Skip to content

Bhagavad Gita Bhashya · Section 8 of 19

atha saptamo'dhyāyaḥ

Sanskrit (IAST) · click to toggle

प्रथमाध्याय-षट्केन परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिल-जगद्-एक-कारणस्य सर्वज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतꣳ तद्-उपासनꣳ वक्तुꣳ तद्-अङ्ग-भूतम् आत्म-ज्ञान-पूर्वक-कर्मानुष्ठान-साध्यꣳ प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनम् उक्तम्। इदानीꣳ मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्वरूपꣳ तद्-उपासनꣳ च भक्ति-शब्द-वाच्यम् उच्यते। तद् एतद् उत्तरत्र---

Link copied

यतः प्रवृत्तिर् भूतानाꣳ येन सर्वम् इदꣳ ततम्।

Link copied

स्व-कर्मणा तम् अभ्यर्च्य सिद्धिꣳ विन्दति मानवः॥ [१८।४६] इत्य् आरभ्य,

Link copied

विमुच्य निर्ममः शान्तो ब्रह्म-भूयाय कल्पते॥

Link copied

ब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति।

Link copied

समः सर्वेषु भूतेषु मद्-भक्तिꣳ लभते पराम् [१८।५३-४] इति सङ्क्षिप्य वक्ष्यते।

Link copied

उपासनꣳ तु भक्ति-रूपापन्नम् एव परम-प्राप्त्य्-उपाय-भूतम् इति वेदान्त-वाक्य-सिद्धम्। तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३।८], तम् एव विद्वान् अमृत इह भवति [नृ।ता।उ। १।१०।६; तै।आ। ३।१।३] इत्य् आदिनाभिहितꣳ वेदनम्। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ।आ।उ। २।४।५], आत्मानम् एव लोकम् उपासीत [बृ।आ।उ। १।४।१५], सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लम्भे सर्व-ग्रन्थीनाꣳ विप्रमोक्षः [छा।उ। ७।२६।२],

Link copied

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-सꣳशयाः।

Link copied

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ [मु।उ। २।२।८] इत्य् आदिभिर्

Link copied

ऐकार्थ्यात् स्मृति-सन्तान-रूपꣳ दर्शन-समानाकारꣳ ध्यानोपासन-शब्द-वाच्यम् इत्य् अवगम्यते। पुनश् च,

Link copied

नायम् आत्मा प्रवचनेन लभ्यो

Link copied

न मेधया न बहुना श्रुतेन।

Link copied

यम् एवैष वृणुते तेन लभ्यस्

Link copied

तस्यैष आत्मा विवृणुते तनूꣳ स्वाम्॥ [मु।उ। ३।२।३]

Link copied

इति विशेषणात् परेणात्मना वरणीयता-हेतु-भूतꣳ स्मर्यमाण-विषयस्यात्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपꣳ स्मृति-सन्तानम् एवोपासन-शब्द-वाच्यम् इति हि निश्चीयते। तद् एव हि भक्तिर् इत्य् उच्यते। स्नेह-पूर्वम् अनुध्यानꣳ भक्ति इत्य् अभिधीयते [लैङ्गु] इत्य् आदि वचनात्।

Link copied

अतः तम् एव विद्वान् अमृत इह भवति [नृ।ता।उ। १।१०।६; तै।आ। ३।१।३], नान्यः पन्था विद्यतेऽनयनाय [श्वे।उ। ३।८, ६।१५; तै।आ। ३।१।३],

Link copied

नाहꣳ वेदैर् न तपसा न दानेन न चेज्यया।

Link copied

शक्य एवꣳविधो द्रष्टुꣳ दृष्टवान् असि माꣳ यथा॥

Link copied

भक्त्या त्व् अनन्यया शक्य अहम् एवꣳविधोऽर्जुन।

Link copied

ज्ञातुꣳ द्रष्टुꣳ च तत्त्वेन प्रवेष्टुꣳ च परन्तप॥ [११।५३-४]

Link copied

इत्य् अनयोर् एकार्थत्वꣳ सिद्धꣳ भवति। तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-स्वरूप-याथात्म्यꣳ, प्रकृत्या तत् तिरोधानꣳ, तन्-निवृत्तये भगवत्-प्रपत्तिः। उपासक-विधाभेदः। ज्ञानिनः श्रैष्ठ्यꣳ चोच्यते।

Link copied

श्री-भगवान् उवाच

Link copied

मय्य् आसक्तमनाः पार्थ योगꣳ युञ्जन् मदाश्रयः

Link copied

असꣳशयꣳ समग्रꣳ माꣳ यथा ज्ञास्यसि तच् छृणु

Link copied

मय्य् आभिमुख्येन आसक्त-मनाः मत्-प्रियत्वातिरेकेण मत्-स्वरूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्वभावतया मयि सुगाढꣳ बद्ध-मनाः, मद्-आश्रयस् तथा स्वयꣳ च मया विना विशीर्यमाणतया मद्-आश्रयो मद्-एकाधारः, मद्-योगꣳ युञ्जन् योक्तुꣳ प्रवृत्तो योग-विषय-भूतꣳ माम् असꣳशयꣳ निःसꣳशयꣳ समग्रꣳ सकलꣳ यथा ज्ञास्यसि येन ज्ञानेनोक्तेन ज्ञास्यसि, तद् ज्ञानम् अवहित-मनाः सृणु॥७।१॥

Link copied

ज्ञानꣳ तेऽहꣳ स-विज्ञानम् इदꣳ वक्ष्याम्य् अशेषतः

Link copied

यज् ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यम् अवशिष्यते

Link copied

अहꣳ ते मद्-विषयम् इदꣳ ज्ञानꣳ विज्ञानेन सहाशेषतो वक्ष्यामि। विज्ञानꣳ हि विविक्ताकार-विषयꣳ ज्ञानम्, यथाहꣳ मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातात् निखिल-हेय-प्रत्यनीकतया नाना-विधानवधिकातिशया-सख्येकल्याण-गुण-गणानन्तमहाविभूतितया च विविक्त तेन विविक्त-विषय-ज्ञानेन सह मत्-स्वरूप-विषय-ज्ञानꣳ वक्ष्यामि। किꣳ बहुना यद् ज्ञानꣳ ज्ञात्वा मयि पुनर् अन्यद् ज्ञातव्यꣳ नावशिष्यते॥७।२॥

Link copied

वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह---

Link copied

मनुष्याणाꣳ सहस्रेषु कश् चिद् यतति सिद्धये

Link copied

यतताम् अपि सिद्धानाꣳ कश् चिन् माꣳ वेत्ति तत्त्वतः

Link copied

मनुष्याः शास्त्राधिकार-योग्यास् तेषाꣳ सहस्रेषु कचिद् एव सिद्धि-पर्यन्तꣳ यतते। सिद्धि-पर्यन्तꣳ यतमानानाꣳ सहस्रेषु कश्चिद् एव माꣳ विदित्वा मत्तः सिद्धये यतते। मद्-विदाꣳ सहस्रेषु तत्त्वतो यथावत् स्थितꣳ माꣳ वेत्ति न कश्चिद् इत्य् अभिप्रायः। स महात्मा सुदुर्लभः [७।१९] माꣳ तु वेद न कश्चन [७।२६] इति हि वक्ष्यते॥७।३॥

Link copied

भूमिर् आपोऽनलो वायुः खꣳ मनो बुद्धिर् एव च

Link copied

अहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा

Link copied

अस्य विचित्रानन्द-भोग्य-भोगोपकरण-भोग-स्थान-रूपेणावस्थितस्य जगतः प्रकृतिर् इयꣳ गन्धादि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशादि-रूपेण मनः-प्रभृतीन्द्रिय-रूपेण च महद्-अङ्कार-रूपेण चाष्टधा भिन्ना मदीया इति विद्धि॥७।४॥

Link copied

अपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम्

Link copied

जीव-भूताꣳ महाबाहो ययेदꣳ धार्यते जगत्

Link copied

इयꣳ ममापरा प्रकृतिः। इतस् त्व् अन्याम् इतोऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेः विसजातीयाकाराꣳ जीव-भूताꣳ परꣳ तस्या भोक्तृत्वेन प्रधान-भूताꣳ चेतन-रूपाꣳ मदीयाꣳ प्रकृतिꣳ विद्धि ययेदम् अचेतनꣳ कृत्स्नꣳ जगद् धार्यते॥७।५॥

Link copied

एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय

Link copied

अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा

Link copied

एतच् चेतनाचेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मादि-स्तम्ब-पर्यन्तान्य् उच्चावच-भावेनावस्थितानि चिद्-अचिन्-मिश्राणि सर्वाणि भूतानि मदीयानीत्य् उपधारय। मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव। तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च कृत्स्नस्य जगतोऽहम् एव प्रभवः, अहम् एव प्रलयः, अहम् एव च शेषीत्य् उपधारय। तयोश् चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वꣳ श्रुति-स्मृति-सिद्धम्। महान् अव्यक्ते लीयते ऽव्यक्तम् अक्षरेऽक्षरꣳ तमसि लीयते तमः परे देवे एकीभवति [सु।उ। २] विष्णोः स्वरूपात् परतोदिते द्वे रूपे प्रधानꣳ पुरुषश् च [वि।पु। १।२।२४],

Link copied

प्रकृतिर् या मया ख्याता व्यक्ताव्यक्त-स्वरूपिणी।

Link copied

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनी॥

Link copied

परमात्मा च सर्वेषाम् आधारः परमेश्वरः।

Link copied

विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥ [वि।पु। ६।४।३८-९]

Link copied

इत्य्-आदिका हि श्रुति-स्मृतयः॥७।६॥

Link copied

मत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय

Link copied

मयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणिगणा इव

Link copied

यथा सर्व-कारणस्यापि प्रकृति-द्वयस्य कारणत्वेन सर्वाचेतन-वस्तु-शेषिणश् चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहꣳ परतरः, तथा ज्ञान-शक्ति-बलादि-गुण-योगेन चाहम् एव परतरः। मत्तोऽन्यन् मद्-व्यतिरिक्तꣳ ज्ञान-बलादि-गुणान्तर-योगि किञ्चिद् अपि परतरꣳ नास्ति। सर्वम् इदꣳ चिद्-अचिद्-वस्तु-जातꣳ कार्यावस्थꣳ कारणावस्थꣳ च मच्-छरीर-भूतꣳ सूत्रे मणि-गणवद् आत्मतया अवस्थिते मयि प्रोतम् आश्रितम्। यस्य पृथिवी शरीरम् [बृ।आ।उ। ३।७।३] यस्यात्मा शरीरम् [बृ।आ।उ। ३।७।२२] एष सर्व-भूतान्तरात्मापहत-पाप्मा, दिव्यो देव एको नारायणः [सु।उ। ७] इत्य् आत्म-शरीर-भावेनावस्थानम् च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मणादिषु सिद्धम्॥७।७॥

Link copied

अतः सर्वस्य परम-पुरुष-शरीरत्वेन आत्म-भूत-परम-पुरुष-प्रकारत्वात् सर्व-प्रकारः परम-पुरुष एवावस्थित इति सर्वैः शब्दैस् तस्य एवाभिधानम् इति तत्-तत्-सामानाधिकरण्येनाह रसोऽहम् इति चतुर्भिः---

Link copied

रसोऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः

Link copied

प्रणवः सर्व-वेदेषु शब्दः खे पौरुषꣳ नृषु

Link copied

गन्धः पृथिव्याꣳ च तेजश् चास्मि विभावसौ

Link copied

जीवनꣳ सर्व-भूतेषु तपश् चास्मि तपस्विषु

Link copied

बीजꣳ माꣳ सर्व-भूतानाꣳ विद्धि पार्थ सनातनम्

Link copied

बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम्१०

Link copied

बलꣳ बलवताꣳ चाहꣳ काम-राग-विवर्जितम्

Link copied

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ११

Link copied

एते सर्वे विलक्षणा भावा मत्त एव उत्पन्नाः मच्-छेष-भूता मच्-छरीरतया मय्य् एवावस्थिताः। अतस् तत्-प्रकारोऽहम् एवावस्थितः॥७।८-११॥

Link copied

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये

Link copied

मत्त एवेति तान् विद्धि न त्व् अहꣳ तेषु ते मयि१२

Link copied

किꣳ विशिष्याभिधीयते। सात्त्विका राजसास् तामसाश् च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्-तद्-धेतुत्वेन चावस्थिता ये भावास् तान् सर्वान् मत्त एव उत्पन्नान् विद्धि। ते मच्-छरीरतया मय्य् एवावस्थिता इति च। न त्व् अहꣳ तेषु नाहꣳ कदाचिद् अपि तद्-आयत्त-स्थितिः। अन्यत्रात्मायत्त-स्थितित्वेऽप्य् शरीरस्य शरीरेणात्मनः स्थितव् अप्य् उपकारो विद्यते। मम तु तैर् न कश्चित् तथा-विध उपकारः। केवल-लीलैव प्रयोजनम् इत्य् अर्थः॥७।१२॥

Link copied

त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदꣳ जगत्

Link copied

मोहितꣳ नाभिजानाति माम् एभ्यः परम् अव्ययम्१३

Link copied

तद् एवꣳ चेतनाचेतनात्मकꣳ कृत्स्नꣳ जगन् मदीयꣳ काले काले मत्त एवोत्पद्यते। मयि च प्रलीयते। मय्य् एवावस्थितꣳ मच्-छरीर-भूतꣳ मद्-आत्मकꣳ च, इत्य् अहम् एव कार्यावस्थायाꣳ कारणावस्थायाꣳ च सर्व-शरीरतया सर्व-प्रकारोऽवस्थितः। अतः कारणत्वेन शेषित्वेन च ज्ञानाद्य्-असङ्ख्येय-कल्याण-गुण-गणैश् चाहम् एव सर्वैः प्रकारैः परतरः। मत्तोऽन्यत् केनापि कल्याण-गुण-गणेन परतरꣳ न विद्यते। एवꣳ-भूतꣳ माꣳ त्रिभ्यः सात्त्विक-राजस-तामस-गुण-मयेभ्यो भावेभ्यः परꣳ मद्-असाधारणैः कल्याण-गुण-गणैस् तत्-तद्-भोग्यता-प्रकारैश् च परम् उत्कृष्टतमम् अव्ययꣳ सदैक-रूपम् अपि तैर् एव त्रिभिर् गुण-मयैर् निहीनतरैः क्षण-विध्वꣳसिभिः पूर्व-कर्मानुगुण-देहेन्द्रिय-भाग्यत्वेनावस्थितैः पदार्थैः मोहितꣳ देव-तिर्यङ्-मनुष्य-स्थावरात्मनावस्थितम् इदꣳ जगन् नाभिजानाति॥७।१३॥

Link copied

कथꣳ स्वत एवानवधिकातिशयानन्दे नित्ये सदैक-रूपे लौकिक-वस्तु-भोग्यता-प्रकारैश् चोत्कृष्टतमे त्वयि स्थितेऽप्य् अत्यन्त-निहीनेषु गुण-मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिर् उपजायते। इत्य् अत्राह---

Link copied

दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया

Link copied

माम् एव ये प्रपद्यन्ते मायाम् एताꣳ तरन्ति ते१४

Link copied

ममैषा गुण-मयी सत्त्व-रजस्-तमो-मयी माया यस्माद् दैवी देवेन क्रीडा-प्रवृत्तेन मयैव निर्मता तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा। अस्याः माया-शब्द-वाच्यत्वम् आसुर-राक्षसास्त्रादीनाम् इव विचित्र-कार्य-करत्वेन। यथा च---

Link copied

ततो भगवता तस्य रक्षार्थꣳ चक्रम् उत्तमम्।

Link copied

आजगाम समाज्ञप्तꣳ ज्वाला-मालि सौदर्शिनम्॥

Link copied

तेन माया-सहस्राꣳ तच् छम्बरस्याशु-गामिना।

Link copied

बालस्य रक्षता देहम् एकैकाꣳशेन सूदितम्॥ [वि।पु। १।१९।१९-२०] इत्य् आदौ।

Link copied

अतो माया-शब्दो न मिथ्यार्थ-वाची। ऐन्द्र-जालिकादिष्व् अपि केनचिद् मन्त्रौषधादिना मिथ्यार्थ-विषयायाः पारमार्थिक्यैव बुद्धेर् उत्पादकत्वेन मायावीति प्रयोगः। तथा मन्त्रौषधादिर् एव च तत्र माया, सर्व-प्रयोगेष्व् अनुगतस्यैकस्य एवाब्दार्थत्वात्। तत्र मिथ्यार्थेषु माया-शब्द-प्रयोगो माया-कार्य-बुद्धि-विषयत्वेनाउपचारिकः। मञ्चाः क्रोशन्तीतिवत्। एषा गुण-मयी पारमार्थिकी भगवन्-माया एव--- मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।उ। ४।१०] इत्य्-आदिष्व् अभिधीयते। अस्याः कार्यꣳ भगवत्-स्वरूप-तिरोधनꣳ स्व-स्वरूप-भोग्यत्व-बुद्धिश् च। अतो भगवन्-मायया मोहितꣳ सर्वꣳ जगद् भगवन्तम् अनवधिकातिशयानन्द-स्वरूपꣳ नाभिजानाति। माया-विमोचनोपायाम् आह--- माम् एव सत्य-सङ्कल्पꣳ परम-कारुणिकम् अनालोचित-विशेषाशेष-लोक-शरण्यꣳ ये शरणꣳ प्रपद्यन्ते त एताꣳ मदीयाꣳ गुण-मयीꣳ मायाꣳ तरन्ति। मायाम् उत्सृज्य माम् एव उपासत इत्य् अर्थः॥७।१४॥

Link copied

किम् इति भगवद्-उपासनापादिनीꣳ भगवत्-प्रपत्तिꣳ सर्वे न कुर्वन्ति। इत्य् अत्राह---

Link copied

न माꣳ दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः

Link copied

माययापहृत-ज्ञाना आसुरꣳ भावम् आश्रिताः१५

Link copied

माꣳ दुष्कृतिनः पाप-कर्माणो दुष्कृत-तारतम्याच् चतुर्-विधा न प्रपद्यन्ते मूढा नराधमाः। माययापहृत-ज्ञाना आसुरꣳ भावम् आश्रिता इति। मूढा विपरीत-ज्ञाना पूर्वोक्त-प्रकारेण मत्-स्वरूपापरिज्ञानात् प्राकृतेषु एव विषयेषु सक्ताः पूर्वोक्त-प्रकारेण भगवच्-छेषतैक-रसम् आत्मानꣳ भोग्य-जातꣳ च स्व-शेषतया मन्यमानाः। नराधमाः सामान्येन ज्ञातेऽपि मत्-स्वरूपे मदौन्मुख्यानर्हाः। माययापहृत-ज्ञानास् तु मद्-विषयꣳ मद्-ऐश्वर्य-विषयꣳ च ज्ञानꣳ प्रस्तुतꣳ येषाꣳ तद्-असम्भावनापादिनीभिः कूट-युक्तिभिर् अपहृतꣳ ते तथोक्ताः। आसुरꣳ भावम् आश्रितास् तु मद्-विषयꣳ मद्-ऐश्वर्य-विषयꣳ च ज्ञानꣳ सुदृढम् उपपन्नꣳ येषाꣳ द्वेषायैव भवति ते आसुरꣳ भावम् आश्रिताः। उत्तरोत्तराः पापिष्ठतमाः॥७।१५॥

Link copied

चतुर्-विधा भजन्ते माꣳ जनाः सुकृतिनोऽर्जुन

Link copied

आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ१६

Link copied

सुकृतिनः पुण्य-कर्माणो माꣳ शरणम् उपगम्य माम् एव भजन्ते। ते चे सुकृत-तारतम्येन चतुर्-विधाः। सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्याद् उत्तरोत्तराधिकतमा भवन्ति। आर्तः प्रतिष्ठा-हीनो भ्रष्टैश्वर्यः पुनस् तत्-प्राप्ति-कामः। अर्हार्थी अप्राप्तैश्वर्यतया ऐश्वर्य-कामः। तयोर् मुख-भेद-मात्रम्, ऐश्वर्य-विषयतयैक्याद् एक एव अधिकारः। जिज्ञासुः प्रकृति-वियुक्तात्म-स्वरूपावाप्तीच्छुः। ज्ञानम् एवास्य स्वरूपम् इति जिज्ञासुर् इति उक्तम्। ज्ञानी च इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम् [गीता ७।५] इत्य् आदिना अभिहित-भगवच्-छेषतैक-रसात्म-स्वरूप-वित् प्रकृति-वियुक्त-केवलात्मनि अपर्यवस्यन् भगवन्तꣳ प्रेप्सुर् भगवन्तꣳ परम-प्राप्यꣳ मन्वानः॥७।१६॥

Link copied

तेषाꣳ ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते

Link copied

प्रियो हि ज्ञानिनोऽत्यर्थम् अहꣳ स च मम प्रियः१७

Link copied

तेषाꣳ ज्ञानी विशिष्यते। कुतः। नित्य-युक्त एक-भक्तिर् इति च। ज्ञानिनो हि मद्-एक-प्राप्यस्य मया योगो नित्यः। इतरयोस् तु यावत् स्वाभिलषित-प्राप्ति मया योगः। तथा ज्ञानिनो मय्य् एकस्मिन् एव भक्तिः। इतरयोस् तु स्वाभिलषिते तत्-साधनत्वेन मयि च। अतः स एव विशिष्यते।

Link copied

किꣳ च प्रियो हि ज्ञानिनोऽत्यर्थम् अहम्। अत्रात्यर्थ-शब्दो अभिधेय-वचनः। ज्ञानिनोऽहꣳ यथा प्रियः, तथा मया सर्वज्ञेन सर्व-शक्तिनाप्य् अभिधातुꣳ न शक्यते इत्य् अर्थः। प्रियत्वस्येयत्ता-रहितत्वात्। यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य---

Link copied

स त्व् आसक्त-मतिः कृष्णे दश्य-मानो महोरगैः।

Link copied

न विवेदात्मनो गात्रꣳ तत्-स्मृत्य्-आह्लाद-सꣳस्थितः॥ [वि।पु। १।१७।३९]

Link copied

इति सोऽपि तथा एव मम प्रियः॥७।१७॥

Link copied

उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम्

Link copied

आस्थितः स हि युक्तात्मा माम् एवानुत्तमाꣳ गतिम्१८

Link copied

सर्व एवैते माम् एवोपासते इत्य् उदारा वदान्याः। ये मत्तो यत् किञ्चिद् अपि गृह्णान्ति, ते हि मम सर्वस्व-दायिनः। ज्ञानी त्व् आत्मैव मे मतꣳ तद्-आयत्तात्म-धारणोऽहम् इति मन्ये। कस्माद् एवम्। यस्माद् अयꣳ मया विनात्म-धारणासम्भावनया माम् एवानुत्तमꣳ प्राप्यम् आस्थितः। अतस् तेन विना ममाप्य् आत्म-धारणꣳ न सम्भवति। ततो ममाप्य् आत्मा हि सः॥७।१८॥

Link copied

नाल्प-सङ्ख्यासङ्ख्यातानाꣳ पुण्य-जन्मनाꣳ फलम् इदꣳ यन् मच्-छेषतैक-रसात्म-याथात्म्य-ज्ञान-पूर्वकꣳ मत्-प्रपदनम्। अपि तु---

Link copied

बहूनाꣳ जन्मनाम् अन्ते ज्ञानवान् माꣳ प्रपद्यते

Link copied

वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः१९

Link copied

बहूनाꣳ जन्मनाꣳ पुण्य-जन्मनाम् अन्ते अवसाने वासुदेव-शेषतैक-रसोऽहꣳ तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिश् च। स चासङ्ख्येयैः कल्याण-गुण-गणैः परतर इति ज्ञानवान् भूत्वा वासुदेव एव मम परम-प्राप्यꣳ प्रापकꣳ चान्यद् अपि यन् मनोरथ-वर्ति स एव मम तत् सर्वम् इति माꣳ यः प्रपद्यते माम् उपास्ते। स महात्मा महा-मनाः सुदुर्लभो दुर्लभतरो लोके।

Link copied

वासुदेवः सर्वम् इत्य् अस्यायम् एवार्थः। प्रियो हि ज्ञानिनोऽत्यर्थम् अहम् [७।१७], आस्थितः स हि युक्तात्मा माम् एवानुत्तमाꣳ गतिम् [७।१८] इति प्रकमात्। ज्ञानवान् चायम् उक्त-लक्षण एव, अस्यैव पूर्वोक्त-ज्ञानित्वात्। भूमिर् आप इत्य् आरभ्य, अहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टाधा। अपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराꣳ जीव-भूताम् [७।४, ५] इति हि चेतनाचेतनस्य प्रकृति-द्वयस्य परम-पुरुष-शेषतैक-रसतोक्त अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा। मत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय [७।६, ७] इति आरभ्य, ये चैव सात्त्विका भावा राजसास् तामसाश् च ये। मत्त एवेति तान् विद्धि न त्व् अहꣳ तेषु ते मयि [७।१२] इति प्रकृति-द्वयस्य कार्य-कारणोभयावस्थस्य परम-पुरुषायत्त-स्वरूप-स्थिति-प्रवृत्तित्वꣳ परम-पुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्। अतः स एव अत्र ज्ञानी इत्य् उच्यते॥७।१९॥

Link copied

तस्य ज्ञानिनो दुर्लभत्वम् एवोपपादयति---

Link copied

कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्तेऽन्य-देवताः

Link copied

तꣳ तꣳ नियमम् आस्थाय प्रकृत्या नियताः स्वया२०

Link copied

सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियता नित्यान्विताः। तैस् तैः स्व-वासनानुरूपैर् गुण-मयैर् एव कामैर् इच्छा-विषय-भूतैर् हृत-मत्-स्वरूप-विषय-ज्ञानाः। तत्-तत्-काम-सिद्ध्य्-अर्थम् अन्य-देवता मद्-व्यतिरिक्ताः केवलेन्द्रादि-देवताः, तꣳ तꣳ नियमम् आस्थाय तत्-तद्-देवता-विशेष-मात्र-प्रीणनायासाधारणꣳ नियमम् आस्थाय प्रपद्यन्ते ता एव आश्रित्य अर्चयन्ते, न मत्-स्वरूपम् अभिजानन्ति॥७।२०॥

Link copied

यो यो याꣳ याꣳ तनुꣳ भक्तः श्रद्धयार्चितुम् इच्छति

Link copied

तस्य तस्याचलाꣳ श्रद्धाꣳ ताम् एव विदधाम्य् अहम्२१

Link copied

ता अपि देवता मदीयास् तनवः। य आदित्ये तिष्ठन्न् आदित्याद् अन्तरो न वेद, यस्यादित्यः शरीरम् [बृ।आ।उ। ३।७।९] इत्य् आदि-श्रुतिभिः प्रतिपादिता मदीयाः तनव इति अजानन्न् अपि यो यो याꣳ याꣳ मदीयाम् इन्द्रादिकाꣳ तनुꣳ भक्तः श्रद्धयार्चितुम् इच्छति, तस्य तस्याजानतोऽपि मत्-तनु-विषयैषा श्रद्धा इत्य् अहम् एवानुसन्धाय ताम् एवाचलाꣳ निर्विघ्नाꣳ विदधाम्य् अहम्॥७।२१॥

Link copied

स तया श्रद्धया युक्तस् तस्या राधनम् ईहते

Link copied

लभते च ततः कामान् मयैव विहितान् हि तान्२२

Link copied

स तया निर्विघ्नया श्रद्धया युक्तस् तस्येन्द्रादेर् आराधनꣳ प्रतीहते चेष्टते। ततो मत्-तनु-भूतेन्द्रादि-देवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मयैव विहितान् लभते। यद्यप्य् आराधन-काले आराध्येन्द्रादयो मदीयास् तनवः। तत एव तद्-अर्चनꣳ च मद्-आराधनम् इति न जानाति। तथापि तस्य वस्तुतो मद्-आराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि॥७।२२॥

Link copied

अन्तवत् तु फलꣳ तेषाꣳ तद् भवत्य् अल्प-मेधसाम्

Link copied

देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि२३

Link copied

तेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्रादि-मात्र-याजिनाꣳ तद्-आराधन-फलꣳ स्वल्पम् अन्तवच् च भवति। कुतः? देवान् देव-यजो यान्ति यत इन्द्रादीन् देवान् तद्-याजिनो यान्ति। इन्द्रादयो हि परिच्छिन्न-भोगाः परिमित-काल-वर्तिनश् च। ततस् तत्-सायुज्यꣳ प्राप्तास् तैः सह प्रच्यवन्ते। मद्-भक्ता अपि तेषाम् एव कर्मणाꣳ मद्-आराधन-रूपताꣳ ज्ञात्वा परिच्छिन्न-फल-सङ्गꣳ त्यक्त्वा मत्-प्रीणनैक-प्रयोजना माम् एव प्राप्नुवन्ति, न च पुनर् निवर्तन्ते माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते [गीता ८।१६] इति वक्ष्यते॥७।२३॥

Link copied

इतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्यादिषु अवतारम् अपि अकिञ्चित्करꣳ कुर्वन्ति इत्याह---

Link copied

अव्यक्तꣳ व्यक्तिम् आपन्नꣳ मन्यन्ते माम् अबुद्धयः

Link copied

परꣳ भावम् अजानन्तो ममाव्ययम् अनुत्तमम्२४

Link copied

सर्वैः कर्मभिर् आराध्योऽहꣳ सर्वेश्वरो वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावः परम-कारुण्याद् आश्रित-वात्सल्याच् च सर्व-समाश्रयणीयत्वाय अजहत्-स्वभाव एव वसुदेव-सूनुर् अवतीर्ण इति ममैवꣳ परꣳ भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृत-राज-सूनु-समानम् इतः पूर्वम् अनभिव्यक्तम् इदानीꣳ कर्म-वशाज् जन्म-विशेषꣳ प्राप्य व्यक्तिम् आपन्नꣳ प्राप्तꣳ माम् अबुद्धयो मन्यन्ते अतो माꣳ न श्रयन्ते, न कर्मभिर् आराधयन्ति च॥७।२४॥

Link copied

कुत एवꣳ न प्रकाशते। इत्य् अत्राह---

Link copied

नाहꣳ प्रकाशः सर्वस्य योग-माया-समावृतः

Link copied

मूढोऽयꣳ नाभिजानाति लोको माम् अजम् अव्ययम्२५

Link copied

क्षेत्रज्ञासाधारण-मनुष्यत्वादि-सꣳस्थान-योगाख्य-मायया समावृतोऽहꣳ न सर्वस्य प्रकाशः। मयि मनुष्यत्वादि-सꣳस्थान-दर्शन-मात्रेण मूढोऽयꣳ लोको माम् अति-वाय्व्-इन्द्र-कर्माणम् अतिसूर्याग्नि-तेजसम् उपलभ्यमानम् अप्य् अजम् अव्ययꣳ निखिल-जगद्-एक-कारणꣳ सर्वेश्वरꣳ माꣳ सर्व-समाश्रयणीयत्वाय मनुष्यत्व-सꣳस्थानम् आस्थितꣳ न अभिजानाति॥७।२५॥

Link copied

वेदाहꣳ समतीतानि वर्तमानानि चार्जुन

Link copied

भविष्याणि च भूतानि माꣳ तु वेद न कश्चन२६

Link copied

अतीतानि वर्तमानान्य् अनागतानि च सर्वाणि भूतान्य् अहꣳ वेद जानामि। माꣳ तु वेद न कश्चन। मयानुसन्धीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवꣳ-विधꣳ वासुदेवꣳ सर्व-समाश्रयणीयतयावतीर्णꣳ विदित्वा माम् एव समाश्रयम् न कश्चिद् उपलभ्यत इत्य् अर्थः। अतो ज्ञानी सुदर्लभ एव॥७।२६॥

Link copied

तथा हि---

Link copied

इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत

Link copied

सर्व-भूतानि सꣳमोहꣳ सर्गे यान्ति परन्तप२७

Link copied

इच्छा-द्वेषाभ्याꣳ समुत्थेन शीतोष्णादि-द्वन्द्वाख्येन मोहेन सर्व-भूतानि सर्गे जन्म-काल एव सꣳमोहꣳ यान्ति। एतद् उक्तꣳ भवति गुण-मयेषु सुख-दुःखादि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ इच्छा-द्वेषौ राग-द्वेषाव् अभ्यस्तौ तद्-वासनया पुनर् अपि जन्म-काल एव तद् एव द्वन्द्वाख्यम् इच्छा-द्वेष-विषयत्वेन समुपस्थितꣳ भूतानाꣳ मोहनꣳ भवति तेन मोहेन सर्व-भूतानि सꣳमोहꣳ यान्ति, तद्-विषयेच्छा-द्वेष-स्वभावानि भवन्ति, न मत्-सꣳश्लेष-वियोग-सुख-दुःख-स्वभावानि। ज्ञानी तु मत्-सꣳश्लेष-वियोगैक-सुख-दुःख-स्वभावः, न तत्-स्वभावꣳ किम् अपि भूतꣳ जायते इति॥७।२७॥

Link copied

येषाꣳ त्व् अन्त-गतꣳ पापꣳ जनानाꣳ पुण्य-कर्मणाम्

Link copied

ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते माꣳ दृढ-व्रताः२८

Link copied

येषाꣳ त्व् अनेक-जन्मार्जितेनोत्कृष्ट-पुण्य-सञ्चयेन गुण-मयꣳ द्वन्द्वेच्छा-द्वेष-हेतु-भूतꣳ मद्-औन्मुख्य-विरोधि चानादि-काल-प्रवृत्तꣳ पापम् अन्त-गतꣳ क्षीणꣳ ते पूर्वोक्तेन सुकृत-तारतम्येन माꣳ शरणम् अनुप्रपद्य गुण-मयान् मोहाद् विनिर्मुक्ता जरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय महते चैश्वर्याय मत्-प्राप्तये च दृढ-व्रता दृढ-सङ्कल्पा माम् एव भजन्ते॥७।२८॥

Link copied

अत्र तेषाꣳ त्रयाणाꣳ भगवन्तꣳ भजमानानाꣳ ज्ञातव्य-विशेषान् उपादेयाꣳश् च प्रस्तौति---

Link copied

ज्अरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये

Link copied

ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मꣳ कर्म चाखिलम्२९

Link copied

जरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय माम् आश्रित्य ये यतन्ते ते तद् ब्रह्म विदुः। अध्यात्मꣳ च कृत्स्नꣳ विदुः, कर्म चाखिलꣳ विदुः॥७।२९॥

Link copied

साधिभूताधिदैवꣳ माꣳ साधियज्ञꣳ च ये विदुः

Link copied

प्रयाण-कालेऽपि च माꣳ ते विदुर् युक्त-चेतसः३०

Link copied

अत्र य इति पुनर्-निर्देशात् पूर्व-निर्दिष्टेभ्योऽन्ये अधिकारिणो ज्ञायन्ते। साधिभूतꣳ साधिदैवꣳ माम् ऐश्वर्यार्थिनो ये विदुर् इत्य् एतद् अनुवाद-स्वरूपम् अपि अप्राप्तार्थत्वात् तद्-विधायकम् एव। तथा साधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते, अर्थ-स्वाभाव्यात् त्रयाणाꣳ हि नित्य-नैमित्तिक-रूप-महा-यज्ञाद्य्-अनुष्ठानम् अवर्जनीयम्।

Link copied

ते च प्रयाण-कालेऽपि स्वाप्राप्यानुगुणꣳ माꣳ विदुः। ते च इति च-कारात् पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-कालेऽपि विदुः, इति समुच्चीयन्ते। अनेन ज्ञानिनोऽपि अर्थ-स्वाभाव्यात् साधियज्ञꣳ माꣳ विदुः प्रयाण-कालेऽपि स्व-प्राप्यानुगुणꣳ माꣳ विदुर् इत्य् उक्तꣳ भवति॥७।३०॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये सप्तमोऽध्यायः ॥७॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 7 — The Supreme Saintly Wisdom (in Sanskrit: Paramahaṁsa-Vijñāna-Yoga)

With this chapter, the Gita turns from the first six chapters (which taught the path of self-realization through disciplined action) to the middle six chapters (VII–XII), whose theme is the nature of the Supreme Person, Śriman Nārāyaṇa, and the way of loving meditation upon Him called upāsana or bhakti (devotion). Bhagavad Ramanuja opens by reminding us that devotion — constant, loving, ecstatic remembrance of God — is the path that makes the Divine descend to the devotee.

Link copied

Verses 1–3 (The rarity of true knowledge of God)

Verse 7.1. — "Hear, Partha, how, with your mind attached to Me, practicing bhakti-yoga and taking refuge in Me, you shall know Me fully and without doubt."

Link copied

To have one's mind attached to the Lord means that the mind is so impassioned by love that even a moment's separation from Him, or a moment's forgetfulness of His attributes, deeds, or glorious universal estate, would imperil one's very existence. To take refuge in Him is to rely on Him as the sole Prop without which one could not stand. Sri Krishna now promises to disclose, to one so disposed, what He is in His total perfection.

Link copied

Verse 7.2. — "I shall declare to you, in full, this jñāna (wisdom) together with vijñāna (discriminating wisdom), knowing which nothing more here remains to be known."

Link copied

Jñāna is the general wisdom concerning the Lord's manifested nature. Vijñāna is the discriminating wisdom that distinguishes Him from everything animate and inanimate, for He is the Opposite of all evil, the Master of universal estate, the possessor of countless blessed attributes.

Link copied

Verse 7.3. — "Among thousands of men, scarcely one strives for perfection; among those who strive and succeed, scarcely one knows Me in truth."

Link copied

Of the many who follow scriptural injunctions, few persevere to the end. Of those, fewer still understand and work through the Lord. Of those who know Him, only rarely does one know Him as He truly is.

Link copied

Verses 4–7 (The two Natures of the Lord and His ensouling of the cosmos)

Verse 7.4. — "Earth, water, fire, air, space, mind (manas), intellect (buddhi), and egoism (ahaṁkāra) — this is My Nature divided eightfold."

Link copied

This is the primal matter-stuff (mūla-prakṛti), the womb of this infinite and marvelous universe, serving sentient souls as objects of enjoyment, instruments, and regions of enjoyment. It belongs to the Lord.

Link copied

Verse 7.5. — "But this is My lower Nature. Know My other, higher Nature, the living soul (jīva), by which, O Strong-armed, this universe is sustained."

Link copied

The higher Nature is the conscious, intelligent living substance — the class of souls — distinct from inert matter. The lower Nature contributes to the enjoyment of the higher. Both are the Lord's; the soul ensouls and sustains the lifeless world.

Link copied

Verse 7.6. — "Understand, all beings have these two Natures as their womb. And I am the Origin as well as the End of the whole cosmos."

Link copied

From this dual Nature — sentient (cit) and insentient (acit) — all things, from Brahmā down to a blade of grass, take form as compounds of spirit and matter. The Lord is the womb of the womb, the ultimate Cause, the Projector and the Retractor of all.

Link copied

Verse 7.6½. — "Nothing whatsoever is higher than I, Dhanañjaya."

Link copied

As the Cause of the cause of all, as Lord of the compound of sentient and insentient, as possessor of wisdom, power, energy, and all blessed attributes, nothing is above Him, nothing separate from Him.

Link copied

Verse 7.7. — "Like a row of gems strung on a string, all this is threaded by Me."

Link copied

The whole cosmos — the aggregate of souls and matter — constitutes His body. All things depend on Him as body depends on soul. He is their Soul; they are His body. Upanishadic texts declare that of Him, earth is body, water is body, soul itself is body. Therefore all terms ultimately refer to Him — the substance of which everything else is a mode.

Link copied

Verses 8–11 (The Lord as the essence of all things)

Verse 7.8. — "I am the savor in water, O Kaunteya; the light in the moon and the sun; the sacred syllable (praṇava) in all the Vedas; the sound in space; the manhood in men."

Link copied

Verse 7.9. — "The fragrance in the earth, the brilliance in fire, the life in all beings, and the austerity of the austere — I am."

Link copied

Verse 7.10. — "Know Me, O Partha, as the primeval Seed of all beings. I am the wisdom of the wise and the lustre of the illustrious."

Link copied

Verse 7.11. — "I am the strength of the strong, divorced of lust and love. And I am desire which is not contrary to dharma, O Chief of Bharatas."

Link copied

All these distinguishing qualities spring from Him alone; they are His belongings, they constitute His body, they ever abide in Him. Therefore He is the sole Existence, and all things stand to Him as predicates to a substance.

Link copied

Verses 12–14 (The three guṇas and the mystery of divine māyā)

Verse 7.12. — "Whatever things are of the qualities sāttvika, rājasa, and tāmasa — know, they all come from Me alone. But I am not in them; they are in Me."

Link copied

All the qualities that combine to form bodies, senses, and objects of enjoyment emanate from Him and constitute His body. Yet He is not dependent on them. Others' souls are bound to their bodies; He needs nothing. His ordering of things is pure līlā — divine play.

Link copied

Verse 7.13. — "Deluded by these things made of the three guṇas, the world does not know Me, the Exhaustless, beyond them all."

Link copied

The universe, abounding in animate and inanimate objects, emanates from Him at appointed times and returns to Him. He alone is the Ever-existent, in both potential and kinetic conditions. Yet the ignorant world — bewitched by the trivial, ephemeral objects fashioned for enjoyment according to past karma — does not recognize Him as the Immeasurable Beatitude.

Link copied

Verse 7.13½. — "Verily is this My divine māyā, made of the guṇas, hard to surmount."

Link copied

Māyā here does not mean unreality. It means the wondrous power that produces marvelous, protean effects — the very matter whose function is to veil the Lord's true nature and to lure men to seek pleasure in itself. It is real, real as incantation is real, though its effects may be illusory to the one beguiled.

Link copied

Verse 7.14. — "Those alone who take refuge in Me cross over this māyā."

Link copied

Those who resign themselves to the Firm-Willed, the most Merciful, the Just Shelter of worlds — they alone cross the guṇa-laden māyā.

Link copied

Verses 15–19 (The four classes of the wicked; the four classes of the devout; the supremacy of the jñānī)

Verse 7.15. — "The evil-doers, the ignorant, the ignoble, men of deluded understanding and demonic nature, do not come to Me."

Link copied

Four kinds of wicked men refuse refuge: the ignorant (mūḍhāḥ) who claim as their own what is God's; the ignoble (arādhamāḥ) who know His nature generally but remain distant from His love; those whose knowledge has been robbed by perverse reasoning; and those of demonic nature whose well-settled knowledge serves only as fuel for enmity with God. Each is worse than the last.

Link copied

Verse 7.16. — "Four classes of virtuous men worship Me, O Arjuna: the distressed (ārta), the seeker of wealth (arthārthī), the seeker of the soul (jijñāsu), and the God-knower (jñānī)."

Link copied

In ascending order of merit: the ārta who has lost his fortune and longs to recover it; the arthārthī who seeks fortune never possessed; the jijñāsu who seeks his own soul-nature free from matter; and the jñānī, the God-lover, who knows that the soul is essentially śeṣa (servant) to the Lord and who does not halt at self-realization but journeys onward to God Himself.

Link copied

Verse 7.17. — "Of these, the jñānī is distinguished — ever united and single-loving. Dear indeed am I to him, and he is dear to Me."

Link copied

The jñānī is eternally united with the Lord, because the Lord alone is his goal. To him, the Lord is the exclusive Object of love. Others relate to Him only so long as their desires are gained; the jñānī loves Him for Himself alone. His love surpasses even the Lord's power to fathom — as in the case of Prahlāda, who, bitten by huge serpents, did not even feel he had a body, so absorbed was his mind in Krishna.

Link copied

Verse 7.18. — "Noble are they all; but the jñānī is My very soul. For he is My sole-devoted, who depends on Me as the unsurpassed Goal."

Link copied

All four types are noble because they come to Him. The jñānī alone the Lord regards as His own soul, His very life. For just as the jñānī cannot live without the Lord, the Lord cannot live without him.

Link copied

Verse 7.19. — "After many births the wise one comes to Me, knowing 'Vāsudeva is all.' Such a great soul (mahātmā) is very rare."

Link copied

It takes many meritorious births to ripen into the wisdom that the soul is by nature the servant of Vāsudeva. Only then does one reflect: "Vāsudeva is my highest Goal; Vāsudeva is my way; whatever my heart longs for, all that is Vāsudeva to me."

Link copied

Verses 20–23 (Why lesser gods are worshipped and why their fruits fail)

Verse 7.20. — "Those deprived of knowledge by various desires, impelled by their nature, take to the worship of other divinities, adopting the rules appropriate thereto."

Link copied

The tendencies of past sins, acting on guṇa-laden objects, generate fresh longings; these desires rob people of knowledge concerning the Lord and drive them to worship lesser gods like Indra.

Link copied

Verse 7.21. — "Whatever form a devotee wishes in faith to worship, that faith I make firm in him."

Link copied

Even the lesser gods constitute the Lord's body. Not knowing this, the devotee still has his faith strengthened — for the Lord knows his faith is pinned to what is in fact His own body.

Link copied

Verse 7.22. — "Endowed with such faith, the devotee worships and obtains his desires — but the fruits are granted by Me alone."

Link copied

Though the votary is ignorant that Indra and the other gods are the Lord's body, the Lord counts the worship as worship rendered to Himself, and He alone grants the desires.

Link copied

Verse 7.23. — "But limited is the fruit of the small-minded. Worshippers of the devas go to the devas; My worshippers come to Me."

Link copied

The blessed states of Indra and the other gods are themselves restricted and temporary. When the gods fall, their worshippers fall with them. The Lord's worshippers, whose acts are done in knowledge and for His pleasure, attain Him — and do not return.

Link copied

Verses 24–27 (Why the Lord is not obvious to all)

Verse 7.24. — "The unwise, ignorant of My superior, imperishable, exalted nature, take Me to be merely the Unmanifest become manifest."

Link copied

The Lord's superior nature is that He is Adorable, Lord of all, unfathomable by speech or thought. Without relinquishing this nature, He is born as the son of Vasudeva out of compassion, that He may be accessible to all. Senseless people mistake Him for any ordinary mortal, born of karma.

Link copied

Verse 7.25. — "Veiled in My yoga-māyā, I am not obvious to all. This ignorant world knows Me not as the Birthless, Deathless."

Link copied

He is enveloped in a human form — the usual habitat of embodied souls. The blind world does not see that corporeity is assumed precisely to be within reach of all. Though His deeds transcend the powers of Indra and Vāyu, and His lustre dims the sun, the world fails to know Him as the Uncaused Cause.

Link copied

Verse 7.26. — "I know all beings — past, present, and future, O Arjuna. But Me, no one knows."

Link copied

All creatures are objects of His constant loving concern; yet no one discerns Him as Vāsudeva Incarnate, a Ready Refuge.

Link copied

Verse 7.27. — "By the delusion of the 'pairs' born of desire and aversion, all beings are bewildered at the time of creation, O Bhārata."

Link copied

From the start of embodied existence, creatures are trapped by the pairs of opposites — cold and heat, joy and grief — which are carried over from past births as tendencies. These enchantments make them feel that joy and grief arise from worldly contact, rather than from union with, or separation from, the Lord. The jñānī's joy is only in being with the Lord; his grief, only in being severed. Such a one is rarely born.

Link copied

Verses 28–30 (The three requisites of knowledge)

Verse 7.28. — "But when the sins of virtuous-doers come to an end, then, released from the delusion of the pairs, and firm in resolve, they worship Me."

Link copied

Merits accumulated over many lives dissolve the immemorial sins that keep men God-averse. Then, seeking either fortune, deliverance from death and decay, or the Lord Himself, they come to Him.

Link copied

Verse 7.29. — "Those who strive for deliverance from old age and death take refuge in Me, knowing the Tad-brahma, the whole Adhyātma, and all Karma."

Link copied

Deliverance here means disjunction from matter and realization of the soul in its distinctness.

Link copied

Verse 7.30. — "Those, the others, know Me as Adhibhūta, as Adhidaiva, and as Adhiyajña; and all of them know Me, at the hour of death, with steadied mind."

Link copied

The aspirants for wealth must know the Lord as Adhibhūta and Adhidaiva; all three classes — wealth-seeker, soul-seeker, and God-seeker — must know Him as Adhiyajña (the Lord of sacrifice), and must remember Him at the moment of death, each according to the ideal he has chosen as his goal.

Link copied

Thus closes the seventh discourse, named Paramahaṁsa-Vijñāna-Yoga — the Supreme Saintly Wisdom.

Link copied
Join our community