Bhagavad Gita Bhashya · Section 10 of 19
atha navamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
उपासक-भेद-निबन्धना विशेषाः प्रतिपादिताः। इदानीम् उपास्यस्य परम-पुरुषस्य माहात्म्यꣳ। ज्ञानिनाꣳ च विशेषꣳ विशोध्य भक्ति-रूपस्योपासनस्य स्वरूपम् उच्यते---
Link copiedइदꣳ तु ते गुह्यतमꣳ प्रवक्ष्याम्य् अनसूयवे।
Link copiedज्ञानꣳ विज्ञान-सहितꣳ यज् ज्ञात्वा मोक्ष्यसेऽशुभात्॥१॥
Link copiedइदꣳ तु ते गुह्यतमꣳ भक्ति-रूपम् उपासनाख्यꣳ ज्ञानꣳ। विज्ञान-सहितम् उपासन-गति-विशेष-ज्ञान-सहितम्। अनसूयवे ते प्रवक्ष्यामि। मद्-विषयꣳ सकलेतर-विसजातीयम् अपरिमित-प्रकारꣳ माहात्म्यꣳ श्रुत्वा एवम् एव सम्भवतीति मन्वानाय ते प्रवक्ष्यामीत्य् अर्थः। यज् ज्ञानम् अनुष्ठान-पर्यन्तꣳ ज्ञात्वा मत्-प्राप्ति-विरोधिनः सर्वस्माद् अशुभान् मोक्ष्यसे॥९।१॥
Link copiedराज-विद्या राज-गुह्यꣳ पवित्रम् इदम् उत्तमम्।
Link copiedप्रत्यक्षावगमꣳ धर्म्यꣳ सुसुखꣳ कर्तुम् अव्ययम्॥२॥
Link copiedराज-विद्या विद्यानाꣳ राजा राज-गुह्यꣳ गुह्यानाꣳ राजा। राज्ञाꣳ विद्येति वा राज-विद्या, राजानो हि विस्तीर्णागाध-मनसः, महा-मनसाम् इयꣳ विद्या इत्य् अर्थः। महा-मनस एव गोपनीय-गोपन-कुशला इति तेषाम् एव गुह्यम् इदम्। उत्तमꣳ पवित्रꣳ मत्-प्राप्ति-विरोध्य्-अशेष-कल्मषापहꣳ प्रत्यक्षावगमम्। अवगम्यत इत्य् अवगमो विषयः। प्रत्यक्ष-भूतोऽवगमो विषयो यस्य ज्ञानस्य तत् प्रत्यक्षावगमम्। भक्ति-रूपेणोपासनेन उपास्यमानोऽहꣳ तदानीम् एव उपासितुः प्रत्यक्षताम् उपागतो भवामीत्य् अर्थः।
Link copiedअथापि धर्म्यꣳ धर्माद् अनपेतꣳ धर्मत्वꣳ हि निःश्रेयस-साधनत्वम्। स्वरूपेण एवात्यर्थ-प्रियत्वेन तदानीम् एव मद्-दर्शनापादनतया च स्वयꣳ निःश्रेयस-रूपम् अपि निरतिशय-निःश्रेयस-रूपात्यन्तिक-मत्-प्राप्ति--साधनम् इत्य् अर्थः। अत एव सुसुखꣳ कर्तुꣳ सुसुखोपादानम्, अत्यर्थप्रियत्वेन उपादेयम्। अव्ययम् अक्षयꣳ मत्-प्राप्तिꣳ साधयित्वापि स्वयꣳ न क्षीयते। एवꣳ-रूपम् उपासनꣳ कुर्वतो मत्-प्रदाने कृतेऽपि न किञ्चित् कृतꣳ मयास्येति मे प्रतिभातीत्य् अर्थः॥९।२॥
Link copiedअश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।
Link copiedअप्राप्य माꣳ निवर्तन्ते मृत्यु-सꣳसार-वर्त्मनि॥३॥
Link copiedअस्योपासनाख्यस्य धर्मस्य निरतिशय-प्रिय-मद्-विषयतया स्वयꣳ निरतिशय-प्रिय-रूपस्य परम-निःश्रेयस-स्वरूप-मत्-प्राप्ति-साधनस्याव्ययस्य उपादान-योग्य-दशाꣳ प्राप्याश्रद्दधाना विश्वास-पूर्वक-त्वारा-रहिताः पुरुषा माम् अप्राप्य मृत्यु-रूपे सꣳसार-वर्त्मनि नितराꣳ वर्तन्ते। अहो ! महद् इदम् आश्चर्यम् इत्य् अर्थः॥९।३॥
Link copiedशृणु तावत् प्राप्य-भूतस्य ममाचिन्त्य-महिमानम्---
Link copiedमया ततम् इदꣳ सर्वꣳ जगद् अव्यक्त-मूर्तिना।
Link copiedमत्-स्थानि सर्व-भूतानि न चाहꣳ तेष्व् अवस्थितः॥४॥
Link copiedइदꣳ चेतनाचेतनात्मकꣳ कृत्स्नꣳ जगद् अव्यक्त-मूर्तिनाप्रकाशित-स्वरूपेण मयान्तर्यामिणा ततम्। अस्य जगतो धारणार्थꣳ नियमनार्थम् च शेषित्वेन व्याप्तम् इत्य् अर्थः। यथा अन्तर्यामि-ब्राह्मणे यः पृथिव्याꣳ तिष्ठन् \॥। यꣳ पृथिवी न वेद [बृ।आ।उ। ३।७।३] य आत्मनि तिष्ठन् \॥। यम् आत्मा न वेद [शत्ब्र् १४।६।५।५।३०] इति चेतनाचेतन-वस्तु-जातैर् अदृष्टेनान्तर्यामिणा तत्र तत्र व्याप्तिर् उक्ता।
Link copiedततो मत्-स्थानि सर्व-भूतानि सर्वाणि भूतानि मय्य् अन्तर्यामिणि स्थितानि, तत्रैव ब्राह्मणे यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयति [बृ।आ।उ। ३।७।३], यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति [शत्ब्र् १४।६।६।५।३०] इति शरीरत्वेन नियाम्यत्व-प्रतिपादनात्। तदायत्ते स्थिति-नियमने प्रतिपादिते शेषित्वꣳ च, न चाहꣳ तेष्व् अवस्थितोऽहꣳ तु न तदायत्त-स्थितिः। मत्-स्थितौ तैर् न कश्चिद् उपकार इत्य् अर्थः॥९।४॥
Link copiedन च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम्।
Link copiedभूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः॥५॥
Link copiedन च मत्-स्थानि भूतानि न घटदीनाꣳ जलादेर् इव मम धारकत्वम्। कथम्। मत्-सङ्कल्पेन। पश्य ममैश्वरꣳ योगम्। अन्यत्र कुत्रचिद् असम्भवनीयꣳ मद्-असाधारणम् आश्चर्यꣳ योगꣳ पश्य। कोऽसौ योगः। भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः। सर्वेषाꣳ भूतानाꣳ भर्ताहꣳ न च तैः कश्चिद् अपि ममोपकारः। ममात्मैव भूत-भावनः। मम मनो-मयः सङ्कल्प एव भूतानाꣳ भावयिता धारयिता नियन्ता च॥९।५॥
Link copiedसर्वस्यास्य स्व-सङ्कल्पायत्त-स्थिति-प्रवृत्तित्वे निदर्शनम् आह---
Link copiedयथाकाश-स्थितो नित्यꣳ वायुः सर्वत्र-गो महान्।
Link copiedतथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय॥६॥
Link copiedयथाकाशेऽनालम्बने महान् वायुः स्थितः सर्वत्र गच्छति। स तु वायुर् निरालम्बनो मद्-आयत्त-स्थितिर् इत्य् अवश्याभ्युपगमनीयो मयैव धृत इति विज्ञायते, तथैव सर्वाणि भूतानि तैर् अदृष्टो मयि स्थितानि मयैव धृतानीत्य् उपधारय।
Link copiedयथाहुः वेद-विदः--- मेघोदयः सागर-सन्निवृत्तिर् इन्दोर् विभागः स्फुरितानि वायोः। विद्युद्-विभङ्गो गतिर् उष्ण-रश्मेर् विष्णोर् विचित्राः प्रभवन्ति मायाः॥ इति विष्णोर् अनन्य-साधारणानि महाश्चर्याणीत्य् अर्थः। श्रुतिर् अपि--- एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृ।आ।उ। ३।८।९]
Link copiedभीषास्माद् वातः पवते भीषोदेति सूर्यः।
Link copiedभीषास्माद् अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः [तै।उ। २।८।१]
Link copiedइत्य्-आदिका॥९।६॥
Link copiedसकलेतर-निरपेक्षस्य भगवतः सङ्कल्पात् सर्वेषाꣳ स्थितिः प्रवृत्तिश् चोक्तास् तथा तत्-सङ्कल्पाद् एव सर्वेषाम् उत्पत्ति-प्रलयव् अपि, इत्य् आह---
Link copiedसर्व-भूतानि कौन्तेय प्रकृतिꣳ यान्ति मामिकाम्।
Link copiedकल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्॥७॥
Link copiedस्थावर-जङ्गमात्मकानि सर्वाणि भूतानि मामिकाꣳ मच्-छरीर-भूताꣳ प्रकृतिꣳ तमः-शब्द-वाच्याꣳ नाम-रूप-विभागानर्हाꣳ कल्प-क्षये चतुर्-मुखावसान-समये मत्-सङ्कल्पाद् यान्ति। तान्य् एव भूतानि कल्पादौ पुनर् विसृजाम्य् अहम्। यथाह मनुः--- आसीद् इदꣳ तमो-भूतम् [मनु १।५] सोऽभिध्याय शरीरात् स्वात् [मनु १।८] इति श्रुतिर् अपि--- यस्याव्यक्तꣳ शरीरम् [सु।उ। ७] इत्य्-आदिका, अव्यक्तम् अक्षरे लीयतेऽक्षरꣳ तमसि लीयते, तमः परे देवे एकीभवति [सु।उ। २] तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [ऋग्।वे। ८।७।१७।३] इति च॥९।७॥
Link copiedप्रकृतिꣳ स्वाम् अवष्टभ्य विसृजामि पुनः पुनः।
Link copiedभूत-ग्रामम् इमꣳ कृत्स्नम् अवशꣳ प्रकृतेर् वशात्॥८॥
Link copiedस्वकीयाꣳ विचित्र-परिणामिनीꣳ प्रकृतिम् अवष्टभ्याष्टधा परिणमय्य इमꣳ चतुर्-विधꣳ देव-तिर्यङ्-मनुष्य-स्थावरात्मकꣳ भूत-ग्रामꣳ मदीयाया मोहिन्याः गुण-मय्याः प्रकृतेः वशाद् अवशꣳ पुनः पुनः काले काले विसृजामि॥९।८॥
Link copiedएवꣳ तर्हि विषम-सृष्ट्य्-आदीनि कर्माणि नैर्घृण्याद्य्-आपादनेन भगवन्तꣳ बध्नन्तीति। अत्राह---
Link copiedन च माꣳ तानि कर्माणि निबध्नन्ति धनञ्जय।
Link copiedउदासीनवद् आसीनम् असक्तꣳ तेषु कर्मसु॥९॥
Link copiedन च तानि विषम-सृष्ट्य्-आदीनि कर्माणि माꣳ निबध्नन्ति मयि नैर्घृण्यादिकꣳ नापादयन्ति, यतः क्षेत्र-ज्ञानाꣳ पूर्व-कृत्यान्य् एव कर्माणि देवादि-विषम-भाव-हेतवः। अहꣳ तु तत्र वैषम्येऽसक्तस् तत्र उदासीनवद् आसीनः। यथाह सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] न कर्माविभागाद् इति चेन् नानादित्वात् [वे।सू। २।१।३५] इति॥९।९॥
Link copiedमयाध्यक्षेण प्रकृतिः सूयते स-चराचरम्।
Link copiedहेतुनानेन कौन्तेय जगद् विपरिवर्तते॥१०॥
Link copiedतस्मात् क्षेत्रज्ञ-कर्मानुगुणꣳ मदीया प्रकृतिः सत्य-सङ्कल्पेन मयाध्यक्षेणेक्षिता स-चराचरꣳ जगत् सूयते, अनेन क्षेत्रज्ञ-कर्मानुगुण-मद्-ईक्षणेन हेतुना जगद् विपरिवर्तते। इति मत्-स्वाम्यꣳ सत्य-सङ्कल्पत्वꣳ नैर्घृण्यादि-दोष-रहितत्वम् इत्य् एवम् आदिकꣳ मम वसुदेव-सूनोर् ऐश्वरꣳ योगꣳ पश्य। यथा श्रुतिः---
Link copiedअस्मान् मायी सृजते विश्वम् एतत्
Link copiedतस्मिꣳश् चान्यो मायया सन्निरूद्धः।
Link copiedमायाꣳ तु प्रकृतिꣳ विद्यान्
Link copiedमायिनꣳ तु महेश्वरम्॥ [श्वे।उ। ४।९-१०] इति॥९।१०॥
Link copied
अवजानन्ति माꣳ मूढा मानुषीꣳ तनुम् आश्रितम्।
Link copiedपरꣳ भावम् अजानन्तो मम भूत-महेश्वरम्॥११॥
Link copiedएवꣳ माꣳ भूत-महेश्वरꣳ सर्वज्ञꣳ सत्य-सङ्कल्पꣳ निखिल-जगद्-एक-कारणꣳ परम-कारुणिकतया सर्व-समाश्रयणीयत्वाय मानुषीꣳ तनुम् आश्रितꣳ स्व-कृतैः पाप-कर्मभिर् मूढा अवजानन्ति--- प्राकृत-मनुष्य-समꣳ मन्यन्ते। भूत-महेश्वरस्य ममापार-कारुण्यौदार्य-सौशील्य-वात्सल्यादि-निबन्धनꣳ मनुष्यत्व-समाश्रयण-लक्षणम् इमꣳ परꣳ भावम् अजानन्तो मनुष्यत्व-समाश्रयण-मात्रेण माम् इतर-सजातीयꣳ मत्वा तिरस्कुर्वन्तीत्य् अर्थः॥९।११॥
Link copiedमोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः।
Link copiedराक्षसीम् आसुरीꣳ चैव प्रकृतिꣳ मोहिनीꣳ श्रिताः॥१२॥
Link copiedमम मनुष्यत्वे परम-कारुण्यादि-परत्व-तिरोधान-करीꣳ राक्षसीम् आसुरीꣳ च मोहिनीꣳ प्रकृतिम् आश्रिताः, मोघाशाः मोघ-वाञ्छिता निष्फल-वाञ्छिताः, मोघ-कर्माणो मोघारम्भाः। मोघ-ज्ञानाः सर्वेषु मदीयेषु चराचरेष्व् अर्थेषु मयि च विपरीत-ज्ञानतया निष्फल-ज्ञानाः। विचेतसस् तथा सर्वत्र विगत-याथात्म्य-ज्ञानाः, माꣳ सर्वेश्वरम् इतर-समꣳ मत्वा मयि यत् कर्तुम् इच्छन्ति, यद् उद्दिश्य आरम्भान् कुर्वते, तत् सर्वꣳ मोघꣳ भवतीत्य् अर्थः॥९।१२॥
Link copiedमहात्मानस् तु माꣳ पार्थ दैवीꣳ प्रकृतिम् आश्रिताः।
Link copiedभजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम्॥१३॥
Link copiedये तु स्व-कृतैः पुण्य-सचयैर् माꣳ शरणम् उपगम्य विध्वस्त-समस्त-पाप-बन्धा दैवीꣳ प्रकृतिम् आश्रिताः महात्मानस् ते, भूतादिम् अव्ययꣳ वाङ्-मानसागोचर-नाम-कर्म-स्वरूपꣳ परम-कारुणिकतया साधु-परित्राणाय मनुष्यत्वेनावतीर्णꣳ माꣳ ज्ञात्वा अनन्य-मनसः माꣳ भजन्ते। मत्-प्रियत्वातिरेकेण मद्-भजनेन विना मनसश् चात्मनश् च बाह्य-करणानाꣳ च धारणम् अलभमानाः, मद्-भजनैक-प्रयोजना भजन्ते॥९।१३॥
Link copiedसततꣳ कीर्तयन्तो माꣳ यतन्तश् च दृढ-व्रताः।
Link copiedनमस्यन्तश् च माꣳ भक्त्या नित्य-युक्ता उपासते॥१४॥
Link copiedअत्यर्थꣳ मत्-प्रियत्वेन मत्-कीर्तन-यतन-नमस्कारैर् विना क्षणाणु-मात्रेऽप्य् आत्म-धारणम् अलभमाना मद्-गुणाविशेष-वाचीनि मन्-नामानि स्मृत्वा पुलकाञ्चित-सर्वाङ्गाः, हर्ष-गद्गद-कण्ठाः श्री-राम-नारायण-कृष्ण-वासुदेवेत्य् एवम् आदीनि सततꣳ कीर्तयन्तस् तथैव यतन्तो मत्-कर्मस्व् अर्चनादिकेषु वन्दन-स्तवन-करणादिकेषु तद्-उपकारकेषु भवन-नन्दन-वन-करणादिकेषु च दृढ-सङ्कल्पा यतमानाः, भक्ति-भारावनमित-मनो-बुद्ध्य्-अभिमान-पद-द्वय-कर-द्वय-शिरोभिर् अष्टङ्गैर् अचिन्तित-पाꣳसु-कर्दम-शर्करादिके धरा-तले दण्डावत् प्रणिपतन्तः, सततꣳ माꣳ नित्य-युक्ता नित्य-योगम् आकाङ्क्षमाणा आत्मवन्तो मद्-दास्य-व्यवसायिन उपासते॥९।१४॥
Link copiedज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते।
Link copiedएकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम्॥१५॥
Link copiedअन्येऽपि महात्मानः पूर्वोक्तैः कीर्तनादिभिर् ज्ञानाख्येन यज्ञेन च यजन्तो माम् उपासते, कथम्। बहुधा पृथक्त्वेन जगद्-आकारेण विश्वतो-मुखꣳ विश्व-प्रकारम् अवस्थितꣳ माम् एकत्वेनोपासते। एतद् उक्तꣳ भवति--- भगवान् वासुदेव एव नाम-रूप-विभागानर्हातिसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः सन् सत्य-सङ्कल्पो विविध-विभक्त-नाम-रूप-स्थूल-चिद्-अचिद्-वस्तु-शरीरः स्याम् इति सङ्कल्प्य, स एक एव देव-तिर्यङ्-मनुष्य-स्थावराख्य-विचित्र-जगच्-छरीरोऽवतिष्ठते इत्य् अनुसन्दधानाश् च माम् उपासते इति॥९।१५॥
Link copiedतथा हि विश्व-शरीरोऽहम् एवावस्थितः, इत्य् आह---
Link copiedअहꣳ क्रतुर् अहꣳ यज्ञः स्वधाहम् अहम् औषधम्।
Link copiedमन्त्रोऽहम् अहम् एवाज्यम् अहम् अग्निर् अहꣳ हुतम्॥१६॥
Link copiedअहꣳ क्रतुर् अहꣳ ज्योतिष्टोमादिक-क्रतुर् अहम् एव यज्ञो महा-यज्ञोऽहम् एव स्वधा पितृ-गण-पुष्टि-दायिनी औषधꣳ हविश् चाहम् एव। अहम् एव च मन्त्रोऽहम् एवाज्यम्। प्रदर्शनार्थम् इदम्, सोमादिकꣳ च हविर् अहम् एवेत्य् अर्थः। अहम् आहवनीयादिकोऽग्निर् होमश् चाहम् एव॥९।१६॥
Link copiedपिताहम् अस्य जगतो माता धाता पितामहः।
Link copiedवेद्यꣳ पवित्रम् ओङ्कार ऋक् साम यजुर् एव च॥१७॥
Link copiedअस्य स्थावर-जङ्गमात्मकस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन धातृत्वेन पितामहत्वेन च वर्तमानोऽहम् एव। अत्र धातृ-शब्दो मातृ-पितृ-व्यतिरिक्ते उत्पत्ति-प्रयोजके चेतन-विशेषे वर्ते। यत् किञ्चिद् वेद-वेद्यꣳ पवित्रꣳ पावनꣳ तद् अहम् एव। वेदकश् च वेद-बीज-भूतः प्रणवोऽहम् एव। ऋक्-साम-यजुर्-आत्मको वेदश् चाहम् एव॥९।१७॥
Link copiedगतिर् भर्ता प्रभुः साक्षी निवासः शरणꣳ सुहृत्।
Link copiedप्रभवः प्रलयः स्थानꣳ निधानꣳ बीजम् अव्ययम्॥१८॥
Link copiedगम्यत इति गतिः, तत्र तत्र प्राप्य-स्थानम् इत्य् अर्थः। भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्-द्रष्ट, निवासो वास-स्थानꣳ च वेश्मादि, शरणम् इष्टस्य प्रापकतयानिष्टस्य निवारणतया समाश्रयणीयश् चेतनः शरणम्, स चाहम् एव सुहृत् हितैषी, प्रभव-प्रलय-स्थानꣳ यस्य कस्यचिद् यत्र कुत्रचित् प्रभव-प्रलययोः यत् स्थानꣳ तद् अहम् एव। निधानꣳ निधीयत इति निधानम्। उत्पाद्यम् उपसꣳहार्यꣳ चाहम् एव इत्य् अर्थः। अव्ययꣳ बीजꣳ तत्र तत्र व्यय-रहितꣳ यत् कारणꣳ तद् अहम् एव॥९।१८॥
Link copiedतपाम्य् अहम् अहꣳ वर्षꣳ निगृह्णाम्य् उत्सृजामि च।
Link copiedअमृतꣳ चैव मृत्युश् च सद् असच् चाहम् अर्जुन॥१९॥
Link copiedअग्न्यादित्य्-आदि-रूपेणाहम् एव तपामि, ग्रीष्मादाव् अहम् एव वर्षꣳ निगृह्णामि तथा वर्षास्व् अपि चाहम् एव उत्सृजामि। अमृतꣳ चैव मृत्युश् च येन जीवति लोको येन च म्रियते, तद् उभयम् अप्य् अहम् एव। किम् अत्र बहुनोक्तेन। सद् असच् चाप्य् अहम् एव। सद् यद् वर्तते, असद् यद् अतीतम् अनागतꣳ च, सर्वावस्थावस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-तत्-प्रकारो ऽहम् एवावस्थित इत्य् अर्थः। एवꣳ बहुधा पृथक्त्वेन विभक्त-नाम-रूपावस्थित-कृत्स्न-जगच्-छरीरतया तत्-प्रकारोऽहम् एवावस्थित इत्य् एकत्व-ज्ञानेनानुसन्दधानाश् च माम् उपासते त एव महात्मानः॥९।१९॥
Link copiedएवꣳ महात्मनाꣳ ज्ञानिनाꣳ भगवद्-अनुभवैक-भोगानाꣳ वृत्तम् उक्त्वा तेषाम् एव विशेषꣳ दर्शयितुम् अज्ञानाꣳ काम-कामानाꣳ वृत्तम् आह---
Link copiedत्रैविद्या माꣳ सोमपाः पूत-पापा
Link copiedयज्ञैर् इष्ट्वा स्वर्-गतिꣳ प्रार्थयन्ते।
Link copiedते पुण्यम् आसाद्य सुरेन्द्र-लोकम्
Link copiedअश्नन्ति दिव्यान् दिवि देव-भोगान्॥२०॥
Link copiedऋग्-यजुः सामरूपास् तिस्रो विद्यास् त्रि-विद्यम्, केवलꣳ त्रि-विद्य-निष्ठास् त्रैविद्याः। न तु त्रय्य्-अन्तꣳ निष्ठाः, त्रय्य्-अन्त-निष्ठा हि महात्मानः पूर्वोक्त-प्रकारेणाखिल-वेद-वेद्यꣳ माम् एव ज्ञात्वा अतिमात्र-मद्-भक्ति-कारित-कीर्तनादिभिर् ज्ञान-यज्ञेन च मद्-एक-प्राप्या माम् एवोपासते। त्रैविद्यास् तु वेद-प्रतिपाद्य-केवलेन्द्रादि-याग-शिष्ट-सोमान् पिबन्तः पूत-पापाः स्वर्गादि-प्राप्ति-विरोधि-पापात् पूतास् तैः केवलेन्द्रादि-दैवत्यतयानुसꣳहितैर् यज्ञैर् वस्तुतस् तद्-रूपꣳ माम् इष्ट्वा तथावस्थितꣳ माम् अजानन्तः स्वर्ग-गतिꣳ प्रार्थयन्ते। ते पुण्यꣳ दुःखासम्भिन्नꣳ सुरेन्द्र-लोकꣳ प्राप्य तत्र तत्र दिव्यान् देव-भोगान् अश्नन्ति॥९।२०॥
Link copiedते तꣳ भुक्त्वा स्वर्ग-लोकꣳ विशालꣳ
Link copiedक्षीणे पुण्ये मर्त्य-लोकꣳ विशन्ति।
Link copiedएवꣳ त्रयी-धर्मम् अनुप्रपन्ना
Link copiedगतागतꣳ काम-कामा लभन्ते॥२१॥
Link copiedते तꣳ विशालꣳ स्वर्ग-लोकꣳ भुक्त्वा तद्-अनुभव-हेतु-भूते पुण्ये क्षीणे पुनर् अपि मर्त्य-लोकꣳ विशन्ति। एवꣳ त्रय्य्-अन्त-सिद्ध-ज्ञान-विधुराः काम्य-स्वर्गादि-कामाः केवलꣳ त्रयी-धर्मम् अनुप्रपन्ना गतागतꣳ लभन्ते। अल्पास्थिर-स्वर्गादीन् अनुभूय पुनः पुनः निवर्तन्त इत्य् अर्थः॥९।२१॥
Link copiedमहात्मानस् तु निरतिशय-प्रिय-रूपꣳ मच्-चिन्तनꣳ कृत्वा माम् अनवधिकातिशयानन्दꣳ प्राप्य न पुनर् आवर्तन्त इति तेषाꣳ विशेषꣳ दर्शयति---
Link copiedअनन्याश् चिन्तयन्तो माꣳ ये जनाः पर्युपासते।
Link copiedतेषाꣳ नित्याभियुक्तानाꣳ योग-क्षेमꣳ वहाम्य् अहम्॥२२॥
Link copiedअनन्या अनन्य-प्रयोजना मच्-चिन्तनेन विनात्म-धारणा-लाभान् मच्-चिन्तनैक-प्रयोजना माꣳ चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्व-कल्याण-गुणान्वितꣳ सर्व-विभूति-युक्तꣳ माꣳ परित उपासतेऽन्यूनम् उपासते तेषाꣳ नित्याभियुक्तानाꣳ मयि नित्याभियोगꣳ काङ्क्षमाणानाम् अहꣳ मत्-प्राप्ति-लक्षणꣳ योगम् अपुनर्-आवृत्ति-रूपꣳ क्षेमꣳ च वहामि॥९।२२॥
Link copiedयेऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः।
Link copiedतेऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम्॥२३॥
Link copiedयेऽप्य् अन्य-देवता-भक्ता ये त्व् इन्द्रादि-देवता-भक्ताः केवल-त्रयी-निष्ठाः श्रद्धयान्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्-छरीरतया मद्-आत्मत्वेन इन्द्रादि-शब्दानाꣳ च मद्-वाचित्वाद् वस्तुतो माम् एव यजन्तेऽपि त्व् अविधि-पूर्वकꣳ यजन्ते। इन्द्रादीनाꣳ देवतानाꣳ कर्मस्व् आराध्यतया अन्वयꣳ यथा वेदान्त-वाक्यानि चतुर्-होतारो यत्र सम्पदꣳ गच्छन्ति देवैः [तै।आ। ४] इत्य् आदीनि विदधति, न तत्-पूर्वकꣳ यजन्ते। वेदान्त-वाक्य-जातꣳ हि परम-पुरुष-शरीरतयावस्थितानाम् इन्द्रादीनाम् आराध्यत्वꣳ विदधद् आत्म-भूतस्य परम-पुरुषस्यैव साक्षाद् आराध्यत्वꣳ विदधाति।
Link copiedचतुर्होतारोऽग्निहोत्र-दर्श-पौर्णमासादीनि कर्माणि कुर्वाणा यत्र परमात्मन्य् आत्मतया अवस्थिते सत्य् एव तच्-छरीर-भूतैर् इन्द्रादि-देवैः सम्पदꣳ गच्छन्ति, इन्द्रादि-देवानाम् आराधनानि एतानि कर्माणि मद्-विषयाणीति माꣳ सम्पदꣳ गच्छन्तीत्य् अर्थः॥९।२३॥
Link copiedअतस् त्रैविद्या इन्द्रादि-शरीरस्य परम-पुरुषस्याराधनान्य् एतानि कर्माणि। आराध्यश् च स एवेति न जानन्ति। ते च परिमित-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, तद् आह---
Link copiedअहꣳ हि सर्व-यज्ञानाꣳ भोक्ता च प्रभुर् एव च।
Link copiedन तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते॥२४॥
Link copiedप्रभुर् एव च तत्र तत्र फल-प्रदाता चाहम् एवेत्य् अर्थः॥९।२४॥
Link copiedअहो महद् इदꣳ वैचित्र्यꣳ यद् एकस्मिन्न् एव कर्मणि वर्तमानाः सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनश् च्यवन-स्वभावाश् च भवन्ति, केचनानवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनोऽपुनर्-आवर्तिनश् च भवन्ति, इत्य् आह---
Link copiedयान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः।
Link copiedभूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम्॥२५॥
Link copiedव्रत-शब्दः सङ्कल्प-वाची, देव-व्रताः दर्श-पौर्णमासादिभिः कर्मभिर् इन्द्रादीन् यजामः, इतीन्द्रादि-यजन-सङ्कल्पाः। ये त इन्द्रादि-देवान् यान्ति। ये च पितृ-यज्ञादिभिः पितॄन् यजामः, इति पितृ-यजन-सङ्कल्पाः, ते पितॄन् यान्ति। ये च यक्ष-रक्षः पिशाचादीनि भूतानि यजामः, इति भूत-यजन-सङ्कल्पाः, ते भूतानि यान्ति। ये तु तैर् एव यज्ञैर् देव-पितृ-भूत-शरीरकꣳ परमात्मानꣳ भगवन्तꣳ वासुदेवꣳ यजाम इति माꣳ यजन्ते ते मद्-याजिनो माम् एव यान्ति। देवादि-व्रता देवादीन् प्राप्य तैः सह परिमितꣳ भोगꣳ भुक्त्वा तेषाꣳ विनाश-काले तैः सह विनष्टा भवन्ति। मद्-याजिनस् तु माम् अनादि-निधनꣳ सर्वज्ञꣳ सत्य-सङ्कल्पम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-महोदधिम् अनवधिकातिशयानन्दꣳ प्राप्य न पुनर् निवर्तन्त इत्य् अर्थः॥९।२५॥
Link copiedमद्-याजिनाम् अयम् अपि विशेषोऽस्तीत्य् आह---
Link copiedपत्रꣳ पुष्पꣳ फलꣳ तोयꣳ यो मे भक्त्या प्रयच्छति।
Link copiedतद् अहꣳ भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः॥२६॥
Link copiedसर्व-सुलभꣳ पत्रꣳ वा पुष्पꣳ वा फलꣳ वा तोयꣳ वा यो भक्त्या मे प्रयच्छत्य् अत्यर्थ-मत्-प्रियतया तत्-प्रदानेन विना आत्म-धारणम् अलभमानतया तद्-एक-प्रयोजनो यो मे पत्रादिकꣳ ददाति तस्य प्रयतात्मनस् तत्-प्रदानैक-प्रयोजनत्व-रूप-शुद्धि-युक्त-मनसस् तत् तथा-विध-भक्त्य्-उपहृतम् अहꣳ सर्वेश्वरो निखिल-जगद्-उदय-विभव-लय-लीलोऽवाप्त-समस्त-कामः सत्य-सङ्कल्पोऽनवधिकातिशयासङ्ख्ये-कल्याण-गुण-गणः स्वाभाविकानवधिकातिशयानन्द-स्वानुभवे वर्तमानोऽपि, मनोरथ-पथ-दूरवर्ति प्रियꣳ प्राप्य इवाश्नामि। यथोक्तꣳ मोक्ष-धर्मे---
Link copiedयाः क्रियाः सम्प्रयुक्ताः स्युर्
Link copiedएकान्त-गत-बुद्धिभिः।
Link copiedताः सर्वाः शिरसा देवः
Link copiedप्रतिगृह्णाति वै स्वयम्॥ [म।भा। १२।३४०।६४] इति॥९।२६॥
Link copied
यस्माज् ज्ञानिनाꣳ महात्मनाꣳ वाङ्-मनसागोचरोऽयꣳ विशेषस् तस्मात् त्वꣳ च ज्ञानी भूत्वा उक्त-लक्षण-भक्ति-भारावनतात्मात्मीयः कीर्तन-यतनार्चन-प्रणामादिकꣳ सततꣳ कुर्वाणो लौकिकꣳ वैदिकꣳ च नित्य-नैमित्तिकꣳ कर्म चेत्थꣳ कुर्व् इत्य् आह---
Link copiedयत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत्।
Link copiedयत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम्॥२७॥
Link copiedयद् देह-यात्रादि-शेष-भूतꣳ लौकिकꣳ कर्म करोषि, यच् च देह-धारणायाश्नासि, यच् च वैदिकꣳ होम-दान-तपः-प्रभृति नित्य-नैमित्तिकꣳ कर्म करोषि, तत् सर्वꣳ मद्-अर्पणꣳ कुरुष्व। अर्प्यत इत्य् अर्पणम्, सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वꣳ भोक्तृत्वम् आराध्यत्वꣳ च यथा मयि सर्वꣳ समर्पितꣳ भवति तथा कुरु।
Link copiedएतद् उक्तꣳ भवति--- याग-दानादिष्व् आराध्यतया प्रतीयमानानाꣳ देवादीनाꣳ कर्म-कर्तुर् भोक्तुस् तव च मदीयतया मत्-सङ्कल्पायत्त-स्वरूप-स्थिति-प्रवृत्तितया च मय्य् एव परम-शेषिणि परम-कर्तरि त्वाꣳ च कर्तारꣳ भोक्तारम् आराधकम् आराध्यꣳ च देवता-जातम् आराधनꣳ च क्रिया-जातꣳ सर्वꣳ समर्पय। तव मन्-नियाम्यता-पूर्वक-मच्-छेषतैक-रसताम् आराध्यादेश् च एतत्-स्वभावक-गर्भताम् अत्यर्थ-प्रीति-युक्तोऽनुसन्धत्स्व इति॥९।२७॥
Link copiedशुभाशुभ-फलैर् एवꣳ मोक्ष्यसे कर्म-बन्धनैः।
Link copiedसन्न्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि॥२८॥
Link copiedएवꣳ सन्न्यासाख्य-योग-युक्त-मना आत्मानꣳ मच्-छेषता-मन्-नियाम्यतैक-रसꣳ कर्म च सर्वꣳ मद्-आराधनम् अनुसन्दधानो लौकिकꣳ वैदिकꣳ च कर्म कुर्वन् शुभाशुभ-फलैर् अनन्तैः प्राचीन-कर्माख्यैर् बन्धनैर् मत्-प्राप्ति-विरोधिभिः सर्वैः मोक्ष्यसे, तैर् विमुक्तो माम् एवोपैष्यसि॥९।२८॥
Link copiedममेमꣳ परमम् अतिलोकꣳ स्वभावꣳ सृणु---
Link copiedसमोऽहꣳ सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः।
Link copiedये भजन्ति तु माꣳ भक्त्या मयि ते तेषु चाप्य् अहम्॥२९॥
Link copiedदेव-तिर्यङ्-मनुष्य-स्थावरात्मना स्थितेषु जातितश् चाकारतः स्वभावतो ज्ञानतश् चात्यन्तोत्कृष्टापकृष्ट-रूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वेन समोऽहम्। अयꣳ जात्याकार-स्वभाव-ज्ञानादिभिर् निकृष्ट इति समाश्रयणे न मे द्वेष्योऽस्त्य् उद्वेजनीयतया न त्याज्योऽस्ति। तथा समाश्रितत्वातिरेकेण जात्य्-आदिभिर् अत्यन्तोत्कृष्टोऽयम् इति तद्-युक्ततया समाश्रयणे न कश्चित् प्रियोऽस्ति न सङ्ग्राह्योऽस्ति।
Link copiedअपि त्व् अत्यर्थ-मत्-प्रियत्वेन मद्-भजनेन विनात्म-धारणालाभान् मद्-भजनैक-प्रयोजना ये माꣳ भजन्ते ते जात्य्-आदिभिर् उत्कृष्टा अपकृष्टा वा मत्-समान-गुणवद् यथा-सुखꣳ मय्य् एव वर्तन्ते। अहम् अपि तेषु मद्-उत्कृष्टेष्व् इव वर्ते॥९।२९॥
Link copiedअपि चेत् सुदुराचारो भजते माम् अनन्य-भाक्।
Link copiedसाधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः॥३०॥
Link copiedतत्रापि तत्र तत्र जाति-विशेषे जातानाꣳ यः समाचार उपादेयः परिहरणीयश् च, तस्माद् अतिवृत्तोऽप्य् उक्त-प्रकारेण माम् अनन्य-भाग् भजनैक-प्रयोजनो भजते चेत् साधुर् एव स वैष्णवाग्रेसर एव मन्तव्यः, बहु-मन्तव्यः पूर्वोक्तैः सम इत्य् अर्थः। कुत एतत्। सम्यग् व्यवसितो हि सः, यतोऽस्य व्यवसायः सुसमीचीनः।
Link copiedभगवान् निखिल-जगद्-एक-कारण-भूतः पर-ब्रह्म नारायणश् चराचर-पतिर् अस्मत्-स्वामी मम गुरुर् मम सुहृन् मम परꣳ भोग्यम् इति सर्वैर् दुष्प्रापोऽयꣳ व्यवसायस् तेन कृतः, तत्-कार्यꣳ चानन्य-प्रयोजनꣳ निरन्तर-भजनꣳ तस्यास्ति, अतः साधुर् एव बहु-मन्तव्यः।
Link copiedअस्मिन् व्यवसाये तत्-कार्ये चोक्त-प्रकार-भजने सम्पन्ने सति तस्य आचार-व्यतिक्रमः स्वल्प-वैकल्यम् इति न तावता अनादरणीयः, अपि तु बहु-मन्तव्य एवेत्य् अर्थः॥९।३०॥
Link copiedननु---
Link copiedनाविरतो दुश्चरितान् नाशान्तो नासमाहितः।
Link copiedनाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात्॥ [क।उ। १।२।२४]
Link copied
इत्य्-आदि-श्रुतेः आचार-व्यतिक्रम उत्तरोत्तर-भजनोत्पत्ति-प्रवाहꣳ निरुणाद्धीत्य् अत्राह---
Link copiedक्षिप्रꣳ भवति धर्मात्मा शश्वच्-छान्तिꣳ निगच्छति।
Link copiedकौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥३१॥
Link copiedमत्-प्रियत्व-कारितानन्य-प्रयोजन-मद्-भजनेन विधूत-पापतयैव स-मूलोन्मूलित-रजस्-तमो-गुणः क्षिप्रꣳ धर्मात्मा भवति क्षिप्रम् एव विरोधि-रहित-स-परिकर-मद्-भजनैक-मना भवति। एवꣳ-रूप-भजनम् एव हि धर्मस्यास्य परन्तप [९।३] इत्य् उपक्रमे धर्म-शब्दोदितः।
Link copiedशश्वच्-छान्तिꣳ निगच्छति। शाश्वतीम् अपुनर्-आवर्तिनीꣳ मत्-प्राप्ति-विरोध्य्-आचार-निवृत्तिꣳ गच्छति। कौन्तेय ! त्वम् एवास्मिन् अर्थे प्रतिज्ञाꣳ कुरु मद्-भक्तौ उपक्रान्तो विरोध्य्-आचार-मिश्रोऽपि न नश्यत्य् अपि तु मद्-भक्ति-माहात्म्येन सर्वꣳ विरोधि-जातꣳ नाशयित्वा शाश्वतीꣳ विरोधि-निवृत्तिम् अधिगम्य क्षिप्रꣳ परिपूर्ण-भक्तिर् भवति॥९।३१॥
Link copiedमाꣳ हि पार्थ व्यपाश्रित्य येऽपि स्युः पाप-योनयः।
Link copiedस्त्रियो वैश्यास् तथा शूद्रास् तेऽपि यान्ति पराꣳ गतिम्॥३२॥
Link copiedस्त्रियो वैश्याः शूद्राश् च पाप-योनयोऽपि माꣳ व्यपाश्रित्य पराꣳ गतिꣳ यान्ति॥९।३२॥
Link copiedकिꣳ पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा।
Link copiedअनित्यम् असुखꣳ लोकम् इमꣳ प्राप्य भजस्व माम्॥३३॥
Link copiedकिꣳ पुनः पुण्य-योनयो ब्राह्मणाः राजर्षयश् च मद्-भक्तिम् आश्रिताः। अतस् त्वꣳ राजर्षिर् अस्थिरꣳ ताप-त्रयाभिहततया असुखꣳ चेमꣳ लोकꣳ प्राप्य वर्तमानो माꣳ भजस्व।
Link copiedभक्ति-स्वरूपम् आह---
Link copiedमन्-मना भव मद्-भक्तो मद्-याजी माꣳ नमस्कुरु।
Link copiedमाम् एवैष्यसि युक्त्वैवम् आत्मानꣳ मत्-परायणः॥३४॥
Link copiedमन्-मना भव मयि सर्वेश्वरे निखिल-हेय-प्रत्यनीक-कल्याणैक-ताने सर्वज्ञे सत्य-सङ्कल्पे निखिल-जगद्-एक-कारणे परस्मिन् ब्रह्मणि पुरुषोत्तमे पुण्डारीक-दलामलायतेक्षणे स्वच्छ-नील-जीमूत-सङ्काशे युगपद्-उदित-दिनकर-सहस्र-सदृश-तेजसि लावण्यामृत-महोदधाव् उदार-पीवर-चतुर्-बाहव् अत्युज्ज्वल-पीताम्बरे ऽमल-किरीट-मकर-कुण्डाल-हार-केयूर-कटकादि-भूषितेऽपार-कारुण्य-सौशील्य-सौन्दर्य-माधुर्य-गाम्भीर्यौदार्य-वात्सल्य-जलधव् अनालोचित-विशेषाशेष-लोक-शरण्ये सर्व-स्वामिनि तैल-धारावद् अविच्छेदेन निविष्ट-मना भव।
Link copiedतद् एव विशिनष्टि--- मद्-भक्तोऽत्यर्थ-मत्-प्रियत्वेन युक्तो मन्-मना भव इत्य् अर्थः। पुनर् अपि विशिनष्टि--- मद्-याजी अनवधिकातिशय-प्रिय-मद्-अनुभव-कारित-मद्-यजन-परो भव। यजनꣳ नाम परिपूर्ण-शेष-वृत्तिः, औपचारिक-साꣳस्पर्शिकाभ्यवहारिकादि-सकल-भोग-प्रदान-रूपो हि यागः। यथा मद्-अनुभव-जनित-निरवधिकातिशय-प्रीतिकारित-मद्-यजन-परो भवसि तथा मन्-मना भव इत्य् उक्तꣳ भवति।
Link copiedपुनर् अपि तद् एव विशिनष्टि--- माꣳ नमस्कुरु, अनवधिकातिशय-प्रिय-मद्-अनुभव-कारितात्यर्थ-प्रियाशेष-शेष-वृत्तव् अपर्यवस्यन् मय्य् अन्तर्-आत्मन्य् अतिमात्र-प्रह्वीभाव-व्यवसायꣳ कुरु। मत्-परायणोऽहम् एव परम् अयनꣳ यस्यासौ मत्-परायणः, मया विना आत्म-धारणा-सम्भावनया मद्-आश्रय इत्य् अर्थः। एवम् आत्मानꣳ युक्त्वा मत्-परायणस् त्वम् एवम् अनवधिकातिशय-प्रीत्या मद्-अनुभव-समर्थꣳ मनः प्राप्य माम् एवैष्यसि। आत्म-शब्दो ह्य् अत्र मनो-विषयः। एवꣳ-रूपेण मनसा माꣳ ध्यात्वा माम् अनुभूय माम् इष्ट्वा माꣳ नमस्कृत्य मत्-परायणो माम् एव प्राप्स्यसीत्य् अर्थः।
Link copiedतद् एवꣳ लौकिकानि शरीर-धारणार्थानि वैदिकानि च नित्य-नैमित्तिकानि कर्माणि मत्-प्रीतये मच्-छेषतैक-रसो मयैव कारित इति कुर्वन् सततꣳ मत्-कीर्तन-यजन-नमस्कारादिकान् प्रीत्या कुर्वाणो मन्-नियाम्यꣳ निखिल-जगत् मच्-छेषतैक-रसम् इति चानुसन्दधानः, अत्यर्थ-प्रिय-मद्-गुण-गणꣳ चानुसन्धायाहर्-अहर् उक्त-लक्षणम् इदम् उपासनम् उपादधानो माम् एव प्राप्स्यसि॥९।३४॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये नवमोऽध्यायः ॥९॥
Link copied**
Link copiedఉపాసక-భేద-నిబన్ధనా విశేషాః ప్రతిపాదితాః। ఇదానీమ్ ఉపాస్యస్య పరమ-పురుషస్య మాహాత్మ్యṁ। జ్ఞానినాṁ చ విశేషṁ విశోధ్య భక్తి-రూపస్యోపాసనస్య స్వరూపమ్ ఉచ్యతే---
Link copiedఇదṁ తు తే గుహ్యతమṁ ప్రవక్ష్యామ్య్ అనసూయవే।
Link copiedజ్ఞానṁ విజ్ఞాన-సహితṁ యజ్ జ్ఞాత్వా మోక్ష్యసేఽశుభాత్॥౧॥
Link copiedఇదṁ తు తే గుహ్యతమṁ భక్తి-రూపమ్ ఉపాసనాఖ్యṁ జ్ఞానṁ। విజ్ఞాన-సహితమ్ ఉపాసన-గతి-విశేష-జ్ఞాన-సహితమ్। అనసూయవే తే ప్రవక్ష్యామి। మద్-విషయṁ సకలేతర-విసజాతీయమ్ అపరిమిత-ప్రకారṁ మాహాత్మ్యṁ శ్రుత్వా ఏవమ్ ఏవ సమ్భవతీతి మన్వానాయ తే ప్రవక్ష్యామీత్య్ అర్థః। యజ్ జ్ఞానమ్ అనుష్ఠాన-పర్యన్తṁ జ్ఞాత్వా మత్-ప్రాప్తి-విరోధినః సర్వస్మాద్ అశుభాన్ మోక్ష్యసే॥౯।౧॥
Link copiedరాజ-విద్యా రాజ-గుహ్యṁ పవిత్రమ్ ఇదమ్ ఉత్తమమ్।
Link copiedప్రత్యక్షావగమṁ ధర్మ్యṁ సుసుఖṁ కర్తుమ్ అవ్యయమ్॥౨॥
Link copiedరాజ-విద్యా విద్యానాṁ రాజా రాజ-గుహ్యṁ గుహ్యానాṁ రాజా। రాజ్ఞాṁ విద్యేతి వా రాజ-విద్యా, రాజానో హి విస్తీర్ణాగాధ-మనసః, మహా-మనసామ్ ఇయṁ విద్యా ఇత్య్ అర్థః। మహా-మనస ఏవ గోపనీయ-గోపన-కుశలా ఇతి తేషామ్ ఏవ గుహ్యమ్ ఇదమ్। ఉత్తమṁ పవిత్రṁ మత్-ప్రాప్తి-విరోధ్య్-అశేష-కల్మషాపహṁ ప్రత్యక్షావగమమ్। అవగమ్యత ఇత్య్ అవగమో విషయః। ప్రత్యక్ష-భూతోఽవగమో విషయో యస్య జ్ఞానస్య తత్ ప్రత్యక్షావగమమ్। భక్తి-రూపేణోపాసనేన ఉపాస్యమానోఽహṁ తదానీమ్ ఏవ ఉపాసితుః ప్రత్యక్షతామ్ ఉపాగతో భవామీత్య్ అర్థః।
Link copiedఅథాపి ధర్మ్యṁ ధర్మాద్ అనపేతṁ ధర్మత్వṁ హి నిఃశ్రేయస-సాధనత్వమ్। స్వరూపేణ ఏవాత్యర్థ-ప్రియత్వేన తదానీమ్ ఏవ మద్-దర్శనాపాదనతయా చ స్వయṁ నిఃశ్రేయస-రూపమ్ అపి నిరతిశయ-నిఃశ్రేయస-రూపాత్యన్తిక-మత్-ప్రాప్తి--సాధనమ్ ఇత్య్ అర్థః। అత ఏవ సుసుఖṁ కర్తుṁ సుసుఖోపాదానమ్, అత్యర్థప్రియత్వేన ఉపాదేయమ్। అవ్యయమ్ అక్షయṁ మత్-ప్రాప్తిṁ సాధయిత్వాపి స్వయṁ న క్షీయతే। ఏవṁ-రూపమ్ ఉపాసనṁ కుర్వతో మత్-ప్రదానే కృతేఽపి న కిఞ్చిత్ కృతṁ మయాస్యేతి మే ప్రతిభాతీత్య్ అర్థః॥౯।౨॥
Link copiedఅశ్రద్దధానాః పురుషా ధర్మస్యాస్య పరన్తప।
Link copiedఅప్రాప్య మాṁ నివర్తన్తే మృత్యు-సṁసార-వర్త్మని॥౩॥
Link copiedఅస్యోపాసనాఖ్యస్య ధర్మస్య నిరతిశయ-ప్రియ-మద్-విషయతయా స్వయṁ నిరతిశయ-ప్రియ-రూపస్య పరమ-నిఃశ్రేయస-స్వరూప-మత్-ప్రాప్తి-సాధనస్యావ్యయస్య ఉపాదాన-యోగ్య-దశాṁ ప్రాప్యాశ్రద్దధానా విశ్వాస-పూర్వక-త్వారా-రహితాః పురుషా మామ్ అప్రాప్య మృత్యు-రూపే సṁసార-వర్త్మని నితరాṁ వర్తన్తే। అహో ! మహద్ ఇదమ్ ఆశ్చర్యమ్ ఇత్య్ అర్థః॥౯।౩॥
Link copiedశృణు తావత్ ప్రాప్య-భూతస్య మమాచిన్త్య-మహిమానమ్---
Link copiedమయా తతమ్ ఇదṁ సర్వṁ జగద్ అవ్యక్త-మూర్తినా।
Link copiedమత్-స్థాని సర్వ-భూతాని న చాహṁ తేష్వ్ అవస్థితః॥౪॥
Link copiedఇదṁ చేతనాచేతనాత్మకṁ కృత్స్నṁ జగద్ అవ్యక్త-మూర్తినాప్రకాశిత-స్వరూపేణ మయాన్తర్యామిణా తతమ్। అస్య జగతో ధారణార్థṁ నియమనార్థమ్ చ శేషిత్వేన వ్యాప్తమ్ ఇత్య్ అర్థః। యథా అన్తర్యామి-బ్రాహ్మణే యః పృథివ్యాṁ తిష్ఠన్ \॥। యṁ పృథివీ న వేద [బృ।ఆ।ఉ। ౩।౭।౩] య ఆత్మని తిష్ఠన్ \॥। యమ్ ఆత్మా న వేద [శత్బ్ర్ ౧౪।౬।౫।౫।౩౦] ఇతి చేతనాచేతన-వస్తు-జాతైర్ అదృష్టేనాన్తర్యామిణా తత్ర తత్ర వ్యాప్తిర్ ఉక్తా।
Link copiedతతో మత్-స్థాని సర్వ-భూతాని సర్వాణి భూతాని మయ్య్ అన్తర్యామిణి స్థితాని, తత్రైవ బ్రాహ్మణే యస్య పృథివీ శరీరṁ యః పృథివీమ్ అన్తరో యమయతి [బృ।ఆ।ఉ। ౩।౭।౩], యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి [శత్బ్ర్ ౧౪।౬।౬।౫।౩౦] ఇతి శరీరత్వేన నియామ్యత్వ-ప్రతిపాదనాత్। తదాయత్తే స్థితి-నియమనే ప్రతిపాదితే శేషిత్వṁ చ, న చాహṁ తేష్వ్ అవస్థితోఽహṁ తు న తదాయత్త-స్థితిః। మత్-స్థితౌ తైర్ న కశ్చిద్ ఉపకార ఇత్య్ అర్థః॥౯।౪॥
Link copiedన చ మత్-స్థాని భూతాని పశ్య మే యోగమ్ ఐశ్వరమ్।
Link copiedభూత-భృన్ న చ భూత-స్థో మమాత్మా భూత-భావనః॥౫॥
Link copiedన చ మత్-స్థాని భూతాని న ఘటదీనాṁ జలాదేర్ ఇవ మమ ధారకత్వమ్। కథమ్। మత్-సఙ్కల్పేన। పశ్య మమైశ్వరṁ యోగమ్। అన్యత్ర కుత్రచిద్ అసమ్భవనీయṁ మద్-అసాధారణమ్ ఆశ్చర్యṁ యోగṁ పశ్య। కోఽసౌ యోగః। భూత-భృన్ న చ భూత-స్థో మమాత్మా భూత-భావనః। సర్వేషాṁ భూతానాṁ భర్తాహṁ న చ తైః కశ్చిద్ అపి మమోపకారః। మమాత్మైవ భూత-భావనః। మమ మనో-మయః సఙ్కల్ప ఏవ భూతానాṁ భావయితా ధారయితా నియన్తా చ॥౯।౫॥
Link copiedసర్వస్యాస్య స్వ-సఙ్కల్పాయత్త-స్థితి-ప్రవృత్తిత్వే నిదర్శనమ్ ఆహ---
Link copiedయథాకాశ-స్థితో నిత్యṁ వాయుః సర్వత్ర-గో మహాన్।
Link copiedతథా సర్వాణి భూతాని మత్-స్థానీత్య్ ఉపధారయ॥౬॥
Link copiedయథాకాశేఽనాలమ్బనే మహాన్ వాయుః స్థితః సర్వత్ర గచ్ఛతి। స తు వాయుర్ నిరాలమ్బనో మద్-ఆయత్త-స్థితిర్ ఇత్య్ అవశ్యాభ్యుపగమనీయో మయైవ ధృత ఇతి విజ్ఞాయతే, తథైవ సర్వాణి భూతాని తైర్ అదృష్టో మయి స్థితాని మయైవ ధృతానీత్య్ ఉపధారయ।
Link copiedయథాహుః వేద-విదః--- మేఘోదయః సాగర-సన్నివృత్తిర్ ఇన్దోర్ విభాగః స్ఫురితాని వాయోః। విద్యుద్-విభఙ్గో గతిర్ ఉష్ణ-రశ్మేర్ విష్ణోర్ విచిత్రాః ప్రభవన్తి మాయాః॥ ఇతి విష్ణోర్ అనన్య-సాధారణాని మహాశ్చర్యాణీత్య్ అర్థః। శ్రుతిర్ అపి--- ఏతస్య వా అక్షరస్య ప్రశాసనే గార్గి సూర్యాచన్ద్రమసౌ విధృతౌ తిష్ఠతః [బృ।ఆ।ఉ। ౩।౮।౯]
Link copiedభీషాస్మాద్ వాతః పవతే భీషోదేతి సూర్యః।
Link copiedభీషాస్మాద్ అగ్నిశ్ చేన్ద్రశ్ చ మృత్యుర్ ధావతి పఞ్చమః [తై।ఉ। ౨।౮।౧]
Link copiedఇత్య్-ఆదికా॥౯।౬॥
Link copiedసకలేతర-నిరపేక్షస్య భగవతః సఙ్కల్పాత్ సర్వేషాṁ స్థితిః ప్రవృత్తిశ్ చోక్తాస్ తథా తత్-సఙ్కల్పాద్ ఏవ సర్వేషామ్ ఉత్పత్తి-ప్రలయవ్ అపి, ఇత్య్ ఆహ---
Link copiedసర్వ-భూతాని కౌన్తేయ ప్రకృతిṁ యాన్తి మామికామ్।
Link copiedకల్ప-క్షయే పునస్ తాని కల్పాదౌ విసృజామ్య్ అహమ్॥౭॥
Link copiedస్థావర-జఙ్గమాత్మకాని సర్వాణి భూతాని మామికాṁ మచ్-ఛరీర-భూతాṁ ప్రకృతిṁ తమః-శబ్ద-వాచ్యాṁ నామ-రూప-విభాగానర్హాṁ కల్ప-క్షయే చతుర్-ముఖావసాన-సమయే మత్-సఙ్కల్పాద్ యాన్తి। తాన్య్ ఏవ భూతాని కల్పాదౌ పునర్ విసృజామ్య్ అహమ్। యథాహ మనుః--- ఆసీద్ ఇదṁ తమో-భూతమ్ [మను ౧।౫] సోఽభిధ్యాయ శరీరాత్ స్వాత్ [మను ౧।౮] ఇతి శ్రుతిర్ అపి--- యస్యావ్యక్తṁ శరీరమ్ [సు।ఉ। ౭] ఇత్య్-ఆదికా, అవ్యక్తమ్ అక్షరే లీయతేఽక్షరṁ తమసి లీయతే, తమః పరే దేవే ఏకీభవతి [సు।ఉ। ౨] తమ ఆసీత్ తమసా గూఢమ్ అగ్రే ప్రకేతమ్ [ఋగ్।వే। ౮।౭।౧౭।౩] ఇతి చ॥౯।౭॥
Link copiedప్రకృతిṁ స్వామ్ అవష్టభ్య విసృజామి పునః పునః।
Link copiedభూత-గ్రామమ్ ఇమṁ కృత్స్నమ్ అవశṁ ప్రకృతేర్ వశాత్॥౮॥
Link copiedస్వకీయాṁ విచిత్ర-పరిణామినీṁ ప్రకృతిమ్ అవష్టభ్యాష్టధా పరిణమయ్య ఇమṁ చతుర్-విధṁ దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మకṁ భూత-గ్రామṁ మదీయాయా మోహిన్యాః గుణ-మయ్యాః ప్రకృతేః వశాద్ అవశṁ పునః పునః కాలే కాలే విసృజామి॥౯।౮॥
Link copiedఏవṁ తర్హి విషమ-సృష్ట్య్-ఆదీని కర్మాణి నైర్ఘృణ్యాద్య్-ఆపాదనేన భగవన్తṁ బధ్నన్తీతి। అత్రాహ---
Link copiedన చ మాṁ తాని కర్మాణి నిబధ్నన్తి ధనఞ్జయ।
Link copiedఉదాసీనవద్ ఆసీనమ్ అసక్తṁ తేషు కర్మసు॥౯॥
Link copiedన చ తాని విషమ-సృష్ట్య్-ఆదీని కర్మాణి మాṁ నిబధ్నన్తి మయి నైర్ఘృణ్యాదికṁ నాపాదయన్తి, యతః క్షేత్ర-జ్ఞానాṁ పూర్వ-కృత్యాన్య్ ఏవ కర్మాణి దేవాది-విషమ-భావ-హేతవః। అహṁ తు తత్ర వైషమ్యేఽసక్తస్ తత్ర ఉదాసీనవద్ ఆసీనః। యథాహ సూత్ర-కారః--- వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ [వే।సూ। ౨।౧।౩౪] న కర్మావిభాగాద్ ఇతి చేన్ నానాదిత్వాత్ [వే।సూ। ౨।౧।౩౫] ఇతి॥౯।౯॥
Link copiedమయాధ్యక్షేణ ప్రకృతిః సూయతే స-చరాచరమ్।
Link copiedహేతునానేన కౌన్తేయ జగద్ విపరివర్తతే॥౧౦॥
Link copiedతస్మాత్ క్షేత్రజ్ఞ-కర్మానుగుణṁ మదీయా ప్రకృతిః సత్య-సఙ్కల్పేన మయాధ్యక్షేణేక్షితా స-చరాచరṁ జగత్ సూయతే, అనేన క్షేత్రజ్ఞ-కర్మానుగుణ-మద్-ఈక్షణేన హేతునా జగద్ విపరివర్తతే। ఇతి మత్-స్వామ్యṁ సత్య-సఙ్కల్పత్వṁ నైర్ఘృణ్యాది-దోష-రహితత్వమ్ ఇత్య్ ఏవమ్ ఆదికṁ మమ వసుదేవ-సూనోర్ ఐశ్వరṁ యోగṁ పశ్య। యథా శ్రుతిః---
Link copiedఅస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్
Link copiedతస్మిṁశ్ చాన్యో మాయయా సన్నిరూద్ధః।
Link copiedమాయాṁ తు ప్రకృతిṁ విద్యాన్
Link copiedమాయినṁ తు మహేశ్వరమ్॥ [శ్వే।ఉ। ౪।౯-౧౦] ఇతి॥౯।౧౦॥
Link copied
అవజానన్తి మాṁ మూఢా మానుషీṁ తనుమ్ ఆశ్రితమ్।
Link copiedపరṁ భావమ్ అజానన్తో మమ భూత-మహేశ్వరమ్॥౧౧॥
Link copiedఏవṁ మాṁ భూత-మహేశ్వరṁ సర్వజ్ఞṁ సత్య-సఙ్కల్పṁ నిఖిల-జగద్-ఏక-కారణṁ పరమ-కారుణికతయా సర్వ-సమాశ్రయణీయత్వాయ మానుషీṁ తనుమ్ ఆశ్రితṁ స్వ-కృతైః పాప-కర్మభిర్ మూఢా అవజానన్తి--- ప్రాకృత-మనుష్య-సమṁ మన్యన్తే। భూత-మహేశ్వరస్య మమాపార-కారుణ్యౌదార్య-సౌశీల్య-వాత్సల్యాది-నిబన్ధనṁ మనుష్యత్వ-సమాశ్రయణ-లక్షణమ్ ఇమṁ పరṁ భావమ్ అజానన్తో మనుష్యత్వ-సమాశ్రయణ-మాత్రేణ మామ్ ఇతర-సజాతీయṁ మత్వా తిరస్కుర్వన్తీత్య్ అర్థః॥౯।౧౧॥
Link copiedమోఘాశా మోఘ-కర్మాణో మోఘ-జ్ఞానా విచేతసః।
Link copiedరాక్షసీమ్ ఆసురీṁ చైవ ప్రకృతిṁ మోహినీṁ శ్రితాః॥౧౨॥
Link copiedమమ మనుష్యత్వే పరమ-కారుణ్యాది-పరత్వ-తిరోధాన-కరీṁ రాక్షసీమ్ ఆసురీṁ చ మోహినీṁ ప్రకృతిమ్ ఆశ్రితాః, మోఘాశాః మోఘ-వాఞ్ఛితా నిష్ఫల-వాఞ్ఛితాః, మోఘ-కర్మాణో మోఘారమ్భాః। మోఘ-జ్ఞానాః సర్వేషు మదీయేషు చరాచరేష్వ్ అర్థేషు మయి చ విపరీత-జ్ఞానతయా నిష్ఫల-జ్ఞానాః। విచేతసస్ తథా సర్వత్ర విగత-యాథాత్మ్య-జ్ఞానాః, మాṁ సర్వేశ్వరమ్ ఇతర-సమṁ మత్వా మయి యత్ కర్తుమ్ ఇచ్ఛన్తి, యద్ ఉద్దిశ్య ఆరమ్భాన్ కుర్వతే, తత్ సర్వṁ మోఘṁ భవతీత్య్ అర్థః॥౯।౧౨॥
Link copiedమహాత్మానస్ తు మాṁ పార్థ దైవీṁ ప్రకృతిమ్ ఆశ్రితాః।
Link copiedభజన్త్య్ అనన్య-మనసో జ్ఞాత్వా భూతాదిమ్ అవ్యయమ్॥౧౩॥
Link copiedయే తు స్వ-కృతైః పుణ్య-సచయైర్ మాṁ శరణమ్ ఉపగమ్య విధ్వస్త-సమస్త-పాప-బన్ధా దైవీṁ ప్రకృతిమ్ ఆశ్రితాః మహాత్మానస్ తే, భూతాదిమ్ అవ్యయṁ వాఙ్-మానసాగోచర-నామ-కర్మ-స్వరూపṁ పరమ-కారుణికతయా సాధు-పరిత్రాణాయ మనుష్యత్వేనావతీర్ణṁ మాṁ జ్ఞాత్వా అనన్య-మనసః మాṁ భజన్తే। మత్-ప్రియత్వాతిరేకేణ మద్-భజనేన వినా మనసశ్ చాత్మనశ్ చ బాహ్య-కరణానాṁ చ ధారణమ్ అలభమానాః, మద్-భజనైక-ప్రయోజనా భజన్తే॥౯।౧౩॥
Link copiedసతతṁ కీర్తయన్తో మాṁ యతన్తశ్ చ దృఢ-వ్రతాః।
Link copiedనమస్యన్తశ్ చ మాṁ భక్త్యా నిత్య-యుక్తా ఉపాసతే॥౧౪॥
Link copiedఅత్యర్థṁ మత్-ప్రియత్వేన మత్-కీర్తన-యతన-నమస్కారైర్ వినా క్షణాణు-మాత్రేఽప్య్ ఆత్మ-ధారణమ్ అలభమానా మద్-గుణావిశేష-వాచీని మన్-నామాని స్మృత్వా పులకాఞ్చిత-సర్వాఙ్గాః, హర్ష-గద్గద-కణ్ఠాః శ్రీ-రామ-నారాయణ-కృష్ణ-వాసుదేవేత్య్ ఏవమ్ ఆదీని సతతṁ కీర్తయన్తస్ తథైవ యతన్తో మత్-కర్మస్వ్ అర్చనాదికేషు వన్దన-స్తవన-కరణాదికేషు తద్-ఉపకారకేషు భవన-నన్దన-వన-కరణాదికేషు చ దృఢ-సఙ్కల్పా యతమానాః, భక్తి-భారావనమిత-మనో-బుద్ధ్య్-అభిమాన-పద-ద్వయ-కర-ద్వయ-శిరోభిర్ అష్టఙ్గైర్ అచిన్తిత-పాṁసు-కర్దమ-శర్కరాదికే ధరా-తలే దణ్డావత్ ప్రణిపతన్తః, సతతṁ మాṁ నిత్య-యుక్తా నిత్య-యోగమ్ ఆకాఙ్క్షమాణా ఆత్మవన్తో మద్-దాస్య-వ్యవసాయిన ఉపాసతే॥౯।౧౪॥
Link copiedజ్ఞాన-యజ్ఞేన చాప్య్ అన్యే యజన్తో మామ్ ఉపాసతే।
Link copiedఏకత్వేన పృథక్త్వేన బహుధా విశ్వతో-ముఖమ్॥౧౫॥
Link copiedఅన్యేఽపి మహాత్మానః పూర్వోక్తైః కీర్తనాదిభిర్ జ్ఞానాఖ్యేన యజ్ఞేన చ యజన్తో మామ్ ఉపాసతే, కథమ్। బహుధా పృథక్త్వేన జగద్-ఆకారేణ విశ్వతో-ముఖṁ విశ్వ-ప్రకారమ్ అవస్థితṁ మామ్ ఏకత్వేనోపాసతే। ఏతద్ ఉక్తṁ భవతి--- భగవాన్ వాసుదేవ ఏవ నామ-రూప-విభాగానర్హాతిసూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరః సన్ సత్య-సఙ్కల్పో వివిధ-విభక్త-నామ-రూప-స్థూల-చిద్-అచిద్-వస్తు-శరీరః స్యామ్ ఇతి సఙ్కల్ప్య, స ఏక ఏవ దేవ-తిర్యఙ్-మనుష్య-స్థావరాఖ్య-విచిత్ర-జగచ్-ఛరీరోఽవతిష్ఠతే ఇత్య్ అనుసన్దధానాశ్ చ మామ్ ఉపాసతే ఇతి॥౯।౧౫॥
Link copiedతథా హి విశ్వ-శరీరోఽహమ్ ఏవావస్థితః, ఇత్య్ ఆహ---
Link copiedఅహṁ క్రతుర్ అహṁ యజ్ఞః స్వధాహమ్ అహమ్ ఔషధమ్।
Link copiedమన్త్రోఽహమ్ అహమ్ ఏవాజ్యమ్ అహమ్ అగ్నిర్ అహṁ హుతమ్॥౧౬॥
Link copiedఅహṁ క్రతుర్ అహṁ జ్యోతిష్టోమాదిక-క్రతుర్ అహమ్ ఏవ యజ్ఞో మహా-యజ్ఞోఽహమ్ ఏవ స్వధా పితృ-గణ-పుష్టి-దాయినీ ఔషధṁ హవిశ్ చాహమ్ ఏవ। అహమ్ ఏవ చ మన్త్రోఽహమ్ ఏవాజ్యమ్। ప్రదర్శనార్థమ్ ఇదమ్, సోమాదికṁ చ హవిర్ అహమ్ ఏవేత్య్ అర్థః। అహమ్ ఆహవనీయాదికోఽగ్నిర్ హోమశ్ చాహమ్ ఏవ॥౯।౧౬॥
Link copiedపితాహమ్ అస్య జగతో మాతా ధాతా పితామహః।
Link copiedవేద్యṁ పవిత్రమ్ ఓఙ్కార ఋక్ సామ యజుర్ ఏవ చ॥౧౭॥
Link copiedఅస్య స్థావర-జఙ్గమాత్మకస్య జగతస్ తత్ర తత్ర పితృత్వేన మాతృత్వేన ధాతృత్వేన పితామహత్వేన చ వర్తమానోఽహమ్ ఏవ। అత్ర ధాతృ-శబ్దో మాతృ-పితృ-వ్యతిరిక్తే ఉత్పత్తి-ప్రయోజకే చేతన-విశేషే వర్తే। యత్ కిఞ్చిద్ వేద-వేద్యṁ పవిత్రṁ పావనṁ తద్ అహమ్ ఏవ। వేదకశ్ చ వేద-బీజ-భూతః ప్రణవోఽహమ్ ఏవ। ఋక్-సామ-యజుర్-ఆత్మకో వేదశ్ చాహమ్ ఏవ॥౯।౧౭॥
Link copiedగతిర్ భర్తా ప్రభుః సాక్షీ నివాసః శరణṁ సుహృత్।
Link copiedప్రభవః ప్రలయః స్థానṁ నిధానṁ బీజమ్ అవ్యయమ్॥౧౮॥
Link copiedగమ్యత ఇతి గతిః, తత్ర తత్ర ప్రాప్య-స్థానమ్ ఇత్య్ అర్థః। భర్తా ధారయితా, ప్రభుః శాసితా, సాక్షీ సాక్షాద్-ద్రష్ట, నివాసో వాస-స్థానṁ చ వేశ్మాది, శరణమ్ ఇష్టస్య ప్రాపకతయానిష్టస్య నివారణతయా సమాశ్రయణీయశ్ చేతనః శరణమ్, స చాహమ్ ఏవ సుహృత్ హితైషీ, ప్రభవ-ప్రలయ-స్థానṁ యస్య కస్యచిద్ యత్ర కుత్రచిత్ ప్రభవ-ప్రలయయోః యత్ స్థానṁ తద్ అహమ్ ఏవ। నిధానṁ నిధీయత ఇతి నిధానమ్। ఉత్పాద్యమ్ ఉపసṁహార్యṁ చాహమ్ ఏవ ఇత్య్ అర్థః। అవ్యయṁ బీజṁ తత్ర తత్ర వ్యయ-రహితṁ యత్ కారణṁ తద్ అహమ్ ఏవ॥౯।౧౮॥
Link copiedతపామ్య్ అహమ్ అహṁ వర్షṁ నిగృహ్ణామ్య్ ఉత్సృజామి చ।
Link copiedఅమృతṁ చైవ మృత్యుశ్ చ సద్ అసచ్ చాహమ్ అర్జున॥౧౯॥
Link copiedఅగ్న్యాదిత్య్-ఆది-రూపేణాహమ్ ఏవ తపామి, గ్రీష్మాదావ్ అహమ్ ఏవ వర్షṁ నిగృహ్ణామి తథా వర్షాస్వ్ అపి చాహమ్ ఏవ ఉత్సృజామి। అమృతṁ చైవ మృత్యుశ్ చ యేన జీవతి లోకో యేన చ మ్రియతే, తద్ ఉభయమ్ అప్య్ అహమ్ ఏవ। కిమ్ అత్ర బహునోక్తేన। సద్ అసచ్ చాప్య్ అహమ్ ఏవ। సద్ యద్ వర్తతే, అసద్ యద్ అతీతమ్ అనాగతṁ చ, సర్వావస్థావస్థిత-చిద్-అచిద్-వస్తు-శరీరతయా తత్-తత్-ప్రకారో ఽహమ్ ఏవావస్థిత ఇత్య్ అర్థః। ఏవṁ బహుధా పృథక్త్వేన విభక్త-నామ-రూపావస్థిత-కృత్స్న-జగచ్-ఛరీరతయా తత్-ప్రకారోఽహమ్ ఏవావస్థిత ఇత్య్ ఏకత్వ-జ్ఞానేనానుసన్దధానాశ్ చ మామ్ ఉపాసతే త ఏవ మహాత్మానః॥౯।౧౯॥
Link copiedఏవṁ మహాత్మనాṁ జ్ఞానినాṁ భగవద్-అనుభవైక-భోగానాṁ వృత్తమ్ ఉక్త్వా తేషామ్ ఏవ విశేషṁ దర్శయితుమ్ అజ్ఞానాṁ కామ-కామానాṁ వృత్తమ్ ఆహ---
Link copiedత్రైవిద్యా మాṁ సోమపాః పూత-పాపా
Link copiedయజ్ఞైర్ ఇష్ట్వా స్వర్-గతిṁ ప్రార్థయన్తే।
Link copiedతే పుణ్యమ్ ఆసాద్య సురేన్ద్ర-లోకమ్
Link copiedఅశ్నన్తి దివ్యాన్ దివి దేవ-భోగాన్॥౨౦॥
Link copiedఋగ్-యజుః సామరూపాస్ తిస్రో విద్యాస్ త్రి-విద్యమ్, కేవలṁ త్రి-విద్య-నిష్ఠాస్ త్రైవిద్యాః। న తు త్రయ్య్-అన్తṁ నిష్ఠాః, త్రయ్య్-అన్త-నిష్ఠా హి మహాత్మానః పూర్వోక్త-ప్రకారేణాఖిల-వేద-వేద్యṁ మామ్ ఏవ జ్ఞాత్వా అతిమాత్ర-మద్-భక్తి-కారిత-కీర్తనాదిభిర్ జ్ఞాన-యజ్ఞేన చ మద్-ఏక-ప్రాప్యా మామ్ ఏవోపాసతే। త్రైవిద్యాస్ తు వేద-ప్రతిపాద్య-కేవలేన్ద్రాది-యాగ-శిష్ట-సోమాన్ పిబన్తః పూత-పాపాః స్వర్గాది-ప్రాప్తి-విరోధి-పాపాత్ పూతాస్ తైః కేవలేన్ద్రాది-దైవత్యతయానుసṁహితైర్ యజ్ఞైర్ వస్తుతస్ తద్-రూపṁ మామ్ ఇష్ట్వా తథావస్థితṁ మామ్ అజానన్తః స్వర్గ-గతిṁ ప్రార్థయన్తే। తే పుణ్యṁ దుఃఖాసమ్భిన్నṁ సురేన్ద్ర-లోకṁ ప్రాప్య తత్ర తత్ర దివ్యాన్ దేవ-భోగాన్ అశ్నన్తి॥౯।౨౦॥
Link copiedతే తṁ భుక్త్వా స్వర్గ-లోకṁ విశాలṁ
Link copiedక్షీణే పుణ్యే మర్త్య-లోకṁ విశన్తి।
Link copiedఏవṁ త్రయీ-ధర్మమ్ అనుప్రపన్నా
Link copiedగతాగతṁ కామ-కామా లభన్తే॥౨౧॥
Link copiedతే తṁ విశాలṁ స్వర్గ-లోకṁ భుక్త్వా తద్-అనుభవ-హేతు-భూతే పుణ్యే క్షీణే పునర్ అపి మర్త్య-లోకṁ విశన్తి। ఏవṁ త్రయ్య్-అన్త-సిద్ధ-జ్ఞాన-విధురాః కామ్య-స్వర్గాది-కామాః కేవలṁ త్రయీ-ధర్మమ్ అనుప్రపన్నా గతాగతṁ లభన్తే। అల్పాస్థిర-స్వర్గాదీన్ అనుభూయ పునః పునః నివర్తన్త ఇత్య్ అర్థః॥౯।౨౧॥
Link copiedమహాత్మానస్ తు నిరతిశయ-ప్రియ-రూపṁ మచ్-చిన్తనṁ కృత్వా మామ్ అనవధికాతిశయానన్దṁ ప్రాప్య న పునర్ ఆవర్తన్త ఇతి తేషాṁ విశేషṁ దర్శయతి---
Link copiedఅనన్యాశ్ చిన్తయన్తో మాṁ యే జనాః పర్యుపాసతే।
Link copiedతేషాṁ నిత్యాభియుక్తానాṁ యోగ-క్షేమṁ వహామ్య్ అహమ్॥౨౨॥
Link copiedఅనన్యా అనన్య-ప్రయోజనా మచ్-చిన్తనేన వినాత్మ-ధారణా-లాభాన్ మచ్-చిన్తనైక-ప్రయోజనా మాṁ చిన్తయన్తో యే మహాత్మానో జనాః పర్యుపాసతే సర్వ-కల్యాణ-గుణాన్వితṁ సర్వ-విభూతి-యుక్తṁ మాṁ పరిత ఉపాసతేఽన్యూనమ్ ఉపాసతే తేషాṁ నిత్యాభియుక్తానాṁ మయి నిత్యాభియోగṁ కాఙ్క్షమాణానామ్ అహṁ మత్-ప్రాప్తి-లక్షణṁ యోగమ్ అపునర్-ఆవృత్తి-రూపṁ క్షేమṁ చ వహామి॥౯।౨౨॥
Link copiedయేఽప్య్ అన్య-దేవతా-భక్తా యజన్తే శ్రద్ధయాన్వితాః।
Link copiedతేఽపి మామ్ ఏవ కౌన్తేయ యజన్త్య్ అవిధి-పూర్వకమ్॥౨౩॥
Link copiedయేఽప్య్ అన్య-దేవతా-భక్తా యే త్వ్ ఇన్ద్రాది-దేవతా-భక్తాః కేవల-త్రయీ-నిష్ఠాః శ్రద్ధయాన్వితాః ఇన్ద్రాదీన్ యజన్తే, తేఽపి పూర్వోక్తేన న్యాయేన సర్వస్య మచ్-ఛరీరతయా మద్-ఆత్మత్వేన ఇన్ద్రాది-శబ్దానాṁ చ మద్-వాచిత్వాద్ వస్తుతో మామ్ ఏవ యజన్తేఽపి త్వ్ అవిధి-పూర్వకṁ యజన్తే। ఇన్ద్రాదీనాṁ దేవతానాṁ కర్మస్వ్ ఆరాధ్యతయా అన్వయṁ యథా వేదాన్త-వాక్యాని చతుర్-హోతారో యత్ర సమ్పదṁ గచ్ఛన్తి దేవైః [తై।ఆ। ౪] ఇత్య్ ఆదీని విదధతి, న తత్-పూర్వకṁ యజన్తే। వేదాన్త-వాక్య-జాతṁ హి పరమ-పురుష-శరీరతయావస్థితానామ్ ఇన్ద్రాదీనామ్ ఆరాధ్యత్వṁ విదధద్ ఆత్మ-భూతస్య పరమ-పురుషస్యైవ సాక్షాద్ ఆరాధ్యత్వṁ విదధాతి।
Link copiedచతుర్హోతారోఽగ్నిహోత్ర-దర్శ-పౌర్ణమాసాదీని కర్మాణి కుర్వాణా యత్ర పరమాత్మన్య్ ఆత్మతయా అవస్థితే సత్య్ ఏవ తచ్-ఛరీర-భూతైర్ ఇన్ద్రాది-దేవైః సమ్పదṁ గచ్ఛన్తి, ఇన్ద్రాది-దేవానామ్ ఆరాధనాని ఏతాని కర్మాణి మద్-విషయాణీతి మాṁ సమ్పదṁ గచ్ఛన్తీత్య్ అర్థః॥౯।౨౩॥
Link copiedఅతస్ త్రైవిద్యా ఇన్ద్రాది-శరీరస్య పరమ-పురుషస్యారాధనాన్య్ ఏతాని కర్మాణి। ఆరాధ్యశ్ చ స ఏవేతి న జానన్తి। తే చ పరిమిత-ఫల-భాగినశ్ చ్యవన-స్వభావాశ్ చ భవన్తి, తద్ ఆహ---
Link copiedఅహṁ హి సర్వ-యజ్ఞానాṁ భోక్తా చ ప్రభుర్ ఏవ చ।
Link copiedన తు మామ్ అభిజానన్తి తత్త్వేనాతశ్ చ్యవన్తి తే॥౨౪॥
Link copiedప్రభుర్ ఏవ చ తత్ర తత్ర ఫల-ప్రదాతా చాహమ్ ఏవేత్య్ అర్థః॥౯।౨౪॥
Link copiedఅహో మహద్ ఇదṁ వైచిత్ర్యṁ యద్ ఏకస్మిన్న్ ఏవ కర్మణి వర్తమానాః సఙ్కల్ప-మాత్ర-భేదేన కేచిద్ అత్యల్ప-ఫల-భాగినశ్ చ్యవన-స్వభావాశ్ చ భవన్తి, కేచనానవధికాతిశయానన్ద-పరమ-పురుష-ప్రాప్తి-రూప-ఫల-భాగినోఽపునర్-ఆవర్తినశ్ చ భవన్తి, ఇత్య్ ఆహ---
Link copiedయాన్తి దేవ-వ్రతా దేవాన్ పితౄన్ యాన్తి పితృ-వ్రతాః।
Link copiedభూతాని యాన్తి భూతేజ్యా యాన్తి మద్-యాజినోఽపి మామ్॥౨౫॥
Link copiedవ్రత-శబ్దః సఙ్కల్ప-వాచీ, దేవ-వ్రతాః దర్శ-పౌర్ణమాసాదిభిః కర్మభిర్ ఇన్ద్రాదీన్ యజామః, ఇతీన్ద్రాది-యజన-సఙ్కల్పాః। యే త ఇన్ద్రాది-దేవాన్ యాన్తి। యే చ పితృ-యజ్ఞాదిభిః పితౄన్ యజామః, ఇతి పితృ-యజన-సఙ్కల్పాః, తే పితౄన్ యాన్తి। యే చ యక్ష-రక్షః పిశాచాదీని భూతాని యజామః, ఇతి భూత-యజన-సఙ్కల్పాః, తే భూతాని యాన్తి। యే తు తైర్ ఏవ యజ్ఞైర్ దేవ-పితృ-భూత-శరీరకṁ పరమాత్మానṁ భగవన్తṁ వాసుదేవṁ యజామ ఇతి మాṁ యజన్తే తే మద్-యాజినో మామ్ ఏవ యాన్తి। దేవాది-వ్రతా దేవాదీన్ ప్రాప్య తైః సహ పరిమితṁ భోగṁ భుక్త్వా తేషాṁ వినాశ-కాలే తైః సహ వినష్టా భవన్తి। మద్-యాజినస్ తు మామ్ అనాది-నిధనṁ సర్వజ్ఞṁ సత్య-సఙ్కల్పమ్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-మహోదధిమ్ అనవధికాతిశయానన్దṁ ప్రాప్య న పునర్ నివర్తన్త ఇత్య్ అర్థః॥౯।౨౫॥
Link copiedమద్-యాజినామ్ అయమ్ అపి విశేషోఽస్తీత్య్ ఆహ---
Link copiedపత్రṁ పుష్పṁ ఫలṁ తోయṁ యో మే భక్త్యా ప్రయచ్ఛతి।
Link copiedతద్ అహṁ భక్త్య్-ఉపహృతమ్ అశ్నామి ప్రయతాత్మనః॥౨౬॥
Link copiedసర్వ-సులభṁ పత్రṁ వా పుష్పṁ వా ఫలṁ వా తోయṁ వా యో భక్త్యా మే ప్రయచ్ఛత్య్ అత్యర్థ-మత్-ప్రియతయా తత్-ప్రదానేన వినా ఆత్మ-ధారణమ్ అలభమానతయా తద్-ఏక-ప్రయోజనో యో మే పత్రాదికṁ దదాతి తస్య ప్రయతాత్మనస్ తత్-ప్రదానైక-ప్రయోజనత్వ-రూప-శుద్ధి-యుక్త-మనసస్ తత్ తథా-విధ-భక్త్య్-ఉపహృతమ్ అహṁ సర్వేశ్వరో నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలోఽవాప్త-సమస్త-కామః సత్య-సఙ్కల్పోఽనవధికాతిశయాసఙ్ఖ్యే-కల్యాణ-గుణ-గణః స్వాభావికానవధికాతిశయానన్ద-స్వానుభవే వర్తమానోఽపి, మనోరథ-పథ-దూరవర్తి ప్రియṁ ప్రాప్య ఇవాశ్నామి। యథోక్తṁ మోక్ష-ధర్మే---
Link copiedయాః క్రియాః సమ్ప్రయుక్తాః స్యుర్
Link copiedఏకాన్త-గత-బుద్ధిభిః।
Link copiedతాః సర్వాః శిరసా దేవః
Link copiedప్రతిగృహ్ణాతి వై స్వయమ్॥ [మ।భా। ౧౨।౩౪౦।౬౪] ఇతి॥౯।౨౬॥
Link copied
యస్మాజ్ జ్ఞానినాṁ మహాత్మనాṁ వాఙ్-మనసాగోచరోఽయṁ విశేషస్ తస్మాత్ త్వṁ చ జ్ఞానీ భూత్వా ఉక్త-లక్షణ-భక్తి-భారావనతాత్మాత్మీయః కీర్తన-యతనార్చన-ప్రణామాదికṁ సతతṁ కుర్వాణో లౌకికṁ వైదికṁ చ నిత్య-నైమిత్తికṁ కర్మ చేత్థṁ కుర్వ్ ఇత్య్ ఆహ---
Link copiedయత్ కరోషి యద్ అశ్నాసి యజ్ జుహోషి దదాసి యత్।
Link copiedయత్ తపస్యసి కౌన్తేయ తత్ కురుష్వ మద్-అర్పణమ్॥౨౭॥
Link copiedయద్ దేహ-యాత్రాది-శేష-భూతṁ లౌకికṁ కర్మ కరోషి, యచ్ చ దేహ-ధారణాయాశ్నాసి, యచ్ చ వైదికṁ హోమ-దాన-తపః-ప్రభృతి నిత్య-నైమిత్తికṁ కర్మ కరోషి, తత్ సర్వṁ మద్-అర్పణṁ కురుష్వ। అర్ప్యత ఇత్య్ అర్పణమ్, సర్వస్య లౌకికస్య వైదికస్య చ కర్మణః కర్తృత్వṁ భోక్తృత్వమ్ ఆరాధ్యత్వṁ చ యథా మయి సర్వṁ సమర్పితṁ భవతి తథా కురు।
Link copiedఏతద్ ఉక్తṁ భవతి--- యాగ-దానాదిష్వ్ ఆరాధ్యతయా ప్రతీయమానానాṁ దేవాదీనాṁ కర్మ-కర్తుర్ భోక్తుస్ తవ చ మదీయతయా మత్-సఙ్కల్పాయత్త-స్వరూప-స్థితి-ప్రవృత్తితయా చ మయ్య్ ఏవ పరమ-శేషిణి పరమ-కర్తరి త్వాṁ చ కర్తారṁ భోక్తారమ్ ఆరాధకమ్ ఆరాధ్యṁ చ దేవతా-జాతమ్ ఆరాధనṁ చ క్రియా-జాతṁ సర్వṁ సమర్పయ। తవ మన్-నియామ్యతా-పూర్వక-మచ్-ఛేషతైక-రసతామ్ ఆరాధ్యాదేశ్ చ ఏతత్-స్వభావక-గర్భతామ్ అత్యర్థ-ప్రీతి-యుక్తోఽనుసన్ధత్స్వ ఇతి॥౯।౨౭॥
Link copiedశుభాశుభ-ఫలైర్ ఏవṁ మోక్ష్యసే కర్మ-బన్ధనైః।
Link copiedసన్న్యాస-యోగ-యుక్తాత్మా విముక్తో మామ్ ఉపైష్యసి॥౨౮॥
Link copiedఏవṁ సన్న్యాసాఖ్య-యోగ-యుక్త-మనా ఆత్మానṁ మచ్-ఛేషతా-మన్-నియామ్యతైక-రసṁ కర్మ చ సర్వṁ మద్-ఆరాధనమ్ అనుసన్దధానో లౌకికṁ వైదికṁ చ కర్మ కుర్వన్ శుభాశుభ-ఫలైర్ అనన్తైః ప్రాచీన-కర్మాఖ్యైర్ బన్ధనైర్ మత్-ప్రాప్తి-విరోధిభిః సర్వైః మోక్ష్యసే, తైర్ విముక్తో మామ్ ఏవోపైష్యసి॥౯।౨౮॥
Link copiedమమేమṁ పరమమ్ అతిలోకṁ స్వభావṁ సృణు---
Link copiedసమోఽహṁ సర్వ-భూతేషు న మే ద్వేష్యోఽస్తి న ప్రియః।
Link copiedయే భజన్తి తు మాṁ భక్త్యా మయి తే తేషు చాప్య్ అహమ్॥౨౯॥
Link copiedదేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మనా స్థితేషు జాతితశ్ చాకారతః స్వభావతో జ్ఞానతశ్ చాత్యన్తోత్కృష్టాపకృష్ట-రూపేణ వర్తమానేషు సర్వేషు భూతేషు సమాశ్రయణీయత్వేన సమోఽహమ్। అయṁ జాత్యాకార-స్వభావ-జ్ఞానాదిభిర్ నికృష్ట ఇతి సమాశ్రయణే న మే ద్వేష్యోఽస్త్య్ ఉద్వేజనీయతయా న త్యాజ్యోఽస్తి। తథా సమాశ్రితత్వాతిరేకేణ జాత్య్-ఆదిభిర్ అత్యన్తోత్కృష్టోఽయమ్ ఇతి తద్-యుక్తతయా సమాశ్రయణే న కశ్చిత్ ప్రియోఽస్తి న సఙ్గ్రాహ్యోఽస్తి।
Link copiedఅపి త్వ్ అత్యర్థ-మత్-ప్రియత్వేన మద్-భజనేన వినాత్మ-ధారణాలాభాన్ మద్-భజనైక-ప్రయోజనా యే మాṁ భజన్తే తే జాత్య్-ఆదిభిర్ ఉత్కృష్టా అపకృష్టా వా మత్-సమాన-గుణవద్ యథా-సుఖṁ మయ్య్ ఏవ వర్తన్తే। అహమ్ అపి తేషు మద్-ఉత్కృష్టేష్వ్ ఇవ వర్తే॥౯।౨౯॥
Link copiedఅపి చేత్ సుదురాచారో భజతే మామ్ అనన్య-భాక్।
Link copiedసాధుర్ ఏవ స మన్తవ్యః సమ్యగ్ వ్యవసితో హి సః॥౩౦॥
Link copiedతత్రాపి తత్ర తత్ర జాతి-విశేషే జాతానాṁ యః సమాచార ఉపాదేయః పరిహరణీయశ్ చ, తస్మాద్ అతివృత్తోఽప్య్ ఉక్త-ప్రకారేణ మామ్ అనన్య-భాగ్ భజనైక-ప్రయోజనో భజతే చేత్ సాధుర్ ఏవ స వైష్ణవాగ్రేసర ఏవ మన్తవ్యః, బహు-మన్తవ్యః పూర్వోక్తైః సమ ఇత్య్ అర్థః। కుత ఏతత్। సమ్యగ్ వ్యవసితో హి సః, యతోఽస్య వ్యవసాయః సుసమీచీనః।
Link copiedభగవాన్ నిఖిల-జగద్-ఏక-కారణ-భూతః పర-బ్రహ్మ నారాయణశ్ చరాచర-పతిర్ అస్మత్-స్వామీ మమ గురుర్ మమ సుహృన్ మమ పరṁ భోగ్యమ్ ఇతి సర్వైర్ దుష్ప్రాపోఽయṁ వ్యవసాయస్ తేన కృతః, తత్-కార్యṁ చానన్య-ప్రయోజనṁ నిరన్తర-భజనṁ తస్యాస్తి, అతః సాధుర్ ఏవ బహు-మన్తవ్యః।
Link copiedఅస్మిన్ వ్యవసాయే తత్-కార్యే చోక్త-ప్రకార-భజనే సమ్పన్నే సతి తస్య ఆచార-వ్యతిక్రమః స్వల్ప-వైకల్యమ్ ఇతి న తావతా అనాదరణీయః, అపి తు బహు-మన్తవ్య ఏవేత్య్ అర్థః॥౯।౩౦॥
Link copiedనను---
Link copiedనావిరతో దుశ్చరితాన్ నాశాన్తో నాసమాహితః।
Link copiedనాశాన్త-మానసో వాపి ప్రజ్ఞానేనైనమ్ ఆప్నుయాత్॥ [క।ఉ। ౧।౨।౨౪]
Link copied
ఇత్య్-ఆది-శ్రుతేః ఆచార-వ్యతిక్రమ ఉత్తరోత్తర-భజనోత్పత్తి-ప్రవాహṁ నిరుణాద్ధీత్య్ అత్రాహ---
Link copiedక్షిప్రṁ భవతి ధర్మాత్మా శశ్వచ్-ఛాన్తిṁ నిగచ్ఛతి।
Link copiedకౌన్తేయ ప్రతిజానీహి న మే భక్తః ప్రణశ్యతి॥౩౧॥
Link copiedమత్-ప్రియత్వ-కారితానన్య-ప్రయోజన-మద్-భజనేన విధూత-పాపతయైవ స-మూలోన్మూలిత-రజస్-తమో-గుణః క్షిప్రṁ ధర్మాత్మా భవతి క్షిప్రమ్ ఏవ విరోధి-రహిత-స-పరికర-మద్-భజనైక-మనా భవతి। ఏవṁ-రూప-భజనమ్ ఏవ హి ధర్మస్యాస్య పరన్తప [౯।౩] ఇత్య్ ఉపక్రమే ధర్మ-శబ్దోదితః।
Link copiedశశ్వచ్-ఛాన్తిṁ నిగచ్ఛతి। శాశ్వతీమ్ అపునర్-ఆవర్తినీṁ మత్-ప్రాప్తి-విరోధ్య్-ఆచార-నివృత్తిṁ గచ్ఛతి। కౌన్తేయ ! త్వమ్ ఏవాస్మిన్ అర్థే ప్రతిజ్ఞాṁ కురు మద్-భక్తౌ ఉపక్రాన్తో విరోధ్య్-ఆచార-మిశ్రోఽపి న నశ్యత్య్ అపి తు మద్-భక్తి-మాహాత్మ్యేన సర్వṁ విరోధి-జాతṁ నాశయిత్వా శాశ్వతీṁ విరోధి-నివృత్తిమ్ అధిగమ్య క్షిప్రṁ పరిపూర్ణ-భక్తిర్ భవతి॥౯।౩౧॥
Link copiedమాṁ హి పార్థ వ్యపాశ్రిత్య యేఽపి స్యుః పాప-యోనయః।
Link copiedస్త్రియో వైశ్యాస్ తథా శూద్రాస్ తేఽపి యాన్తి పరాṁ గతిమ్॥౩౨॥
Link copiedస్త్రియో వైశ్యాః శూద్రాశ్ చ పాప-యోనయోఽపి మాṁ వ్యపాశ్రిత్య పరాṁ గతిṁ యాన్తి॥౯।౩౨॥
Link copiedకిṁ పునర్ బ్రాహ్మణాః పుణ్యా భక్తా రాజర్షయస్ తథా।
Link copiedఅనిత్యమ్ అసుఖṁ లోకమ్ ఇమṁ ప్రాప్య భజస్వ మామ్॥౩౩॥
Link copiedకిṁ పునః పుణ్య-యోనయో బ్రాహ్మణాః రాజర్షయశ్ చ మద్-భక్తిమ్ ఆశ్రితాః। అతస్ త్వṁ రాజర్షిర్ అస్థిరṁ తాప-త్రయాభిహతతయా అసుఖṁ చేమṁ లోకṁ ప్రాప్య వర్తమానో మాṁ భజస్వ।
Link copiedభక్తి-స్వరూపమ్ ఆహ---
Link copiedమన్-మనా భవ మద్-భక్తో మద్-యాజీ మాṁ నమస్కురు।
Link copiedమామ్ ఏవైష్యసి యుక్త్వైవమ్ ఆత్మానṁ మత్-పరాయణః॥౩౪॥
Link copiedమన్-మనా భవ మయి సర్వేశ్వరే నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైక-తానే సర్వజ్ఞే సత్య-సఙ్కల్పే నిఖిల-జగద్-ఏక-కారణే పరస్మిన్ బ్రహ్మణి పురుషోత్తమే పుణ్డారీక-దలామలాయతేక్షణే స్వచ్ఛ-నీల-జీమూత-సఙ్కాశే యుగపద్-ఉదిత-దినకర-సహస్ర-సదృశ-తేజసి లావణ్యామృత-మహోదధావ్ ఉదార-పీవర-చతుర్-బాహవ్ అత్యుజ్జ్వల-పీతామ్బరే ఽమల-కిరీట-మకర-కుణ్డాల-హార-కేయూర-కటకాది-భూషితేఽపార-కారుణ్య-సౌశీల్య-సౌన్దర్య-మాధుర్య-గామ్భీర్యౌదార్య-వాత్సల్య-జలధవ్ అనాలోచిత-విశేషాశేష-లోక-శరణ్యే సర్వ-స్వామిని తైల-ధారావద్ అవిచ్ఛేదేన నివిష్ట-మనా భవ।
Link copiedతద్ ఏవ విశినష్టి--- మద్-భక్తోఽత్యర్థ-మత్-ప్రియత్వేన యుక్తో మన్-మనా భవ ఇత్య్ అర్థః। పునర్ అపి విశినష్టి--- మద్-యాజీ అనవధికాతిశయ-ప్రియ-మద్-అనుభవ-కారిత-మద్-యజన-పరో భవ। యజనṁ నామ పరిపూర్ణ-శేష-వృత్తిః, ఔపచారిక-సాṁస్పర్శికాభ్యవహారికాది-సకల-భోగ-ప్రదాన-రూపో హి యాగః। యథా మద్-అనుభవ-జనిత-నిరవధికాతిశయ-ప్రీతికారిత-మద్-యజన-పరో భవసి తథా మన్-మనా భవ ఇత్య్ ఉక్తṁ భవతి।
Link copiedపునర్ అపి తద్ ఏవ విశినష్టి--- మాṁ నమస్కురు, అనవధికాతిశయ-ప్రియ-మద్-అనుభవ-కారితాత్యర్థ-ప్రియాశేష-శేష-వృత్తవ్ అపర్యవస్యన్ మయ్య్ అన్తర్-ఆత్మన్య్ అతిమాత్ర-ప్రహ్వీభావ-వ్యవసాయṁ కురు। మత్-పరాయణోఽహమ్ ఏవ పరమ్ అయనṁ యస్యాసౌ మత్-పరాయణః, మయా వినా ఆత్మ-ధారణా-సమ్భావనయా మద్-ఆశ్రయ ఇత్య్ అర్థః। ఏవమ్ ఆత్మానṁ యుక్త్వా మత్-పరాయణస్ త్వమ్ ఏవమ్ అనవధికాతిశయ-ప్రీత్యా మద్-అనుభవ-సమర్థṁ మనః ప్రాప్య మామ్ ఏవైష్యసి। ఆత్మ-శబ్దో హ్య్ అత్ర మనో-విషయః। ఏవṁ-రూపేణ మనసా మాṁ ధ్యాత్వా మామ్ అనుభూయ మామ్ ఇష్ట్వా మాṁ నమస్కృత్య మత్-పరాయణో మామ్ ఏవ ప్రాప్స్యసీత్య్ అర్థః।
Link copiedతద్ ఏవṁ లౌకికాని శరీర-ధారణార్థాని వైదికాని చ నిత్య-నైమిత్తికాని కర్మాణి మత్-ప్రీతయే మచ్-ఛేషతైక-రసో మయైవ కారిత ఇతి కుర్వన్ సతతṁ మత్-కీర్తన-యజన-నమస్కారాదికాన్ ప్రీత్యా కుర్వాణో మన్-నియామ్యṁ నిఖిల-జగత్ మచ్-ఛేషతైక-రసమ్ ఇతి చానుసన్దధానః, అత్యర్థ-ప్రియ-మద్-గుణ-గణṁ చానుసన్ధాయాహర్-అహర్ ఉక్త-లక్షణమ్ ఇదమ్ ఉపాసనమ్ ఉపాదధానో మామ్ ఏవ ప్రాప్స్యసి॥౯।౩౪॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే నవమోఽధ్యాయః ॥౯॥
Link copied**
Link copiedupāsaka-bheda-nibandhanā viśeṣāḥ pratipāditāḥ| idānīm upāsyasya parama-puruṣasya māhātmyaṁ| jñānināṁ ca viśeṣaṁ viśodhya bhakti-rūpasyopāsanasya svarūpam ucyate---
Link copiedidaṁ tu te guhyatamaṁ pravakṣyāmy anasūyave|
Link copiedjñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣyase'śubhāt||1||
Link copiedidaṁ tu te guhyatamaṁ bhakti-rūpam upāsanākhyaṁ jñānaṁ| vijñāna-sahitam upāsana-gati-viśeṣa-jñāna-sahitam| anasūyave te pravakṣyāmi| mad-viṣayaṁ sakaletara-visajātīyam aparimita-prakāraṁ māhātmyaṁ śrutvā evam eva sambhavatīti manvānāya te pravakṣyāmīty arthaḥ| yaj jñānam anuṣṭhāna-paryantaṁ jñātvā mat-prāpti-virodhinaḥ sarvasmād aśubhān mokṣyase||9.1||
Link copiedrāja-vidyā rāja-guhyaṁ pavitram idam uttamam|
Link copiedpratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartum avyayam||2||
Link copiedrāja-vidyā vidyānāṁ rājā rāja-guhyaṁ guhyānāṁ rājā| rājñāṁ vidyeti vā rāja-vidyā, rājāno hi vistīrṇāgādha-manasaḥ, mahā-manasām iyaṁ vidyā ity arthaḥ| mahā-manasa eva gopanīya-gopana-kuśalā iti teṣām eva guhyam idam| uttamaṁ pavitraṁ mat-prāpti-virodhy-aśeṣa-kalmaṣāpahaṁ pratyakṣāvagamam| avagamyata ity avagamo viṣayaḥ| pratyakṣa-bhūto'vagamo viṣayo yasya jñānasya tat pratyakṣāvagamam| bhakti-rūpeṇopāsanena upāsyamāno'haṁ tadānīm eva upāsituḥ pratyakṣatām upāgato bhavāmīty arthaḥ|
Link copiedathāpi dharmyaṁ dharmād anapetaṁ dharmatvaṁ hi niḥśreyasa-sādhanatvam| svarūpeṇa evātyartha-priyatvena tadānīm eva mad-darśanāpādanatayā ca svayaṁ niḥśreyasa-rūpam api niratiśaya-niḥśreyasa-rūpātyantika-mat-prāpti--sādhanam ity arthaḥ| ata eva susukhaṁ kartuṁ susukhopādānam, atyarthapriyatvena upādeyam| avyayam akṣayaṁ mat-prāptiṁ sādhayitvāpi svayaṁ na kṣīyate| evaṁ-rūpam upāsanaṁ kurvato mat-pradāne kṛte'pi na kiñcit kṛtaṁ mayāsyeti me pratibhātīty arthaḥ||9.2||
Link copiedaśraddadhānāḥ puruṣā dharmasyāsya parantapa|
Link copiedaprāpya māṁ nivartante mṛtyu-saṁsāra-vartmani||3||
Link copiedasyopāsanākhyasya dharmasya niratiśaya-priya-mad-viṣayatayā svayaṁ niratiśaya-priya-rūpasya parama-niḥśreyasa-svarūpa-mat-prāpti-sādhanasyāvyayasya upādāna-yogya-daśāṁ prāpyāśraddadhānā viśvāsa-pūrvaka-tvārā-rahitāḥ puruṣā mām aprāpya mṛtyu-rūpe saṁsāra-vartmani nitarāṁ vartante| aho ! mahad idam āścaryam ity arthaḥ||9.3||
Link copiedśṛṇu tāvat prāpya-bhūtasya mamācintya-mahimānam---
Link copiedmayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā|
Link copiedmat-sthāni sarva-bhūtāni na cāhaṁ teṣv avasthitaḥ||4||
Link copiedidaṁ cetanācetanātmakaṁ kṛtsnaṁ jagad avyakta-mūrtināprakāśita-svarūpeṇa mayāntaryāmiṇā tatam| asya jagato dhāraṇārthaṁ niyamanārtham ca śeṣitvena vyāptam ity arthaḥ| yathā antaryāmi-brāhmaṇe yaḥ pṛthivyāṁ tiṣṭhan ... yaṁ pṛthivī na veda [bṛ.ā.u. 3.7.3] ya ātmani tiṣṭhan ... yam ātmā na veda [ŚatBr 14.6.5.5.30] iti cetanācetana-vastu-jātair adṛṣṭenāntaryāmiṇā tatra tatra vyāptir uktā|
Link copiedtato mat-sthāni sarva-bhūtāni sarvāṇi bhūtāni mayy antaryāmiṇi sthitāni, tatraiva brāhmaṇe yasya pṛthivī śarīraṁ yaḥ pṛthivīm antaro yamayati [bṛ.ā.u. 3.7.3], yasyātmā śarīraṁ ya ātmānam antaro yamayati [ŚatBr 14.6.6.5.30] iti śarīratvena niyāmyatva-pratipādanāt| tadāyatte sthiti-niyamane pratipādite śeṣitvaṁ ca, na cāhaṁ teṣv avasthito'haṁ tu na tadāyatta-sthitiḥ| mat-sthitau tair na kaścid upakāra ity arthaḥ||9.4||
Link copiedna ca mat-sthāni bhūtāni paśya me yogam aiśvaram|
Link copiedbhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ||5||
Link copiedna ca mat-sthāni bhūtāni na ghaṭadīnāṁ jalāder iva mama dhārakatvam| katham| mat-saṅkalpena| paśya mamaiśvaraṁ yogam| anyatra kutracid asambhavanīyaṁ mad-asādhāraṇam āścaryaṁ yogaṁ paśya| ko'sau yogaḥ| bhūta-bhṛn na ca bhūta-stho mamātmā bhūta-bhāvanaḥ| sarveṣāṁ bhūtānāṁ bhartāhaṁ na ca taiḥ kaścid api mamopakāraḥ| mamātmaiva bhūta-bhāvanaḥ| mama mano-mayaḥ saṅkalpa eva bhūtānāṁ bhāvayitā dhārayitā niyantā ca||9.5||
Link copiedsarvasyāsya sva-saṅkalpāyatta-sthiti-pravṛttitve nidarśanam āha---
Link copiedyathākāśa-sthito nityaṁ vāyuḥ sarvatra-go mahān|
Link copiedtathā sarvāṇi bhūtāni mat-sthānīty upadhāraya||6||
Link copiedyathākāśe'nālambane mahān vāyuḥ sthitaḥ sarvatra gacchati| sa tu vāyur nirālambano mad-āyatta-sthitir ity avaśyābhyupagamanīyo mayaiva dhṛta iti vijñāyate, tathaiva sarvāṇi bhūtāni tair adṛṣṭo mayi sthitāni mayaiva dhṛtānīty upadhāraya|
Link copiedyathāhuḥ veda-vidaḥ--- meghodayaḥ sāgara-sannivṛttir indor vibhāgaḥ sphuritāni vāyoḥ| vidyud-vibhaṅgo gatir uṣṇa-raśmer viṣṇor vicitrāḥ prabhavanti māyāḥ|| iti viṣṇor ananya-sādhāraṇāni mahāścaryāṇīty arthaḥ| śrutir api--- etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhataḥ [bṛ.ā.u. 3.8.9]
Link copiedbhīṣāsmād vātaḥ pavate bhīṣodeti sūryaḥ|
Link copiedbhīṣāsmād agniś cendraś ca mṛtyur dhāvati pañcamaḥ [tai.u. 2.8.1]
Link copiedity-ādikā||9.6||
Link copiedsakaletara-nirapekṣasya bhagavataḥ saṅkalpāt sarveṣāṁ sthitiḥ pravṛttiś coktās tathā tat-saṅkalpād eva sarveṣām utpatti-pralayav api, ity āha---
Link copiedsarva-bhūtāni kaunteya prakṛtiṁ yānti māmikām|
Link copiedkalpa-kṣaye punas tāni kalpādau visṛjāmy aham||7||
Link copiedsthāvara-jaṅgamātmakāni sarvāṇi bhūtāni māmikāṁ mac-charīra-bhūtāṁ prakṛtiṁ tamaḥ-śabda-vācyāṁ nāma-rūpa-vibhāgānarhāṁ kalpa-kṣaye catur-mukhāvasāna-samaye mat-saṅkalpād yānti| tāny eva bhūtāni kalpādau punar visṛjāmy aham| yathāha manuḥ--- āsīd idaṁ tamo-bhūtam [manu 1.5] so'bhidhyāya śarīrāt svāt [manu 1.8] iti śrutir api--- yasyāvyaktaṁ śarīram [su.u. 7] ity-ādikā, avyaktam akṣare līyate'kṣaraṁ tamasi līyate, tamaḥ pare deve ekībhavati [su.u. 2] tama āsīt tamasā gūḍham agre praketam [ṛg.ve. 8.7.17.3] iti ca||9.7||
Link copiedprakṛtiṁ svām avaṣṭabhya visṛjāmi punaḥ punaḥ|
Link copiedbhūta-grāmam imaṁ kṛtsnam avaśaṁ prakṛter vaśāt||8||
Link copiedsvakīyāṁ vicitra-pariṇāminīṁ prakṛtim avaṣṭabhyāṣṭadhā pariṇamayya imaṁ catur-vidhaṁ deva-tiryaṅ-manuṣya-sthāvarātmakaṁ bhūta-grāmaṁ madīyāyā mohinyāḥ guṇa-mayyāḥ prakṛteḥ vaśād avaśaṁ punaḥ punaḥ kāle kāle visṛjāmi||9.8||
Link copiedevaṁ tarhi viṣama-sṛṣṭy-ādīni karmāṇi nairghṛṇyādy-āpādanena bhagavantaṁ badhnantīti| atrāha---
Link copiedna ca māṁ tāni karmāṇi nibadhnanti dhanañjaya|
Link copiedudāsīnavad āsīnam asaktaṁ teṣu karmasu||9||
Link copiedna ca tāni viṣama-sṛṣṭy-ādīni karmāṇi māṁ nibadhnanti mayi nairghṛṇyādikaṁ nāpādayanti, yataḥ kṣetra-jñānāṁ pūrva-kṛtyāny eva karmāṇi devādi-viṣama-bhāva-hetavaḥ| ahaṁ tu tatra vaiṣamye'saktas tatra udāsīnavad āsīnaḥ| yathāha sūtra-kāraḥ--- vaiṣamya-nairghṛṇye na sāpekṣatvāt [ve.sū. 2.1.34] na karmāvibhāgād iti cen nānāditvāt [ve.sū. 2.1.35] iti||9.9||
Link copiedmayādhyakṣeṇa prakṛtiḥ sūyate sa-carācaram|
Link copiedhetunānena kaunteya jagad viparivartate||10||
Link copiedtasmāt kṣetrajña-karmānuguṇaṁ madīyā prakṛtiḥ satya-saṅkalpena mayādhyakṣeṇekṣitā sa-carācaraṁ jagat sūyate, anena kṣetrajña-karmānuguṇa-mad-īkṣaṇena hetunā jagad viparivartate| iti mat-svāmyaṁ satya-saṅkalpatvaṁ nairghṛṇyādi-doṣa-rahitatvam ity evam ādikaṁ mama vasudeva-sūnor aiśvaraṁ yogaṁ paśya| yathā śrutiḥ---
Link copiedasmān māyī sṛjate viśvam etat
Link copiedtasmiṁś cānyo māyayā sannirūddhaḥ|
Link copiedmāyāṁ tu prakṛtiṁ vidyān
Link copiedmāyinaṁ tu maheśvaram|| [śve.u. 4.9-10] iti||9.10||
Link copied
avajānanti māṁ mūḍhā mānuṣīṁ tanum āśritam|
Link copiedparaṁ bhāvam ajānanto mama bhūta-maheśvaram||11||
Link copiedevaṁ māṁ bhūta-maheśvaraṁ sarvajñaṁ satya-saṅkalpaṁ nikhila-jagad-eka-kāraṇaṁ parama-kāruṇikatayā sarva-samāśrayaṇīyatvāya mānuṣīṁ tanum āśritaṁ sva-kṛtaiḥ pāpa-karmabhir mūḍhā avajānanti--- prākṛta-manuṣya-samaṁ manyante| bhūta-maheśvarasya mamāpāra-kāruṇyaudārya-sauśīlya-vātsalyādi-nibandhanaṁ manuṣyatva-samāśrayaṇa-lakṣaṇam imaṁ paraṁ bhāvam ajānanto manuṣyatva-samāśrayaṇa-mātreṇa mām itara-sajātīyaṁ matvā tiraskurvantīty arthaḥ||9.11||
Link copiedmoghāśā mogha-karmāṇo mogha-jñānā vicetasaḥ|
Link copiedrākṣasīm āsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ||12||
Link copiedmama manuṣyatve parama-kāruṇyādi-paratva-tirodhāna-karīṁ rākṣasīm āsurīṁ ca mohinīṁ prakṛtim āśritāḥ, moghāśāḥ mogha-vāñchitā niṣphala-vāñchitāḥ, mogha-karmāṇo moghārambhāḥ| mogha-jñānāḥ sarveṣu madīyeṣu carācareṣv artheṣu mayi ca viparīta-jñānatayā niṣphala-jñānāḥ| vicetasas tathā sarvatra vigata-yāthātmya-jñānāḥ, māṁ sarveśvaram itara-samaṁ matvā mayi yat kartum icchanti, yad uddiśya ārambhān kurvate, tat sarvaṁ moghaṁ bhavatīty arthaḥ||9.12||
Link copiedmahātmānas tu māṁ pārtha daivīṁ prakṛtim āśritāḥ|
Link copiedbhajanty ananya-manaso jñātvā bhūtādim avyayam||13||
Link copiedye tu sva-kṛtaiḥ puṇya-sacayair māṁ śaraṇam upagamya vidhvasta-samasta-pāpa-bandhā daivīṁ prakṛtim āśritāḥ mahātmānas te, bhūtādim avyayaṁ vāṅ-mānasāgocara-nāma-karma-svarūpaṁ parama-kāruṇikatayā sādhu-paritrāṇāya manuṣyatvenāvatīrṇaṁ māṁ jñātvā ananya-manasaḥ māṁ bhajante| mat-priyatvātirekeṇa mad-bhajanena vinā manasaś cātmanaś ca bāhya-karaṇānāṁ ca dhāraṇam alabhamānāḥ, mad-bhajanaika-prayojanā bhajante||9.13||
Link copiedsatataṁ kīrtayanto māṁ yatantaś ca dṛḍha-vratāḥ|
Link copiednamasyantaś ca māṁ bhaktyā nitya-yuktā upāsate||14||
Link copiedatyarthaṁ mat-priyatvena mat-kīrtana-yatana-namaskārair vinā kṣaṇāṇu-mātre'py ātma-dhāraṇam alabhamānā mad-guṇāviśeṣa-vācīni man-nāmāni smṛtvā pulakāñcita-sarvāṅgāḥ, harṣa-gadgada-kaṇṭhāḥ śrī-rāma-nārāyaṇa-kṛṣṇa-vāsudevety evam ādīni satataṁ kīrtayantas tathaiva yatanto mat-karmasv arcanādikeṣu vandana-stavana-karaṇādikeṣu tad-upakārakeṣu bhavana-nandana-vana-karaṇādikeṣu ca dṛḍha-saṅkalpā yatamānāḥ, bhakti-bhārāvanamita-mano-buddhy-abhimāna-pada-dvaya-kara-dvaya-śirobhir aṣṭaṅgair acintita-pāṁsu-kardama-śarkarādike dharā-tale daṇḍāvat praṇipatantaḥ, satataṁ māṁ nitya-yuktā nitya-yogam ākāṅkṣamāṇā ātmavanto mad-dāsya-vyavasāyina upāsate||9.14||
Link copiedjñāna-yajñena cāpy anye yajanto mām upāsate|
Link copiedekatvena pṛthaktvena bahudhā viśvato-mukham||15||
Link copiedanye'pi mahātmānaḥ pūrvoktaiḥ kīrtanādibhir jñānākhyena yajñena ca yajanto mām upāsate, katham| bahudhā pṛthaktvena jagad-ākāreṇa viśvato-mukhaṁ viśva-prakāram avasthitaṁ mām ekatvenopāsate| etad uktaṁ bhavati--- bhagavān vāsudeva eva nāma-rūpa-vibhāgānarhātisūkṣma-cid-acid-vastu-śarīraḥ san satya-saṅkalpo vividha-vibhakta-nāma-rūpa-sthūla-cid-acid-vastu-śarīraḥ syām iti saṅkalpya, sa eka eva deva-tiryaṅ-manuṣya-sthāvarākhya-vicitra-jagac-charīro'vatiṣṭhate ity anusandadhānāś ca mām upāsate iti||9.15||
Link copiedtathā hi viśva-śarīro'ham evāvasthitaḥ, ity āha---
Link copiedahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣadham|
Link copiedmantro'ham aham evājyam aham agnir ahaṁ hutam||16||
Link copiedahaṁ kratur ahaṁ jyotiṣṭomādika-kratur aham eva yajño mahā-yajño'ham eva svadhā pitṛ-gaṇa-puṣṭi-dāyinī auṣadhaṁ haviś cāham eva| aham eva ca mantro'ham evājyam| pradarśanārtham idam, somādikaṁ ca havir aham evety arthaḥ| aham āhavanīyādiko'gnir homaś cāham eva||9.16||
Link copiedpitāham asya jagato mātā dhātā pitāmahaḥ|
Link copiedvedyaṁ pavitram oṅkāra ṛk sāma yajur eva ca||17||
Link copiedasya sthāvara-jaṅgamātmakasya jagatas tatra tatra pitṛtvena mātṛtvena dhātṛtvena pitāmahatvena ca vartamāno'ham eva| atra dhātṛ-śabdo mātṛ-pitṛ-vyatirikte utpatti-prayojake cetana-viśeṣe varte| yat kiñcid veda-vedyaṁ pavitraṁ pāvanaṁ tad aham eva| vedakaś ca veda-bīja-bhūtaḥ praṇavo'ham eva| ṛk-sāma-yajur-ātmako vedaś cāham eva||9.17||
Link copiedgatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt|
Link copiedprabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam||18||
Link copiedgamyata iti gatiḥ, tatra tatra prāpya-sthānam ity arthaḥ| bhartā dhārayitā, prabhuḥ śāsitā, sākṣī sākṣād-draṣṭa, nivāso vāsa-sthānaṁ ca veśmādi, śaraṇam iṣṭasya prāpakatayāniṣṭasya nivāraṇatayā samāśrayaṇīyaś cetanaḥ śaraṇam, sa cāham eva suhṛt hitaiṣī, prabhava-pralaya-sthānaṁ yasya kasyacid yatra kutracit prabhava-pralayayoḥ yat sthānaṁ tad aham eva| nidhānaṁ nidhīyata iti nidhānam| utpādyam upasaṁhāryaṁ cāham eva ity arthaḥ| avyayaṁ bījaṁ tatra tatra vyaya-rahitaṁ yat kāraṇaṁ tad aham eva||9.18||
Link copiedtapāmy aham ahaṁ varṣaṁ nigṛhṇāmy utsṛjāmi ca|
Link copiedamṛtaṁ caiva mṛtyuś ca sad asac cāham arjuna||19||
Link copiedagnyādity-ādi-rūpeṇāham eva tapāmi, grīṣmādāv aham eva varṣaṁ nigṛhṇāmi tathā varṣāsv api cāham eva utsṛjāmi| amṛtaṁ caiva mṛtyuś ca yena jīvati loko yena ca mriyate, tad ubhayam apy aham eva| kim atra bahunoktena| sad asac cāpy aham eva| sad yad vartate, asad yad atītam anāgataṁ ca, sarvāvasthāvasthita-cid-acid-vastu-śarīratayā tat-tat-prakāro 'ham evāvasthita ity arthaḥ| evaṁ bahudhā pṛthaktvena vibhakta-nāma-rūpāvasthita-kṛtsna-jagac-charīratayā tat-prakāro'ham evāvasthita ity ekatva-jñānenānusandadhānāś ca mām upāsate ta eva mahātmānaḥ||9.19||
Link copiedevaṁ mahātmanāṁ jñānināṁ bhagavad-anubhavaika-bhogānāṁ vṛttam uktvā teṣām eva viśeṣaṁ darśayitum ajñānāṁ kāma-kāmānāṁ vṛttam āha---
Link copiedtraividyā māṁ somapāḥ pūta-pāpā
Link copiedyajñair iṣṭvā svar-gatiṁ prārthayante|
Link copiedte puṇyam āsādya surendra-lokam
Link copiedaśnanti divyān divi deva-bhogān||20||
Link copiedṛg-yajuḥ sāmarūpās tisro vidyās tri-vidyam, kevalaṁ tri-vidya-niṣṭhās traividyāḥ| na tu trayy-antaṁ niṣṭhāḥ, trayy-anta-niṣṭhā hi mahātmānaḥ pūrvokta-prakāreṇākhila-veda-vedyaṁ mām eva jñātvā atimātra-mad-bhakti-kārita-kīrtanādibhir jñāna-yajñena ca mad-eka-prāpyā mām evopāsate| traividyās tu veda-pratipādya-kevalendrādi-yāga-śiṣṭa-somān pibantaḥ pūta-pāpāḥ svargādi-prāpti-virodhi-pāpāt pūtās taiḥ kevalendrādi-daivatyatayānusaṁhitair yajñair vastutas tad-rūpaṁ mām iṣṭvā tathāvasthitaṁ mām ajānantaḥ svarga-gatiṁ prārthayante| te puṇyaṁ duḥkhāsambhinnaṁ surendra-lokaṁ prāpya tatra tatra divyān deva-bhogān aśnanti||9.20||
Link copiedte taṁ bhuktvā svarga-lokaṁ viśālaṁ
Link copiedkṣīṇe puṇye martya-lokaṁ viśanti|
Link copiedevaṁ trayī-dharmam anuprapannā
Link copiedgatāgataṁ kāma-kāmā labhante||21||
Link copiedte taṁ viśālaṁ svarga-lokaṁ bhuktvā tad-anubhava-hetu-bhūte puṇye kṣīṇe punar api martya-lokaṁ viśanti| evaṁ trayy-anta-siddha-jñāna-vidhurāḥ kāmya-svargādi-kāmāḥ kevalaṁ trayī-dharmam anuprapannā gatāgataṁ labhante| alpāsthira-svargādīn anubhūya punaḥ punaḥ nivartanta ity arthaḥ||9.21||
Link copiedmahātmānas tu niratiśaya-priya-rūpaṁ mac-cintanaṁ kṛtvā mām anavadhikātiśayānandaṁ prāpya na punar āvartanta iti teṣāṁ viśeṣaṁ darśayati---
Link copiedananyāś cintayanto māṁ ye janāḥ paryupāsate|
Link copiedteṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmy aham||22||
Link copiedananyā ananya-prayojanā mac-cintanena vinātma-dhāraṇā-lābhān mac-cintanaika-prayojanā māṁ cintayanto ye mahātmāno janāḥ paryupāsate sarva-kalyāṇa-guṇānvitaṁ sarva-vibhūti-yuktaṁ māṁ parita upāsate'nyūnam upāsate teṣāṁ nityābhiyuktānāṁ mayi nityābhiyogaṁ kāṅkṣamāṇānām ahaṁ mat-prāpti-lakṣaṇaṁ yogam apunar-āvṛtti-rūpaṁ kṣemaṁ ca vahāmi||9.22||
Link copiedye'py anya-devatā-bhaktā yajante śraddhayānvitāḥ|
Link copiedte'pi mām eva kaunteya yajanty avidhi-pūrvakam||23||
Link copiedye'py anya-devatā-bhaktā ye tv indrādi-devatā-bhaktāḥ kevala-trayī-niṣṭhāḥ śraddhayānvitāḥ indrādīn yajante, te'pi pūrvoktena nyāyena sarvasya mac-charīratayā mad-ātmatvena indrādi-śabdānāṁ ca mad-vācitvād vastuto mām eva yajante'pi tv avidhi-pūrvakaṁ yajante| indrādīnāṁ devatānāṁ karmasv ārādhyatayā anvayaṁ yathā vedānta-vākyāni catur-hotāro yatra sampadaṁ gacchanti devaiḥ [tai.ā. 4] ity ādīni vidadhati, na tat-pūrvakaṁ yajante| vedānta-vākya-jātaṁ hi parama-puruṣa-śarīratayāvasthitānām indrādīnām ārādhyatvaṁ vidadhad ātma-bhūtasya parama-puruṣasyaiva sākṣād ārādhyatvaṁ vidadhāti|
Link copiedcaturhotāro'gnihotra-darśa-paurṇamāsādīni karmāṇi kurvāṇā yatra paramātmany ātmatayā avasthite saty eva tac-charīra-bhūtair indrādi-devaiḥ sampadaṁ gacchanti, indrādi-devānām ārādhanāni etāni karmāṇi mad-viṣayāṇīti māṁ sampadaṁ gacchantīty arthaḥ||9.23||
Link copiedatas traividyā indrādi-śarīrasya parama-puruṣasyārādhanāny etāni karmāṇi| ārādhyaś ca sa eveti na jānanti| te ca parimita-phala-bhāginaś cyavana-svabhāvāś ca bhavanti, tad āha---
Link copiedahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca|
Link copiedna tu mām abhijānanti tattvenātaś cyavanti te||24||
Link copiedprabhur eva ca tatra tatra phala-pradātā cāham evety arthaḥ||9.24||
Link copiedaho mahad idaṁ vaicitryaṁ yad ekasminn eva karmaṇi vartamānāḥ saṅkalpa-mātra-bhedena kecid atyalpa-phala-bhāginaś cyavana-svabhāvāś ca bhavanti, kecanānavadhikātiśayānanda-parama-puruṣa-prāpti-rūpa-phala-bhāgino'punar-āvartinaś ca bhavanti, ity āha---
Link copiedyānti deva-vratā devān pitṝn yānti pitṛ-vratāḥ|
Link copiedbhūtāni yānti bhūtejyā yānti mad-yājino'pi mām||25||
Link copiedvrata-śabdaḥ saṅkalpa-vācī, deva-vratāḥ darśa-paurṇamāsādibhiḥ karmabhir indrādīn yajāmaḥ, itīndrādi-yajana-saṅkalpāḥ| ye ta indrādi-devān yānti| ye ca pitṛ-yajñādibhiḥ pitṝn yajāmaḥ, iti pitṛ-yajana-saṅkalpāḥ, te pitṝn yānti| ye ca yakṣa-rakṣaḥ piśācādīni bhūtāni yajāmaḥ, iti bhūta-yajana-saṅkalpāḥ, te bhūtāni yānti| ye tu tair eva yajñair deva-pitṛ-bhūta-śarīrakaṁ paramātmānaṁ bhagavantaṁ vāsudevaṁ yajāma iti māṁ yajante te mad-yājino mām eva yānti| devādi-vratā devādīn prāpya taiḥ saha parimitaṁ bhogaṁ bhuktvā teṣāṁ vināśa-kāle taiḥ saha vinaṣṭā bhavanti| mad-yājinas tu mām anādi-nidhanaṁ sarvajñaṁ satya-saṅkalpam anavadhikātiśayāsaṅkhyeya-kalyāṇa-guṇa-gaṇa-mahodadhim anavadhikātiśayānandaṁ prāpya na punar nivartanta ity arthaḥ||9.25||
Link copiedmad-yājinām ayam api viśeṣo'stīty āha---
Link copiedpatraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati|
Link copiedtad ahaṁ bhakty-upahṛtam aśnāmi prayatātmanaḥ||26||
Link copiedsarva-sulabhaṁ patraṁ vā puṣpaṁ vā phalaṁ vā toyaṁ vā yo bhaktyā me prayacchaty atyartha-mat-priyatayā tat-pradānena vinā ātma-dhāraṇam alabhamānatayā tad-eka-prayojano yo me patrādikaṁ dadāti tasya prayatātmanas tat-pradānaika-prayojanatva-rūpa-śuddhi-yukta-manasas tat tathā-vidha-bhakty-upahṛtam ahaṁ sarveśvaro nikhila-jagad-udaya-vibhava-laya-līlo'vāpta-samasta-kāmaḥ satya-saṅkalpo'navadhikātiśayāsaṅkhye-kalyāṇa-guṇa-gaṇaḥ svābhāvikānavadhikātiśayānanda-svānubhave vartamāno'pi, manoratha-patha-dūravarti priyaṁ prāpya ivāśnāmi| yathoktaṁ mokṣa-dharme---
Link copiedyāḥ kriyāḥ samprayuktāḥ syur
Link copiedekānta-gata-buddhibhiḥ|
Link copiedtāḥ sarvāḥ śirasā devaḥ
Link copiedpratigṛhṇāti vai svayam|| [ma.bhā. 12.340.64] iti||9.26||
Link copied
yasmāj jñānināṁ mahātmanāṁ vāṅ-manasāgocaro'yaṁ viśeṣas tasmāt tvaṁ ca jñānī bhūtvā ukta-lakṣaṇa-bhakti-bhārāvanatātmātmīyaḥ kīrtana-yatanārcana-praṇāmādikaṁ satataṁ kurvāṇo laukikaṁ vaidikaṁ ca nitya-naimittikaṁ karma cetthaṁ kurv ity āha---
Link copiedyat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat|
Link copiedyat tapasyasi kaunteya tat kuruṣva mad-arpaṇam||27||
Link copiedyad deha-yātrādi-śeṣa-bhūtaṁ laukikaṁ karma karoṣi, yac ca deha-dhāraṇāyāśnāsi, yac ca vaidikaṁ homa-dāna-tapaḥ-prabhṛti nitya-naimittikaṁ karma karoṣi, tat sarvaṁ mad-arpaṇaṁ kuruṣva| arpyata ity arpaṇam, sarvasya laukikasya vaidikasya ca karmaṇaḥ kartṛtvaṁ bhoktṛtvam ārādhyatvaṁ ca yathā mayi sarvaṁ samarpitaṁ bhavati tathā kuru|
Link copiedetad uktaṁ bhavati--- yāga-dānādiṣv ārādhyatayā pratīyamānānāṁ devādīnāṁ karma-kartur bhoktus tava ca madīyatayā mat-saṅkalpāyatta-svarūpa-sthiti-pravṛttitayā ca mayy eva parama-śeṣiṇi parama-kartari tvāṁ ca kartāraṁ bhoktāram ārādhakam ārādhyaṁ ca devatā-jātam ārādhanaṁ ca kriyā-jātaṁ sarvaṁ samarpaya| tava man-niyāmyatā-pūrvaka-mac-cheṣataika-rasatām ārādhyādeś ca etat-svabhāvaka-garbhatām atyartha-prīti-yukto'nusandhatsva iti||9.27||
Link copiedśubhāśubha-phalair evaṁ mokṣyase karma-bandhanaiḥ|
Link copiedsannyāsa-yoga-yuktātmā vimukto mām upaiṣyasi||28||
Link copiedevaṁ sannyāsākhya-yoga-yukta-manā ātmānaṁ mac-cheṣatā-man-niyāmyataika-rasaṁ karma ca sarvaṁ mad-ārādhanam anusandadhāno laukikaṁ vaidikaṁ ca karma kurvan śubhāśubha-phalair anantaiḥ prācīna-karmākhyair bandhanair mat-prāpti-virodhibhiḥ sarvaiḥ mokṣyase, tair vimukto mām evopaiṣyasi||9.28||
Link copiedmamemaṁ paramam atilokaṁ svabhāvaṁ sṛṇu---
Link copiedsamo'haṁ sarva-bhūteṣu na me dveṣyo'sti na priyaḥ|
Link copiedye bhajanti tu māṁ bhaktyā mayi te teṣu cāpy aham||29||
Link copieddeva-tiryaṅ-manuṣya-sthāvarātmanā sthiteṣu jātitaś cākārataḥ svabhāvato jñānataś cātyantotkṛṣṭāpakṛṣṭa-rūpeṇa vartamāneṣu sarveṣu bhūteṣu samāśrayaṇīyatvena samo'ham| ayaṁ jātyākāra-svabhāva-jñānādibhir nikṛṣṭa iti samāśrayaṇe na me dveṣyo'sty udvejanīyatayā na tyājyo'sti| tathā samāśritatvātirekeṇa jāty-ādibhir atyantotkṛṣṭo'yam iti tad-yuktatayā samāśrayaṇe na kaścit priyo'sti na saṅgrāhyo'sti|
Link copiedapi tv atyartha-mat-priyatvena mad-bhajanena vinātma-dhāraṇālābhān mad-bhajanaika-prayojanā ye māṁ bhajante te jāty-ādibhir utkṛṣṭā apakṛṣṭā vā mat-samāna-guṇavad yathā-sukhaṁ mayy eva vartante| aham api teṣu mad-utkṛṣṭeṣv iva varte||9.29||
Link copiedapi cet sudurācāro bhajate mām ananya-bhāk|
Link copiedsādhur eva sa mantavyaḥ samyag vyavasito hi saḥ||30||
Link copiedtatrāpi tatra tatra jāti-viśeṣe jātānāṁ yaḥ samācāra upādeyaḥ pariharaṇīyaś ca, tasmād ativṛtto'py ukta-prakāreṇa mām ananya-bhāg bhajanaika-prayojano bhajate cet sādhur eva sa vaiṣṇavāgresara eva mantavyaḥ, bahu-mantavyaḥ pūrvoktaiḥ sama ity arthaḥ| kuta etat| samyag vyavasito hi saḥ, yato'sya vyavasāyaḥ susamīcīnaḥ|
Link copiedbhagavān nikhila-jagad-eka-kāraṇa-bhūtaḥ para-brahma nārāyaṇaś carācara-patir asmat-svāmī mama gurur mama suhṛn mama paraṁ bhogyam iti sarvair duṣprāpo'yaṁ vyavasāyas tena kṛtaḥ, tat-kāryaṁ cānanya-prayojanaṁ nirantara-bhajanaṁ tasyāsti, ataḥ sādhur eva bahu-mantavyaḥ|
Link copiedasmin vyavasāye tat-kārye cokta-prakāra-bhajane sampanne sati tasya ācāra-vyatikramaḥ svalpa-vaikalyam iti na tāvatā anādaraṇīyaḥ, api tu bahu-mantavya evety arthaḥ||9.30||
Link copiednanu---
Link copiednāvirato duścaritān nāśānto nāsamāhitaḥ|
Link copiednāśānta-mānaso vāpi prajñānenainam āpnuyāt|| [ka.u. 1.2.24]
Link copied
ity-ādi-śruteḥ ācāra-vyatikrama uttarottara-bhajanotpatti-pravāhaṁ niruṇāddhīty atrāha---
Link copiedkṣipraṁ bhavati dharmātmā śaśvac-chāntiṁ nigacchati|
Link copiedkaunteya pratijānīhi na me bhaktaḥ praṇaśyati||31||
Link copiedmat-priyatva-kāritānanya-prayojana-mad-bhajanena vidhūta-pāpatayaiva sa-mūlonmūlita-rajas-tamo-guṇaḥ kṣipraṁ dharmātmā bhavati kṣipram eva virodhi-rahita-sa-parikara-mad-bhajanaika-manā bhavati| evaṁ-rūpa-bhajanam eva hi dharmasyāsya parantapa [9.3] ity upakrame dharma-śabdoditaḥ|
Link copiedśaśvac-chāntiṁ nigacchati| śāśvatīm apunar-āvartinīṁ mat-prāpti-virodhy-ācāra-nivṛttiṁ gacchati| kaunteya ! tvam evāsmin arthe pratijñāṁ kuru mad-bhaktau upakrānto virodhy-ācāra-miśro'pi na naśyaty api tu mad-bhakti-māhātmyena sarvaṁ virodhi-jātaṁ nāśayitvā śāśvatīṁ virodhi-nivṛttim adhigamya kṣipraṁ paripūrṇa-bhaktir bhavati||9.31||
Link copiedmāṁ hi pārtha vyapāśritya ye'pi syuḥ pāpa-yonayaḥ|
Link copiedstriyo vaiśyās tathā śūdrās te'pi yānti parāṁ gatim||32||
Link copiedstriyo vaiśyāḥ śūdrāś ca pāpa-yonayo'pi māṁ vyapāśritya parāṁ gatiṁ yānti||9.32||
Link copiedkiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā|
Link copiedanityam asukhaṁ lokam imaṁ prāpya bhajasva mām||33||
Link copiedkiṁ punaḥ puṇya-yonayo brāhmaṇāḥ rājarṣayaś ca mad-bhaktim āśritāḥ| atas tvaṁ rājarṣir asthiraṁ tāpa-trayābhihatatayā asukhaṁ cemaṁ lokaṁ prāpya vartamāno māṁ bhajasva|
Link copiedbhakti-svarūpam āha---
Link copiedman-manā bhava mad-bhakto mad-yājī māṁ namaskuru|
Link copiedmām evaiṣyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ||34||
Link copiedman-manā bhava mayi sarveśvare nikhila-heya-pratyanīka-kalyāṇaika-tāne sarvajñe satya-saṅkalpe nikhila-jagad-eka-kāraṇe parasmin brahmaṇi puruṣottame puṇḍārīka-dalāmalāyatekṣaṇe svaccha-nīla-jīmūta-saṅkāśe yugapad-udita-dinakara-sahasra-sadṛśa-tejasi lāvaṇyāmṛta-mahodadhāv udāra-pīvara-catur-bāhav atyujjvala-pītāmbare 'mala-kirīṭa-makara-kuṇḍāla-hāra-keyūra-kaṭakādi-bhūṣite'pāra-kāruṇya-sauśīlya-saundarya-mādhurya-gāmbhīryaudārya-vātsalya-jaladhav anālocita-viśeṣāśeṣa-loka-śaraṇye sarva-svāmini taila-dhārāvad avicchedena niviṣṭa-manā bhava|
Link copiedtad eva viśinaṣṭi--- mad-bhakto'tyartha-mat-priyatvena yukto man-manā bhava ity arthaḥ| punar api viśinaṣṭi--- mad-yājī anavadhikātiśaya-priya-mad-anubhava-kārita-mad-yajana-paro bhava| yajanaṁ nāma paripūrṇa-śeṣa-vṛttiḥ, aupacārika-sāṁsparśikābhyavahārikādi-sakala-bhoga-pradāna-rūpo hi yāgaḥ| yathā mad-anubhava-janita-niravadhikātiśaya-prītikārita-mad-yajana-paro bhavasi tathā man-manā bhava ity uktaṁ bhavati|
Link copiedpunar api tad eva viśinaṣṭi--- māṁ namaskuru, anavadhikātiśaya-priya-mad-anubhava-kāritātyartha-priyāśeṣa-śeṣa-vṛttav aparyavasyan mayy antar-ātmany atimātra-prahvībhāva-vyavasāyaṁ kuru| mat-parāyaṇo'ham eva param ayanaṁ yasyāsau mat-parāyaṇaḥ, mayā vinā ātma-dhāraṇā-sambhāvanayā mad-āśraya ity arthaḥ| evam ātmānaṁ yuktvā mat-parāyaṇas tvam evam anavadhikātiśaya-prītyā mad-anubhava-samarthaṁ manaḥ prāpya mām evaiṣyasi| ātma-śabdo hy atra mano-viṣayaḥ| evaṁ-rūpeṇa manasā māṁ dhyātvā mām anubhūya mām iṣṭvā māṁ namaskṛtya mat-parāyaṇo mām eva prāpsyasīty arthaḥ|
Link copiedtad evaṁ laukikāni śarīra-dhāraṇārthāni vaidikāni ca nitya-naimittikāni karmāṇi mat-prītaye mac-cheṣataika-raso mayaiva kārita iti kurvan satataṁ mat-kīrtana-yajana-namaskārādikān prītyā kurvāṇo man-niyāmyaṁ nikhila-jagat mac-cheṣataika-rasam iti cānusandadhānaḥ, atyartha-priya-mad-guṇa-gaṇaṁ cānusandhāyāhar-ahar ukta-lakṣaṇam idam upāsanam upādadhāno mām eva prāpsyasi||9.34||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye navamo'dhyāyaḥ ||9||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 9 — The Book of Kingly Wisdom and Kingly Mystery (in Sanskrit: Rāja-Vidyā-Rāja-Guhya-Yoga)
Having discussed the kinds of devotees, Sri Krishna now speaks of the glorious greatness of Parama-Puruṣa, the importance of the God-saints (jñānīs), and the nature of devotion (bhakti) itself. This chapter contains some of the most moving declarations of the Lord's accessibility and of the supreme worth of exclusive loving devotion.
Link copiedVerses 1–3 (The sovereign knowledge)
Verse 9.1. — "To you, the undistrusting, I shall declare this most mysterious jñāna coupled with vijñāna, knowing which you shall be freed from all impurity."
Link copiedArjuna is called "undistrusting" because he is of such a godly disposition that, hearing of the Lord's limitless, matchless glory, he trusts it fully. Knowing this and practicing it, he will be relieved of all that obstructs his attaining the Lord.
Link copiedVerse 9.2. — "This is the sovereign knowledge, the sovereign mystery — sanctifying, supreme, directly realizable, righteous, most pleasant to practice, and imperishable."
Link copiedRāja-vidyā — kingly knowledge — is knowledge fit for those of lofty hearts who know what to hold sacred. Rāja-guhya — kingly mystery. Pavitram — that which cleanses all taints. Pratyakṣāvagamam — directly perceivable, for when one worships the Lord in bhakti, He immediately reveals Himself. Dharmyam — inseparable from virtue. Su-sukham — most pleasant to practice. Avyayam — imperishable, for God-love does not cease upon attaining Him but flows on unabatingly. The Lord considers that even when He gives Himself entirely to such a devotee, He has done little to repay the devotee's love.
Link copiedVerse 9.3. — "People who disregard this dharma, O Parantapa, fail to attain Me and revolve back through the mortal course of saṁsāra."
Link copiedThose who stand on the brink of this devotion but are lacking in fervor fall short and are swept along the current of lethal saṁsāra.
Link copiedVerses 4–10 (The Lord as the inner Ruler of all)
Verse 9.4. — "By Me, in My subtle form, all this cosmos is pervaded. All beings rest in Me, but I do not rest in them."
Link copiedIn His unmanifest, inner-ruling form, He pervades all sentient and insentient creatures, as the Sovereign Lord sustaining and ordering the universe.
Link copiedVerse 9.5. — "Behold My divine power — beings are not upheld by Me, yet I am the Upholder of all. By My will alone I sustain them."
Link copiedHe is not supported by them as a vessel holds water; He sustains all by His will. His is the unique power that has no parallel elsewhere.
Link copiedVerse 9.6. — "Know that as the mighty air, suspended in space and moving everywhere, rests in the propless vault of space, so all beings rest in Me."
Link copiedAll things are in Him, Himself unseen. The Vedas proclaim that it is by His command alone that the sun and moon, fire and wind, are held in their courses.
Link copiedVerse 9.7. — "All beings, O Kaunteya, enter My Nature at the end of a kalpa; at the beginning of a kalpa, I emit them again."
Link copiedAt the great dissolution, all movable and immovable beings enter His Nature — the undifferentiated matter-stuff called tamas, His body in its indistinct state. At the dawn of the next kalpa, He sends them forth again.
Link copiedVerse 9.8. — "Resorting to My own Nature, I send forth, again and again, this entire host of beings, helpless in the power of Nature."
Link copiedHe has recourse to His own marvelous Nature and causes it to differentiate eightfold, bringing forth the four-fold creation of devas, humans, animals, and plants, all lying dormant within the folds of His guṇa-laden Nature.
Link copiedVerse 9.9. — "These acts, O Dhanañjaya, do not bind Me. I sit indifferent, unattached to those acts."
Link copiedThe inequalities of creation do not implicate Him, for the differences among beings are caused by their own past deeds, which He merely takes into account. He Himself stands as a passive neutral.
Link copiedVerse 9.10. — "Under My supervision, Nature begets all moving and non-moving things. For this reason, O Kaunteya, the universe turns."
Link copiedDetermined by souls' merits and demerits, Nature brings forth all under His superintendence. The Vedas call Him the Mayī — the Wielder of Nature as His instrument.
Link copiedVerses 11–15 (The ignorant and the great-souled)
Verse 9.11. — "The witless, ignoring My transcendent nature as Sovereign of all beings, fancy Me a mere mortal when I take human form."
Link copiedIgnorant dunces, on account of their sins, mistake the Lord — the Great Lord of creatures, the Omniscient, assuming human form out of compassion to be accessible to all — for an ordinary mortal.
Link copiedVerse 9.12. — "Wedded to a deceitful, fiendish, demonic nature, they are of vain hopes, vain acts, vain knowledge, and perverted minds."
Link copiedTheir fiendish nature shuts out from view the Lord's superior attributes hidden under His human exterior. Their longings, efforts, and knowledge all go in vain.
Link copiedVerse 9.13. — "But the great-souled, O Partha, wedded to the divine nature, know Me as the Origin of things and the Inexhaustible, and worship Me with minds undivided."
Link copiedThose whose merits have led them to refuge in Him — whose bonds of sin are broken, who share the divine nature — are mahātmās. They worship Him with a mind so transported with love that, without such devotion, life itself would be unbearable.
Link copiedVerse 9.14. — "Ever chanting hymns of Me, in firm resolve engaged in My service, bowing before Me in rapt love, they — the hopers of eternal union — meditate on Me."
Link copiedOverwhelmed with love, they find existence impossible for even an instant without singing His names, performing holy exercises, or prostrating. They repeat the names Nārāyaṇa, Krishna, Vāsudeva, their frames quivering, hairs bristling, voices tremulous. They stretch themselves on the ground like fragile reeds, regardless of dust and pebbles, all eight members falling in prostration. They ever pray to be eternally united with Him, realizing their true nature of holy servitude (dāsya).
Link copiedVerse 9.15. — "Others worship Me by the Sacrifice of Knowledge — meditating on Me as the Unity, the Distinctivity, the Diversity, the Infinity."
Link copiedThe Blessed Lord Vāsudeva alone is the Unity that, by His unopposable will, manifests as the marvelous variety of devas, humans, animals, and plants — all constituting His body.
Link copiedVerses 16–19 (The Lord as the all of sacrifice and cosmos)
Verse 9.16. — "I am the kratu, I am the yajña, I am the svadhā, I am the auṣadha, I am the mantra, I Myself the butter, I the fire, I the offering."
Link copiedOf Veda-rituals, daily obligations, the food offered to ancestors, the grain and herbs, the sacred chants, the clarified butter, the fire, the act of sacrifice — He is all.
Link copiedVerse 9.17. — "Of this universe I am the Father, the Mother, the Patriarch, the Grandsire, the Knowable, the Holy, the syllable Om, and the Ṛik, Sāma, and Yajus."
Link copiedVerse 9.18. — "I am the Way, the Prop, the Master, the Witness, the Abode, the Refuge, the Friend; the Seat of evolution and dissolution, the Deposit, and the Imperishable Seed."
Link copiedVerse 9.19. — "I give heat; I send and hold back rain; I am Immortality as well as Death; sat and asat am I, O Arjuna."
Link copiedHe exists in every mode in which the sum of intelligent and non-intelligent things — composing His body — exists. The great-souled contemplate Him as the Unity corporeally manifesting in every shape of the cosmos.
Link copiedVerses 20–25 (The lower worship and its limited fruit)
Verse 9.20. — "The followers of the three Vedas, Soma-drinkers, sin-purified, pray for svarga by sacrifices; reaching Indra's joyous world, they taste in heaven the delights of the devas."
Link copiedVerse 9.21. — "Having enjoyed that spacious svarga, their merit spent, they return to the mortal world. Thus the pursuers of desires addicted to the three Vedas obtain only the transitory."
Link copiedThe followers of the three Vedas pray for heaven; the followers of the Vedāntas — the mahātmās — know the Lord Himself, worshipping Him as their sole Acme of ambition. The others fall when their merit runs out.
Link copiedVerse 9.22. — "Those who, excluding all else, ever meditate on Me — for them, ever longing for eternal union, I Myself secure that union and preserve it."
Link copiedSuch mahātmās whose center of hope is exclusively the Lord — contemplating Him in His fullness — He Himself secures the yoga (union) from which there is no returning, and perpetuates it as kṣema (preservation).
Link copiedVerse 9.23. — "Even those who worship other gods in faith and love actually worship Me, O Kaunteya — but in an improper manner."
Link copiedAll the lesser gods constitute His body, of which He is the Soul. Worship addressed to them is in reality addressed to Him. But the ignorant worshippers, not knowing this, earn only limited and fleeting fruit.
Link copiedVerse 9.24. — "For I am the Enjoyer and sole Lord of all sacrifices. But they know Me not rightly, and therefore fall."
Link copiedBy the same acts, some earn trivial fruit and fall again; others gain the unlimited, transcendent fruit — the Lord Himself — and never lose Him.
Link copiedVerse 9.25. — "Worshippers of the devas go to the devas; worshippers of the Pitṛs to the Pitṛs; worshippers of the bhūtas to the bhūtas; and My worshippers come to Me."
Link copiedEach is rewarded according to his intention.
Link copiedVerses 26–28 (The Lord's welcome of the humblest offering)
Verse 9.26. — "Whoever offers Me in love a leaf, a flower, a fruit, or water — that, so lovingly offered in pure-heartedness, I accept."
Link copiedLove is loving Him so ardently that the devotee cannot bear his own existence without offering something for His acceptance, and feels that the very act of offering is itself the fulfilment of his aim. Though the Lord naturally enjoys supreme felicity, He delights in such an offering as though it were a rare treasure beyond distant expectation. The Mokṣa-dharma says: "Whatever acts are consecrated to God with single-pointed devotion, God Himself accepts them all upon His head."
Link copiedVerse 9.27. — "Whatever you do, eat, oblate, give, or perform as austerity, O Kaunteya, do that as an offering to Me."
Link copiedWhatever secular occupation sustains life, whatever food you eat, whatever daily and occasional duties you fulfill — sacrifice, charity, austerity — deliver all to Him. Let the doer, the enjoyer, and the worshipped be all offered up in Him.
Link copiedVerse 9.28. — "Thus shall you be freed from the bonds of karma with its good and evil fruits. Mind united in the yoga of renunciation, liberated, you shall come to Me."
Link copiedSannyāsa-yoga is the complete surrender of all. Pondering on the soul as solely subject to the Lord, and calculating every act as His worship, you will be freed from the measureless accumulation of past deeds barring your way.
Link copiedVerses 29–34 (The Lord's impartial love and the supremacy of devotion)
Verse 9.29. — "I am the same to all beings; to Me there is no foe nor friend. But those who worship Me with love are in Me, and I in them."
Link copiedRegardless of caste, color, nature, or understanding, the Lord is equal. No superiority grants automatic acceptance; no inferiority warrants rejection. The sole claim is refuge in Him. Whoever, of whatever description, worships Him as the sole Object of love — his very being would be imperiled without it — dwells in Him in a blessedness comparable to the Lord's own, and the Lord dwells in him as if he were the Lord's better.
Link copiedVerse 9.30. — "Even a man of flagrantly wicked conduct, if he worships Me with exclusive devotion, is to be esteemed righteous, for he has steered aright."
Link copiedEven if he transgresses the rules of his caste, he is a sādhu, a staunch Vaiṣṇava. His firm belief — which all cannot attain — is that the Lord alone is the Cause of the cosmos, his Sovereign, his Teacher, his Friend, his supreme Joy. Slight derelictions cannot eclipse the single-minded worship.
Link copiedVerse 9.31. — "Swiftly he becomes a holy soul, and flies to eternal peace. Proclaim, O Kaunteya, that My bhakta never perishes."
Link copiedThrough love of the Lord, he is soon shorn of sin; the rajas and tamas are rooted out; he quickly becomes a dharmātmā. He goes to the eternal state from which there is no return. Arjuna is asked to give assurance to the world of this unshakable rule: the bhakta does not perish.
Link copiedVerse 9.32. — "Even those born of sin — women, vaiśyas, śūdras — by trusting in Me go to the supreme state."
Link copiedVerse 9.33. — "How much more, then, the righteous brāhmaṇas and king-saints? Having entered this transient, joyless world, worship Me."
Link copiedVerse 9.34. — "Fix your mind on Me; be My devotee; worship Me; bow to Me. Thus disciplining yourself, wholly given to Me, you shall come to Me."
Link copiedMan-manāḥ — heart set on Me: let your heart flow ceaselessly, like a stream of poured oil, toward the Lord — the Lord of all, the Omniscient, the Parabrahma, the Puruṣottama — of lotus-like eyes, uniform blue-cloud hue, brilliance of a thousand suns, nectar-ocean of loveliness, four-armed, orange-robed, ornate with diadem, ear-rings, garlands, and bracelets; Ocean of Mercy, Compassion, Beauty, Sweetness, Dignity, Bounty, Affection; Asylum of all the worlds.
Link copiedMad-bhakta — let your heart be permeated with absorbing love. Mad-yājī — let the delight of enjoying Him in love flower into worship: the externals (camphor, fans), the tactile (sandal, garlands), and the offerings of food. Māṁ namaskuru — bow in homage and humility to Him, your Inner Soul. Mat-parāyaṇaḥ — rely on Him solely, without whom you could not exist.
Link copiedThus, with mind one-pointed, enjoying Him, serving Him, prostrating to Him, you shall attain Him. Perform secular and scriptural duties as if all were done to please Him. Sing His praises, serve Him, bow to Him. Contemplate the universe as under His rule, as essentially His appendage. Reflect on the multitude of His lovable attributes. Thus daily engaged, you shall reach Him.
Link copiedThus closes the ninth discourse, named Rāja-Vidyā-Rāja-Guhya-Yoga — the Book of Kingly Wisdom and Kingly Mystery.
Link copied