Bhagavad Gita Bhashya · Section 11 of 19
atha vibhūti-yogo nāma daśamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
भक्ति-योगः स-परिकर उक्तः। इदानीꣳ भक्त्य्-उत्पत्तये तद्-विवृद्धये च भगवतो निरङ्कुशैश्वर्यादि-कल्याण-गुण-गणानन्त्यꣳ, कृत्स्नस्य जगतस् तच्-छरीरतया तद्-आत्मकत्वेन तत्-प्रवर्त्यत्वꣳ च प्रपञ्च्यते --
Link copiedभूय एव महा-बाहो शृणु मे परमꣳ वचः।
Link copiedयत् तेऽहꣳ प्रीयमाणाय वक्ष्यामि हित-काम्यया॥१॥
Link copiedमम माहात्म्यꣳ श्रुत्वा प्रीयमाणाय ते मद्-भक्त्य्-उत्पत्ति-विवृद्धि-रूप-हित-कामनाय भूयो मन्-माहात्म्य-प्रपञ्च-विषयम् एव परमꣳ वचो यद् वक्ष्यामि तद् अवहित-मनाः सृणु॥१०।१॥
Link copiedन मे विदुः सुर-गणाः प्रभवꣳ न महर्षयः।
Link copiedअहम् आदिर् हि देवानाꣳ महर्षीणाꣳ च सर्वशः॥२॥
Link copiedसुर-गणा महर्षयश् चातीन्द्रियार्थ-दर्शिनोऽधिकतर-ज्ञाना अपि मे प्रभवꣳ प्रभावꣳ न विदुः, मम नाम-कर्म-स्वरूप-स्वभावादिकꣳ न जानन्ति। यतस् तेषाꣳ देवानाꣳ महर्षीणाꣳ च सर्वशोऽहम् आदिः, तेषाꣳ स्वरूपस्य ज्ञान-शक्त्य्-आदेश् चाहम् एवादिः। तेषाꣳ देवत्व-देवऋषित्वादि-हेतु-भूत-पुण्यानुगुणꣳ मया दत्तꣳ ज्ञानꣳ परिमितम्, अतस् ते परिमित-ज्ञाना मत्-स्वरूपकादिकꣳ यथावन् न जानन्ति॥१०।२॥
Link copiedतद् एतद् देवाद्य्-अचिन्त्य-स्वरूप-याथात्म्य-विषय-ज्ञानꣳ भक्त्य्-उत्पत्ति-विरोधि-पाप-विमोचनोपायम् आह---
Link copiedयो माम् अजम् अनादिꣳ च वेत्ति लोक-महेश्वरम्।
Link copiedअसꣳमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते॥३॥
Link copiedन जायते इत्य् अजः। अनेन विकारि-द्रव्याद् अचेतनात् तत्-सꣳसृष्टत् सꣳसारि-चेतनाच् च विसजातीयत्वम् उक्तम्। सꣳसारि-चेतनस्य हि कर्म-कृताचित्-सꣳसर्गो जन्म। अनादिम् इत्य् अनेन पदेन आदिमतोऽजान् मुक्तात्मनो विसजातीयत्वम् उक्तम्। मुक्तात्मनो ह्य् अजत्वम् आदिमत्, तस्य हेय-सम्बन्धस्य पूर्व-वृत्तत्वात् तद्-अर्हता अस्ति, अतोऽनादिम् इत्य् अनेन तद्-अनर्हतया तत्-प्रत्यनीकतोच्यते। निरवद्यम् [श्वे।उ। ६।१९] इत्य्-आदि-श्रुत्या च।
Link copiedएवꣳ हेय-सम्बन्ध-प्रत्यनीक-स्वरूपतया तद्-अनर्हꣳ माꣳ लोक-महेश्वरꣳ लोकेश्वराणाम् अपीश्वरꣳ मर्त्येष्व् असꣳमूढो यो वेत्ति। इतर-सजातीयतयैकीकृत्य मोहः सꣳमोहस् तद्-रहितोऽसꣳमूढः स मद्-भक्त्य्-उत्पत्ति-विरोधिभिः सर्वैः पापैः प्रमुच्यते।
Link copiedएतद् उक्तꣳ भवति--- लोके मनुष्याणाꣳ राजा इतर-मनुष्य-साजीतयः, केनचित् कर्मणा तद्-आधिपत्यꣳ प्राप्तः। तथा देवानाम् अधिपतिर् अपि। तथा ब्रह्माण्डाधिपतिर् अपीतर-सꣳसारि-सजातीयः। तस्यापि भावना-त्रयान्तर्गतत्वात्। यो ब्रह्माणꣳ विदधाति [श्वे।उ। ६।१८] इति श्रुतेश् च। तथान्येऽपि ये केचनाणिमाद्य्-ऐश्वर्यꣳ प्राप्ताः। अयꣳ तु लोक-महेश्वरः--- कार्य-कारणावस्थाद् अचेतनाद् बद्धान् मुक्ताच् च चेतनाद् ईशितव्यात् सर्वस्मात् निखिल-हेय-प्रत्यनीकानवधिकातिशयासङ्ख्येय-कल्याणैक-तानतया नियमनैक-स्व-स्वभावतया च विसजातीय इति, इतर-सजातीयामोह-रहितो यो माꣳ वेत्ति स सर्वैः पापैः प्रमुच्यते इति॥१०।३॥
Link copiedएवꣳ स्व-स्वभावानुसन्धानेन भक्त्य्-उत्पत्ति-विरोधि-पाप-निरसनꣳ विरोधि-निरसनाद् एवार्थतो भक्त्य्-उत्पत्तिꣳ च प्रतिपाद्यꣳ स्वैश्वर्य-स्व-कल्याण-गुण-गण-प्रपञ्चानुसन्धानेन भक्ति-वृद्धि-प्रकारम् आह---
Link copiedबुद्धिर् ज्ञानम् असꣳमोहः क्षमा सत्यꣳ दमः शमः।
Link copiedसुखꣳ दुःखꣳ भवोऽभावो भयꣳ चाभयम् एव च॥४॥
Link copiedअहिꣳसा समता तुष्टिस् तपो दानꣳ यशोऽयशः।
Link copiedभवन्ति भावा भूतानाꣳ मत्त एव पृथग्-विधाः॥५॥
Link copiedबुद्धिर् मनसो निरूपण-सामर्थ्यम्, ज्ञानꣳ चिद्-अचिद्-वस्तु-विशेष-विषयः निश्चयः। असꣳमोहः पूर्व-गृहीताद् रजतादेर् विसजातीये शुक्तिकादि-वस्तुनि सजातीयता-बुद्धि-निवृत्तिः। क्षमा मनो-विकार-हेतौ सत्य् अप्य् अविकृत-मनस्त्वम्। सत्यꣳ यथा-दृष्ट-विषयꣳ भूत-हित-रूपꣳ वचनम्, तद्-अनुगुणा मनो-वृत्तिः इहाभिप्रेता, मनो-वृत्ति-प्रकरणात्। दमो बाह्य-करणानाम् अनर्थ-विषयेभ्यो नियमनम्। शमोऽन्तः-करणस्य तथा नियमनम्। सुखम् आत्मानुकूलानुभवः। दुःखꣳ प्रतिकूलानुभवः। भवो भवनम्। अनुकूलानुभव-हेतुकꣳ मनसो भवनम्। अभावः प्रतिकूलानुभव-हेतुको मनसोऽवसादः। भयम् आगामिनो दुःखस्य हेतु-दर्शनजꣳ दुःखम्, तन्-निवृत्तिर् अभयम्। अहिꣳसा पर-दुःखाहेतुत्वम्। समता आत्मनि सुहृत्सु विपक्षेषु चार्थानर्थयोः सम-मतित्वम्। तुष्टिः सर्वेष्व् आत्मसु दृष्टोषु तोष-स्वभावत्वम्। तपः शास्त्रीयो भोग-सङ्कोच-रूपः कायक्लेशः। दानꣳ स्वकीय-भोग्यानाꣳ परस्मै प्रतिपादनम्। यशो गुणवत्ता-प्रथा, अयशः नैर्गुण्य-प्रथा, कीर्त्य्-अकीर्त्य्-अनुगुण-मनो-वृत्ति-विशेषौ तथा उक्तौ, मनो-वृत्ति-प्रकरणात्। तपो-दाने च तथा। एवम् आद्याः सर्वेषाꣳ भूतानाꣳ भावाः प्रवृत्ति-निवृत्ति-हेतवो मनो-वृत्तयो मत्त एव मत्-सङ्कल्पायत्ता भवन्ति॥१०।४-५॥
Link copiedसर्वस्य भूत-जातस्य सृष्टि-स्थित्योः प्रवर्तयितारश् च मत्-सङ्कल्पायत्त-प्रवृत्तय इत्य् आह---
Link copiedमहर्षयः सप्त पूर्वे चत्वारो मनवस् तथा।
Link copiedमद्-भावा मानसा जाता येषाꣳ लोक इमाः प्रजाः॥६॥
Link copiedपूर्वे सप्त महर्षयोऽतीत-मन्वन्तरे ये भृग्व्-आदयः सप्त महर्षयो नित्य-सृष्टि-प्रवर्तनाय ब्रह्मणो मनसः सम्भवाः नित्य-स्थिति-प्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवः स्थिता, येषाꣳ सन्तान-मये लोके जाता इमाः सर्वाः प्रजाः, प्रतिक्षणम् आप्रलयाद् अपत्यानाम् उत्पादकाः पालकाश् च भवन्ति, ते भृग्व्-आदयो मनवश् च मद्-भावाः, मम यो भावः स एव येषाꣳ भावस् ते मद्-भावाः, मन्-मते स्थिताः मत्-सङ्कल्पानुवर्तिन इत्य् अर्थः॥१०।६॥
Link copiedएताꣳ विभूतिꣳ योगꣳ च मम यो वेत्ति तत्त्वतः।
Link copiedसोऽविकम्पेन योगेन युज्यते नात्र सꣳशयः॥७॥
Link copiedविभूतिर् ऐश्वर्यम्। एताꣳ सर्वस्य मद्-आयत्तोत्पत्ति-स्थिति-प्रवृत्ति-रूपाꣳ विभूतिꣳ मम हेय-प्रत्यनीक-कल्याण-गुण-रूपꣳ योगꣳ च यस् तत्त्वतो वेत्ति, सोऽविकम्पेनाप्रकम्पेन भक्ति-योगेन युज्यते, नात्र सꣳशयः। मद्-विभूति-विषयꣳ कल्याण-गुण-विषयꣳ च ज्ञानꣳ भक्ति-योग-वर्धनम् इति स्वयम् एव द्रक्ष्यसीत्य् अभिप्रायः॥१०।७॥
Link copiedविभूति-ज्ञान-विपाक-रूपाꣳ भक्ति-वृद्धिꣳ दर्शयति---
Link copiedअहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते।
Link copiedइति मत्वा भजन्ते माꣳ बुधा भाव-समन्विताः॥८॥
Link copiedअहꣳ सर्वस्य विचित्र-चिद्-अचित्-प्रपञ्चस्य प्रभव उत्पत्ति-कारणम्। सर्वꣳ मत्त एव प्रवर्तते। इतीदꣳ मम स्वाभाविकꣳ निरङ्कुशैश्वर्यꣳ सौशील्य-सौन्दर्य-वात्सल्यादि-कल्याण-गुण-गण-योगꣳ च मत्वा बुधा ज्ञानिनो भाव-समन्विताः माꣳ सर्व-कल्याण-गुणान्वितꣳ भजन्ते। भावो मनो-वृत्ति-विशेषः, मयि स्पृहयालवो माꣳ भजन्त इत्य् अर्थः॥१०।८॥
Link copiedकथम्।
Link copiedमच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम्।
Link copiedकथयन्तश् च माꣳ नित्यꣳ तुष्यन्ति च रमन्ति च॥९॥
Link copiedमच्-चित्ता मयि निविष्ट-मनसः, मद्-गत-प्राणाः मद्-गत-जीविताः मया विना आत्म-धारणम् अलभमाना इत्य् अर्थः। स्वैः स्वैर् अनुभूतान् मदीयान् गुणान् परस्परꣳ बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तस् तुष्यन्ति च रमन्ति च। वक्तारस् तद्-वचनेनानन्य-प्रयोजनेन तुष्यन्ति, श्रोतारश् च तच्-छ्रवणेनानवधिकातिशय-प्रियेण रमन्ते॥१०।९॥
Link copiedतेषाꣳ सतत-युक्तानाꣳ भजताꣳ प्रीति-पूर्वकम्।
Link copiedददामि बुद्धि-योगꣳ तꣳ येन माम् उपयान्ति ते॥१०॥
Link copiedतेषाꣳ सतत-युक्तानाꣳ मयि सतत-योगम् आशꣳसमानानाꣳ माꣳ भजमानानाम् अहꣳ तम् एव बुद्धि-योगꣳ विपाक-दशापन्नꣳ प्रीति-पूर्वकꣳ ददामि येन ते माम् उपयान्ति॥१०।१०॥
Link copiedकिꣳ च---
Link copiedतेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जꣳ तमः।
Link copiedनाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥११॥
Link copiedतेषाम् एवानुग्रहार्थम् अहम् आत्म-भाव-स्थस् तेषाꣳ मनो-वृत्तौ विषयतयावस्थितो मदीयान् कल्याण-गुण-गणाꣳश् चाविष्कुर्वन् मद्-विषय-ज्ञानाख्येन भास्वता दीपेन ज्ञान-विरोधि-प्राचीन-कर्म-रूपाज्ञान-जꣳ मद्-व्यतिरिक्त-पूर्वाभ्यस्त-विषय-प्रावण्य-रूपꣳ तमो नाशयामि॥१०।११॥
Link copiedएवꣳ सकलेतर-विसजातीयꣳ भगवद्-असाधारणꣳ सृण्वताꣳ निरतिशयानन्द-जनकꣳ कल्याण-गुण-गण-योगꣳ तदैश्वर्य-विततिꣳ च श्रुत्वा तद्-विस्तारꣳ श्रोतु-कामोऽर्जुन उवाच---
Link copiedपरꣳ ब्रह्म परꣳ धाम पवित्रꣳ परमꣳ भवान्।
Link copiedपुरुषꣳ शाश्वतꣳ दिव्यम् आदि-देवम् अजꣳ विभुम्॥१२॥
Link copiedआहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा।
Link copiedअसितो देवलो व्यासः स्वयꣳ चैव ब्रवीषि मे॥१३॥
Link copiedपरꣳ ब्रह्म परꣳ धाम परमꣳ पवित्रम् इति यꣳ श्रुतयो वदन्ति स हि भवान्। यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसꣳविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्मेति [तै।उ। ३।१], ब्रह्मविद् आप्नोति परम् [तै।उ। २।१], स यो ह वै तत्-परमꣳ ब्रह्म वेद ब्रह्मैव भवति [मु।उ। ३।२।९] इति।
Link copiedतथा परꣳ धाम। धाम-शब्दो ज्योतिर्-वचनः परꣳ ज्योतिः--- अथ यद् अतः परो दिव्यो ज्योतिर् दीप्यते [छा।उ। ३।१३।७], परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छा।उ। ८।१२।२], तद् देवा ज्योतिषाꣳ ज्योतिः [बृ।आ।उ। ४।४।१६] इति।
Link copiedतथा च परमꣳ पवित्रꣳ परमꣳ पावनꣳ स्मर्तुर् अशेष-कल्मषाश्लेष-करꣳ विनाश-करꣳ च। यथा पुष्कर-पलाश आपो न श्लिष्यन्त एवम् एवꣳ-विदि पापꣳ कर्म न श्लिष्यते [छा।उ। ४।१४।३] तद् यथेषीकातूलम् अग्नौ प्रोतꣳ प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते [छा।उ। ५।२४।३]।
Link copiedनारायणः परꣳ ब्रह्म तत्त्वꣳ नारायणः परः।
Link copiedनारायणः परꣳ ज्योतिर् आत्मा नारायणः परः॥ [महानाउ ९।४] इति हि श्रुतयो वदन्ति।
Link copied
ऋषयश् च सर्वे परावरतत्त्वयाथात्म्यविदस् त्वाम् एव शाश्वतꣳ दिव्यꣳ पुरुषम् आदि-देवम् अजꣳ विभुम् आहुः। तथैव देवर्षिः नारदोऽसितो देवलो व्यासश् च।
Link copiedएष नारायणः श्रीमान् क्षीरार्णव-निकेतनः।
Link copiedनाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मथुराꣳ पुरीम्॥
Link copiedपुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः।
Link copiedसाक्षाद् देवः पुराणोऽसौ स हि धर्मः सनातनः॥
Link copiedये च वेद-विदो विप्रा चे चाध्यात्म-विदो जनाः।
Link copiedते वदन्ति महात्मानꣳ कृष्णꣳ धर्मꣳ सनातनम्॥
Link copiedपवित्राणाꣳ हि गोविन्दः पवित्रꣳ परम् उच्यते।
Link copiedपुण्यानाम् अपि पुण्योऽसौ मङ्गलानाꣳ च मङ्गलम्॥
Link copiedत्रैलोक्ये पुण्डारीकाक्षो देव-देवः सनातनः।
Link copiedआस्ते हरिर् अचिन्तयात्मा तत्रैव मधुसूदनः॥ [म।भा। ३।८८।२४-२८]
Link copiedतथा यत्र नारायणो देवः परमात्मा सनातनः।
Link copiedतत्र कृत्स्नꣳ जगत् पार्थ तीर्थान्यायतानि च॥
Link copiedतत् पुण्यꣳ तत् परꣳ ब्रह्म तत् तीर्थꣳ तत् तपो-वनम्।
Link copiedतत्र देवर्षयः सिद्धाः सर्वे चैव तपो-धनाः॥
Link copiedआदि-देवो महा-योगी यत्रास्ते मधुसूदनः।
Link copiedपुण्यानाम् अपि तत् पुण्यꣳ माभूत् ते सꣳशयोऽव वै॥ [म।भा। ३।९०।२८-३२]
Link copiedकृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्ययः।
Link copiedकृष्णस्य हि कृते भूतम् इदꣳ विश्वꣳ चराचरम्॥ [म।भा। २।३८।२३] इति।
Link copied
तथा स्वयम् एव ब्रवीषि च---
Link copiedभूमिर् आपोऽनलो वायुः खꣳ मनो बुद्धिर् एव च।
Link copiedअहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा॥ [७।४] इत्य्-आदिना,
Link copied
अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [१०।८] इत्य् अन्तेन॥१०।१२--- १०।१३॥
Link copiedसर्वम् एतद् ऋतꣳ मन्ये यन् माꣳ वदसि केशव।
Link copiedन हि ते भगवन् व्यक्तिꣳ विदुर् देवा न दानवाः॥१४॥
Link copiedअतः सर्वम् एतद् यथावस्थित-वस्तु-कथनꣳ मन्ये न प्रशꣳसाद्य्-अभिप्रायम्। यद् माꣳ प्रत्य् अनन्य-साधारणम् अनवधिकातिशयꣳ स्वाभाविकꣳ तवाइश्वर्यꣳ कल्याण-गुण-गणानन्त्यꣳ च वदसि। अतो भगवन् निरतिशय-ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजसाꣳ निधे ते व्यक्तिꣳ व्यजन-प्रकारꣳ न हि परिमित-ज्ञाना देवा दानवाश् च विदुः॥१०।१४॥
Link copiedस्वयम् एवात्मनात्मानꣳ वेत्थ त्वꣳ पुरुषोत्तम।
Link copiedभूत-भावन भूतेश देव-देव जगत्पते॥१५॥
Link copiedहे पुरुषोत्तम आत्मना आत्मानꣳ त्वꣳ स्वयम् एव स्वेनैव ज्ञानेन वेत्थ। भूत-भावन सर्वेषाꣳ भूतानाम् उत्पादयितः। भूतेश सर्वेषाꣳ भूतानाꣳ नियन्तः। देव-देव दैवतानाम् अपि परम-दैवत, यथा मनुष्य-मृग-पक्षि-सरीसृपादीन् सौन्दर्य-सौशील्यादि-कल्याण-गुण-गणैः दैवतान्य् अतीत्य वर्तन्ते तथा तानि सर्वाणि दैवतान्य् अपि तैस् तैः गुणैर् अतीत्य वर्तमान, जगत्-पते जगत्-स्वामिन्॥१०।१५॥
Link copiedवक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः।
Link copiedयाभिर् विभूतिभिर् लोकान् इमाꣳस् त्वꣳ व्याप्य तिष्ठसि॥१६॥
Link copiedदिव्यास् त्वद्-असाधारण्यो विभूतयो यास् तास् त्वम् एवाशेषण वक्तुम् अर्हसि त्वम् एव व्यञ्जयेत्य् अर्थः। याभिर् अनन्ताभिर् विभूतिभिर् यैर् नियमन-विशेषैर् युक्त इमान् लोकान् त्वꣳ नियन्तृत्वेन व्याप्य तिष्ठसि॥१०।१६॥
Link copiedकिम्-अर्थꣳ तत्-प्रकाशनम्। इत्य् अपेक्षायाम् आह---
Link copiedकथꣳ विद्याम् अहꣳ योगिꣳस् त्वाꣳ सदा परिचिन्तयन्।
Link copiedकेषु केषु च भावेषु चिन्त्योऽसि भगवन् मया॥१७॥
Link copiedअहꣳ योगी भक्ति-योग-निष्ठः सन् भक्त्या त्वाꣳ सदा परिचिन्तयन् चिन्तयितुꣳ प्रवृत्तश् चिन्तनीयꣳ त्वाꣳ परिपूर्णैश्वर्यादि-कल्याण-गुण-गणꣳ कथꣳ विद्याम्। पूर्वोक्त-बुद्धि-ज्ञानादि-भाव-व्यतिरिक्तेष्व् अनुक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि॥।१०।१७॥
Link copiedविस्तरेणात्मनो योगꣳ विभूतिꣳ च जनार्दन।
Link copiedभूयः कथय तृप्तिर् हि शृण्वतो नास्ति मेऽमृतम्॥१८॥
Link copiedअहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [गीता १०।८] इति सङ्क्षेपेणोक्तꣳ तव स्रष्टृत्वादि-योगꣳ विभूतिꣳ नियमनꣳ च भूयो विस्तरेण कथय। त्वयोच्यमानꣳ त्वन्-माहात्म्यामृतꣳ सृण्वतो मे तृप्तिर् नास्ति हि। ममातृप्तिस् त्वयैव विदितेत्य् अभिप्रायः॥१०।१८॥
Link copiedश्री-भगवान् उवाच---
Link copiedहन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः।
Link copiedप्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे॥१९॥
Link copiedहे कुरु-श्रेष्ठ मदीयाः कल्याणीर् विभूतीः प्राधान्यतस् ते कथयिष्यामि। प्राधान्य-शब्देनोत्कर्षो विवक्षितः। पुरोधसाꣳ च मुख्यꣳ माम् [१०।२४] इति हि वक्ष्यते। जगत्य् उत्कृष्टः काश्चन विभूतीर् वक्ष्यामि, विस्तरेण वक्तुꣳ श्रोतुꣳ च न शक्यते, तासाम् आनन्त्यात्। विभूतित्वꣳ नाम नियाम्यत्वम्, सर्वेषाꣳ भूतानाꣳ बुद्ध्य्-आदयः पृथग्-विधा भावा मत्त एव भवन्तीत्य् उक्त्वा एताꣳ विभूतिꣳ योगꣳ च मम यो वेत्ति तत्त्वतः [१०।७] इति प्रतिपादनात्। तथा तत्र योग-शब्द-निर्दिष्टꣳ स्रष्टृत्वादिकꣳ विभूति-शब्द-निर्दिष्टꣳ तत्-प्रवर्त्यत्वम् इति युक्तम्। पुनश् च---
Link copiedअहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते।
Link copiedइति मत्वा भजन्ते माꣳ बुधा भावसमन्विताः॥ [गीता १०।८] इत्य् उक्तम्॥१०।१९॥
Link copied
तत्र सर्व-भूतानाꣳ प्रवर्तन-रूपꣳ नियमनम् आत्मतया अवस्थाय इतीमम् अर्थꣳ योग-शब्द-निर्दिष्टꣳ सर्वस्य स्रष्टृत्वꣳ पालयितृत्वꣳ सꣳहर्तृत्वꣳ चेति सुस्पष्टम् आह---
Link copiedअहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः।
Link copiedअहम् आदिश् च मध्यꣳ च भूतानाम् अन्त एव च॥२०॥
Link copiedसर्वेषाꣳ भूतानाम् मम शरीर-भूतानाम् आशये हृदयेऽहम् आत्मतयावस्थितः। आत्मा हि नाम शरीरस्य सर्वात्मनाधारो नियन्ता शेषी च। तथा वक्ष्यते--- सर्वस्य चाहꣳ हृदि सन्निविष्टे मत्तः स्मृतिर् ज्ञानम् अपोहनꣳ च [१५।१५],
Link copiedईश्वरः सर्व-भूतानाꣳ हृद्देशोऽर्जुन तिष्ठति।
Link copiedभ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया॥ [१८।६१] इति।
Link copied
श्रूयते च--- यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यꣳ सर्वाणि भूतानि न विदुः। यस्य सर्वाणि भूतानि शरीरꣳ। यः सर्वाणि भूतान्य् अन्तरो यमयति। एष त आत्मान्तर्याम्य् अमृतः [बृ।आ।उ। ३।७।१५] इति, य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [शत्ब्र् १४।५।३०] इति च। एवꣳ सर्व-भूतानाम् आत्मतयावस्थितोऽहꣳ तेषाम् आदिर् मध्यꣳ चान्तश् च। तेषाम् उत्पत्ति-स्थिति-प्रलय-हेतुर् इत्य् अर्थः॥१०।२०॥
Link copiedएवꣳ भगवतः स्व-विभूति-भूतेषु सर्वेष्व् आत्मतयावस्थानꣳ तत्-तच्-छब्द-सामानाधिकरण्य-निर्देश-हेतुꣳ प्रतिपाद्य विभूति-विशेषाम् सामानाधिकरण्येन व्यपदिशति। भगवत्य् आत्मतयावस्थिते हि सर्वे शब्दास् तस्मिन्न् एव पर्यवस्यन्ति। यथा देवो मनुष्यः पक्षी वृक्ष इत्य् आदयः शब्दाः शरीराणि प्रतिपादयन्तस् तत् तद् आत्मनि पर्यवस्यान्ति। तथा भगवतस् तत्-तद्-आत्मतयावस्थानम् एव तत्-तच्-छब्द-सामानाधिकरण्य-निबन्धनम्, इति विभूत्य्-उपसꣳहारे वक्ष्यति--- न तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम् [गीता १०।३९] इति सर्वेषाꣳ स्वेनाविना-भाव-वचनात्। अविना-भावश् चनियाम्यतयेति मत्तः सर्वꣳ प्रवर्तते [गीता १०।८] इत्य् उपक्रमोदितम्।
Link copiedआदित्यानाम् अहꣳ विष्णुर् ज्योतिषाꣳ रविर् अꣳशुमान्।
Link copiedमरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहꣳ शशी॥२१॥
Link copiedद्वादश-सङ्ख्या-सङ्ख्यातानाम् आदित्यानाꣳ द्वादशो य उत्कृष्टे विष्णुर् नामादित्यः सोऽहम्। ज्योतिषाꣳ जगति प्रकाशकानाꣳ योऽꣳशुमान् रविर् आदित्य-गणः सोऽहम्। मरुताम् उत्कृष्टे मरीचिर् यः सोऽहम् अस्मि। नक्षत्राणाम् अहꣳ शशी। नेयꣳ निर्धारणे षष्ठी। भूतानाम् अस्मि चेतनेतिवत् नक्षत्राणाꣳ पतिर् यश् चन्द्रः सोऽहम् अस्मि॥१०।२१॥
Link copiedवेदानाꣳ साम-वेदोऽस्मि देवानाम् अस्मि वासवः।
Link copiedइन्द्रियाणाꣳ मनश् चास्मि भूतानाम् अस्मि चेतना॥२२॥
Link copiedवेदानाम् ऋग्-यजुः-सामाथर्वणाꣳ य उत्कृष्टः साम-वेदः सोऽहꣳ देवानाम् इन्द्रोऽहम् अस्मि। एकादशानाम् इन्द्रियाणाꣳ यद् उत्कृष्टꣳ मन इन्द्रियꣳ तद् अहम् अस्मि। इयम् अपि न निर्धारणे--- भूतानाꣳ चेतनावताꣳ या चेतना सा अहम् अस्मि॥१०।२२॥
Link copiedरुद्राणाꣳ शङ्करश् चास्मि वित्तेशो यक्ष-रक्षसाम्।
Link copiedवसूनाꣳ पावकश्चास्मि मेरुः शिखरिणाम् अहम्॥२३॥
Link copiedरुद्राणाम् एकादशानाꣳ शङ्करोऽहम् अस्मि। यक्ष-रक्षसाꣳ वैश्रवणोऽहम्, वसूनाम् अष्टनाꣳ पावकोऽहम्। शिखरिणाꣳ शिखर-शोभिनाꣳ पर्वतानाꣳ मध्ये मेरुर् अहम्॥१०।२३॥
Link copiedपुरोधसाꣳ च मुख्यꣳ माꣳ विद्धि पार्थ बृहस्पतिम्।
Link copiedसेनानीनाम् अहꣳ स्कन्दः सरसाम् अस्मि सागरः॥२४॥
Link copiedपुरोधसाम् उत्कृष्टे बृहस्पतिर् यः सोऽहम् अस्मि। सेनातीनाꣳ सेनापतीनाꣳ स्कन्दोऽहम् अस्मि, सरसाꣳ सागरोऽहम् अस्मि॥१०।२४॥
Link copiedमहर्षीणाꣳ भृगुर् अहꣳ गिराम् अस्म्य् एकम् अक्षरम्।
Link copiedयज्ञानाꣳ जप-यज्ञोऽस्मि स्थावराणाꣳ हिमालयः॥२५॥
Link copiedमहर्षीणाꣳ मरीच्य्-आदीनाꣳ भृगुर् अहम्। अर्थाभिधायिनः शब्दा गिरः, तासाम् एकम् अक्षरꣳ प्रणवोऽहम् अस्मि। यज्ञानाम् उत्कृष्टो जप-यज्ञोऽस्मि, पर्वत-मात्राणाꣳ हिमवान् अहम्॥१०।२५॥
Link copiedअश्वत्थः सर्व-वृक्षाणाꣳ देवर्षीणाꣳ च नारदः।
Link copiedगन्धर्वाणाꣳ चित्ररथः सिद्धानाꣳ कपिलो मुनिः॥२६॥
Link copiedसर्व-वृक्षाणाꣳ मध्ये पूज्योऽश्वत्थ एवाहम्। देवर्षीणाꣳ मध्ये परम-वैष्णवो नारदोऽहम् अस्मि। गन्धर्वाणाꣳ देव-गायकानाꣳ मध्ये चित्ररथोऽस्मि। सिद्धानाꣳ योग-निष्ठानाꣳ परमोपास्यः कपिलोऽहम्॥१०।२६॥
Link copiedउच्चैःश्रवसम् अश्वानाꣳ विद्धि माम् अमृतोद्भवम्।
Link copiedऐरावतꣳ गजेन्द्राणाꣳ नराणाꣳ च नराधिपम्॥२७॥
Link copiedसर्वेषाम् अश्वानाꣳ मध्येऽमृत-मथनोद्भवम् उच्चैःश्रवसꣳ माꣳ विद्धि। गजेन्द्राणाꣳ सर्वेषाꣳ मध्येऽमृत-मथनोद्भवम् ऐरावतꣳ माꣳ विद्धि। अमृतोद्भवम् इत्य् ऐरावतस्यापि विशेषणम्। नराणाꣳ मध्ये राजानꣳ माꣳ विद्धि॥१०।२७॥
Link copiedआयुधानाम् अहꣳ वज्रꣳ धेनूनाम् अस्मि काम-धुक्।
Link copiedप्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः॥२८॥
Link copiedआयुधानाꣳ मध्ये वज्रꣳ तद् अहम्। धेनूनाꣳ हविर् दुघानाꣳ मध्ये काम-धुक्, दिव्या सुरभिः। प्रजनः जनन-हेतुः कन्दर्पश् चाहम् अस्मि। सर्पाः एक-शिरसस् तेषाꣳ मध्ये वासुकिर् अस्मि॥१०।२८॥
Link copiedअनन्तश् चास्मि नागानाꣳ वरुणो यादसाम् अहम्।
Link copiedपितॄणाम् अर्यमा चास्मि यमः सꣳयमताम् अहम्॥२९॥
Link copiedनागा बहु-शिरसः, यादाꣳसि जल-वासिनः, तेषाꣳ वरुणोऽहम्। अत्रापि न निर्धारणे षष्ठी, दण्डायताꣳ वैवस्वतोऽहम्॥१०।२९॥
Link copiedप्रह्लादश् चास्मि दैत्यानाꣳ कालः कलयताम् अहम्।
Link copiedमृगाणाꣳ च मृगेन्द्रोऽहꣳ वैनतेयश् च पक्षिणाम्॥३०॥
Link copiedअनर्थ-प्रेप्सुतया गणयताꣳ मध्ये कालः मृत्युर् अहम्॥१०।३०॥
Link copiedपवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम्।
Link copiedझषाणाꣳ मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी॥३१॥
Link copiedपवताꣳ गमन-स्वभावानाꣳ पवनोऽहम्। शस्त्र-भृताꣳ रामोऽहम्। शस्त्र-भृत्त्वम् अत्र विभूतिः, अर्थान्तराभावात्। आदित्यादयश् च क्षेत्र-ज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्म-भूता इति शस्त्र-भृत्त्व-स्थानीयाः॥१०।३१॥
Link copiedसर्गाणाम् आदिर् अन्तश् च मध्यꣳ चैवाहम् अर्जुन।
Link copiedअध्यात्म-विद्या विद्यानाꣳ वादः प्रवदताम् अहम्॥३२॥
Link copiedसृज्यन्त इति सर्गाः, तेषाम् आदिः कारणम्। सर्वदा सृज्यमानानाꣳ सर्वेषाꣳ प्राणिनाꣳ तत्र तत्र स्रष्टारोऽहम् एवेत्य् अर्थः। तथान्तः सर्वदा सꣳह्रियमाणानाꣳ तत्र तत्र सꣳहर्तारोऽप्य् अहम् एव। तथा च मध्यꣳ पालनꣳ सर्वदा पाल्यमानानाꣳ पालयितारश् चाहम् एवेत्य् अर्थः। श्रेयः-साधन-भूतानाꣳ विद्यानाꣳ मध्ये परम-निःश्रेयस-साधन-भूता अध्यात्म-विद्याहम् अस्मि। जल्प-वितण्डादि कुर्वताꣳ तत्त्व-निर्णयाय प्रवृत्तो वादो यः सोऽहम्॥१०।३२॥
Link copiedअक्षराणाम् अकारोऽस्मि द्वन्द्वः सामासिकस्य च।
Link copiedअहम् एवाक्षयः कालो धाताहꣳ विश्वतो-मुखः॥३३॥
Link copiedअक्षराणाꣳ मध्ये अ-कारो वै सर्वा वाक् [ऐ।पू। ३।६] इति श्रुति-सिद्धः, सर्व-वर्णानाꣳ प्रकृतिर् अ-कारोऽहम्। सामासिकः समास-समूहः। तस्य मध्ये द्वन्द्व-समासोऽहम्। स ह्य् उभय-पदार्थ-प्रधानत्वेनोत्कृष्टः। कला-मुहूर्तादि-मयोऽक्षयः कालोऽहम् एव। सर्वस्य स्रष्ट हिरण्यगर्भश् चतुर्मुखोऽहम्॥१०।३३॥
Link copiedमृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम्।
Link copiedकीर्तिः श्रीर् वाक् च नारीणाꣳ स्मृतिर् मेधा धृतिः क्षमा॥३४॥
Link copiedसर्व-प्राण-हरो मृत्युश् चाहम्। उत्पत्स्यमानानाम् उद्भवाख्यꣳ कर्म चाहम्, नारीणाꣳ श्रीर् अहꣳ कीर्तिश् चाहꣳ वाक् चाहꣳ स्मृतिश् चाहꣳ मेधा चाहꣳ धृतिश् चाहꣳ क्षमा चाहम्॥१०।३४॥
Link copiedबृहत्-साम तथा साम्नाꣳ गायत्री छन्दसाम् अहम्।
Link copiedमासानाꣳ मार्गशीर्षोऽहम् ऋतूनाꣳ कुसुमाकरः॥३५॥
Link copiedसाम्नाꣳ बृहत्-सामाहम्। छन्दसाꣳ गायत्रीम् अहम्। ऋतूनाꣳ कुसुमाकरो वसन्तः॥१०।३५॥
Link copiedद्यूतꣳ छलयताम् अस्मि तेजस् तेजस्विनाम् अहम्।
Link copiedजयोऽस्मि व्यवसायोऽस्मि सत्त्वꣳ सत्त्ववताम् अहम्॥३६॥
Link copiedछलꣳ कुर्वताꣳ छलास्पदेष्व् अक्षादि-लक्षणꣳ द्यूतम् अहम्। जेतॄणाꣳ जयोऽस्मि। व्यवसायिनाꣳ व्यवसायोऽस्मि। सत्त्वताꣳ सत्त्वꣳ महा-मनस्त्वम्॥१०।३६॥
Link copiedवृष्णीनाꣳ वासुदेवोऽस्मि पाण्डवानाꣳ धनञ्जयः।
Link copiedमुनीनाम् अप्य् अहꣳ व्यासः कवीनाम् उशना कविः॥३७॥
Link copiedवसुदेव-सूनुत्वम् अत्र विभूतिः, अर्थान्तराभावाद् एव। पाण्डावानाꣳ धनञ्जयो ऽर्जुनो ऽहम्। मुनयो मननेनार्थ-याथात्म्य-दर्शिनः, तेषाꣳ व्यासोऽहम्। कवयो विपश्चितः॥१०।३७॥
Link copiedदण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम्।
Link copiedमौनꣳ चैवास्मि गुह्यानाꣳ ज्ञानꣳ ज्ञानवताम् अहम्॥३८॥
Link copiedनियमातिक्रमणे दण्डाꣳ कुर्वताꣳ दण्डोऽहम्। विजिगीषूणाꣳ जयोपाय-भूता नीतिर् अस्मि। गुह्यानाꣳ सम्बन्धिषु गोपनेषु मौनम् अस्मि। ज्ञानवताꣳ ज्ञानꣳ चाहम्॥१०।३८॥
Link copiedयच् चापि सर्व-भूतानाꣳ बीजꣳ तद् अहम् अर्जुन।
Link copiedन तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम्॥३९॥
Link copiedसर्व-भूतानाꣳ सर्वावस्थावस्थितानाꣳ तत्-तद्-अवस्था-बीज-भूतꣳ प्रतीयमानम् अप्रतीयमानꣳ च यत् तद् अहम् एव। चराचर-सर्व-भूत-जातꣳ मयात्मतयावस्थितेन विना यत् स्यान् न तद् अस्ति। अहम् आत्मा गुडाअकेश सर्व-भूताशाय-स्थितः [१०।२०] इति प्रक्रमात्। न तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम् इत्य् अत्राप्य् आत्मतयावस्थानम् एव विवक्षितम्।
Link copiedसर्व-वस्तु-जातꣳ सर्वावस्थꣳ मयात्म-भूतेन युक्तꣳ स्याद् इत्य् अर्थः। अनेन सर्वस्यास्य सामानाधिकरण्य-निर्देश्यस्य आत्मतया अवस्थितिर् एव हेतुर् इति प्रकटयति॥१०।३९॥
Link copiedनान्तोऽस्ति मम दिव्यानाꣳ विभूतीनाꣳ परन्तप।
Link copiedएष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया॥४०॥
Link copiedमम दिव्यानाꣳ कल्याणीनाꣳ विभूतीनाम् अन्तो नास्ति। एष तु विभूतेर् विस्तरो मया कैश्चिद् उपाधिभिः सङ्क्षेपतः प्रोक्तः॥१०।४०॥
Link copiedयद् यद् विभूतिमत् सत्त्वꣳ श्रीमद् ऊर्जितम् एव वा।
Link copiedतत् तद् एवावगच्छ त्वꣳ मम तेजोऽꣳश-सम्भवम्॥४१॥
Link copiedयद् यद् विभूतिमद् ईशितव्य-सम्पन्नꣳ भूत-जातꣳ श्रीमत् कान्तिमद् धन-धान्य-समृद्धꣳ वा ऊद्र्जितꣳ कल्याणारम्भेषूद्युक्तꣳ तत् तन् मम तेजोऽꣳश-सम्भवम् इत्य् अवगच्छ॥१०।४१॥
Link copiedतेजः पराभिभवन-सामर्थ्यम्, ममाचिन्त्य-शक्तेर् नियमन-शक्त्यैक-देश-सम्भवम् इत्य् अर्थः।
Link copiedअथ वा बहुनैतेन किꣳ ज्ञातेन तवार्जुन।
Link copiedविष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत्॥४२॥
Link copiedबहुना ऐतेन उच्यमानेन ज्ञानेन किꣳ प्रयोजनम्। इदꣳ चिद्-अचिद्-आत्मकꣳ कृत्स्नꣳ जगत् कार्यावस्थꣳ कारणावस्थꣳ स्थूलꣳ सूक्ष्मꣳ च स्वरूप-सद्-भावे स्थितौ प्रवृत्ति-भेदे च यथा मत्-सङ्कल्पꣳ नातिवर्तेत तथा मम महिम्नोऽयुतायुताꣳशेन विष्टभ्याहम् अवस्थितः। यथोक्तꣳ भगवता पराशरेण--- यस्यायुतायुताꣳशाꣳशे विश्व-शक्तिर् इयꣳ स्थिता [वि।पु। १।९।५३] इति॥१०।४२॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये दशमोऽध्यायः ॥१०॥
Link copied**
Link copiedభక్తి-యోగః స-పరికర ఉక్తః। ఇదానీṁ భక్త్య్-ఉత్పత్తయే తద్-వివృద్ధయే చ భగవతో నిరఙ్కుశైశ్వర్యాది-కల్యాణ-గుణ-గణానన్త్యṁ, కృత్స్నస్య జగతస్ తచ్-ఛరీరతయా తద్-ఆత్మకత్వేన తత్-ప్రవర్త్యత్వṁ చ ప్రపఞ్చ్యతే --
Link copiedభూయ ఏవ మహా-బాహో శృణు మే పరమṁ వచః।
Link copiedయత్ తేఽహṁ ప్రీయమాణాయ వక్ష్యామి హిత-కామ్యయా॥౧॥
Link copiedమమ మాహాత్మ్యṁ శ్రుత్వా ప్రీయమాణాయ తే మద్-భక్త్య్-ఉత్పత్తి-వివృద్ధి-రూప-హిత-కామనాయ భూయో మన్-మాహాత్మ్య-ప్రపఞ్చ-విషయమ్ ఏవ పరమṁ వచో యద్ వక్ష్యామి తద్ అవహిత-మనాః సృణు॥౧౦।౧॥
Link copiedన మే విదుః సుర-గణాః ప్రభవṁ న మహర్షయః।
Link copiedఅహమ్ ఆదిర్ హి దేవానాṁ మహర్షీణాṁ చ సర్వశః॥౨॥
Link copiedసుర-గణా మహర్షయశ్ చాతీన్ద్రియార్థ-దర్శినోఽధికతర-జ్ఞానా అపి మే ప్రభవṁ ప్రభావṁ న విదుః, మమ నామ-కర్మ-స్వరూప-స్వభావాదికṁ న జానన్తి। యతస్ తేషాṁ దేవానాṁ మహర్షీణాṁ చ సర్వశోఽహమ్ ఆదిః, తేషాṁ స్వరూపస్య జ్ఞాన-శక్త్య్-ఆదేశ్ చాహమ్ ఏవాదిః। తేషాṁ దేవత్వ-దేవఋషిత్వాది-హేతు-భూత-పుణ్యానుగుణṁ మయా దత్తṁ జ్ఞానṁ పరిమితమ్, అతస్ తే పరిమిత-జ్ఞానా మత్-స్వరూపకాదికṁ యథావన్ న జానన్తి॥౧౦।౨॥
Link copiedతద్ ఏతద్ దేవాద్య్-అచిన్త్య-స్వరూప-యాథాత్మ్య-విషయ-జ్ఞానṁ భక్త్య్-ఉత్పత్తి-విరోధి-పాప-విమోచనోపాయమ్ ఆహ---
Link copiedయో మామ్ అజమ్ అనాదిṁ చ వేత్తి లోక-మహేశ్వరమ్।
Link copiedఅసṁమూఢః స మర్త్యేషు సర్వ-పాపైః ప్రముచ్యతే॥౩॥
Link copiedన జాయతే ఇత్య్ అజః। అనేన వికారి-ద్రవ్యాద్ అచేతనాత్ తత్-సṁసృష్టత్ సṁసారి-చేతనాచ్ చ విసజాతీయత్వమ్ ఉక్తమ్। సṁసారి-చేతనస్య హి కర్మ-కృతాచిత్-సṁసర్గో జన్మ। అనాదిమ్ ఇత్య్ అనేన పదేన ఆదిమతోఽజాన్ ముక్తాత్మనో విసజాతీయత్వమ్ ఉక్తమ్। ముక్తాత్మనో హ్య్ అజత్వమ్ ఆదిమత్, తస్య హేయ-సమ్బన్ధస్య పూర్వ-వృత్తత్వాత్ తద్-అర్హతా అస్తి, అతోఽనాదిమ్ ఇత్య్ అనేన తద్-అనర్హతయా తత్-ప్రత్యనీకతోచ్యతే। నిరవద్యమ్ [శ్వే।ఉ। ౬।౧౯] ఇత్య్-ఆది-శ్రుత్యా చ।
Link copiedఏవṁ హేయ-సమ్బన్ధ-ప్రత్యనీక-స్వరూపతయా తద్-అనర్హṁ మాṁ లోక-మహేశ్వరṁ లోకేశ్వరాణామ్ అపీశ్వరṁ మర్త్యేష్వ్ అసṁమూఢో యో వేత్తి। ఇతర-సజాతీయతయైకీకృత్య మోహః సṁమోహస్ తద్-రహితోఽసṁమూఢః స మద్-భక్త్య్-ఉత్పత్తి-విరోధిభిః సర్వైః పాపైః ప్రముచ్యతే।
Link copiedఏతద్ ఉక్తṁ భవతి--- లోకే మనుష్యాణాṁ రాజా ఇతర-మనుష్య-సాజీతయః, కేనచిత్ కర్మణా తద్-ఆధిపత్యṁ ప్రాప్తః। తథా దేవానామ్ అధిపతిర్ అపి। తథా బ్రహ్మాణ్డాధిపతిర్ అపీతర-సṁసారి-సజాతీయః। తస్యాపి భావనా-త్రయాన్తర్గతత్వాత్। యో బ్రహ్మాణṁ విదధాతి [శ్వే।ఉ। ౬।౧౮] ఇతి శ్రుతేశ్ చ। తథాన్యేఽపి యే కేచనాణిమాద్య్-ఐశ్వర్యṁ ప్రాప్తాః। అయṁ తు లోక-మహేశ్వరః--- కార్య-కారణావస్థాద్ అచేతనాద్ బద్ధాన్ ముక్తాచ్ చ చేతనాద్ ఈశితవ్యాత్ సర్వస్మాత్ నిఖిల-హేయ-ప్రత్యనీకానవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణైక-తానతయా నియమనైక-స్వ-స్వభావతయా చ విసజాతీయ ఇతి, ఇతర-సజాతీయామోహ-రహితో యో మాṁ వేత్తి స సర్వైః పాపైః ప్రముచ్యతే ఇతి॥౧౦।౩॥
Link copiedఏవṁ స్వ-స్వభావానుసన్ధానేన భక్త్య్-ఉత్పత్తి-విరోధి-పాప-నిరసనṁ విరోధి-నిరసనాద్ ఏవార్థతో భక్త్య్-ఉత్పత్తిṁ చ ప్రతిపాద్యṁ స్వైశ్వర్య-స్వ-కల్యాణ-గుణ-గణ-ప్రపఞ్చానుసన్ధానేన భక్తి-వృద్ధి-ప్రకారమ్ ఆహ---
Link copiedబుద్ధిర్ జ్ఞానమ్ అసṁమోహః క్షమా సత్యṁ దమః శమః।
Link copiedసుఖṁ దుఃఖṁ భవోఽభావో భయṁ చాభయమ్ ఏవ చ॥౪॥
Link copiedఅహిṁసా సమతా తుష్టిస్ తపో దానṁ యశోఽయశః।
Link copiedభవన్తి భావా భూతానాṁ మత్త ఏవ పృథగ్-విధాః॥౫॥
Link copiedబుద్ధిర్ మనసో నిరూపణ-సామర్థ్యమ్, జ్ఞానṁ చిద్-అచిద్-వస్తు-విశేష-విషయః నిశ్చయః। అసṁమోహః పూర్వ-గృహీతాద్ రజతాదేర్ విసజాతీయే శుక్తికాది-వస్తుని సజాతీయతా-బుద్ధి-నివృత్తిః। క్షమా మనో-వికార-హేతౌ సత్య్ అప్య్ అవికృత-మనస్త్వమ్। సత్యṁ యథా-దృష్ట-విషయṁ భూత-హిత-రూపṁ వచనమ్, తద్-అనుగుణా మనో-వృత్తిః ఇహాభిప్రేతా, మనో-వృత్తి-ప్రకరణాత్। దమో బాహ్య-కరణానామ్ అనర్థ-విషయేభ్యో నియమనమ్। శమోఽన్తః-కరణస్య తథా నియమనమ్। సుఖమ్ ఆత్మానుకూలానుభవః। దుఃఖṁ ప్రతికూలానుభవః। భవో భవనమ్। అనుకూలానుభవ-హేతుకṁ మనసో భవనమ్। అభావః ప్రతికూలానుభవ-హేతుకో మనసోఽవసాదః। భయమ్ ఆగామినో దుఃఖస్య హేతు-దర్శనజṁ దుఃఖమ్, తన్-నివృత్తిర్ అభయమ్। అహిṁసా పర-దుఃఖాహేతుత్వమ్। సమతా ఆత్మని సుహృత్సు విపక్షేషు చార్థానర్థయోః సమ-మతిత్వమ్। తుష్టిః సర్వేష్వ్ ఆత్మసు దృష్టోషు తోష-స్వభావత్వమ్। తపః శాస్త్రీయో భోగ-సఙ్కోచ-రూపః కాయక్లేశః। దానṁ స్వకీయ-భోగ్యానాṁ పరస్మై ప్రతిపాదనమ్। యశో గుణవత్తా-ప్రథా, అయశః నైర్గుణ్య-ప్రథా, కీర్త్య్-అకీర్త్య్-అనుగుణ-మనో-వృత్తి-విశేషౌ తథా ఉక్తౌ, మనో-వృత్తి-ప్రకరణాత్। తపో-దానే చ తథా। ఏవమ్ ఆద్యాః సర్వేషాṁ భూతానాṁ భావాః ప్రవృత్తి-నివృత్తి-హేతవో మనో-వృత్తయో మత్త ఏవ మత్-సఙ్కల్పాయత్తా భవన్తి॥౧౦।౪-౫॥
Link copiedసర్వస్య భూత-జాతస్య సృష్టి-స్థిత్యోః ప్రవర్తయితారశ్ చ మత్-సఙ్కల్పాయత్త-ప్రవృత్తయ ఇత్య్ ఆహ---
Link copiedమహర్షయః సప్త పూర్వే చత్వారో మనవస్ తథా।
Link copiedమద్-భావా మానసా జాతా యేషాṁ లోక ఇమాః ప్రజాః॥౬॥
Link copiedపూర్వే సప్త మహర్షయోఽతీత-మన్వన్తరే యే భృగ్వ్-ఆదయః సప్త మహర్షయో నిత్య-సృష్టి-ప్రవర్తనాయ బ్రహ్మణో మనసః సమ్భవాః నిత్య-స్థితి-ప్రవర్తనాయ యే చ సావర్ణికా నామ చత్వారో మనవః స్థితా, యేషాṁ సన్తాన-మయే లోకే జాతా ఇమాః సర్వాః ప్రజాః, ప్రతిక్షణమ్ ఆప్రలయాద్ అపత్యానామ్ ఉత్పాదకాః పాలకాశ్ చ భవన్తి, తే భృగ్వ్-ఆదయో మనవశ్ చ మద్-భావాః, మమ యో భావః స ఏవ యేషాṁ భావస్ తే మద్-భావాః, మన్-మతే స్థితాః మత్-సఙ్కల్పానువర్తిన ఇత్య్ అర్థః॥౧౦।౬॥
Link copiedఏతాṁ విభూతిṁ యోగṁ చ మమ యో వేత్తి తత్త్వతః।
Link copiedసోఽవికమ్పేన యోగేన యుజ్యతే నాత్ర సṁశయః॥౭॥
Link copiedవిభూతిర్ ఐశ్వర్యమ్। ఏతాṁ సర్వస్య మద్-ఆయత్తోత్పత్తి-స్థితి-ప్రవృత్తి-రూపాṁ విభూతిṁ మమ హేయ-ప్రత్యనీక-కల్యాణ-గుణ-రూపṁ యోగṁ చ యస్ తత్త్వతో వేత్తి, సోఽవికమ్పేనాప్రకమ్పేన భక్తి-యోగేన యుజ్యతే, నాత్ర సṁశయః। మద్-విభూతి-విషయṁ కల్యాణ-గుణ-విషయṁ చ జ్ఞానṁ భక్తి-యోగ-వర్ధనమ్ ఇతి స్వయమ్ ఏవ ద్రక్ష్యసీత్య్ అభిప్రాయః॥౧౦।౭॥
Link copiedవిభూతి-జ్ఞాన-విపాక-రూపాṁ భక్తి-వృద్ధిṁ దర్శయతి---
Link copiedఅహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే।
Link copiedఇతి మత్వా భజన్తే మాṁ బుధా భావ-సమన్వితాః॥౮॥
Link copiedఅహṁ సర్వస్య విచిత్ర-చిద్-అచిత్-ప్రపఞ్చస్య ప్రభవ ఉత్పత్తి-కారణమ్। సర్వṁ మత్త ఏవ ప్రవర్తతే। ఇతీదṁ మమ స్వాభావికṁ నిరఙ్కుశైశ్వర్యṁ సౌశీల్య-సౌన్దర్య-వాత్సల్యాది-కల్యాణ-గుణ-గణ-యోగṁ చ మత్వా బుధా జ్ఞానినో భావ-సమన్వితాః మాṁ సర్వ-కల్యాణ-గుణాన్వితṁ భజన్తే। భావో మనో-వృత్తి-విశేషః, మయి స్పృహయాలవో మాṁ భజన్త ఇత్య్ అర్థః॥౧౦।౮॥
Link copiedకథమ్।
Link copiedమచ్-చిత్తా మద్-గత-ప్రాణా బోధయన్తః పరస్పరమ్।
Link copiedకథయన్తశ్ చ మాṁ నిత్యṁ తుష్యన్తి చ రమన్తి చ॥౯॥
Link copiedమచ్-చిత్తా మయి నివిష్ట-మనసః, మద్-గత-ప్రాణాః మద్-గత-జీవితాః మయా వినా ఆత్మ-ధారణమ్ అలభమానా ఇత్య్ అర్థః। స్వైః స్వైర్ అనుభూతాన్ మదీయాన్ గుణాన్ పరస్పరṁ బోధయన్తః, మదీయాని దివ్యాని రమణీయాని కర్మాణి చ కథయన్తస్ తుష్యన్తి చ రమన్తి చ। వక్తారస్ తద్-వచనేనానన్య-ప్రయోజనేన తుష్యన్తి, శ్రోతారశ్ చ తచ్-ఛ్రవణేనానవధికాతిశయ-ప్రియేణ రమన్తే॥౧౦।౯॥
Link copiedతేషాṁ సతత-యుక్తానాṁ భజతాṁ ప్రీతి-పూర్వకమ్।
Link copiedదదామి బుద్ధి-యోగṁ తṁ యేన మామ్ ఉపయాన్తి తే॥౧౦॥
Link copiedతేషాṁ సతత-యుక్తానాṁ మయి సతత-యోగమ్ ఆశṁసమానానాṁ మాṁ భజమానానామ్ అహṁ తమ్ ఏవ బుద్ధి-యోగṁ విపాక-దశాపన్నṁ ప్రీతి-పూర్వకṁ దదామి యేన తే మామ్ ఉపయాన్తి॥౧౦।౧౦॥
Link copiedకిṁ చ---
Link copiedతేషామ్ ఏవానుకమ్పార్థమ్ అహమ్ అజ్ఞాన-జṁ తమః।
Link copiedనాశయామ్య్ ఆత్మ-భావ-స్థో జ్ఞాన-దీపేన భాస్వతా॥౧౧॥
Link copiedతేషామ్ ఏవానుగ్రహార్థమ్ అహమ్ ఆత్మ-భావ-స్థస్ తేషాṁ మనో-వృత్తౌ విషయతయావస్థితో మదీయాన్ కల్యాణ-గుణ-గణాṁశ్ చావిష్కుర్వన్ మద్-విషయ-జ్ఞానాఖ్యేన భాస్వతా దీపేన జ్ఞాన-విరోధి-ప్రాచీన-కర్మ-రూపాజ్ఞాన-జṁ మద్-వ్యతిరిక్త-పూర్వాభ్యస్త-విషయ-ప్రావణ్య-రూపṁ తమో నాశయామి॥౧౦।౧౧॥
Link copiedఏవṁ సకలేతర-విసజాతీయṁ భగవద్-అసాధారణṁ సృణ్వతాṁ నిరతిశయానన్ద-జనకṁ కల్యాణ-గుణ-గణ-యోగṁ తదైశ్వర్య-వితతిṁ చ శ్రుత్వా తద్-విస్తారṁ శ్రోతు-కామోఽర్జున ఉవాచ---
Link copiedపరṁ బ్రహ్మ పరṁ ధామ పవిత్రṁ పరమṁ భవాన్।
Link copiedపురుషṁ శాశ్వతṁ దివ్యమ్ ఆది-దేవమ్ అజṁ విభుమ్॥౧౨॥
Link copiedఆహుస్ త్వామ్ ఋషయః సర్వే దేవర్షిర్ నారదస్ తథా।
Link copiedఅసితో దేవలో వ్యాసః స్వయṁ చైవ బ్రవీషి మే॥౧౩॥
Link copiedపరṁ బ్రహ్మ పరṁ ధామ పరమṁ పవిత్రమ్ ఇతి యṁ శ్రుతయో వదన్తి స హి భవాన్। యతో వా ఇమాని భూతాని జాయన్తే, యేన జాతాని జీవన్తి, యత్ ప్రయన్త్య్ అభిసṁవిశన్తి, తద్ విజిజ్ఞాసస్వ తద్ బ్రహ్మేతి [తై।ఉ। ౩।౧], బ్రహ్మవిద్ ఆప్నోతి పరమ్ [తై।ఉ। ౨।౧], స యో హ వై తత్-పరమṁ బ్రహ్మ వేద బ్రహ్మైవ భవతి [ము।ఉ। ౩।౨।౯] ఇతి।
Link copiedతథా పరṁ ధామ। ధామ-శబ్దో జ్యోతిర్-వచనః పరṁ జ్యోతిః--- అథ యద్ అతః పరో దివ్యో జ్యోతిర్ దీప్యతే [ఛా।ఉ। ౩।౧౩।౭], పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే [ఛా।ఉ। ౮।౧౨।౨], తద్ దేవా జ్యోతిషాṁ జ్యోతిః [బృ।ఆ।ఉ। ౪।౪।౧౬] ఇతి।
Link copiedతథా చ పరమṁ పవిత్రṁ పరమṁ పావనṁ స్మర్తుర్ అశేష-కల్మషాశ్లేష-కరṁ వినాశ-కరṁ చ। యథా పుష్కర-పలాశ ఆపో న శ్లిష్యన్త ఏవమ్ ఏవṁ-విది పాపṁ కర్మ న శ్లిష్యతే [ఛా।ఉ। ౪।౧౪।౩] తద్ యథేషీకాతూలమ్ అగ్నౌ ప్రోతṁ ప్రదూయేతైవṁ హాస్య సర్వే పాప్మానః ప్రదూయన్తే [ఛా।ఉ। ౫।౨౪।౩]।
Link copiedనారాయణః పరṁ బ్రహ్మ తత్త్వṁ నారాయణః పరః।
Link copiedనారాయణః పరṁ జ్యోతిర్ ఆత్మా నారాయణః పరః॥ [మహానాఉ ౯।౪] ఇతి హి శ్రుతయో వదన్తి।
Link copied
ఋషయశ్ చ సర్వే పరావరతత్త్వయాథాత్మ్యవిదస్ త్వామ్ ఏవ శాశ్వతṁ దివ్యṁ పురుషమ్ ఆది-దేవమ్ అజṁ విభుమ్ ఆహుః। తథైవ దేవర్షిః నారదోఽసితో దేవలో వ్యాసశ్ చ।
Link copiedఏష నారాయణః శ్రీమాన్ క్షీరార్ణవ-నికేతనః।
Link copiedనాగ-పర్యఙ్కమ్ ఉత్సృజ్య హ్య్ ఆగతో మథురాṁ పురీమ్॥
Link copiedపుణ్యా ద్వారవతీ తత్ర యత్రాస్తే మధుసూదనః।
Link copiedసాక్షాద్ దేవః పురాణోఽసౌ స హి ధర్మః సనాతనః॥
Link copiedయే చ వేద-విదో విప్రా చే చాధ్యాత్మ-విదో జనాః।
Link copiedతే వదన్తి మహాత్మానṁ కృష్ణṁ ధర్మṁ సనాతనమ్॥
Link copiedపవిత్రాణాṁ హి గోవిన్దః పవిత్రṁ పరమ్ ఉచ్యతే।
Link copiedపుణ్యానామ్ అపి పుణ్యోఽసౌ మఙ్గలానాṁ చ మఙ్గలమ్॥
Link copiedత్రైలోక్యే పుణ్డారీకాక్షో దేవ-దేవః సనాతనః।
Link copiedఆస్తే హరిర్ అచిన్తయాత్మా తత్రైవ మధుసూదనః॥ [మ।భా। ౩।౮౮।౨౪-౨౮]
Link copiedతథా యత్ర నారాయణో దేవః పరమాత్మా సనాతనః।
Link copiedతత్ర కృత్స్నṁ జగత్ పార్థ తీర్థాన్యాయతాని చ॥
Link copiedతత్ పుణ్యṁ తత్ పరṁ బ్రహ్మ తత్ తీర్థṁ తత్ తపో-వనమ్।
Link copiedతత్ర దేవర్షయః సిద్ధాః సర్వే చైవ తపో-ధనాః॥
Link copiedఆది-దేవో మహా-యోగీ యత్రాస్తే మధుసూదనః।
Link copiedపుణ్యానామ్ అపి తత్ పుణ్యṁ మాభూత్ తే సṁశయోఽవ వై॥ [మ।భా। ౩।౯౦।౨౮-౩౨]
Link copiedకృష్ణ ఏవ హి లోకానామ్ ఉత్పత్తిర్ అపి చాప్యయః।
Link copiedకృష్ణస్య హి కృతే భూతమ్ ఇదṁ విశ్వṁ చరాచరమ్॥ [మ।భా। ౨।౩౮।౨౩] ఇతి।
Link copied
తథా స్వయమ్ ఏవ బ్రవీషి చ---
Link copiedభూమిర్ ఆపోఽనలో వాయుః ఖṁ మనో బుద్ధిర్ ఏవ చ।
Link copiedఅహఙ్కార ఇతీయṁ మే భిన్నా ప్రకృతిర్ అష్టధా॥ [౭।౪] ఇత్య్-ఆదినా,
Link copied
అహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే [౧౦।౮] ఇత్య్ అన్తేన॥౧౦।౧౨--- ౧౦।౧౩॥
Link copiedసర్వమ్ ఏతద్ ఋతṁ మన్యే యన్ మాṁ వదసి కేశవ।
Link copiedన హి తే భగవన్ వ్యక్తిṁ విదుర్ దేవా న దానవాః॥౧౪॥
Link copiedఅతః సర్వమ్ ఏతద్ యథావస్థిత-వస్తు-కథనṁ మన్యే న ప్రశṁసాద్య్-అభిప్రాయమ్। యద్ మాṁ ప్రత్య్ అనన్య-సాధారణమ్ అనవధికాతిశయṁ స్వాభావికṁ తవాఇశ్వర్యṁ కల్యాణ-గుణ-గణానన్త్యṁ చ వదసి। అతో భగవన్ నిరతిశయ-జ్ఞాన-శక్తి-బలైశ్వర్య-వీర్య-తేజసాṁ నిధే తే వ్యక్తిṁ వ్యజన-ప్రకారṁ న హి పరిమిత-జ్ఞానా దేవా దానవాశ్ చ విదుః॥౧౦।౧౪॥
Link copiedస్వయమ్ ఏవాత్మనాత్మానṁ వేత్థ త్వṁ పురుషోత్తమ।
Link copiedభూత-భావన భూతేశ దేవ-దేవ జగత్పతే॥౧౫॥
Link copiedహే పురుషోత్తమ ఆత్మనా ఆత్మానṁ త్వṁ స్వయమ్ ఏవ స్వేనైవ జ్ఞానేన వేత్థ। భూత-భావన సర్వేషాṁ భూతానామ్ ఉత్పాదయితః। భూతేశ సర్వేషాṁ భూతానాṁ నియన్తః। దేవ-దేవ దైవతానామ్ అపి పరమ-దైవత, యథా మనుష్య-మృగ-పక్షి-సరీసృపాదీన్ సౌన్దర్య-సౌశీల్యాది-కల్యాణ-గుణ-గణైః దైవతాన్య్ అతీత్య వర్తన్తే తథా తాని సర్వాణి దైవతాన్య్ అపి తైస్ తైః గుణైర్ అతీత్య వర్తమాన, జగత్-పతే జగత్-స్వామిన్॥౧౦।౧౫॥
Link copiedవక్తుమ్ అర్హస్య్ అశేషేణ దివ్యా హ్య్ ఆత్మ-విభూతయః।
Link copiedయాభిర్ విభూతిభిర్ లోకాన్ ఇమాṁస్ త్వṁ వ్యాప్య తిష్ఠసి॥౧౬॥
Link copiedదివ్యాస్ త్వద్-అసాధారణ్యో విభూతయో యాస్ తాస్ త్వమ్ ఏవాశేషణ వక్తుమ్ అర్హసి త్వమ్ ఏవ వ్యఞ్జయేత్య్ అర్థః। యాభిర్ అనన్తాభిర్ విభూతిభిర్ యైర్ నియమన-విశేషైర్ యుక్త ఇమాన్ లోకాన్ త్వṁ నియన్తృత్వేన వ్యాప్య తిష్ఠసి॥౧౦।౧౬॥
Link copiedకిమ్-అర్థṁ తత్-ప్రకాశనమ్। ఇత్య్ అపేక్షాయామ్ ఆహ---
Link copiedకథṁ విద్యామ్ అహṁ యోగిṁస్ త్వాṁ సదా పరిచిన్తయన్।
Link copiedకేషు కేషు చ భావేషు చిన్త్యోఽసి భగవన్ మయా॥౧౭॥
Link copiedఅహṁ యోగీ భక్తి-యోగ-నిష్ఠః సన్ భక్త్యా త్వాṁ సదా పరిచిన్తయన్ చిన్తయితుṁ ప్రవృత్తశ్ చిన్తనీయṁ త్వాṁ పరిపూర్ణైశ్వర్యాది-కల్యాణ-గుణ-గణṁ కథṁ విద్యామ్। పూర్వోక్త-బుద్ధి-జ్ఞానాది-భావ-వ్యతిరిక్తేష్వ్ అనుక్తేషు కేషు కేషు చ భావేషు మయా నియన్తృత్వేన చిన్త్యోఽసి॥।౧౦।౧౭॥
Link copiedవిస్తరేణాత్మనో యోగṁ విభూతిṁ చ జనార్దన।
Link copiedభూయః కథయ తృప్తిర్ హి శృణ్వతో నాస్తి మేఽమృతమ్॥౧౮॥
Link copiedఅహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే [గీతా ౧౦।౮] ఇతి సఙ్క్షేపేణోక్తṁ తవ స్రష్టృత్వాది-యోగṁ విభూతిṁ నియమనṁ చ భూయో విస్తరేణ కథయ। త్వయోచ్యమానṁ త్వన్-మాహాత్మ్యామృతṁ సృణ్వతో మే తృప్తిర్ నాస్తి హి। మమాతృప్తిస్ త్వయైవ విదితేత్య్ అభిప్రాయః॥౧౦।౧౮॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedహన్త తే కథయిష్యామి దివ్యా హ్య్ ఆత్మ-విభూతయః।
Link copiedప్రాధాన్యతః కురు-శ్రేష్ఠ నాస్త్య్ అన్తో విస్తరస్య మే॥౧౯॥
Link copiedహే కురు-శ్రేష్ఠ మదీయాః కల్యాణీర్ విభూతీః ప్రాధాన్యతస్ తే కథయిష్యామి। ప్రాధాన్య-శబ్దేనోత్కర్షో వివక్షితః। పురోధసాṁ చ ముఖ్యṁ మామ్ [౧౦।౨౪] ఇతి హి వక్ష్యతే। జగత్య్ ఉత్కృష్టః కాశ్చన విభూతీర్ వక్ష్యామి, విస్తరేణ వక్తుṁ శ్రోతుṁ చ న శక్యతే, తాసామ్ ఆనన్త్యాత్। విభూతిత్వṁ నామ నియామ్యత్వమ్, సర్వేషాṁ భూతానాṁ బుద్ధ్య్-ఆదయః పృథగ్-విధా భావా మత్త ఏవ భవన్తీత్య్ ఉక్త్వా ఏతాṁ విభూతిṁ యోగṁ చ మమ యో వేత్తి తత్త్వతః [౧౦।౭] ఇతి ప్రతిపాదనాత్। తథా తత్ర యోగ-శబ్ద-నిర్దిష్టṁ స్రష్టృత్వాదికṁ విభూతి-శబ్ద-నిర్దిష్టṁ తత్-ప్రవర్త్యత్వమ్ ఇతి యుక్తమ్। పునశ్ చ---
Link copiedఅహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే।
Link copiedఇతి మత్వా భజన్తే మాṁ బుధా భావసమన్వితాః॥ [గీతా ౧౦।౮] ఇత్య్ ఉక్తమ్॥౧౦।౧౯॥
Link copied
తత్ర సర్వ-భూతానాṁ ప్రవర్తన-రూపṁ నియమనమ్ ఆత్మతయా అవస్థాయ ఇతీమమ్ అర్థṁ యోగ-శబ్ద-నిర్దిష్టṁ సర్వస్య స్రష్టృత్వṁ పాలయితృత్వṁ సṁహర్తృత్వṁ చేతి సుస్పష్టమ్ ఆహ---
Link copiedఅహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః।
Link copiedఅహమ్ ఆదిశ్ చ మధ్యṁ చ భూతానామ్ అన్త ఏవ చ॥౨౦॥
Link copiedసర్వేషాṁ భూతానామ్ మమ శరీర-భూతానామ్ ఆశయే హృదయేఽహమ్ ఆత్మతయావస్థితః। ఆత్మా హి నామ శరీరస్య సర్వాత్మనాధారో నియన్తా శేషీ చ। తథా వక్ష్యతే--- సర్వస్య చాహṁ హృది సన్నివిష్టే మత్తః స్మృతిర్ జ్ఞానమ్ అపోహనṁ చ [౧౫।౧౫],
Link copiedఈశ్వరః సర్వ-భూతానాṁ హృద్దేశోఽర్జున తిష్ఠతి।
Link copiedభ్రామయన్ సర్వ-భూతాని యన్త్రారూఢాని మాయయా॥ [౧౮।౬౧] ఇతి।
Link copied
శ్రూయతే చ--- యః సర్వేషు భూతేషు తిష్ఠన్ సర్వేభ్యో భూతేభ్యోఽన్తరో యṁ సర్వాణి భూతాని న విదుః। యస్య సర్వాణి భూతాని శరీరṁ। యః సర్వాణి భూతాన్య్ అన్తరో యమయతి। ఏష త ఆత్మాన్తర్యామ్య్ అమృతః [బృ।ఆ।ఉ। ౩।౭।౧౫] ఇతి, య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [శత్బ్ర్ ౧౪।౫।౩౦] ఇతి చ। ఏవṁ సర్వ-భూతానామ్ ఆత్మతయావస్థితోఽహṁ తేషామ్ ఆదిర్ మధ్యṁ చాన్తశ్ చ। తేషామ్ ఉత్పత్తి-స్థితి-ప్రలయ-హేతుర్ ఇత్య్ అర్థః॥౧౦।౨౦॥
Link copiedఏవṁ భగవతః స్వ-విభూతి-భూతేషు సర్వేష్వ్ ఆత్మతయావస్థానṁ తత్-తచ్-ఛబ్ద-సామానాధికరణ్య-నిర్దేశ-హేతుṁ ప్రతిపాద్య విభూతి-విశేషామ్ సామానాధికరణ్యేన వ్యపదిశతి। భగవత్య్ ఆత్మతయావస్థితే హి సర్వే శబ్దాస్ తస్మిన్న్ ఏవ పర్యవస్యన్తి। యథా దేవో మనుష్యః పక్షీ వృక్ష ఇత్య్ ఆదయః శబ్దాః శరీరాణి ప్రతిపాదయన్తస్ తత్ తద్ ఆత్మని పర్యవస్యాన్తి। తథా భగవతస్ తత్-తద్-ఆత్మతయావస్థానమ్ ఏవ తత్-తచ్-ఛబ్ద-సామానాధికరణ్య-నిబన్ధనమ్, ఇతి విభూత్య్-ఉపసṁహారే వక్ష్యతి--- న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతṁ చరాచరమ్ [గీతా ౧౦।౩౯] ఇతి సర్వేషాṁ స్వేనావినా-భావ-వచనాత్। అవినా-భావశ్ చనియామ్యతయేతి మత్తః సర్వṁ ప్రవర్తతే [గీతా ౧౦।౮] ఇత్య్ ఉపక్రమోదితమ్।
Link copiedఆదిత్యానామ్ అహṁ విష్ణుర్ జ్యోతిషాṁ రవిర్ అṁశుమాన్।
Link copiedమరీచిర్ మరుతామ్ అస్మి నక్షత్రాణామ్ అహṁ శశీ॥౨౧॥
Link copiedద్వాదశ-సఙ్ఖ్యా-సఙ్ఖ్యాతానామ్ ఆదిత్యానాṁ ద్వాదశో య ఉత్కృష్టే విష్ణుర్ నామాదిత్యః సోఽహమ్। జ్యోతిషాṁ జగతి ప్రకాశకానాṁ యోఽṁశుమాన్ రవిర్ ఆదిత్య-గణః సోఽహమ్। మరుతామ్ ఉత్కృష్టే మరీచిర్ యః సోఽహమ్ అస్మి। నక్షత్రాణామ్ అహṁ శశీ। నేయṁ నిర్ధారణే షష్ఠీ। భూతానామ్ అస్మి చేతనేతివత్ నక్షత్రాణాṁ పతిర్ యశ్ చన్ద్రః సోఽహమ్ అస్మి॥౧౦।౨౧॥
Link copiedవేదానాṁ సామ-వేదోఽస్మి దేవానామ్ అస్మి వాసవః।
Link copiedఇన్ద్రియాణాṁ మనశ్ చాస్మి భూతానామ్ అస్మి చేతనా॥౨౨॥
Link copiedవేదానామ్ ఋగ్-యజుః-సామాథర్వణాṁ య ఉత్కృష్టః సామ-వేదః సోఽహṁ దేవానామ్ ఇన్ద్రోఽహమ్ అస్మి। ఏకాదశానామ్ ఇన్ద్రియాణాṁ యద్ ఉత్కృష్టṁ మన ఇన్ద్రియṁ తద్ అహమ్ అస్మి। ఇయమ్ అపి న నిర్ధారణే--- భూతానాṁ చేతనావతాṁ యా చేతనా సా అహమ్ అస్మి॥౧౦।౨౨॥
Link copiedరుద్రాణాṁ శఙ్కరశ్ చాస్మి విత్తేశో యక్ష-రక్షసామ్।
Link copiedవసూనాṁ పావకశ్చాస్మి మేరుః శిఖరిణామ్ అహమ్॥౨౩॥
Link copiedరుద్రాణామ్ ఏకాదశానాṁ శఙ్కరోఽహమ్ అస్మి। యక్ష-రక్షసాṁ వైశ్రవణోఽహమ్, వసూనామ్ అష్టనాṁ పావకోఽహమ్। శిఖరిణాṁ శిఖర-శోభినాṁ పర్వతానాṁ మధ్యే మేరుర్ అహమ్॥౧౦।౨౩॥
Link copiedపురోధసాṁ చ ముఖ్యṁ మాṁ విద్ధి పార్థ బృహస్పతిమ్।
Link copiedసేనానీనామ్ అహṁ స్కన్దః సరసామ్ అస్మి సాగరః॥౨౪॥
Link copiedపురోధసామ్ ఉత్కృష్టే బృహస్పతిర్ యః సోఽహమ్ అస్మి। సేనాతీనాṁ సేనాపతీనాṁ స్కన్దోఽహమ్ అస్మి, సరసాṁ సాగరోఽహమ్ అస్మి॥౧౦।౨౪॥
Link copiedమహర్షీణాṁ భృగుర్ అహṁ గిరామ్ అస్మ్య్ ఏకమ్ అక్షరమ్।
Link copiedయజ్ఞానాṁ జప-యజ్ఞోఽస్మి స్థావరాణాṁ హిమాలయః॥౨౫॥
Link copiedమహర్షీణాṁ మరీచ్య్-ఆదీనాṁ భృగుర్ అహమ్। అర్థాభిధాయినః శబ్దా గిరః, తాసామ్ ఏకమ్ అక్షరṁ ప్రణవోఽహమ్ అస్మి। యజ్ఞానామ్ ఉత్కృష్టో జప-యజ్ఞోఽస్మి, పర్వత-మాత్రాణాṁ హిమవాన్ అహమ్॥౧౦।౨౫॥
Link copiedఅశ్వత్థః సర్వ-వృక్షాణాṁ దేవర్షీణాṁ చ నారదః।
Link copiedగన్ధర్వాణాṁ చిత్రరథః సిద్ధానాṁ కపిలో మునిః॥౨౬॥
Link copiedసర్వ-వృక్షాణాṁ మధ్యే పూజ్యోఽశ్వత్థ ఏవాహమ్। దేవర్షీణాṁ మధ్యే పరమ-వైష్ణవో నారదోఽహమ్ అస్మి। గన్ధర్వాణాṁ దేవ-గాయకానాṁ మధ్యే చిత్రరథోఽస్మి। సిద్ధానాṁ యోగ-నిష్ఠానాṁ పరమోపాస్యః కపిలోఽహమ్॥౧౦।౨౬॥
Link copiedఉచ్చైఃశ్రవసమ్ అశ్వానాṁ విద్ధి మామ్ అమృతోద్భవమ్।
Link copiedఐరావతṁ గజేన్ద్రాణాṁ నరాణాṁ చ నరాధిపమ్॥౨౭॥
Link copiedసర్వేషామ్ అశ్వానాṁ మధ్యేఽమృత-మథనోద్భవమ్ ఉచ్చైఃశ్రవసṁ మాṁ విద్ధి। గజేన్ద్రాణాṁ సర్వేషాṁ మధ్యేఽమృత-మథనోద్భవమ్ ఐరావతṁ మాṁ విద్ధి। అమృతోద్భవమ్ ఇత్య్ ఐరావతస్యాపి విశేషణమ్। నరాణాṁ మధ్యే రాజానṁ మాṁ విద్ధి॥౧౦।౨౭॥
Link copiedఆయుధానామ్ అహṁ వజ్రṁ ధేనూనామ్ అస్మి కామ-ధుక్।
Link copiedప్రజనశ్ చాస్మి కన్దర్పః సర్పాణామ్ అస్మి వాసుకిః॥౨౮॥
Link copiedఆయుధానాṁ మధ్యే వజ్రṁ తద్ అహమ్। ధేనూనాṁ హవిర్ దుఘానాṁ మధ్యే కామ-ధుక్, దివ్యా సురభిః। ప్రజనః జనన-హేతుః కన్దర్పశ్ చాహమ్ అస్మి। సర్పాః ఏక-శిరసస్ తేషాṁ మధ్యే వాసుకిర్ అస్మి॥౧౦।౨౮॥
Link copiedఅనన్తశ్ చాస్మి నాగానాṁ వరుణో యాదసామ్ అహమ్।
Link copiedపితౄణామ్ అర్యమా చాస్మి యమః సṁయమతామ్ అహమ్॥౨౯॥
Link copiedనాగా బహు-శిరసః, యాదాṁసి జల-వాసినః, తేషాṁ వరుణోఽహమ్। అత్రాపి న నిర్ధారణే షష్ఠీ, దణ్డాయతాṁ వైవస్వతోఽహమ్॥౧౦।౨౯॥
Link copiedప్రహ్లాదశ్ చాస్మి దైత్యానాṁ కాలః కలయతామ్ అహమ్।
Link copiedమృగాణాṁ చ మృగేన్ద్రోఽహṁ వైనతేయశ్ చ పక్షిణామ్॥౩౦॥
Link copiedఅనర్థ-ప్రేప్సుతయా గణయతాṁ మధ్యే కాలః మృత్యుర్ అహమ్॥౧౦।౩౦॥
Link copiedపవనః పవతామ్ అస్మి రామః శస్త్ర-భృతామ్ అహమ్।
Link copiedఝషాణాṁ మకరశ్ చాస్మి స్రోతసామ్ అస్మి జాహ్నవీ॥౩౧॥
Link copiedపవతాṁ గమన-స్వభావానాṁ పవనోఽహమ్। శస్త్ర-భృతాṁ రామోఽహమ్। శస్త్ర-భృత్త్వమ్ అత్ర విభూతిః, అర్థాన్తరాభావాత్। ఆదిత్యాదయశ్ చ క్షేత్ర-జ్ఞా ఆత్మత్వేనావస్థితస్య భగవతః శరీరతయా ధర్మ-భూతా ఇతి శస్త్ర-భృత్త్వ-స్థానీయాః॥౧౦।౩౧॥
Link copiedసర్గాణామ్ ఆదిర్ అన్తశ్ చ మధ్యṁ చైవాహమ్ అర్జున।
Link copiedఅధ్యాత్మ-విద్యా విద్యానాṁ వాదః ప్రవదతామ్ అహమ్॥౩౨॥
Link copiedసృజ్యన్త ఇతి సర్గాః, తేషామ్ ఆదిః కారణమ్। సర్వదా సృజ్యమానానాṁ సర్వేషాṁ ప్రాణినాṁ తత్ర తత్ర స్రష్టారోఽహమ్ ఏవేత్య్ అర్థః। తథాన్తః సర్వదా సṁహ్రియమాణానాṁ తత్ర తత్ర సṁహర్తారోఽప్య్ అహమ్ ఏవ। తథా చ మధ్యṁ పాలనṁ సర్వదా పాల్యమానానాṁ పాలయితారశ్ చాహమ్ ఏవేత్య్ అర్థః। శ్రేయః-సాధన-భూతానాṁ విద్యానాṁ మధ్యే పరమ-నిఃశ్రేయస-సాధన-భూతా అధ్యాత్మ-విద్యాహమ్ అస్మి। జల్ప-వితణ్డాది కుర్వతాṁ తత్త్వ-నిర్ణయాయ ప్రవృత్తో వాదో యః సోఽహమ్॥౧౦।౩౨॥
Link copiedఅక్షరాణామ్ అకారోఽస్మి ద్వన్ద్వః సామాసికస్య చ।
Link copiedఅహమ్ ఏవాక్షయః కాలో ధాతాహṁ విశ్వతో-ముఖః॥౩౩॥
Link copiedఅక్షరాణాṁ మధ్యే అ-కారో వై సర్వా వాక్ [ఐ।పూ। ౩।౬] ఇతి శ్రుతి-సిద్ధః, సర్వ-వర్ణానాṁ ప్రకృతిర్ అ-కారోఽహమ్। సామాసికః సమాస-సమూహః। తస్య మధ్యే ద్వన్ద్వ-సమాసోఽహమ్। స హ్య్ ఉభయ-పదార్థ-ప్రధానత్వేనోత్కృష్టః। కలా-ముహూర్తాది-మయోఽక్షయః కాలోఽహమ్ ఏవ। సర్వస్య స్రష్ట హిరణ్యగర్భశ్ చతుర్ముఖోఽహమ్॥౧౦।౩౩॥
Link copiedమృత్యుః సర్వ-హరశ్ చాహమ్ ఉద్భవశ్ చ భవిష్యతామ్।
Link copiedకీర్తిః శ్రీర్ వాక్ చ నారీణాṁ స్మృతిర్ మేధా ధృతిః క్షమా॥౩౪॥
Link copiedసర్వ-ప్రాణ-హరో మృత్యుశ్ చాహమ్। ఉత్పత్స్యమానానామ్ ఉద్భవాఖ్యṁ కర్మ చాహమ్, నారీణాṁ శ్రీర్ అహṁ కీర్తిశ్ చాహṁ వాక్ చాహṁ స్మృతిశ్ చాహṁ మేధా చాహṁ ధృతిశ్ చాహṁ క్షమా చాహమ్॥౧౦।౩౪॥
Link copiedబృహత్-సామ తథా సామ్నాṁ గాయత్రీ ఛన్దసామ్ అహమ్।
Link copiedమాసానాṁ మార్గశీర్షోఽహమ్ ఋతూనాṁ కుసుమాకరః॥౩౫॥
Link copiedసామ్నాṁ బృహత్-సామాహమ్। ఛన్దసాṁ గాయత్రీమ్ అహమ్। ఋతూనాṁ కుసుమాకరో వసన్తః॥౧౦।౩౫॥
Link copiedద్యూతṁ ఛలయతామ్ అస్మి తేజస్ తేజస్వినామ్ అహమ్।
Link copiedజయోఽస్మి వ్యవసాయోఽస్మి సత్త్వṁ సత్త్వవతామ్ అహమ్॥౩౬॥
Link copiedఛలṁ కుర్వతాṁ ఛలాస్పదేష్వ్ అక్షాది-లక్షణṁ ద్యూతమ్ అహమ్। జేతౄణాṁ జయోఽస్మి। వ్యవసాయినాṁ వ్యవసాయోఽస్మి। సత్త్వతాṁ సత్త్వṁ మహా-మనస్త్వమ్॥౧౦।౩౬॥
Link copiedవృష్ణీనాṁ వాసుదేవోఽస్మి పాణ్డవానాṁ ధనఞ్జయః।
Link copiedమునీనామ్ అప్య్ అహṁ వ్యాసః కవీనామ్ ఉశనా కవిః॥౩౭॥
Link copiedవసుదేవ-సూనుత్వమ్ అత్ర విభూతిః, అర్థాన్తరాభావాద్ ఏవ। పాణ్డావానాṁ ధనఞ్జయో ఽర్జునో ఽహమ్। మునయో మననేనార్థ-యాథాత్మ్య-దర్శినః, తేషాṁ వ్యాసోఽహమ్। కవయో విపశ్చితః॥౧౦।౩౭॥
Link copiedదణ్డో దమయతామ్ అస్మి నీతిర్ అస్మి జిగీషతామ్।
Link copiedమౌనṁ చైవాస్మి గుహ్యానాṁ జ్ఞానṁ జ్ఞానవతామ్ అహమ్॥౩౮॥
Link copiedనియమాతిక్రమణే దణ్డాṁ కుర్వతాṁ దణ్డోఽహమ్। విజిగీషూణాṁ జయోపాయ-భూతా నీతిర్ అస్మి। గుహ్యానాṁ సమ్బన్ధిషు గోపనేషు మౌనమ్ అస్మి। జ్ఞానవతాṁ జ్ఞానṁ చాహమ్॥౧౦।౩౮॥
Link copiedయచ్ చాపి సర్వ-భూతానాṁ బీజṁ తద్ అహమ్ అర్జున।
Link copiedన తద్ అస్తి వినా యత్ స్యాన్ మయా భూతṁ చరాచరమ్॥౩౯॥
Link copiedసర్వ-భూతానాṁ సర్వావస్థావస్థితానాṁ తత్-తద్-అవస్థా-బీజ-భూతṁ ప్రతీయమానమ్ అప్రతీయమానṁ చ యత్ తద్ అహమ్ ఏవ। చరాచర-సర్వ-భూత-జాతṁ మయాత్మతయావస్థితేన వినా యత్ స్యాన్ న తద్ అస్తి। అహమ్ ఆత్మా గుడాఅకేశ సర్వ-భూతాశాయ-స్థితః [౧౦।౨౦] ఇతి ప్రక్రమాత్। న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతṁ చరాచరమ్ ఇత్య్ అత్రాప్య్ ఆత్మతయావస్థానమ్ ఏవ వివక్షితమ్।
Link copiedసర్వ-వస్తు-జాతṁ సర్వావస్థṁ మయాత్మ-భూతేన యుక్తṁ స్యాద్ ఇత్య్ అర్థః। అనేన సర్వస్యాస్య సామానాధికరణ్య-నిర్దేశ్యస్య ఆత్మతయా అవస్థితిర్ ఏవ హేతుర్ ఇతి ప్రకటయతి॥౧౦।౩౯॥
Link copiedనాన్తోఽస్తి మమ దివ్యానాṁ విభూతీనాṁ పరన్తప।
Link copiedఏష తూద్దేశతః ప్రోక్తో విభూతేర్ విస్తరో మయా॥౪౦॥
Link copiedమమ దివ్యానాṁ కల్యాణీనాṁ విభూతీనామ్ అన్తో నాస్తి। ఏష తు విభూతేర్ విస్తరో మయా కైశ్చిద్ ఉపాధిభిః సఙ్క్షేపతః ప్రోక్తః॥౧౦।౪౦॥
Link copiedయద్ యద్ విభూతిమత్ సత్త్వṁ శ్రీమద్ ఊర్జితమ్ ఏవ వా।
Link copiedతత్ తద్ ఏవావగచ్ఛ త్వṁ మమ తేజోఽṁశ-సమ్భవమ్॥౪౧॥
Link copiedయద్ యద్ విభూతిమద్ ఈశితవ్య-సమ్పన్నṁ భూత-జాతṁ శ్రీమత్ కాన్తిమద్ ధన-ధాన్య-సమృద్ధṁ వా ఊద్ర్జితṁ కల్యాణారమ్భేషూద్యుక్తṁ తత్ తన్ మమ తేజోఽṁశ-సమ్భవమ్ ఇత్య్ అవగచ్ఛ॥౧౦।౪౧॥
Link copiedతేజః పరాభిభవన-సామర్థ్యమ్, మమాచిన్త్య-శక్తేర్ నియమన-శక్త్యైక-దేశ-సమ్భవమ్ ఇత్య్ అర్థః।
Link copiedఅథ వా బహునైతేన కిṁ జ్ఞాతేన తవార్జున।
Link copiedవిష్టభ్యాహమ్ ఇదṁ కృత్స్నమ్ ఏకాṁశేన స్థితో జగత్॥౪౨॥
Link copiedబహునా ఐతేన ఉచ్యమానేన జ్ఞానేన కిṁ ప్రయోజనమ్। ఇదṁ చిద్-అచిద్-ఆత్మకṁ కృత్స్నṁ జగత్ కార్యావస్థṁ కారణావస్థṁ స్థూలṁ సూక్ష్మṁ చ స్వరూప-సద్-భావే స్థితౌ ప్రవృత్తి-భేదే చ యథా మత్-సఙ్కల్పṁ నాతివర్తేత తథా మమ మహిమ్నోఽయుతాయుతాṁశేన విష్టభ్యాహమ్ అవస్థితః। యథోక్తṁ భగవతా పరాశరేణ--- యస్యాయుతాయుతాṁశాṁశే విశ్వ-శక్తిర్ ఇయṁ స్థితా [వి।పు। ౧।౯।౫౩] ఇతి॥౧౦।౪౨॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే దశమోఽధ్యాయః ॥౧౦॥
Link copied**
Link copiedbhakti-yogaḥ sa-parikara uktaḥ| idānīṁ bhakty-utpattaye tad-vivṛddhaye ca bhagavato niraṅkuśaiśvaryādi-kalyāṇa-guṇa-gaṇānantyaṁ, kṛtsnasya jagatas tac-charīratayā tad-ātmakatvena tat-pravartyatvaṁ ca prapañcyate --
Link copiedbhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ|
Link copiedyat te'haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā||1||
Link copiedmama māhātmyaṁ śrutvā prīyamāṇāya te mad-bhakty-utpatti-vivṛddhi-rūpa-hita-kāmanāya bhūyo man-māhātmya-prapañca-viṣayam eva paramaṁ vaco yad vakṣyāmi tad avahita-manāḥ sṛṇu||10.1||
Link copiedna me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ|
Link copiedaham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ||2||
Link copiedsura-gaṇā maharṣayaś cātīndriyārtha-darśino'dhikatara-jñānā api me prabhavaṁ prabhāvaṁ na viduḥ, mama nāma-karma-svarūpa-svabhāvādikaṁ na jānanti| yatas teṣāṁ devānāṁ maharṣīṇāṁ ca sarvaśo'ham ādiḥ, teṣāṁ svarūpasya jñāna-śakty-ādeś cāham evādiḥ| teṣāṁ devatva-devaṛṣitvādi-hetu-bhūta-puṇyānuguṇaṁ mayā dattaṁ jñānaṁ parimitam, atas te parimita-jñānā mat-svarūpakādikaṁ yathāvan na jānanti||10.2||
Link copiedtad etad devādy-acintya-svarūpa-yāthātmya-viṣaya-jñānaṁ bhakty-utpatti-virodhi-pāpa-vimocanopāyam āha---
Link copiedyo mām ajam anādiṁ ca vetti loka-maheśvaram|
Link copiedasaṁmūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate||3||
Link copiedna jāyate ity ajaḥ| anena vikāri-dravyād acetanāt tat-saṁsṛṣṭat saṁsāri-cetanāc ca visajātīyatvam uktam| saṁsāri-cetanasya hi karma-kṛtācit-saṁsargo janma| anādim ity anena padena ādimato'jān muktātmano visajātīyatvam uktam| muktātmano hy ajatvam ādimat, tasya heya-sambandhasya pūrva-vṛttatvāt tad-arhatā asti, ato'nādim ity anena tad-anarhatayā tat-pratyanīkatocyate| niravadyam [śve.u. 6.19] ity-ādi-śrutyā ca|
Link copiedevaṁ heya-sambandha-pratyanīka-svarūpatayā tad-anarhaṁ māṁ loka-maheśvaraṁ lokeśvarāṇām apīśvaraṁ martyeṣv asaṁmūḍho yo vetti| itara-sajātīyatayaikīkṛtya mohaḥ saṁmohas tad-rahito'saṁmūḍhaḥ sa mad-bhakty-utpatti-virodhibhiḥ sarvaiḥ pāpaiḥ pramucyate|
Link copiedetad uktaṁ bhavati--- loke manuṣyāṇāṁ rājā itara-manuṣya-sājītayaḥ, kenacit karmaṇā tad-ādhipatyaṁ prāptaḥ| tathā devānām adhipatir api| tathā brahmāṇḍādhipatir apītara-saṁsāri-sajātīyaḥ| tasyāpi bhāvanā-trayāntargatatvāt| yo brahmāṇaṁ vidadhāti [śve.u. 6.18] iti śruteś ca| tathānye'pi ye kecanāṇimādy-aiśvaryaṁ prāptāḥ| ayaṁ tu loka-maheśvaraḥ--- kārya-kāraṇāvasthād acetanād baddhān muktāc ca cetanād īśitavyāt sarvasmāt nikhila-heya-pratyanīkānavadhikātiśayāsaṅkhyeya-kalyāṇaika-tānatayā niyamanaika-sva-svabhāvatayā ca visajātīya iti, itara-sajātīyāmoha-rahito yo māṁ vetti sa sarvaiḥ pāpaiḥ pramucyate iti||10.3||
Link copiedevaṁ sva-svabhāvānusandhānena bhakty-utpatti-virodhi-pāpa-nirasanaṁ virodhi-nirasanād evārthato bhakty-utpattiṁ ca pratipādyaṁ svaiśvarya-sva-kalyāṇa-guṇa-gaṇa-prapañcānusandhānena bhakti-vṛddhi-prakāram āha---
Link copiedbuddhir jñānam asaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ|
Link copiedsukhaṁ duḥkhaṁ bhavo'bhāvo bhayaṁ cābhayam eva ca||4||
Link copiedahiṁsā samatā tuṣṭis tapo dānaṁ yaśo'yaśaḥ|
Link copiedbhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ||5||
Link copiedbuddhir manaso nirūpaṇa-sāmarthyam, jñānaṁ cid-acid-vastu-viśeṣa-viṣayaḥ niścayaḥ| asaṁmohaḥ pūrva-gṛhītād rajatāder visajātīye śuktikādi-vastuni sajātīyatā-buddhi-nivṛttiḥ| kṣamā mano-vikāra-hetau saty apy avikṛta-manastvam| satyaṁ yathā-dṛṣṭa-viṣayaṁ bhūta-hita-rūpaṁ vacanam, tad-anuguṇā mano-vṛttiḥ ihābhipretā, mano-vṛtti-prakaraṇāt| damo bāhya-karaṇānām anartha-viṣayebhyo niyamanam| śamo'ntaḥ-karaṇasya tathā niyamanam| sukham ātmānukūlānubhavaḥ| duḥkhaṁ pratikūlānubhavaḥ| bhavo bhavanam| anukūlānubhava-hetukaṁ manaso bhavanam| abhāvaḥ pratikūlānubhava-hetuko manaso'vasādaḥ| bhayam āgāmino duḥkhasya hetu-darśanajaṁ duḥkham, tan-nivṛttir abhayam| ahiṁsā para-duḥkhāhetutvam| samatā ātmani suhṛtsu vipakṣeṣu cārthānarthayoḥ sama-matitvam| tuṣṭiḥ sarveṣv ātmasu dṛṣṭoṣu toṣa-svabhāvatvam| tapaḥ śāstrīyo bhoga-saṅkoca-rūpaḥ kāyakleśaḥ| dānaṁ svakīya-bhogyānāṁ parasmai pratipādanam| yaśo guṇavattā-prathā, ayaśaḥ nairguṇya-prathā, kīrty-akīrty-anuguṇa-mano-vṛtti-viśeṣau tathā uktau, mano-vṛtti-prakaraṇāt| tapo-dāne ca tathā| evam ādyāḥ sarveṣāṁ bhūtānāṁ bhāvāḥ pravṛtti-nivṛtti-hetavo mano-vṛttayo matta eva mat-saṅkalpāyattā bhavanti||10.4-5||
Link copiedsarvasya bhūta-jātasya sṛṣṭi-sthityoḥ pravartayitāraś ca mat-saṅkalpāyatta-pravṛttaya ity āha---
Link copiedmaharṣayaḥ sapta pūrve catvāro manavas tathā|
Link copiedmad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ||6||
Link copiedpūrve sapta maharṣayo'tīta-manvantare ye bhṛgv-ādayaḥ sapta maharṣayo nitya-sṛṣṭi-pravartanāya brahmaṇo manasaḥ sambhavāḥ nitya-sthiti-pravartanāya ye ca sāvarṇikā nāma catvāro manavaḥ sthitā, yeṣāṁ santāna-maye loke jātā imāḥ sarvāḥ prajāḥ, pratikṣaṇam āpralayād apatyānām utpādakāḥ pālakāś ca bhavanti, te bhṛgv-ādayo manavaś ca mad-bhāvāḥ, mama yo bhāvaḥ sa eva yeṣāṁ bhāvas te mad-bhāvāḥ, man-mate sthitāḥ mat-saṅkalpānuvartina ity arthaḥ||10.6||
Link copiedetāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ|
Link copiedso'vikampena yogena yujyate nātra saṁśayaḥ||7||
Link copiedvibhūtir aiśvaryam| etāṁ sarvasya mad-āyattotpatti-sthiti-pravṛtti-rūpāṁ vibhūtiṁ mama heya-pratyanīka-kalyāṇa-guṇa-rūpaṁ yogaṁ ca yas tattvato vetti, so'vikampenāprakampena bhakti-yogena yujyate, nātra saṁśayaḥ| mad-vibhūti-viṣayaṁ kalyāṇa-guṇa-viṣayaṁ ca jñānaṁ bhakti-yoga-vardhanam iti svayam eva drakṣyasīty abhiprāyaḥ||10.7||
Link copiedvibhūti-jñāna-vipāka-rūpāṁ bhakti-vṛddhiṁ darśayati---
Link copiedahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate|
Link copiediti matvā bhajante māṁ budhā bhāva-samanvitāḥ||8||
Link copiedahaṁ sarvasya vicitra-cid-acit-prapañcasya prabhava utpatti-kāraṇam| sarvaṁ matta eva pravartate| itīdaṁ mama svābhāvikaṁ niraṅkuśaiśvaryaṁ sauśīlya-saundarya-vātsalyādi-kalyāṇa-guṇa-gaṇa-yogaṁ ca matvā budhā jñānino bhāva-samanvitāḥ māṁ sarva-kalyāṇa-guṇānvitaṁ bhajante| bhāvo mano-vṛtti-viśeṣaḥ, mayi spṛhayālavo māṁ bhajanta ity arthaḥ||10.8||
Link copiedkatham|
Link copiedmac-cittā mad-gata-prāṇā bodhayantaḥ parasparam|
Link copiedkathayantaś ca māṁ nityaṁ tuṣyanti ca ramanti ca||9||
Link copiedmac-cittā mayi niviṣṭa-manasaḥ, mad-gata-prāṇāḥ mad-gata-jīvitāḥ mayā vinā ātma-dhāraṇam alabhamānā ity arthaḥ| svaiḥ svair anubhūtān madīyān guṇān parasparaṁ bodhayantaḥ, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayantas tuṣyanti ca ramanti ca| vaktāras tad-vacanenānanya-prayojanena tuṣyanti, śrotāraś ca tac-chravaṇenānavadhikātiśaya-priyeṇa ramante||10.9||
Link copiedteṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam|
Link copieddadāmi buddhi-yogaṁ taṁ yena mām upayānti te||10||
Link copiedteṣāṁ satata-yuktānāṁ mayi satata-yogam āśaṁsamānānāṁ māṁ bhajamānānām ahaṁ tam eva buddhi-yogaṁ vipāka-daśāpannaṁ prīti-pūrvakaṁ dadāmi yena te mām upayānti||10.10||
Link copiedkiṁ ca---
Link copiedteṣām evānukampārtham aham ajñāna-jaṁ tamaḥ|
Link copiednāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā||11||
Link copiedteṣām evānugrahārtham aham ātma-bhāva-sthas teṣāṁ mano-vṛttau viṣayatayāvasthito madīyān kalyāṇa-guṇa-gaṇāṁś cāviṣkurvan mad-viṣaya-jñānākhyena bhāsvatā dīpena jñāna-virodhi-prācīna-karma-rūpājñāna-jaṁ mad-vyatirikta-pūrvābhyasta-viṣaya-prāvaṇya-rūpaṁ tamo nāśayāmi||10.11||
Link copiedevaṁ sakaletara-visajātīyaṁ bhagavad-asādhāraṇaṁ sṛṇvatāṁ niratiśayānanda-janakaṁ kalyāṇa-guṇa-gaṇa-yogaṁ tadaiśvarya-vitatiṁ ca śrutvā tad-vistāraṁ śrotu-kāmo'rjuna uvāca---
Link copiedparaṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān|
Link copiedpuruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum||12||
Link copiedāhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā|
Link copiedasito devalo vyāsaḥ svayaṁ caiva bravīṣi me||13||
Link copiedparaṁ brahma paraṁ dhāma paramaṁ pavitram iti yaṁ śrutayo vadanti sa hi bhavān| yato vā imāni bhūtāni jāyante, yena jātāni jīvanti, yat prayanty abhisaṁviśanti, tad vijijñāsasva tad brahmeti [tai.u. 3.1], brahmavid āpnoti param [tai.u. 2.1], sa yo ha vai tat-paramaṁ brahma veda brahmaiva bhavati [mu.u. 3.2.9] iti|
Link copiedtathā paraṁ dhāma| dhāma-śabdo jyotir-vacanaḥ paraṁ jyotiḥ--- atha yad ataḥ paro divyo jyotir dīpyate [chā.u. 3.13.7], paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate [chā.u. 8.12.2], tad devā jyotiṣāṁ jyotiḥ [bṛ.ā.u. 4.4.16] iti|
Link copiedtathā ca paramaṁ pavitraṁ paramaṁ pāvanaṁ smartur aśeṣa-kalmaṣāśleṣa-karaṁ vināśa-karaṁ ca| yathā puṣkara-palāśa āpo na śliṣyanta evam evaṁ-vidi pāpaṁ karma na śliṣyate [chā.u. 4.14.3] tad yatheṣīkātūlam agnau protaṁ pradūyetaivaṁ hāsya sarve pāpmānaḥ pradūyante [chā.u. 5.24.3]|
Link copiednārāyaṇaḥ paraṁ brahma tattvaṁ nārāyaṇaḥ paraḥ|
Link copiednārāyaṇaḥ paraṁ jyotir ātmā nārāyaṇaḥ paraḥ|| [MahāNāU 9.4] iti hi śrutayo vadanti|
Link copied
ṛṣayaś ca sarve parāvaratattvayāthātmyavidas tvām eva śāśvataṁ divyaṁ puruṣam ādi-devam ajaṁ vibhum āhuḥ| tathaiva devarṣiḥ nārado'sito devalo vyāsaś ca|
Link copiedeṣa nārāyaṇaḥ śrīmān kṣīrārṇava-niketanaḥ|
Link copiednāga-paryaṅkam utsṛjya hy āgato mathurāṁ purīm||
Link copiedpuṇyā dvāravatī tatra yatrāste madhusūdanaḥ|
Link copiedsākṣād devaḥ purāṇo'sau sa hi dharmaḥ sanātanaḥ||
Link copiedye ca veda-vido viprā ce cādhyātma-vido janāḥ|
Link copiedte vadanti mahātmānaṁ kṛṣṇaṁ dharmaṁ sanātanam||
Link copiedpavitrāṇāṁ hi govindaḥ pavitraṁ param ucyate|
Link copiedpuṇyānām api puṇyo'sau maṅgalānāṁ ca maṅgalam||
Link copiedtrailokye puṇḍārīkākṣo deva-devaḥ sanātanaḥ|
Link copiedāste harir acintayātmā tatraiva madhusūdanaḥ|| [ma.bhā. 3.88.24-28]
Link copiedtathā yatra nārāyaṇo devaḥ paramātmā sanātanaḥ|
Link copiedtatra kṛtsnaṁ jagat pārtha tīrthānyāyatāni ca||
Link copiedtat puṇyaṁ tat paraṁ brahma tat tīrthaṁ tat tapo-vanam|
Link copiedtatra devarṣayaḥ siddhāḥ sarve caiva tapo-dhanāḥ||
Link copiedādi-devo mahā-yogī yatrāste madhusūdanaḥ|
Link copiedpuṇyānām api tat puṇyaṁ mābhūt te saṁśayo'va vai|| [ma.bhā. 3.90.28-32]
Link copiedkṛṣṇa eva hi lokānām utpattir api cāpyayaḥ|
Link copiedkṛṣṇasya hi kṛte bhūtam idaṁ viśvaṁ carācaram|| [ma.bhā. 2.38.23] iti|
Link copied
tathā svayam eva bravīṣi ca---
Link copiedbhūmir āpo'nalo vāyuḥ khaṁ mano buddhir eva ca|
Link copiedahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā|| [7.4] ity-ādinā,
Link copied
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate [10.8] ity antena||10.12--- 10.13||
Link copiedsarvam etad ṛtaṁ manye yan māṁ vadasi keśava|
Link copiedna hi te bhagavan vyaktiṁ vidur devā na dānavāḥ||14||
Link copiedataḥ sarvam etad yathāvasthita-vastu-kathanaṁ manye na praśaṁsādy-abhiprāyam| yad māṁ praty ananya-sādhāraṇam anavadhikātiśayaṁ svābhāvikaṁ tavāiśvaryaṁ kalyāṇa-guṇa-gaṇānantyaṁ ca vadasi| ato bhagavan niratiśaya-jñāna-śakti-balaiśvarya-vīrya-tejasāṁ nidhe te vyaktiṁ vyajana-prakāraṁ na hi parimita-jñānā devā dānavāś ca viduḥ||10.14||
Link copiedsvayam evātmanātmānaṁ vettha tvaṁ puruṣottama|
Link copiedbhūta-bhāvana bhūteśa deva-deva jagatpate||15||
Link copiedhe puruṣottama ātmanā ātmānaṁ tvaṁ svayam eva svenaiva jñānena vettha| bhūta-bhāvana sarveṣāṁ bhūtānām utpādayitaḥ| bhūteśa sarveṣāṁ bhūtānāṁ niyantaḥ| deva-deva daivatānām api parama-daivata, yathā manuṣya-mṛga-pakṣi-sarīsṛpādīn saundarya-sauśīlyādi-kalyāṇa-guṇa-gaṇaiḥ daivatāny atītya vartante tathā tāni sarvāṇi daivatāny api tais taiḥ guṇair atītya vartamāna, jagat-pate jagat-svāmin||10.15||
Link copiedvaktum arhasy aśeṣeṇa divyā hy ātma-vibhūtayaḥ|
Link copiedyābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi||16||
Link copieddivyās tvad-asādhāraṇyo vibhūtayo yās tās tvam evāśeṣaṇa vaktum arhasi tvam eva vyañjayety arthaḥ| yābhir anantābhir vibhūtibhir yair niyamana-viśeṣair yukta imān lokān tvaṁ niyantṛtvena vyāpya tiṣṭhasi||10.16||
Link copiedkim-arthaṁ tat-prakāśanam| ity apekṣāyām āha---
Link copiedkathaṁ vidyām ahaṁ yogiṁs tvāṁ sadā paricintayan|
Link copiedkeṣu keṣu ca bhāveṣu cintyo'si bhagavan mayā||17||
Link copiedahaṁ yogī bhakti-yoga-niṣṭhaḥ san bhaktyā tvāṁ sadā paricintayan cintayituṁ pravṛttaś cintanīyaṁ tvāṁ paripūrṇaiśvaryādi-kalyāṇa-guṇa-gaṇaṁ kathaṁ vidyām| pūrvokta-buddhi-jñānādi-bhāva-vyatirikteṣv anukteṣu keṣu keṣu ca bhāveṣu mayā niyantṛtvena cintyo'si|||10.17||
Link copiedvistareṇātmano yogaṁ vibhūtiṁ ca janārdana|
Link copiedbhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me'mṛtam||18||
Link copiedahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate [gītā 10.8] iti saṅkṣepeṇoktaṁ tava sraṣṭṛtvādi-yogaṁ vibhūtiṁ niyamanaṁ ca bhūyo vistareṇa kathaya| tvayocyamānaṁ tvan-māhātmyāmṛtaṁ sṛṇvato me tṛptir nāsti hi| mamātṛptis tvayaiva viditety abhiprāyaḥ||10.18||
Link copiedśrī-bhagavān uvāca---
Link copiedhanta te kathayiṣyāmi divyā hy ātma-vibhūtayaḥ|
Link copiedprādhānyataḥ kuru-śreṣṭha nāsty anto vistarasya me||19||
Link copiedhe kuru-śreṣṭha madīyāḥ kalyāṇīr vibhūtīḥ prādhānyatas te kathayiṣyāmi| prādhānya-śabdenotkarṣo vivakṣitaḥ| purodhasāṁ ca mukhyaṁ mām [10.24] iti hi vakṣyate| jagaty utkṛṣṭaḥ kāścana vibhūtīr vakṣyāmi, vistareṇa vaktuṁ śrotuṁ ca na śakyate, tāsām ānantyāt| vibhūtitvaṁ nāma niyāmyatvam, sarveṣāṁ bhūtānāṁ buddhy-ādayaḥ pṛthag-vidhā bhāvā matta eva bhavantīty uktvā etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ [10.7] iti pratipādanāt| tathā tatra yoga-śabda-nirdiṣṭaṁ sraṣṭṛtvādikaṁ vibhūti-śabda-nirdiṣṭaṁ tat-pravartyatvam iti yuktam| punaś ca---
Link copiedahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate|
Link copiediti matvā bhajante māṁ budhā bhāvasamanvitāḥ|| [gītā 10.8] ity uktam||10.19||
Link copied
tatra sarva-bhūtānāṁ pravartana-rūpaṁ niyamanam ātmatayā avasthāya itīmam arthaṁ yoga-śabda-nirdiṣṭaṁ sarvasya sraṣṭṛtvaṁ pālayitṛtvaṁ saṁhartṛtvaṁ ceti suspaṣṭam āha---
Link copiedaham ātmā guḍākeśa sarva-bhūtāśaya-sthitaḥ|
Link copiedaham ādiś ca madhyaṁ ca bhūtānām anta eva ca||20||
Link copiedsarveṣāṁ bhūtānām mama śarīra-bhūtānām āśaye hṛdaye'ham ātmatayāvasthitaḥ| ātmā hi nāma śarīrasya sarvātmanādhāro niyantā śeṣī ca| tathā vakṣyate--- sarvasya cāhaṁ hṛdi sanniviṣṭe mattaḥ smṛtir jñānam apohanaṁ ca [15.15],
Link copiedīśvaraḥ sarva-bhūtānāṁ hṛddeśo'rjuna tiṣṭhati|
Link copiedbhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā|| [18.61] iti|
Link copied
śrūyate ca--- yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo'ntaro yaṁ sarvāṇi bhūtāni na viduḥ| yasya sarvāṇi bhūtāni śarīraṁ| yaḥ sarvāṇi bhūtāny antaro yamayati| eṣa ta ātmāntaryāmy amṛtaḥ [bṛ.ā.u. 3.7.15] iti, ya ātmani tiṣṭhann ātmano'ntaro yam ātmā na veda yasyātmā śarīraṁ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ [ŚatBr 14.5.30] iti ca| evaṁ sarva-bhūtānām ātmatayāvasthito'haṁ teṣām ādir madhyaṁ cāntaś ca| teṣām utpatti-sthiti-pralaya-hetur ity arthaḥ||10.20||
Link copiedevaṁ bhagavataḥ sva-vibhūti-bhūteṣu sarveṣv ātmatayāvasthānaṁ tat-tac-chabda-sāmānādhikaraṇya-nirdeśa-hetuṁ pratipādya vibhūti-viśeṣām sāmānādhikaraṇyena vyapadiśati| bhagavaty ātmatayāvasthite hi sarve śabdās tasminn eva paryavasyanti| yathā devo manuṣyaḥ pakṣī vṛkṣa ity ādayaḥ śabdāḥ śarīrāṇi pratipādayantas tat tad ātmani paryavasyānti| tathā bhagavatas tat-tad-ātmatayāvasthānam eva tat-tac-chabda-sāmānādhikaraṇya-nibandhanam, iti vibhūty-upasaṁhāre vakṣyati--- na tad asti vinā yat syān mayā bhūtaṁ carācaram [gītā 10.39] iti sarveṣāṁ svenāvinā-bhāva-vacanāt| avinā-bhāvaś caniyāmyatayeti mattaḥ sarvaṁ pravartate [gītā 10.8] ity upakramoditam|
Link copiedādityānām ahaṁ viṣṇur jyotiṣāṁ ravir aṁśumān|
Link copiedmarīcir marutām asmi nakṣatrāṇām ahaṁ śaśī||21||
Link copieddvādaśa-saṅkhyā-saṅkhyātānām ādityānāṁ dvādaśo ya utkṛṣṭe viṣṇur nāmādityaḥ so'ham| jyotiṣāṁ jagati prakāśakānāṁ yo'ṁśumān ravir āditya-gaṇaḥ so'ham| marutām utkṛṣṭe marīcir yaḥ so'ham asmi| nakṣatrāṇām ahaṁ śaśī| neyaṁ nirdhāraṇe ṣaṣṭhī| bhūtānām asmi cetanetivat nakṣatrāṇāṁ patir yaś candraḥ so'ham asmi||10.21||
Link copiedvedānāṁ sāma-vedo'smi devānām asmi vāsavaḥ|
Link copiedindriyāṇāṁ manaś cāsmi bhūtānām asmi cetanā||22||
Link copiedvedānām ṛg-yajuḥ-sāmātharvaṇāṁ ya utkṛṣṭaḥ sāma-vedaḥ so'haṁ devānām indro'ham asmi| ekādaśānām indriyāṇāṁ yad utkṛṣṭaṁ mana indriyaṁ tad aham asmi| iyam api na nirdhāraṇe--- bhūtānāṁ cetanāvatāṁ yā cetanā sā aham asmi||10.22||
Link copiedrudrāṇāṁ śaṅkaraś cāsmi vitteśo yakṣa-rakṣasām|
Link copiedvasūnāṁ pāvakaścāsmi meruḥ śikhariṇām aham||23||
Link copiedrudrāṇām ekādaśānāṁ śaṅkaro'ham asmi| yakṣa-rakṣasāṁ vaiśravaṇo'ham, vasūnām aṣṭanāṁ pāvako'ham| śikhariṇāṁ śikhara-śobhināṁ parvatānāṁ madhye merur aham||10.23||
Link copiedpurodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim|
Link copiedsenānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ||24||
Link copiedpurodhasām utkṛṣṭe bṛhaspatir yaḥ so'ham asmi| senātīnāṁ senāpatīnāṁ skando'ham asmi, sarasāṁ sāgaro'ham asmi||10.24||
Link copiedmaharṣīṇāṁ bhṛgur ahaṁ girām asmy ekam akṣaram|
Link copiedyajñānāṁ japa-yajño'smi sthāvarāṇāṁ himālayaḥ||25||
Link copiedmaharṣīṇāṁ marīcy-ādīnāṁ bhṛgur aham| arthābhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṁ praṇavo'ham asmi| yajñānām utkṛṣṭo japa-yajño'smi, parvata-mātrāṇāṁ himavān aham||10.25||
Link copiedaśvatthaḥ sarva-vṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ|
Link copiedgandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ||26||
Link copiedsarva-vṛkṣāṇāṁ madhye pūjyo'śvattha evāham| devarṣīṇāṁ madhye parama-vaiṣṇavo nārado'ham asmi| gandharvāṇāṁ deva-gāyakānāṁ madhye citraratho'smi| siddhānāṁ yoga-niṣṭhānāṁ paramopāsyaḥ kapilo'ham||10.26||
Link copieduccaiḥśravasam aśvānāṁ viddhi mām amṛtodbhavam|
Link copiedairāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam||27||
Link copiedsarveṣām aśvānāṁ madhye'mṛta-mathanodbhavam uccaiḥśravasaṁ māṁ viddhi| gajendrāṇāṁ sarveṣāṁ madhye'mṛta-mathanodbhavam airāvataṁ māṁ viddhi| amṛtodbhavam ity airāvatasyāpi viśeṣaṇam| narāṇāṁ madhye rājānaṁ māṁ viddhi||10.27||
Link copiedāyudhānām ahaṁ vajraṁ dhenūnām asmi kāma-dhuk|
Link copiedprajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ||28||
Link copiedāyudhānāṁ madhye vajraṁ tad aham| dhenūnāṁ havir dughānāṁ madhye kāma-dhuk, divyā surabhiḥ| prajanaḥ janana-hetuḥ kandarpaś cāham asmi| sarpāḥ eka-śirasas teṣāṁ madhye vāsukir asmi||10.28||
Link copiedanantaś cāsmi nāgānāṁ varuṇo yādasām aham|
Link copiedpitṝṇām aryamā cāsmi yamaḥ saṁyamatām aham||29||
Link copiednāgā bahu-śirasaḥ, yādāṁsi jala-vāsinaḥ, teṣāṁ varuṇo'ham| atrāpi na nirdhāraṇe ṣaṣṭhī, daṇḍāyatāṁ vaivasvato'ham||10.29||
Link copiedprahlādaś cāsmi daityānāṁ kālaḥ kalayatām aham|
Link copiedmṛgāṇāṁ ca mṛgendro'haṁ vainateyaś ca pakṣiṇām||30||
Link copiedanartha-prepsutayā gaṇayatāṁ madhye kālaḥ mṛtyur aham||10.30||
Link copiedpavanaḥ pavatām asmi rāmaḥ śastra-bhṛtām aham|
Link copiedjhaṣāṇāṁ makaraś cāsmi srotasām asmi jāhnavī||31||
Link copiedpavatāṁ gamana-svabhāvānāṁ pavano'ham| śastra-bhṛtāṁ rāmo'ham| śastra-bhṛttvam atra vibhūtiḥ, arthāntarābhāvāt| ādityādayaś ca kṣetra-jñā ātmatvenāvasthitasya bhagavataḥ śarīratayā dharma-bhūtā iti śastra-bhṛttva-sthānīyāḥ||10.31||
Link copiedsargāṇām ādir antaś ca madhyaṁ caivāham arjuna|
Link copiedadhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham||32||
Link copiedsṛjyanta iti sargāḥ, teṣām ādiḥ kāraṇam| sarvadā sṛjyamānānāṁ sarveṣāṁ prāṇināṁ tatra tatra sraṣṭāro'ham evety arthaḥ| tathāntaḥ sarvadā saṁhriyamāṇānāṁ tatra tatra saṁhartāro'py aham eva| tathā ca madhyaṁ pālanaṁ sarvadā pālyamānānāṁ pālayitāraś cāham evety arthaḥ| śreyaḥ-sādhana-bhūtānāṁ vidyānāṁ madhye parama-niḥśreyasa-sādhana-bhūtā adhyātma-vidyāham asmi| jalpa-vitaṇḍādi kurvatāṁ tattva-nirṇayāya pravṛtto vādo yaḥ so'ham||10.32||
Link copiedakṣarāṇām akāro'smi dvandvaḥ sāmāsikasya ca|
Link copiedaham evākṣayaḥ kālo dhātāhaṁ viśvato-mukhaḥ||33||
Link copiedakṣarāṇāṁ madhye a-kāro vai sarvā vāk [Ai.Pū. 3.6] iti śruti-siddhaḥ, sarva-varṇānāṁ prakṛtir a-kāro'ham| sāmāsikaḥ samāsa-samūhaḥ| tasya madhye dvandva-samāso'ham| sa hy ubhaya-padārtha-pradhānatvenotkṛṣṭaḥ| kalā-muhūrtādi-mayo'kṣayaḥ kālo'ham eva| sarvasya sraṣṭa hiraṇyagarbhaś caturmukho'ham||10.33||
Link copiedmṛtyuḥ sarva-haraś cāham udbhavaś ca bhaviṣyatām|
Link copiedkīrtiḥ śrīr vāk ca nārīṇāṁ smṛtir medhā dhṛtiḥ kṣamā||34||
Link copiedsarva-prāṇa-haro mṛtyuś cāham| utpatsyamānānām udbhavākhyaṁ karma cāham, nārīṇāṁ śrīr ahaṁ kīrtiś cāhaṁ vāk cāhaṁ smṛtiś cāhaṁ medhā cāhaṁ dhṛtiś cāhaṁ kṣamā cāham||10.34||
Link copiedbṛhat-sāma tathā sāmnāṁ gāyatrī chandasām aham|
Link copiedmāsānāṁ mārgaśīrṣo'ham ṛtūnāṁ kusumākaraḥ||35||
Link copiedsāmnāṁ bṛhat-sāmāham| chandasāṁ gāyatrīm aham| ṛtūnāṁ kusumākaro vasantaḥ||10.35||
Link copieddyūtaṁ chalayatām asmi tejas tejasvinām aham|
Link copiedjayo'smi vyavasāyo'smi sattvaṁ sattvavatām aham||36||
Link copiedchalaṁ kurvatāṁ chalāspadeṣv akṣādi-lakṣaṇaṁ dyūtam aham| jetṝṇāṁ jayo'smi| vyavasāyināṁ vyavasāyo'smi| sattvatāṁ sattvaṁ mahā-manastvam||10.36||
Link copiedvṛṣṇīnāṁ vāsudevo'smi pāṇḍavānāṁ dhanañjayaḥ|
Link copiedmunīnām apy ahaṁ vyāsaḥ kavīnām uśanā kaviḥ||37||
Link copiedvasudeva-sūnutvam atra vibhūtiḥ, arthāntarābhāvād eva| pāṇḍāvānāṁ dhanañjayo 'rjuno 'ham| munayo mananenārtha-yāthātmya-darśinaḥ, teṣāṁ vyāso'ham| kavayo vipaścitaḥ||10.37||
Link copieddaṇḍo damayatām asmi nītir asmi jigīṣatām|
Link copiedmaunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatām aham||38||
Link copiedniyamātikramaṇe daṇḍāṁ kurvatāṁ daṇḍo'ham| vijigīṣūṇāṁ jayopāya-bhūtā nītir asmi| guhyānāṁ sambandhiṣu gopaneṣu maunam asmi| jñānavatāṁ jñānaṁ cāham||10.38||
Link copiedyac cāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna|
Link copiedna tad asti vinā yat syān mayā bhūtaṁ carācaram||39||
Link copiedsarva-bhūtānāṁ sarvāvasthāvasthitānāṁ tat-tad-avasthā-bīja-bhūtaṁ pratīyamānam apratīyamānaṁ ca yat tad aham eva| carācara-sarva-bhūta-jātaṁ mayātmatayāvasthitena vinā yat syān na tad asti| aham ātmā guḍāakeśa sarva-bhūtāśāya-sthitaḥ [10.20] iti prakramāt| na tad asti vinā yat syān mayā bhūtaṁ carācaram ity atrāpy ātmatayāvasthānam eva vivakṣitam|
Link copiedsarva-vastu-jātaṁ sarvāvasthaṁ mayātma-bhūtena yuktaṁ syād ity arthaḥ| anena sarvasyāsya sāmānādhikaraṇya-nirdeśyasya ātmatayā avasthitir eva hetur iti prakaṭayati||10.39||
Link copiednānto'sti mama divyānāṁ vibhūtīnāṁ parantapa|
Link copiedeṣa tūddeśataḥ prokto vibhūter vistaro mayā||40||
Link copiedmama divyānāṁ kalyāṇīnāṁ vibhūtīnām anto nāsti| eṣa tu vibhūter vistaro mayā kaiścid upādhibhiḥ saṅkṣepataḥ proktaḥ||10.40||
Link copiedyad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā|
Link copiedtat tad evāvagaccha tvaṁ mama tejo'ṁśa-sambhavam||41||
Link copiedyad yad vibhūtimad īśitavya-sampannaṁ bhūta-jātaṁ śrīmat kāntimad dhana-dhānya-samṛddhaṁ vā ūdrjitaṁ kalyāṇārambheṣūdyuktaṁ tat tan mama tejo'ṁśa-sambhavam ity avagaccha||10.41||
Link copiedtejaḥ parābhibhavana-sāmarthyam, mamācintya-śakter niyamana-śaktyaika-deśa-sambhavam ity arthaḥ|
Link copiedatha vā bahunaitena kiṁ jñātena tavārjuna|
Link copiedviṣṭabhyāham idaṁ kṛtsnam ekāṁśena sthito jagat||42||
Link copiedbahunā aitena ucyamānena jñānena kiṁ prayojanam| idaṁ cid-acid-ātmakaṁ kṛtsnaṁ jagat kāryāvasthaṁ kāraṇāvasthaṁ sthūlaṁ sūkṣmaṁ ca svarūpa-sad-bhāve sthitau pravṛtti-bhede ca yathā mat-saṅkalpaṁ nātivarteta tathā mama mahimno'yutāyutāṁśena viṣṭabhyāham avasthitaḥ| yathoktaṁ bhagavatā parāśareṇa--- yasyāyutāyutāṁśāṁśe viśva-śaktir iyaṁ sthitā [vi.pu. 1.9.53] iti||10.42||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye daśamo'dhyāyaḥ ||10||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 10 — The Book of Divine Glories (in Sanskrit: Vibhūti-Vistāra-Yoga)
Having described bhakti and its requirements in Lecture IX, this chapter expounds the infinity of the Lord's glories (vibhūti) — His inviolable Sovereignty and His ensouling of the cosmos — so that love for Him may be kindled and fanned. To know Him through His glories is to be drawn toward Him in devotion.
Link copiedVerses 1–3 (The majesty beyond the gods)
Verse 10.1. — "Hear, O mighty-armed, My sublime speech, which I shall again declare for your good, My beloved."
Link copiedArjuna is beloved because he delights in hearing the Lord's greatness. To awaken and fan the flame of loving devotion in him, the Lord once more declares His amplified glory.
Link copiedVerse 10.2. — "Neither the hosts of Suras nor the Maharṣis know My greatness, for I am, in every way, prior to devas and maharṣis."
Link copiedEven the Suras and Maharṣis — capable of super-sensuous perception — do not know the divine nature of His titles, deeds, essence, and attributes. Their intelligence is merely the measure of their merit which He Himself awards; limited as they are, they cannot gauge Him.
Link copiedVerse 10.3. — "He who knows Me as the Birthless, the Beginningless, the Great Lord of the cosmos, — he among mortals is free from delusion and delivered from all sin."
Link copiedAjaḥ — Birthless — distinguishes the Lord from both changeful matter and bound souls. Anādi — Beginningless — distinguishes Him from liberated souls, who, though birthless, had a beginning to their liberated state. He alone occupies a position antithetical to evil, never associated with it. The loka-maheśvara is the Over-lord of all subordinate lords. The devotee who does not imagine the Lord to be like other beings is delivered from all sins that obstruct God-love.
Link copiedVerses 4–6 (Mental dispositions and the creators all derive from the Lord)
Verses 10.4–5. — "Decision, Knowledge, Disillusion, Forgiveness, Truthfulness, Self-government, Self-restraint; Happiness and Affliction; Geniality and Non-geniality, Dread and Non-dread; Harmlessness, Equanimity, Amiability, Austerity, Beneficence, Fame and Notoriety — all these diverse states of beings arise from Me alone."
Link copiedBuddhi (judgment), jñāna (correct knowledge), asammoha (right conception), kṣamā (forgiveness), satya (truthfulness), dama (control of outer senses), śama (restraint of the mind), sukha (joy), duḥkha (suffering), bhava and abhava (elation and depression), bhaya and abhaya (fear and fearlessness), ahiṁsā, samatā, tuṣṭi, tapas, dāna, yaśas, ayaśas — all these humors and temperaments arise from His willing.
Link copiedVerse 10.6. — "The Seven Maharṣis, the Four ancient Manus, partaking of My nature, were mind-born; from them came all this progeny of the world."
Link copiedThe Seven — Bhṛgu and the rest — and the Four Manus, born from Brahmā's mind, create and sustain their offspring every moment until the eve of cosmic dissolution. They are after the Lord's own mind.
Link copiedVerses 7–11 (The fruit of knowing His vibhūti and yoga)
Verse 10.7. — "Whoever truly knows this vibhūti (glory) and yoga (assemblage of divine attributes) of Mine is linked to Me in unwavering bhakti-yoga. No doubt of this."
Link copiedVibhūti is His universal sovereignty as seen in creation, sustenance, and dissolution, all depending on Him. Yoga is the consensus of all His glorious attributes, free from every flaw.
Link copiedVerse 10.8. — "I am the Origin of all; from Me operates everything. So the wise comprehend Me, and with thoughts imbued with devotion worship Me."
Link copiedVerse 10.9. — "Their thoughts riveted on Me, their lives nestled in Me, they ever enlighten one another about Me and converse of Me; thus they are content and exultant."
Link copiedThey fix their thoughts on the Lord and their very breath depends on Him. They reciprocate experiences of His attributes; recount His divine deeds; delight in each other's company. Their conversation itself is a completeness; hearing of Him causes rapturous joy.
Link copiedVerse 10.10. — "To them, ever intent, worshipping in love, I give that illumined understanding (buddhi-yoga) by which they may come to Me."
Link copiedVerse 10.11. — "Out of pure compassion for them, O Partha, I enter the course of their thoughts and destroy ignorance-born darkness with the radiant light of wisdom."
Link copiedHe is present in their mind-functions as their chief Object, making manifest His blessed attributes. His shining in their thoughts dispels the darkness of past karma.
Link copiedVerses 11½–18 (Arjuna's adoration and request for fuller glory)
Verse 10.11½. — "You are the Supreme-Great (Paraṁ-Brahma), the Supernal Light (Paraṁ-Dhāma), the Superbly Holy (Paramaṁ-Pavitram)."
Link copiedThe Upaniṣads proclaim Him as Para-brahma — the source of all beings; as Paraṁ-dhāma — the Supernal Light shining above all; as Paramaṁ-Pavitram — who purifies the devotee of all sins past and future. Nārāyaṇa is Parabrahma, the Highest Truth, the Supreme Light, the Paramount Self.
Link copiedVerse 10.12. — "Spirit eternal, Divine, First Lord, Birthless, All-pervading —"
Link copiedVerse 10.13. — "— so do all the Ṛṣis declare You, and Devarṣi Nārada, Asita, Devala, Vyāsa. Yourself have declared it to me."
Link copiedVerse 10.14. — "All that You tell me I take to be true, O Keśava; for neither devas nor dānavas, Lord, understand Your manifestations."
Link copiedVerse 10.15. — "O Puruṣottama! Source of beings! Lord of beings! God of gods! King of the universe! — You alone know Yourself by Yourself."
Link copiedEven as devas excel men in virtue, beauty, and habit, so You excel the devas.
Link copiedVerse 10.16. — "You alone can tell Your glories — glories by which You abide, pervading all these worlds."
Link copiedVerse 10.17. — "How shall I, a yogī, know You by constant meditation? In what forms, O Lord, are You to be meditated on?"
Link copiedVerse 10.18. — "In detail, Janārdana, recount once more Your yoga and Your vibhūti. To me, listening to the nectar of Your words, there is no satiety."
Link copiedVerse 19 (The Lord's response: a sketch of the endless)
Verse 10.19. — "So be it, chief of the Kurus; I shall unfold to you My glories in their salient points. There is no end to My infinity."
Link copiedA few prominent glories alone will be named, for they are inexhaustible.
Link copiedVerses 20–42 (The catalogue of divine glories)
Verse 10.20. — "I am the Soul, O Guḍākeśa, seated in the hearts of all beings. I am the Beginning, the Middle, and the End of all creatures."
Link copiedHe is seated as the Self (ātman) in the hearts of all — which are His body. To be the Soul is to be, in every way, the Support, the Ruler, the Master. The Upaniṣads chant: "He who is seated in all beings, innermost to all, whom beings know not, of whom beings are the body — He is your ātman, the Inner Ruler (antaryāmin), Immortal." He is the cause of the evolution, persistence, and dissolution of all.
Link copiedVerse 10.21. — "Of the Ādityas I am Viṣṇu; of luminaries, the radiant Sun; of the Maruts, I am Marīci; of the stars, I am the Moon."
Link copiedVerse 10.22. — "Of the Vedas, I am the Sāma-Veda; of the devas, Indra; of the senses, the mind (manas); of beings, I am intelligence."
Link copiedVerse 10.23. — "Of the Rudras, I am Śaṅkara; of the Yakṣas and Rākṣasas, I am Vitteśa (Kubera); of the Vasus, I am Pāvaka (Fire); of the mountains, I am Meru."
Link copiedVerse 10.24. — "Of household priests, know Me to be the chief, Bṛhaspati; of commanders, I am Skanda; of reservoirs of water, I am the Ocean."
Link copiedVerse 10.25. — "Of Maharṣis, I am Bhṛgu; of speech, the monosyllable Om; of sacrifices, I am the sacrifice of japa; of the stationary, the Himālaya."
Link copiedVerse 10.26. — "Of trees, I am the Aśvattha; of Devarṣis, Nārada; of Gandharvas, Citraratha; of the accomplished (siddhas), the sage Kapila."
Link copiedVerse 10.27. — "Of horses, know Me as Ucchaiḥśravas, born from the nectar-churning; of royal elephants, Airāvata; and of men, the king."
Link copiedVerse 10.28. — "Of weapons, I am the Vajra; of cows, Kāmadhuk; the procreator Kandarpa, I am; of serpents, Vāsuki."
Link copiedVerse 10.29. — "Of Nāgas, I am Ananta; of aquatic beings, Varuṇa; of Pitṛs, Aryamā; of judges, Yama."
Link copiedVerse 10.30. — "Of the Daityas, I am Prahlāda; of reckoners, I am Time; of animals, the lion; of birds, Vainateya (Garuḍa)."
Link copiedVerse 10.31. — "Of fluids (purifiers), I am Pavana (the wind); of wielders of weapons, I am Rāma; of fish, the dolphin; of rivers, the Jāhnavī (Gaṅgā)."
Link copiedUnlike indirect manifestations, Rāma here is a direct incarnation. Rāma Himself is the Lord; the manifested aspect indicated is the wielding of weapons.
Link copiedVerse 10.32. — "I am the Beginning, the End, and the Middle of creation, O Arjuna. Of sciences, I am the Science of the Self; of debaters, the right argument (vāda)."
Link copiedVāda is right argument aimed at truth, distinguished from mere wrangling (jalpa) or carping (vitaṇḍā).
Link copiedVerse 10.33. — "Of letters, I am A; of compounds, the dvandva. I am the perishless Time. I am the all-faced Dhātṛi."
Link copiedA is the root of all speech, as the Vedas declare. Dvandva is the compound in which both terms have equal grammatical value. Dhātṛi is Hiraṇyagarbha, the four-faced Creator.
Link copiedVerse 10.34. — "I am all-seizing Death and the Origin of things to come; of feminine virtues, I am Fame, Prosperity, Speech, Memory, Intellect, Courage, and Forbearance."
Link copiedVerse 10.35. — "Of Sāma-chants, I am the Bṛhat-Sāma; of metres, Gāyatrī; of months, Mārgaśīrṣa; of seasons, the flowery season (Spring)."
Link copiedVerse 10.36. — "Of deceivers, I am the gambling; of the splendid, the splendor; I am victory; I am effort; I am the goodness of the good."
Link copiedVerse 10.37. — "Of the Vṛṣṇis, I am Vāsudeva; of the Pāṇḍavas, Dhanañjaya (Arjuna); of sages, I am Vyāsa; of seers, Uśanas."
Link copiedThe being the son of Vasudeva is the manifested expression; Vāsudeva Himself is the Lord direct.
Link copiedVerse 10.38. — "Of punishers, I am the Rod; of aspirants for success, I am polity; of secrets, I am silence; of the wise, I am wisdom."
Link copiedVerse 10.39. — "What is the seed of all things, O Arjuna, that I am. Nothing movable or immovable can exist without Me."
Link copiedWhat the seed — or soul — is in all things in any condition, manifest or unmanifest, He is that. Nothing exists as separate from Him ensouling it.
Link copiedVerse 10.40. — "There is no end, O Parantapa, to My divine glories. What I have given is a mere summary."
Link copiedVerse 10.41. — "Whatever is glorious, prosperous, or powerful — know that as sprung from a mere fraction of My glory."
Link copiedWhatever manifests majesty, prosperity, or eclat — know it as a fragment of His directive Power from out of His inconceivable Power.
Link copiedVerse 10.42. — "But what use is this vast detail to you, O Arjuna? Abiding in it, I uphold this entire cosmos with but a fraction of Myself."
Link copiedWhether in subtle unmanifest state or gross manifest, whether in essence or perpetuity, whether in its ramifications — this universe, compound of cit and acit, is planned never to overstep His will. It is upheld by but the ten-thousandth of a ten-thousandth part of His transcendent power. As Bhagavān Parāśara declared, this cosmic force is but the ten-thousandth of a ten-thousandth.
Link copiedThus closes the tenth discourse, named Vibhūti-Vistāra-Yoga — the Book of Divine Glories.
Link copied