Bhagavad Gita Bhashya · Section 9 of 19
athāṣṭamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वꣳ, निखिल-चेतनाचेतन-वस्तु-शेषित्वꣳ, कारणत्वꣳ, आधारत्वꣳ, सर्व-शरीरतया सर्व-प्रकारत्वेन सर्व-शब्द-वाच्यत्वꣳ, सर्व-नियन्तृत्वꣳ, सर्वैश् च कल्याण-गुण-गणैर् एकाश्रयत्वꣳ तस्यैव परतरत्वꣳ च, सत्त्व-रजस्-तमो-मयैर् देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर् भावैर् अनादि-काल-प्रवृत्त-दुष्कृत-प्रवाह-हेतुकैस् तस्य तिरोधानम्। अत्युत्कृष्ट-सुकृत-हेतुक-भगवत्-प्रपत्त्या च तन्-निवर्तनꣳ, सुकृत-तारतम्येन च प्रतिपत्ति-वैषेष्याद् ऐश्वर्याक्षर-याथात्म्य-भगवत्-प्राप्त्य्-अपेक्षयोपासक-भेदꣳ, भगवन्तꣳ प्रेप्सोर् नित्य-युक्ततयिक-भक्तितया चात्यर्थ-परम-पुरुष-प्रियत्वेन श्रैष्ठ्यꣳ, दुर्लभत्वꣳ च प्रतिपाद्य एषाꣳ त्रयाणाꣳ ज्ञातव्योपादेय-भेदाꣳश् च प्रास्तौषीत्। इदानीम् अष्टमे प्रस्तुतान् ज्ञातव्योपादेय-भेदान् विविनक्ति---
Link copiedकिꣳ तद् ब्रह्म किम् अध्यात्मꣳ किꣳ कर्म पुरुषोत्तम।
Link copiedअधिभूतꣳ च किꣳ प्रोक्तम् अधिदैवꣳ किम् उच्यते॥१॥
Link copiedअधियज्ञः कथꣳ कोऽत्र देहेऽस्मिन् मधुसूदन।
Link copiedप्रयाण-काले च कथꣳ ज्ञेयोऽसि नियतात्मभिः॥२॥
Link copiedजरा-मरण-मोक्षाय भगवन्तम् आश्रित्य यतमानानाꣳ ज्ञातव्यतयोक्तꣳ तद् ब्रह्माध्यात्मꣳ च कर्म च किम् इति वक्तव्यम्। ऐश्वर्यार्थिनाꣳ ज्ञातव्यम् अधिभूतम् अधिदैवꣳ च किꣳ। त्रयाणाꣳ ज्ञातव्योऽधियज्ञ-शब्द-निर्दिष्टश् च कः। तस्य चाधियज्ञ-भावः कथꣳ। प्रयाण-काले चैभिस् त्रिभिः नियतात्मभिः कथꣳ ज्ञेयोऽसि॥।८।१--- ८।२॥
Link copiedश्री-भगवान् उवाच
Link copiedअक्षरꣳ ब्रह्म परमꣳ स्वभावोऽध्यात्मम् उच्यते।
Link copiedभूतभावोद्भव-करो विसर्गः कर्म-सꣳज्ञितः॥३॥
Link copiedतद् ब्रह्म इति निर्दिष्टꣳ परमम् अक्षरꣳ न क्षरतीत्य् अक्षरꣳ क्षेत्रज्ञꣳ समष्टि-रूपम्। तथा च श्रुतिर् अव्यक्तम् अक्षरे लीयतेऽक्षरꣳ तमसि लीयते [सु।उ। २] इत्य् आदिका। परमम् अक्षरꣳ प्रकृति-विनिर्मुक्तात्म-स्वरूपम्। स्वभावोऽध्यात्मम् उच्यते स्वभावः प्रकृतिर् अनात्म-भूतम् आत्मनि सम्बद्ध्यमानꣳ भूत-सूक्ष्म-तद्-वासनादिकꣳ पञ्चाग्नि-विद्यायाꣳ ज्ञातव्यतया उदितम्। तद्-उभयꣳ प्राप्यतया त्याज्यतया च मुमुक्षुभिर् ज्ञातव्यम्।
Link copiedभूत-भावो मनुष्यादि-भावः, तद्-उद्भव-करो यो विसर्गः पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।३।३] इति श्रुति-सिद्धो योषित्-सम्बन्ध-जः, स कर्म-सꣳज्ञितः। तच् चाखिलꣳ सानुबन्धम् उद्वेजनीयतया परिहरणीयतया च मुमुक्षुभिर् ज्ञातव्यम्। परिहरणीयता चानन्तरम् एव वक्ष्यते--- यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति [८।११] इति॥८।३॥
Link copiedअधिभूतꣳ क्षरो भावः पुरुषश् चाधिदैवतम्।
Link copiedअधियज्ञोऽहम् एवात्र देहे देह-भृताꣳ वर॥४॥
Link copiedऐश्वर्यार्थिनाꣳ ज्ञातव्यतया निर्दिष्टम् अधिभूतꣳ क्षरो भावो वियद्-आदि-भूतेषु वर्तमानस् तत्-परिणाम-विशेषः क्षरण-स्वभावो विलक्षणः शब्द-स्पर्शादिः साश्रयः, विलक्षणाः साश्रयाः शब्द-स्पर्श-रूप-रस-गन्धा ऐश्वर्यार्थिभिः प्राप्याः। तैर् अनुसन्धेयाः।
Link copiedपुरुषश् चाधिदैवतम् अधिदैवत-शब्द-निर्दिष्टः पुरुषः। अधिदैवतꣳ दैवतोपरि वर्तमानम् इन्द्र-प्रजापति-प्रभृति-कृत्स्न-दैवतोपरि वर्तमानः। इन्द्र-प्रजापति-प्रभृतीनाꣳ भोग्य-जाताद् विलक्षण-शब्दादेर् भोक्ता पुरुषः। सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतया अनुसन्धेया।
Link copiedअधियज्ञोऽहम् एवाधियज्ञ-शब्द-निर्दिष्टोऽहम् एव। अधियज्ञो यज्ञैर् आराध्यतया वर्तमानः। अत्रेन्द्रादौ मम देह-भूते आत्मतयावस्थितोऽहम् एव यज्ञैर् आराध्य इति महा-यज्ञादि-नित्य-नैमित्तकानुष्ठान-वेलायाꣳ त्रयाणाम् अधिकारिणाम् अनुसन्धेयम् एतत्॥८।४॥
Link copiedइदम् अपि त्रयाणाꣳ साधारणम्---
Link copiedअन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम्।
Link copiedयः प्रयाति स मद्-भावꣳ याति नास्त्य् अत्र सꣳशयः॥५॥
Link copiedअन्त-काले च माम् एव स्मरन् कलेवरꣳ त्यक्त्वा यः प्रयाति, स मद्-भावꣳ याति। मम यो भावः स्वभावस् तꣳ याति। तदानीꣳ यथा माम् अनुसन्धत्ते तथा-विधाकारो भवतीत्य् अर्थः। यथा आदि-भरतादयस् तदानीꣳ स्मर्यमाण-मृग-सजातीयाकाराः सम्भूताः॥८।५॥
Link copiedस्मर्तुः स्व-विषय-सजातीय-कारतापादनम् अन्त्य-प्रत्ययस्य स्वभाव इति सुस्पष्टम् आह---
Link copiedयꣳ यꣳ वापि स्मरन् भावꣳ त्यजत्य् अन्ते कलेवरम्।
Link copiedतꣳ तम् एवैति कौन्तेय सदा तद्-भाव-भावितः॥६॥
Link copiedअन्तेऽन्त-काले यꣳ यꣳ वापि भावꣳ स्मरन् कलेवरꣳ त्यजति तꣳ तꣳ भावम् एव मरणान्तरम् एति। अन्त्य-प्रत्ययश् च पूर्व-भावित-विषय एव जायते॥८।६॥
Link copiedयस्मात् पूर्व-कालाभ्यस्त-विषये एवान्त्य-प्रत्ययो जायते---
Link copiedतस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च।
Link copiedमय्य् अर्पित-मनो-बुद्धिर् माम् एवैष्यस्य् असꣳशयः॥७॥
Link copiedतस्मात् सर्वेषु कालेष्व् आप्रयाणाद् अहर्-अहः माम् अनुस्मराहर्-अहर् अनुस्मृति-करꣳ युद्धादिकꣳ वर्णाश्रमानुबन्धि-श्रुति-स्मृति-चोदित-नित्य-नैमित्तिकꣳ च कर्म कुरु। एतद्-उपायेन मय्य् अर्पित-मनो-बुद्धिर् अन्त-काले च माम् एव स्मरन् यथाभिलषित-प्रकारꣳ माꣳ प्राप्स्यसि नात्र सꣳशयः॥८।७॥
Link copiedएवꣳ सामान्येन सर्वत्र स्व-प्राप्यावाप्तिर् अन्त्य-प्रत्ययाधीना इत्य् उक्त्वा तद्-अर्थꣳ त्रयाणाम् उपासन-प्रकार-भेदꣳ वक्तुम् उपक्रमते। तत्रैश्वर्यार्थिनाम् उपासन-प्रकारꣳ यथोपासनम् अन्त्य-प्रत्यय-प्रकारꣳ चाह---
Link copiedअभ्यास-योग-युक्तेन चेतसा नान्य-गामिना।
Link copiedपरमꣳ पुरुषꣳ दिव्यꣳ याति पार्थानुचिन्तयन्॥८॥
Link copiedअहरहर् अभ्यास-योगाभ्याꣳ युक्ततया नान्य-गामिना चेतसा अन्त-काले परमꣳ पुरुषꣳ दिव्यꣳ माꣳ वक्ष्यमाण-प्रकारꣳ चिन्तयन् माम् एव यात्य् आदि-भरत-मृगत्व-प्राप्तिवद् ऐश्वर्य-विशिष्टतया मत्-समानाकारो भवति। अभ्यासो नित्य-नैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसा उपास्य-सꣳशीलनम्, योगस् त्व् अहरहर् योग-कालेऽनुष्ठीयमानꣳ यथोक्त-लक्षणम् उपासनम्॥८।८॥
Link copiedकविꣳ पुराणम् अनुशासितारम्
Link copiedअणोर् अणीयाꣳसम् अनुस्मरेद् यः।
Link copiedसर्वस्य धातारम् अचिन्त्य-रूपम्
Link copiedआदित्य-वर्णꣳ तमसः परस्तात्॥९॥
Link copiedप्रयाण-काले मनसाचलेन
Link copiedभक्त्या युक्तो योग-बलेन चैव।
Link copiedभ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्
Link copiedस तꣳ परꣳ पुरुषम् उपैति दिव्यम्॥१०॥
Link copiedकविꣳ सर्वज्ञꣳ पुराणꣳ पुरातनम् अनुशासितारꣳ विश्वस्य प्रशासितारम् अणोर् अणीयाꣳसꣳ जीवाद् अपि सूक्ष्मतरꣳ सर्वस्य धातारꣳ सर्वस्य स्रष्टरम् अचिन्त्य-रूपꣳ सकलेतर-विसजातीय-स्वरूपम् आदित्य-वर्णꣳ तमसः परस्तात् अप्राकृत-स्वासाधारण-दिव्य-रूपम्। तम् एवꣳ-भूतम् अहरहर् अभ्यस्यमान-भक्ति-युक्त-योग-बलेन आरूढ-सꣳस्कारतया अचलेन मनसा प्रयाण-काले भ्रुवोर् मध्ये प्राणम् आवेश्य सꣳस्थाप्य तत्र भ्रुवोर् मध्ये दिव्यꣳ पुरुषꣳ योऽनुस्मरेत् स तम् एव उपैति तद्-भावꣳ याति, तत्-समानैश्वर्यो भवतीत्य् अर्थः॥८।९-१०॥
Link copiedअथ कैवल्यार्थिनाꣳ स्मरण-प्रकारम् आह---
Link copiedयद् अक्षरꣳ वेद-विदो वदन्ति
Link copiedविशन्ति यद् यतयो वीत-रागाः।
Link copiedयद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति
Link copiedतत् ते पदꣳ सङ्ग्रहेण प्रवक्ष्ये॥११॥
Link copiedयद् अक्षरम् अस्थूलत्वादि-गुणकꣳ वेद-विदो वदन्ति वीत-रागाश् च यतयो यद् अक्षरꣳ विशन्ति यद् अक्षरꣳ प्राप्तुम् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति तत् ते पदꣳ सङ्ग्रहेण प्रवक्ष्ये। पद्यते गम्यतेऽनेन इति पदꣳ तन् निखिल-वेदान्त-वेद्यꣳ मत्-स्वरूपम् अक्षरꣳ यथा उपास्यꣳ तथा सङ्क्षेपेण प्रवक्ष्यामीत्य् अर्थः॥८।११॥
Link copiedसर्व-द्वाराणि सꣳयम्य मनो हृदि निरुध्य च।
Link copiedमूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम्॥१२॥
Link copiedसर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञान-द्वार-भूतानि सꣳयम्य स्व-व्यापारेभ्यो विनिवर्त्य हृदय-कमल-निविष्टे मय्य् अक्षरे मनो निरुध्य योगाख्याꣳ धारणाꣳ आस्थितो मय्य् एव निश्चलाꣳ स्थितिम् आस्थितः॥८।१२॥
Link copiedओम् इत्य् एकाक्षरꣳ ब्रह्म व्याहरन् माम् अनुस्मरन्।
Link copiedयः प्रयाति त्यजन् देहꣳ स याति परमाꣳ गतिम्॥१३॥
Link copiedओम् इत्य् एकाक्षरꣳ ब्रह्म मद्-वाचकꣳ व्याहरन् वाच्यꣳ माम् अनुस्मरन् आत्मनः प्राणꣳ मूर्ध्न्य् आधाय देहꣳ त्यजन् यः प्रयाति स याति परमाꣳ गतिꣳ प्रकृति-वियुक्तꣳ मत्-समानाकारम् अपुनर्-आवृत्तिम् आत्मानꣳ प्राप्नोतीत्य् अर्थः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमाꣳ गतिम्। [८।२०,२१] इत्य् अनन्तरम् एव वक्ष्यते॥८।१२-१३॥
Link copiedएवम् ऐश्वर्यार्थिनः कैवल्यार्थिनश् च स्व-प्राप्यानुगुणो भगवद्-उपासन-प्रकार उक्तः। अथ ज्ञानिनो भगवद्-उपासन-प्रकारꣳ प्राप्ति-कारꣳ चाह---
Link copiedअनन्य-चेताः सततꣳ यो माꣳ स्मरति नित्यशः।
Link copiedतस्याहꣳ सुलभः पार्थ नित्य-युक्तस्य योगिनः॥१४॥
Link copiedनित्यशो माम् उद्योग-प्रभृति सततꣳ सर्व-कालम् अनन्य-चेता यः स्मरत्य् अत्यर्थꣳ मत्-प्रियत्वेन मत्-स्मृत्या विना आत्म-धारणम् अलभमानो निरतिशय-प्रियꣳ माꣳ यः स्मरति तस्य नित्य-युक्तस्य नित्य-योगꣳ काङ्क्षमाणस्य योगिनोऽहꣳ सुलभोऽहम् एव प्राप्यः। न मद्-भाव ऐश्वर्यादिकः सुप्रापश् च। तद्-वियोगम् असहमानोऽहम् एव तꣳ वृणे। मत्-प्राप्त्य्-अनुगुणोपासन-विपाकꣳ तद्-विरोधि-निरसनम् अत्यर्थꣳ मत्-प्रियत्वादिकꣳ चाहम् एव ददामीत्य् अर्थः। यम् एवैष वृणुते तेन लभ्यः [मु।उ। ३।२।३] इति हि श्रूयते। वक्ष्यते च---
Link copiedतेषाꣳ सतत-युक्तानाꣳ भजताꣳ प्रीति-पूर्वकम्।
Link copiedददामि बुद्धि-योगꣳ तꣳ येन माम् उपयान्ति ते॥
Link copiedतेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जꣳ तमः।
Link copied
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता॥ [१०।१०-११] इति॥८।१४॥
Link copiedअतः परम् अध्याय-शेषेण ज्ञानिनः कैवल्यार्थिनश् चापुनर्-आवृत्तिम् ऐश्वर्यार्थिनः पुनर्-आवृत्तिꣳ चाह---
Link copiedमाम् उपेत्य पुनर्-जन्म दुःखालयम् अशाश्वतम्।
Link copiedनाप्नुवन्ति महात्मानः सꣳसिद्धिꣳ परमाꣳ गताः॥१५॥
Link copiedमाꣳ प्राप्य पुनर् निखिल-दुःखालयम् अस्थिरꣳ जन्म न प्राप्नुवन्ति यत एते महात्मानो महा-मनसो यथावस्थित-मत्-स्वरूप-ज्ञाना अत्यर्थ-मत्-प्रियत्वेन मया विना आत्म-धारणम् अलभमाना मय्य् आसक्त-मनसो मद्-आश्रया माम् उपास्य परम-सꣳसिद्धि-रूपꣳ माꣳ प्राप्ताः॥८।१५॥
Link copiedऐश्वर्य-गतिꣳ प्राप्तानाꣳ भगवन्तꣳ प्राप्तानाꣳ च पुनर्-आवृत्तव् अपुनर्-आवृत्तौ च हेतुम् अनन्तरम् आह---
Link copiedआ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन।
Link copiedमाम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते॥१६॥
Link copiedब्रह्म-लोक-पर्यन्ता ब्रह्माण्डोदर-वर्तिनः सर्वे लोका भोगैश्वर्यालयाः पुनर्-आवर्तिनो विनाशिनः। अत ऐश्वर्य-गतिꣳ प्राप्तानाꣳ प्राप्य-स्थान-विनाशाद् विनाशित्वम् अवर्जनीयम्। माꣳ सर्व-ज्ञꣳ सत्य-सङ्कल्पꣳ निखिल-जगद्-उत्पत्ति-स्थिति-लय-लीलꣳ परम-कारुणिकꣳ सदैक-रूपꣳ प्राप्तानाꣳ विनाश-प्रसङ्गाभावात् तेषाꣳ पुनर्-जन्म न विद्यते॥८।१६॥
Link copiedब्रह्म-लोक-पर्यन्तानाꣳ लोकानाꣳ तद्-अन्तर्-वर्तिनाꣳ च परम-पुरुष-सङ्कल्प-कृताम् उत्पत्ति-विनाश-काल-व्यवस्थाम् आह---
Link copiedसहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः।
Link copiedरात्रिꣳ युग-सहस्रान्ताꣳ तेऽहो-रात्र-विदो जनाः॥१७॥
Link copiedये मनुष्यादि-चतुर्-मखान्तानाꣳ मत्-सङ्कल्प-कृताहो-रात्र-व्यवस्था-विदो जनाः, ते ब्रह्मणश् चतुर्-मुखस्य यद् अहश् चतुर्-युग-सहस्रावसानꣳ विदुः, रात्रिꣳ च तथा-रूपाम्॥८।१७॥
Link copiedअव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहर्-आगमे।
Link copiedरात्र्य्-आगमे प्रलीयन्ते तत्रैवाव्यक्त-सꣳज्ञके॥१८॥
Link copiedतत्र ब्रह्मणः, अहर्-आगम-समये त्रैलोक्यान्तर्-वर्तिन्यो देहेन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तश् चतुर्-मुख-देहावस्थाद् अव्यक्तात् प्रभवन्ति। तत्रैवाव्यक्तावस्था-विशेषे चतुर्-मुख-देहे रात्र्य्-आगम-समये प्रलीयन्ते॥८।१८॥
Link copiedभूत-ग्रामः स एवायꣳ भूत्वा भूत्वा प्रलीयते।
Link copiedरात्र्य्-आगमेऽवशः पार्थ प्रभवत्य् अहर्-आगमे॥१९॥
Link copiedस एवायꣳ कर्म-वश्यो भूत-ग्रामोऽहर्-आगमे भूत्वा भूत्वा रात्र्य्-आगमे प्रलीयते पुनर् अप्य् अहर्-आगमे प्रभवति। तथा वर्षा-शतावसान-रूप-युग-सहस्रान्ते ब्रह्म-लोक-पर्यन्ता लोका ब्रह्मा च, पृथिवी अप्सु प्रलीयते आपस् तेजसि लीयन्ते इत्य्-आदि-क्रमेणाव्यक्ताक्षर-तमः-पर्यन्तꣳ मय्य् एव प्रलीयन्ते।
Link copiedएवꣳ मद्-व्यतिरिक्तस्य कृत्स्नस्य काल-व्यवस्थया मत्त उत्पत्तेर् मयि प्रलयाच् च उत्पत्ति-विनाश-योगित्वम् अवर्जनीयम् इत्य् ऐश्वर्य-गतिꣳ प्राप्तानाꣳ पुनर्-आवृत्तिर् अपरिहार्या। माम् उपेतानाꣳ तु न पुनर्-आवृत्ति-प्रसङ्गः॥८।१९॥
Link copiedअथ कैवल्य-प्राप्तानाम् अपि पुनर्-आवृत्तिर् न विद्यत इत्य् आह---
Link copiedपरस् तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः।
Link copiedयः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥२०॥
Link copiedअव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमाꣳ गतिम्।
Link copiedयꣳ प्राप्य न निवर्तन्ते तद् धाम परमꣳ मम॥२१॥
Link copiedतस्माद् अव्यक्ताद् अचेतन-प्रकृति-रूपात् पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद् विसजातीयोऽव्यक्तः केनचित् प्रमाणेन न व्यज्यत इत्य् अव्यक्तः स्व-सꣳवेद्य-साधारणाकार इत्य् अर्थः। सनातन उत्पत्ति-विनाशानर्हतया नित्यः। यः सर्वेषु वियद्-आदिषु भूतेषु स-कारणेषु स-कार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति सोऽव्यक्तोऽक्षर इत्य् उक्तः। ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तꣳ पर्युपासते [गीता १२।३], कूटस्थोऽक्षर उच्यते [गीता १५।१६] इत्य्-आदिषु तꣳ वेद-विदः परमाꣳ गतिम् आहुः। अयम् एव यः प्रयाति त्यजन् देहꣳ स याति परमाꣳ गतिम् [गीता ८।५] इत्य् अत्र परम-गति-शब्द-निर्दिष्टोऽक्षरः प्रकृति-सꣳसर्ग-वियुक्त-स्वरूपेणावस्थित आत्मा इत्य् अर्थः।
Link copied[[नोत् इन् अल्ल् एदितिओन्स्]: यम् एवꣳ-भूतꣳ स्वरूपेणावस्थितꣳ प्राप्य न निवर्तन्ते तन् मम परमꣳ धाम परमꣳ नियमन-स्थानम्। अचेतन-प्रकृतिर् एकꣳ नियमन-स्थानम्, तत्-सꣳसृष्ट-रूपा जीव-प्रकृतिर् द्वितीयꣳ नियमन-स्थानम् अचित्-सꣳसर्ग-वियुक्तꣳ स्वरूपेणावस्थितꣳ मुक्त-स्वरूपꣳ परमꣳ नियमन-स्थानम् इत्य् अर्थः।]
Link copiedतच् चापुनर्-आवृत्ति-रूपम्। अथवा प्रकाश-वाची धाम-शब्दः, प्रकाशश् चेह ज्ञानम् अभिप्रेतꣳ प्रकृति-सꣳसृष्टत् परिच्छिन्न-ज्ञान-रूपाद् आत्मनोऽपरिच्छिन्न-ज्ञान-रूपतया मुक्त-स्वरूपꣳ परꣳ धाम॥८।२०-२१]
Link copiedज्ञानिनः प्राप्यꣳ तु तस्माद् अत्यन्त-विभक्तम् इत्य् आह---
Link copiedपुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया।
Link copiedयस्यान्तः-स्थानि भूतानि येन सर्वम् इदꣳ ततम्॥२२॥
Link copiedमत्तः परतरꣳ नान्यत् किञ्चिदस्ति धनजय।
Link copiedमयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणिगणा इव॥ [७।७]
Link copied
माम् एभ्यः परम् अव्ययम् [७।१३] इत्य् आदिना निर्दिष्टस्य यस्यान्तः-स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वम् इदꣳ ततꣳ स पर-पुरुषो अनन्य-चेताः सततम् [८।१४] इत्य् अनन्यया भक्त्या लभ्यः।
Link copiedयत्र काले त्व् अनावृत्तिम् आवृत्तिꣳ चैव योगिनः।
Link copiedप्रयाता यान्ति तꣳ कालꣳ वक्ष्यामि भरतर्षभ॥२३॥
Link copiedअग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्।
Link copiedतत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः॥२४॥
Link copiedअथात्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च साधारणीम् अर्चिर्-आदिकाꣳ गतिम् आह द्वयोर् अप्य् अर्चिर्-आदिका गतिः श्रुतौ श्रुता, सा चापुनर्-आवृत्ति-लक्षणा। तथा पञ्चाग्नि-विद्यायाꣳ तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धा तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्त्य् अर्चिषोऽहः [छा।उ। ५।१०।१] इत्य् आदव् अर्चिर्-आदिकया गत्य्-आगतस्य पर-ब्रह्म-प्राप्तिर् अपुनर्-आवृत्तिश् चोक्ता स एनान् ब्रह्म गमयति \॥। एतेन प्रतिपद्यमाना इमꣳ मानवम् आवर्तꣳ नावर्तन्ते [छा।उ। ४।१५।५] इति।
Link copiedन च प्रजापति-वाक्यादौ श्रुति-पर-विद्याङ्ग-भूतात्म-प्राप्ति-विषयेयम्--- तद् य इत्थꣳ विदुः इति गति-श्रुतिर्, ये चेमेऽरण्ये श्रद्धाꣳ तप इत्युपासते [छा।उ। ५।१०।१] इति पर-विद्यायाः पृथक्-श्रुति-वैयर्थ्यात्।
Link copiedपञ्चाग्नि-विद्यायाꣳ च इति तु पञ्चम्याम् आहुताव् आपः पुरुष-वचसो भवन्ति [छा।उ। ५।९।१] इति रमणीय-चरणाः कपूय-चरणाः [छा।उ। ५।१०।७] इति पुण्य-पाप-हेतुको मनुष्यादि-भावो अपाम् एव भूतान्तर-सꣳसृष्टनाम् आत्मनस् तु यत्-परिष्वङ्ग-मात्रम् इति चिद्-अचितोर् विवेकम् अभिधाय तद् य इत्थꣳ विदुः \॥। तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], इमꣳ मानवम् आवर्तꣳ नावर्तन्ते [छा।उ। ४।१५।५] इति विविक्ते चिद्-अचिद्-वस्तुनि त्याज्यतया प्राप्यतया च तद् य इत्थꣳ विदुस् तेऽर्चिरादिना गच्छन्ति न च पुनर् आवर्तन्ते इत्य् उक्तम् इति गम्यते।
Link copiedआत्म-याथात्म्य-विदः परम-पुरुष-निष्ठस्य च स एनान् ब्रह्म गमयति [छा।उ। ४।१५।५] इति ब्रह्म-प्राप्ति-वचनाद् अचिद्-वियुक्तम् आत्म-वस्तु ब्रह्मात्मकतया ब्रह्म-शेषतैक-रसम् इत्य् अनुसन्धेयम्। तत्-क्रतु-न्यायाच् च पर-शेषतैक-रसत्वꣳ च य आत्मनि तिष्ठन् यस्यात्मा शरीरम् [शब्रा १४।६।५।५।३०] इत्य्-आदि-श्रुति-सिद्धम्।
Link copiedअत्र काल-शब्दो मार्गस्याहः-प्रभृति-सꣳवत्सरान्त-कालाभिमानि-देवता-भूयस्तया मार्गोपलक्षणार्थः। यस्मिन् मार्गे प्रयाता योगिनोऽनावृत्तिम्। पुण्य-कर्माणश् चावृत्तिꣳ यान्ति, तꣳ मार्गꣳ वक्ष्यामीत्य् अर्थः। अग्निर् ज्योतिर् अहः शुक्लः षण्-मासा उत्तरायणम्, इति सꣳवत्सरादीनाꣳ प्रदर्शनम्॥८।२३-२४॥
Link copiedधूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम्।
Link copiedतत्र चान्द्रमसꣳ ज्योतिर् योगी प्राप्य निवर्तते॥२५॥
Link copiedएतच् च धूमादि-मार्ग-स्थ-पितृ-लोकादेः प्रदर्शनम्। अत्र योगि-शब्द पुण्य-कर्म-सम्बन्धि-विषयः॥८।२५॥
Link copiedशुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते।
Link copiedएकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः॥२६॥
Link copiedशुक्ला गतिर् अर्चिर्-आदिका। कृष्णा च धूमादिका। शुक्लयानावृत्तिꣳ यान्ति, कृष्णया तु पुनर् आवर्तन्ते। एते शुक्ल-कृष्णे गती ज्ञानिनाꣳ विविधानाꣳ पुण्य-कर्मणाꣳ च श्रुतौ शाश्वते मते। तद् य इत्थꣳ विदुर् ये चेमेऽरण्ये श्रद्धाꣳ तप इत्य् उपासते तेऽर्चिषम् अभिसम्भवन्ति [छा।उ। ५।१०।१], अथ य इमे ग्रामे इष्ट-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [छा।उ। ५।१०।३] इति॥८।२६॥
Link copiedनैते सृती पार्थ जानन् योगी मुह्यति कश्चन।
Link copiedतस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन॥२७॥
Link copiedएतौ मार्गौ जानन् योगी प्रयाण-काले कश्चन न मुह्यति। अपि तु स्वेनैव देव-यानेन पथा याति। तस्माद् अहरहर् अर्चिर्-आदि-गति-चिन्तनाख्य-योग-युक्तो भव॥८।२७॥
Link copiedअथाध्याय-द्वयोदित-शास्त्रार्थ-वेदन-फलम् आह---
Link copiedवेदेषु यज्ञेषु तपःसु चैव
Link copiedदानेषु यत् पुण्य-फलꣳ प्रदिष्टम्।
Link copiedअत्येति तत् सर्वम् इदꣳ विदित्वा
Link copiedयोगी परꣳ स्थानम् उपैति चाद्यम्॥२८॥
Link copiedऋग्-यजुः-सामाथर्व-रूप-वेदाभ्यास-यज्ञ-तपो-दान-प्रभृतिषु सर्वेषु पुण्येषु यत् फलꣳ निर्दिष्टम् इदम् अध्याय-द्वयोदितꣳ भगवन्-माहात्म्यꣳ विदित्वा तत् सर्वम् अत्येति एतद्-वेदन-सुखातिरेकेण तत् सर्वꣳ तृणवत् मन्यते। योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यꣳ परम् आद्यꣳ स्थानम् उपैति॥८।२८॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्येऽष्टमोऽध्यायः ॥८॥
Link copied**
Link copiedసప్తమే పరస్య బ్రహ్మణో వాసుదేవస్యోపాస్యత్వṁ, నిఖిల-చేతనాచేతన-వస్తు-శేషిత్వṁ, కారణత్వṁ, ఆధారత్వṁ, సర్వ-శరీరతయా సర్వ-ప్రకారత్వేన సర్వ-శబ్ద-వాచ్యత్వṁ, సర్వ-నియన్తృత్వṁ, సర్వైశ్ చ కల్యాణ-గుణ-గణైర్ ఏకాశ్రయత్వṁ తస్యైవ పరతరత్వṁ చ, సత్త్వ-రజస్-తమో-మయైర్ దేహేన్ద్రియత్వేన భోగ్యత్వేన చావస్థితైర్ భావైర్ అనాది-కాల-ప్రవృత్త-దుష్కృత-ప్రవాహ-హేతుకైస్ తస్య తిరోధానమ్। అత్యుత్కృష్ట-సుకృత-హేతుక-భగవత్-ప్రపత్త్యా చ తన్-నివర్తనṁ, సుకృత-తారతమ్యేన చ ప్రతిపత్తి-వైషేష్యాద్ ఐశ్వర్యాక్షర-యాథాత్మ్య-భగవత్-ప్రాప్త్య్-అపేక్షయోపాసక-భేదṁ, భగవన్తṁ ప్రేప్సోర్ నిత్య-యుక్తతయిక-భక్తితయా చాత్యర్థ-పరమ-పురుష-ప్రియత్వేన శ్రైష్ఠ్యṁ, దుర్లభత్వṁ చ ప్రతిపాద్య ఏషాṁ త్రయాణాṁ జ్ఞాతవ్యోపాదేయ-భేదాṁశ్ చ ప్రాస్తౌషీత్। ఇదానీమ్ అష్టమే ప్రస్తుతాన్ జ్ఞాతవ్యోపాదేయ-భేదాన్ వివినక్తి---
Link copiedకిṁ తద్ బ్రహ్మ కిమ్ అధ్యాత్మṁ కిṁ కర్మ పురుషోత్తమ।
Link copiedఅధిభూతṁ చ కిṁ ప్రోక్తమ్ అధిదైవṁ కిమ్ ఉచ్యతే॥౧॥
Link copiedఅధియజ్ఞః కథṁ కోఽత్ర దేహేఽస్మిన్ మధుసూదన।
Link copiedప్రయాణ-కాలే చ కథṁ జ్ఞేయోఽసి నియతాత్మభిః॥౨॥
Link copiedజరా-మరణ-మోక్షాయ భగవన్తమ్ ఆశ్రిత్య యతమానానాṁ జ్ఞాతవ్యతయోక్తṁ తద్ బ్రహ్మాధ్యాత్మṁ చ కర్మ చ కిమ్ ఇతి వక్తవ్యమ్। ఐశ్వర్యార్థినాṁ జ్ఞాతవ్యమ్ అధిభూతమ్ అధిదైవṁ చ కిṁ। త్రయాణాṁ జ్ఞాతవ్యోఽధియజ్ఞ-శబ్ద-నిర్దిష్టశ్ చ కః। తస్య చాధియజ్ఞ-భావః కథṁ। ప్రయాణ-కాలే చైభిస్ త్రిభిః నియతాత్మభిః కథṁ జ్ఞేయోఽసి॥।౮।౧--- ౮।౨॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedఅక్షరṁ బ్రహ్మ పరమṁ స్వభావోఽధ్యాత్మమ్ ఉచ్యతే।
Link copiedభూతభావోద్భవ-కరో విసర్గః కర్మ-సṁజ్ఞితః॥౩॥
Link copiedతద్ బ్రహ్మ ఇతి నిర్దిష్టṁ పరమమ్ అక్షరṁ న క్షరతీత్య్ అక్షరṁ క్షేత్రజ్ఞṁ సమష్టి-రూపమ్। తథా చ శ్రుతిర్ అవ్యక్తమ్ అక్షరే లీయతేఽక్షరṁ తమసి లీయతే [సు।ఉ। ౨] ఇత్య్ ఆదికా। పరమమ్ అక్షరṁ ప్రకృతి-వినిర్ముక్తాత్మ-స్వరూపమ్। స్వభావోఽధ్యాత్మమ్ ఉచ్యతే స్వభావః ప్రకృతిర్ అనాత్మ-భూతమ్ ఆత్మని సమ్బద్ధ్యమానṁ భూత-సూక్ష్మ-తద్-వాసనాదికṁ పఞ్చాగ్ని-విద్యాయాṁ జ్ఞాతవ్యతయా ఉదితమ్। తద్-ఉభయṁ ప్రాప్యతయా త్యాజ్యతయా చ ముముక్షుభిర్ జ్ఞాతవ్యమ్।
Link copiedభూత-భావో మనుష్యాది-భావః, తద్-ఉద్భవ-కరో యో విసర్గః పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి [ఛా।ఉ। ౫।౩।౩] ఇతి శ్రుతి-సిద్ధో యోషిత్-సమ్బన్ధ-జః, స కర్మ-సṁజ్ఞితః। తచ్ చాఖిలṁ సానుబన్ధమ్ ఉద్వేజనీయతయా పరిహరణీయతయా చ ముముక్షుభిర్ జ్ఞాతవ్యమ్। పరిహరణీయతా చానన్తరమ్ ఏవ వక్ష్యతే--- యద్ ఇచ్ఛన్తో బ్రహ్మచర్యṁ చరన్తి [౮।౧౧] ఇతి॥౮।౩॥
Link copiedఅధిభూతṁ క్షరో భావః పురుషశ్ చాధిదైవతమ్।
Link copiedఅధియజ్ఞోఽహమ్ ఏవాత్ర దేహే దేహ-భృతాṁ వర॥౪॥
Link copiedఐశ్వర్యార్థినాṁ జ్ఞాతవ్యతయా నిర్దిష్టమ్ అధిభూతṁ క్షరో భావో వియద్-ఆది-భూతేషు వర్తమానస్ తత్-పరిణామ-విశేషః క్షరణ-స్వభావో విలక్షణః శబ్ద-స్పర్శాదిః సాశ్రయః, విలక్షణాః సాశ్రయాః శబ్ద-స్పర్శ-రూప-రస-గన్ధా ఐశ్వర్యార్థిభిః ప్రాప్యాః। తైర్ అనుసన్ధేయాః।
Link copiedపురుషశ్ చాధిదైవతమ్ అధిదైవత-శబ్ద-నిర్దిష్టః పురుషః। అధిదైవతṁ దైవతోపరి వర్తమానమ్ ఇన్ద్ర-ప్రజాపతి-ప్రభృతి-కృత్స్న-దైవతోపరి వర్తమానః। ఇన్ద్ర-ప్రజాపతి-ప్రభృతీనాṁ భోగ్య-జాతాద్ విలక్షణ-శబ్దాదేర్ భోక్తా పురుషః। సా చ భోక్తృత్వావస్థా ఐశ్వర్యార్థిభిః ప్రాప్యతయా అనుసన్ధేయా।
Link copiedఅధియజ్ఞోఽహమ్ ఏవాధియజ్ఞ-శబ్ద-నిర్దిష్టోఽహమ్ ఏవ। అధియజ్ఞో యజ్ఞైర్ ఆరాధ్యతయా వర్తమానః। అత్రేన్ద్రాదౌ మమ దేహ-భూతే ఆత్మతయావస్థితోఽహమ్ ఏవ యజ్ఞైర్ ఆరాధ్య ఇతి మహా-యజ్ఞాది-నిత్య-నైమిత్తకానుష్ఠాన-వేలాయాṁ త్రయాణామ్ అధికారిణామ్ అనుసన్ధేయమ్ ఏతత్॥౮।౪॥
Link copiedఇదమ్ అపి త్రయాణాṁ సాధారణమ్---
Link copiedఅన్త-కాలే చ మామ్ ఏవ స్మరన్ ముక్త్వా కలేవరమ్।
Link copiedయః ప్రయాతి స మద్-భావṁ యాతి నాస్త్య్ అత్ర సṁశయః॥౫॥
Link copiedఅన్త-కాలే చ మామ్ ఏవ స్మరన్ కలేవరṁ త్యక్త్వా యః ప్రయాతి, స మద్-భావṁ యాతి। మమ యో భావః స్వభావస్ తṁ యాతి। తదానీṁ యథా మామ్ అనుసన్ధత్తే తథా-విధాకారో భవతీత్య్ అర్థః। యథా ఆది-భరతాదయస్ తదానీṁ స్మర్యమాణ-మృగ-సజాతీయాకారాః సమ్భూతాః॥౮।౫॥
Link copiedస్మర్తుః స్వ-విషయ-సజాతీయ-కారతాపాదనమ్ అన్త్య-ప్రత్యయస్య స్వభావ ఇతి సుస్పష్టమ్ ఆహ---
Link copiedయṁ యṁ వాపి స్మరన్ భావṁ త్యజత్య్ అన్తే కలేవరమ్।
Link copiedతṁ తమ్ ఏవైతి కౌన్తేయ సదా తద్-భావ-భావితః॥౬॥
Link copiedఅన్తేఽన్త-కాలే యṁ యṁ వాపి భావṁ స్మరన్ కలేవరṁ త్యజతి తṁ తṁ భావమ్ ఏవ మరణాన్తరమ్ ఏతి। అన్త్య-ప్రత్యయశ్ చ పూర్వ-భావిత-విషయ ఏవ జాయతే॥౮।౬॥
Link copiedయస్మాత్ పూర్వ-కాలాభ్యస్త-విషయే ఏవాన్త్య-ప్రత్యయో జాయతే---
Link copiedతస్మాత్ సర్వేషు కాలేషు మామ్ అనుస్మర యుధ్య చ।
Link copiedమయ్య్ అర్పిత-మనో-బుద్ధిర్ మామ్ ఏవైష్యస్య్ అసṁశయః॥౭॥
Link copiedతస్మాత్ సర్వేషు కాలేష్వ్ ఆప్రయాణాద్ అహర్-అహః మామ్ అనుస్మరాహర్-అహర్ అనుస్మృతి-కరṁ యుద్ధాదికṁ వర్ణాశ్రమానుబన్ధి-శ్రుతి-స్మృతి-చోదిత-నిత్య-నైమిత్తికṁ చ కర్మ కురు। ఏతద్-ఉపాయేన మయ్య్ అర్పిత-మనో-బుద్ధిర్ అన్త-కాలే చ మామ్ ఏవ స్మరన్ యథాభిలషిత-ప్రకారṁ మాṁ ప్రాప్స్యసి నాత్ర సṁశయః॥౮।౭॥
Link copiedఏవṁ సామాన్యేన సర్వత్ర స్వ-ప్రాప్యావాప్తిర్ అన్త్య-ప్రత్యయాధీనా ఇత్య్ ఉక్త్వా తద్-అర్థṁ త్రయాణామ్ ఉపాసన-ప్రకార-భేదṁ వక్తుమ్ ఉపక్రమతే। తత్రైశ్వర్యార్థినామ్ ఉపాసన-ప్రకారṁ యథోపాసనమ్ అన్త్య-ప్రత్యయ-ప్రకారṁ చాహ---
Link copiedఅభ్యాస-యోగ-యుక్తేన చేతసా నాన్య-గామినా।
Link copiedపరమṁ పురుషṁ దివ్యṁ యాతి పార్థానుచిన్తయన్॥౮॥
Link copiedఅహరహర్ అభ్యాస-యోగాభ్యాṁ యుక్తతయా నాన్య-గామినా చేతసా అన్త-కాలే పరమṁ పురుషṁ దివ్యṁ మాṁ వక్ష్యమాణ-ప్రకారṁ చిన్తయన్ మామ్ ఏవ యాత్య్ ఆది-భరత-మృగత్వ-ప్రాప్తివద్ ఐశ్వర్య-విశిష్టతయా మత్-సమానాకారో భవతి। అభ్యాసో నిత్య-నైమిత్తికావిరుద్ధేషు సర్వేషు కాలేషు మనసా ఉపాస్య-సṁశీలనమ్, యోగస్ త్వ్ అహరహర్ యోగ-కాలేఽనుష్ఠీయమానṁ యథోక్త-లక్షణమ్ ఉపాసనమ్॥౮।౮॥
Link copiedకవిṁ పురాణమ్ అనుశాసితారమ్
Link copiedఅణోర్ అణీయాṁసమ్ అనుస్మరేద్ యః।
Link copiedసర్వస్య ధాతారమ్ అచిన్త్య-రూపమ్
Link copiedఆదిత్య-వర్ణṁ తమసః పరస్తాత్॥౯॥
Link copiedప్రయాణ-కాలే మనసాచలేన
Link copiedభక్త్యా యుక్తో యోగ-బలేన చైవ।
Link copiedభ్రువోర్ మధ్యే ప్రాణమ్ ఆవేశ్య సమ్యక్
Link copiedస తṁ పరṁ పురుషమ్ ఉపైతి దివ్యమ్॥౧౦॥
Link copiedకవిṁ సర్వజ్ఞṁ పురాణṁ పురాతనమ్ అనుశాసితారṁ విశ్వస్య ప్రశాసితారమ్ అణోర్ అణీయాṁసṁ జీవాద్ అపి సూక్ష్మతరṁ సర్వస్య ధాతారṁ సర్వస్య స్రష్టరమ్ అచిన్త్య-రూపṁ సకలేతర-విసజాతీయ-స్వరూపమ్ ఆదిత్య-వర్ణṁ తమసః పరస్తాత్ అప్రాకృత-స్వాసాధారణ-దివ్య-రూపమ్। తమ్ ఏవṁ-భూతమ్ అహరహర్ అభ్యస్యమాన-భక్తి-యుక్త-యోగ-బలేన ఆరూఢ-సṁస్కారతయా అచలేన మనసా ప్రయాణ-కాలే భ్రువోర్ మధ్యే ప్రాణమ్ ఆవేశ్య సṁస్థాప్య తత్ర భ్రువోర్ మధ్యే దివ్యṁ పురుషṁ యోఽనుస్మరేత్ స తమ్ ఏవ ఉపైతి తద్-భావṁ యాతి, తత్-సమానైశ్వర్యో భవతీత్య్ అర్థః॥౮।౯-౧౦॥
Link copiedఅథ కైవల్యార్థినాṁ స్మరణ-ప్రకారమ్ ఆహ---
Link copiedయద్ అక్షరṁ వేద-విదో వదన్తి
Link copiedవిశన్తి యద్ యతయో వీత-రాగాః।
Link copiedయద్ ఇచ్ఛన్తో బ్రహ్మచర్యṁ చరన్తి
Link copiedతత్ తే పదṁ సఙ్గ్రహేణ ప్రవక్ష్యే॥౧౧॥
Link copiedయద్ అక్షరమ్ అస్థూలత్వాది-గుణకṁ వేద-విదో వదన్తి వీత-రాగాశ్ చ యతయో యద్ అక్షరṁ విశన్తి యద్ అక్షరṁ ప్రాప్తుమ్ ఇచ్ఛన్తో బ్రహ్మచర్యṁ చరన్తి తత్ తే పదṁ సఙ్గ్రహేణ ప్రవక్ష్యే। పద్యతే గమ్యతేఽనేన ఇతి పదṁ తన్ నిఖిల-వేదాన్త-వేద్యṁ మత్-స్వరూపమ్ అక్షరṁ యథా ఉపాస్యṁ తథా సఙ్క్షేపేణ ప్రవక్ష్యామీత్య్ అర్థః॥౮।౧౧॥
Link copiedసర్వ-ద్వారాణి సṁయమ్య మనో హృది నిరుధ్య చ।
Link copiedమూర్ధ్న్య్ ఆధాయాత్మనః ప్రాణమ్ ఆస్థితో యోగ-ధారణామ్॥౧౨॥
Link copiedసర్వాణి శ్రోత్రాదీనీన్ద్రియాణి జ్ఞాన-ద్వార-భూతాని సṁయమ్య స్వ-వ్యాపారేభ్యో వినివర్త్య హృదయ-కమల-నివిష్టే మయ్య్ అక్షరే మనో నిరుధ్య యోగాఖ్యాṁ ధారణాṁ ఆస్థితో మయ్య్ ఏవ నిశ్చలాṁ స్థితిమ్ ఆస్థితః॥౮।౧౨॥
Link copiedఓమ్ ఇత్య్ ఏకాక్షరṁ బ్రహ్మ వ్యాహరన్ మామ్ అనుస్మరన్।
Link copiedయః ప్రయాతి త్యజన్ దేహṁ స యాతి పరమాṁ గతిమ్॥౧౩॥
Link copiedఓమ్ ఇత్య్ ఏకాక్షరṁ బ్రహ్మ మద్-వాచకṁ వ్యాహరన్ వాచ్యṁ మామ్ అనుస్మరన్ ఆత్మనః ప్రాణṁ మూర్ధ్న్య్ ఆధాయ దేహṁ త్యజన్ యః ప్రయాతి స యాతి పరమాṁ గతిṁ ప్రకృతి-వియుక్తṁ మత్-సమానాకారమ్ అపునర్-ఆవృత్తిమ్ ఆత్మానṁ ప్రాప్నోతీత్య్ అర్థః యః స సర్వేషు భూతేషు నశ్యత్సు న వినశ్యతి॥ అవ్యక్తోఽక్షర ఇత్య్ ఉక్తస్ తమ్ ఆహుః పరమాṁ గతిమ్। [౮।౨౦,౨౧] ఇత్య్ అనన్తరమ్ ఏవ వక్ష్యతే॥౮।౧౨-౧౩॥
Link copiedఏవమ్ ఐశ్వర్యార్థినః కైవల్యార్థినశ్ చ స్వ-ప్రాప్యానుగుణో భగవద్-ఉపాసన-ప్రకార ఉక్తః। అథ జ్ఞానినో భగవద్-ఉపాసన-ప్రకారṁ ప్రాప్తి-కారṁ చాహ---
Link copiedఅనన్య-చేతాః సతతṁ యో మాṁ స్మరతి నిత్యశః।
Link copiedతస్యాహṁ సులభః పార్థ నిత్య-యుక్తస్య యోగినః॥౧౪॥
Link copiedనిత్యశో మామ్ ఉద్యోగ-ప్రభృతి సతతṁ సర్వ-కాలమ్ అనన్య-చేతా యః స్మరత్య్ అత్యర్థṁ మత్-ప్రియత్వేన మత్-స్మృత్యా వినా ఆత్మ-ధారణమ్ అలభమానో నిరతిశయ-ప్రియṁ మాṁ యః స్మరతి తస్య నిత్య-యుక్తస్య నిత్య-యోగṁ కాఙ్క్షమాణస్య యోగినోఽహṁ సులభోఽహమ్ ఏవ ప్రాప్యః। న మద్-భావ ఐశ్వర్యాదికః సుప్రాపశ్ చ। తద్-వియోగమ్ అసహమానోఽహమ్ ఏవ తṁ వృణే। మత్-ప్రాప్త్య్-అనుగుణోపాసన-విపాకṁ తద్-విరోధి-నిరసనమ్ అత్యర్థṁ మత్-ప్రియత్వాదికṁ చాహమ్ ఏవ దదామీత్య్ అర్థః। యమ్ ఏవైష వృణుతే తేన లభ్యః [ము।ఉ। ౩।౨।౩] ఇతి హి శ్రూయతే। వక్ష్యతే చ---
Link copiedతేషాṁ సతత-యుక్తానాṁ భజతాṁ ప్రీతి-పూర్వకమ్।
Link copiedదదామి బుద్ధి-యోగṁ తṁ యేన మామ్ ఉపయాన్తి తే॥
Link copiedతేషామ్ ఏవానుకమ్పార్థమ్ అహమ్ అజ్ఞాన-జṁ తమః।
Link copied
నాశయామ్య్ ఆత్మ-భావ-స్థో జ్ఞాన-దీపేన భాస్వతా॥ [౧౦।౧౦-౧౧] ఇతి॥౮।౧౪॥
Link copiedఅతః పరమ్ అధ్యాయ-శేషేణ జ్ఞానినః కైవల్యార్థినశ్ చాపునర్-ఆవృత్తిమ్ ఐశ్వర్యార్థినః పునర్-ఆవృత్తిṁ చాహ---
Link copiedమామ్ ఉపేత్య పునర్-జన్మ దుఃఖాలయమ్ అశాశ్వతమ్।
Link copiedనాప్నువన్తి మహాత్మానః సṁసిద్ధిṁ పరమాṁ గతాః॥౧౫॥
Link copiedమాṁ ప్రాప్య పునర్ నిఖిల-దుఃఖాలయమ్ అస్థిరṁ జన్మ న ప్రాప్నువన్తి యత ఏతే మహాత్మానో మహా-మనసో యథావస్థిత-మత్-స్వరూప-జ్ఞానా అత్యర్థ-మత్-ప్రియత్వేన మయా వినా ఆత్మ-ధారణమ్ అలభమానా మయ్య్ ఆసక్త-మనసో మద్-ఆశ్రయా మామ్ ఉపాస్య పరమ-సṁసిద్ధి-రూపṁ మాṁ ప్రాప్తాః॥౮।౧౫॥
Link copiedఐశ్వర్య-గతిṁ ప్రాప్తానాṁ భగవన్తṁ ప్రాప్తానాṁ చ పునర్-ఆవృత్తవ్ అపునర్-ఆవృత్తౌ చ హేతుమ్ అనన్తరమ్ ఆహ---
Link copiedఆ బ్రహ్మ-భువనాల్ లోకాః పునర్-ఆవర్తినోఽర్జున।
Link copiedమామ్ ఉపేత్య తు కౌన్తేయ పునర్-జన్మ న విద్యతే॥౧౬॥
Link copiedబ్రహ్మ-లోక-పర్యన్తా బ్రహ్మాణ్డోదర-వర్తినః సర్వే లోకా భోగైశ్వర్యాలయాః పునర్-ఆవర్తినో వినాశినః। అత ఐశ్వర్య-గతిṁ ప్రాప్తానాṁ ప్రాప్య-స్థాన-వినాశాద్ వినాశిత్వమ్ అవర్జనీయమ్। మాṁ సర్వ-జ్ఞṁ సత్య-సఙ్కల్పṁ నిఖిల-జగద్-ఉత్పత్తి-స్థితి-లయ-లీలṁ పరమ-కారుణికṁ సదైక-రూపṁ ప్రాప్తానాṁ వినాశ-ప్రసఙ్గాభావాత్ తేషాṁ పునర్-జన్మ న విద్యతే॥౮।౧౬॥
Link copiedబ్రహ్మ-లోక-పర్యన్తానాṁ లోకానాṁ తద్-అన్తర్-వర్తినాṁ చ పరమ-పురుష-సఙ్కల్ప-కృతామ్ ఉత్పత్తి-వినాశ-కాల-వ్యవస్థామ్ ఆహ---
Link copiedసహస్ర-యుగ-పర్యన్తమ్ అహర్ యద్ బ్రహ్మణో విదుః।
Link copiedరాత్రిṁ యుగ-సహస్రాన్తాṁ తేఽహో-రాత్ర-విదో జనాః॥౧౭॥
Link copiedయే మనుష్యాది-చతుర్-మఖాన్తానాṁ మత్-సఙ్కల్ప-కృతాహో-రాత్ర-వ్యవస్థా-విదో జనాః, తే బ్రహ్మణశ్ చతుర్-ముఖస్య యద్ అహశ్ చతుర్-యుగ-సహస్రావసానṁ విదుః, రాత్రిṁ చ తథా-రూపామ్॥౮।౧౭॥
Link copiedఅవ్యక్తాద్ వ్యక్తయః సర్వాః ప్రభవన్త్య్ అహర్-ఆగమే।
Link copiedరాత్ర్య్-ఆగమే ప్రలీయన్తే తత్రైవావ్యక్త-సṁజ్ఞకే॥౧౮॥
Link copiedతత్ర బ్రహ్మణః, అహర్-ఆగమ-సమయే త్రైలోక్యాన్తర్-వర్తిన్యో దేహేన్ద్రియ-భోగ్య-భోగ-స్థాన-రూపా వ్యక్తశ్ చతుర్-ముఖ-దేహావస్థాద్ అవ్యక్తాత్ ప్రభవన్తి। తత్రైవావ్యక్తావస్థా-విశేషే చతుర్-ముఖ-దేహే రాత్ర్య్-ఆగమ-సమయే ప్రలీయన్తే॥౮।౧౮॥
Link copiedభూత-గ్రామః స ఏవాయṁ భూత్వా భూత్వా ప్రలీయతే।
Link copiedరాత్ర్య్-ఆగమేఽవశః పార్థ ప్రభవత్య్ అహర్-ఆగమే॥౧౯॥
Link copiedస ఏవాయṁ కర్మ-వశ్యో భూత-గ్రామోఽహర్-ఆగమే భూత్వా భూత్వా రాత్ర్య్-ఆగమే ప్రలీయతే పునర్ అప్య్ అహర్-ఆగమే ప్రభవతి। తథా వర్షా-శతావసాన-రూప-యుగ-సహస్రాన్తే బ్రహ్మ-లోక-పర్యన్తా లోకా బ్రహ్మా చ, పృథివీ అప్సు ప్రలీయతే ఆపస్ తేజసి లీయన్తే ఇత్య్-ఆది-క్రమేణావ్యక్తాక్షర-తమః-పర్యన్తṁ మయ్య్ ఏవ ప్రలీయన్తే।
Link copiedఏవṁ మద్-వ్యతిరిక్తస్య కృత్స్నస్య కాల-వ్యవస్థయా మత్త ఉత్పత్తేర్ మయి ప్రలయాచ్ చ ఉత్పత్తి-వినాశ-యోగిత్వమ్ అవర్జనీయమ్ ఇత్య్ ఐశ్వర్య-గతిṁ ప్రాప్తానాṁ పునర్-ఆవృత్తిర్ అపరిహార్యా। మామ్ ఉపేతానాṁ తు న పునర్-ఆవృత్తి-ప్రసఙ్గః॥౮।౧౯॥
Link copiedఅథ కైవల్య-ప్రాప్తానామ్ అపి పునర్-ఆవృత్తిర్ న విద్యత ఇత్య్ ఆహ---
Link copiedపరస్ తస్మాత్ తు భావోఽన్యోఽవ్యక్తోఽవ్యక్తాత్ సనాతనః।
Link copiedయః స సర్వేషు భూతేషు నశ్యత్సు న వినశ్యతి॥౨౦॥
Link copiedఅవ్యక్తోఽక్షర ఇత్య్ ఉక్తస్ తమ్ ఆహుః పరమాṁ గతిమ్।
Link copiedయṁ ప్రాప్య న నివర్తన్తే తద్ ధామ పరమṁ మమ॥౨౧॥
Link copiedతస్మాద్ అవ్యక్తాద్ అచేతన-ప్రకృతి-రూపాత్ పురుషార్థతయా పర ఉత్కృష్టో భావోఽన్యో జ్ఞానైకాకారతయా తస్మాద్ విసజాతీయోఽవ్యక్తః కేనచిత్ ప్రమాణేన న వ్యజ్యత ఇత్య్ అవ్యక్తః స్వ-సṁవేద్య-సాధారణాకార ఇత్య్ అర్థః। సనాతన ఉత్పత్తి-వినాశానర్హతయా నిత్యః। యః సర్వేషు వియద్-ఆదిషు భూతేషు స-కారణేషు స-కార్యేషు వినశ్యత్సు తత్ర తత్ర స్థితోఽపి న వినశ్యతి సోఽవ్యక్తోఽక్షర ఇత్య్ ఉక్తః। యే త్వ్ అక్షరమ్ అనిర్దేశ్యమ్ అవ్యక్తṁ పర్యుపాసతే [గీతా ౧౨।౩], కూటస్థోఽక్షర ఉచ్యతే [గీతా ౧౫।౧౬] ఇత్య్-ఆదిషు తṁ వేద-విదః పరమాṁ గతిమ్ ఆహుః। అయమ్ ఏవ యః ప్రయాతి త్యజన్ దేహṁ స యాతి పరమాṁ గతిమ్ [గీతా ౮।౫] ఇత్య్ అత్ర పరమ-గతి-శబ్ద-నిర్దిష్టోఽక్షరః ప్రకృతి-సṁసర్గ-వియుక్త-స్వరూపేణావస్థిత ఆత్మా ఇత్య్ అర్థః।
Link copied[[నోత్ ఇన్ అల్ల్ ఏదితిఓన్స్]: యమ్ ఏవṁ-భూతṁ స్వరూపేణావస్థితṁ ప్రాప్య న నివర్తన్తే తన్ మమ పరమṁ ధామ పరమṁ నియమన-స్థానమ్। అచేతన-ప్రకృతిర్ ఏకṁ నియమన-స్థానమ్, తత్-సṁసృష్ట-రూపా జీవ-ప్రకృతిర్ ద్వితీయṁ నియమన-స్థానమ్ అచిత్-సṁసర్గ-వియుక్తṁ స్వరూపేణావస్థితṁ ముక్త-స్వరూపṁ పరమṁ నియమన-స్థానమ్ ఇత్య్ అర్థః।]
Link copiedతచ్ చాపునర్-ఆవృత్తి-రూపమ్। అథవా ప్రకాశ-వాచీ ధామ-శబ్దః, ప్రకాశశ్ చేహ జ్ఞానమ్ అభిప్రేతṁ ప్రకృతి-సṁసృష్టత్ పరిచ్ఛిన్న-జ్ఞాన-రూపాద్ ఆత్మనోఽపరిచ్ఛిన్న-జ్ఞాన-రూపతయా ముక్త-స్వరూపṁ పరṁ ధామ॥౮।౨౦-౨౧]
Link copiedజ్ఞానినః ప్రాప్యṁ తు తస్మాద్ అత్యన్త-విభక్తమ్ ఇత్య్ ఆహ---
Link copiedపురుషః స పరః పార్థ భక్త్యా లభ్యస్ త్వ్ అనన్యయా।
Link copiedయస్యాన్తః-స్థాని భూతాని యేన సర్వమ్ ఇదṁ తతమ్॥౨౨॥
Link copiedమత్తః పరతరṁ నాన్యత్ కిఞ్చిదస్తి ధనజయ।
Link copiedమయి సర్వమ్ ఇదṁ ప్రోతṁ సూత్రే మణిగణా ఇవ॥ [౭।౭]
Link copied
మామ్ ఏభ్యః పరమ్ అవ్యయమ్ [౭।౧౩] ఇత్య్ ఆదినా నిర్దిష్టస్య యస్యాన్తః-స్థాని సర్వాణి భూతాని, యేన చ పరేణ పురుషేణ సర్వమ్ ఇదṁ తతṁ స పర-పురుషో అనన్య-చేతాః సతతమ్ [౮।౧౪] ఇత్య్ అనన్యయా భక్త్యా లభ్యః।
Link copiedయత్ర కాలే త్వ్ అనావృత్తిమ్ ఆవృత్తిṁ చైవ యోగినః।
Link copiedప్రయాతా యాన్తి తṁ కాలṁ వక్ష్యామి భరతర్షభ॥౨౩॥
Link copiedఅగ్నిర్ జ్యోతిర్ అహః శుక్లః షణ్-మాసా ఉత్తరాయణమ్।
Link copiedతత్ర ప్రయాతా గచ్ఛన్తి బ్రహ్మ బ్రహ్మ-విదో జనాః॥౨౪॥
Link copiedఅథాత్మ-యాథాత్మ్య-విదః పరమ-పురుష-నిష్ఠస్య చ సాధారణీమ్ అర్చిర్-ఆదికాṁ గతిమ్ ఆహ ద్వయోర్ అప్య్ అర్చిర్-ఆదికా గతిః శ్రుతౌ శ్రుతా, సా చాపునర్-ఆవృత్తి-లక్షణా। తథా పఞ్చాగ్ని-విద్యాయాṁ తద్ య ఇత్థṁ విదుర్ యే చేమేఽరణ్యే శ్రద్ధా తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్త్య్ అర్చిషోఽహః [ఛా।ఉ। ౫।౧౦।౧] ఇత్య్ ఆదవ్ అర్చిర్-ఆదికయా గత్య్-ఆగతస్య పర-బ్రహ్మ-ప్రాప్తిర్ అపునర్-ఆవృత్తిశ్ చోక్తా స ఏనాన్ బ్రహ్మ గమయతి \॥। ఏతేన ప్రతిపద్యమానా ఇమṁ మానవమ్ ఆవర్తṁ నావర్తన్తే [ఛా।ఉ। ౪।౧౫।౫] ఇతి।
Link copiedన చ ప్రజాపతి-వాక్యాదౌ శ్రుతి-పర-విద్యాఙ్గ-భూతాత్మ-ప్రాప్తి-విషయేయమ్--- తద్ య ఇత్థṁ విదుః ఇతి గతి-శ్రుతిర్, యే చేమేఽరణ్యే శ్రద్ధాṁ తప ఇత్యుపాసతే [ఛా।ఉ। ౫।౧౦।౧] ఇతి పర-విద్యాయాః పృథక్-శ్రుతి-వైయర్థ్యాత్।
Link copiedపఞ్చాగ్ని-విద్యాయాṁ చ ఇతి తు పఞ్చమ్యామ్ ఆహుతావ్ ఆపః పురుష-వచసో భవన్తి [ఛా।ఉ। ౫।౯।౧] ఇతి రమణీయ-చరణాః కపూయ-చరణాః [ఛా।ఉ। ౫।౧౦।౭] ఇతి పుణ్య-పాప-హేతుకో మనుష్యాది-భావో అపామ్ ఏవ భూతాన్తర-సṁసృష్టనామ్ ఆత్మనస్ తు యత్-పరిష్వఙ్గ-మాత్రమ్ ఇతి చిద్-అచితోర్ వివేకమ్ అభిధాయ తద్ య ఇత్థṁ విదుః \॥। తేఽర్చిషమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౧], ఇమṁ మానవమ్ ఆవర్తṁ నావర్తన్తే [ఛా।ఉ। ౪।౧౫।౫] ఇతి వివిక్తే చిద్-అచిద్-వస్తుని త్యాజ్యతయా ప్రాప్యతయా చ తద్ య ఇత్థṁ విదుస్ తేఽర్చిరాదినా గచ్ఛన్తి న చ పునర్ ఆవర్తన్తే ఇత్య్ ఉక్తమ్ ఇతి గమ్యతే।
Link copiedఆత్మ-యాథాత్మ్య-విదః పరమ-పురుష-నిష్ఠస్య చ స ఏనాన్ బ్రహ్మ గమయతి [ఛా।ఉ। ౪।౧౫।౫] ఇతి బ్రహ్మ-ప్రాప్తి-వచనాద్ అచిద్-వియుక్తమ్ ఆత్మ-వస్తు బ్రహ్మాత్మకతయా బ్రహ్మ-శేషతైక-రసమ్ ఇత్య్ అనుసన్ధేయమ్। తత్-క్రతు-న్యాయాచ్ చ పర-శేషతైక-రసత్వṁ చ య ఆత్మని తిష్ఠన్ యస్యాత్మా శరీరమ్ [శబ్రా ౧౪।౬।౫।౫।౩౦] ఇత్య్-ఆది-శ్రుతి-సిద్ధమ్।
Link copiedఅత్ర కాల-శబ్దో మార్గస్యాహః-ప్రభృతి-సṁవత్సరాన్త-కాలాభిమాని-దేవతా-భూయస్తయా మార్గోపలక్షణార్థః। యస్మిన్ మార్గే ప్రయాతా యోగినోఽనావృత్తిమ్। పుణ్య-కర్మాణశ్ చావృత్తిṁ యాన్తి, తṁ మార్గṁ వక్ష్యామీత్య్ అర్థః। అగ్నిర్ జ్యోతిర్ అహః శుక్లః షణ్-మాసా ఉత్తరాయణమ్, ఇతి సṁవత్సరాదీనాṁ ప్రదర్శనమ్॥౮।౨౩-౨౪॥
Link copiedధూమో రాత్రిస్ తథా కృష్ణః షణ్మాసా దక్షిణాయనమ్।
Link copiedతత్ర చాన్ద్రమసṁ జ్యోతిర్ యోగీ ప్రాప్య నివర్తతే॥౨౫॥
Link copiedఏతచ్ చ ధూమాది-మార్గ-స్థ-పితృ-లోకాదేః ప్రదర్శనమ్। అత్ర యోగి-శబ్ద పుణ్య-కర్మ-సమ్బన్ధి-విషయః॥౮।౨౫॥
Link copiedశుక్ల-కృష్ణే గతీ హ్య్ ఏతే జగతః శాశ్వతే మతే।
Link copiedఏకయా యాత్య్ అనావృత్తిమ్ అన్యయావర్తతే పునః॥౨౬॥
Link copiedశుక్లా గతిర్ అర్చిర్-ఆదికా। కృష్ణా చ ధూమాదికా। శుక్లయానావృత్తిṁ యాన్తి, కృష్ణయా తు పునర్ ఆవర్తన్తే। ఏతే శుక్ల-కృష్ణే గతీ జ్ఞానినాṁ వివిధానాṁ పుణ్య-కర్మణాṁ చ శ్రుతౌ శాశ్వతే మతే। తద్ య ఇత్థṁ విదుర్ యే చేమేఽరణ్యే శ్రద్ధాṁ తప ఇత్య్ ఉపాసతే తేఽర్చిషమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౧], అథ య ఇమే గ్రామే ఇష్ట-పూర్తే దత్తమ్ ఇత్య్ ఉపాసతే తే ధూమమ్ అభిసమ్భవన్తి [ఛా।ఉ। ౫।౧౦।౩] ఇతి॥౮।౨౬॥
Link copiedనైతే సృతీ పార్థ జానన్ యోగీ ముహ్యతి కశ్చన।
Link copiedతస్మాత్ సర్వేషు కాలేషు యోగ-యుక్తో భవార్జున॥౨౭॥
Link copiedఏతౌ మార్గౌ జానన్ యోగీ ప్రయాణ-కాలే కశ్చన న ముహ్యతి। అపి తు స్వేనైవ దేవ-యానేన పథా యాతి। తస్మాద్ అహరహర్ అర్చిర్-ఆది-గతి-చిన్తనాఖ్య-యోగ-యుక్తో భవ॥౮।౨౭॥
Link copiedఅథాధ్యాయ-ద్వయోదిత-శాస్త్రార్థ-వేదన-ఫలమ్ ఆహ---
Link copiedవేదేషు యజ్ఞేషు తపఃసు చైవ
Link copiedదానేషు యత్ పుణ్య-ఫలṁ ప్రదిష్టమ్।
Link copiedఅత్యేతి తత్ సర్వమ్ ఇదṁ విదిత్వా
Link copiedయోగీ పరṁ స్థానమ్ ఉపైతి చాద్యమ్॥౨౮॥
Link copiedఋగ్-యజుః-సామాథర్వ-రూప-వేదాభ్యాస-యజ్ఞ-తపో-దాన-ప్రభృతిషు సర్వేషు పుణ్యేషు యత్ ఫలṁ నిర్దిష్టమ్ ఇదమ్ అధ్యాయ-ద్వయోదితṁ భగవన్-మాహాత్మ్యṁ విదిత్వా తత్ సర్వమ్ అత్యేతి ఏతద్-వేదన-సుఖాతిరేకేణ తత్ సర్వṁ తృణవత్ మన్యతే। యోగీ జ్ఞానీ చ భూత్వా జ్ఞానినః ప్రాప్యṁ పరమ్ ఆద్యṁ స్థానమ్ ఉపైతి॥౮।౨౮॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యేఽష్టమోఽధ్యాయః ॥౮॥
Link copied**
Link copiedsaptame parasya brahmaṇo vāsudevasyopāsyatvaṁ, nikhila-cetanācetana-vastu-śeṣitvaṁ, kāraṇatvaṁ, ādhāratvaṁ, sarva-śarīratayā sarva-prakāratvena sarva-śabda-vācyatvaṁ, sarva-niyantṛtvaṁ, sarvaiś ca kalyāṇa-guṇa-gaṇair ekāśrayatvaṁ tasyaiva parataratvaṁ ca, sattva-rajas-tamo-mayair dehendriyatvena bhogyatvena cāvasthitair bhāvair anādi-kāla-pravṛtta-duṣkṛta-pravāha-hetukais tasya tirodhānam| atyutkṛṣṭa-sukṛta-hetuka-bhagavat-prapattyā ca tan-nivartanaṁ, sukṛta-tāratamyena ca pratipatti-vaiṣeṣyād aiśvaryākṣara-yāthātmya-bhagavat-prāpty-apekṣayopāsaka-bhedaṁ, bhagavantaṁ prepsor nitya-yuktatayika-bhaktitayā cātyartha-parama-puruṣa-priyatvena śraiṣṭhyaṁ, durlabhatvaṁ ca pratipādya eṣāṁ trayāṇāṁ jñātavyopādeya-bhedāṁś ca prāstauṣīt| idānīm aṣṭame prastutān jñātavyopādeya-bhedān vivinakti---
Link copiedkiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣottama|
Link copiedadhibhūtaṁ ca kiṁ proktam adhidaivaṁ kim ucyate||1||
Link copiedadhiyajñaḥ kathaṁ ko'tra dehe'smin madhusūdana|
Link copiedprayāṇa-kāle ca kathaṁ jñeyo'si niyatātmabhiḥ||2||
Link copiedjarā-maraṇa-mokṣāya bhagavantam āśritya yatamānānāṁ jñātavyatayoktaṁ tad brahmādhyātmaṁ ca karma ca kim iti vaktavyam| aiśvaryārthināṁ jñātavyam adhibhūtam adhidaivaṁ ca kiṁ| trayāṇāṁ jñātavyo'dhiyajña-śabda-nirdiṣṭaś ca kaḥ| tasya cādhiyajña-bhāvaḥ kathaṁ| prayāṇa-kāle caibhis tribhiḥ niyatātmabhiḥ kathaṁ jñeyo'si|||8.1--- 8.2||
Link copiedśrī-bhagavān uvāca
Link copiedakṣaraṁ brahma paramaṁ svabhāvo'dhyātmam ucyate|
Link copiedbhūtabhāvodbhava-karo visargaḥ karma-saṁjñitaḥ||3||
Link copiedtad brahma iti nirdiṣṭaṁ paramam akṣaraṁ na kṣaratīty akṣaraṁ kṣetrajñaṁ samaṣṭi-rūpam| tathā ca śrutir avyaktam akṣare līyate'kṣaraṁ tamasi līyate [su.u. 2] ity ādikā| paramam akṣaraṁ prakṛti-vinirmuktātma-svarūpam| svabhāvo'dhyātmam ucyate svabhāvaḥ prakṛtir anātma-bhūtam ātmani sambaddhyamānaṁ bhūta-sūkṣma-tad-vāsanādikaṁ pañcāgni-vidyāyāṁ jñātavyatayā uditam| tad-ubhayaṁ prāpyatayā tyājyatayā ca mumukṣubhir jñātavyam|
Link copiedbhūta-bhāvo manuṣyādi-bhāvaḥ, tad-udbhava-karo yo visargaḥ pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti [chā.u. 5.3.3] iti śruti-siddho yoṣit-sambandha-jaḥ, sa karma-saṁjñitaḥ| tac cākhilaṁ sānubandham udvejanīyatayā pariharaṇīyatayā ca mumukṣubhir jñātavyam| pariharaṇīyatā cānantaram eva vakṣyate--- yad icchanto brahmacaryaṁ caranti [8.11] iti||8.3||
Link copiedadhibhūtaṁ kṣaro bhāvaḥ puruṣaś cādhidaivatam|
Link copiedadhiyajño'ham evātra dehe deha-bhṛtāṁ vara||4||
Link copiedaiśvaryārthināṁ jñātavyatayā nirdiṣṭam adhibhūtaṁ kṣaro bhāvo viyad-ādi-bhūteṣu vartamānas tat-pariṇāma-viśeṣaḥ kṣaraṇa-svabhāvo vilakṣaṇaḥ śabda-sparśādiḥ sāśrayaḥ, vilakṣaṇāḥ sāśrayāḥ śabda-sparśa-rūpa-rasa-gandhā aiśvaryārthibhiḥ prāpyāḥ| tair anusandheyāḥ|
Link copiedpuruṣaś cādhidaivatam adhidaivata-śabda-nirdiṣṭaḥ puruṣaḥ| adhidaivataṁ daivatopari vartamānam indra-prajāpati-prabhṛti-kṛtsna-daivatopari vartamānaḥ| indra-prajāpati-prabhṛtīnāṁ bhogya-jātād vilakṣaṇa-śabdāder bhoktā puruṣaḥ| sā ca bhoktṛtvāvasthā aiśvaryārthibhiḥ prāpyatayā anusandheyā|
Link copiedadhiyajño'ham evādhiyajña-śabda-nirdiṣṭo'ham eva| adhiyajño yajñair ārādhyatayā vartamānaḥ| atrendrādau mama deha-bhūte ātmatayāvasthito'ham eva yajñair ārādhya iti mahā-yajñādi-nitya-naimittakānuṣṭhāna-velāyāṁ trayāṇām adhikāriṇām anusandheyam etat||8.4||
Link copiedidam api trayāṇāṁ sādhāraṇam---
Link copiedanta-kāle ca mām eva smaran muktvā kalevaram|
Link copiedyaḥ prayāti sa mad-bhāvaṁ yāti nāsty atra saṁśayaḥ||5||
Link copiedanta-kāle ca mām eva smaran kalevaraṁ tyaktvā yaḥ prayāti, sa mad-bhāvaṁ yāti| mama yo bhāvaḥ svabhāvas taṁ yāti| tadānīṁ yathā mām anusandhatte tathā-vidhākāro bhavatīty arthaḥ| yathā ādi-bharatādayas tadānīṁ smaryamāṇa-mṛga-sajātīyākārāḥ sambhūtāḥ||8.5||
Link copiedsmartuḥ sva-viṣaya-sajātīya-kāratāpādanam antya-pratyayasya svabhāva iti suspaṣṭam āha---
Link copiedyaṁ yaṁ vāpi smaran bhāvaṁ tyajaty ante kalevaram|
Link copiedtaṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ||6||
Link copiedante'nta-kāle yaṁ yaṁ vāpi bhāvaṁ smaran kalevaraṁ tyajati taṁ taṁ bhāvam eva maraṇāntaram eti| antya-pratyayaś ca pūrva-bhāvita-viṣaya eva jāyate||8.6||
Link copiedyasmāt pūrva-kālābhyasta-viṣaye evāntya-pratyayo jāyate---
Link copiedtasmāt sarveṣu kāleṣu mām anusmara yudhya ca|
Link copiedmayy arpita-mano-buddhir mām evaiṣyasy asaṁśayaḥ||7||
Link copiedtasmāt sarveṣu kāleṣv āprayāṇād ahar-ahaḥ mām anusmarāhar-ahar anusmṛti-karaṁ yuddhādikaṁ varṇāśramānubandhi-śruti-smṛti-codita-nitya-naimittikaṁ ca karma kuru| etad-upāyena mayy arpita-mano-buddhir anta-kāle ca mām eva smaran yathābhilaṣita-prakāraṁ māṁ prāpsyasi nātra saṁśayaḥ||8.7||
Link copiedevaṁ sāmānyena sarvatra sva-prāpyāvāptir antya-pratyayādhīnā ity uktvā tad-arthaṁ trayāṇām upāsana-prakāra-bhedaṁ vaktum upakramate| tatraiśvaryārthinām upāsana-prakāraṁ yathopāsanam antya-pratyaya-prakāraṁ cāha---
Link copiedabhyāsa-yoga-yuktena cetasā nānya-gāminā|
Link copiedparamaṁ puruṣaṁ divyaṁ yāti pārthānucintayan||8||
Link copiedaharahar abhyāsa-yogābhyāṁ yuktatayā nānya-gāminā cetasā anta-kāle paramaṁ puruṣaṁ divyaṁ māṁ vakṣyamāṇa-prakāraṁ cintayan mām eva yāty ādi-bharata-mṛgatva-prāptivad aiśvarya-viśiṣṭatayā mat-samānākāro bhavati| abhyāso nitya-naimittikāviruddheṣu sarveṣu kāleṣu manasā upāsya-saṁśīlanam, yogas tv aharahar yoga-kāle'nuṣṭhīyamānaṁ yathokta-lakṣaṇam upāsanam||8.8||
Link copiedkaviṁ purāṇam anuśāsitāram
Link copiedaṇor aṇīyāṁsam anusmared yaḥ|
Link copiedsarvasya dhātāram acintya-rūpam
Link copiedāditya-varṇaṁ tamasaḥ parastāt||9||
Link copiedprayāṇa-kāle manasācalena
Link copiedbhaktyā yukto yoga-balena caiva|
Link copiedbhruvor madhye prāṇam āveśya samyak
Link copiedsa taṁ paraṁ puruṣam upaiti divyam||10||
Link copiedkaviṁ sarvajñaṁ purāṇaṁ purātanam anuśāsitāraṁ viśvasya praśāsitāram aṇor aṇīyāṁsaṁ jīvād api sūkṣmataraṁ sarvasya dhātāraṁ sarvasya sraṣṭaram acintya-rūpaṁ sakaletara-visajātīya-svarūpam āditya-varṇaṁ tamasaḥ parastāt aprākṛta-svāsādhāraṇa-divya-rūpam| tam evaṁ-bhūtam aharahar abhyasyamāna-bhakti-yukta-yoga-balena ārūḍha-saṁskāratayā acalena manasā prayāṇa-kāle bhruvor madhye prāṇam āveśya saṁsthāpya tatra bhruvor madhye divyaṁ puruṣaṁ yo'nusmaret sa tam eva upaiti tad-bhāvaṁ yāti, tat-samānaiśvaryo bhavatīty arthaḥ||8.9-10||
Link copiedatha kaivalyārthināṁ smaraṇa-prakāram āha---
Link copiedyad akṣaraṁ veda-vido vadanti
Link copiedviśanti yad yatayo vīta-rāgāḥ|
Link copiedyad icchanto brahmacaryaṁ caranti
Link copiedtat te padaṁ saṅgraheṇa pravakṣye||11||
Link copiedyad akṣaram asthūlatvādi-guṇakaṁ veda-vido vadanti vīta-rāgāś ca yatayo yad akṣaraṁ viśanti yad akṣaraṁ prāptum icchanto brahmacaryaṁ caranti tat te padaṁ saṅgraheṇa pravakṣye| padyate gamyate'nena iti padaṁ tan nikhila-vedānta-vedyaṁ mat-svarūpam akṣaraṁ yathā upāsyaṁ tathā saṅkṣepeṇa pravakṣyāmīty arthaḥ||8.11||
Link copiedsarva-dvārāṇi saṁyamya mano hṛdi nirudhya ca|
Link copiedmūrdhny ādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām||12||
Link copiedsarvāṇi śrotrādīnīndriyāṇi jñāna-dvāra-bhūtāni saṁyamya sva-vyāpārebhyo vinivartya hṛdaya-kamala-niviṣṭe mayy akṣare mano nirudhya yogākhyāṁ dhāraṇāṁ āsthito mayy eva niścalāṁ sthitim āsthitaḥ||8.12||
Link copiedom ity ekākṣaraṁ brahma vyāharan mām anusmaran|
Link copiedyaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim||13||
Link copiedom ity ekākṣaraṁ brahma mad-vācakaṁ vyāharan vācyaṁ mām anusmaran ātmanaḥ prāṇaṁ mūrdhny ādhāya dehaṁ tyajan yaḥ prayāti sa yāti paramāṁ gatiṁ prakṛti-viyuktaṁ mat-samānākāram apunar-āvṛttim ātmānaṁ prāpnotīty arthaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati|| avyakto'kṣara ity uktas tam āhuḥ paramāṁ gatim| [8.20,21] ity anantaram eva vakṣyate||8.12-13||
Link copiedevam aiśvaryārthinaḥ kaivalyārthinaś ca sva-prāpyānuguṇo bhagavad-upāsana-prakāra uktaḥ| atha jñānino bhagavad-upāsana-prakāraṁ prāpti-kāraṁ cāha---
Link copiedananya-cetāḥ satataṁ yo māṁ smarati nityaśaḥ|
Link copiedtasyāhaṁ sulabhaḥ pārtha nitya-yuktasya yoginaḥ||14||
Link copiednityaśo mām udyoga-prabhṛti satataṁ sarva-kālam ananya-cetā yaḥ smaraty atyarthaṁ mat-priyatvena mat-smṛtyā vinā ātma-dhāraṇam alabhamāno niratiśaya-priyaṁ māṁ yaḥ smarati tasya nitya-yuktasya nitya-yogaṁ kāṅkṣamāṇasya yogino'haṁ sulabho'ham eva prāpyaḥ| na mad-bhāva aiśvaryādikaḥ suprāpaś ca| tad-viyogam asahamāno'ham eva taṁ vṛṇe| mat-prāpty-anuguṇopāsana-vipākaṁ tad-virodhi-nirasanam atyarthaṁ mat-priyatvādikaṁ cāham eva dadāmīty arthaḥ| yam evaiṣa vṛṇute tena labhyaḥ [mu.u. 3.2.3] iti hi śrūyate| vakṣyate ca---
Link copiedteṣāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam|
Link copieddadāmi buddhi-yogaṁ taṁ yena mām upayānti te||
Link copiedteṣām evānukampārtham aham ajñāna-jaṁ tamaḥ|
Link copied
nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā|| [10.10-11] iti||8.14||
Link copiedataḥ param adhyāya-śeṣeṇa jñāninaḥ kaivalyārthinaś cāpunar-āvṛttim aiśvaryārthinaḥ punar-āvṛttiṁ cāha---
Link copiedmām upetya punar-janma duḥkhālayam aśāśvatam|
Link copiednāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ||15||
Link copiedmāṁ prāpya punar nikhila-duḥkhālayam asthiraṁ janma na prāpnuvanti yata ete mahātmāno mahā-manaso yathāvasthita-mat-svarūpa-jñānā atyartha-mat-priyatvena mayā vinā ātma-dhāraṇam alabhamānā mayy āsakta-manaso mad-āśrayā mām upāsya parama-saṁsiddhi-rūpaṁ māṁ prāptāḥ||8.15||
Link copiedaiśvarya-gatiṁ prāptānāṁ bhagavantaṁ prāptānāṁ ca punar-āvṛttav apunar-āvṛttau ca hetum anantaram āha---
Link copiedā brahma-bhuvanāl lokāḥ punar-āvartino'rjuna|
Link copiedmām upetya tu kaunteya punar-janma na vidyate||16||
Link copiedbrahma-loka-paryantā brahmāṇḍodara-vartinaḥ sarve lokā bhogaiśvaryālayāḥ punar-āvartino vināśinaḥ| ata aiśvarya-gatiṁ prāptānāṁ prāpya-sthāna-vināśād vināśitvam avarjanīyam| māṁ sarva-jñaṁ satya-saṅkalpaṁ nikhila-jagad-utpatti-sthiti-laya-līlaṁ parama-kāruṇikaṁ sadaika-rūpaṁ prāptānāṁ vināśa-prasaṅgābhāvāt teṣāṁ punar-janma na vidyate||8.16||
Link copiedbrahma-loka-paryantānāṁ lokānāṁ tad-antar-vartināṁ ca parama-puruṣa-saṅkalpa-kṛtām utpatti-vināśa-kāla-vyavasthām āha---
Link copiedsahasra-yuga-paryantam ahar yad brahmaṇo viduḥ|
Link copiedrātriṁ yuga-sahasrāntāṁ te'ho-rātra-vido janāḥ||17||
Link copiedye manuṣyādi-catur-makhāntānāṁ mat-saṅkalpa-kṛtāho-rātra-vyavasthā-vido janāḥ, te brahmaṇaś catur-mukhasya yad ahaś catur-yuga-sahasrāvasānaṁ viduḥ, rātriṁ ca tathā-rūpām||8.17||
Link copiedavyaktād vyaktayaḥ sarvāḥ prabhavanty ahar-āgame|
Link copiedrātry-āgame pralīyante tatraivāvyakta-saṁjñake||18||
Link copiedtatra brahmaṇaḥ, ahar-āgama-samaye trailokyāntar-vartinyo dehendriya-bhogya-bhoga-sthāna-rūpā vyaktaś catur-mukha-dehāvasthād avyaktāt prabhavanti| tatraivāvyaktāvasthā-viśeṣe catur-mukha-dehe rātry-āgama-samaye pralīyante||8.18||
Link copiedbhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate|
Link copiedrātry-āgame'vaśaḥ pārtha prabhavaty ahar-āgame||19||
Link copiedsa evāyaṁ karma-vaśyo bhūta-grāmo'har-āgame bhūtvā bhūtvā rātry-āgame pralīyate punar apy ahar-āgame prabhavati| tathā varṣā-śatāvasāna-rūpa-yuga-sahasrānte brahma-loka-paryantā lokā brahmā ca, pṛthivī apsu pralīyate āpas tejasi līyante ity-ādi-krameṇāvyaktākṣara-tamaḥ-paryantaṁ mayy eva pralīyante|
Link copiedevaṁ mad-vyatiriktasya kṛtsnasya kāla-vyavasthayā matta utpatter mayi pralayāc ca utpatti-vināśa-yogitvam avarjanīyam ity aiśvarya-gatiṁ prāptānāṁ punar-āvṛttir aparihāryā| mām upetānāṁ tu na punar-āvṛtti-prasaṅgaḥ||8.19||
Link copiedatha kaivalya-prāptānām api punar-āvṛttir na vidyata ity āha---
Link copiedparas tasmāt tu bhāvo'nyo'vyakto'vyaktāt sanātanaḥ|
Link copiedyaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati||20||
Link copiedavyakto'kṣara ity uktas tam āhuḥ paramāṁ gatim|
Link copiedyaṁ prāpya na nivartante tad dhāma paramaṁ mama||21||
Link copiedtasmād avyaktād acetana-prakṛti-rūpāt puruṣārthatayā para utkṛṣṭo bhāvo'nyo jñānaikākāratayā tasmād visajātīyo'vyaktaḥ kenacit pramāṇena na vyajyata ity avyaktaḥ sva-saṁvedya-sādhāraṇākāra ity arthaḥ| sanātana utpatti-vināśānarhatayā nityaḥ| yaḥ sarveṣu viyad-ādiṣu bhūteṣu sa-kāraṇeṣu sa-kāryeṣu vinaśyatsu tatra tatra sthito'pi na vinaśyati so'vyakto'kṣara ity uktaḥ| ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate [gītā 12.3], kūṭastho'kṣara ucyate [gītā 15.16] ity-ādiṣu taṁ veda-vidaḥ paramāṁ gatim āhuḥ| ayam eva yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim [gītā 8.5] ity atra parama-gati-śabda-nirdiṣṭo'kṣaraḥ prakṛti-saṁsarga-viyukta-svarūpeṇāvasthita ātmā ity arthaḥ|
Link copied[[Not in all editions]: yam evaṁ-bhūtaṁ svarūpeṇāvasthitaṁ prāpya na nivartante tan mama paramaṁ dhāma paramaṁ niyamana-sthānam| acetana-prakṛtir ekaṁ niyamana-sthānam, tat-saṁsṛṣṭa-rūpā jīva-prakṛtir dvitīyaṁ niyamana-sthānam acit-saṁsarga-viyuktaṁ svarūpeṇāvasthitaṁ mukta-svarūpaṁ paramaṁ niyamana-sthānam ity arthaḥ|]
Link copiedtac cāpunar-āvṛtti-rūpam| athavā prakāśa-vācī dhāma-śabdaḥ, prakāśaś ceha jñānam abhipretaṁ prakṛti-saṁsṛṣṭat paricchinna-jñāna-rūpād ātmano'paricchinna-jñāna-rūpatayā mukta-svarūpaṁ paraṁ dhāma||8.20-21]
Link copiedjñāninaḥ prāpyaṁ tu tasmād atyanta-vibhaktam ity āha---
Link copiedpuruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā|
Link copiedyasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam||22||
Link copiedmattaḥ parataraṁ nānyat kiñcidasti dhanajaya|
Link copiedmayi sarvam idaṁ protaṁ sūtre maṇigaṇā iva|| [7.7]
Link copied
mām ebhyaḥ param avyayam [7.13] ity ādinā nirdiṣṭasya yasyāntaḥ-sthāni sarvāṇi bhūtāni, yena ca pareṇa puruṣeṇa sarvam idaṁ tataṁ sa para-puruṣo ananya-cetāḥ satatam [8.14] ity ananyayā bhaktyā labhyaḥ|
Link copiedyatra kāle tv anāvṛttim āvṛttiṁ caiva yoginaḥ|
Link copiedprayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha||23||
Link copiedagnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam|
Link copiedtatra prayātā gacchanti brahma brahma-vido janāḥ||24||
Link copiedathātma-yāthātmya-vidaḥ parama-puruṣa-niṣṭhasya ca sādhāraṇīm arcir-ādikāṁ gatim āha dvayor apy arcir-ādikā gatiḥ śrutau śrutā, sā cāpunar-āvṛtti-lakṣaṇā| tathā pañcāgni-vidyāyāṁ tad ya itthaṁ vidur ye ceme'raṇye śraddhā tapa ity upāsate te'rciṣam abhisambhavanty arciṣo'haḥ [chā.u. 5.10.1] ity ādav arcir-ādikayā gaty-āgatasya para-brahma-prāptir apunar-āvṛttiś coktā sa enān brahma gamayati ... etena pratipadyamānā imaṁ mānavam āvartaṁ nāvartante [chā.u. 4.15.5] iti|
Link copiedna ca prajāpati-vākyādau śruti-para-vidyāṅga-bhūtātma-prāpti-viṣayeyam--- tad ya itthaṁ viduḥ iti gati-śrutir, ye ceme'raṇye śraddhāṁ tapa ityupāsate [chā.u. 5.10.1] iti para-vidyāyāḥ pṛthak-śruti-vaiyarthyāt|
Link copiedpañcāgni-vidyāyāṁ ca iti tu pañcamyām āhutāv āpaḥ puruṣa-vacaso bhavanti [chā.u. 5.9.1] iti ramaṇīya-caraṇāḥ kapūya-caraṇāḥ [chā.u. 5.10.7] iti puṇya-pāpa-hetuko manuṣyādi-bhāvo apām eva bhūtāntara-saṁsṛṣṭanām ātmanas tu yat-pariṣvaṅga-mātram iti cid-acitor vivekam abhidhāya tad ya itthaṁ viduḥ ... te'rciṣam abhisambhavanti [chā.u. 5.10.1], imaṁ mānavam āvartaṁ nāvartante [chā.u. 4.15.5] iti vivikte cid-acid-vastuni tyājyatayā prāpyatayā ca tad ya itthaṁ vidus te'rcirādinā gacchanti na ca punar āvartante ity uktam iti gamyate|
Link copiedātma-yāthātmya-vidaḥ parama-puruṣa-niṣṭhasya ca sa enān brahma gamayati [chā.u. 4.15.5] iti brahma-prāpti-vacanād acid-viyuktam ātma-vastu brahmātmakatayā brahma-śeṣataika-rasam ity anusandheyam| tat-kratu-nyāyāc ca para-śeṣataika-rasatvaṁ ca ya ātmani tiṣṭhan yasyātmā śarīram [ŚaBrā 14.6.5.5.30] ity-ādi-śruti-siddham|
Link copiedatra kāla-śabdo mārgasyāhaḥ-prabhṛti-saṁvatsarānta-kālābhimāni-devatā-bhūyastayā mārgopalakṣaṇārthaḥ| yasmin mārge prayātā yogino'nāvṛttim| puṇya-karmāṇaś cāvṛttiṁ yānti, taṁ mārgaṁ vakṣyāmīty arthaḥ| agnir jyotir ahaḥ śuklaḥ ṣaṇ-māsā uttarāyaṇam, iti saṁvatsarādīnāṁ pradarśanam||8.23-24||
Link copieddhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam|
Link copiedtatra cāndramasaṁ jyotir yogī prāpya nivartate||25||
Link copiedetac ca dhūmādi-mārga-stha-pitṛ-lokādeḥ pradarśanam| atra yogi-śabda puṇya-karma-sambandhi-viṣayaḥ||8.25||
Link copiedśukla-kṛṣṇe gatī hy ete jagataḥ śāśvate mate|
Link copiedekayā yāty anāvṛttim anyayāvartate punaḥ||26||
Link copiedśuklā gatir arcir-ādikā| kṛṣṇā ca dhūmādikā| śuklayānāvṛttiṁ yānti, kṛṣṇayā tu punar āvartante| ete śukla-kṛṣṇe gatī jñānināṁ vividhānāṁ puṇya-karmaṇāṁ ca śrutau śāśvate mate| tad ya itthaṁ vidur ye ceme'raṇye śraddhāṁ tapa ity upāsate te'rciṣam abhisambhavanti [chā.u. 5.10.1], atha ya ime grāme iṣṭa-pūrte dattam ity upāsate te dhūmam abhisambhavanti [chā.u. 5.10.3] iti||8.26||
Link copiednaite sṛtī pārtha jānan yogī muhyati kaścana|
Link copiedtasmāt sarveṣu kāleṣu yoga-yukto bhavārjuna||27||
Link copiedetau mārgau jānan yogī prayāṇa-kāle kaścana na muhyati| api tu svenaiva deva-yānena pathā yāti| tasmād aharahar arcir-ādi-gati-cintanākhya-yoga-yukto bhava||8.27||
Link copiedathādhyāya-dvayodita-śāstrārtha-vedana-phalam āha---
Link copiedvedeṣu yajñeṣu tapaḥsu caiva
Link copieddāneṣu yat puṇya-phalaṁ pradiṣṭam|
Link copiedatyeti tat sarvam idaṁ viditvā
Link copiedyogī paraṁ sthānam upaiti cādyam||28||
Link copiedṛg-yajuḥ-sāmātharva-rūpa-vedābhyāsa-yajña-tapo-dāna-prabhṛtiṣu sarveṣu puṇyeṣu yat phalaṁ nirdiṣṭam idam adhyāya-dvayoditaṁ bhagavan-māhātmyaṁ viditvā tat sarvam atyeti etad-vedana-sukhātirekeṇa tat sarvaṁ tṛṇavat manyate| yogī jñānī ca bhūtvā jñāninaḥ prāpyaṁ param ādyaṁ sthānam upaiti||8.28||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye'ṣṭamo'dhyāyaḥ ||8||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 8 — The Way to the Imperishable Parabrahma (in Sanskrit: Akṣara-Parabrahma-Yoga)
Lecture VII established the nature of Parabrahma, Vāsudeva, as the Spiritual Sovereign (śeṣī) of all entities, the Cause, the Support, the Governor, and the supremely exalted Being. It showed how matter's veil is removed by taking faithful refuge in Him, and it described three classes of devotees: the wealth-seeker (aiśvaryārthī), the soul-seeker (jijñāsu), and the God-seeker (jñānī). This chapter now explains what each of these three must know, how each must meditate at the hour of death, and the two cosmic paths — bright and dark — that souls travel after leaving the body.
Link copiedVerses 1–4 (Arjuna's questions; the Lord defines the terms)
Verse 8.1. — "O Puruṣottama, what is Tad-Brahma? What is Adhyātma? What is Karma? What is Adhibhūta and what is Adhidaiva?"
Link copiedVerse 8.2. — "Who is Adhiyajña in this body, Madhusūdana, and how? And how are You known by the self-controlled at the time of departure?"
Link copiedArjuna asks what each of the three classes of aspirants must know to reach its ideal, and how, at the moment of death, the Lord is to be remembered.
Link copiedVerse 8.3. — "The supreme imperishable (akṣara) is Brahma; nature (svabhāva) is called Adhyātma; the act of emission by which beings are brought forth is called Karma."
Link copiedTad-Brahma here is the superior, indestructible soul-nature, paramam akṣaram — the soul realized in its essence, disengaged from prakṛti. Adhyātma is nature — the subtle elemental stuff with its deceptive tendencies that clings to the soul. Karma is the emissive act which results in bodies — the generative act. The soul-seeker must know akṣara as what is to be sought, adhyātma as what is to be rejected, and karma as what produces the bondage he dreads.
Link copiedVerse 8.4. — "Adhibhūta is the perishable nature; Adhidaiva is the Spirit (puruṣa) who enjoys; Adhiyajña in this body is Myself, O Best of beings."
Link copiedAdhibhūta is the subtle, perishable principles of sound, touch, color, taste, and smell, with their organs — that which the wealth-seeker contemplates for the refined enjoyments he desires. Adhidaiva is the Spirit that stands above the devas like Indra and Prajāpati, enjoying delights far surpassing theirs. Adhiyajña is the Lord Himself, present in all the gods as their Indwelling Self, the true Receiver of every sacrifice — whom all three classes of devotees worship in all their acts of devotion.
Link copiedVerses 5–7 (The last thought determines the next state)
Verse 8.5. — "Whoever, at the hour of death, meditating on Me alone, casts off his body, reaches My state. No doubt of this."
Link copiedWhatever image is vivid in the imagination at the moment of death, that the soul becomes — as in the case of the great king Bharata, who by thinking of a deer at his death, was born as a deer, yet with the memory of his former life.
Link copiedVerse 8.6. — "With whatever thought, O Kaunteya, one leaves the body at the hour of death, that he becomes — the result of his constant brooding upon it."
Link copiedThe last thought is naturally of that which one has habitually dwelt on through life.
Link copiedVerse 8.7. — "Therefore at all times remember Me, and fight. With mind and intellect given to Me, you shall doubtless come to Me alone."
Link copiedBecause the last flash of consciousness will be what one has made habitual, Arjuna must meditate on the Lord unceasingly, even while performing the duties of his varṇa and āśrama. This is the most expedient method to secure the final remembrance.
Link copiedVerses 8–10 (Meditation of the wealth-seeker)
Verse 8.8. — "With mind unwandering, O Partha, and trained by practice, one reaches, by fervid recollection, the Divine Supreme Spirit (Paramapuruṣa)."
Link copiedDaily practice fixes the mind on the Lord and does not let it stray. With such a mind, at the moment of death, one thinks of the Paramapuruṣa-Divine and so becomes possessed of glory comparable to His.
Link copiedVerse 8.9. — "Whoever thinks on Him — the Omniscient, the Ancient, the Ruler, subtler than the subtle, Creator of all, of form inconceivable, of the color of the sun, beyond the darkness —"
Link copiedVerse 8.10. — "— with mind unwavering at the hour of death, united with bhakti, fortified by yoga, with prāṇa drawn up between the brows, attains that Spirit, Divine."
Link copiedKavi — the Omniscient; Purāṇa — the Primeval; Anuśāsitā — the Law-giver; aṇor-aṇīyāṁsam — subtler than the subtlest soul; Creator of all; of transcendent form, sun-colored, beyond the dark of matter. Whoever, having strengthened his mind by daily loving meditation, draws the prāṇa to the point between the brows at death and fixes thought on that Divine Spirit, attains to a state equal to divinity.
Link copiedVerses 11–13 (The meditation of the soul-seeker)
Verse 8.11. — "That Path which the Veda-knowers call the Imperishable (akṣara), which desire-weaned ascetics (yatis) enter, for which seekers keep the vow of brahmacarya, I shall briefly declare to you."
Link copiedThat Path is the Path of akṣara, the imperishable soul-nature.
Link copiedVerses 8.12–13. — "Stopping up all the gates of the senses, locking the mind in the heart, drawing the prāṇa into the head, established in yoga-dhāraṇā, and reciting the single syllable Om — the Brahma — whoever, intent on Me, casts off the body, reaches the supreme state."
Link copiedStopping the gates means withdrawing the senses from their objects. Locking the mind in the heart means directing loving thoughts towards the Lord, the Akṣara, enthroned in the lotus of the heart. Om is the sign; the Lord is the Indicated. One who holds the prāṇa in the head and departs thus attains the exalted state — the soul in its pure, matter-free essence, a state comparable to the Lord's own, from which there is no return.
Link copiedVerses 14–15 (The meditation of the God-seeker)
Verse 8.14. — "To that yogī, O Partha, ever ambitious of eternal union, who with undivided mind constantly ponders on Me alone, I am easily attainable."
Link copiedHe ponders on the Lord because the Lord has become the Object of his impassioned love — so much so that the Lord's absence from thought jeopardizes his life. To such a jñānī, the Lord is easily accessible: not merely his state but the Lord Himself. For the Lord cannot bear the separation of His lovers from Him. He Himself elects the devotee, carries his meditation to fruition, wards off obstacles, and kindles the love that sustains it.
Link copiedVerse 8.15. — "Reaching Me, the noble souls who have attained the highest perfection do not return to rebirth — the transient home of sorrow."
Link copiedThose who reach Him do not return to that impermanent condition. They are mahātmās, enlightened to the true knowledge of His nature, bearing such fervid love that separation from Him is unbearable.
Link copiedVerses 16–22 (The returning cosmos and the Supreme Person who does not return)
Verse 8.16. — "All worlds, from the realm of Brahmā down, are subject to return, O Arjuna. But reaching Me, O Kaunteya, there is no more rebirth."
Link copiedAll worlds up to Brahmā's own are appointed mansions for the enjoyment of material happiness, and all are perishable. But those who reach the Lord — Omniscient, True-willed, Most Merciful, Enduring — have no destruction and no re-incarnation.
Link copiedVerse 8.17. — "Those who know that Brahmā's Day spans a thousand yugas and His Night a thousand yugas — they know Day and Night."
Link copiedVerse 8.18. — "At the coming of Day, all things manifest burst forth from the unmanifest; at the coming of Night, they disappear into the same unmanifest state."
Link copiedVerse 8.19. — "The same bonded multitude of beings, born again and again, vanishes helplessly with Night and reappears with Day."
Link copiedThese cycles — creation and dissolution — proceed from the Lord's will. At the close of a Day of Brahmā, all things resolve into the unmanifest; at the dawn of a new Day, the same beings emerge again, bound by karma.
Link copiedVerse 8.20. — "But higher than that unmanifest is another Unmanifest, eternal, which does not perish when all things perish."
Link copiedThis is the other, superior Unmanifest — the soul (ātman), a principle self-conscious, characterized by intelligence, unique in nature, not subject to composition or dissolution.
Link copiedVerse 8.21. — "Called the Unmanifest, the Imperishable — they call this the supreme goal; reaching it, they do not return. That is My supreme abode (paramaṁ dhāma)."
Link copiedThis is ātman in its pure, matter-free state — the Lord's superior realm over which He rules. Dhāma may also mean luminosity: the state of soul with its consciousness no longer cramped by matter, shining in its freedom.
Link copiedVerse 8.22. — "Supreme is that Spirit, O Partha, attainable only by unswerving bhakti — in whom all beings dwell, by whom all this is pervaded."
Link copiedThis is the Puruṣa in whom all things reside, described earlier: "Nothing whatever higher than I exists," and "Like a row of gems strung on a string, all this is threaded by Me." He is accessible to exclusive devotion.
Link copiedVerses 23–28 (The two paths — arciradi and dhūmadi)
Verse 8.23. — "At what time the yogīs depart, returning or not returning, that I will tell you, O Bhārata-chief."
Link copiedVerse 8.24. — "Fire, light, day-time, the bright fortnight, the six months of the northern (solstitial) course — going forth thus, the Brahma-knowers go to Brahma."
Link copiedThis is the Bright Path, arciradi or deva-yāna, presided over by the deities of these time-divisions. By this path one goes and does not return.
Link copiedVerse 8.25. — "Smoke, night, the dark fortnight, the six months of the southern course — by this the yogī attains lunar light and returns."
Link copiedThis is the Dark Path, dhūmadi or pitṛ-yāna, the road through the realm of the Manes, by which merit-earners return.
Link copiedVerse 8.26. — "These two paths of the world — the Bright and the Dark — are eternally ordained. By the one is the non-returning state; by the other, return again."
Link copiedThe White Path is for both kinds of jñānīs (the soul-seeker and the God-seeker); the Black is for the merit-worker who earns material rewards.
Link copiedVerse 8.27. — "Knowing these paths, O Partha, no yogī is deluded. Therefore at all times be united in yoga, O Arjuna."
Link copiedKnowing the paths, the yogī is not confused at the hour of departure; he travels his rightful deva-yāna.
Link copiedVerse 8.28. — "Whatever fruit is declared for Vedas, sacrifices, austerities, and gifts — the yogī transcends them all by knowing this, and reaches the supreme primal abode."
Link copiedHe who knows the greatness of the Lord declared in these two chapters transcends every lesser reward; the bliss of such knowledge makes all such rewards seem trivial as a blade of grass. Becoming yogī, jñānī, God-lover, he reaches the Supreme Abode — the home of all the saints.
Link copiedThus closes the eighth discourse, named Akṣara-Parabrahma-Yoga — the Way to the Imperishable Parabrahma.
Link copied