Skip to content

Bhagavad Gita Bhashya · Section 9 of 19

athāṣṭamo'dhyāyaḥ

Sanskrit (IAST) · click to toggle

सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वꣳ, निखिल-चेतनाचेतन-वस्तु-शेषित्वꣳ, कारणत्वꣳ, आधारत्वꣳ, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वꣳ, सर्व-नियन्तृत्वꣳ, सर्वैश् च कल्याण-गुण-गणैर् एकाश्रयत्वꣳ तस्यैव परतरत्वꣳ च, सत्त्व-रजस्-तमो-मयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्। अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या च तन्-निवर्तनꣳ, सुकृत-तारतम्येन च प्रतिपत्ति-वैषेष्याद् ऐश्वर्याक्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयोपासक-भेदꣳ, भगवन्तꣳ प्रेप्सोर् नित्य-युक्ततयिक-भक्तितया चात्यर्थ-परम-पुरुष-प्रियत्वेन श्रैष्ठ्यꣳ, दुर्लभत्वꣳ च प्रतिपाद्य एषाꣳ त्रयाणाꣳ ज्ञातव्योपादेय-भेदाꣳश् च प्रास्तौषीत्। इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेय-भेदान् विविनक्ति---

Link copied

किꣳ तद् ब्रह्म किम् अध्यात्मꣳ किꣳ कर्म पुरुषोत्तम

Link copied

अधिभूतꣳ च किꣳ प्रोक्तम् अधिदैवꣳ किम् उच्यते

Link copied

अधियज्ञः कथꣳ कोऽत्र देहेऽस्मिन् मधुसूदन

Link copied

प्रयाण-काले च कथꣳ ज्ञेयोऽसि नियतात्मभिः

Link copied

जरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानाꣳ ज्ञातव्यतयोक्तꣳ तद् ब्रह्माध्यात्मꣳ च कर्म च किम् इति वक्तव्यम्। ऐश्वर्यार्थिनाꣳ ज्ञातव्यम् अधिभूतम् अधिदैवꣳ च किꣳ। त्रयाणाꣳ ज्ञातव्योऽधियज्ञ-शब्द-निर्दिष्टश् च कः। तस्य चाधियज्ञ-भावः कथꣳ। प्रयाण-काले चैभिस् त्रिभिः नियतात्मभिः कथꣳ ज्ञेयोऽसि॥।८।१--- ८।२॥

Link copied

श्री-भगवान् उवाच

Link copied

अक्षरꣳ ब्रह्म परमꣳ स्वभावोऽध्यात्मम् उच्यते

Link copied

भूतभावोद्भव-करो विसर्गः कर्म-सꣳज्ञितः

Link copied

तद् ब्रह्म इति निर्दिष्टꣳ परमम् अक्षरꣳ न क्षरतीत्य् अक्षरꣳ क्षेत्रज्ञꣳ समष्टि-रूपम्। तथा च श्रुतिर् अव्यक्तम् अक्षरे लीयतेऽक्षरꣳ तमसि लीयते [सु।उ। २] इत्य् आदिका। परमम् अक्षरꣳ प्रकृति-विनिर्मुक्तात्म-स्वरूपम्। स्वभावोऽध्यात्मम् उच्यते स्वभावः प्रकृतिर् अनात्म-भूतम् आत्मनि सम्बद्ध्यमानꣳ भूत-सूक्ष्म-तद्-वासनादिकꣳ पञ्चाग्नि-विद्यायाꣳ ज्ञातव्यतया उदितम्। तद्-उभयꣳ प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम्।

Link copied

भूत-भावो मनुष्यादि-भावः, तद्-उद्भव-करो यो विसर्गः पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।३।३] इति श्रुति-सिद्धो योषित्-सम्बन्ध-जः, स कर्म-सꣳज्ञितः। तच् चाखिलꣳ सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम्। परिहरणीयता चानन्तरम् एव वक्ष्यते--- यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति [८।११] इति॥८।३॥

Link copied

अधिभूतꣳ क्षरो भावः पुरुषश् चाधिदैवतम्

Link copied

अधियज्ञोऽहम् एवात्र देहे देह-भृताꣳ वर

Link copied

ऐश्वर्यार्थिनाꣳ ज्ञातव्यतया निर्दिष्टम् अधिभूतꣳ क्षरो भावो वियद्-आदि-भूतेषु वर्तमानस् तत्-परिणाम-विशेषः क्षरण-स्वभावो विलक्षणः शब्द-स्पर्शादिः साश्रयः, विलक्षणाः साश्रयाः शब्द-स्पर्श-रूप-रस-गन्धा ऐश्वर्यार्थिभिः प्राप्याः। तैर् अनुसन्धेयाः।

Link copied

पुरुषश् चाधिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः। अधिदैवतꣳ दैवतोपरि वर्तमानम् इन्द्र-प्रजापति-प्रभृति-कृत्स्न-दैवतोपरि वर्तमानः। इन्द्र-प्रजापति-प्रभृतीनाꣳ भोग्य-जाताद् विलक्षण-शब्दादेर् भोक्ता पुरुषः। सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया अनुसन्धेया।

Link copied

अधियज्ञोऽहम् एवाधियज्ञ-शब्द-निर्दिष्टोऽहम् एव। अधियज्ञो यज्ञैर् आराध्यतया वर्तमानः। अत्रेन्द्रादौ मम देह-भूते आत्मतयावस्थितोऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञादि-नित्य-नैमित्तकानुष्ठान-वेलायाꣳ त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत्॥८।४॥

Link copied

इदम् अपि त्रयाणाꣳ साधारणम्---

Link copied

 अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम्

Link copied

यः प्रयाति स मद्-भावꣳ याति नास्त्य् अत्र सꣳशयः

Link copied

अन्त-काले च माम् एव स्मरन् कलेवरꣳ त्यक्त्वा यः प्रयाति, स मद्-भावꣳ याति। मम यो भावः स्वभावस् तꣳ याति। तदानीꣳ यथा माम् अनुसन्धत्ते तथा-विधाकारो भवतीत्य् अर्थः। यथा आदि-भरतादयस् तदानीꣳ स्मर्यमाण-मृग-सजातीयाकाराः सम्भूताः॥८।५॥

Link copied

स्मर्तुः स्व-विषय-सजातीय-कारतापादनम् अन्त्य-प्रत्ययस्य स्वभाव इति सुस्पष्टम् आह---

Link copied

यꣳ यꣳ वापि स्मरन् भावꣳ त्यजत्य् अन्ते कलेवरम्

Link copied

तꣳ तम् एवैति कौन्तेय सदा तद्-भाव-भावितः

Link copied

अन्तेऽन्त-काले यꣳ यꣳ वापि भावꣳ स्मरन् कलेवरꣳ त्यजति तꣳ तꣳ भावम् एव मरणान्तरम् एति। अन्त्य-प्रत्ययश् च पूर्व-भावित-विषय एव जायते॥८।६॥

Link copied

यस्मात् पूर्व-कालाभ्यस्त-विषये एवान्त्य-प्रत्ययो जायते---

Link copied

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च

Link copied

मय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असꣳशयः

Link copied

तस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर्-अहः माम् अनुस्मराहर्-अहर् अनुस्मृति-करꣳ युद्धादिकꣳ वर्णाश्रमानुबन्धि-श्रुति-स्मृति-चोदित-नित्य-नैमित्तिकꣳ च कर्म कुरु। एतद्-उपायेन मय्य् अर्पित-मनो-बुद्धिर् अन्त-काले च माम् एव स्मरन् यथाभिलषित-प्रकारꣳ माꣳ प्राप्स्यसि नात्र सꣳशयः॥८।७॥

Link copied

एवꣳ सामान्येन सर्वत्र स्व-प्राप्यावाप्तिर् अन्त्य-प्रत्ययाधीना इत्य् उक्त्वा तद्-अर्थꣳ त्रयाणाम् उपासन-प्रकार-भेदꣳ वक्तुम् उपक्रमते। तत्रैश्वर्यार्थिनाम् उपासन-प्रकारꣳ यथोपासनम् अन्त्य-प्रत्यय-प्रकारꣳ चाह---

Link copied

अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना

Link copied

परमꣳ पुरुषꣳ दिव्यꣳ याति पार्थानुचिन्तयन्

Link copied

अहरहर् अभ्यास-योगाभ्याꣳ युक्ततया नान्य-गामिना चेतसा अन्त-काले परमꣳ पुरुषꣳ दिव्यꣳ माꣳ वक्ष्यमाण-प्रकारꣳ चिन्तयन् माम् एव यात्य् आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समानाकारो भवति। अभ्यासो नित्य-नैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसा उपास्य-सꣳशीलनम्, योगस् त्व् अहरहर् योग-कालेऽनुष्ठीयमानꣳ यथोक्त-लक्षणम् उपासनम्॥८।८॥

Link copied

कविꣳ पुराणम् अनुशासितारम्

Link copied

अणोर् अणीयाꣳसम् अनुस्मरेद् यः

Link copied

सर्वस्य धातारम् अचिन्त्य-रूपम्

Link copied

आदित्य-वर्णꣳ तमसः परस्तात्

Link copied

प्रयाण-काले मनसाचलेन

Link copied

भक्त्या युक्तो योग-बलेन चैव

Link copied

भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्

Link copied

स तꣳ परꣳ पुरुषम् उपैति दिव्यम्१०

Link copied

कविꣳ सर्वज्ञꣳ पुराणꣳ पुरातनम् अनुशासितारꣳ विश्वस्य प्रशासितारम् अणोर् अणीयाꣳसꣳ जीवाद् अपि सूक्ष्मतरꣳ सर्वस्य धातारꣳ सर्वस्य स्रष्टरम् अचिन्त्य-रूपꣳ सकलेतर-विसजातीय-स्वरूपम् आदित्य-वर्णꣳ तमसः परस्तात् अप्राकृत-स्वासाधारण-दिव्य-रूपम्। तम् एवꣳ-भूतम् अहरहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन आरूढ-सꣳस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य सꣳस्थाप्य तत्र भ्रुवोर् मध्ये दिव्यꣳ पुरुषꣳ योऽनुस्मरेत् स तम् एव उपैति तद्-भावꣳ याति, तत्-समानैश्वर्यो भवतीत्य् अर्थः॥८।९-१०॥

Link copied

अथ कैवल्यार्थिनाꣳ स्मरण-प्रकारम् आह---

Link copied

यद् अक्षरꣳ वेद-विदो वदन्ति

Link copied

विशन्ति यद् यतयो वीत-रागाः

Link copied

यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति

Link copied

तत् ते पदꣳ सङ्ग्रहेण प्रवक्ष्ये११

Link copied

यद् अक्षरम् अस्थूलत्वादि-गुणकꣳ वेद-विदो वदन्ति वीत-रागाश् च यतयो यद् अक्षरꣳ विशन्ति यद् अक्षरꣳ प्राप्तुम् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति तत् ते पदꣳ सङ्ग्रहेण प्रवक्ष्ये। पद्यते गम्यतेऽनेन इति पदꣳ तन् निखिल-वेदान्त-वेद्यꣳ मत्-स्वरूपम् अक्षरꣳ यथा उपास्यꣳ तथा सङ्क्षेपेण प्रवक्ष्यामीत्य् अर्थः॥८।११॥

Link copied

सर्व-द्वाराणि सꣳयम्य मनो हृदि निरुध्य च

Link copied

मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम्१२

Link copied

सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञान-द्वार-भूतानि सꣳयम्य स्व-व्यापारेभ्यो विनिवर्त्य हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य योगाख्याꣳ धारणाꣳ आस्थितो मय्य् एव निश्चलाꣳ स्थितिम् आस्थितः॥८।१२॥

Link copied

ओम् इत्य् एकाक्षरꣳ ब्रह्म व्याहरन् माम् अनुस्मरन्

Link copied

यः प्रयाति त्यजन् देहꣳ स याति परमाꣳ गतिम्१३

Link copied

ओम् इत्य् एकाक्षरꣳ ब्रह्म मद्-वाचकꣳ व्याहरन् वाच्यꣳ माम् अनुस्मरन् आत्मनः प्राणꣳ मूर्ध्न्य् आधाय देहꣳ त्यजन् यः प्रयाति स याति परमाꣳ गतिꣳ प्रकृति-वियुक्तꣳ मत्-समानाकारम् अपुनर्-आवृत्तिम् आत्मानꣳ प्राप्नोतीत्य् अर्थः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमाꣳ गतिम्। [८।२०,२१] इत्य् अनन्तरम् एव वक्ष्यते॥८।१२-१३॥

Link copied

एवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्व-प्राप्यानुगुणो भगवद्-उपासन-प्रकार उक्तः। अथ ज्ञानिनो भगवद्-उपासन-प्रकारꣳ प्राप्ति-कारꣳ चाह---

Link copied

अनन्य-चेताः सततꣳ यो माꣳ स्मरति नित्यशः

Link copied

तस्याहꣳ सुलभः पार्थ नित्य-युक्तस्य योगिनः१४

Link copied

नित्यशो माम् उद्योग-प्रभृति सततꣳ सर्व-कालम् अनन्य-चेता यः स्मरत्य् अत्यर्थꣳ मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियꣳ माꣳ यः स्मरति तस्य नित्य-युक्तस्य नित्य-योगꣳ काङ्क्षमाणस्य योगिनोऽहꣳ सुलभोऽहम् एव प्राप्यः। न मद्-भाव ऐश्वर्यादिकः सुप्रापश् च। तद्-वियोगम् असहमानोऽहम् एव तꣳ वृणे। मत्-प्राप्त्य्-अनुगुणोपासन-विपाकꣳ तद्-विरोधि-निरसनम् अत्यर्थꣳ मत्-प्रियत्वादिकꣳ चाहम् एव ददामीत्य् अर्थः। यम् एवैष वृणुते तेन लभ्यः [मु।उ। ३।२।३] इति हि श्रूयते। वक्ष्यते च---

Link copied

तेषाꣳ सतत-युक्तानाꣳ भजताꣳ प्रीति-पूर्वकम्।

Link copied

ददामि बुद्धि-योगꣳ तꣳ येन माम् उपयान्ति ते॥

Link copied

तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जꣳ तमः।

Link copied

नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥ [१०।१०-११] इति॥८।१४॥

Link copied

अतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनर्-आवृत्तिम् ऐश्वर्यार्थिनः पुनर्-आवृत्तिꣳ चाह---

Link copied

माम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम्

Link copied

नाप्नुवन्ति महात्मानः सꣳसिद्धिꣳ परमाꣳ गताः१५

Link copied

माꣳ प्राप्य पुनर् निखिल-दुःखालयम् अस्थिरꣳ जन्म न प्राप्नुवन्ति यत एते महात्मानो महा-मनसो यथावस्थित-मत्-स्वरूप-ज्ञाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आसक्त-मनसो मद्-आश्रया माम् उपास्य परम-सꣳसिद्धि-रूपꣳ माꣳ प्राप्ताः॥८।१५॥

Link copied

ऐश्वर्य-गतिꣳ प्राप्तानाꣳ भगवन्तꣳ प्राप्तानाꣳ च पुनर्-आवृत्तव् अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह---

Link copied

आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन

Link copied

माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते१६

Link copied

ब्रह्म-लोक-पर्यन्ता ब्रह्माण्डोदर-वर्तिनः सर्वे लोका भोगैश्वर्यालयाः पुनर्-आवर्तिनो विनाशिनः। अत ऐश्वर्य-गतिꣳ प्राप्तानाꣳ प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम्। माꣳ सर्व-ज्ञꣳ सत्य-सङ्कल्पꣳ निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलꣳ परम-कारुणिकꣳ सदैक-रूपꣳ प्राप्तानाꣳ विनाश-प्रसङ्गाभावात् तेषाꣳ पुनर्-जन्म न विद्यते॥८।१६॥

Link copied

ब्रह्म-लोक-पर्यन्तानाꣳ लोकानाꣳ तद्-अन्तर्-वर्तिनाꣳ च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह---

Link copied

सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः

Link copied

रात्रिꣳ युग-सहस्रान्ताꣳ तेऽहो-रात्र-विदो जनाः१७

Link copied

ये मनुष्यादि-चतुर्-मखान्तानाꣳ मत्-सङ्कल्प-कृताहो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहश् चतुर्-युग-सहस्रावसानꣳ विदुः, रात्रिꣳ च तथा-रूपाम्॥८।१७॥

Link copied

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे

Link copied

रात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-सꣳज्ञके१८

Link copied

तत्र ब्रह्मणः, अहर्-आगम-समये त्रैलोक्यान्तर्-वर्तिन्यो देहेन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देहावस्थाद् अव्यक्तात् प्रभवन्ति। तत्रैवाव्यक्तावस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते॥८।१८॥

Link copied

भूत-ग्रामः स एवायꣳ भूत्वा भूत्वा प्रलीयते

Link copied

रात्र्य्-आगमेऽवशः पार्थ प्रभवत्य् अहर्-आगमे१९

Link copied

स एवायꣳ कर्म-वश्यो भूत-ग्रामोऽहर्-आगमे भूत्वा भूत्वा रात्र्य्-आगमे प्रलीयते पुनर् अप्य् अहर्-आगमे प्रभवति। तथा वर्षा-शतावसान-रूप-युग-सहस्रान्ते ब्रह्म-लोक-पर्यन्ता लोका ब्रह्मा च, पृथिवी अप्सु प्रलीयते आपस् तेजसि लीयन्ते इत्य्-आदि-क्रमेणाव्यक्ताक्षर-तमः-पर्यन्तꣳ मय्य् एव प्रलीयन्ते।

Link copied

एवꣳ मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेर् मयि प्रलयाच् च उत्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिꣳ प्राप्तानाꣳ पुनर्-आवृत्तिर् अपरिहार्या। माम् उपेतानाꣳ तु न पुनर्-आवृत्ति-प्रसङ्गः॥८।१९॥

Link copied

अथ कैवल्य-प्राप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् आह---

Link copied

परस् तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः

Link copied

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति२०

Link copied

अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमाꣳ गतिम्

Link copied

यꣳ प्राप्य न निवर्तन्ते तद् धाम परमꣳ मम२१

Link copied

तस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद् विसजातीयोऽव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः स्व-सꣳवेद्य-साधारणाकार इत्य् अर्थः। सनातन उत्पत्ति-विनाशानर्हतया नित्यः। यः सर्वेषु वियद्-आदिषु भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति सोऽव्यक्तोऽक्षर इत्य् उक्तः। ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तꣳ पर्युपासते [गीता १२।३], कूटस्थोऽक्षर उच्यते [गीता १५।१६] इत्य्-आदिषु तꣳ वेद-विदः परमाꣳ गतिम् आहुः। अयम् एव यः प्रयाति त्यजन् देहꣳ स याति परमाꣳ गतिम् [गीता ८।५] इत्य् अत्र परम-गति-शब्द-निर्दिष्टोऽक्षरः प्रकृति-सꣳसर्ग-वियुक्त-स्वरूपेणावस्थित आत्मा इत्य् अर्थः।

Link copied

[[नोत् इन् अल्ल् एदितिओन्स्]: यम् एवꣳ-भूतꣳ स्वरूपेणावस्थितꣳ प्राप्य न निवर्तन्ते तन् मम परमꣳ धाम परमꣳ नियमन-स्थानम्। अचेतन-प्रकृतिर् एकꣳ नियमन-स्थानम्, तत्-सꣳसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयꣳ नियमन-स्थानम् अचित्-सꣳसर्ग-वियुक्तꣳ स्वरूपेणावस्थितꣳ मुक्त-स्वरूपꣳ परमꣳ नियमन-स्थानम् इत्य् अर्थः।]

Link copied

तच् चापुनर्-आवृत्ति-रूपम्। अथवा प्रकाश-वाची धाम-शब्दः, प्रकाशश् चेह ज्ञानम् अभिप्रेतꣳ प्रकृति-सꣳसृष्टत् परिच्छिन्न-ज्ञान-रूपाद् आत्मनोऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्वरूपꣳ परꣳ धाम॥८।२०-२१]

Link copied

ज्ञानिनः प्राप्यꣳ तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह---

Link copied

पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया

Link copied

यस्यान्तः-स्थानि भूतानि येन सर्वम् इदꣳ ततम्२२

Link copied

मत्तः परतरꣳ नान्यत् किञ्चिदस्ति धनजय।

Link copied

मयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणिगणा इव॥ [७।७]

Link copied

माम् एभ्यः परम् अव्ययम् [७।१३] इत्य् आदिना निर्दिष्टस्य यस्यान्तः-स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदꣳ ततꣳ स पर-पुरुषो अनन्य-चेताः सततम् [८।१४] इत्य् अनन्यया भक्त्या लभ्यः।

Link copied

यत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः

Link copied

प्रयाता यान्ति तꣳ कालꣳ वक्ष्यामि भरतर्षभ२३

Link copied

अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्

Link copied

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः२४

Link copied

अथात्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च साधारणीम् अर्चिर्-आदिकाꣳ गतिम् आह द्वयोर् अप्य् अर्चिर्-आदिका गतिः श्रुतौ श्रुता, सा चापुनर्-आवृत्ति-लक्षणा। तथा पञ्चाग्नि-विद्यायाꣳ तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहः [छा।उ। ५।१०।१] इत्य् आदव् अर्चिर्-आदिकया गत्य्-आगतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् चोक्ता स एनान् ब्रह्म गमयति \॥। एतेन प्रतिपद्यमाना इमꣳ मानवम् आवर्तꣳ नावर्तन्ते [छा।उ। ४।१५।५] इति।

Link copied

न च प्रजापति-वाक्यादौ श्रुति-पर-विद्याङ्ग-भूतात्म-प्राप्ति-विषयेयम्--- तद् य इत्थꣳ विदुः इति गति-श्रुतिर्, ये चेमेऽरण्ये श्रद्धाꣳ तप इत्युपासते [छा।उ। ५।१०।१] इति पर-विद्यायाः पृथक्-श्रुति-वैयर्थ्यात्।

Link copied

पञ्चाग्नि-विद्यायाꣳ च इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।९।१] इति रमणीय-चरणाः कपूय-चरणाः [छा।उ। ५।१०।७] इति पुण्य-पाप-हेतुको मनुष्यादि-भावो अपाम् एव भूतान्तर-सꣳसृष्टनाम् आत्मनस् तु यत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय तद् य इत्थꣳ विदुः \॥। तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], इमꣳ मानवम् आवर्तꣳ नावर्तन्ते [छा।उ। ४।१५।५] इति विविक्ते चिद्-अचिद्-वस्तुनि त्याज्यतया प्राप्यतया च तद् य इत्थꣳ विदुस् तेऽर्चिरादिना गच्छन्ति न च पुनर् आवर्तन्ते इत्य् उक्तम् इति गम्यते।

Link copied

आत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च स एनान् ब्रह्म गमयति [छा।उ। ४।१५।५] इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्मात्मकतया ब्रह्म-शेषतैक-रसम् इत्य् अनुसन्धेयम्। तत्-क्रतु-न्यायाच् च पर-शेषतैक-रसत्वꣳ च य आत्मनि तिष्ठन् यस्यात्मा शरीरम् [शब्रा १४।६।५।५।३०] इत्य्-आदि-श्रुति-सिद्धम्।

Link copied

अत्र काल-शब्दो मार्गस्याहः-प्रभृति-सꣳवत्सरान्त-कालाभिमानि-देवता-भूयस्तया मार्गोपलक्षणार्थः। यस्मिन् मार्गे प्रयाता योगिनोऽनावृत्तिम्। पुण्य-कर्माणश् चावृत्तिꣳ यान्ति, तꣳ मार्गꣳ वक्ष्यामीत्य् अर्थः। अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्, इति सꣳवत्सरादीनाꣳ प्रदर्शनम्॥८।२३-२४॥

Link copied

धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम्

Link copied

तत्र चान्द्रमसꣳ ज्योतिर् योगी प्राप्य निवर्तते२५

Link copied

एतच् च धूमादि-मार्ग-स्थ-पितृ-लोकादेः प्रदर्शनम्। अत्र योगि-शब्द पुण्य-कर्म-सम्बन्धि-विषयः॥८।२५॥

Link copied

शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते

Link copied

एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः२६

Link copied

शुक्ला गतिर् अर्चिर्-आदिका। कृष्णा च धूमादिका। शुक्लयानावृत्तिꣳ यान्ति, कृष्णया तु पुनर् आवर्तन्ते। एते शुक्ल-कृष्णे गती ज्ञानिनाꣳ विविधानाꣳ पुण्य-कर्मणाꣳ च श्रुतौ शाश्वते मते। तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धाꣳ तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], अथ य इमे ग्रामे इष्ट-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [छा।उ। ५।१०।३] इति॥८।२६॥

Link copied

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन

Link copied

तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन२७

Link copied

एतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति। अपि तु स्वेनैव देव-यानेन पथा याति। तस्माद् अहरहर् अर्चिर्-आदि-गति-चिन्तनाख्य-योग-युक्तो भव॥८।२७॥

Link copied

अथाध्याय-द्वयोदित-शास्त्रार्थ-वेदन-फलम् आह---

Link copied

वेदेषु यज्ञेषु तपःसु चैव

Link copied

दानेषु यत् पुण्य-फलꣳ प्रदिष्टम्

Link copied

अत्येति तत् सर्वम् इदꣳ विदित्वा

Link copied

योगी परꣳ स्थानम् उपैति चाद्यम्२८

Link copied

ऋग्-यजुः-सामाथर्व-रूप-वेदाभ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलꣳ निर्दिष्टम् इदम् अध्याय-द्वयोदितꣳ भगवन्-माहात्म्यꣳ विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुखातिरेकेण तत् सर्वꣳ तृणवत् मन्यते। योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यꣳ परम् आद्यꣳ स्थानम् उपैति॥८।२८॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्येऽष्टमोऽध्यायः ॥८॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 8 — The Way to the Imperishable Parabrahma (in Sanskrit: Akṣara-Parabrahma-Yoga)

Lecture VII established the nature of Parabrahma, Vāsudeva, as the Spiritual Sovereign (śeṣī) of all entities, the Cause, the Support, the Governor, and the supremely exalted Being. It showed how matter's veil is removed by taking faithful refuge in Him, and it described three classes of devotees: the wealth-seeker (aiśvaryārthī), the soul-seeker (jijñāsu), and the God-seeker (jñānī). This chapter now explains what each of these three must know, how each must meditate at the hour of death, and the two cosmic paths — bright and dark — that souls travel after leaving the body.

Link copied

Verses 1–4 (Arjuna's questions; the Lord defines the terms)

Verse 8.1. — "O Puruṣottama, what is Tad-Brahma? What is Adhyātma? What is Karma? What is Adhibhūta and what is Adhidaiva?"

Link copied

Verse 8.2. — "Who is Adhiyajña in this body, Madhusūdana, and how? And how are You known by the self-controlled at the time of departure?"

Link copied

Arjuna asks what each of the three classes of aspirants must know to reach its ideal, and how, at the moment of death, the Lord is to be remembered.

Link copied

Verse 8.3. — "The supreme imperishable (akṣara) is Brahma; nature (svabhāva) is called Adhyātma; the act of emission by which beings are brought forth is called Karma."

Link copied

Tad-Brahma here is the superior, indestructible soul-nature, paramam akṣaram — the soul realized in its essence, disengaged from prakṛti. Adhyātma is nature — the subtle elemental stuff with its deceptive tendencies that clings to the soul. Karma is the emissive act which results in bodies — the generative act. The soul-seeker must know akṣara as what is to be sought, adhyātma as what is to be rejected, and karma as what produces the bondage he dreads.

Link copied

Verse 8.4. — "Adhibhūta is the perishable nature; Adhidaiva is the Spirit (puruṣa) who enjoys; Adhiyajña in this body is Myself, O Best of beings."

Link copied

Adhibhūta is the subtle, perishable principles of sound, touch, color, taste, and smell, with their organs — that which the wealth-seeker contemplates for the refined enjoyments he desires. Adhidaiva is the Spirit that stands above the devas like Indra and Prajāpati, enjoying delights far surpassing theirs. Adhiyajña is the Lord Himself, present in all the gods as their Indwelling Self, the true Receiver of every sacrifice — whom all three classes of devotees worship in all their acts of devotion.

Link copied

Verses 5–7 (The last thought determines the next state)

Verse 8.5. — "Whoever, at the hour of death, meditating on Me alone, casts off his body, reaches My state. No doubt of this."

Link copied

Whatever image is vivid in the imagination at the moment of death, that the soul becomes — as in the case of the great king Bharata, who by thinking of a deer at his death, was born as a deer, yet with the memory of his former life.

Link copied

Verse 8.6. — "With whatever thought, O Kaunteya, one leaves the body at the hour of death, that he becomes — the result of his constant brooding upon it."

Link copied

The last thought is naturally of that which one has habitually dwelt on through life.

Link copied

Verse 8.7. — "Therefore at all times remember Me, and fight. With mind and intellect given to Me, you shall doubtless come to Me alone."

Link copied

Because the last flash of consciousness will be what one has made habitual, Arjuna must meditate on the Lord unceasingly, even while performing the duties of his varṇa and āśrama. This is the most expedient method to secure the final remembrance.

Link copied

Verses 8–10 (Meditation of the wealth-seeker)

Verse 8.8. — "With mind unwandering, O Partha, and trained by practice, one reaches, by fervid recollection, the Divine Supreme Spirit (Paramapuruṣa)."

Link copied

Daily practice fixes the mind on the Lord and does not let it stray. With such a mind, at the moment of death, one thinks of the Paramapuruṣa-Divine and so becomes possessed of glory comparable to His.

Link copied

Verse 8.9. — "Whoever thinks on Him — the Omniscient, the Ancient, the Ruler, subtler than the subtle, Creator of all, of form inconceivable, of the color of the sun, beyond the darkness —"

Link copied

Verse 8.10. — "— with mind unwavering at the hour of death, united with bhakti, fortified by yoga, with prāṇa drawn up between the brows, attains that Spirit, Divine."

Link copied

Kavi — the Omniscient; Purāṇa — the Primeval; Anuśāsitā — the Law-giver; aṇor-aṇīyāṁsam — subtler than the subtlest soul; Creator of all; of transcendent form, sun-colored, beyond the dark of matter. Whoever, having strengthened his mind by daily loving meditation, draws the prāṇa to the point between the brows at death and fixes thought on that Divine Spirit, attains to a state equal to divinity.

Link copied

Verses 11–13 (The meditation of the soul-seeker)

Verse 8.11. — "That Path which the Veda-knowers call the Imperishable (akṣara), which desire-weaned ascetics (yatis) enter, for which seekers keep the vow of brahmacarya, I shall briefly declare to you."

Link copied

That Path is the Path of akṣara, the imperishable soul-nature.

Link copied

Verses 8.12–13. — "Stopping up all the gates of the senses, locking the mind in the heart, drawing the prāṇa into the head, established in yoga-dhāraṇā, and reciting the single syllable Om — the Brahma — whoever, intent on Me, casts off the body, reaches the supreme state."

Link copied

Stopping the gates means withdrawing the senses from their objects. Locking the mind in the heart means directing loving thoughts towards the Lord, the Akṣara, enthroned in the lotus of the heart. Om is the sign; the Lord is the Indicated. One who holds the prāṇa in the head and departs thus attains the exalted state — the soul in its pure, matter-free essence, a state comparable to the Lord's own, from which there is no return.

Link copied

Verses 14–15 (The meditation of the God-seeker)

Verse 8.14. — "To that yogī, O Partha, ever ambitious of eternal union, who with undivided mind constantly ponders on Me alone, I am easily attainable."

Link copied

He ponders on the Lord because the Lord has become the Object of his impassioned love — so much so that the Lord's absence from thought jeopardizes his life. To such a jñānī, the Lord is easily accessible: not merely his state but the Lord Himself. For the Lord cannot bear the separation of His lovers from Him. He Himself elects the devotee, carries his meditation to fruition, wards off obstacles, and kindles the love that sustains it.

Link copied

Verse 8.15. — "Reaching Me, the noble souls who have attained the highest perfection do not return to rebirth — the transient home of sorrow."

Link copied

Those who reach Him do not return to that impermanent condition. They are mahātmās, enlightened to the true knowledge of His nature, bearing such fervid love that separation from Him is unbearable.

Link copied

Verses 16–22 (The returning cosmos and the Supreme Person who does not return)

Verse 8.16. — "All worlds, from the realm of Brahmā down, are subject to return, O Arjuna. But reaching Me, O Kaunteya, there is no more rebirth."

Link copied

All worlds up to Brahmā's own are appointed mansions for the enjoyment of material happiness, and all are perishable. But those who reach the Lord — Omniscient, True-willed, Most Merciful, Enduring — have no destruction and no re-incarnation.

Link copied

Verse 8.17. — "Those who know that Brahmā's Day spans a thousand yugas and His Night a thousand yugas — they know Day and Night."

Link copied

Verse 8.18. — "At the coming of Day, all things manifest burst forth from the unmanifest; at the coming of Night, they disappear into the same unmanifest state."

Link copied

Verse 8.19. — "The same bonded multitude of beings, born again and again, vanishes helplessly with Night and reappears with Day."

Link copied

These cycles — creation and dissolution — proceed from the Lord's will. At the close of a Day of Brahmā, all things resolve into the unmanifest; at the dawn of a new Day, the same beings emerge again, bound by karma.

Link copied

Verse 8.20. — "But higher than that unmanifest is another Unmanifest, eternal, which does not perish when all things perish."

Link copied

This is the other, superior Unmanifest — the soul (ātman), a principle self-conscious, characterized by intelligence, unique in nature, not subject to composition or dissolution.

Link copied

Verse 8.21. — "Called the Unmanifest, the Imperishable — they call this the supreme goal; reaching it, they do not return. That is My supreme abode (paramaṁ dhāma)."

Link copied

This is ātman in its pure, matter-free state — the Lord's superior realm over which He rules. Dhāma may also mean luminosity: the state of soul with its consciousness no longer cramped by matter, shining in its freedom.

Link copied

Verse 8.22. — "Supreme is that Spirit, O Partha, attainable only by unswerving bhakti — in whom all beings dwell, by whom all this is pervaded."

Link copied

This is the Puruṣa in whom all things reside, described earlier: "Nothing whatever higher than I exists," and "Like a row of gems strung on a string, all this is threaded by Me." He is accessible to exclusive devotion.

Link copied

Verses 23–28 (The two paths — arciradi and dhūmadi)

Verse 8.23. — "At what time the yogīs depart, returning or not returning, that I will tell you, O Bhārata-chief."

Link copied

Verse 8.24. — "Fire, light, day-time, the bright fortnight, the six months of the northern (solstitial) course — going forth thus, the Brahma-knowers go to Brahma."

Link copied

This is the Bright Path, arciradi or deva-yāna, presided over by the deities of these time-divisions. By this path one goes and does not return.

Link copied

Verse 8.25. — "Smoke, night, the dark fortnight, the six months of the southern course — by this the yogī attains lunar light and returns."

Link copied

This is the Dark Path, dhūmadi or pitṛ-yāna, the road through the realm of the Manes, by which merit-earners return.

Link copied

Verse 8.26. — "These two paths of the world — the Bright and the Dark — are eternally ordained. By the one is the non-returning state; by the other, return again."

Link copied

The White Path is for both kinds of jñānīs (the soul-seeker and the God-seeker); the Black is for the merit-worker who earns material rewards.

Link copied

Verse 8.27. — "Knowing these paths, O Partha, no yogī is deluded. Therefore at all times be united in yoga, O Arjuna."

Link copied

Knowing the paths, the yogī is not confused at the hour of departure; he travels his rightful deva-yāna.

Link copied

Verse 8.28. — "Whatever fruit is declared for Vedas, sacrifices, austerities, and gifts — the yogī transcends them all by knowing this, and reaches the supreme primal abode."

Link copied

He who knows the greatness of the Lord declared in these two chapters transcends every lesser reward; the bliss of such knowledge makes all such rewards seem trivial as a blade of grass. Becoming yogī, jñānī, God-lover, he reaches the Supreme Abode — the home of all the saints.

Link copied

Thus closes the eighth discourse, named Akṣara-Parabrahma-Yoga — the Way to the Imperishable Parabrahma.

Link copied
Join our community