ-గుణ-గణైస్ తవ ఏవ పరతరత్వṁ సర్వాధారత్వṁ చిన్తిత-నిమిషితాది-సర్వ-ప్రవృత్తిషు తవైవ ప్రవర్తయితృత్వమ్, ఇత్య్ ఆది అపరిమితṁ మాహాత్మ్యṁ చ శ్రుతṁ హి శబ్దో వక్ష్యమాణ-దిదృక్షా-ద్యోతనార్థః॥౧౧।౨॥
Link copiedఏవమ్ ఏతద్ యథాత్థ త్వమ్ ఆత్మానṁ పరమేశ్వర।
Link copiedద్రష్టుమ్ ఇచ్ఛామి తే రూపమ్ ఐశ్వరṁ పురుషోత్తమ॥౩॥
Link copiedహే పరమేశ్వర ! ఏవమ్ ఏతద్ ఇత్య్ అవధృతṁ యథాత్థ త్వమ్ ఆత్మానṁ బ్రవీషి। పురుషోత్తమ ఆశ్రిత-వాత్సల్య-జలధే ! తవైశ్వరṁ త్వద్-అసాధారణṁ సర్వస్య ప్రశాసితృత్వే పాలయితృత్వే స్రష్టృత్వే సṁహర్తృత్వే భర్తృత్వే కల్యాణ-గుణాకరత్వే పరతరత్వే సకలేతర-విసజాతీయత్వే చావస్థితṁ రూపṁ ద్రష్టుమ్ సాక్షాత్-కర్తుమ్ ఇచ్ఛామి॥౧౧।౩॥
Link copiedమన్యసే యది తచ్ ఛక్యṁ మయా ద్రష్టుమ్ ఇతి ప్రభో।
Link copiedయోగేశ్వర తతో మే త్వṁ దర్శయాత్మానమ్ అవ్యయమ్॥౪॥
Link copiedతత్ సర్వస్య స్రష్టృ సర్వస్య ప్రశాసితృ సర్వస్యాధార-భూతṁ త్వద్-రూపṁ మయా ద్రష్టుṁ శక్యమ్ ఇతి యది మన్యసే। తతో యోగేశ్వర ! యోగో జ్ఞానాది-కల్యాణ-గుణ-యోగః పశ్య మే యోగమ్ ఐశ్వరమ్ [గీతా ౧౧।౮] ఇతి హి వక్ష్యతే। త్వద్-వ్యతిరిక్తస్య కస్యాప్య్ అసమ్భావితానాṁ జ్ఞాన-బలైశ్వర్య-వీర్య-శక్తి-తేజసాṁ నిధే ! ఆత్మానṁ త్వామ్ అవ్యయṁ మే దర్శయ త్వమ్ అవ్యయమ్ ఇతి క్రియా-విశేషణమ్। త్వాṁ సకలṁ మే దర్శయేత్య్ అర్థః॥౧౧।౪॥
Link copiedఏవṁ కౌతూహలాన్వితేన హర్ష-గద్గద-కణ్ఠేన పార్థేన ప్రార్థితో భగవాన్ ఉవాచ---
Link copiedపశ్య మే పార్థ రూపాణి శతశోఽథ సహస్రశః।
Link copiedనానా-విధాని దివ్యాని నానా-వర్ణాకృతీని చ॥౫॥
Link copiedపశ్య మే సర్వాశ్రయాణి రూపాణ్య్ అథ శతశః సహస్రశశ్ చ నానా-విధాని నానా-ప్రకారాణి దివ్యాన్య్ అప్రాకృతాని నానా-వర్ణాకృతీని శుక్ల-కృష్ణాది-నానా-వర్ణాని నానాకారాణి చ పశ్య॥౧౧।౫॥
Link copiedపశ్యాదిత్యాన్ వసూన్ రుద్రాన్ అశ్వినౌ మరుతస్ తథా।
Link copiedబహూన్య్ అదృష్ట-పూర్వాణి పశ్యాశ్చర్యాణి భారత॥౬॥
Link copiedమమైకస్మిన్ రూపే పశ్యాదిత్యాన్ ద్వాదశ, వసూన్ అష్టౌ, రుద్రాన్ ఏకాదశ, అశ్వినౌ ద్వౌ, మరుతశ్ చైకోనపఞ్చాశతమ్। ప్రదర్శనార్థమ్ ఇదమ్। ఇహ జగతి ప్రత్యక్ష-దృష్టాని శాస్త్ర-దృష్టాని చ యాని వస్తూని తాని సర్వాణ్య్ అన్యాన్య్ అపి సర్వేషు లోకేషు సర్వేషు చ శాస్త్రేష్వ్ అదృష్ట-పూర్వాణి బహూన్య్ ఆశ్చర్యాణి పశ్య॥౧౧।౬॥
Link copiedఇహైకస్థṁ జగత్ కృత్స్నṁ పశ్యాద్య స-చరాచరమ్।
Link copiedమమ దేహే గుడాకేశ యచ్ చాన్యద్ ద్రష్టుమ్ ఇచ్ఛసి॥౭॥
Link copiedఇహ మామ ఏకస్మిన్ దేహే తత్రాపి ఏకస్థమ్ ఏకదేశస్థṁ సచరాచరṁ కృత్స్నṁ జగత్ పశ్య। యత్ చాన్యద్ ద్రష్టుమ్ ఇచ్ఛసి తద్ అపి ఏకదేహైకదేశే ఏవ పశ్య॥౧౧।౭॥
Link copiedన తు మాṁ శక్యసే ద్రష్టుమ్ అనేనైవ స్వ-చక్షుషా।
Link copiedదివ్యṁ దదామి తే చక్షుః పశ్య మే యోగమ్ ఐశ్వరమ్॥౮॥
Link copiedఅహṁ మమ దేహైక-దేశే సర్వṁ జగద్ దర్శయిష్యామి, త్వṁ త్వ్ అనేన నియమిత-పరిమిత-వస్తు-గ్రాహిణా ప్రాకృతేన స్వ-చక్షుషా మాṁ తథా-భూతṁ సకలేతర-విసజాతీయమ్ అపరిమేయṁ ద్రష్టుṁ న శక్యసే। తవ దివ్యమ్ అప్రాకృతṁ మద్-దర్శన-సాధనṁ చక్షుర్ దదామి। పశ్య మే యోగమ్ ఐశ్వరṁ మద్-అసాధారణṁ యోగṁ పశ్య। మమానన్త-జ్ఞానాది-యోగమ్ అనన్త-విభూతి-యోగṁ చ పశ్యేత్య్ అర్థః॥౧౧।౮॥
Link copiedసఞ్జయ ఉవాచ---
Link copiedఏవమ్ ఉక్త్వా తతో రాజన్ మహా-యోగేశ్వరో హరిః।
Link copiedదర్శయామ్ ఆస పార్థాయ పరమṁ రూపమ్ ఐశ్వరమ్॥౯॥
Link copiedఏవమ్ ఉక్త్వా సారథ్యేఽవస్థితః పార్థ-మాతుల-జో మహా-యోగేశ్వరో హరిర్ మహాశ్చర్య-యోగానామ్ ఈశ్వరః పర-బ్రహ్మ-భూతో నారాయణః పరమమ్ ఐశ్వరṁ స్వాసాధారణṁ రూపṁ పార్థాయ పితృ-ష్వసుః పృథాయాః పుత్రాయ దర్శయామాస తద్ వివిధ-విచిత్ర-నిఖిల-జగద్-ఆశ్రయṁ విశ్వస్య ప్రశాసితృ చ రూపమ్॥౧౧।౯॥
Link copiedతచ్ చేదృశమ్---
Link copiedఅనేక-వక్త్ర-నయనమ్ అనేకాద్భుత-దర్శనమ్।
Link copiedఅనేక-దివ్యాభరణṁ దివ్యానేకోద్యతాయుధమ్॥౧౦॥
Link copiedదివ్య-మాల్యామ్బర-ధరṁ దివ్య-గన్ధానులేపనమ్।
Link copiedసర్వాశ్చర్య-మయṁ దేవమ్ అనన్తṁ విశ్వతో-ముఖమ్॥౧౧॥
Link copiedదేవṁ ద్యోతమానమ్ అనన్తṁ కాల-త్రయ-వర్తి-నిఖిల-జగద్-ఆశ్రయతయా దేశ-కాల-పరిచ్ఛేదనార్హṁ విశ్వతో-ముఖṁ విశ్వ-దిగ్-వర్తి-ముఖṁ స్వోచిత-దివ్యామ్బర-గన్ధ-మాల్యాభరణాయుధాన్వితమ్॥౧౧।౧౦-౧౧॥
Link copiedతామ్ ఏవ దేవ-శబ్ద-నిర్దిష్టṁ ద్యోతమానతాṁ విశినష్టి---
Link copiedదివి సూర్య-సహస్రస్య భవేద్ యుగపద్ ఉత్థితా।
Link copiedయది భాః సదృశీ సా స్యాద్ భాసస్ తస్య మహాత్మనః॥౧౨॥
Link copiedతేజసోఽపరిమితత్వ-దర్శనార్థమ్ ఇదమ్। అక్షయ-తేజః-స్వరూపమ్ ఇత్య్ అర్థః॥౧౧।౧౨॥
Link copiedతత్రైకస్థṁ జగత్ కృత్స్నṁ ప్రవిభక్తమ్ అనేకధా।
Link copiedఅపశ్యద్ దేవ-దేవస్య శరీరే పాణ్డవస్ తదా॥౧౩॥
Link copiedతత్రానన్తాయామ-విస్తారేఽనన్త-బాహూదర-వక్త్ర-నేత్రేఽపరిమిత-తేజస్కేఽపరిమిత-దివ్యాయుధోపేతే స్వోచితాపరిమిత-దివ్య-భూషణే దివ్య-మాల్యామ్బర-ధరే దివ్య-గన్ధానులేపనేఽనన్తాశ్చర్య-మయే దేవ-దేవస్య దివ్యే శరీరేఽనేకాధా ప్రవిభక్తṁ బ్రహ్మాది-వివిధ-విచిత్ర-దేవ-తిర్యఙ్-మనుష్య-స్థావరాది-భోక్తృ-వర్గ-పృథివ్య్-అన్తరిక్ష-స్వర్గ-పాతాలాతల-వితల-సుతలాది-భోగ-స్థాన-భోగ్య-భోగోపకరణ-భేద-భిన్నṁ ప్రకృతి-పురుషాత్మకṁ కృత్స్నṁ జగద్ అహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే [గీతా ౧౦।౮], హన్త తే కథయిష్యామి విభూతీర్ ఆత్మనః శుభాః [గీతా ౧౦।౧౯], అహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః [గీతా ౧౦।౨౦], ఆదిత్యానామ్ అహṁ విష్ణుః [గీతా ౧౦।౨౧] ఇత్య్-ఆదినా, న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతṁ చరాచరమ్ [గీతా ౧౦।౩౯], విష్టభ్యాహమ్ ఇదṁ కృత్స్నమ్ ఏకాṁశేన స్థితో జగత్ [౧౦।౪౨] ఇత్య్ అన్తేన ఉదితమ్। ఏక-స్థమ్ ఏక-దేశ-స్థṁ పాణ్డావో భగవత్-ప్రసాద-లబ్ధ-తద్-దర్శనానుగుణ-దివ్య-చక్షుర్ అపశ్యత్॥౧౧।౧౩॥
Link copiedతతః స విస్మయావిష్టో హృష్ట-రోమా ధనఞ్జయః।
Link copiedప్రణమ్య శిరసా దేవṁ కృతాఞ్జలిర్ అభాషత॥౧౪॥
Link copiedతతో ధనఞ్జయః మహాశ్చర్యస్య కృత్స్నస్య జగతః స్వ-దేహైక-దేశేన ఆశ్రయ-భూతṁ కృత్స్నస్య ప్రవర్తయితారṁ చాశ్చర్యతమానన్త-జ్ఞానాది-కల్యాణ-గుణ-గణṁ దేవṁ దృష్ట్వా విస్మయావిష్టే హృష్ట-రోమా శిరసా దణ్డావత్ ప్రణమ్య కృతాఞ్జలిర్ అభాషత॥౧౧।౧౪॥
Link copiedఅర్జున ఉవాచ---
Link copiedపశ్యామి దేవాṁస్ తవ దేవ దేహే
Link copiedసర్వాṁస్ తథా భూత-విశేష-సఙ్ఘాన్।
Link copiedబ్రహ్మాణమ్ ఈశṁ కమలాసన-స్థమ్
Link copiedఋషీṁశ్ చ సర్వాన్ ఉరగాṁశ్ చ దివ్యాన్॥౧౫॥
Link copiedదేవ ! తవ దేహే సర్వాన్ దేవాన్ పశ్యామి। తథా సర్వాన్ ప్రాణి-విశేషాణాṁ సఙ్ఘాన్, తథా బ్రహ్మాణṁ చతుర్-ముఖమ్ అణ్డాధిపతిమ్, తథేశṁ కమలాసన-స్థṁ కమలాసనే బ్రహ్మణి స్థితమ్ ఈశṁ తన్-మతేఽవస్థితṁ తథా దేవర్షి-ప్రముఖాన్ సర్వాన్ ఋషీన్, ఉరగాṁశ్ చ వాసుకి-తక్షకాదీన్ దీప్తాన్॥౧౧।౧౫॥
Link copiedఅనేక-బాహూదర-వక్త్ర-నేత్రṁ
Link copiedపశ్యామి త్వా సర్వతోఽనన్త-రూపమ్।
Link copiedనాన్తṁ న మధ్యṁ న పునస్ తవాదిṁ
Link copiedపశ్యామి విశ్వేశ్వర విశ్వ-రూప॥౧౬॥
Link copiedఅనేక-బాహూదర-వక్త్ర-నేత్రమ్ అనన్త-రూపṁ త్వాṁ సర్వతః పశ్యామి। విశ్వేశ్వర విశ్వస్య నియన్తః ! విశ్వ-రూప విశ్వ-శరీర యతస్ త్వమ్ అనన్తః। అతస్ తవ నాన్తṁ న మధ్యṁ న పునస్ తవాదిṁ చ పశ్యామి॥౧౧।౧౬॥
Link copiedకిరీటినṁ గదినṁ చక్రిణṁ చ
Link copiedతేజో-రాశిṁ సర్వతో దీప్తిమన్తమ్।
Link copiedపశ్యామి త్వాṁ దుర్నిరీక్ష్యṁ సమన్తాద్
Link copiedదీప్తానలార్క-ద్యుతిమ్ అప్రమేయమ్॥౧౭॥
Link copiedతేజో-రాశిṁ సర్వ తో దీప్తిమన్తṁ సమన్తాద్ దుర్నిరీక్ష్యṁ దీప్తానలార్క-ద్యుతిమ్ అప్రమేయṁ త్వాṁ కిరీటినṁ గదినṁ చక్రిణṁ చ పశ్యామి॥౧౧।౧౭॥
Link copiedత్వమ్ అక్షరṁ పరమṁ వేదితవ్యṁ
Link copiedత్వమ్ అస్య విశ్వస్య పరṁ నిధానమ్।
Link copiedత్వమ్ అవ్యయః శాశ్వత-ధర్మ-గోప్తా
Link copiedసనాతనస్ త్వṁ పురుషో మతో మే॥౧౮॥
Link copiedఉపనిషత్సు ద్వే విద్యే వేదితవ్యే [ము।ఉ। ౧।౧।౪] ఇత్య్-ఆదిషు వేదితవ్యతయా నిర్దిష్టṁ పరమమ్ అక్షరṁ త్వమ్ ఏవ। అస్య విశ్వస్య పరṁ నిధానṁ విశ్వస్యాస్య పరమాధార-భూతస్ త్వమ్ ఏవ। త్వమ్ అవ్యయో వ్యయ-రహితః। యత్-స్వరూపో యద్-గుణో యద్-విభవశ్ చ త్వṁ తేనైవ రూపేణ సర్వదావతిష్ఠసే। శాశ్వత-ధర్మ-గోప్తా శాశ్వతస్య నిత్యస్య వైదికస్య ధర్మస్యైవమ్ ఆదిభిర్ అవతారైస్ త్వమ్ ఏవ గోప్తా। సనాతనస్ త్వṁ పురుషో మతో మే--- వేదాహమ్ ఏతṁ పురుషṁ మహాన్తమ్ [యజుః ౩౧।౧౮; తై।ఆ। ౩।౧౨।౭; శ్వే।ఉ। ౩।౮] పరాత్ పరṁ పురుషమ్ [ము।ఉ। ౩।౨।౮] ఇత్య్-ఆదిషూదితః సనాతన-పురుషస్ త్వమ్ ఏవేతి మే మతో జ్ఞాతః। యదు-కుల-తిలకస్ త్వమ్ ఏవṁ-భూత ఇదానీṁ సాక్షాత్-కృతో మయేత్య్ అర్థః॥౧౧।౧౮॥
Link copiedఅనాది-మధ్యాన్తమ్ అనన్త-వీర్యమ్
Link copiedఅనన్త-బాహుṁ శశి-సూర్య-నేత్రమ్।
Link copiedపశ్యామి త్వాṁ దీప్త-హుతాశ-వక్త్రṁ
Link copiedస్వ-తేజసా విశ్వమ్ ఇదṁ తపన్తమ్॥౧౯॥
Link copiedఅనాది-మధ్యాన్తమ్ ఆది-మధ్యాన్త-రహితమ్। అనన్త-వీర్యమ్ అనవధికాతిశయ-వీర్యమ్, వీర్య-శబ్దః ప్రదర్శనార్థమ్। అనవధికాతిశయ-జ్ఞాన-బలైశ్వర్య-శక్తి-తేజసాṁ నిధిమ్ ఇత్య్ అర్థః। అనన్త-బాహుమ్ అసఙ్ఖ్యేయ-బాహుమ్। సోఽపి ప్రదర్శనార్థమ్, అనన్త-బాహూదర-పాద-వక్త్రాదికమ్। శశి-సూర్య-నేత్రṁ శశివత్ సూర్యవత్ చ ప్రసాద-ప్రతాప-యుక్త-సర్వ-నేత్రమ్। దేవాదీన్ అనుకూలాన్ నమస్కారాది కుర్వాణాన్ ప్రతి ప్రసాదః, తద్-విపరీతాన్ అసుర-రాక్షసాదీన్ ప్రతి ప్రతాపః। రక్షాṁసి భీతాని దిశో ద్రవన్తి సర్వే నమస్యన్తి చ సిద్ధ-సఙ్ఘాః [౧౧।౩౬] ఇతి హి వక్ష్యతే।
Link copiedదీప్త-హుతాశ-వక్త్రṁ ప్రదీప్త-కాలానలవత్ సṁహారానుగుణ-వక్త్రమ్। స్వ-తేజసా విశ్వమ్ ఇదṁ తపన్తమ్--- తేజః పరాభిభవన-సామర్థ్యమ్, స్వకీయేన తేజసా విశ్వమ్ ఇదṁ తపన్తṁ త్వాṁ పశ్యామి। ఏవṁ-భూతṁ సర్వస్య స్రష్టారమ్, సర్వస్యాధార-భూతṁ సర్వస్య ప్రశాసితారమ్, సర్వస్య సṁహర్తారమ్, జ్ఞానాద్య్-అపరిమిత-గుణ-సాగరమ్, ఆది-మధ్యాన్త-రహితమ్ ఏవṁ-భూత-దివ్య-దేహṁ త్వాṁ యథోపదేశṁ సాక్షాత్-కరోమీత్య్ అర్థః।
Link copiedఏకస్మిన్ దివ్య-దేహేఽనేకోదరాదికṁ కథమ్। ఇత్థమ్ ఉపపద్యతే--- ఏకస్మాత్ కటి-ప్రదేశాద్ అనన్త-పరిమాణాద్ ఊర్ధ్వమ్ ఉద్గతా యథోదిత-దివ్యోదరాదయః, అధశ్ చ యథోదిత-దివ్య-పాదాః, తత్రైకస్మిన్ ముఖే నేత్ర-ద్వయమ్ ఇతి చ న విరోధః॥౧౧।౧౯॥
Link copiedఏవṁ-భూతṁ త్వాṁ దృష్ట్వా దేవాదయోఽహṁ చ ప్రవ్యథితా భవామీత్య్ ఆహ---
Link copiedద్యావ్-ఆపృథివ్యోర్ ఇదమ్ అన్తరṁ హి
Link copiedవ్యాప్తṁ త్వయైకేన దిశశ్ చ సర్వాః।
Link copiedదృష్ట్వాద్భుతṁ రూపమ్ ఇదṁ తవోగ్రṁ
Link copiedలోక-త్రయṁ ప్రవ్యథితṁ మహాత్మన్॥౨౦॥
Link copiedద్యు-శబ్దః పృథివీ-శబ్దశ్ చ ఉభావ్ ఉపరితనానామ్ అధస్తనానాṁ చ లోకానాṁ ప్రదర్శనార్థమ్। ద్యావ్-ఆపృథివ్యోర్ అన్తరమ్ అవకాశః, యస్మిన్ అవకాశే సర్వే లోకాస్ తిష్ఠన్తి, సర్వోఽయమ్ అవకాశః దిశశ్ చ సర్వాస్ త్వయైకేన వ్యాప్తాః।
Link copiedదృష్ట్వాద్భూతṁ రూపమ్ ఉగ్రṁ తవేదమ్ అనన్తాయామ-విస్తారమ్ అత్యద్భుతమ్ ఆత్యుగ్రṁ తవ రూపṁ దృష్ట్వా లోక-త్రయṁ ప్రవ్యథితమ్--- యుద్ధ-దిదృక్షయాగతేషు బ్రహ్మాది-దేవాసుర-పితృ-గణ-సిద్ధ-గన్ధర్వ-యక్ష-రాక్షసేషు ప్రతికూలానుకూల-మధ్యస్థ-రూపṁ లోక-త్రయṁ సర్వṁ ప్రవ్యథితమ్, అత్యన్త-భీతమ్। మహాత్మన్ అపరిచ్ఛేద్య-మనో-వృత్తే !
Link copiedఏతేషామ్ అప్య్ అర్జునస్యేవ విశ్వాశ్రయ-రూప-సాక్షాత్-కార-సాధనṁ దివ్యṁ చక్షుర్ భగవతా దత్తమ్। కిమ్-అర్థమ్ ఇతి చేత్। అర్జునాయ స్వైశ్వర్యṁ సర్వṁ ప్రదర్శయితుమ్। అత ఇదమ్ ఉచ్యతే--- దృష్ట్వాద్భుతṁ రూపమ్ ఉగ్రṁ తవేదṁ లోక-త్రయṁ ప్రవ్యథితṁ మహాత్మన్ ఇతి॥౧౧।౨౦॥
Link copiedఅమీ హి త్వా సుర-సఙ్ఘా విశన్తి
Link copiedకేచిద్ భీతాః ప్రాఞ్జలయో గృణన్తి।
Link copiedస్వస్తీత్య్ ఉక్త్వా మహర్షి-సిద్ధ-సఙ్ఘాః
Link copiedస్తువన్తి త్వాṁ స్తుతిభిః పుష్కలాభిః॥౨౧॥
Link copiedఅమీ సుర-సఙ్ఘా ఉత్కృష్టస్ త్వాṁ విశ్వాశ్రయమ్ అవలోక్య హృష్ట-మనసస్ త్వత్-సమీపṁ విశాన్తి। తేష్వ్ ఏవ కేచిద్ అత్యుగ్రమ్ అత్యద్భుతṁ చ తవాకారమ్ ఆలోక్య భీతాః ప్రాఞ్జలయః స్వ-జ్ఞానానుగుణṁ స్తుతి-రూపాణి వాక్యాని గృణన్త్య్ ఉచ్చారయన్తి। అపరే మహార్షి-సఙ్ఘాః సిద్ధ-సఙ్ఘాశ్ చ పరావర-తత్త్వ-యాథాత్మ్య-విదః స్వస్తీత్య్ ఉక్త్వా పుష్కలాభిర్ భగవద్-అనురూపాభిః స్తుతిభిః స్తువన్తి॥౧౧।౨౧॥
Link copiedరూపṁ మహత్ తే బహు-వక్త్ర-నేత్రṁ
Link copiedమహా-బాహో బహు-బాహూరు-పాదమ్।
Link copiedబహూదరṁ బహు-దṁష్ట్రా-కరాలṁ
Link copiedదృష్ట్వా లోకాః ప్రవ్యథితాస్ తథాహమ్॥౨౩॥
Link copiedఊష్మపాః పితర ఊష్మ-భాగా హి పితరః [తై।బ్రా। ౧।౩।౧౦] ఇతి శ్రుతేః। ఏతే సర్వే విస్మయమ్ ఆపన్నాస్ త్వాṁ వీక్షన్తే॥౧౧।౨౨॥
Link copiedనభః-స్పృశṁ దీప్తమ్ అనేక-వర్ణṁ
Link copiedవ్యాత్తాననṁ దీప్త-విశాల-నేత్రమ్।
Link copiedదృష్ట్వా హి త్వాṁ ప్రవ్యథితాన్తరాత్మా
Link copiedధృతిṁ న విన్దామి శమṁ చ విష్ణో॥౨౪॥
Link copiedబహ్వీభిః దṁష్ట్రాభిర్ అతిభీషణాకారṁ లోకాః పూర్వోక్తాః ప్రతికూలానుకూల-మధ్యస్థాస్ త్రి-విధాః సర్వ ఏవాహṁ చ తవేదమ్ ఈదృశṁ రూపṁ దృష్ట్వాతీవ వ్యథితా భవామః॥౧౧।౨౩॥
Link copiedనభః-స్పృశṁ దీప్తమ్ అనేక-వర్ణṁ
Link copiedవ్యాత్తాననṁ దీప్త-విశాల-నేత్రమ్।
Link copiedదృష్ట్వా హి త్వాṁ ప్రవ్యథితాన్తరాత్మా
Link copiedధృతిṁ న విన్దామి శమṁ చ విష్ణో॥౨౪॥
Link copiedనభః-శబ్దస్ తద్-అక్షరే పరమే వ్యోమన్ [మ।నా।ఉ। ౧।౨], ఆదిత్య-వర్ణṁ తమసః పరస్తాత్ [శ్వే।ఉ। ౩।౮, య।వే। ౩౧।౧౮], క్షయṁ తమస్య రజసః పరాకే [ఋగ్।వే। ౨।౬।౨౫।౫] యో అస్యాధ్యక్షః పరమే వ్యోమన్ [ఋగ్।వే। ౮।౯।౧౭।౭] ఇత్య్-ఆది-శ్రుతి-సిద్ధ-త్రిగుణ-ప్రకృత్య్-అతీత-పరమ-వ్యోమ-వాచీ। స-వికారస్య ప్రకృతి-తత్త్వస్య పురుషస్య చ సర్వావస్థస్య, కృత్స్నస్య ఆశ్రయతయా నభః-స్పృశమ్ ఇతి వచనాత్। ద్యావ్-ఆపృథివ్యోర్ ఇదమ్ అన్తరṁ హి వ్యాప్తమ్ [౧౧।౨౦] ఇతి పూర్వోక్తత్వాచ్ చ। దీప్తమ్ అనేక-వర్ణṁ వ్యాత్తాననṁ దీప్త-విశాల-నేత్రṁ త్వాṁ దృష్ట్వా ప్రవ్యథితాన్తరాత్మా అత్యన్త-భీత-మనా ధృతిṁ న విన్దామి, దేహస్య ధారణṁ న లభే। మనసశ్ చ ఇన్ద్రియాణాṁ చ శమṁ న లభే॥౧౧।౨౪॥
Link copiedవిష్ణో వ్యాపిన్ సర్వ-వ్యాపినమ్ అతిమాత్రమ్ అత్యద్భుతమ్ అతిఘోరṁ చ త్వాṁ దృష్ట్వా ప్రశిథిలవసర్వావయవో వ్యాకులేన్ద్రియశ్ చ భవామీత్య్ అర్థః।
Link copiedదṁష్ట్రా-కరాలాని చ తే ముఖాని
Link copiedదృష్ట్వైవ కాలానల-సన్నిభాని।
Link copiedదిశో న జానే న లభే చ శర్మ
Link copiedప్రసీద దేవేశ జగన్-నివాస॥౨౫॥
Link copiedయుగాన్త-కాలానలవత్ సర్వ-సṁహారే ప్రవృత్తాన్య్ అతిఘోరాణి తవ ముఖాని దృష్ట్వా దిశో న జానే సుఖṁ చ న లభే। జగతాṁ నివాస దేవేశే బ్రహ్మాదీనామ్ ఈశ్వరాణామ్ అపి పరమ-మహేశ్వరṁ మాṁ ప్రతి ప్రసన్నో భవ। యథాహṁ ప్రకృతిṁ గతో భవామి, తథా కుర్వ్ ఇత్య్ అర్థః॥౧౧।౨౫॥
Link copiedఏవṁ సర్వస్య జగతః స్వాయత్త-స్థితి-ప్రవృత్తిత్వṁ దర్శయన్ పార్థ-సారథీ రాజ-వేష-చ్ఛద్మనావస్థితానాṁ ధార్తరాష్ట్రాణాṁ యౌధిష్ఠిరేష్వ్ అనుప్రవిష్టానాṁ చాసురాṁశానాṁ సṁహారేణ భూ-భారావతరణṁ స్వమ్ అనీషితṁ స్వేనైవ కరిష్యమాణṁ పార్థాయ దర్శయామాస। స చ పార్థో భగవతః స్రష్టృత్వాదికṁ సర్వైశ్వర్యṁ సాక్షాత్-కృత్య తస్మిన్ ఏవ భగవతి సర్వాత్మని ధార్తరాష్ట్రాదీనామ్ ఉపసṁహారమ్ అనాగతమ్ అపి తత్-ప్రసాద-లబ్ధేన దివ్యేన చక్షుషా పశ్యన్న్ ఇదṁ ప్రోవాచ---
Link copiedఅమీ చ త్వాṁ ధృతరాష్ట్రస్య పుత్రాః
Link copiedసర్వే సహైవావనిపాల-సఙ్ఘైః।
Link copiedభీష్మో ద్రోణః సూత-పుత్రస్ తథాసౌ
Link copiedసహాస్మదీయైర్ అపి యోధ-ముఖ్యైః॥౨౬॥
Link copiedవక్త్రాణి తే త్వరమాణా విశన్తి
Link copiedదṁష్ట్రా-కరాలాని భయానకాని।
Link copiedకేచిద్ విలగ్నా దశనాన్తరేషు
Link copiedసన్దృశ్యన్తే చూర్ణితైర్ ఉత్తమాఙ్గైః॥౨౭॥
Link copiedఅమీ ధృతరాష్ట్రస్య పుత్రా దుర్యోధనాదయః సర్వే భీష్మో ద్రోణః సూత-పుత్రః కర్ణశ్ చ తత్-పక్షీయైర్ అవని-పాల-సమూహైః సర్వైః అస్మదీయైర్ అపి కైశ్చిద్ యోధ-ముఖ్యైః సహ త్వరమాణా దṁష్ట్రా-కరాలాణి భయానకాని తవ వక్త్రాణి వినాశయ విశన్తి। తత్ర కేచిత్ చూర్ణితైర్ ఉత్తమాఙ్గైర్ దశనాన్తరేషు విలగ్నాః సన్దృశ్యన్తే॥౧౧।౨౬-౨౭॥
Link copiedయథా నదీనాṁ బహవోఽమ్బు-వేగాః
Link copiedసముద్రమ్ ఏవాభిముఖా ద్రవన్తి।
Link copiedతథా తవామీ నర-లోక-వీరా
Link copiedవిశన్తి వక్త్రాణ్య్ అభివిజ్వలన్తి॥౨౮॥
Link copiedయథా ప్రదీప్తṁ జ్వలనṁ పతఙ్గా
Link copiedవిశన్తి నాశాయ సమృద్ధ-వేగాః।
Link copiedతథైవ నాశాయ విశన్తి లోకాస్
Link copiedతవాపి వక్త్రాణి సమృద్ధ-వేగాః॥౨౯॥
Link copiedఏతే రాజ-లోకా బహవో నదీనామ్ అమ్బు-ప్రవాహాః సముద్రమ్ ఇవ ప్రదీప్త-జ్వలనమ్ ఇవ చ శలభాస్ తవ వక్త్రాణ్య్ అభివిజ్వలన్తి స్వయమ్ ఏవ త్వరమాణా ఆత్మ-నాశాయ విశన్తి॥౧౧।౨౮-౨౯॥
Link copiedలేలిహ్యసే గ్రసమానః సమన్తాల్
Link copiedలోకాన్ సమగ్రాన్ వదనైర్ జ్వలద్భిః।
Link copiedతేజోభిర్ ఆపూర్య జగత్ సమగ్రṁ
Link copiedభాసస్ తవోగ్రాః ప్రతపన్తి విష్ణో॥౩౦॥
Link copiedరాజ-లోకాన్ సమగ్రాన్ జ్వలద్భిర్ వదనైర్ గ్రసమానః కోప-వేగేన తద్-రుధిరావసిక్తమ్ ఓష్ఠ-పుటాదికṁ లేలిహ్యసే పునః పునర్ లేహనṁ కరోషి। తవాతిఘోరా భాసో రశ్మయస్ తేజోభిః స్వకీయైః ప్రకాశైర్ జగత్ సమగ్రమ్ ఆపూర్య ప్రతపన్తి॥౧౧।౩౦॥
Link copiedదర్శయాత్మానమ్ అవ్యయమ్ [౧౧।౪] ఇతి తవైశ్వర్యṁ నిరఙ్కుశṁ సాక్షాత్-కర్తుṁ ప్రార్థి తేన భవతా నిరఙ్కుశమ్ ఐశ్వర్యṁ దర్శయతా అతిఘోర-రూపమ్ ఇదమ్ ఆవిష్కృతమ్---
Link copiedఆఖ్యాహి మే కో భవాన్ ఉగ్ర-రూపో
Link copiedనమోఽస్తు తే దేవ-వర ప్రసీద।
Link copiedవిజ్ఞాతుమ్ ఇచ్ఛామి భవన్తమ్ ఆద్యṁ
Link copiedన హి ప్రజానామి తవ ప్రవృత్తిమ్॥౩౧॥
Link copiedఅతిఘోర-రూపః కో భవాన్। కిṁ కర్తుṁ ప్రవృత్తః। ఇతి భవన్తṁ జ్ఞాతుమ్ ఇచ్ఛామి। తవాభిప్రేతాṁ ప్రవృత్తిṁ న జానామి। ఏతద్ ఆఖ్యాహి మే। నమోఽస్తు తే దేవ-వర ప్రసీద--- నమస్ తేఽస్తు సర్వేశ్వర ఏవṁ కర్తుమ్ అనేనాభిప్రాయేణ ఇదṁ సṁహర్తృ-రూపమ్ ఆవిష్కృతమ్ ఇత్య్ ఉక్త్వా ప్రసన్న-రూపశ్ చ భవ॥౧౧।౩౧॥
Link copiedఆశ్రిత-వాత్సల్యాతిరేకేణ విశ్వైశ్వర్యṁ దర్శయతో భవతో ఘోర-రూపావిష్కారే కోఽభిప్రాయః। ఇతి పృష్టే భగవాన్ పార్థ-సారథిః స్వాభిప్రాయమ్ ఆహ। పార్థోద్యోగేన వినాపి ధార్తరాష్ట్ర-ప్రముఖమ్ అశేషṁ రాజ-లోకṁ నిహన్తుమ్ అహమ్ ఏవ ప్రవృత్తః, ఇతి జ్ఞాపనాయ మమ ఘోర-రూపావిష్కారః। తజ్-జ్ఞాపనṁ చ పార్థమ్ ఉద్యోజయితుమ్ ఇతి శ్రీ-భగవాన్ ఉవాచ---
Link copiedకాలోఽస్మి లోక-క్షయ-కృత్ ప్రవృద్ధో
Link copiedలోకాన్ సమాహర్తుమ్ ఇహ ప్రవృత్తః।
Link copiedఋతేఽపి త్వా న భవిష్యన్తి సర్వే
Link copiedయేఽవస్థితాః ప్రత్యనీకేషు యోధాః॥౩౨॥
Link copiedకలయతి గణయతీతి కాలః। సర్వేషాṁ ధార్తరాష్ట్ర-ప్రముఖానాṁ రాజ-లోకానామ్ ఆయుర్-అవసానṁ గణయన్ అహṁ తత్-క్షయ-కృద్ ఘోర-రూపేణ ప్రవృద్ధో రాజ-లోకాన్ సమాహర్తుమ్ ఆభిముఖ్యేన సṁహర్తుమ్ ఇహ ప్రవృత్తోఽస్మి। అతో మత్-సఙ్కల్పాద్ ఏవ త్వామ్ ఋతేఽపి త్వద్-ఉద్యోగమ్ ఋతేఽప్య్ ఏతే ధార్తరాష్ట్ర-ప్రముఖతస్ తవ ప్రత్యనీకేషు యేఽవస్థితా యోధాస్ తే సర్వే న భవిష్యన్తి వినఙ్క్ష్యన్తి॥౧౧।౩౨॥
Link copiedతస్మాత్ త్వమ్ ఉత్తిష్ఠ యశో లభస్వ
Link copiedజిత్వా శత్రూన్ భుఙ్క్ష్వ రాజ్యṁ సమృద్ధమ్।
Link copiedమయైవైతే నిహతాః పూర్వమ్ ఏవ
Link copiedనిమిత్త-మాత్రṁ భవ సవ్యసాచిన్॥౩౩॥
Link copiedతస్మాత్ త్వṁ తాన్ ప్రతి యుద్ధాయోత్తిష్ఠ। తాన్ శత్రూన్ జిత్వా యశో లభస్వ। ధర్మ్యṁ రాజ్యṁ చ సమృద్ధṁ భుఙ్క్ష్వ। మయైవైతే కృతాపరాధాః పూర్వమ్ ఏవ నిహతాః, హననే వినియుక్తాః। త్వṁ తు తేషాṁ హననే నిమిత్త-మాత్రṁ భవ। మయా హన్యమానానాṁ శస్త్రాది-స్థానీయో భవ। సవ్యసాచిన్ ! షచ సమవాయే [ధాతు ౧।౧౦౨౨] సవ్యేన శర-సచన-శీలః సవ్యసాచీ। సవ్యేనాపి కరేణ శర-సమవాయ-కరః। కర-ద్వయేన యోద్ధుṁ సమర్థ ఇత్య్ అర్థః॥౧౧।౩౩॥
Link copiedద్రోణṁ చ భీష్మṁ చ జయద్రథṁ చ
Link copiedకర్ణṁ తథాన్యాన్ అపి యోధ-వీరాన్।
Link copiedమయా హతాṁస్ త్వṁ జహి మా వ్యథిష్ఠా
Link copiedయుధ్యస్వ జేతాసి రణే సపత్నాన్॥౩౪॥
Link copiedద్రోణ-భీష్మ-కర్ణాదీన్ కృతాపరాధతయా మయైవ హననే వినియుక్తాన్ త్వṁ జహి, త్వṁ హన్యాః। ఏతాన్ గురూన్ బన్ధూన్ చాన్యాన్ అపి భోగ-సక్తాన్ కథṁ హనిష్యామి। ఇతి మా వ్యథిష్ఠాః, తాన్ ఉద్దిశ్య ధర్మాధర్మ-భయేన బన్ధు-స్నేహేన కారుణ్యేన చ మా వ్యథాṁ కృథాః। యతస్ తే కృతాపరాధాః। మయైవ హననే వినియుక్తాః, అతో నిర్విశఙ్కో యుధ్యస్వ। రణే సపత్నాన్ జేతాసి, జేష్యసి। నైతేషాṁ వధే నృశṁసతా-గన్ధః, అపి తు జయ ఏవ లభ్యత ఇత్య్ అర్థః॥౧౧।౩౪॥
Link copiedసఞ్జయ ఉవాచ---
Link copiedఏతచ్ ఛ్రుత్వా వచనṁ కేశవస్య
Link copiedకృతాఞ్జలిర్ వేపమానః కిరీటీ।
Link copiedనమస్కృత్వా భూయ ఏవాహ కృష్ణṁ
Link copiedస-గద్గదṁ భీత-భీతః ప్రణమ్య॥౩౫॥
Link copiedఏతద్ ఆశ్రిత-వాత్సల్య-జలధేః కేశవస్య వచనṁ శ్రుత్వార్జునస్ తస్మై నమస్కృత్య భీత-భీతోఽతిభీతో భూయస్ తṁ ప్రణమ్య కృతాఞ్జలిర్ వేపమానః కిరీటీ స-గద్గదమ్ ఆహ॥౧౧।౩౫॥
Link copiedఅర్జున ఉవాచ---
Link copiedస్థానే హృషీకేశ తవ ప్రకీర్త్యా
Link copiedజగత్ ప్రహృష్యత్య్ అనురజ్యతే చ।
Link copiedరక్షాṁసి భీతాని దిశో ద్రవన్తి
Link copiedసర్వే నమస్యన్తి చ సిద్ధ-సఙ్ఘాః॥౩౬॥
Link copiedస్థానే యుక్తమ్, యద్ ఏతద్ యుద్ధ-దిదృక్షయా ఆగతమ్ అశేషṁ దేవ-గన్ధర్వ-సిద్ధ-యక్ష-విద్యాధర-కిన్నర-కిమ్పురుషాదికṁ జగత్ త్వత్-ప్రసాదాత్ త్వాṁ సర్వేశ్వరమ్ అవలోక్య తవ ప్రకీర్త్యా సర్వṁ ప్రహృష్యత్య్ అనురజ్యతే చ। యత్ చ త్వామ్ అవలోక్య రక్షాṁసి భీతాని సర్వా దిశః ప్రద్రవన్తి। సర్వే సిద్ధ-సఙ్ఘాః సిద్ధాద్య్-అనుకూల-సఙ్ఘా నమస్యన్తి చ। తద్ ఏతత్ సర్వṁ యుక్తమ్ ఇతి పూర్వేణ సమ్బన్ధః॥౧౧।౩౬॥
Link copiedయుక్తతామ్ ఏవోపపాదయతి---
Link copiedకస్మాచ్ చ తే న నమేరన్ మహాత్మన్
Link copiedగరీయసే బ్రహ్మణోఽప్య్ ఆది-కర్త్రే।
Link copiedఅనన్త దేవేశ జగన్-నివాస
Link copiedత్వమ్ అక్షరṁ సద్ అసత్ తత్-పరṁ యత్॥౩౭॥
Link copiedమహాత్మన్ ! తే తుభ్యṁ గరీయసే బ్రహ్మణో హిరణ్యగర్భస్యాప్య్ ఆది-భూతాయ కర్త్రే, హిరణ్యగర్భాదయః కస్మాద్ హేతోర్ న నమస్కుర్యుః। అనన్త దేవేశ జగన్-నివాస త్వమ్ ఏవాక్షరమ్ న క్షరతీత్య్ అక్షరṁ జీవాత్మ-తత్త్వమ్। న జాయతే మ్రియతే వా విపశ్చిత్ [క।ఉ। ౧।౨।౧౮] ఇత్య్-ఆది-శ్రుతి-సిద్ధో జీవాత్మా హి న క్షరతి।
Link copiedసద్ అసచ్ చ త్వమ్ ఏవ, సద్-అసచ్-ఛబ్ద-నిర్దిష్టṁ కార్య-కారణ-భావేనావస్థితṁ ప్రకృతి-తత్త్వమ్, నామ-రూప-విభాగవత్తయా కార్యావస్థṁ సచ్-ఛబ్ద-నిర్దిష్టṁ తద్-అనర్హతయా కారణావస్థమ్ అసచ్-ఛబ్ద-నిర్దిష్టṁ చ త్వమ్ ఏవ। తత్-పరṁ యత్ తస్మాత్ ప్రకృతేః ప్రకృతి-సమ్బన్ధినశ్ చ జీవాత్మనః పరమ్ అన్యన్ ముక్తాత్మ-తత్త్వṁ యత్ తద్ అపి త్వమ్ ఏవ॥౧౧।౩౭॥
Link copiedఅతః---
Link copiedత్వమ్ ఆది-దేవః పురుషః పురాణస్
Link copiedత్వమ్ అస్య విశ్వస్య పరṁ నిధానమ్।
Link copiedవేత్తాసి వేద్యṁ చ పరṁ చ ధామ
Link copiedత్వయా తతṁ విశ్వమ్ అనన్త-రూప॥౩౮॥
Link copiedత్వమ్ ఆది-దేవః పురుషః పురాణః। త్వమ్ అస్య విశ్వస్య పరṁ నిధానమ్, నిధీయతే త్వయి విశ్వమ్ ఇతి త్వమ్ అస్య విశ్వస్య పరṁ నిధానమ్, విశ్వస్య శరీర-భూతస్యాత్మతయా పరమాధార-భూతస్ త్వమ్ ఏవ ఇత్య్ అర్థః। జగతి సర్వో వేదితా వేద్యṁ చ సర్వṁ త్వమ్ ఏవ, ఏవṁ సర్వాత్మతయావస్థితస్ త్వమ్ ఏవ పరṁ చ ధామ స్థానṁ ప్రాప్య-స్థానమ్ ఇత్య్ అర్థః। త్వయా తతṁ విశ్వమ్ అనన్త-రూప త్వయాత్మత్వేన విశ్వṁ చిద్-అచిన్-మిశ్రṁ జగత్ తతṁ వ్యాప్తమ్॥౧౧।౩౮॥
Link copiedఅతస్ త్వమ్ ఏవ వాయ్వ్-ఆది-శబ్ద-వాచ్య ఇత్య్ ఆహ---
Link copiedవాయుర్ యమోఽగ్నిర్ వరుణః శశాఙ్కః
Link copiedప్రజాపతిస్ త్వṁ ప్రపితామహశ్ చ।
Link copiedనమో నమస్ తేఽస్తు సహస్ర-కృత్వః
Link copiedపునశ్ చ భూయోఽపి నమో నమస్ తే॥౩౯॥
Link copiedసర్వేషాṁ ప్రపితామహస్ త్వమ్ ఏవ, పితామహాదయశ్ చ। సర్వాసాṁ ప్రజానాṁ పితరః ప్రజాపతయః ప్రజాపతీనాṁ పితా హిరణ్యగర్భః ప్రజానాṁ పితామహః, హిరణ్యగర్భస్యాపి పితా త్వṁ ప్రజానాṁ ప్రపితామహః। పితామహాదీనామ్ ఆత్మతయా తత్-తచ్-ఛబ్ద-వాచ్యస్ త్వమ్ ఏవేత్య్ అర్థః॥౧౧।౩౯॥
Link copiedఅత్యద్భుతాకారṁ భగవన్తṁ దృష్ట్వా హర్షోత్ఫుల్ల-నయనోఽత్యన్త-సాధ్వసావనతః సర్వతో నమస్కరోతి---
Link copiedనమః పురస్తాద్ అథ పృష్ఠతస్ తే
Link copiedనమోఽస్తు తే సర్వత ఏవ సర్వ।
Link copiedఅనన్త-వీర్యామిత-విక్రమస్ త్వṁ
Link copiedసర్వṁ సమాప్నోషి తతోఽసి సర్వః॥౪౦॥
Link copiedఅనన్త-వీర్యామిత-విక్రమస్ త్వṁ సర్వమ్ ఆత్మతయా సమాప్నోషి తతః సర్వోఽసి। యతస్ త్వṁ సర్వṁ చిద్-అచిద్-వస్తు-జాతమ్ ఆత్మతయా సమాప్నోషి। అతః సర్వస్య చిద్-అచిద్-వస్తు-జాతస్య త్వచ్-ఛరీరతయా త్వత్-ప్రకారత్వాత్ సర్వ-ప్రకారస్ త్వమ్ ఏవ సర్వ-శబ్ద-వాచ్యోఽసీత్య్ అర్థః। త్వమ్ అక్షరṁ సద్ అసత్ [గీతా ౧౧।౩౭] వాయుర్ యమోఽగ్నిః [గీతా ౧౧।౩౯] ఇత్య్-ఆది-సర్వ-సామానాధికరణ్య-నిర్దేశస్యాత్మతయా వ్యాప్తిర్ ఏవ హేతుర్ ఇతి సువ్యక్తమ్ ఉక్తమ్। త్వయా తతṁ విశ్వమ్ అనన్త-రూప [గీతా ౧౧।౩౮] సర్వṁ సమాప్నోషి తతోఽసి సర్వః ఇతి చ॥౧౧।౪౦॥
Link copiedసఖేతి మత్వా ప్రసభṁ యద్ ఉక్తṁ
Link copiedహే కృష్ణ హే యాదవ హే సఖేతి।
Link copiedఅజానతా మహిమానṁ తవేదṁ
Link copiedమయా ప్రమాదాత్ ప్రణయేన వాపి॥౪౧॥
Link copiedయచ్ చావహాసార్థమ్ అసత్కృతోఽసి
Link copiedవిహార-శయ్యాసన-భోజనేషు।
Link copiedఏకోఽథ వాప్య్ అచ్యుత తత్-సమక్షṁ
Link copiedతత్ క్షామయే త్వామ్ అహమ్ అప్రమేయమ్॥౪౨॥
Link copiedతవానన్త-వీర్యత్వామిత-విక్రమత్వ-సర్వాన్తర్-ఆత్మత్వ-స్రష్టృత్వాదికో యో మహిమా తమ్ ఇమమ్ అజానతయా మయా ప్రమాదాన్ మోహాత్ ప్రణయేన చిర-పరిచయేన వా సఖేతి మమ వయస్య ఇతి మత్వా, హే కృష్ణ హే యాదవ హే సఖే ! ఇతి త్వయి ప్రసభṁ వినయాపేతṁ యద్ ఉక్తṁ యచ్ చ పరిహాసార్థṁ సర్వదైవ సత్-కారార్హస్ త్వమ్ అసత్కృతోఽసి, విహార-శయ్యాసన-భోజనేషు చ సహ-కృతేష్వ్ ఏకాన్తే వా సమక్షṁ వా యద్ అసత్కృతోఽసి, తత్ సర్వṁ త్వామ్ అప్రమేయమ్ అహṁ క్షామయే॥౧౧।౪౧-౪౨॥
Link copiedపితాసి లోకస్య చరాచరస్య
Link copiedత్వమ్ అస్య పూజ్యశ్ చ గురుర్ గరీయాన్।
Link copiedన త్వత్-సమోఽస్త్య్ అభ్యధికః కుతోఽన్యో
Link copiedలోక-త్రయేఽప్య్ అప్రతిమ-ప్రభావ॥౪౩॥
Link copiedఅప్రతిమ-ప్రభావస్ త్వమ్ అస్య సర్వస్య చరాచరస్య లోకస్య పితా అస్య్ అస్య లోకస్య గురుశ్ చాసి। అతస్ త్వమ్ అస్య చరాచరస్య లోకస్య గరీయాన్ పూజ్యతమః। న త్వత్-సమోఽస్త్య్ అభ్యధికః కుతోఽన్యః। లోక-త్రయేఽపి త్వద్-అన్యః కారుణ్యాదినా కేనాపి గుణేన న త్వత్-సమోఽస్తి కుతోఽభ్యధికః॥౧౧।౪౩॥
Link copiedయస్మాత్ త్వṁ సర్వస్య పితా పూజ్యతమో గురుశ్ చ కారుణ్యాది-గుణైశ్ చ సర్వాధికోఽసి---
Link copiedతస్మాత్ ప్రణమ్య ప్రణిధాయ కాయṁ
Link copiedప్రసాదయే త్వామ్ అహమ్ ఈశమ్ ఈడ్యమ్।
Link copiedపితేవ పుత్రస్య సఖేవ సఖ్యుః
Link copiedప్రియః ప్రియాయార్హసి దేవ సోఢుమ్॥౪౪॥
Link copiedతస్మాత్ త్వామ్ ఈశమ్ ఈడ్యṁ ప్రణమ్య ప్రణిధాయ చ కాయṁ ప్రసాదయే। యథా కృతాపరాధస్యాపి పుత్రస్య యథా చ సఖ్యుః ప్రణామ-పూర్వకṁ ప్రార్థితః పితా సఖా వా ప్రసీదతి, తథా త్వṁ పరమ-కారుణికః ప్రియః ప్రియాయ మే సర్వṁ సోఢుమ్ అర్హసి॥౧౧।౪౪॥
Link copiedఅదృష్ట-పూర్వṁ హృషితోఽస్మి దృష్ట్వా
Link copiedభయేన చ ప్రవ్యథితṁ మనో మే।
Link copiedతద్ ఏవ మే దర్శయ దేవ రూపṁ
Link copiedప్రసీద దేవేశ జగన్-నివాస॥౪౫॥
Link copiedఅదృష్ట-పూర్వమ్ అత్యద్భుతమ్ అత్యుగ్రṁ చ తవ రూపṁ దృష్ట్వా హృషితోఽస్మి ప్రీతోఽస్మి, భయేన ప్రవ్యథితṁ చ మే మనః, అతస్ తద్ ఏవ తవ సుప్రసన్నṁ రూపṁ మే దర్శయ। ప్రసీద దేవేశ జగన్-నివాస మయి ప్రసాదṁ కురు దేవానాṁ బ్రహ్మాదీనామ్ అపి ఈశ నిఖిల-జగద్-ఆశ్రయ-భూత॥౧౧।౪౫॥
Link copiedకిరీటినṁ గదినṁ చక్ర-హస్తమ్
Link copiedఇచ్ఛామి త్వాṁ ద్రష్టుమ్ అహṁ తథైవ।
Link copiedతేనైవ రూపేణ చతుర్-భుజేన
Link copiedసహస్ర-బాహో భవ విశ్వ-మూర్తే॥౪౬॥
Link copiedతథైవ పూర్వవత్ కిరీటినṁ గదినṁ చక్ర-హస్తṁ త్వాṁ ద్రష్టుమ్ ఇచ్ఛామి, అతస్ తేనైవ పూర్వ-సిద్ధేన చతుర్-భుజేన రూపేణ యుక్తో భవ సహస్ర-బాహో విశ్వ-మూర్తే ఇదానీṁ సహస్ర-బాహుత్వేన విశ్వ-శరీరత్వేన దృశ్యమాన-రూపస్ త్వṁ తేనైవ రూపేణ యుక్తో భవేత్య్ అర్థః॥౧౧।౪౬॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedమయా ప్రసన్నేన తవార్జునేదṁ
Link copiedరూపṁ పరṁ దర్శితమ్ ఆత్మ-యోగాత్।
Link copiedతేజో-మయṁ విశ్వమ్ అనన్తమ్
Link copiedఆద్యṁ యన్ మే త్వద్-అన్యేన న దృష్ట-పూర్వమ్॥౪౭॥
Link copiedయత్ మే తేజో-మయṁ తేజో-రాశిṁ విశ్వṁ సర్వాత్మ-భూతమ్ అనన్తమ్ అన్త-రహితమ్। ప్రదర్శనార్థమ్ ఇదమ్, ఆది-మధ్యాన్త-రహితమ్। ఆద్యṁ మద్-వ్యతిరిక్తస్య కృత్స్నస్య ఆది-భూతṁ త్వద్-అన్యేన కేనాపి న దృష్ట-పూర్వṁ రూపṁ తద్ ఇదṁ ప్రసన్నేన మయా మద్-భక్తాయ తే దర్శితమ్ ఆత్మ-యోగాద్ ఆత్మనః సత్య-సఙ్కల్పత్వ-యోగాత్॥౧౧।౪౭॥
Link copiedఅనన్య-భక్తి-వ్యతిరిక్తైః సర్వైర్ అప్య్ ఉపాయైర్ యథావద్ అవస్థితోఽహṁ ద్రష్టుṁ న శక్య ఇత్య్ ఆహ---
Link copiedన వేద యజ్ఞాధ్యయనైర్ న దానైర్
Link copiedన చ క్రియాభిర్ న తపోభిర్ ఉగ్రైః।
Link copiedఏవṁ-రూపః శక్య అహṁ నృ-లోకే
Link copiedద్రష్టుṁ త్వద్-అన్యేన కురు-ప్రవీర॥౪౮॥
Link copiedఏవṁ-రూపో యథావస్థితోఽహṁ మయి భక్తి-మతస్ త్వత్తోఽన్యేనైకాన్తికాత్యన్తిక-భక్తి-రహితేన కేనాపి పురుషేణ కేవలైర్ వేద-యజ్ఞాదిభిర్ ద్రష్టుṁ న శక్యః॥౧౧।౪౮॥
Link copiedమా తే వ్యథా మా చ విమూఢ-భావో
Link copiedదృష్ట్వా రూపṁ ఘోరమ్ ఈదృఙ్ మమేదమ్।
Link copiedవ్యపేత-భీః ప్రీత-మనాః పునస్ త్వṁ
Link copiedతద్ ఏవ మే రూపమ్ ఇదṁ ప్రపశ్య॥౪౯॥
Link copiedఈదృశ-ఘోర-రూప-దర్శనేన తే యా వ్యథా, యశ్ చ విమూఢ-భావో వర్తతే, తద్ ఉభయṁ మా భూత్, త్వయాభ్యస్త-పూర్వమ్ ఏవ సౌమ్య-రూపṁ దర్శయామి, తద్ ఏవేదṁ మమ రూపṁ ప్రపశ్య॥౧౧।౪౯॥
Link copiedసఞ్జయ ఉవాచ---
Link copiedఇత్య్ అర్జునṁ వాసుదేవస్ తథోక్త్వా
Link copiedస్వకṁ రూపṁ దర్శయామ్ ఆస భూయః।
Link copiedఆశ్వాసయామ్ ఆస చ భీతమ్ ఏనṁ
Link copiedభూత్వా పునః సౌమ్య-వపుర్ మహాత్మా॥౫౦॥
Link copiedఏవṁ పాణ్డు-తనయṁ భగవాన్ వసుదేవ-సూనుర్ ఉక్త్వా భూయః స్వకీయమ్ ఏవ చతుర్-భుజ-రూపṁ దర్శయామాస, అపరిచిత-స్వరూప-దర్శనేన భీతమ్ ఏవṁ పునర్ అపి పరిచిత-సౌమ్య-వపుర్ భూత్వా ఆశ్వాసయామాస చ, మహాత్మా సత్య-సఙ్కల్పః।
Link copiedఅస్య సర్వేశ్వరస్య పరమ-పురుషస్య పరస్య బ్రహ్మణో జగద్-ఉపకృతి-మర్త్యస్య వసుదేవ-సూనోశ్ చతుర్-భుజమ్ ఏవ స్వకీయṁ రూపṁ కṁసాద్ భీత-వసుదేవ-ప్రార్థనేన ఆ-కṁస-వధాత్ పూర్వṁ భుజ-ద్వయమ్ ఉపసṁహృతṁ పశ్చాద్ ఆవిష్కృతṁ చ।
Link copiedజాతోఽసి దేవ-దేవేశ శఙ్ఖ-చక్ర-గదాధర।
Link copiedదివ్య-రూపమ్ ఇదṁ దేవ ప్రసాదేనోపసṁహర॥ [వి।పు। ౫।౩।౧౦]
Link copiedఉపసṁహర విశ్వాత్మన్ రూపమ్ ఏతచ్ చతుర్-భుజమ్॥ [వి।పు। ౫।౩।౧౩] ఇతి హి ప్రార్థితమ్।
Link copied
శిశుపాలస్యాపి ద్విషతోఽనవరత-భావనా-విషయṁ చతుర్-భుజమ్ ఏవ వసుదేవ-సూనో రూపమ్ ఉదార-పీవర చతుర్-బాహుṁ శఙ్ఖ-చక్ర-గదాధరమ్ [వి।పు। ౪।౧౫।౧౦] ఇతి। అతః పార్థేనాత్ర తేనైవ రూపేణ చతుర్-భుజేన [గీతా ౧౧।౪౬] ఇత్య్ ఉచ్యతే॥౧౧।౫౦॥
Link copiedఅర్జున ఉవాచ---
Link copiedదృష్ట్వేదṁ మానుషṁ రూపṁ తవ సౌమ్యṁ జనార్దన।
Link copiedఇదానీమ్ అస్మి సṁవృత్తః స-చేతాః ప్రకృతిṁ గతః॥౫౧॥
Link copiedఅనవధికాతిశయ-సౌన్దర్య-సౌకుమార్య-లావణ్యాది-యుక్తṁ తవైవాసాధారణṁ మనుష్యత్వ-సṁస్థాన-సṁస్థితమ్ అతిసౌమ్యమ్ ఇదṁ తవ రూపṁ దృష్ట్వా స-చేతాః సṁవృత్తోఽస్మి, ప్రకృతిṁ గతశ్ చ॥౧౧।౫౧॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedసుదుర్దర్శమ్ ఇదṁ రూపṁ దృష్టవాన్ అసి యన్ మమ।
Link copiedదేవా అప్య్ అస్య రూపస్య నిత్యṁ దర్శన-కాఙ్క్షిణః॥౫౨॥
Link copiedమమేదṁ సర్వస్య ప్రశాసనేఽవస్థితṁ సర్వాశ్రయṁ సర్వ-కారణ-భూతṁ రూపṁ యత్ దృష్టవాన్ అసి, తత్ సుదుర్దర్శో న కేనాపి ద్రష్టుṁ శక్యమ్। అస్య రూపస్య దేవా అపి నిత్యṁ దర్శన-కాఙ్క్షిణః, న తు దృష్టవన్తః॥౧౧।౫౨॥
Link copiedకుతః। ఇత్య్ అత్రాహ---
Link copiedనాహṁ వేదైర్ న తపసా న దానేన న చేజ్యయా।
Link copiedశక్య ఏవṁ-విధో ద్రష్టుṁ దృష్టవాన్ అసి మాṁ యథా॥౫౩॥
Link copiedభక్త్యా త్వ్ అనన్యయా శక్య అహమ్ ఏవṁ-విధోఽర్జున।
Link copiedజ్ఞాతుṁ ద్రష్టుṁ చ తత్త్వేన ప్రవేష్టుṁ చ పరన్తప॥౫౪॥
Link copiedవేదైర్ అధ్యాపన-ప్రవచనాధ్యయన-శ్రవణ-జప-విషయైర్ యాగ-దాన-హోమ-తపోభిశ్ చ మద్-భక్తి-రహితైః కేవలైర్ యథావద్ అవస్థితోఽహṁ ద్రష్టుṁ న శక్యః। అనన్యయా తు భక్త్యా తత్త్వతః శాస్త్రైర్ జ్ఞాతుṁ తత్త్వతః సాక్షాత్-కర్తుṁ తత్త్వతః ప్రవేష్టుṁ చ శక్యః। తథా చ శ్రుతిః---
Link copiedనాయమ్ ఆత్మా ప్రవచనేన లభ్యో
Link copiedన మేధయా న బహునా శ్రుతేన।
Link copiedయమ్ ఏవైష వృణుతే తేన లభ్యస్
Link copiedతస్యైష ఆత్మా వివృణుతే తనూṁ స్వామ్। [క।ఉ। ౨।౨౩] ఇతి॥౧౧।౫౩-౫౪॥
Link copied
మత్-కర్మ-కృన్ మత్-పరమో మద్-భక్తః సఙ్గ-వర్జితః।
Link copiedనిర్వైరః సర్వ-భూతేషు యః స మామ్ ఏతి పాణ్డవ॥౫౫॥
Link copiedవేదాధ్యయనాదీని సర్వాణి కర్మాణి మద్-ఆరాధన-రూపాణీతి యః కరోతి స మత్-కర్మ-కృత్। మత్-పరమః--- సర్వేషామ్ ఆరమ్భాణామ్ అహమ్ ఏవ పరమోద్దేశ్యో యస్య స మత్-పరమః। మద్-భక్తః--- అత్యర్థ-మత్-ప్రియత్వేన మత్-కీర్తన-స్తుతి-ధ్యానార్చన-ప్రణామాదిభిర్ వినాత్మ-ధారణమ్ అలభమానో మద్-ఏక-ప్రయోజనతయా యః సతతṁ తాని కరోతి స మద్-భక్తః।
Link copiedసఙ్గ-వర్జితః--- మద్-ఏక-ప్రియత్వేనేతర-సఙ్గమ్ అసహమానో నిర్వైరః సర్వ-భూతేషు--- మత్-సṁశ్లేష-వియోగైక-సుఖ-దుఃఖ-స్వభావత్వాత్ స్వ-దుఃఖస్య స్వాపరాధ-నిమిత్తత్వానుసన్ధానాచ్ చ సర్వ-భూతానాṁ పరమ-పురుష-పర-తన్త్రత్వానుసన్ధానాచ్ చ సర్వ-భూతేషు వైర-నిమిత్తాభావాత్ తేషు నిర్వైరః। య ఏవṁ-భూతః స మామ్ ఏతి, మాṁ యథావద్ అవస్థితṁ ప్రాప్నోతి। నిరస్తావిద్యాద్య్-అశేష-దోష-గన్ధో మద్-ఏకానుభవో భవతీత్య్ అర్థః॥౧౧।౫౫॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే ఏకాదశోఽధ్యాయః॥౧౧॥
Link copied**
Link copiedevaṁ bhakti-yoga-niṣpattaye sad-vivṛddhaye ca sakaletara-vilakṣaṇena svābhāvikena bhagavad-asādhāraṇena kalyāṇa-guṇa-gaṇena saha bhagavata sarvātmatvam| tata eva tad-vyatiriktasya kṛtsnasya cid-acid-ātmakasya vastu-jātasya tac-charīratayā tad-āyatta-svarūpa-sthiti-pravṛttitvaṁ coktam| tam etaṁ bhagavad-asādhāraṇaṁ svabhāvaṁ kṛtsnasya tad-āyatta-svarūpa-sthiti-pravṛttitāṁ ca bhagavat-sakāśād upaśrutya evam eveti niścitya tathā-bhūtaṁ bhagavantaṁ sākṣātkartu-kāmo'rjuna uvāca| tathaiva bhagavat-prasādād anantaraṁ drakṣyati| sarvāścaryamayaṁ devam anantaṁ viśvato-mukham [gītā 11.11], tatraikasthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā [gītā 11.13] iti hi vakṣyate|
Link copiedmad-anugrahāya paramaṁ guhyam adhyātma-saṁjñitam|
Link copiedyat tvayoktaṁ vacas tena moho'yaṁ vigato mama||1||
Link copieddehātmābhimāna-rūpa-mohena mohitasya mamānugrahaika-prayojanāya paramaṁ guhyaṁ paramaṁ rahasyam adhyātma-saṁjñitam ātmani vaktavyaṁ vaco na tv evāhaṁ jātu nāsam [2.12] ity-ādi| tasmād yogī bhavārjuna [6.46] ity etad antaṁ yat tvayoktam, tenāyaṁ mama ātma-viṣayo mohaḥ sarvo vigataḥ dūrato nirastaḥ||11.1||
Link copiedbhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā|
Link copiedtvattaḥ kamala-patrākṣa māhātmyam api cāvyayam||2||
Link copiedtathā saptama-prabhṛti daśama-paryantaṁ tvad-vyatiriktānāṁ sarveṣāṁ bhūtānāṁ tvattaḥ paramātmāno bhavāpyayāv utpatti-pralayau vistaraśo mayā śrutau| he kamala-patrākṣa ! tavāvyayaṁ nityaṁ sarva-cetanācetana-vastu-śeṣitvaṁ jñāna-balādi-kalyāṇa-guṇa-gaṇais tava eva parataratvaṁ sarvādhāratvaṁ cintita-nimiṣitādi-sarva-pravṛttiṣu tavaiva pravartayitṛtvam, ity ādi aparimitaṁ māhātmyaṁ ca śrutaṁ hi śabdo vakṣyamāṇa-didṛkṣā-dyotanārthaḥ||11.2||
Link copiedevam etad yathāttha tvam ātmānaṁ parameśvara|
Link copieddraṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama||3||
Link copiedhe parameśvara ! evam etad ity avadhṛtaṁ yathāttha tvam ātmānaṁ bravīṣi| puruṣottama āśrita-vātsalya-jaladhe ! tavaiśvaraṁ tvad-asādhāraṇaṁ sarvasya praśāsitṛtve pālayitṛtve sraṣṭṛtve saṁhartṛtve bhartṛtve kalyāṇa-guṇākaratve parataratve sakaletara-visajātīyatve cāvasthitaṁ rūpaṁ draṣṭum sākṣāt-kartum icchāmi||11.3||
Link copiedmanyase yadi tac chakyaṁ mayā draṣṭum iti prabho|
Link copiedyogeśvara tato me tvaṁ darśayātmānam avyayam||4||
Link copiedtat sarvasya sraṣṭṛ sarvasya praśāsitṛ sarvasyādhāra-bhūtaṁ tvad-rūpaṁ mayā draṣṭuṁ śakyam iti yadi manyase| tato yogeśvara ! yogo jñānādi-kalyāṇa-guṇa-yogaḥ paśya me yogam aiśvaram [gītā 11.8] iti hi vakṣyate| tvad-vyatiriktasya kasyāpy asambhāvitānāṁ jñāna-balaiśvarya-vīrya-śakti-tejasāṁ nidhe ! ātmānaṁ tvām avyayaṁ me darśaya tvam avyayam iti kriyā-viśeṣaṇam| tvāṁ sakalaṁ me darśayety arthaḥ||11.4||
Link copiedevaṁ kautūhalānvitena harṣa-gadgada-kaṇṭhena pārthena prārthito bhagavān uvāca---
Link copiedpaśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ|
Link copiednānā-vidhāni divyāni nānā-varṇākṛtīni ca||5||
Link copiedpaśya me sarvāśrayāṇi rūpāṇy atha śataśaḥ sahasraśaś ca nānā-vidhāni nānā-prakārāṇi divyāny aprākṛtāni nānā-varṇākṛtīni śukla-kṛṣṇādi-nānā-varṇāni nānākārāṇi ca paśya||11.5||
Link copiedpaśyādityān vasūn rudrān aśvinau marutas tathā|
Link copiedbahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata||6||
Link copiedmamaikasmin rūpe paśyādityān dvādaśa, vasūn aṣṭau, rudrān ekādaśa, aśvinau dvau, marutaś caikonapañcāśatam| pradarśanārtham idam| iha jagati pratyakṣa-dṛṣṭāni śāstra-dṛṣṭāni ca yāni vastūni tāni sarvāṇy anyāny api sarveṣu lokeṣu sarveṣu ca śāstreṣv adṛṣṭa-pūrvāṇi bahūny āścaryāṇi paśya||11.6||
Link copiedihaikasthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram|
Link copiedmama dehe guḍākeśa yac cānyad draṣṭum icchasi||7||
Link copiediha māma ekasmin dehe tatrāpi ekastham ekadeśasthaṁ sacarācaraṁ kṛtsnaṁ jagat paśya| yat cānyad draṣṭum icchasi tad api ekadehaikadeśe eva paśya||11.7||
Link copiedna tu māṁ śakyase draṣṭum anenaiva sva-cakṣuṣā|
Link copieddivyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram||8||
Link copiedahaṁ mama dehaika-deśe sarvaṁ jagad darśayiṣyāmi, tvaṁ tv anena niyamita-parimita-vastu-grāhiṇā prākṛtena sva-cakṣuṣā māṁ tathā-bhūtaṁ sakaletara-visajātīyam aparimeyaṁ draṣṭuṁ na śakyase| tava divyam aprākṛtaṁ mad-darśana-sādhanaṁ cakṣur dadāmi| paśya me yogam aiśvaraṁ mad-asādhāraṇaṁ yogaṁ paśya| mamānanta-jñānādi-yogam ananta-vibhūti-yogaṁ ca paśyety arthaḥ||11.8||
Link copiedsañjaya uvāca---
Link copiedevam uktvā tato rājan mahā-yogeśvaro hariḥ|
Link copieddarśayām āsa pārthāya paramaṁ rūpam aiśvaram||9||
Link copiedevam uktvā sārathye'vasthitaḥ pārtha-mātula-jo mahā-yogeśvaro harir mahāścarya-yogānām īśvaraḥ para-brahma-bhūto nārāyaṇaḥ paramam aiśvaraṁ svāsādhāraṇaṁ rūpaṁ pārthāya pitṛ-ṣvasuḥ pṛthāyāḥ putrāya darśayāmāsa tad vividha-vicitra-nikhila-jagad-āśrayaṁ viśvasya praśāsitṛ ca rūpam||11.9||
Link copiedtac cedṛśam---
Link copiedaneka-vaktra-nayanam anekādbhuta-darśanam|
Link copiedaneka-divyābharaṇaṁ divyānekodyatāyudham||10||
Link copieddivya-mālyāmbara-dharaṁ divya-gandhānulepanam|
Link copiedsarvāścarya-mayaṁ devam anantaṁ viśvato-mukham||11||
Link copieddevaṁ dyotamānam anantaṁ kāla-traya-varti-nikhila-jagad-āśrayatayā deśa-kāla-paricchedanārhaṁ viśvato-mukhaṁ viśva-dig-varti-mukhaṁ svocita-divyāmbara-gandha-mālyābharaṇāyudhānvitam||11.10-11||
Link copiedtām eva deva-śabda-nirdiṣṭaṁ dyotamānatāṁ viśinaṣṭi---
Link copieddivi sūrya-sahasrasya bhaved yugapad utthitā|
Link copiedyadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ||12||
Link copiedtejaso'parimitatva-darśanārtham idam| akṣaya-tejaḥ-svarūpam ity arthaḥ||11.12||
Link copiedtatraikasthaṁ jagat kṛtsnaṁ pravibhaktam anekadhā|
Link copiedapaśyad deva-devasya śarīre pāṇḍavas tadā||13||
Link copiedtatrānantāyāma-vistāre'nanta-bāhūdara-vaktra-netre'parimita-tejaske'parimita-divyāyudhopete svocitāparimita-divya-bhūṣaṇe divya-mālyāmbara-dhare divya-gandhānulepane'nantāścarya-maye deva-devasya divye śarīre'nekādhā pravibhaktaṁ brahmādi-vividha-vicitra-deva-tiryaṅ-manuṣya-sthāvarādi-bhoktṛ-varga-pṛthivy-antarikṣa-svarga-pātālātala-vitala-sutalādi-bhoga-sthāna-bhogya-bhogopakaraṇa-bheda-bhinnaṁ prakṛti-puruṣātmakaṁ kṛtsnaṁ jagad ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate [gītā 10.8], hanta te kathayiṣyāmi vibhūtīr ātmanaḥ śubhāḥ [gītā 10.19], aham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ [gītā 10.20], ādityānām ahaṁ viṣṇuḥ [gītā 10.21] ity-ādinā, na tad asti vinā yat syān mayā bhūtaṁ carācaram [gītā 10.39], viṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat [10.42] ity antena uditam| eka-stham eka-deśa-sthaṁ pāṇḍāvo bhagavat-prasāda-labdha-tad-darśanānuguṇa-divya-cakṣur apaśyat||11.13||
Link copiedtataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanañjayaḥ|
Link copiedpraṇamya śirasā devaṁ kṛtāñjalir abhāṣata||14||
Link copiedtato dhanañjayaḥ mahāścaryasya kṛtsnasya jagataḥ sva-dehaika-deśena āśraya-bhūtaṁ kṛtsnasya pravartayitāraṁ cāścaryatamānanta-jñānādi-kalyāṇa-guṇa-gaṇaṁ devaṁ dṛṣṭvā vismayāviṣṭe hṛṣṭa-romā śirasā daṇḍāvat praṇamya kṛtāñjalir abhāṣata||11.14||
Link copiedarjuna uvāca---
Link copiedpaśyāmi devāṁs tava deva dehe
Link copiedsarvāṁs tathā bhūta-viśeṣa-saṅghān|
Link copiedbrahmāṇam īśaṁ kamalāsana-stham
Link copiedṛṣīṁś ca sarvān uragāṁś ca divyān||15||
Link copieddeva ! tava dehe sarvān devān paśyāmi| tathā sarvān prāṇi-viśeṣāṇāṁ saṅghān, tathā brahmāṇaṁ catur-mukham aṇḍādhipatim, tatheśaṁ kamalāsana-sthaṁ kamalāsane brahmaṇi sthitam īśaṁ tan-mate'vasthitaṁ tathā devarṣi-pramukhān sarvān ṛṣīn, uragāṁś ca vāsuki-takṣakādīn dīptān||11.15||
Link copiedaneka-bāhūdara-vaktra-netraṁ
Link copiedpaśyāmi tvā sarvato'nanta-rūpam|
Link copiednāntaṁ na madhyaṁ na punas tavādiṁ
Link copiedpaśyāmi viśveśvara viśva-rūpa||16||
Link copiedaneka-bāhūdara-vaktra-netram ananta-rūpaṁ tvāṁ sarvataḥ paśyāmi| viśveśvara viśvasya niyantaḥ ! viśva-rūpa viśva-śarīra yatas tvam anantaḥ| atas tava nāntaṁ na madhyaṁ na punas tavādiṁ ca paśyāmi||11.16||
Link copiedkirīṭinaṁ gadinaṁ cakriṇaṁ ca
Link copiedtejo-rāśiṁ sarvato dīptimantam|
Link copiedpaśyāmi tvāṁ durnirīkṣyaṁ samantād
Link copieddīptānalārka-dyutim aprameyam||17||
Link copiedtejo-rāśiṁ sarva to dīptimantaṁ samantād durnirīkṣyaṁ dīptānalārka-dyutim aprameyaṁ tvāṁ kirīṭinaṁ gadinaṁ cakriṇaṁ ca paśyāmi||11.17||
Link copiedtvam akṣaraṁ paramaṁ veditavyaṁ
Link copiedtvam asya viśvasya paraṁ nidhānam|
Link copiedtvam avyayaḥ śāśvata-dharma-goptā
Link copiedsanātanas tvaṁ puruṣo mato me||18||
Link copiedupaniṣatsu dve vidye veditavye [mu.u. 1.1.4] ity-ādiṣu veditavyatayā nirdiṣṭaṁ paramam akṣaraṁ tvam eva| asya viśvasya paraṁ nidhānaṁ viśvasyāsya paramādhāra-bhūtas tvam eva| tvam avyayo vyaya-rahitaḥ| yat-svarūpo yad-guṇo yad-vibhavaś ca tvaṁ tenaiva rūpeṇa sarvadāvatiṣṭhase| śāśvata-dharma-goptā śāśvatasya nityasya vaidikasya dharmasyaivam ādibhir avatārais tvam eva goptā| sanātanas tvaṁ puruṣo mato me--- vedāham etaṁ puruṣaṁ mahāntam [Yajuḥ 31.18; tai.ā. 3.12.7; śve.u. 3.8] parāt paraṁ puruṣam [mu.u. 3.2.8] ity-ādiṣūditaḥ sanātana-puruṣas tvam eveti me mato jñātaḥ| yadu-kula-tilakas tvam evaṁ-bhūta idānīṁ sākṣāt-kṛto mayety arthaḥ||11.18||
Link copiedanādi-madhyāntam ananta-vīryam
Link copiedananta-bāhuṁ śaśi-sūrya-netram|
Link copiedpaśyāmi tvāṁ dīpta-hutāśa-vaktraṁ
Link copiedsva-tejasā viśvam idaṁ tapantam||19||
Link copiedanādi-madhyāntam ādi-madhyānta-rahitam| ananta-vīryam anavadhikātiśaya-vīryam, vīrya-śabdaḥ pradarśanārtham| anavadhikātiśaya-jñāna-balaiśvarya-śakti-tejasāṁ nidhim ity arthaḥ| ananta-bāhum asaṅkhyeya-bāhum| so'pi pradarśanārtham, ananta-bāhūdara-pāda-vaktrādikam| śaśi-sūrya-netraṁ śaśivat sūryavat ca prasāda-pratāpa-yukta-sarva-netram| devādīn anukūlān namaskārādi kurvāṇān prati prasādaḥ, tad-viparītān asura-rākṣasādīn prati pratāpaḥ| rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṅghāḥ [11.36] iti hi vakṣyate|
Link copieddīpta-hutāśa-vaktraṁ pradīpta-kālānalavat saṁhārānuguṇa-vaktram| sva-tejasā viśvam idaṁ tapantam--- tejaḥ parābhibhavana-sāmarthyam, svakīyena tejasā viśvam idaṁ tapantaṁ tvāṁ paśyāmi| evaṁ-bhūtaṁ sarvasya sraṣṭāram, sarvasyādhāra-bhūtaṁ sarvasya praśāsitāram, sarvasya saṁhartāram, jñānādy-aparimita-guṇa-sāgaram, ādi-madhyānta-rahitam evaṁ-bhūta-divya-dehaṁ tvāṁ yathopadeśaṁ sākṣāt-karomīty arthaḥ|
Link copiedekasmin divya-dehe'nekodarādikaṁ katham| ittham upapadyate--- ekasmāt kaṭi-pradeśād ananta-parimāṇād ūrdhvam udgatā yathodita-divyodarādayaḥ, adhaś ca yathodita-divya-pādāḥ, tatraikasmin mukhe netra-dvayam iti ca na virodhaḥ||11.19||
Link copiedevaṁ-bhūtaṁ tvāṁ dṛṣṭvā devādayo'haṁ ca pravyathitā bhavāmīty āha---
Link copieddyāv-āpṛthivyor idam antaraṁ hi
Link copiedvyāptaṁ tvayaikena diśaś ca sarvāḥ|
Link copieddṛṣṭvādbhutaṁ rūpam idaṁ tavograṁ
Link copiedloka-trayaṁ pravyathitaṁ mahātman||20||
Link copieddyu-śabdaḥ pṛthivī-śabdaś ca ubhāv uparitanānām adhastanānāṁ ca lokānāṁ pradarśanārtham| dyāv-āpṛthivyor antaram avakāśaḥ, yasmin avakāśe sarve lokās tiṣṭhanti, sarvo'yam avakāśaḥ diśaś ca sarvās tvayaikena vyāptāḥ|
Link copieddṛṣṭvādbhūtaṁ rūpam ugraṁ tavedam anantāyāma-vistāram atyadbhutam ātyugraṁ tava rūpaṁ dṛṣṭvā loka-trayaṁ pravyathitam--- yuddha-didṛkṣayāgateṣu brahmādi-devāsura-pitṛ-gaṇa-siddha-gandharva-yakṣa-rākṣaseṣu pratikūlānukūla-madhyastha-rūpaṁ loka-trayaṁ sarvaṁ pravyathitam, atyanta-bhītam| mahātman aparicchedya-mano-vṛtte !
Link copiedeteṣām apy arjunasyeva viśvāśraya-rūpa-sākṣāt-kāra-sādhanaṁ divyaṁ cakṣur bhagavatā dattam| kim-artham iti cet| arjunāya svaiśvaryaṁ sarvaṁ pradarśayitum| ata idam ucyate--- dṛṣṭvādbhutaṁ rūpam ugraṁ tavedaṁ loka-trayaṁ pravyathitaṁ mahātman iti||11.20||
Link copiedamī hi tvā sura-saṅghā viśanti
Link copiedkecid bhītāḥ prāñjalayo gṛṇanti|
Link copiedsvastīty uktvā maharṣi-siddha-saṅghāḥ
Link copiedstuvanti tvāṁ stutibhiḥ puṣkalābhiḥ||21||
Link copiedamī sura-saṅghā utkṛṣṭas tvāṁ viśvāśrayam avalokya hṛṣṭa-manasas tvat-samīpaṁ viśānti| teṣv eva kecid atyugram atyadbhutaṁ ca tavākāram ālokya bhītāḥ prāñjalayaḥ sva-jñānānuguṇaṁ stuti-rūpāṇi vākyāni gṛṇanty uccārayanti| apare mahārṣi-saṅghāḥ siddha-saṅghāś ca parāvara-tattva-yāthātmya-vidaḥ svastīty uktvā puṣkalābhir bhagavad-anurūpābhiḥ stutibhiḥ stuvanti||11.21||
Link copiedrūpaṁ mahat te bahu-vaktra-netraṁ
Link copiedmahā-bāho bahu-bāhūru-pādam|
Link copiedbahūdaraṁ bahu-daṁṣṭrā-karālaṁ
Link copieddṛṣṭvā lokāḥ pravyathitās tathāham||23||
Link copiedūṣmapāḥ pitara ūṣma-bhāgā hi pitaraḥ [tai.brā. 1.3.10] iti śruteḥ| ete sarve vismayam āpannās tvāṁ vīkṣante||11.22||
Link copiednabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ
Link copiedvyāttānanaṁ dīpta-viśāla-netram|
Link copieddṛṣṭvā hi tvāṁ pravyathitāntarātmā
Link copieddhṛtiṁ na vindāmi śamaṁ ca viṣṇo||24||
Link copiedbahvībhiḥ daṁṣṭrābhir atibhīṣaṇākāraṁ lokāḥ pūrvoktāḥ pratikūlānukūla-madhyasthās tri-vidhāḥ sarva evāhaṁ ca tavedam īdṛśaṁ rūpaṁ dṛṣṭvātīva vyathitā bhavāmaḥ||11.23||
Link copiednabhaḥ-spṛśaṁ dīptam aneka-varṇaṁ
Link copiedvyāttānanaṁ dīpta-viśāla-netram|
Link copieddṛṣṭvā hi tvāṁ pravyathitāntarātmā
Link copieddhṛtiṁ na vindāmi śamaṁ ca viṣṇo||24||
Link copiednabhaḥ-śabdas tad-akṣare parame vyoman [ma.nā.u. 1.2], āditya-varṇaṁ tamasaḥ parastāt [śve.u. 3.8, ya.ve. 31.18], kṣayaṁ tamasya rajasaḥ parāke [ṛg.ve. 2.6.25.5] yo asyādhyakṣaḥ parame vyoman [ṛg.ve. 8.9.17.7] ity-ādi-śruti-siddha-triguṇa-prakṛty-atīta-parama-vyoma-vācī| sa-vikārasya prakṛti-tattvasya puruṣasya ca sarvāvasthasya, kṛtsnasya āśrayatayā nabhaḥ-spṛśam iti vacanāt| dyāv-āpṛthivyor idam antaraṁ hi vyāptam [11.20] iti pūrvoktatvāc ca| dīptam aneka-varṇaṁ vyāttānanaṁ dīpta-viśāla-netraṁ tvāṁ dṛṣṭvā pravyathitāntarātmā atyanta-bhīta-manā dhṛtiṁ na vindāmi, dehasya dhāraṇaṁ na labhe| manasaś ca indriyāṇāṁ ca śamaṁ na labhe||11.24||
Link copiedviṣṇo vyāpin sarva-vyāpinam atimātram atyadbhutam atighoraṁ ca tvāṁ dṛṣṭvā praśithilavasarvāvayavo vyākulendriyaś ca bhavāmīty arthaḥ|
Link copieddaṁṣṭrā-karālāni ca te mukhāni
Link copieddṛṣṭvaiva kālānala-sannibhāni|
Link copieddiśo na jāne na labhe ca śarma
Link copiedprasīda deveśa jagan-nivāsa||25||
Link copiedyugānta-kālānalavat sarva-saṁhāre pravṛttāny atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne sukhaṁ ca na labhe| jagatāṁ nivāsa deveśe brahmādīnām īśvarāṇām api parama-maheśvaraṁ māṁ prati prasanno bhava| yathāhaṁ prakṛtiṁ gato bhavāmi, tathā kurv ity arthaḥ||11.25||
Link copiedevaṁ sarvasya jagataḥ svāyatta-sthiti-pravṛttitvaṁ darśayan pārtha-sārathī rāja-veṣa-cchadmanāvasthitānāṁ dhārtarāṣṭrāṇāṁ yaudhiṣṭhireṣv anupraviṣṭānāṁ cāsurāṁśānāṁ saṁhāreṇa bhū-bhārāvataraṇaṁ svam anīṣitaṁ svenaiva kariṣyamāṇaṁ pārthāya darśayāmāsa| sa ca pārtho bhagavataḥ sraṣṭṛtvādikaṁ sarvaiśvaryaṁ sākṣāt-kṛtya tasmin eva bhagavati sarvātmani dhārtarāṣṭrādīnām upasaṁhāram anāgatam api tat-prasāda-labdhena divyena cakṣuṣā paśyann idaṁ provāca---
Link copiedamī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
Link copiedsarve sahaivāvanipāla-saṅghaiḥ|
Link copiedbhīṣmo droṇaḥ sūta-putras tathāsau
Link copiedsahāsmadīyair api yodha-mukhyaiḥ||26||
Link copiedvaktrāṇi te tvaramāṇā viśanti
Link copieddaṁṣṭrā-karālāni bhayānakāni|
Link copiedkecid vilagnā daśanāntareṣu
Link copiedsandṛśyante cūrṇitair uttamāṅgaiḥ||27||
Link copiedamī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve bhīṣmo droṇaḥ sūta-putraḥ karṇaś ca tat-pakṣīyair avani-pāla-samūhaiḥ sarvaiḥ asmadīyair api kaiścid yodha-mukhyaiḥ saha tvaramāṇā daṁṣṭrā-karālāṇi bhayānakāni tava vaktrāṇi vināśaya viśanti| tatra kecit cūrṇitair uttamāṅgair daśanāntareṣu vilagnāḥ sandṛśyante||11.26-27||
Link copiedyathā nadīnāṁ bahavo'mbu-vegāḥ
Link copiedsamudram evābhimukhā dravanti|
Link copiedtathā tavāmī nara-loka-vīrā
Link copiedviśanti vaktrāṇy abhivijvalanti||28||
Link copiedyathā pradīptaṁ jvalanaṁ pataṅgā
Link copiedviśanti nāśāya samṛddha-vegāḥ|
Link copiedtathaiva nāśāya viśanti lokās
Link copiedtavāpi vaktrāṇi samṛddha-vegāḥ||29||
Link copiedete rāja-lokā bahavo nadīnām ambu-pravāhāḥ samudram iva pradīpta-jvalanam iva ca śalabhās tava vaktrāṇy abhivijvalanti svayam eva tvaramāṇā ātma-nāśāya viśanti||11.28-29||
Link copiedlelihyase grasamānaḥ samantāl
Link copiedlokān samagrān vadanair jvaladbhiḥ|
Link copiedtejobhir āpūrya jagat samagraṁ
Link copiedbhāsas tavogrāḥ pratapanti viṣṇo||30||
Link copiedrāja-lokān samagrān jvaladbhir vadanair grasamānaḥ kopa-vegena tad-rudhirāvasiktam oṣṭha-puṭādikaṁ lelihyase punaḥ punar lehanaṁ karoṣi| tavātighorā bhāso raśmayas tejobhiḥ svakīyaiḥ prakāśair jagat samagram āpūrya pratapanti||11.30||
Link copieddarśayātmānam avyayam [11.4] iti tavaiśvaryaṁ niraṅkuśaṁ sākṣāt-kartuṁ prārthi tena bhavatā niraṅkuśam aiśvaryaṁ darśayatā atighora-rūpam idam āviṣkṛtam---
Link copiedākhyāhi me ko bhavān ugra-rūpo
Link copiednamo'stu te deva-vara prasīda|
Link copiedvijñātum icchāmi bhavantam ādyaṁ
Link copiedna hi prajānāmi tava pravṛttim||31||
Link copiedatighora-rūpaḥ ko bhavān| kiṁ kartuṁ pravṛttaḥ| iti bhavantaṁ jñātum icchāmi| tavābhipretāṁ pravṛttiṁ na jānāmi| etad ākhyāhi me| namo'stu te deva-vara prasīda--- namas te'stu sarveśvara evaṁ kartum anenābhiprāyeṇa idaṁ saṁhartṛ-rūpam āviṣkṛtam ity uktvā prasanna-rūpaś ca bhava||11.31||
Link copiedāśrita-vātsalyātirekeṇa viśvaiśvaryaṁ darśayato bhavato ghora-rūpāviṣkāre ko'bhiprāyaḥ| iti pṛṣṭe bhagavān pārtha-sārathiḥ svābhiprāyam āha| pārthodyogena vināpi dhārtarāṣṭra-pramukham aśeṣaṁ rāja-lokaṁ nihantum aham eva pravṛttaḥ, iti jñāpanāya mama ghora-rūpāviṣkāraḥ| taj-jñāpanaṁ ca pārtham udyojayitum iti śrī-bhagavān uvāca---
Link copiedkālo'smi loka-kṣaya-kṛt pravṛddho
Link copiedlokān samāhartum iha pravṛttaḥ|
Link copiedṛte'pi tvā na bhaviṣyanti sarve
Link copiedye'vasthitāḥ pratyanīkeṣu yodhāḥ||32||
Link copiedkalayati gaṇayatīti kālaḥ| sarveṣāṁ dhārtarāṣṭra-pramukhānāṁ rāja-lokānām āyur-avasānaṁ gaṇayan ahaṁ tat-kṣaya-kṛd ghora-rūpeṇa pravṛddho rāja-lokān samāhartum ābhimukhyena saṁhartum iha pravṛtto'smi| ato mat-saṅkalpād eva tvām ṛte'pi tvad-udyogam ṛte'py ete dhārtarāṣṭra-pramukhatas tava pratyanīkeṣu ye'vasthitā yodhās te sarve na bhaviṣyanti vinaṅkṣyanti||11.32||
Link copiedtasmāt tvam uttiṣṭha yaśo labhasva
Link copiedjitvā śatrūn bhuṅkṣva rājyaṁ samṛddham|
Link copiedmayaivaite nihatāḥ pūrvam eva
Link copiednimitta-mātraṁ bhava savyasācin||33||
Link copiedtasmāt tvaṁ tān prati yuddhāyottiṣṭha| tān śatrūn jitvā yaśo labhasva| dharmyaṁ rājyaṁ ca samṛddhaṁ bhuṅkṣva| mayaivaite kṛtāparādhāḥ pūrvam eva nihatāḥ, hanane viniyuktāḥ| tvaṁ tu teṣāṁ hanane nimitta-mātraṁ bhava| mayā hanyamānānāṁ śastrādi-sthānīyo bhava| savyasācin ! ṣaca samavāye [dhātu 1.1022] savyena śara-sacana-śīlaḥ savyasācī| savyenāpi kareṇa śara-samavāya-karaḥ| kara-dvayena yoddhuṁ samartha ity arthaḥ||11.33||
Link copieddroṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
Link copiedkarṇaṁ tathānyān api yodha-vīrān|
Link copiedmayā hatāṁs tvaṁ jahi mā vyathiṣṭhā
Link copiedyudhyasva jetāsi raṇe sapatnān||34||
Link copieddroṇa-bhīṣma-karṇādīn kṛtāparādhatayā mayaiva hanane viniyuktān tvaṁ jahi, tvaṁ hanyāḥ| etān gurūn bandhūn cānyān api bhoga-saktān kathaṁ haniṣyāmi| iti mā vyathiṣṭhāḥ, tān uddiśya dharmādharma-bhayena bandhu-snehena kāruṇyena ca mā vyathāṁ kṛthāḥ| yatas te kṛtāparādhāḥ| mayaiva hanane viniyuktāḥ, ato nirviśaṅko yudhyasva| raṇe sapatnān jetāsi, jeṣyasi| naiteṣāṁ vadhe nṛśaṁsatā-gandhaḥ, api tu jaya eva labhyata ity arthaḥ||11.34||
Link copiedsañjaya uvāca---
Link copiedetac chrutvā vacanaṁ keśavasya
Link copiedkṛtāñjalir vepamānaḥ kirīṭī|
Link copiednamaskṛtvā bhūya evāha kṛṣṇaṁ
Link copiedsa-gadgadaṁ bhīta-bhītaḥ praṇamya||35||
Link copiedetad āśrita-vātsalya-jaladheḥ keśavasya vacanaṁ śrutvārjunas tasmai namaskṛtya bhīta-bhīto'tibhīto bhūyas taṁ praṇamya kṛtāñjalir vepamānaḥ kirīṭī sa-gadgadam āha||11.35||
Link copiedarjuna uvāca---
Link copiedsthāne hṛṣīkeśa tava prakīrtyā
Link copiedjagat prahṛṣyaty anurajyate ca|
Link copiedrakṣāṁsi bhītāni diśo dravanti
Link copiedsarve namasyanti ca siddha-saṅghāḥ||36||
Link copiedsthāne yuktam, yad etad yuddha-didṛkṣayā āgatam aśeṣaṁ deva-gandharva-siddha-yakṣa-vidyādhara-kinnara-kimpuruṣādikaṁ jagat tvat-prasādāt tvāṁ sarveśvaram avalokya tava prakīrtyā sarvaṁ prahṛṣyaty anurajyate ca| yat ca tvām avalokya rakṣāṁsi bhītāni sarvā diśaḥ pradravanti| sarve siddha-saṅghāḥ siddhādy-anukūla-saṅghā namasyanti ca| tad etat sarvaṁ yuktam iti pūrveṇa sambandhaḥ||11.36||
Link copiedyuktatām evopapādayati---
Link copiedkasmāc ca te na nameran mahātman
Link copiedgarīyase brahmaṇo'py ādi-kartre|
Link copiedananta deveśa jagan-nivāsa
Link copiedtvam akṣaraṁ sad asat tat-paraṁ yat||37||
Link copiedmahātman ! te tubhyaṁ garīyase brahmaṇo hiraṇyagarbhasyāpy ādi-bhūtāya kartre, hiraṇyagarbhādayaḥ kasmād hetor na namaskuryuḥ| ananta deveśa jagan-nivāsa tvam evākṣaram na kṣaratīty akṣaraṁ jīvātma-tattvam| na jāyate mriyate vā vipaścit [ka.u. 1.2.18] ity-ādi-śruti-siddho jīvātmā hi na kṣarati|
Link copiedsad asac ca tvam eva, sad-asac-chabda-nirdiṣṭaṁ kārya-kāraṇa-bhāvenāvasthitaṁ prakṛti-tattvam, nāma-rūpa-vibhāgavattayā kāryāvasthaṁ sac-chabda-nirdiṣṭaṁ tad-anarhatayā kāraṇāvastham asac-chabda-nirdiṣṭaṁ ca tvam eva| tat-paraṁ yat tasmāt prakṛteḥ prakṛti-sambandhinaś ca jīvātmanaḥ param anyan muktātma-tattvaṁ yat tad api tvam eva||11.37||
Link copiedataḥ---
Link copiedtvam ādi-devaḥ puruṣaḥ purāṇas
Link copiedtvam asya viśvasya paraṁ nidhānam|
Link copiedvettāsi vedyaṁ ca paraṁ ca dhāma
Link copiedtvayā tataṁ viśvam ananta-rūpa||38||
Link copiedtvam ādi-devaḥ puruṣaḥ purāṇaḥ| tvam asya viśvasya paraṁ nidhānam, nidhīyate tvayi viśvam iti tvam asya viśvasya paraṁ nidhānam, viśvasya śarīra-bhūtasyātmatayā paramādhāra-bhūtas tvam eva ity arthaḥ| jagati sarvo veditā vedyaṁ ca sarvaṁ tvam eva, evaṁ sarvātmatayāvasthitas tvam eva paraṁ ca dhāma sthānaṁ prāpya-sthānam ity arthaḥ| tvayā tataṁ viśvam ananta-rūpa tvayātmatvena viśvaṁ cid-acin-miśraṁ jagat tataṁ vyāptam||11.38||
Link copiedatas tvam eva vāyv-ādi-śabda-vācya ity āha---
Link copiedvāyur yamo'gnir varuṇaḥ śaśāṅkaḥ
Link copiedprajāpatis tvaṁ prapitāmahaś ca|
Link copiednamo namas te'stu sahasra-kṛtvaḥ
Link copiedpunaś ca bhūyo'pi namo namas te||39||
Link copiedsarveṣāṁ prapitāmahas tvam eva, pitāmahādayaś ca| sarvāsāṁ prajānāṁ pitaraḥ prajāpatayaḥ prajāpatīnāṁ pitā hiraṇyagarbhaḥ prajānāṁ pitāmahaḥ, hiraṇyagarbhasyāpi pitā tvaṁ prajānāṁ prapitāmahaḥ| pitāmahādīnām ātmatayā tat-tac-chabda-vācyas tvam evety arthaḥ||11.39||
Link copiedatyadbhutākāraṁ bhagavantaṁ dṛṣṭvā harṣotphulla-nayano'tyanta-sādhvasāvanataḥ sarvato namaskaroti---
Link copiednamaḥ purastād atha pṛṣṭhatas te
Link copiednamo'stu te sarvata eva sarva|
Link copiedananta-vīryāmita-vikramas tvaṁ
Link copiedsarvaṁ samāpnoṣi tato'si sarvaḥ||40||
Link copiedananta-vīryāmita-vikramas tvaṁ sarvam ātmatayā samāpnoṣi tataḥ sarvo'si| yatas tvaṁ sarvaṁ cid-acid-vastu-jātam ātmatayā samāpnoṣi| ataḥ sarvasya cid-acid-vastu-jātasya tvac-charīratayā tvat-prakāratvāt sarva-prakāras tvam eva sarva-śabda-vācyo'sīty arthaḥ| tvam akṣaraṁ sad asat [gītā 11.37] vāyur yamo'gniḥ [gītā 11.39] ity-ādi-sarva-sāmānādhikaraṇya-nirdeśasyātmatayā vyāptir eva hetur iti suvyaktam uktam| tvayā tataṁ viśvam ananta-rūpa [gītā 11.38] sarvaṁ samāpnoṣi tato'si sarvaḥ iti ca||11.40||
Link copiedsakheti matvā prasabhaṁ yad uktaṁ
Link copiedhe kṛṣṇa he yādava he sakheti|
Link copiedajānatā mahimānaṁ tavedaṁ
Link copiedmayā pramādāt praṇayena vāpi||41||
Link copiedyac cāvahāsārtham asatkṛto'si
Link copiedvihāra-śayyāsana-bhojaneṣu|
Link copiedeko'tha vāpy acyuta tat-samakṣaṁ
Link copiedtat kṣāmaye tvām aham aprameyam||42||
Link copiedtavānanta-vīryatvāmita-vikramatva-sarvāntar-ātmatva-sraṣṭṛtvādiko yo mahimā tam imam ajānatayā mayā pramādān mohāt praṇayena cira-paricayena vā sakheti mama vayasya iti matvā, he kṛṣṇa he yādava he sakhe ! iti tvayi prasabhaṁ vinayāpetaṁ yad uktaṁ yac ca parihāsārthaṁ sarvadaiva sat-kārārhas tvam asatkṛto'si, vihāra-śayyāsana-bhojaneṣu ca saha-kṛteṣv ekānte vā samakṣaṁ vā yad asatkṛto'si, tat sarvaṁ tvām aprameyam ahaṁ kṣāmaye||11.41-42||
Link copiedpitāsi lokasya carācarasya
Link copiedtvam asya pūjyaś ca gurur garīyān|
Link copiedna tvat-samo'sty abhyadhikaḥ kuto'nyo
Link copiedloka-traye'py apratima-prabhāva||43||
Link copiedapratima-prabhāvas tvam asya sarvasya carācarasya lokasya pitā asy asya lokasya guruś cāsi| atas tvam asya carācarasya lokasya garīyān pūjyatamaḥ| na tvat-samo'sty abhyadhikaḥ kuto'nyaḥ| loka-traye'pi tvad-anyaḥ kāruṇyādinā kenāpi guṇena na tvat-samo'sti kuto'bhyadhikaḥ||11.43||
Link copiedyasmāt tvaṁ sarvasya pitā pūjyatamo guruś ca kāruṇyādi-guṇaiś ca sarvādhiko'si---
Link copiedtasmāt praṇamya praṇidhāya kāyaṁ
Link copiedprasādaye tvām aham īśam īḍyam|
Link copiedpiteva putrasya sakheva sakhyuḥ
Link copiedpriyaḥ priyāyārhasi deva soḍhum||44||
Link copiedtasmāt tvām īśam īḍyaṁ praṇamya praṇidhāya ca kāyaṁ prasādaye| yathā kṛtāparādhasyāpi putrasya yathā ca sakhyuḥ praṇāma-pūrvakaṁ prārthitaḥ pitā sakhā vā prasīdati, tathā tvaṁ parama-kāruṇikaḥ priyaḥ priyāya me sarvaṁ soḍhum arhasi||11.44||
Link copiedadṛṣṭa-pūrvaṁ hṛṣito'smi dṛṣṭvā
Link copiedbhayena ca pravyathitaṁ mano me|
Link copiedtad eva me darśaya deva rūpaṁ
Link copiedprasīda deveśa jagan-nivāsa||45||
Link copiedadṛṣṭa-pūrvam atyadbhutam atyugraṁ ca tava rūpaṁ dṛṣṭvā hṛṣito'smi prīto'smi, bhayena pravyathitaṁ ca me manaḥ, atas tad eva tava suprasannaṁ rūpaṁ me darśaya| prasīda deveśa jagan-nivāsa mayi prasādaṁ kuru devānāṁ brahmādīnām api īśa nikhila-jagad-āśraya-bhūta||11.45||
Link copiedkirīṭinaṁ gadinaṁ cakra-hastam
Link copiedicchāmi tvāṁ draṣṭum ahaṁ tathaiva|
Link copiedtenaiva rūpeṇa catur-bhujena
Link copiedsahasra-bāho bhava viśva-mūrte||46||
Link copiedtathaiva pūrvavat kirīṭinaṁ gadinaṁ cakra-hastaṁ tvāṁ draṣṭum icchāmi, atas tenaiva pūrva-siddhena catur-bhujena rūpeṇa yukto bhava sahasra-bāho viśva-mūrte idānīṁ sahasra-bāhutvena viśva-śarīratvena dṛśyamāna-rūpas tvaṁ tenaiva rūpeṇa yukto bhavety arthaḥ||11.46||
Link copiedśrī-bhagavān uvāca---
Link copiedmayā prasannena tavārjunedaṁ
Link copiedrūpaṁ paraṁ darśitam ātma-yogāt|
Link copiedtejo-mayaṁ viśvam anantam
Link copiedādyaṁ yan me tvad-anyena na dṛṣṭa-pūrvam||47||
Link copiedyat me tejo-mayaṁ tejo-rāśiṁ viśvaṁ sarvātma-bhūtam anantam anta-rahitam| pradarśanārtham idam, ādi-madhyānta-rahitam| ādyaṁ mad-vyatiriktasya kṛtsnasya ādi-bhūtaṁ tvad-anyena kenāpi na dṛṣṭa-pūrvaṁ rūpaṁ tad idaṁ prasannena mayā mad-bhaktāya te darśitam ātma-yogād ātmanaḥ satya-saṅkalpatva-yogāt||11.47||
Link copiedananya-bhakti-vyatiriktaiḥ sarvair apy upāyair yathāvad avasthito'haṁ draṣṭuṁ na śakya ity āha---
Link copiedna veda yajñādhyayanair na dānair
Link copiedna ca kriyābhir na tapobhir ugraiḥ|
Link copiedevaṁ-rūpaḥ śakya ahaṁ nṛ-loke
Link copieddraṣṭuṁ tvad-anyena kuru-pravīra||48||
Link copiedevaṁ-rūpo yathāvasthito'haṁ mayi bhakti-matas tvatto'nyenaikāntikātyantika-bhakti-rahitena kenāpi puruṣeṇa kevalair veda-yajñādibhir draṣṭuṁ na śakyaḥ||11.48||
Link copiedmā te vyathā mā ca vimūḍha-bhāvo
Link copieddṛṣṭvā rūpaṁ ghoram īdṛṅ mamedam|
Link copiedvyapeta-bhīḥ prīta-manāḥ punas tvaṁ
Link copiedtad eva me rūpam idaṁ prapaśya||49||
Link copiedīdṛśa-ghora-rūpa-darśanena te yā vyathā, yaś ca vimūḍha-bhāvo vartate, tad ubhayaṁ mā bhūt, tvayābhyasta-pūrvam eva saumya-rūpaṁ darśayāmi, tad evedaṁ mama rūpaṁ prapaśya||11.49||
Link copiedsañjaya uvāca---
Link copiedity arjunaṁ vāsudevas tathoktvā
Link copiedsvakaṁ rūpaṁ darśayām āsa bhūyaḥ|
Link copiedāśvāsayām āsa ca bhītam enaṁ
Link copiedbhūtvā punaḥ saumya-vapur mahātmā||50||
Link copiedevaṁ pāṇḍu-tanayaṁ bhagavān vasudeva-sūnur uktvā bhūyaḥ svakīyam eva catur-bhuja-rūpaṁ darśayāmāsa, aparicita-svarūpa-darśanena bhītam evaṁ punar api paricita-saumya-vapur bhūtvā āśvāsayāmāsa ca, mahātmā satya-saṅkalpaḥ|
Link copiedasya sarveśvarasya parama-puruṣasya parasya brahmaṇo jagad-upakṛti-martyasya vasudeva-sūnoś catur-bhujam eva svakīyaṁ rūpaṁ kaṁsād bhīta-vasudeva-prārthanena ā-kaṁsa-vadhāt pūrvaṁ bhuja-dvayam upasaṁhṛtaṁ paścād āviṣkṛtaṁ ca|
Link copiedjāto'si deva-deveśa śaṅkha-cakra-gadādhara|
Link copieddivya-rūpam idaṁ deva prasādenopasaṁhara|| [vi.pu. 5.3.10]
Link copiedupasaṁhara viśvātman rūpam etac catur-bhujam|| [vi.pu. 5.3.13] iti hi prārthitam|
Link copied
śiśupālasyāpi dviṣato'navarata-bhāvanā-viṣayaṁ catur-bhujam eva vasudeva-sūno rūpam udāra-pīvara catur-bāhuṁ śaṅkha-cakra-gadādharam [vi.pu. 4.15.10] iti| ataḥ pārthenātra tenaiva rūpeṇa catur-bhujena [gītā 11.46] ity ucyate||11.50||
Link copiedarjuna uvāca---
Link copieddṛṣṭvedaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana|
Link copiedidānīm asmi saṁvṛttaḥ sa-cetāḥ prakṛtiṁ gataḥ||51||
Link copiedanavadhikātiśaya-saundarya-saukumārya-lāvaṇyādi-yuktaṁ tavaivāsādhāraṇaṁ manuṣyatva-saṁsthāna-saṁsthitam atisaumyam idaṁ tava rūpaṁ dṛṣṭvā sa-cetāḥ saṁvṛtto'smi, prakṛtiṁ gataś ca||11.51||
Link copiedśrī-bhagavān uvāca---
Link copiedsudurdarśam idaṁ rūpaṁ dṛṣṭavān asi yan mama|
Link copieddevā apy asya rūpasya nityaṁ darśana-kāṅkṣiṇaḥ||52||
Link copiedmamedaṁ sarvasya praśāsane'vasthitaṁ sarvāśrayaṁ sarva-kāraṇa-bhūtaṁ rūpaṁ yat dṛṣṭavān asi, tat sudurdarśo na kenāpi draṣṭuṁ śakyam| asya rūpasya devā api nityaṁ darśana-kāṅkṣiṇaḥ, na tu dṛṣṭavantaḥ||11.52||
Link copiedkutaḥ| ity atrāha---
Link copiednāhaṁ vedair na tapasā na dānena na cejyayā|
Link copiedśakya evaṁ-vidho draṣṭuṁ dṛṣṭavān asi māṁ yathā||53||
Link copiedbhaktyā tv ananyayā śakya aham evaṁ-vidho'rjuna|
Link copiedjñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca parantapa||54||
Link copiedvedair adhyāpana-pravacanādhyayana-śravaṇa-japa-viṣayair yāga-dāna-homa-tapobhiś ca mad-bhakti-rahitaiḥ kevalair yathāvad avasthito'haṁ draṣṭuṁ na śakyaḥ| ananyayā tu bhaktyā tattvataḥ śāstrair jñātuṁ tattvataḥ sākṣāt-kartuṁ tattvataḥ praveṣṭuṁ ca śakyaḥ| tathā ca śrutiḥ---
Link copiednāyam ātmā pravacanena labhyo
Link copiedna medhayā na bahunā śrutena|
Link copiedyam evaiṣa vṛṇute tena labhyas
Link copiedtasyaiṣa ātmā vivṛṇute tanūṁ svām| [ka.u. 2.23] iti||11.53-54||
Link copied
mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ|
Link copiednirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava||55||
Link copiedvedādhyayanādīni sarvāṇi karmāṇi mad-ārādhana-rūpāṇīti yaḥ karoti sa mat-karma-kṛt| mat-paramaḥ--- sarveṣām ārambhāṇām aham eva paramoddeśyo yasya sa mat-paramaḥ| mad-bhaktaḥ--- atyartha-mat-priyatvena mat-kīrtana-stuti-dhyānārcana-praṇāmādibhir vinātma-dhāraṇam alabhamāno mad-eka-prayojanatayā yaḥ satataṁ tāni karoti sa mad-bhaktaḥ|
Link copiedsaṅga-varjitaḥ--- mad-eka-priyatvenetara-saṅgam asahamāno nirvairaḥ sarva-bhūteṣu--- mat-saṁśleṣa-viyogaika-sukha-duḥkha-svabhāvatvāt sva-duḥkhasya svāparādha-nimittatvānusandhānāc ca sarva-bhūtānāṁ parama-puruṣa-para-tantratvānusandhānāc ca sarva-bhūteṣu vaira-nimittābhāvāt teṣu nirvairaḥ| ya evaṁ-bhūtaḥ sa mām eti, māṁ yathāvad avasthitaṁ prāpnoti| nirastāvidyādy-aśeṣa-doṣa-gandho mad-ekānubhavo bhavatīty arthaḥ||11.55||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye ekādaśo'dhyāyaḥ||11||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 11 — The Book of the Cosmic Vision (in Sanskrit: Viśvarūpa-Sandarśana-Yoga)
This is the devotional and emotional summit of the Gita. Having heard from the Lord's own mouth the singularity of His nature and the dependence of all things on Him, Arjuna — convinced but longing to see for himself — asks to behold the Lord's Sovereign Form. Sri Krishna responds by granting him the divine eye and revealing the viśvarūpa — the cosmic form in which the whole universe lies in a corner of the Lord's body. This chapter, verse by verse, is the unveiling of that vision, Arjuna's trembling praise, his terror, and his plea for the return of the familiar, gentle form. It concludes with Sri Krishna's profound declaration that by bhakti alone — unmixed, exclusive bhakti — is He truly seen, known, and entered.
Link copiedVerses 1–4 (Arjuna's request)
Verse 11.1. — "By the gracious speech You have made concerning the Supreme Mystery of adhyātma, my delusion is dispelled."
Link copiedUntil now, Arjuna labored under the misconception of loving the body as though it were the soul; the Lord's teaching has removed this error.
Link copiedVerse 11.2. — "In detail have I heard from You, O Lotus-eyed, of the coming and going of beings, and of Your eternal Majesty."
Link copiedFrom the Seventh to the Tenth chapters, Arjuna has heard of the efflux and influx of all beings, and of the Lord's majesty as the Unrelated to all the related, the Support of all, the Director of every thought.
Link copiedVerse 11.3. — "As You have described Yourself, O Parameśvara, so I wish to see Your Sovereign Form, O Puruṣottama."
Link copiedVerse 11.4. — "If, Master, You deem me fit, then reveal Yourself to me, O Lord of Yoga, in all Your entirety."
Link copiedVerses 5–8 (The Lord grants the divine eye)
Verse 11.5. — "Behold My forms divine, O Partha, by the hundred and the thousand, in every variety, color, and contour."
Link copiedVerse 11.6. — "Behold the Ādityas, the Vasus, the Rudras, the Aśvins, the Maruts. Behold many wonders, O Bhārata, never before seen."
Link copiedIn His one form, He contains the twelve Ādityas, eight Vasus, eleven Rudras, two Aśvins, forty-nine Maruts, and all the marvels of all worlds recorded in Śāstra and never yet seen.
Link copiedVerse 11.7. — "Behold here, O Guḍākeśa, all the cosmos, moving and non-moving, nestling in one corner of My body — and whatever else you may wish to see."
Link copiedVerse 11.8. — "But with this eye of yours you cannot see Me. I give you the divine eye. Behold My Sovereign yoga."
Link copiedThe physical eye, fitted only for limited and conditioned objects, cannot see the unique, immeasurable Form. So the Lord grants the divya-cakṣus, the divine eye.
Link copiedVerses 9–14 (The unveiling)
Verse 11.9. — "So saying, O King, Hari, the great Lord of yoga, disclosed to Partha His supreme Sovereign form."
Link copiedThus did He who was seated as Charioteer — Arjuna's own maternal cousin — unravel to his paternal cousin the extraordinary Sovereign Form, the Seat of the diverse and wonderful cosmos.
Link copiedVerse 11.10. — "— with countless mouths and eyes, the focus of countless marvels, with countless divine ornaments, with countless divine weapons upraised; —"
Link copiedVerse 11.11. — "— wreathed in divine garlands, robed in divine garments, anointed in divine unguents, all-wondrous, brilliant, infinite, all-faced."
Link copiedDevam — brilliant, shining, resplendent. Anantam — infinite, the receptacle of all universes past, present, and future; unmeasurable by space or time. Viśvato-mukham — all-faced, turned to every quarter of the cosmos.
Link copiedVerse 11.12. — "Were a thousand suns to burst forth in the heavens at once, that brilliance might compare with the radiance of that Great Soul."
Link copiedThis is but an illustration to hint at the infinite, undiminishing splendor.
Link copiedVerse 11.13. — "Then did Arjuna see there, resting in a single spot in the body of the God of gods, all the universe in its manifold divisions."
Link copiedIn that divine body — infinitely long, infinitely broad, of many hands and trunks, many faces and eyes, of endless effulgence, countless celestial weapons and ornaments — Arjuna saw all the universe: Brahmā and all the devas, the human and animal and vegetable and mineral kingdoms, the enjoyers and the enjoyed and the instruments of enjoyment, the worlds of Svarga, Pātāla, Atala, Vitala, Sutala — the whole composite of prakṛti and puruṣa.
Link copiedVerse 11.14. — "Then, struck with amazement, hairs thrilling in ecstasy, Dhanañjaya bowed his head reverently before the God, and with folded palms said —"
Link copiedVerses 15–31 (Arjuna's vision and hymn)
Verse 11.15. — "I see all the Gods, O Lord, in Your frame; and the diverse hosts of beings; Brahmā, and Īśa seated in Brahmā (upon the lotus); all the Ṛṣis, and all the shining races of serpents."
Link copiedVerse 11.16. — "I see You on every side, of countless arms, countless breasts, countless faces, countless eyes, of boundless form. I see no end, no middle, no beginning of You, O Lord of the universe, O Cosmic Figure."
Link copiedViśveśvara — Wielder of the universe. Viśvarūpa — He to whom the cosmos is the body.
Link copiedVerse 11.17. — "I see You, crowned, with mace and discus in hand; a pile of light, dazzling on every side; a blaze of sun-and-moon, measureless."
Link copiedVerse 11.18. — "You are to be known as the Supreme Imperishable; the Shelter of this cosmos; the Undecaying; the Shield of the permanent dharma. I know You as the Primal Puruṣa."
Link copiedHe is the Akṣara declared in the Upaniṣads as what is to be known; the Support and Prop of the universe; the Avyaya who remains whatever He wills to be; the Protector of the eternal laws by His incarnations as Rāma, Krishna, and others; the Ancient Spirit, the Sublimer than the sublime.
Link copiedVerse 11.19. — "I see You, beginningless, middleless, endless; of infinite energy; of countless arms; eyes like moon and sun; mouths with blazing fire; Your glory warming the cosmos."
Link copiedThe gladdening eye is for the devoted; the blazing for the hostile. The mouth with fire is as if the Fire of Destruction raged within it at the end of yugas. His life-giving glory flows unresisted into the universe.
Link copiedVerse 11.20. — "Indeed, the space between heaven and earth and every direction is filled by You alone. At the sight of Your wondrous, awful Form, all three worlds, O Great Soul, are panic-struck."
Link copiedAll three worlds — gathered to witness the impending conflict between the Pāṇḍavas and Kauravas, the friendly, the inimical, the indifferent — are overwhelmed with awe.
Link copiedVerse 11.21. — "The hosts of Suras enter into You; some in fear, with folded hands, extol You. Crying 'Hail,' the Maharṣis and Siddhas lavish hymns upon You."
Link copiedVerse 11.22. — "The Rudras, the Ādityas, the Vasus, the Sādhyas, the Viśvas, the Aśvins, the Maruts, the Uṣmapas, the hosts of Gandharvas, Yakṣas, Asuras, and Siddhas — all behold You in astonishment."
Link copiedVerse 11.23. — "The worlds tremble at sight of Your magnificent Form, O mighty-armed, of many faces, many eyes, many arms, many feet, many breasts, and terror-striking tusks. I too tremble."
Link copiedVerse 11.24. — "O Viṣṇu! my inner soul quakes at seeing You reaching the firmament, effulgent, many-hued, wide-mouthed, with large shining eyes. I can find neither courage nor peace."
Link copiedThe firmament here is the parama-vyoma — the Supreme Space above the three guṇas, chanted in the Upaniṣads as "the High Imperishable Vault" and "beyond this rajas."
Link copiedVerse 11.25. — "Seeing Your mouths terrible with tusks, blazing like the Fires of Time, I forget where I am and find no comfort. Mercy, O God of gods, O Refuge of the cosmos!"
Link copiedAt this point the Charioteer has proved to Arjuna how all the cosmos rests in Him. Now He will show, out of His sovereign will, the destruction He is about to bring upon the kings arrayed in Duryodhana's faction and among Yudhiṣṭhira's side too, so that earth may be rid of its burdens. With the same spiritual eye, Arjuna now sees the event before it has yet happened.
Link copiedVerse 11.26. — "All these scions of Dhṛtarāṣṭra, together with the bands of kings — Bhīṣma and Droṇa and yon Charioteer's son Karṇa, and also our own warrior-chiefs —"
Link copiedVerse 11.27. — "— rush fast into Your mouths terrific with terrible teeth. Some are seen, heads caught between Your teeth and ground to dust."
Link copiedVerse 11.28. — "Like the waters of rivers flowing seaward, so do these heroes of earth pour into Your blazing mouths."
Link copiedVerse 11.29. — "Like moths rushing into flame to die, these men hurl themselves headlong into Your mouths to perish."
Link copiedVerse 11.30. — "You lick up, with Your fiery mouths, all the worlds morsel-made. Your fierce rays fill and burn the cosmos, O Viṣṇu."
Link copiedVerse 11.31. — "Tell me who You are, of this dreadful form. Salutation to You, Chief of gods; be merciful. I wish to learn of You, the Primitive. Your work I do not understand."
Link copiedVerses 32–34 (The Lord's declaration of His work)
Verse 11.32. — "I am Time, the world-Effacer, come to do the work of destroying the worlds. Even without you, none of these warriors arrayed against you shall remain."
Link copiedKāla — Time — reckons when the life-span of Dhṛtarāṣṭra and the others has run out. He is now manifest in this awful form to complete that work directly; without Arjuna's help, by His mere fiat, the warriors opposed will meet their ruin.
Link copiedVerse 11.33. — "Therefore arise; win renown. Vanquishing your foes, enjoy the prosperous kingdom. These have already been slain by Me. Be but the instrument, O Savya-sācin."
Link copiedThe unrighteous have already been picked out for destruction; Arjuna's part is that of an implement in the work. Savya-sācin — the ambidextrous — who can shoot with either hand.
Link copiedVerse 11.34. — "Smite Droṇa, Bhīṣma, Jayadratha, Karṇa, and the other valiant heroes, already slain by Me. Do not hesitate. Fight. You shall conquer your enemies in the contest."
Link copiedDo not be paralyzed by considerations of affection, compassion, or fear in regard to teachers and kinsmen; they have been chosen for destruction. Victory is certain.
Link copiedVerses 35–46 (Arjuna's hymn of homage and plea)
Verse 11.35. — "Hearing Keśava's speech, with trembling Kirīṭī clasped his palms, bowed reverently, and in timorous, broken accents again addressed Krishna."
Link copiedVerse 11.36. — "Rightly does the universe rejoice and revel at Your glory, O Hṛṣīkeśa. Panic-struck, the Rākṣasas flee to every quarter; and the Siddha-ranks salute You."
Link copiedIt is right that the devas, gandharvas, siddhas, yakṣas, vidyādharas, kinnaras, and kimpuruṣas — come to witness the conflict — should admire and rejoice. Right that the demons should flee and the Siddhas revere.
Link copiedVerse 11.36½. — "How should they not bow to You, O noble Soul — the Sublime, the Creator prior even to Brahmā?"
Link copiedVerses 11.37–37½. — "O Infinite! Lord of gods! Abode of the universe! You are the Imperishable, the Effect and the Cause, and what is beyond. You are the Original Lord, the Ancient Puruṣa, the superb Prop of the cosmos."
Link copiedAnanta — Infinite; Nivāsa — Abode; Akṣara — the Category of individual souls. Sat is matter in its manifest, differentiated state (Effect); asat is matter in its undifferentiated, latent state (Cause). What is beyond both is the liberated souls. You are all of these.
Link copiedVerse 11.38. — "You are the Knower and the Knowable, the supreme Asylum; by You, O Infinite-formed, is the cosmos pervaded."
Link copiedSince all intelligents and non-intelligents are impregnated with Him as Spirit, every name — of wind, of fire, of moon — is ultimately His.
Link copiedVerse 11.38½. — "You are Vāyu, Yama, Agni, Varuṇa, the moon; the Grandsire and the Great-Grandsire."
Link copiedThe Prajāpatis are the patriarchs of creatures; the Father of the Prajāpatis is Hiraṇyagarbha — so You are Pitāmaha. Of Hiraṇyagarbha too You are Father — so Prapitāmaha. Every such name is Yours, since You are the indwelling Soul of all.
Link copiedVerses 11.39–39½. — "Salutation, salutation to You a thousand times; again and again salutation to You. Salutation before, salutation behind; salutation on every side, O All!"
Link copiedVerse 11.40. — "O of infinite energy, of infinite prowess! You interpenetrate all things. Therefore You are the All."
Link copiedAs Soul, He enters into all things. He is the All, the Substance of which everything else is a mode; every name is His name. This is the rationale of predications like "You are akṣara, sat, asat," and "You are Vāyu, Yama, Agni" — known as sāmānādhikaraṇya, the common reference of predicates.
Link copiedVerse 11.41. — "Whatever I may have rashly said — by mistake, out of affection, thinking of You as a friend, ignorant of this Your Majesty — calling 'O Krishna, O Yādava, O Comrade' —"
Link copiedVerse 11.42. — "— and whatever slight I may, in jest, have shown You, O Acyuta, at play or at rest, seated or at meals, alone or in company — I beseech Your forgiveness, O Boundless."
Link copiedIn moments of heedlessness or long familiarity, speaking as to an equal, or in play together, sleeping and eating together, words or acts derogatory to His dignity may have occurred; Arjuna asks pardon.
Link copiedVerse 11.43. — "O Matchless Glory! You are Father of all that moves and stands; Adorable; Teacher; Venerable. None is equal to You in the three worlds — how then could any be superior?"
Link copiedVerse 11.44. — "Therefore bowing and with body bent, I ask Your grace, Lord Adorable. As father to son, friend to friend, lover to the beloved — it is fitting, O Lord, to bear with me."
Link copiedVerse 11.45. — "Sighting what never before was sighted, I am glad; but troubled in mind. Show me Your other Form, O Lord of lords. Have mercy, O Refuge of the worlds."
Link copiedVerse 11.46. — "Fain would I see You in that four-armed Form, O many-Armed; O Cosmic Form — with crown and club and discus in hand."
Link copiedThat same familiar Form of four arms — with diadem, mace, and wheel — Arjuna asks to see again.
Link copiedVerses 47–50 (The Lord's return to the gentle form)
Verse 11.47. — "In gracious response, O Arjuna, by My own will, I have revealed to you this supreme Form — glorious, all-souled, infinite, and first — seen by none other than you."
Link copiedTejo-maya — a flood of brilliant light; viśvam — pervading all as Spirit; anantam — without beginning, middle, or end; ādyam — prior to all besides Him. Arjuna, being His devotee, has been shown a spectacle witnessed by no other.
Link copiedVerse 11.48. — "Not by Vedas, not by yajñas, not by Veda-study, not by gifts, not by works, not even by hard austerities am I, in this kind of Form, seeable by any in this world except you, O Kuru-hero."
Link copiedVerse 11.49. — "Be not alarmed; be not bewildered at seeing this terrible Form of Mine. Rid of fear and glad of heart, behold again My former Form."
Link copiedVerse 11.50. — "So speaking to Arjuna, Vāsudeva revealed again His wonted figure. Resuming His gentler guise, the Great-Souled One comforted the dismayed Arjuna."
Link copiedThe Lord's incarnation as son of Vasudeva was originally with four arms, but at Vasudeva's prayer — fearful of Kaṁsa — two arms were made invisible until Kaṁsa was slain. This four-armed form haunted even Śiśupāla's mind. Now the familiar two-armed, gentle Krishna reappears.
Link copiedVerses 51–55 (The supremacy of bhakti)
Verse 11.51. — "Seeing this Your pleasing human Form, O Janārdana, my mind is serene and I am restored to myself."
Link copiedGazing on the lovely human vesture — radiant with comeliness, tenderness, and grace — Arjuna's heart is calm again.
Link copiedVerse 11.52. — "That Form of Mine you have seen is most hard to see. Even the devas ever long to see it."
Link copiedThat form — revealing Him as Universal Director, Asylum, Cause of all — even the gods long to see but have not seen.
Link copiedVerse 11.53. — "Not by Vedas, not by austerities, not by gifts, not by sacrifices can I be so easily seen as you have seen."
Link copiedVerse 11.54. — "By bhakti alone, exclusive, O Arjuna, am I possible, in essence, to be seen, to be known, and to be entered, O Parantapa."
Link copiedDevoid of love, none of these — Veda-teaching, alms, austerities, sacrifices — can, independently, disclose Him. But by exclusive bhakti He becomes easy to know as He is declared in Śāstra, easy to see as He is in essence, and easy to be entered — the blessed divine communion of soul with God. So chants the Upaniṣad: "This Self is not reached by argument, nor by concentration, nor by much learning; but is reached by him whom He may elect."
Link copiedVerse 11.55. — "Doing work for Me, having Me as Aim, being My devotee, weaned from attachments, free from hatred toward any being — he comes to Me, O Pāṇḍava."
Link copiedMat-karma-kṛt — he who does every scriptural work as an act of worship rendered to the Lord. Mat-paramaḥ — he to whom the Lord alone is the Supreme End. Mad-bhakta — his sole Hope; who cannot live without hymning, praising, meditating, worshipping, and bowing to the Lord. Saṅga-varjitaḥ — weaned from other attachments. Nirvairaḥ sarva-bhūteṣu — free from hatred toward any being, from three considerations: first, his only happiness is to be with the Lord, his only misery to be without Him; second, he attributes all afflictions to his own past guilt; third, he has implicit faith that all beings are subject to the Lord's sovereign Providence. Such a devotee comes to the Lord — realizing Him as He is — resting in the blessed enjoyment of the Divine, devoid of the faintest traces of avidyā.
Link copiedThus closes the eleventh discourse, named Viśvarūpa-Sandarśana-Yoga — the Book of the Cosmic Vision.
Link copied