Bhagavad Gita Bhashya · Section 8 of 19
atha saptamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
प्रथमाध्याय-षट्केन परम-प्राप्य-भूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिल-जगद्-एक-कारणस्य सर्वज्ञस्य सर्व-भूतस्य सत्य-सङ्कल्पस्य महा-विभूतेः श्रीमतो नारायणस्य प्राप्त्य्-उपाय-भूतꣳ तद्-उपासनꣳ वक्तुꣳ तद्-अङ्ग-भूतम् आत्म-ज्ञान-पूर्वक-कर्मानुष्ठान-साध्यꣳ प्राप्तुः प्रत्यग्-आत्मनो याथात्म्य-दर्शनम् उक्तम्। इदानीꣳ मध्यमेन षट्केन पर-ब्रह्म-भूत-परम-पुरुष-स्वरूपꣳ तद्-उपासनꣳ च भक्ति-शब्द-वाच्यम् उच्यते। तद् एतद् उत्तरत्र---
Link copiedयतः प्रवृत्तिर् भूतानाꣳ येन सर्वम् इदꣳ ततम्।
Link copiedस्व-कर्मणा तम् अभ्यर्च्य सिद्धिꣳ विन्दति मानवः॥ [१८।४६] इत्य् आरभ्य,
Link copiedविमुच्य निर्ममः शान्तो ब्रह्म-भूयाय कल्पते॥
Link copiedब्रह्म-भूतः प्रसन्नात्मा न शोचति न काङ्क्षति।
Link copiedसमः सर्वेषु भूतेषु मद्-भक्तिꣳ लभते पराम् [१८।५३-४] इति सङ्क्षिप्य वक्ष्यते।
Link copied
उपासनꣳ तु भक्ति-रूपापन्नम् एव परम-प्राप्त्य्-उपाय-भूतम् इति वेदान्त-वाक्य-सिद्धम्। तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३।८], तम् एव विद्वान् अमृत इह भवति [नृ।ता।उ। १।१०।६; तै।आ। ३।१।३] इत्य् आदिनाभिहितꣳ वेदनम्। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृ।आ।उ। २।४।५], आत्मानम् एव लोकम् उपासीत [बृ।आ।उ। १।४।१५], सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लम्भे सर्व-ग्रन्थीनाꣳ विप्रमोक्षः [छा।उ। ७।२६।२],
Link copiedभिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-सꣳशयाः।
Link copiedक्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ [मु।उ। २।२।८] इत्य् आदिभिर्
Link copied
ऐकार्थ्यात् स्मृति-सन्तान-रूपꣳ दर्शन-समानाकारꣳ ध्यानोपासन-शब्द-वाच्यम् इत्य् अवगम्यते। पुनश् च,
Link copiedनायम् आत्मा प्रवचनेन लभ्यो
Link copiedन मेधया न बहुना श्रुतेन।
Link copiedयम् एवैष वृणुते तेन लभ्यस्
Link copied
तस्यैष आत्मा विवृणुते तनूꣳ स्वाम्॥ [मु।उ। ३।२।३]
Link copiedइति विशेषणात् परेणात्मना वरणीयता-हेतु-भूतꣳ स्मर्यमाण-विषयस्यात्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिय-रूपꣳ स्मृति-सन्तानम् एवोपासन-शब्द-वाच्यम् इति हि निश्चीयते। तद् एव हि भक्तिर् इत्य् उच्यते। स्नेह-पूर्वम् अनुध्यानꣳ भक्ति इत्य् अभिधीयते [लैङ्गु] इत्य् आदि वचनात्।
Link copiedअतः तम् एव विद्वान् अमृत इह भवति [नृ।ता।उ। १।१०।६; तै।आ। ३।१।३], नान्यः पन्था विद्यतेऽनयनाय [श्वे।उ। ३।८, ६।१५; तै।आ। ३।१।३],
Link copiedनाहꣳ वेदैर् न तपसा न दानेन न चेज्यया।
Link copiedशक्य एवꣳविधो द्रष्टुꣳ दृष्टवान् असि माꣳ यथा॥
Link copiedभक्त्या त्व् अनन्यया शक्य अहम् एवꣳविधोऽर्जुन।
Link copiedज्ञातुꣳ द्रष्टुꣳ च तत्त्वेन प्रवेष्टुꣳ च परन्तप॥ [११।५३-४]
Link copied
इत्य् अनयोर् एकार्थत्वꣳ सिद्धꣳ भवति। तत्र सप्तमे तावद् उपास्य-भूत-परम-पुरुष-स्वरूप-याथात्म्यꣳ, प्रकृत्या तत् तिरोधानꣳ, तन्-निवृत्तये भगवत्-प्रपत्तिः। उपासक-विधाभेदः। ज्ञानिनः श्रैष्ठ्यꣳ चोच्यते।
Link copiedश्री-भगवान् उवाच
Link copiedमय्य् आसक्तमनाः पार्थ योगꣳ युञ्जन् मदाश्रयः।
Link copiedअसꣳशयꣳ समग्रꣳ माꣳ यथा ज्ञास्यसि तच् छृणु॥१॥
Link copiedमय्य् आभिमुख्येन आसक्त-मनाः मत्-प्रियत्वातिरेकेण मत्-स्वरूपेण गुणैश् च चेष्टितेन मद्-विभूत्या विश्लेषे सति तत्-क्षणाद् एव विशीर्यमाण-स्वभावतया मयि सुगाढꣳ बद्ध-मनाः, मद्-आश्रयस् तथा स्वयꣳ च मया विना विशीर्यमाणतया मद्-आश्रयो मद्-एकाधारः, मद्-योगꣳ युञ्जन् योक्तुꣳ प्रवृत्तो योग-विषय-भूतꣳ माम् असꣳशयꣳ निःसꣳशयꣳ समग्रꣳ सकलꣳ यथा ज्ञास्यसि येन ज्ञानेनोक्तेन ज्ञास्यसि, तद् ज्ञानम् अवहित-मनाः सृणु॥७।१॥
Link copiedज्ञानꣳ तेऽहꣳ स-विज्ञानम् इदꣳ वक्ष्याम्य् अशेषतः।
Link copiedयज् ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यम् अवशिष्यते॥२॥
Link copiedअहꣳ ते मद्-विषयम् इदꣳ ज्ञानꣳ विज्ञानेन सहाशेषतो वक्ष्यामि। विज्ञानꣳ हि विविक्ताकार-विषयꣳ ज्ञानम्, यथाहꣳ मद्-व्यतिरिक्तात् समस्त-चिद्-अचिद्-वस्तु-जातात् निखिल-हेय-प्रत्यनीकतया नाना-विधानवधिकातिशया-सख्येकल्याण-गुण-गणानन्तमहाविभूतितया च विविक्त तेन विविक्त-विषय-ज्ञानेन सह मत्-स्वरूप-विषय-ज्ञानꣳ वक्ष्यामि। किꣳ बहुना यद् ज्ञानꣳ ज्ञात्वा मयि पुनर् अन्यद् ज्ञातव्यꣳ नावशिष्यते॥७।२॥
Link copiedवक्ष्यमाणस्य ज्ञानस्य दुष्प्रापताम् आह---
Link copiedमनुष्याणाꣳ सहस्रेषु कश् चिद् यतति सिद्धये।
Link copiedयतताम् अपि सिद्धानाꣳ कश् चिन् माꣳ वेत्ति तत्त्वतः॥३॥
Link copiedमनुष्याः शास्त्राधिकार-योग्यास् तेषाꣳ सहस्रेषु कचिद् एव सिद्धि-पर्यन्तꣳ यतते। सिद्धि-पर्यन्तꣳ यतमानानाꣳ सहस्रेषु कश्चिद् एव माꣳ विदित्वा मत्तः सिद्धये यतते। मद्-विदाꣳ सहस्रेषु तत्त्वतो यथावत् स्थितꣳ माꣳ वेत्ति न कश्चिद् इत्य् अभिप्रायः। स महात्मा सुदुर्लभः [७।१९] माꣳ तु वेद न कश्चन [७।२६] इति हि वक्ष्यते॥७।३॥
Link copiedभूमिर् आपोऽनलो वायुः खꣳ मनो बुद्धिर् एव च।
Link copiedअहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा॥४॥
Link copiedअस्य विचित्रानन्द-भोग्य-भोगोपकरण-भोग-स्थान-रूपेणावस्थितस्य जगतः प्रकृतिर् इयꣳ गन्धादि-गुणक-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशादि-रूपेण मनः-प्रभृतीन्द्रिय-रूपेण च महद्-अङ्कार-रूपेण चाष्टधा भिन्ना मदीया इति विद्धि॥७।४॥
Link copiedअपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम्।
Link copiedजीव-भूताꣳ महाबाहो ययेदꣳ धार्यते जगत्॥५॥
Link copiedइयꣳ ममापरा प्रकृतिः। इतस् त्व् अन्याम् इतोऽचेतनायाश् चेतन-भोग्य-भूतायाः प्रकृतेः विसजातीयाकाराꣳ जीव-भूताꣳ परꣳ तस्या भोक्तृत्वेन प्रधान-भूताꣳ चेतन-रूपाꣳ मदीयाꣳ प्रकृतिꣳ विद्धि ययेदम् अचेतनꣳ कृत्स्नꣳ जगद् धार्यते॥७।५॥
Link copiedएतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय।
Link copiedअहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा॥६॥
Link copiedएतच् चेतनाचेतन-समष्टि-रूप-मदीय-प्रकृति-द्वय-योनीनि ब्रह्मादि-स्तम्ब-पर्यन्तान्य् उच्चावच-भावेनावस्थितानि चिद्-अचिन्-मिश्राणि सर्वाणि भूतानि मदीयानीत्य् उपधारय। मदीय-प्रकृति-द्वय-योनीनि हि तानि मदीयान्य् एव। तथा प्रकृति-द्वय-योनित्वेन कृत्स्नस्य जगतः, तयोर् द्वयोर् अपि मद्-योनित्वेन मदीयत्वेन च कृत्स्नस्य जगतोऽहम् एव प्रभवः, अहम् एव प्रलयः, अहम् एव च शेषीत्य् उपधारय। तयोश् चिद्-अचित्-समष्टि-भूतयोः प्रकृति-पुरुषयोर् अपि परम-पुरुष-योनित्वꣳ श्रुति-स्मृति-सिद्धम्। महान् अव्यक्ते लीयते ऽव्यक्तम् अक्षरेऽक्षरꣳ तमसि लीयते तमः परे देवे एकीभवति [सु।उ। २] विष्णोः स्वरूपात् परतोदिते द्वे रूपे प्रधानꣳ पुरुषश् च [वि।पु। १।२।२४],
Link copiedप्रकृतिर् या मया ख्याता व्यक्ताव्यक्त-स्वरूपिणी।
Link copiedपुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनी॥
Link copiedपरमात्मा च सर्वेषाम् आधारः परमेश्वरः।
Link copiedविष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥ [वि।पु। ६।४।३८-९]
Link copied
इत्य्-आदिका हि श्रुति-स्मृतयः॥७।६॥
Link copiedमत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय।
Link copiedमयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणिगणा इव॥७॥
Link copiedयथा सर्व-कारणस्यापि प्रकृति-द्वयस्य कारणत्वेन सर्वाचेतन-वस्तु-शेषिणश् चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहꣳ परतरः, तथा ज्ञान-शक्ति-बलादि-गुण-योगेन चाहम् एव परतरः। मत्तोऽन्यन् मद्-व्यतिरिक्तꣳ ज्ञान-बलादि-गुणान्तर-योगि किञ्चिद् अपि परतरꣳ नास्ति। सर्वम् इदꣳ चिद्-अचिद्-वस्तु-जातꣳ कार्यावस्थꣳ कारणावस्थꣳ च मच्-छरीर-भूतꣳ सूत्रे मणि-गणवद् आत्मतया अवस्थिते मयि प्रोतम् आश्रितम्। यस्य पृथिवी शरीरम् [बृ।आ।उ। ३।७।३] यस्यात्मा शरीरम् [बृ।आ।उ। ३।७।२२] एष सर्व-भूतान्तरात्मापहत-पाप्मा, दिव्यो देव एको नारायणः [सु।उ। ७] इत्य् आत्म-शरीर-भावेनावस्थानम् च जगद्-ब्रह्मणोर् अन्तर्यामि-ब्राह्मणादिषु सिद्धम्॥७।७॥
Link copiedअतः सर्वस्य परम-पुरुष-शरीरत्वेन आत्म-भूत-परम-पुरुष-प्रकारत्वात् सर्व-प्रकारः परम-पुरुष एवावस्थित इति सर्वैः शब्दैस् तस्य एवाभिधानम् इति तत्-तत्-सामानाधिकरण्येनाह रसोऽहम् इति चतुर्भिः---
Link copiedरसोऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः।
Link copiedप्रणवः सर्व-वेदेषु शब्दः खे पौरुषꣳ नृषु॥८॥
Link copiedगन्धः पृथिव्याꣳ च तेजश् चास्मि विभावसौ।
Link copiedजीवनꣳ सर्व-भूतेषु तपश् चास्मि तपस्विषु॥९॥
Link copiedबीजꣳ माꣳ सर्व-भूतानाꣳ विद्धि पार्थ सनातनम्।
Link copiedबुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम्॥१०॥
Link copiedबलꣳ बलवताꣳ चाहꣳ काम-राग-विवर्जितम्।
Link copiedधर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥११॥
Link copiedएते सर्वे विलक्षणा भावा मत्त एव उत्पन्नाः मच्-छेष-भूता मच्-छरीरतया मय्य् एवावस्थिताः। अतस् तत्-प्रकारोऽहम् एवावस्थितः॥७।८-११॥
Link copiedये चैव सात्त्विका भावा राजसास् तामसाश् च ये।
Link copiedमत्त एवेति तान् विद्धि न त्व् अहꣳ तेषु ते मयि॥१२॥
Link copiedकिꣳ विशिष्याभिधीयते। सात्त्विका राजसास् तामसाश् च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्-तद्-धेतुत्वेन चावस्थिता ये भावास् तान् सर्वान् मत्त एव उत्पन्नान् विद्धि। ते मच्-छरीरतया मय्य् एवावस्थिता इति च। न त्व् अहꣳ तेषु नाहꣳ कदाचिद् अपि तद्-आयत्त-स्थितिः। अन्यत्रात्मायत्त-स्थितित्वेऽप्य् शरीरस्य शरीरेणात्मनः स्थितव् अप्य् उपकारो विद्यते। मम तु तैर् न कश्चित् तथा-विध उपकारः। केवल-लीलैव प्रयोजनम् इत्य् अर्थः॥७।१२॥
Link copiedत्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदꣳ जगत्।
Link copiedमोहितꣳ नाभिजानाति माम् एभ्यः परम् अव्ययम्॥१३॥
Link copiedतद् एवꣳ चेतनाचेतनात्मकꣳ कृत्स्नꣳ जगन् मदीयꣳ काले काले मत्त एवोत्पद्यते। मयि च प्रलीयते। मय्य् एवावस्थितꣳ मच्-छरीर-भूतꣳ मद्-आत्मकꣳ च, इत्य् अहम् एव कार्यावस्थायाꣳ कारणावस्थायाꣳ च सर्व-शरीरतया सर्व-प्रकारोऽवस्थितः। अतः कारणत्वेन शेषित्वेन च ज्ञानाद्य्-असङ्ख्येय-कल्याण-गुण-गणैश् चाहम् एव सर्वैः प्रकारैः परतरः। मत्तोऽन्यत् केनापि कल्याण-गुण-गणेन परतरꣳ न विद्यते। एवꣳ-भूतꣳ माꣳ त्रिभ्यः सात्त्विक-राजस-तामस-गुण-मयेभ्यो भावेभ्यः परꣳ मद्-असाधारणैः कल्याण-गुण-गणैस् तत्-तद्-भोग्यता-प्रकारैश् च परम् उत्कृष्टतमम् अव्ययꣳ सदैक-रूपम् अपि तैर् एव त्रिभिर् गुण-मयैर् निहीनतरैः क्षण-विध्वꣳसिभिः पूर्व-कर्मानुगुण-देहेन्द्रिय-भाग्यत्वेनावस्थितैः पदार्थैः मोहितꣳ देव-तिर्यङ्-मनुष्य-स्थावरात्मनावस्थितम् इदꣳ जगन् नाभिजानाति॥७।१३॥
Link copiedकथꣳ स्वत एवानवधिकातिशयानन्दे नित्ये सदैक-रूपे लौकिक-वस्तु-भोग्यता-प्रकारैश् चोत्कृष्टतमे त्वयि स्थितेऽप्य् अत्यन्त-निहीनेषु गुण-मयेष्व् अस्थिरेषु भावेषु सर्वस्य भोक्तृ-वर्गस्य भोग्यत्व-बुद्धिर् उपजायते। इत्य् अत्राह---
Link copiedदैवी ह्य् एषा गुण-मयी मम माया दुरत्यया।
Link copiedमाम् एव ये प्रपद्यन्ते मायाम् एताꣳ तरन्ति ते॥१४॥
Link copiedममैषा गुण-मयी सत्त्व-रजस्-तमो-मयी माया यस्माद् दैवी देवेन क्रीडा-प्रवृत्तेन मयैव निर्मता तस्मात् सर्वैर् दुरत्यया दुरतिक्रमा। अस्याः माया-शब्द-वाच्यत्वम् आसुर-राक्षसास्त्रादीनाम् इव विचित्र-कार्य-करत्वेन। यथा च---
Link copiedततो भगवता तस्य रक्षार्थꣳ चक्रम् उत्तमम्।
Link copiedआजगाम समाज्ञप्तꣳ ज्वाला-मालि सौदर्शिनम्॥
Link copiedतेन माया-सहस्राꣳ तच् छम्बरस्याशु-गामिना।
Link copiedबालस्य रक्षता देहम् एकैकाꣳशेन सूदितम्॥ [वि।पु। १।१९।१९-२०] इत्य् आदौ।
Link copied
अतो माया-शब्दो न मिथ्यार्थ-वाची। ऐन्द्र-जालिकादिष्व् अपि केनचिद् मन्त्रौषधादिना मिथ्यार्थ-विषयायाः पारमार्थिक्यैव बुद्धेर् उत्पादकत्वेन मायावीति प्रयोगः। तथा मन्त्रौषधादिर् एव च तत्र माया, सर्व-प्रयोगेष्व् अनुगतस्यैकस्य एवाब्दार्थत्वात्। तत्र मिथ्यार्थेषु माया-शब्द-प्रयोगो माया-कार्य-बुद्धि-विषयत्वेनाउपचारिकः। मञ्चाः क्रोशन्तीतिवत्। एषा गुण-मयी पारमार्थिकी भगवन्-माया एव--- मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।उ। ४।१०] इत्य्-आदिष्व् अभिधीयते। अस्याः कार्यꣳ भगवत्-स्वरूप-तिरोधनꣳ स्व-स्वरूप-भोग्यत्व-बुद्धिश् च। अतो भगवन्-मायया मोहितꣳ सर्वꣳ जगद् भगवन्तम् अनवधिकातिशयानन्द-स्वरूपꣳ नाभिजानाति। माया-विमोचनोपायाम् आह--- माम् एव सत्य-सङ्कल्पꣳ परम-कारुणिकम् अनालोचित-विशेषाशेष-लोक-शरण्यꣳ ये शरणꣳ प्रपद्यन्ते त एताꣳ मदीयाꣳ गुण-मयीꣳ मायाꣳ तरन्ति। मायाम् उत्सृज्य माम् एव उपासत इत्य् अर्थः॥७।१४॥
Link copiedकिम् इति भगवद्-उपासनापादिनीꣳ भगवत्-प्रपत्तिꣳ सर्वे न कुर्वन्ति। इत्य् अत्राह---
Link copiedन माꣳ दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
Link copiedमाययापहृत-ज्ञाना आसुरꣳ भावम् आश्रिताः॥१५॥
Link copiedमाꣳ दुष्कृतिनः पाप-कर्माणो दुष्कृत-तारतम्याच् चतुर्-विधा न प्रपद्यन्ते मूढा नराधमाः। माययापहृत-ज्ञाना आसुरꣳ भावम् आश्रिता इति। मूढा विपरीत-ज्ञाना पूर्वोक्त-प्रकारेण मत्-स्वरूपापरिज्ञानात् प्राकृतेषु एव विषयेषु सक्ताः पूर्वोक्त-प्रकारेण भगवच्-छेषतैक-रसम् आत्मानꣳ भोग्य-जातꣳ च स्व-शेषतया मन्यमानाः। नराधमाः सामान्येन ज्ञातेऽपि मत्-स्वरूपे मदौन्मुख्यानर्हाः। माययापहृत-ज्ञानास् तु मद्-विषयꣳ मद्-ऐश्वर्य-विषयꣳ च ज्ञानꣳ प्रस्तुतꣳ येषाꣳ तद्-असम्भावनापादिनीभिः कूट-युक्तिभिर् अपहृतꣳ ते तथोक्ताः। आसुरꣳ भावम् आश्रितास् तु मद्-विषयꣳ मद्-ऐश्वर्य-विषयꣳ च ज्ञानꣳ सुदृढम् उपपन्नꣳ येषाꣳ द्वेषायैव भवति ते आसुरꣳ भावम् आश्रिताः। उत्तरोत्तराः पापिष्ठतमाः॥७।१५॥
Link copiedचतुर्-विधा भजन्ते माꣳ जनाः सुकृतिनोऽर्जुन।
Link copiedआर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ॥१६॥
Link copiedसुकृतिनः पुण्य-कर्माणो माꣳ शरणम् उपगम्य माम् एव भजन्ते। ते चे सुकृत-तारतम्येन चतुर्-विधाः। सुकृत-गरीयस्त्वेन प्रतिपत्ति-वैशेष्याद् उत्तरोत्तराधिकतमा भवन्ति। आर्तः प्रतिष्ठा-हीनो भ्रष्टैश्वर्यः पुनस् तत्-प्राप्ति-कामः। अर्हार्थी अप्राप्तैश्वर्यतया ऐश्वर्य-कामः। तयोर् मुख-भेद-मात्रम्, ऐश्वर्य-विषयतयैक्याद् एक एव अधिकारः। जिज्ञासुः प्रकृति-वियुक्तात्म-स्वरूपावाप्तीच्छुः। ज्ञानम् एवास्य स्वरूपम् इति जिज्ञासुर् इति उक्तम्। ज्ञानी च इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम् [गीता ७।५] इत्य् आदिना अभिहित-भगवच्-छेषतैक-रसात्म-स्वरूप-वित् प्रकृति-वियुक्त-केवलात्मनि अपर्यवस्यन् भगवन्तꣳ प्रेप्सुर् भगवन्तꣳ परम-प्राप्यꣳ मन्वानः॥७।१६॥
Link copiedतेषाꣳ ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते।
Link copiedप्रियो हि ज्ञानिनोऽत्यर्थम् अहꣳ स च मम प्रियः॥१७॥
Link copiedतेषाꣳ ज्ञानी विशिष्यते। कुतः। नित्य-युक्त एक-भक्तिर् इति च। ज्ञानिनो हि मद्-एक-प्राप्यस्य मया योगो नित्यः। इतरयोस् तु यावत् स्वाभिलषित-प्राप्ति मया योगः। तथा ज्ञानिनो मय्य् एकस्मिन् एव भक्तिः। इतरयोस् तु स्वाभिलषिते तत्-साधनत्वेन मयि च। अतः स एव विशिष्यते।
Link copiedकिꣳ च प्रियो हि ज्ञानिनोऽत्यर्थम् अहम्। अत्रात्यर्थ-शब्दो अभिधेय-वचनः। ज्ञानिनोऽहꣳ यथा प्रियः, तथा मया सर्वज्ञेन सर्व-शक्तिनाप्य् अभिधातुꣳ न शक्यते इत्य् अर्थः। प्रियत्वस्येयत्ता-रहितत्वात्। यथा ज्ञानिनाम् अग्रेसरस्य प्रह्लादस्य---
Link copiedस त्व् आसक्त-मतिः कृष्णे दश्य-मानो महोरगैः।
Link copiedन विवेदात्मनो गात्रꣳ तत्-स्मृत्य्-आह्लाद-सꣳस्थितः॥ [वि।पु। १।१७।३९]
Link copied
इति सोऽपि तथा एव मम प्रियः॥७।१७॥
Link copiedउदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम्।
Link copiedआस्थितः स हि युक्तात्मा माम् एवानुत्तमाꣳ गतिम्॥१८॥
Link copiedसर्व एवैते माम् एवोपासते इत्य् उदारा वदान्याः। ये मत्तो यत् किञ्चिद् अपि गृह्णान्ति, ते हि मम सर्वस्व-दायिनः। ज्ञानी त्व् आत्मैव मे मतꣳ तद्-आयत्तात्म-धारणोऽहम् इति मन्ये। कस्माद् एवम्। यस्माद् अयꣳ मया विनात्म-धारणासम्भावनया माम् एवानुत्तमꣳ प्राप्यम् आस्थितः। अतस् तेन विना ममाप्य् आत्म-धारणꣳ न सम्भवति। ततो ममाप्य् आत्मा हि सः॥७।१८॥
Link copiedनाल्प-सङ्ख्यासङ्ख्यातानाꣳ पुण्य-जन्मनाꣳ फलम् इदꣳ यन् मच्-छेषतैक-रसात्म-याथात्म्य-ज्ञान-पूर्वकꣳ मत्-प्रपदनम्। अपि तु---
Link copiedबहूनाꣳ जन्मनाम् अन्ते ज्ञानवान् माꣳ प्रपद्यते।
Link copiedवासुदेवः सर्वम् इति स महात्मा सुदुर्लभः॥१९॥
Link copiedबहूनाꣳ जन्मनाꣳ पुण्य-जन्मनाम् अन्ते अवसाने वासुदेव-शेषतैक-रसोऽहꣳ तद्-आयत्त-स्वरूप-स्थिति-प्रवृत्तिश् च। स चासङ्ख्येयैः कल्याण-गुण-गणैः परतर इति ज्ञानवान् भूत्वा वासुदेव एव मम परम-प्राप्यꣳ प्रापकꣳ चान्यद् अपि यन् मनोरथ-वर्ति स एव मम तत् सर्वम् इति माꣳ यः प्रपद्यते माम् उपास्ते। स महात्मा महा-मनाः सुदुर्लभो दुर्लभतरो लोके।
Link copiedवासुदेवः सर्वम् इत्य् अस्यायम् एवार्थः। प्रियो हि ज्ञानिनोऽत्यर्थम् अहम् [७।१७], आस्थितः स हि युक्तात्मा माम् एवानुत्तमाꣳ गतिम् [७।१८] इति प्रकमात्। ज्ञानवान् चायम् उक्त-लक्षण एव, अस्यैव पूर्वोक्त-ज्ञानित्वात्। भूमिर् आप इत्य् आरभ्य, अहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टाधा। अपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराꣳ जीव-भूताम् [७।४, ५] इति हि चेतनाचेतनस्य प्रकृति-द्वयस्य परम-पुरुष-शेषतैक-रसतोक्त अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा। मत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय [७।६, ७] इति आरभ्य, ये चैव सात्त्विका भावा राजसास् तामसाश् च ये। मत्त एवेति तान् विद्धि न त्व् अहꣳ तेषु ते मयि [७।१२] इति प्रकृति-द्वयस्य कार्य-कारणोभयावस्थस्य परम-पुरुषायत्त-स्वरूप-स्थिति-प्रवृत्तित्वꣳ परम-पुरुषस्य च सर्वैः प्रकारैः सर्वस्मात् परतरत्वम् उक्तम्। अतः स एव अत्र ज्ञानी इत्य् उच्यते॥७।१९॥
Link copiedतस्य ज्ञानिनो दुर्लभत्वम् एवोपपादयति---
Link copiedकामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्तेऽन्य-देवताः।
Link copiedतꣳ तꣳ नियमम् आस्थाय प्रकृत्या नियताः स्वया॥२०॥
Link copiedसर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पाप-वासनया गुण-मय-भाव-विषयया नियता नित्यान्विताः। तैस् तैः स्व-वासनानुरूपैर् गुण-मयैर् एव कामैर् इच्छा-विषय-भूतैर् हृत-मत्-स्वरूप-विषय-ज्ञानाः। तत्-तत्-काम-सिद्ध्य्-अर्थम् अन्य-देवता मद्-व्यतिरिक्ताः केवलेन्द्रादि-देवताः, तꣳ तꣳ नियमम् आस्थाय तत्-तद्-देवता-विशेष-मात्र-प्रीणनायासाधारणꣳ नियमम् आस्थाय प्रपद्यन्ते ता एव आश्रित्य अर्चयन्ते, न मत्-स्वरूपम् अभिजानन्ति॥७।२०॥
Link copiedयो यो याꣳ याꣳ तनुꣳ भक्तः श्रद्धयार्चितुम् इच्छति।
Link copiedतस्य तस्याचलाꣳ श्रद्धाꣳ ताम् एव विदधाम्य् अहम्॥२१॥
Link copiedता अपि देवता मदीयास् तनवः। य आदित्ये तिष्ठन्न् आदित्याद् अन्तरो न वेद, यस्यादित्यः शरीरम् [बृ।आ।उ। ३।७।९] इत्य् आदि-श्रुतिभिः प्रतिपादिता मदीयाः तनव इति अजानन्न् अपि यो यो याꣳ याꣳ मदीयाम् इन्द्रादिकाꣳ तनुꣳ भक्तः श्रद्धयार्चितुम् इच्छति, तस्य तस्याजानतोऽपि मत्-तनु-विषयैषा श्रद्धा इत्य् अहम् एवानुसन्धाय ताम् एवाचलाꣳ निर्विघ्नाꣳ विदधाम्य् अहम्॥७।२१॥
Link copiedस तया श्रद्धया युक्तस् तस्या राधनम् ईहते।
Link copiedलभते च ततः कामान् मयैव विहितान् हि तान्॥२२॥
Link copiedस तया निर्विघ्नया श्रद्धया युक्तस् तस्येन्द्रादेर् आराधनꣳ प्रतीहते चेष्टते। ततो मत्-तनु-भूतेन्द्रादि-देवताराधनात् तान् एव हि स्वाभिलषितान् कामान् मयैव विहितान् लभते। यद्यप्य् आराधन-काले आराध्येन्द्रादयो मदीयास् तनवः। तत एव तद्-अर्चनꣳ च मद्-आराधनम् इति न जानाति। तथापि तस्य वस्तुतो मद्-आराधनत्वाद् आराधकाभिलषितम् अहम् एव विदधामि॥७।२२॥
Link copiedअन्तवत् तु फलꣳ तेषाꣳ तद् भवत्य् अल्प-मेधसाम्।
Link copiedदेवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि॥२३॥
Link copiedतेषाम् अल्प-मेधसाम् अल्प-बुद्धीनाम् इन्द्रादि-मात्र-याजिनाꣳ तद्-आराधन-फलꣳ स्वल्पम् अन्तवच् च भवति। कुतः? देवान् देव-यजो यान्ति यत इन्द्रादीन् देवान् तद्-याजिनो यान्ति। इन्द्रादयो हि परिच्छिन्न-भोगाः परिमित-काल-वर्तिनश् च। ततस् तत्-सायुज्यꣳ प्राप्तास् तैः सह प्रच्यवन्ते। मद्-भक्ता अपि तेषाम् एव कर्मणाꣳ मद्-आराधन-रूपताꣳ ज्ञात्वा परिच्छिन्न-फल-सङ्गꣳ त्यक्त्वा मत्-प्रीणनैक-प्रयोजना माम् एव प्राप्नुवन्ति, न च पुनर् निवर्तन्ते माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते [गीता ८।१६] इति वक्ष्यते॥७।२३॥
Link copiedइतरे तु सर्व-समाश्रयणीयत्वाय मम मनुष्यादिषु अवतारम् अपि अकिञ्चित्करꣳ कुर्वन्ति इत्याह---
Link copiedअव्यक्तꣳ व्यक्तिम् आपन्नꣳ मन्यन्ते माम् अबुद्धयः।
Link copiedपरꣳ भावम् अजानन्तो ममाव्ययम् अनुत्तमम्॥२४॥
Link copiedसर्वैः कर्मभिर् आराध्योऽहꣳ सर्वेश्वरो वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावः परम-कारुण्याद् आश्रित-वात्सल्याच् च सर्व-समाश्रयणीयत्वाय अजहत्-स्वभाव एव वसुदेव-सूनुर् अवतीर्ण इति ममैवꣳ परꣳ भावम् अव्ययम् अनुत्तमम् अजानन्तः प्राकृत-राज-सूनु-समानम् इतः पूर्वम् अनभिव्यक्तम् इदानीꣳ कर्म-वशाज् जन्म-विशेषꣳ प्राप्य व्यक्तिम् आपन्नꣳ प्राप्तꣳ माम् अबुद्धयो मन्यन्ते अतो माꣳ न श्रयन्ते, न कर्मभिर् आराधयन्ति च॥७।२४॥
Link copiedकुत एवꣳ न प्रकाशते। इत्य् अत्राह---
Link copiedनाहꣳ प्रकाशः सर्वस्य योग-माया-समावृतः।
Link copiedमूढोऽयꣳ नाभिजानाति लोको माम् अजम् अव्ययम्॥२५॥
Link copiedक्षेत्रज्ञासाधारण-मनुष्यत्वादि-सꣳस्थान-योगाख्य-मायया समावृतोऽहꣳ न सर्वस्य प्रकाशः। मयि मनुष्यत्वादि-सꣳस्थान-दर्शन-मात्रेण मूढोऽयꣳ लोको माम् अति-वाय्व्-इन्द्र-कर्माणम् अतिसूर्याग्नि-तेजसम् उपलभ्यमानम् अप्य् अजम् अव्ययꣳ निखिल-जगद्-एक-कारणꣳ सर्वेश्वरꣳ माꣳ सर्व-समाश्रयणीयत्वाय मनुष्यत्व-सꣳस्थानम् आस्थितꣳ न अभिजानाति॥७।२५॥
Link copiedवेदाहꣳ समतीतानि वर्तमानानि चार्जुन।
Link copiedभविष्याणि च भूतानि माꣳ तु वेद न कश्चन॥२६॥
Link copiedअतीतानि वर्तमानान्य् अनागतानि च सर्वाणि भूतान्य् अहꣳ वेद जानामि। माꣳ तु वेद न कश्चन। मयानुसन्धीयमानेषु काल-त्रय-वर्तिषु भूतेषु माम् एवꣳ-विधꣳ वासुदेवꣳ सर्व-समाश्रयणीयतयावतीर्णꣳ विदित्वा माम् एव समाश्रयम् न कश्चिद् उपलभ्यत इत्य् अर्थः। अतो ज्ञानी सुदर्लभ एव॥७।२६॥
Link copiedतथा हि---
Link copiedइच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत।
Link copiedसर्व-भूतानि सꣳमोहꣳ सर्गे यान्ति परन्तप॥२७॥
Link copiedइच्छा-द्वेषाभ्याꣳ समुत्थेन शीतोष्णादि-द्वन्द्वाख्येन मोहेन सर्व-भूतानि सर्गे जन्म-काल एव सꣳमोहꣳ यान्ति। एतद् उक्तꣳ भवति गुण-मयेषु सुख-दुःखादि-द्वन्द्वेषु पूर्व-पूर्व-जन्मनि यद्-विषयौ इच्छा-द्वेषौ राग-द्वेषाव् अभ्यस्तौ तद्-वासनया पुनर् अपि जन्म-काल एव तद् एव द्वन्द्वाख्यम् इच्छा-द्वेष-विषयत्वेन समुपस्थितꣳ भूतानाꣳ मोहनꣳ भवति तेन मोहेन सर्व-भूतानि सꣳमोहꣳ यान्ति, तद्-विषयेच्छा-द्वेष-स्वभावानि भवन्ति, न मत्-सꣳश्लेष-वियोग-सुख-दुःख-स्वभावानि। ज्ञानी तु मत्-सꣳश्लेष-वियोगैक-सुख-दुःख-स्वभावः, न तत्-स्वभावꣳ किम् अपि भूतꣳ जायते इति॥७।२७॥
Link copiedयेषाꣳ त्व् अन्त-गतꣳ पापꣳ जनानाꣳ पुण्य-कर्मणाम्।
Link copiedते द्वन्द्व-मोह-निर्मुक्ता भजन्ते माꣳ दृढ-व्रताः॥२८॥
Link copiedयेषाꣳ त्व् अनेक-जन्मार्जितेनोत्कृष्ट-पुण्य-सञ्चयेन गुण-मयꣳ द्वन्द्वेच्छा-द्वेष-हेतु-भूतꣳ मद्-औन्मुख्य-विरोधि चानादि-काल-प्रवृत्तꣳ पापम् अन्त-गतꣳ क्षीणꣳ ते पूर्वोक्तेन सुकृत-तारतम्येन माꣳ शरणम् अनुप्रपद्य गुण-मयान् मोहाद् विनिर्मुक्ता जरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय महते चैश्वर्याय मत्-प्राप्तये च दृढ-व्रता दृढ-सङ्कल्पा माम् एव भजन्ते॥७।२८॥
Link copiedअत्र तेषाꣳ त्रयाणाꣳ भगवन्तꣳ भजमानानाꣳ ज्ञातव्य-विशेषान् उपादेयाꣳश् च प्रस्तौति---
Link copiedज्अरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये।
Link copiedते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मꣳ कर्म चाखिलम्॥२९॥
Link copiedजरा-मरण-मोक्षाय प्रकृति-वियुक्तात्म-स्वरूप-दर्शनाय माम् आश्रित्य ये यतन्ते ते तद् ब्रह्म विदुः। अध्यात्मꣳ च कृत्स्नꣳ विदुः, कर्म चाखिलꣳ विदुः॥७।२९॥
Link copiedसाधिभूताधिदैवꣳ माꣳ साधियज्ञꣳ च ये विदुः।
Link copiedप्रयाण-कालेऽपि च माꣳ ते विदुर् युक्त-चेतसः॥३०॥
Link copiedअत्र य इति पुनर्-निर्देशात् पूर्व-निर्दिष्टेभ्योऽन्ये अधिकारिणो ज्ञायन्ते। साधिभूतꣳ साधिदैवꣳ माम् ऐश्वर्यार्थिनो ये विदुर् इत्य् एतद् अनुवाद-स्वरूपम् अपि अप्राप्तार्थत्वात् तद्-विधायकम् एव। तथा साधियज्ञम् इत्य् अपि त्रयाणाम् अधिकारिणाम् अविशेषेण विधीयते, अर्थ-स्वाभाव्यात् त्रयाणाꣳ हि नित्य-नैमित्तिक-रूप-महा-यज्ञाद्य्-अनुष्ठानम् अवर्जनीयम्।
Link copiedते च प्रयाण-कालेऽपि स्वाप्राप्यानुगुणꣳ माꣳ विदुः। ते च इति च-कारात् पूर्वे जरा-मरण-मोक्षाय यतमानाश् च प्रयाण-कालेऽपि विदुः, इति समुच्चीयन्ते। अनेन ज्ञानिनोऽपि अर्थ-स्वाभाव्यात् साधियज्ञꣳ माꣳ विदुः प्रयाण-कालेऽपि स्व-प्राप्यानुगुणꣳ माꣳ विदुर् इत्य् उक्तꣳ भवति॥७।३०॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये सप्तमोऽध्यायः ॥७॥
Link copied**
Link copiedప్రథమాధ్యాయ-షట్కేన పరమ-ప్రాప్య-భూతస్య పరస్య బ్రహ్మణో నిరవద్యస్య నిఖిల-జగద్-ఏక-కారణస్య సర్వజ్ఞస్య సర్వ-భూతస్య సత్య-సఙ్కల్పస్య మహా-విభూతేః శ్రీమతో నారాయణస్య ప్రాప్త్య్-ఉపాయ-భూతṁ తద్-ఉపాసనṁ వక్తుṁ తద్-అఙ్గ-భూతమ్ ఆత్మ-జ్ఞాన-పూర్వక-కర్మానుష్ఠాన-సాధ్యṁ ప్రాప్తుః ప్రత్యగ్-ఆత్మనో యాథాత్మ్య-దర్శనమ్ ఉక్తమ్। ఇదానీṁ మధ్యమేన షట్కేన పర-బ్రహ్మ-భూత-పరమ-పురుష-స్వరూపṁ తద్-ఉపాసనṁ చ భక్తి-శబ్ద-వాచ్యమ్ ఉచ్యతే। తద్ ఏతద్ ఉత్తరత్ర---
Link copiedయతః ప్రవృత్తిర్ భూతానాṁ యేన సర్వమ్ ఇదṁ తతమ్।
Link copiedస్వ-కర్మణా తమ్ అభ్యర్చ్య సిద్ధిṁ విన్దతి మానవః॥ [౧౮।౪౬] ఇత్య్ ఆరభ్య,
Link copiedవిముచ్య నిర్మమః శాన్తో బ్రహ్మ-భూయాయ కల్పతే॥
Link copiedబ్రహ్మ-భూతః ప్రసన్నాత్మా న శోచతి న కాఙ్క్షతి।
Link copiedసమః సర్వేషు భూతేషు మద్-భక్తిṁ లభతే పరామ్ [౧౮।౫౩-౪] ఇతి సఙ్క్షిప్య వక్ష్యతే।
Link copied
ఉపాసనṁ తు భక్తి-రూపాపన్నమ్ ఏవ పరమ-ప్రాప్త్య్-ఉపాయ-భూతమ్ ఇతి వేదాన్త-వాక్య-సిద్ధమ్। తమ్ ఏవ విదిత్వాతిమృత్యుమ్ ఏతి [శ్వే।ఉ। ౩।౮], తమ్ ఏవ విద్వాన్ అమృత ఇహ భవతి [నృ।తా।ఉ। ౧।౧౦।౬; తై।ఆ। ౩।౧।౩] ఇత్య్ ఆదినాభిహితṁ వేదనమ్। ఆత్మా వా అరే ద్రష్టవ్యః శ్రోతవ్యో మన్తవ్యో నిదిధ్యాసితవ్యః [బృ।ఆ।ఉ। ౨।౪।౫], ఆత్మానమ్ ఏవ లోకమ్ ఉపాసీత [బృ।ఆ।ఉ। ౧।౪।౧౫], సత్త్వ-శుద్ధౌ ధ్రువా స్మృతిః స్మృతి-లమ్భే సర్వ-గ్రన్థీనాṁ విప్రమోక్షః [ఛా।ఉ। ౭।౨౬।౨],
Link copiedభిద్యతే హృదయ-గ్రన్థిశ్ ఛిద్యన్తే సర్వ-సṁశయాః।
Link copiedక్షీయన్తే చాస్య కర్మాణి తస్మిన్ దృష్టే పరావరే॥ [ము।ఉ। ౨।౨।౮] ఇత్య్ ఆదిభిర్
Link copied
ఐకార్థ్యాత్ స్మృతి-సన్తాన-రూపṁ దర్శన-సమానాకారṁ ధ్యానోపాసన-శబ్ద-వాచ్యమ్ ఇత్య్ అవగమ్యతే। పునశ్ చ,
Link copiedనాయమ్ ఆత్మా ప్రవచనేన లభ్యో
Link copiedన మేధయా న బహునా శ్రుతేన।
Link copiedయమ్ ఏవైష వృణుతే తేన లభ్యస్
Link copied
తస్యైష ఆత్మా వివృణుతే తనూṁ స్వామ్॥ [ము।ఉ। ౩।౨।౩]
Link copiedఇతి విశేషణాత్ పరేణాత్మనా వరణీయతా-హేతు-భూతṁ స్మర్యమాణ-విషయస్యాత్యర్థ-ప్రియత్వేన స్వయమ్ అప్య్ అత్యర్థ-ప్రియ-రూపṁ స్మృతి-సన్తానమ్ ఏవోపాసన-శబ్ద-వాచ్యమ్ ఇతి హి నిశ్చీయతే। తద్ ఏవ హి భక్తిర్ ఇత్య్ ఉచ్యతే। స్నేహ-పూర్వమ్ అనుధ్యానṁ భక్తి ఇత్య్ అభిధీయతే [లైఙ్గు] ఇత్య్ ఆది వచనాత్।
Link copiedఅతః తమ్ ఏవ విద్వాన్ అమృత ఇహ భవతి [నృ।తా।ఉ। ౧।౧౦।౬; తై।ఆ। ౩।౧।౩], నాన్యః పన్థా విద్యతేఽనయనాయ [శ్వే।ఉ। ౩।౮, ౬।౧౫; తై।ఆ। ౩।౧।౩],
Link copiedనాహṁ వేదైర్ న తపసా న దానేన న చేజ్యయా।
Link copiedశక్య ఏవṁవిధో ద్రష్టుṁ దృష్టవాన్ అసి మాṁ యథా॥
Link copiedభక్త్యా త్వ్ అనన్యయా శక్య అహమ్ ఏవṁవిధోఽర్జున।
Link copiedజ్ఞాతుṁ ద్రష్టుṁ చ తత్త్వేన ప్రవేష్టుṁ చ పరన్తప॥ [౧౧।౫౩-౪]
Link copied
ఇత్య్ అనయోర్ ఏకార్థత్వṁ సిద్ధṁ భవతి। తత్ర సప్తమే తావద్ ఉపాస్య-భూత-పరమ-పురుష-స్వరూప-యాథాత్మ్యṁ, ప్రకృత్యా తత్ తిరోధానṁ, తన్-నివృత్తయే భగవత్-ప్రపత్తిః। ఉపాసక-విధాభేదః। జ్ఞానినః శ్రైష్ఠ్యṁ చోచ్యతే।
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedమయ్య్ ఆసక్తమనాః పార్థ యోగṁ యుఞ్జన్ మదాశ్రయః।
Link copiedఅసṁశయṁ సమగ్రṁ మాṁ యథా జ్ఞాస్యసి తచ్ ఛృణు॥౧॥
Link copiedమయ్య్ ఆభిముఖ్యేన ఆసక్త-మనాః మత్-ప్రియత్వాతిరేకేణ మత్-స్వరూపేణ గుణైశ్ చ చేష్టితేన మద్-విభూత్యా విశ్లేషే సతి తత్-క్షణాద్ ఏవ విశీర్యమాణ-స్వభావతయా మయి సుగాఢṁ బద్ధ-మనాః, మద్-ఆశ్రయస్ తథా స్వయṁ చ మయా వినా విశీర్యమాణతయా మద్-ఆశ్రయో మద్-ఏకాధారః, మద్-యోగṁ యుఞ్జన్ యోక్తుṁ ప్రవృత్తో యోగ-విషయ-భూతṁ మామ్ అసṁశయṁ నిఃసṁశయṁ సమగ్రṁ సకలṁ యథా జ్ఞాస్యసి యేన జ్ఞానేనోక్తేన జ్ఞాస్యసి, తద్ జ్ఞానమ్ అవహిత-మనాః సృణు॥౭।౧॥
Link copiedజ్ఞానṁ తేఽహṁ స-విజ్ఞానమ్ ఇదṁ వక్ష్యామ్య్ అశేషతః।
Link copiedయజ్ జ్ఞాత్వా నేహ భూయోఽన్యజ్ జ్ఞాతవ్యమ్ అవశిష్యతే॥౨॥
Link copiedఅహṁ తే మద్-విషయమ్ ఇదṁ జ్ఞానṁ విజ్ఞానేన సహాశేషతో వక్ష్యామి। విజ్ఞానṁ హి వివిక్తాకార-విషయṁ జ్ఞానమ్, యథాహṁ మద్-వ్యతిరిక్తాత్ సమస్త-చిద్-అచిద్-వస్తు-జాతాత్ నిఖిల-హేయ-ప్రత్యనీకతయా నానా-విధానవధికాతిశయా-సఖ్యేకల్యాణ-గుణ-గణానన్తమహావిభూతితయా చ వివిక్త తేన వివిక్త-విషయ-జ్ఞానేన సహ మత్-స్వరూప-విషయ-జ్ఞానṁ వక్ష్యామి। కిṁ బహునా యద్ జ్ఞానṁ జ్ఞాత్వా మయి పునర్ అన్యద్ జ్ఞాతవ్యṁ నావశిష్యతే॥౭।౨॥
Link copiedవక్ష్యమాణస్య జ్ఞానస్య దుష్ప్రాపతామ్ ఆహ---
Link copiedమనుష్యాణాṁ సహస్రేషు కశ్ చిద్ యతతి సిద్ధయే।
Link copiedయతతామ్ అపి సిద్ధానాṁ కశ్ చిన్ మాṁ వేత్తి తత్త్వతః॥౩॥
Link copiedమనుష్యాః శాస్త్రాధికార-యోగ్యాస్ తేషాṁ సహస్రేషు కచిద్ ఏవ సిద్ధి-పర్యన్తṁ యతతే। సిద్ధి-పర్యన్తṁ యతమానానాṁ సహస్రేషు కశ్చిద్ ఏవ మాṁ విదిత్వా మత్తః సిద్ధయే యతతే। మద్-విదాṁ సహస్రేషు తత్త్వతో యథావత్ స్థితṁ మాṁ వేత్తి న కశ్చిద్ ఇత్య్ అభిప్రాయః। స మహాత్మా సుదుర్లభః [౭।౧౯] మాṁ తు వేద న కశ్చన [౭।౨౬] ఇతి హి వక్ష్యతే॥౭।౩॥
Link copiedభూమిర్ ఆపోఽనలో వాయుః ఖṁ మనో బుద్ధిర్ ఏవ చ।
Link copiedఅహఙ్కార ఇతీయṁ మే భిన్నా ప్రకృతిర్ అష్టధా॥౪॥
Link copiedఅస్య విచిత్రానన్ద-భోగ్య-భోగోపకరణ-భోగ-స్థాన-రూపేణావస్థితస్య జగతః ప్రకృతిర్ ఇయṁ గన్ధాది-గుణక-పృథివ్య్-అప్-తేజో-వాయ్వ్-ఆకాశాది-రూపేణ మనః-ప్రభృతీన్ద్రియ-రూపేణ చ మహద్-అఙ్కార-రూపేణ చాష్టధా భిన్నా మదీయా ఇతి విద్ధి॥౭।౪॥
Link copiedఅపరేయమ్ ఇతస్ త్వ్ అన్యాṁ ప్రకృతిṁ విద్ధి మే పరామ్।
Link copiedజీవ-భూతాṁ మహాబాహో యయేదṁ ధార్యతే జగత్॥౫॥
Link copiedఇయṁ మమాపరా ప్రకృతిః। ఇతస్ త్వ్ అన్యామ్ ఇతోఽచేతనాయాశ్ చేతన-భోగ్య-భూతాయాః ప్రకృతేః విసజాతీయాకారాṁ జీవ-భూతాṁ పరṁ తస్యా భోక్తృత్వేన ప్రధాన-భూతాṁ చేతన-రూపాṁ మదీయాṁ ప్రకృతిṁ విద్ధి యయేదమ్ అచేతనṁ కృత్స్నṁ జగద్ ధార్యతే॥౭।౫॥
Link copiedఏతద్-యోనీని భూతాని సర్వాణీత్య్ ఉపధారయ।
Link copiedఅహṁ కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా॥౬॥
Link copiedఏతచ్ చేతనాచేతన-సమష్టి-రూప-మదీయ-ప్రకృతి-ద్వయ-యోనీని బ్రహ్మాది-స్తమ్బ-పర్యన్తాన్య్ ఉచ్చావచ-భావేనావస్థితాని చిద్-అచిన్-మిశ్రాణి సర్వాణి భూతాని మదీయానీత్య్ ఉపధారయ। మదీయ-ప్రకృతి-ద్వయ-యోనీని హి తాని మదీయాన్య్ ఏవ। తథా ప్రకృతి-ద్వయ-యోనిత్వేన కృత్స్నస్య జగతః, తయోర్ ద్వయోర్ అపి మద్-యోనిత్వేన మదీయత్వేన చ కృత్స్నస్య జగతోఽహమ్ ఏవ ప్రభవః, అహమ్ ఏవ ప్రలయః, అహమ్ ఏవ చ శేషీత్య్ ఉపధారయ। తయోశ్ చిద్-అచిత్-సమష్టి-భూతయోః ప్రకృతి-పురుషయోర్ అపి పరమ-పురుష-యోనిత్వṁ శ్రుతి-స్మృతి-సిద్ధమ్। మహాన్ అవ్యక్తే లీయతే ఽవ్యక్తమ్ అక్షరేఽక్షరṁ తమసి లీయతే తమః పరే దేవే ఏకీభవతి [సు।ఉ। ౨] విష్ణోః స్వరూపాత్ పరతోదితే ద్వే రూపే ప్రధానṁ పురుషశ్ చ [వి।పు। ౧।౨।౨౪],
Link copiedప్రకృతిర్ యా మయా ఖ్యాతా వ్యక్తావ్యక్త-స్వరూపిణీ।
Link copiedపురుషశ్ చాప్య్ ఉభావ్ ఏతౌ లీయేతే పరమాత్మనీ॥
Link copiedపరమాత్మా చ సర్వేషామ్ ఆధారః పరమేశ్వరః।
Link copiedవిష్ణునామా స వేదేషు వేదాన్తేషు చ గీయతే॥ [వి।పు। ౬।౪।౩౮-౯]
Link copied
ఇత్య్-ఆదికా హి శ్రుతి-స్మృతయః॥౭।౬॥
Link copiedమత్తః పరతరṁ నాన్యత్ కిఞ్చిద్ అస్తి ధనఞ్జయ।
Link copiedమయి సర్వమ్ ఇదṁ ప్రోతṁ సూత్రే మణిగణా ఇవ॥౭॥
Link copiedయథా సర్వ-కారణస్యాపి ప్రకృతి-ద్వయస్య కారణత్వేన సర్వాచేతన-వస్తు-శేషిణశ్ చేతనస్యాపి శేషిత్వేన కారణతయా శేషితయా చాహṁ పరతరః, తథా జ్ఞాన-శక్తి-బలాది-గుణ-యోగేన చాహమ్ ఏవ పరతరః। మత్తోఽన్యన్ మద్-వ్యతిరిక్తṁ జ్ఞాన-బలాది-గుణాన్తర-యోగి కిఞ్చిద్ అపి పరతరṁ నాస్తి। సర్వమ్ ఇదṁ చిద్-అచిద్-వస్తు-జాతṁ కార్యావస్థṁ కారణావస్థṁ చ మచ్-ఛరీర-భూతṁ సూత్రే మణి-గణవద్ ఆత్మతయా అవస్థితే మయి ప్రోతమ్ ఆశ్రితమ్। యస్య పృథివీ శరీరమ్ [బృ।ఆ।ఉ। ౩।౭।౩] యస్యాత్మా శరీరమ్ [బృ।ఆ।ఉ। ౩।౭।౨౨] ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా, దివ్యో దేవ ఏకో నారాయణః [సు।ఉ। ౭] ఇత్య్ ఆత్మ-శరీర-భావేనావస్థానమ్ చ జగద్-బ్రహ్మణోర్ అన్తర్యామి-బ్రాహ్మణాదిషు సిద్ధమ్॥౭।౭॥
Link copiedఅతః సర్వస్య పరమ-పురుష-శరీరత్వేన ఆత్మ-భూత-పరమ-పురుష-ప్రకారత్వాత్ సర్వ-ప్రకారః పరమ-పురుష ఏవావస్థిత ఇతి సర్వైః శబ్దైస్ తస్య ఏవాభిధానమ్ ఇతి తత్-తత్-సామానాధికరణ్యేనాహ రసోఽహమ్ ఇతి చతుర్భిః---
Link copiedరసోఽహమ్ అప్సు కౌన్తేయ ప్రభాస్మి శశి-సూర్యయోః।
Link copiedప్రణవః సర్వ-వేదేషు శబ్దః ఖే పౌరుషṁ నృషు॥౮॥
Link copiedగన్ధః పృథివ్యాṁ చ తేజశ్ చాస్మి విభావసౌ।
Link copiedజీవనṁ సర్వ-భూతేషు తపశ్ చాస్మి తపస్విషు॥౯॥
Link copiedబీజṁ మాṁ సర్వ-భూతానాṁ విద్ధి పార్థ సనాతనమ్।
Link copiedబుద్ధిర్ బుద్ధిమతామ్ అస్మి తేజస్ తేజస్వినామ్ అహమ్॥౧౦॥
Link copiedబలṁ బలవతాṁ చాహṁ కామ-రాగ-వివర్జితమ్।
Link copiedధర్మావిరుద్ధో భూతేషు కామోఽస్మి భరతర్షభ॥౧౧॥
Link copiedఏతే సర్వే విలక్షణా భావా మత్త ఏవ ఉత్పన్నాః మచ్-ఛేష-భూతా మచ్-ఛరీరతయా మయ్య్ ఏవావస్థితాః। అతస్ తత్-ప్రకారోఽహమ్ ఏవావస్థితః॥౭।౮-౧౧॥
Link copiedయే చైవ సాత్త్వికా భావా రాజసాస్ తామసాశ్ చ యే।
Link copiedమత్త ఏవేతి తాన్ విద్ధి న త్వ్ అహṁ తేషు తే మయి॥౧౨॥
Link copiedకిṁ విశిష్యాభిధీయతే। సాత్త్వికా రాజసాస్ తామసాశ్ చ జగతి దేహత్వేనేన్ద్రియత్వేన భోగ్యత్వేన తత్-తద్-ధేతుత్వేన చావస్థితా యే భావాస్ తాన్ సర్వాన్ మత్త ఏవ ఉత్పన్నాన్ విద్ధి। తే మచ్-ఛరీరతయా మయ్య్ ఏవావస్థితా ఇతి చ। న త్వ్ అహṁ తేషు నాహṁ కదాచిద్ అపి తద్-ఆయత్త-స్థితిః। అన్యత్రాత్మాయత్త-స్థితిత్వేఽప్య్ శరీరస్య శరీరేణాత్మనః స్థితవ్ అప్య్ ఉపకారో విద్యతే। మమ తు తైర్ న కశ్చిత్ తథా-విధ ఉపకారః। కేవల-లీలైవ ప్రయోజనమ్ ఇత్య్ అర్థః॥౭।౧౨॥
Link copiedత్రిభిర్ గుణ-మయైర్ భావైర్ ఏభిః సర్వమ్ ఇదṁ జగత్।
Link copiedమోహితṁ నాభిజానాతి మామ్ ఏభ్యః పరమ్ అవ్యయమ్॥౧౩॥
Link copiedతద్ ఏవṁ చేతనాచేతనాత్మకṁ కృత్స్నṁ జగన్ మదీయṁ కాలే కాలే మత్త ఏవోత్పద్యతే। మయి చ ప్రలీయతే। మయ్య్ ఏవావస్థితṁ మచ్-ఛరీర-భూతṁ మద్-ఆత్మకṁ చ, ఇత్య్ అహమ్ ఏవ కార్యావస్థాయాṁ కారణావస్థాయాṁ చ సర్వ-శరీరతయా సర్వ-ప్రకారోఽవస్థితః। అతః కారణత్వేన శేషిత్వేన చ జ్ఞానాద్య్-అసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణైశ్ చాహమ్ ఏవ సర్వైః ప్రకారైః పరతరః। మత్తోఽన్యత్ కేనాపి కల్యాణ-గుణ-గణేన పరతరṁ న విద్యతే। ఏవṁ-భూతṁ మాṁ త్రిభ్యః సాత్త్విక-రాజస-తామస-గుణ-మయేభ్యో భావేభ్యః పరṁ మద్-అసాధారణైః కల్యాణ-గుణ-గణైస్ తత్-తద్-భోగ్యతా-ప్రకారైశ్ చ పరమ్ ఉత్కృష్టతమమ్ అవ్యయṁ సదైక-రూపమ్ అపి తైర్ ఏవ త్రిభిర్ గుణ-మయైర్ నిహీనతరైః క్షణ-విధ్వṁసిభిః పూర్వ-కర్మానుగుణ-దేహేన్ద్రియ-భాగ్యత్వేనావస్థితైః పదార్థైః మోహితṁ దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మనావస్థితమ్ ఇదṁ జగన్ నాభిజానాతి॥౭।౧౩॥
Link copiedకథṁ స్వత ఏవానవధికాతిశయానన్దే నిత్యే సదైక-రూపే లౌకిక-వస్తు-భోగ్యతా-ప్రకారైశ్ చోత్కృష్టతమే త్వయి స్థితేఽప్య్ అత్యన్త-నిహీనేషు గుణ-మయేష్వ్ అస్థిరేషు భావేషు సర్వస్య భోక్తృ-వర్గస్య భోగ్యత్వ-బుద్ధిర్ ఉపజాయతే। ఇత్య్ అత్రాహ---
Link copiedదైవీ హ్య్ ఏషా గుణ-మయీ మమ మాయా దురత్యయా।
Link copiedమామ్ ఏవ యే ప్రపద్యన్తే మాయామ్ ఏతాṁ తరన్తి తే॥౧౪॥
Link copiedమమైషా గుణ-మయీ సత్త్వ-రజస్-తమో-మయీ మాయా యస్మాద్ దైవీ దేవేన క్రీడా-ప్రవృత్తేన మయైవ నిర్మతా తస్మాత్ సర్వైర్ దురత్యయా దురతిక్రమా। అస్యాః మాయా-శబ్ద-వాచ్యత్వమ్ ఆసుర-రాక్షసాస్త్రాదీనామ్ ఇవ విచిత్ర-కార్య-కరత్వేన। యథా చ---
Link copiedతతో భగవతా తస్య రక్షార్థṁ చక్రమ్ ఉత్తమమ్।
Link copiedఆజగామ సమాజ్ఞప్తṁ జ్వాలా-మాలి సౌదర్శినమ్॥
Link copiedతేన మాయా-సహస్రాṁ తచ్ ఛమ్బరస్యాశు-గామినా।
Link copiedబాలస్య రక్షతా దేహమ్ ఏకైకాṁశేన సూదితమ్॥ [వి।పు। ౧।౧౯।౧౯-౨౦] ఇత్య్ ఆదౌ।
Link copied
అతో మాయా-శబ్దో న మిథ్యార్థ-వాచీ। ఐన్ద్ర-జాలికాదిష్వ్ అపి కేనచిద్ మన్త్రౌషధాదినా మిథ్యార్థ-విషయాయాః పారమార్థిక్యైవ బుద్ధేర్ ఉత్పాదకత్వేన మాయావీతి ప్రయోగః। తథా మన్త్రౌషధాదిర్ ఏవ చ తత్ర మాయా, సర్వ-ప్రయోగేష్వ్ అనుగతస్యైకస్య ఏవాబ్దార్థత్వాత్। తత్ర మిథ్యార్థేషు మాయా-శబ్ద-ప్రయోగో మాయా-కార్య-బుద్ధి-విషయత్వేనాఉపచారికః। మఞ్చాః క్రోశన్తీతివత్। ఏషా గుణ-మయీ పారమార్థికీ భగవన్-మాయా ఏవ--- మాయాṁ తు ప్రకృతిṁ విద్యాన్ మాయినṁ తు మహేశ్వరమ్ [శ్వే।ఉ। ౪।౧౦] ఇత్య్-ఆదిష్వ్ అభిధీయతే। అస్యాః కార్యṁ భగవత్-స్వరూప-తిరోధనṁ స్వ-స్వరూప-భోగ్యత్వ-బుద్ధిశ్ చ। అతో భగవన్-మాయయా మోహితṁ సర్వṁ జగద్ భగవన్తమ్ అనవధికాతిశయానన్ద-స్వరూపṁ నాభిజానాతి। మాయా-విమోచనోపాయామ్ ఆహ--- మామ్ ఏవ సత్య-సఙ్కల్పṁ పరమ-కారుణికమ్ అనాలోచిత-విశేషాశేష-లోక-శరణ్యṁ యే శరణṁ ప్రపద్యన్తే త ఏతాṁ మదీయాṁ గుణ-మయీṁ మాయాṁ తరన్తి। మాయామ్ ఉత్సృజ్య మామ్ ఏవ ఉపాసత ఇత్య్ అర్థః॥౭।౧౪॥
Link copiedకిమ్ ఇతి భగవద్-ఉపాసనాపాదినీṁ భగవత్-ప్రపత్తిṁ సర్వే న కుర్వన్తి। ఇత్య్ అత్రాహ---
Link copiedన మాṁ దుష్కృతినో మూఢాః ప్రపద్యన్తే నరాధమాః।
Link copiedమాయయాపహృత-జ్ఞానా ఆసురṁ భావమ్ ఆశ్రితాః॥౧౫॥
Link copiedమాṁ దుష్కృతినః పాప-కర్మాణో దుష్కృత-తారతమ్యాచ్ చతుర్-విధా న ప్రపద్యన్తే మూఢా నరాధమాః। మాయయాపహృత-జ్ఞానా ఆసురṁ భావమ్ ఆశ్రితా ఇతి। మూఢా విపరీత-జ్ఞానా పూర్వోక్త-ప్రకారేణ మత్-స్వరూపాపరిజ్ఞానాత్ ప్రాకృతేషు ఏవ విషయేషు సక్తాః పూర్వోక్త-ప్రకారేణ భగవచ్-ఛేషతైక-రసమ్ ఆత్మానṁ భోగ్య-జాతṁ చ స్వ-శేషతయా మన్యమానాః। నరాధమాః సామాన్యేన జ్ఞాతేఽపి మత్-స్వరూపే మదౌన్ముఖ్యానర్హాః। మాయయాపహృత-జ్ఞానాస్ తు మద్-విషయṁ మద్-ఐశ్వర్య-విషయṁ చ జ్ఞానṁ ప్రస్తుతṁ యేషాṁ తద్-అసమ్భావనాపాదినీభిః కూట-యుక్తిభిర్ అపహృతṁ తే తథోక్తాః। ఆసురṁ భావమ్ ఆశ్రితాస్ తు మద్-విషయṁ మద్-ఐశ్వర్య-విషయṁ చ జ్ఞానṁ సుదృఢమ్ ఉపపన్నṁ యేషాṁ ద్వేషాయైవ భవతి తే ఆసురṁ భావమ్ ఆశ్రితాః। ఉత్తరోత్తరాః పాపిష్ఠతమాః॥౭।౧౫॥
Link copiedచతుర్-విధా భజన్తే మాṁ జనాః సుకృతినోఽర్జున।
Link copiedఆర్తో జిజ్ఞాసుర్ అర్థార్థీ జ్ఞానీ చ భరతర్షభ॥౧౬॥
Link copiedసుకృతినః పుణ్య-కర్మాణో మాṁ శరణమ్ ఉపగమ్య మామ్ ఏవ భజన్తే। తే చే సుకృత-తారతమ్యేన చతుర్-విధాః। సుకృత-గరీయస్త్వేన ప్రతిపత్తి-వైశేష్యాద్ ఉత్తరోత్తరాధికతమా భవన్తి। ఆర్తః ప్రతిష్ఠా-హీనో భ్రష్టైశ్వర్యః పునస్ తత్-ప్రాప్తి-కామః। అర్హార్థీ అప్రాప్తైశ్వర్యతయా ఐశ్వర్య-కామః। తయోర్ ముఖ-భేద-మాత్రమ్, ఐశ్వర్య-విషయతయైక్యాద్ ఏక ఏవ అధికారః। జిజ్ఞాసుః ప్రకృతి-వియుక్తాత్మ-స్వరూపావాప్తీచ్ఛుః। జ్ఞానమ్ ఏవాస్య స్వరూపమ్ ఇతి జిజ్ఞాసుర్ ఇతి ఉక్తమ్। జ్ఞానీ చ ఇతస్ త్వ్ అన్యాṁ ప్రకృతిṁ విద్ధి మే పరామ్ [గీతా ౭।౫] ఇత్య్ ఆదినా అభిహిత-భగవచ్-ఛేషతైక-రసాత్మ-స్వరూప-విత్ ప్రకృతి-వియుక్త-కేవలాత్మని అపర్యవస్యన్ భగవన్తṁ ప్రేప్సుర్ భగవన్తṁ పరమ-ప్రాప్యṁ మన్వానః॥౭।౧౬॥
Link copiedతేషాṁ జ్ఞానీ నిత్య-యుక్త ఏక-భక్తిర్ విశిష్యతే।
Link copiedప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహṁ స చ మమ ప్రియః॥౧౭॥
Link copiedతేషాṁ జ్ఞానీ విశిష్యతే। కుతః। నిత్య-యుక్త ఏక-భక్తిర్ ఇతి చ। జ్ఞానినో హి మద్-ఏక-ప్రాప్యస్య మయా యోగో నిత్యః। ఇతరయోస్ తు యావత్ స్వాభిలషిత-ప్రాప్తి మయా యోగః। తథా జ్ఞానినో మయ్య్ ఏకస్మిన్ ఏవ భక్తిః। ఇతరయోస్ తు స్వాభిలషితే తత్-సాధనత్వేన మయి చ। అతః స ఏవ విశిష్యతే।
Link copiedకిṁ చ ప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహమ్। అత్రాత్యర్థ-శబ్దో అభిధేయ-వచనః। జ్ఞానినోఽహṁ యథా ప్రియః, తథా మయా సర్వజ్ఞేన సర్వ-శక్తినాప్య్ అభిధాతుṁ న శక్యతే ఇత్య్ అర్థః। ప్రియత్వస్యేయత్తా-రహితత్వాత్। యథా జ్ఞానినామ్ అగ్రేసరస్య ప్రహ్లాదస్య---
Link copiedస త్వ్ ఆసక్త-మతిః కృష్ణే దశ్య-మానో మహోరగైః।
Link copiedన వివేదాత్మనో గాత్రṁ తత్-స్మృత్య్-ఆహ్లాద-సṁస్థితః॥ [వి।పు। ౧।౧౭।౩౯]
Link copied
ఇతి సోఽపి తథా ఏవ మమ ప్రియః॥౭।౧౭॥
Link copiedఉదారాః సర్వ ఏవైతే జ్ఞానీ త్వ్ ఆత్మైవ మే మతమ్।
Link copiedఆస్థితః స హి యుక్తాత్మా మామ్ ఏవానుత్తమాṁ గతిమ్॥౧౮॥
Link copiedసర్వ ఏవైతే మామ్ ఏవోపాసతే ఇత్య్ ఉదారా వదాన్యాః। యే మత్తో యత్ కిఞ్చిద్ అపి గృహ్ణాన్తి, తే హి మమ సర్వస్వ-దాయినః। జ్ఞానీ త్వ్ ఆత్మైవ మే మతṁ తద్-ఆయత్తాత్మ-ధారణోఽహమ్ ఇతి మన్యే। కస్మాద్ ఏవమ్। యస్మాద్ అయṁ మయా వినాత్మ-ధారణాసమ్భావనయా మామ్ ఏవానుత్తమṁ ప్రాప్యమ్ ఆస్థితః। అతస్ తేన వినా మమాప్య్ ఆత్మ-ధారణṁ న సమ్భవతి। తతో మమాప్య్ ఆత్మా హి సః॥౭।౧౮॥
Link copiedనాల్ప-సఙ్ఖ్యాసఙ్ఖ్యాతానాṁ పుణ్య-జన్మనాṁ ఫలమ్ ఇదṁ యన్ మచ్-ఛేషతైక-రసాత్మ-యాథాత్మ్య-జ్ఞాన-పూర్వకṁ మత్-ప్రపదనమ్। అపి తు---
Link copiedబహూనాṁ జన్మనామ్ అన్తే జ్ఞానవాన్ మాṁ ప్రపద్యతే।
Link copiedవాసుదేవః సర్వమ్ ఇతి స మహాత్మా సుదుర్లభః॥౧౯॥
Link copiedబహూనాṁ జన్మనాṁ పుణ్య-జన్మనామ్ అన్తే అవసానే వాసుదేవ-శేషతైక-రసోఽహṁ తద్-ఆయత్త-స్వరూప-స్థితి-ప్రవృత్తిశ్ చ। స చాసఙ్ఖ్యేయైః కల్యాణ-గుణ-గణైః పరతర ఇతి జ్ఞానవాన్ భూత్వా వాసుదేవ ఏవ మమ పరమ-ప్రాప్యṁ ప్రాపకṁ చాన్యద్ అపి యన్ మనోరథ-వర్తి స ఏవ మమ తత్ సర్వమ్ ఇతి మాṁ యః ప్రపద్యతే మామ్ ఉపాస్తే। స మహాత్మా మహా-మనాః సుదుర్లభో దుర్లభతరో లోకే।
Link copiedవాసుదేవః సర్వమ్ ఇత్య్ అస్యాయమ్ ఏవార్థః। ప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహమ్ [౭।౧౭], ఆస్థితః స హి యుక్తాత్మా మామ్ ఏవానుత్తమాṁ గతిమ్ [౭।౧౮] ఇతి ప్రకమాత్। జ్ఞానవాన్ చాయమ్ ఉక్త-లక్షణ ఏవ, అస్యైవ పూర్వోక్త-జ్ఞానిత్వాత్। భూమిర్ ఆప ఇత్య్ ఆరభ్య, అహఙ్కార ఇతీయṁ మే భిన్నా ప్రకృతిర్ అష్టాధా। అపరేయమ్ ఇతస్ త్వ్ అన్యాṁ ప్రకృతిṁ విద్ధి మే పరాṁ జీవ-భూతామ్ [౭।౪, ౫] ఇతి హి చేతనాచేతనస్య ప్రకృతి-ద్వయస్య పరమ-పురుష-శేషతైక-రసతోక్త అహṁ కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా। మత్తః పరతరṁ నాన్యత్ కిఞ్చిద్ అస్తి ధనఞ్జయ [౭।౬, ౭] ఇతి ఆరభ్య, యే చైవ సాత్త్వికా భావా రాజసాస్ తామసాశ్ చ యే। మత్త ఏవేతి తాన్ విద్ధి న త్వ్ అహṁ తేషు తే మయి [౭।౧౨] ఇతి ప్రకృతి-ద్వయస్య కార్య-కారణోభయావస్థస్య పరమ-పురుషాయత్త-స్వరూప-స్థితి-ప్రవృత్తిత్వṁ పరమ-పురుషస్య చ సర్వైః ప్రకారైః సర్వస్మాత్ పరతరత్వమ్ ఉక్తమ్। అతః స ఏవ అత్ర జ్ఞానీ ఇత్య్ ఉచ్యతే॥౭।౧౯॥
Link copiedతస్య జ్ఞానినో దుర్లభత్వమ్ ఏవోపపాదయతి---
Link copiedకామైస్ తైస్ తైర్ హృత-జ్ఞానాః ప్రపద్యన్తేఽన్య-దేవతాః।
Link copiedతṁ తṁ నియమమ్ ఆస్థాయ ప్రకృత్యా నియతాః స్వయా॥౨౦॥
Link copiedసర్వ ఏవ హి లౌకికాః పురుషాః స్వయా ప్రకృత్యా పాప-వాసనయా గుణ-మయ-భావ-విషయయా నియతా నిత్యాన్వితాః। తైస్ తైః స్వ-వాసనానురూపైర్ గుణ-మయైర్ ఏవ కామైర్ ఇచ్ఛా-విషయ-భూతైర్ హృత-మత్-స్వరూప-విషయ-జ్ఞానాః। తత్-తత్-కామ-సిద్ధ్య్-అర్థమ్ అన్య-దేవతా మద్-వ్యతిరిక్తాః కేవలేన్ద్రాది-దేవతాః, తṁ తṁ నియమమ్ ఆస్థాయ తత్-తద్-దేవతా-విశేష-మాత్ర-ప్రీణనాయాసాధారణṁ నియమమ్ ఆస్థాయ ప్రపద్యన్తే తా ఏవ ఆశ్రిత్య అర్చయన్తే, న మత్-స్వరూపమ్ అభిజానన్తి॥౭।౨౦॥
Link copiedయో యో యాṁ యాṁ తనుṁ భక్తః శ్రద్ధయార్చితుమ్ ఇచ్ఛతి।
Link copiedతస్య తస్యాచలాṁ శ్రద్ధాṁ తామ్ ఏవ విదధామ్య్ అహమ్॥౨౧॥
Link copiedతా అపి దేవతా మదీయాస్ తనవః। య ఆదిత్యే తిష్ఠన్న్ ఆదిత్యాద్ అన్తరో న వేద, యస్యాదిత్యః శరీరమ్ [బృ।ఆ।ఉ। ౩।౭।౯] ఇత్య్ ఆది-శ్రుతిభిః ప్రతిపాదితా మదీయాః తనవ ఇతి అజానన్న్ అపి యో యో యాṁ యాṁ మదీయామ్ ఇన్ద్రాదికాṁ తనుṁ భక్తః శ్రద్ధయార్చితుమ్ ఇచ్ఛతి, తస్య తస్యాజానతోఽపి మత్-తను-విషయైషా శ్రద్ధా ఇత్య్ అహమ్ ఏవానుసన్ధాయ తామ్ ఏవాచలాṁ నిర్విఘ్నాṁ విదధామ్య్ అహమ్॥౭।౨౧॥
Link copiedస తయా శ్రద్ధయా యుక్తస్ తస్యా రాధనమ్ ఈహతే।
Link copiedలభతే చ తతః కామాన్ మయైవ విహితాన్ హి తాన్॥౨౨॥
Link copiedస తయా నిర్విఘ్నయా శ్రద్ధయా యుక్తస్ తస్యేన్ద్రాదేర్ ఆరాధనṁ ప్రతీహతే చేష్టతే। తతో మత్-తను-భూతేన్ద్రాది-దేవతారాధనాత్ తాన్ ఏవ హి స్వాభిలషితాన్ కామాన్ మయైవ విహితాన్ లభతే। యద్యప్య్ ఆరాధన-కాలే ఆరాధ్యేన్ద్రాదయో మదీయాస్ తనవః। తత ఏవ తద్-అర్చనṁ చ మద్-ఆరాధనమ్ ఇతి న జానాతి। తథాపి తస్య వస్తుతో మద్-ఆరాధనత్వాద్ ఆరాధకాభిలషితమ్ అహమ్ ఏవ విదధామి॥౭।౨౨॥
Link copiedఅన్తవత్ తు ఫలṁ తేషాṁ తద్ భవత్య్ అల్ప-మేధసామ్।
Link copiedదేవాన్ దేవ-యజో యాన్తి మద్-భక్తా యాన్తి మామ్ అపి॥౨౩॥
Link copiedతేషామ్ అల్ప-మేధసామ్ అల్ప-బుద్ధీనామ్ ఇన్ద్రాది-మాత్ర-యాజినాṁ తద్-ఆరాధన-ఫలṁ స్వల్పమ్ అన్తవచ్ చ భవతి। కుతః? దేవాన్ దేవ-యజో యాన్తి యత ఇన్ద్రాదీన్ దేవాన్ తద్-యాజినో యాన్తి। ఇన్ద్రాదయో హి పరిచ్ఛిన్న-భోగాః పరిమిత-కాల-వర్తినశ్ చ। తతస్ తత్-సాయుజ్యṁ ప్రాప్తాస్ తైః సహ ప్రచ్యవన్తే। మద్-భక్తా అపి తేషామ్ ఏవ కర్మణాṁ మద్-ఆరాధన-రూపతాṁ జ్ఞాత్వా పరిచ్ఛిన్న-ఫల-సఙ్గṁ త్యక్త్వా మత్-ప్రీణనైక-ప్రయోజనా మామ్ ఏవ ప్రాప్నువన్తి, న చ పునర్ నివర్తన్తే మామ్ ఉపేత్య తు కౌన్తేయ పునర్ జన్మ న విద్యతే [గీతా ౮।౧౬] ఇతి వక్ష్యతే॥౭।౨౩॥
Link copiedఇతరే తు సర్వ-సమాశ్రయణీయత్వాయ మమ మనుష్యాదిషు అవతారమ్ అపి అకిఞ్చిత్కరṁ కుర్వన్తి ఇత్యాహ---
Link copiedఅవ్యక్తṁ వ్యక్తిమ్ ఆపన్నṁ మన్యన్తే మామ్ అబుద్ధయః।
Link copiedపరṁ భావమ్ అజానన్తో మమావ్యయమ్ అనుత్తమమ్॥౨౪॥
Link copiedసర్వైః కర్మభిర్ ఆరాధ్యోఽహṁ సర్వేశ్వరో వాఙ్-మనసాపరిచ్ఛేద్య-స్వరూప-స్వభావః పరమ-కారుణ్యాద్ ఆశ్రిత-వాత్సల్యాచ్ చ సర్వ-సమాశ్రయణీయత్వాయ అజహత్-స్వభావ ఏవ వసుదేవ-సూనుర్ అవతీర్ణ ఇతి మమైవṁ పరṁ భావమ్ అవ్యయమ్ అనుత్తమమ్ అజానన్తః ప్రాకృత-రాజ-సూను-సమానమ్ ఇతః పూర్వమ్ అనభివ్యక్తమ్ ఇదానీṁ కర్మ-వశాజ్ జన్మ-విశేషṁ ప్రాప్య వ్యక్తిమ్ ఆపన్నṁ ప్రాప్తṁ మామ్ అబుద్ధయో మన్యన్తే అతో మాṁ న శ్రయన్తే, న కర్మభిర్ ఆరాధయన్తి చ॥౭।౨౪॥
Link copiedకుత ఏవṁ న ప్రకాశతే। ఇత్య్ అత్రాహ---
Link copiedనాహṁ ప్రకాశః సర్వస్య యోగ-మాయా-సమావృతః।
Link copiedమూఢోఽయṁ నాభిజానాతి లోకో మామ్ అజమ్ అవ్యయమ్॥౨౫॥
Link copiedక్షేత్రజ్ఞాసాధారణ-మనుష్యత్వాది-సṁస్థాన-యోగాఖ్య-మాయయా సమావృతోఽహṁ న సర్వస్య ప్రకాశః। మయి మనుష్యత్వాది-సṁస్థాన-దర్శన-మాత్రేణ మూఢోఽయṁ లోకో మామ్ అతి-వాయ్వ్-ఇన్ద్ర-కర్మాణమ్ అతిసూర్యాగ్ని-తేజసమ్ ఉపలభ్యమానమ్ అప్య్ అజమ్ అవ్యయṁ నిఖిల-జగద్-ఏక-కారణṁ సర్వేశ్వరṁ మాṁ సర్వ-సమాశ్రయణీయత్వాయ మనుష్యత్వ-సṁస్థానమ్ ఆస్థితṁ న అభిజానాతి॥౭।౨౫॥
Link copiedవేదాహṁ సమతీతాని వర్తమానాని చార్జున।
Link copiedభవిష్యాణి చ భూతాని మాṁ తు వేద న కశ్చన॥౨౬॥
Link copiedఅతీతాని వర్తమానాన్య్ అనాగతాని చ సర్వాణి భూతాన్య్ అహṁ వేద జానామి। మాṁ తు వేద న కశ్చన। మయానుసన్ధీయమానేషు కాల-త్రయ-వర్తిషు భూతేషు మామ్ ఏవṁ-విధṁ వాసుదేవṁ సర్వ-సమాశ్రయణీయతయావతీర్ణṁ విదిత్వా మామ్ ఏవ సమాశ్రయమ్ న కశ్చిద్ ఉపలభ్యత ఇత్య్ అర్థః। అతో జ్ఞానీ సుదర్లభ ఏవ॥౭।౨౬॥
Link copiedతథా హి---
Link copiedఇచ్ఛా-ద్వేష-సముత్థేన ద్వన్ద్వ-మోహేన భారత।
Link copiedసర్వ-భూతాని సṁమోహṁ సర్గే యాన్తి పరన్తప॥౨౭॥
Link copiedఇచ్ఛా-ద్వేషాభ్యాṁ సముత్థేన శీతోష్ణాది-ద్వన్ద్వాఖ్యేన మోహేన సర్వ-భూతాని సర్గే జన్మ-కాల ఏవ సṁమోహṁ యాన్తి। ఏతద్ ఉక్తṁ భవతి గుణ-మయేషు సుఖ-దుఃఖాది-ద్వన్ద్వేషు పూర్వ-పూర్వ-జన్మని యద్-విషయౌ ఇచ్ఛా-ద్వేషౌ రాగ-ద్వేషావ్ అభ్యస్తౌ తద్-వాసనయా పునర్ అపి జన్మ-కాల ఏవ తద్ ఏవ ద్వన్ద్వాఖ్యమ్ ఇచ్ఛా-ద్వేష-విషయత్వేన సముపస్థితṁ భూతానాṁ మోహనṁ భవతి తేన మోహేన సర్వ-భూతాని సṁమోహṁ యాన్తి, తద్-విషయేచ్ఛా-ద్వేష-స్వభావాని భవన్తి, న మత్-సṁశ్లేష-వియోగ-సుఖ-దుఃఖ-స్వభావాని। జ్ఞానీ తు మత్-సṁశ్లేష-వియోగైక-సుఖ-దుఃఖ-స్వభావః, న తత్-స్వభావṁ కిమ్ అపి భూతṁ జాయతే ఇతి॥౭।౨౭॥
Link copiedయేషాṁ త్వ్ అన్త-గతṁ పాపṁ జనానాṁ పుణ్య-కర్మణామ్।
Link copiedతే ద్వన్ద్వ-మోహ-నిర్ముక్తా భజన్తే మాṁ దృఢ-వ్రతాః॥౨౮॥
Link copiedయేషాṁ త్వ్ అనేక-జన్మార్జితేనోత్కృష్ట-పుణ్య-సఞ్చయేన గుణ-మయṁ ద్వన్ద్వేచ్ఛా-ద్వేష-హేతు-భూతṁ మద్-ఔన్ముఖ్య-విరోధి చానాది-కాల-ప్రవృత్తṁ పాపమ్ అన్త-గతṁ క్షీణṁ తే పూర్వోక్తేన సుకృత-తారతమ్యేన మాṁ శరణమ్ అనుప్రపద్య గుణ-మయాన్ మోహాద్ వినిర్ముక్తా జరా-మరణ-మోక్షాయ ప్రకృతి-వియుక్తాత్మ-స్వరూప-దర్శనాయ మహతే చైశ్వర్యాయ మత్-ప్రాప్తయే చ దృఢ-వ్రతా దృఢ-సఙ్కల్పా మామ్ ఏవ భజన్తే॥౭।౨౮॥
Link copiedఅత్ర తేషాṁ త్రయాణాṁ భగవన్తṁ భజమానానాṁ జ్ఞాతవ్య-విశేషాన్ ఉపాదేయాṁశ్ చ ప్రస్తౌతి---
Link copiedజ్అరా-మరణ-మోక్షాయ మామ్ ఆశ్రిత్య యతన్తి యే।
Link copiedతే బ్రహ్మ తద్ విదుః కృత్స్నమ్ అధ్యాత్మṁ కర్మ చాఖిలమ్॥౨౯॥
Link copiedజరా-మరణ-మోక్షాయ ప్రకృతి-వియుక్తాత్మ-స్వరూప-దర్శనాయ మామ్ ఆశ్రిత్య యే యతన్తే తే తద్ బ్రహ్మ విదుః। అధ్యాత్మṁ చ కృత్స్నṁ విదుః, కర్మ చాఖిలṁ విదుః॥౭।౨౯॥
Link copiedసాధిభూతాధిదైవṁ మాṁ సాధియజ్ఞṁ చ యే విదుః।
Link copiedప్రయాణ-కాలేఽపి చ మాṁ తే విదుర్ యుక్త-చేతసః॥౩౦॥
Link copiedఅత్ర య ఇతి పునర్-నిర్దేశాత్ పూర్వ-నిర్దిష్టేభ్యోఽన్యే అధికారిణో జ్ఞాయన్తే। సాధిభూతṁ సాధిదైవṁ మామ్ ఐశ్వర్యార్థినో యే విదుర్ ఇత్య్ ఏతద్ అనువాద-స్వరూపమ్ అపి అప్రాప్తార్థత్వాత్ తద్-విధాయకమ్ ఏవ। తథా సాధియజ్ఞమ్ ఇత్య్ అపి త్రయాణామ్ అధికారిణామ్ అవిశేషేణ విధీయతే, అర్థ-స్వాభావ్యాత్ త్రయాణాṁ హి నిత్య-నైమిత్తిక-రూప-మహా-యజ్ఞాద్య్-అనుష్ఠానమ్ అవర్జనీయమ్।
Link copiedతే చ ప్రయాణ-కాలేఽపి స్వాప్రాప్యానుగుణṁ మాṁ విదుః। తే చ ఇతి చ-కారాత్ పూర్వే జరా-మరణ-మోక్షాయ యతమానాశ్ చ ప్రయాణ-కాలేఽపి విదుః, ఇతి సముచ్చీయన్తే। అనేన జ్ఞానినోఽపి అర్థ-స్వాభావ్యాత్ సాధియజ్ఞṁ మాṁ విదుః ప్రయాణ-కాలేఽపి స్వ-ప్రాప్యానుగుణṁ మాṁ విదుర్ ఇత్య్ ఉక్తṁ భవతి॥౭।౩౦॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే సప్తమోఽధ్యాయః ॥౭॥
Link copied**
Link copiedprathamādhyāya-ṣaṭkena parama-prāpya-bhūtasya parasya brahmaṇo niravadyasya nikhila-jagad-eka-kāraṇasya sarvajñasya sarva-bhūtasya satya-saṅkalpasya mahā-vibhūteḥ śrīmato nārāyaṇasya prāpty-upāya-bhūtaṁ tad-upāsanaṁ vaktuṁ tad-aṅga-bhūtam ātma-jñāna-pūrvaka-karmānuṣṭhāna-sādhyaṁ prāptuḥ pratyag-ātmano yāthātmya-darśanam uktam| idānīṁ madhyamena ṣaṭkena para-brahma-bhūta-parama-puruṣa-svarūpaṁ tad-upāsanaṁ ca bhakti-śabda-vācyam ucyate| tad etad uttaratra---
Link copiedyataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam|
Link copiedsva-karmaṇā tam abhyarcya siddhiṁ vindati mānavaḥ|| [18.46] ity ārabhya,
Link copiedvimucya nirmamaḥ śānto brahma-bhūyāya kalpate||
Link copiedbrahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati|
Link copiedsamaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām [18.53-4] iti saṅkṣipya vakṣyate|
Link copied
upāsanaṁ tu bhakti-rūpāpannam eva parama-prāpty-upāya-bhūtam iti vedānta-vākya-siddham| tam eva viditvātimṛtyum eti [śve.u. 3.8], tam eva vidvān amṛta iha bhavati [nṛ.tā.u. 1.10.6; tai.ā. 3.1.3] ity ādinābhihitaṁ vedanam| ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ [bṛ.ā.u. 2.4.5], ātmānam eva lokam upāsīta [bṛ.ā.u. 1.4.15], sattva-śuddhau dhruvā smṛtiḥ smṛti-lambhe sarva-granthīnāṁ vipramokṣaḥ [chā.u. 7.26.2],
Link copiedbhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ|
Link copiedkṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare|| [mu.u. 2.2.8] ity ādibhir
Link copied
aikārthyāt smṛti-santāna-rūpaṁ darśana-samānākāraṁ dhyānopāsana-śabda-vācyam ity avagamyate| punaś ca,
Link copiednāyam ātmā pravacanena labhyo
Link copiedna medhayā na bahunā śrutena|
Link copiedyam evaiṣa vṛṇute tena labhyas
Link copied
tasyaiṣa ātmā vivṛṇute tanūṁ svām|| [mu.u. 3.2.3]
Link copiediti viśeṣaṇāt pareṇātmanā varaṇīyatā-hetu-bhūtaṁ smaryamāṇa-viṣayasyātyartha-priyatvena svayam apy atyartha-priya-rūpaṁ smṛti-santānam evopāsana-śabda-vācyam iti hi niścīyate| tad eva hi bhaktir ity ucyate| sneha-pūrvam anudhyānaṁ bhakti ity abhidhīyate [LaiṅgU] ity ādi vacanāt|
Link copiedataḥ tam eva vidvān amṛta iha bhavati [nṛ.tā.u. 1.10.6; tai.ā. 3.1.3], nānyaḥ panthā vidyate'nayanāya [śve.u. 3.8, 6.15; tai.ā. 3.1.3],
Link copiednāhaṁ vedair na tapasā na dānena na cejyayā|
Link copiedśakya evaṁvidho draṣṭuṁ dṛṣṭavān asi māṁ yathā||
Link copiedbhaktyā tv ananyayā śakya aham evaṁvidho'rjuna|
Link copiedjñātuṁ draṣṭuṁ ca tattvena praveṣṭuṁ ca parantapa|| [11.53-4]
Link copied
ity anayor ekārthatvaṁ siddhaṁ bhavati| tatra saptame tāvad upāsya-bhūta-parama-puruṣa-svarūpa-yāthātmyaṁ, prakṛtyā tat tirodhānaṁ, tan-nivṛttaye bhagavat-prapattiḥ| upāsaka-vidhābhedaḥ| jñāninaḥ śraiṣṭhyaṁ cocyate|
Link copiedśrī-bhagavān uvāca
Link copiedmayy āsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ|
Link copiedasaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tac chṛṇu||1||
Link copiedmayy ābhimukhyena āsakta-manāḥ mat-priyatvātirekeṇa mat-svarūpeṇa guṇaiś ca ceṣṭitena mad-vibhūtyā viśleṣe sati tat-kṣaṇād eva viśīryamāṇa-svabhāvatayā mayi sugāḍhaṁ baddha-manāḥ, mad-āśrayas tathā svayaṁ ca mayā vinā viśīryamāṇatayā mad-āśrayo mad-ekādhāraḥ, mad-yogaṁ yuñjan yoktuṁ pravṛtto yoga-viṣaya-bhūtaṁ mām asaṁśayaṁ niḥsaṁśayaṁ samagraṁ sakalaṁ yathā jñāsyasi yena jñānenoktena jñāsyasi, tad jñānam avahita-manāḥ sṛṇu||7.1||
Link copiedjñānaṁ te'haṁ sa-vijñānam idaṁ vakṣyāmy aśeṣataḥ|
Link copiedyaj jñātvā neha bhūyo'nyaj jñātavyam avaśiṣyate||2||
Link copiedahaṁ te mad-viṣayam idaṁ jñānaṁ vijñānena sahāśeṣato vakṣyāmi| vijñānaṁ hi viviktākāra-viṣayaṁ jñānam, yathāhaṁ mad-vyatiriktāt samasta-cid-acid-vastu-jātāt nikhila-heya-pratyanīkatayā nānā-vidhānavadhikātiśayā-sakhyekalyāṇa-guṇa-gaṇānantamahāvibhūtitayā ca vivikta tena vivikta-viṣaya-jñānena saha mat-svarūpa-viṣaya-jñānaṁ vakṣyāmi| kiṁ bahunā yad jñānaṁ jñātvā mayi punar anyad jñātavyaṁ nāvaśiṣyate||7.2||
Link copiedvakṣyamāṇasya jñānasya duṣprāpatām āha---
Link copiedmanuṣyāṇāṁ sahasreṣu kaś cid yatati siddhaye|
Link copiedyatatām api siddhānāṁ kaś cin māṁ vetti tattvataḥ||3||
Link copiedmanuṣyāḥ śāstrādhikāra-yogyās teṣāṁ sahasreṣu kacid eva siddhi-paryantaṁ yatate| siddhi-paryantaṁ yatamānānāṁ sahasreṣu kaścid eva māṁ viditvā mattaḥ siddhaye yatate| mad-vidāṁ sahasreṣu tattvato yathāvat sthitaṁ māṁ vetti na kaścid ity abhiprāyaḥ| sa mahātmā sudurlabhaḥ [7.19] māṁ tu veda na kaścana [7.26] iti hi vakṣyate||7.3||
Link copiedbhūmir āpo'nalo vāyuḥ khaṁ mano buddhir eva ca|
Link copiedahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭadhā||4||
Link copiedasya vicitrānanda-bhogya-bhogopakaraṇa-bhoga-sthāna-rūpeṇāvasthitasya jagataḥ prakṛtir iyaṁ gandhādi-guṇaka-pṛthivy-ap-tejo-vāyv-ākāśādi-rūpeṇa manaḥ-prabhṛtīndriya-rūpeṇa ca mahad-aṅkāra-rūpeṇa cāṣṭadhā bhinnā madīyā iti viddhi||7.4||
Link copiedapareyam itas tv anyāṁ prakṛtiṁ viddhi me parām|
Link copiedjīva-bhūtāṁ mahābāho yayedaṁ dhāryate jagat||5||
Link copiediyaṁ mamāparā prakṛtiḥ| itas tv anyām ito'cetanāyāś cetana-bhogya-bhūtāyāḥ prakṛteḥ visajātīyākārāṁ jīva-bhūtāṁ paraṁ tasyā bhoktṛtvena pradhāna-bhūtāṁ cetana-rūpāṁ madīyāṁ prakṛtiṁ viddhi yayedam acetanaṁ kṛtsnaṁ jagad dhāryate||7.5||
Link copiedetad-yonīni bhūtāni sarvāṇīty upadhāraya|
Link copiedahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā||6||
Link copiedetac cetanācetana-samaṣṭi-rūpa-madīya-prakṛti-dvaya-yonīni brahmādi-stamba-paryantāny uccāvaca-bhāvenāvasthitāni cid-acin-miśrāṇi sarvāṇi bhūtāni madīyānīty upadhāraya| madīya-prakṛti-dvaya-yonīni hi tāni madīyāny eva| tathā prakṛti-dvaya-yonitvena kṛtsnasya jagataḥ, tayor dvayor api mad-yonitvena madīyatvena ca kṛtsnasya jagato'ham eva prabhavaḥ, aham eva pralayaḥ, aham eva ca śeṣīty upadhāraya| tayoś cid-acit-samaṣṭi-bhūtayoḥ prakṛti-puruṣayor api parama-puruṣa-yonitvaṁ śruti-smṛti-siddham| mahān avyakte līyate 'vyaktam akṣare'kṣaraṁ tamasi līyate tamaḥ pare deve ekībhavati [su.u. 2] viṣṇoḥ svarūpāt paratodite dve rūpe pradhānaṁ puruṣaś ca [vi.pu. 1.2.24],
Link copiedprakṛtir yā mayā khyātā vyaktāvyakta-svarūpiṇī|
Link copiedpuruṣaś cāpy ubhāv etau līyete paramātmanī||
Link copiedparamātmā ca sarveṣām ādhāraḥ parameśvaraḥ|
Link copiedviṣṇunāmā sa vedeṣu vedānteṣu ca gīyate|| [vi.pu. 6.4.38-9]
Link copied
ity-ādikā hi śruti-smṛtayaḥ||7.6||
Link copiedmattaḥ parataraṁ nānyat kiñcid asti dhanañjaya|
Link copiedmayi sarvam idaṁ protaṁ sūtre maṇigaṇā iva||7||
Link copiedyathā sarva-kāraṇasyāpi prakṛti-dvayasya kāraṇatvena sarvācetana-vastu-śeṣiṇaś cetanasyāpi śeṣitvena kāraṇatayā śeṣitayā cāhaṁ parataraḥ, tathā jñāna-śakti-balādi-guṇa-yogena cāham eva parataraḥ| matto'nyan mad-vyatiriktaṁ jñāna-balādi-guṇāntara-yogi kiñcid api parataraṁ nāsti| sarvam idaṁ cid-acid-vastu-jātaṁ kāryāvasthaṁ kāraṇāvasthaṁ ca mac-charīra-bhūtaṁ sūtre maṇi-gaṇavad ātmatayā avasthite mayi protam āśritam| yasya pṛthivī śarīram [bṛ.ā.u. 3.7.3] yasyātmā śarīram [bṛ.ā.u. 3.7.22] eṣa sarva-bhūtāntarātmāpahata-pāpmā, divyo deva eko nārāyaṇaḥ [su.u. 7] ity ātma-śarīra-bhāvenāvasthānam ca jagad-brahmaṇor antaryāmi-brāhmaṇādiṣu siddham||7.7||
Link copiedataḥ sarvasya parama-puruṣa-śarīratvena ātma-bhūta-parama-puruṣa-prakāratvāt sarva-prakāraḥ parama-puruṣa evāvasthita iti sarvaiḥ śabdais tasya evābhidhānam iti tat-tat-sāmānādhikaraṇyenāha raso'ham iti caturbhiḥ---
Link copiedraso'ham apsu kaunteya prabhāsmi śaśi-sūryayoḥ|
Link copiedpraṇavaḥ sarva-vedeṣu śabdaḥ khe pauruṣaṁ nṛṣu||8||
Link copiedgandhaḥ pṛthivyāṁ ca tejaś cāsmi vibhāvasau|
Link copiedjīvanaṁ sarva-bhūteṣu tapaś cāsmi tapasviṣu||9||
Link copiedbījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam|
Link copiedbuddhir buddhimatām asmi tejas tejasvinām aham||10||
Link copiedbalaṁ balavatāṁ cāhaṁ kāma-rāga-vivarjitam|
Link copieddharmāviruddho bhūteṣu kāmo'smi bharatarṣabha||11||
Link copiedete sarve vilakṣaṇā bhāvā matta eva utpannāḥ mac-cheṣa-bhūtā mac-charīratayā mayy evāvasthitāḥ| atas tat-prakāro'ham evāvasthitaḥ||7.8-11||
Link copiedye caiva sāttvikā bhāvā rājasās tāmasāś ca ye|
Link copiedmatta eveti tān viddhi na tv ahaṁ teṣu te mayi||12||
Link copiedkiṁ viśiṣyābhidhīyate| sāttvikā rājasās tāmasāś ca jagati dehatvenendriyatvena bhogyatvena tat-tad-dhetutvena cāvasthitā ye bhāvās tān sarvān matta eva utpannān viddhi| te mac-charīratayā mayy evāvasthitā iti ca| na tv ahaṁ teṣu nāhaṁ kadācid api tad-āyatta-sthitiḥ| anyatrātmāyatta-sthititve'py śarīrasya śarīreṇātmanaḥ sthitav apy upakāro vidyate| mama tu tair na kaścit tathā-vidha upakāraḥ| kevala-līlaiva prayojanam ity arthaḥ||7.12||
Link copiedtribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat|
Link copiedmohitaṁ nābhijānāti mām ebhyaḥ param avyayam||13||
Link copiedtad evaṁ cetanācetanātmakaṁ kṛtsnaṁ jagan madīyaṁ kāle kāle matta evotpadyate| mayi ca pralīyate| mayy evāvasthitaṁ mac-charīra-bhūtaṁ mad-ātmakaṁ ca, ity aham eva kāryāvasthāyāṁ kāraṇāvasthāyāṁ ca sarva-śarīratayā sarva-prakāro'vasthitaḥ| ataḥ kāraṇatvena śeṣitvena ca jñānādy-asaṅkhyeya-kalyāṇa-guṇa-gaṇaiś cāham eva sarvaiḥ prakāraiḥ parataraḥ| matto'nyat kenāpi kalyāṇa-guṇa-gaṇena parataraṁ na vidyate| evaṁ-bhūtaṁ māṁ tribhyaḥ sāttvika-rājasa-tāmasa-guṇa-mayebhyo bhāvebhyaḥ paraṁ mad-asādhāraṇaiḥ kalyāṇa-guṇa-gaṇais tat-tad-bhogyatā-prakāraiś ca param utkṛṣṭatamam avyayaṁ sadaika-rūpam api tair eva tribhir guṇa-mayair nihīnataraiḥ kṣaṇa-vidhvaṁsibhiḥ pūrva-karmānuguṇa-dehendriya-bhāgyatvenāvasthitaiḥ padārthaiḥ mohitaṁ deva-tiryaṅ-manuṣya-sthāvarātmanāvasthitam idaṁ jagan nābhijānāti||7.13||
Link copiedkathaṁ svata evānavadhikātiśayānande nitye sadaika-rūpe laukika-vastu-bhogyatā-prakāraiś cotkṛṣṭatame tvayi sthite'py atyanta-nihīneṣu guṇa-mayeṣv asthireṣu bhāveṣu sarvasya bhoktṛ-vargasya bhogyatva-buddhir upajāyate| ity atrāha---
Link copieddaivī hy eṣā guṇa-mayī mama māyā duratyayā|
Link copiedmām eva ye prapadyante māyām etāṁ taranti te||14||
Link copiedmamaiṣā guṇa-mayī sattva-rajas-tamo-mayī māyā yasmād daivī devena krīḍā-pravṛttena mayaiva nirmatā tasmāt sarvair duratyayā duratikramā| asyāḥ māyā-śabda-vācyatvam āsura-rākṣasāstrādīnām iva vicitra-kārya-karatvena| yathā ca---
Link copiedtato bhagavatā tasya rakṣārthaṁ cakram uttamam|
Link copiedājagāma samājñaptaṁ jvālā-māli saudarśinam||
Link copiedtena māyā-sahasrāṁ tac chambarasyāśu-gāminā|
Link copiedbālasya rakṣatā deham ekaikāṁśena sūditam|| [vi.pu. 1.19.19-20] ity ādau|
Link copied
ato māyā-śabdo na mithyārtha-vācī| aindra-jālikādiṣv api kenacid mantrauṣadhādinā mithyārtha-viṣayāyāḥ pāramārthikyaiva buddher utpādakatvena māyāvīti prayogaḥ| tathā mantrauṣadhādir eva ca tatra māyā, sarva-prayogeṣv anugatasyaikasya evābdārthatvāt| tatra mithyārtheṣu māyā-śabda-prayogo māyā-kārya-buddhi-viṣayatvenāupacārikaḥ| mañcāḥ krośantītivat| eṣā guṇa-mayī pāramārthikī bhagavan-māyā eva--- māyāṁ tu prakṛtiṁ vidyān māyinaṁ tu maheśvaram [śve.u. 4.10] ity-ādiṣv abhidhīyate| asyāḥ kāryaṁ bhagavat-svarūpa-tirodhanaṁ sva-svarūpa-bhogyatva-buddhiś ca| ato bhagavan-māyayā mohitaṁ sarvaṁ jagad bhagavantam anavadhikātiśayānanda-svarūpaṁ nābhijānāti| māyā-vimocanopāyām āha--- mām eva satya-saṅkalpaṁ parama-kāruṇikam anālocita-viśeṣāśeṣa-loka-śaraṇyaṁ ye śaraṇaṁ prapadyante ta etāṁ madīyāṁ guṇa-mayīṁ māyāṁ taranti| māyām utsṛjya mām eva upāsata ity arthaḥ||7.14||
Link copiedkim iti bhagavad-upāsanāpādinīṁ bhagavat-prapattiṁ sarve na kurvanti| ity atrāha---
Link copiedna māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ|
Link copiedmāyayāpahṛta-jñānā āsuraṁ bhāvam āśritāḥ||15||
Link copiedmāṁ duṣkṛtinaḥ pāpa-karmāṇo duṣkṛta-tāratamyāc catur-vidhā na prapadyante mūḍhā narādhamāḥ| māyayāpahṛta-jñānā āsuraṁ bhāvam āśritā iti| mūḍhā viparīta-jñānā pūrvokta-prakāreṇa mat-svarūpāparijñānāt prākṛteṣu eva viṣayeṣu saktāḥ pūrvokta-prakāreṇa bhagavac-cheṣataika-rasam ātmānaṁ bhogya-jātaṁ ca sva-śeṣatayā manyamānāḥ| narādhamāḥ sāmānyena jñāte'pi mat-svarūpe madaunmukhyānarhāḥ| māyayāpahṛta-jñānās tu mad-viṣayaṁ mad-aiśvarya-viṣayaṁ ca jñānaṁ prastutaṁ yeṣāṁ tad-asambhāvanāpādinībhiḥ kūṭa-yuktibhir apahṛtaṁ te tathoktāḥ| āsuraṁ bhāvam āśritās tu mad-viṣayaṁ mad-aiśvarya-viṣayaṁ ca jñānaṁ sudṛḍham upapannaṁ yeṣāṁ dveṣāyaiva bhavati te āsuraṁ bhāvam āśritāḥ| uttarottarāḥ pāpiṣṭhatamāḥ||7.15||
Link copiedcatur-vidhā bhajante māṁ janāḥ sukṛtino'rjuna|
Link copiedārto jijñāsur arthārthī jñānī ca bharatarṣabha||16||
Link copiedsukṛtinaḥ puṇya-karmāṇo māṁ śaraṇam upagamya mām eva bhajante| te ce sukṛta-tāratamyena catur-vidhāḥ| sukṛta-garīyastvena pratipatti-vaiśeṣyād uttarottarādhikatamā bhavanti| ārtaḥ pratiṣṭhā-hīno bhraṣṭaiśvaryaḥ punas tat-prāpti-kāmaḥ| arhārthī aprāptaiśvaryatayā aiśvarya-kāmaḥ| tayor mukha-bheda-mātram, aiśvarya-viṣayatayaikyād eka eva adhikāraḥ| jijñāsuḥ prakṛti-viyuktātma-svarūpāvāptīcchuḥ| jñānam evāsya svarūpam iti jijñāsur iti uktam| jñānī ca itas tv anyāṁ prakṛtiṁ viddhi me parām [gītā 7.5] ity ādinā abhihita-bhagavac-cheṣataika-rasātma-svarūpa-vit prakṛti-viyukta-kevalātmani aparyavasyan bhagavantaṁ prepsur bhagavantaṁ parama-prāpyaṁ manvānaḥ||7.16||
Link copiedteṣāṁ jñānī nitya-yukta eka-bhaktir viśiṣyate|
Link copiedpriyo hi jñānino'tyartham ahaṁ sa ca mama priyaḥ||17||
Link copiedteṣāṁ jñānī viśiṣyate| kutaḥ| nitya-yukta eka-bhaktir iti ca| jñānino hi mad-eka-prāpyasya mayā yogo nityaḥ| itarayos tu yāvat svābhilaṣita-prāpti mayā yogaḥ| tathā jñānino mayy ekasmin eva bhaktiḥ| itarayos tu svābhilaṣite tat-sādhanatvena mayi ca| ataḥ sa eva viśiṣyate|
Link copiedkiṁ ca priyo hi jñānino'tyartham aham| atrātyartha-śabdo abhidheya-vacanaḥ| jñānino'haṁ yathā priyaḥ, tathā mayā sarvajñena sarva-śaktināpy abhidhātuṁ na śakyate ity arthaḥ| priyatvasyeyattā-rahitatvāt| yathā jñāninām agresarasya prahlādasya---
Link copiedsa tv āsakta-matiḥ kṛṣṇe daśya-māno mahoragaiḥ|
Link copiedna vivedātmano gātraṁ tat-smṛty-āhlāda-saṁsthitaḥ|| [vi.pu. 1.17.39]
Link copied
iti so'pi tathā eva mama priyaḥ||7.17||
Link copiedudārāḥ sarva evaite jñānī tv ātmaiva me matam|
Link copiedāsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim||18||
Link copiedsarva evaite mām evopāsate ity udārā vadānyāḥ| ye matto yat kiñcid api gṛhṇānti, te hi mama sarvasva-dāyinaḥ| jñānī tv ātmaiva me mataṁ tad-āyattātma-dhāraṇo'ham iti manye| kasmād evam| yasmād ayaṁ mayā vinātma-dhāraṇāsambhāvanayā mām evānuttamaṁ prāpyam āsthitaḥ| atas tena vinā mamāpy ātma-dhāraṇaṁ na sambhavati| tato mamāpy ātmā hi saḥ||7.18||
Link copiednālpa-saṅkhyāsaṅkhyātānāṁ puṇya-janmanāṁ phalam idaṁ yan mac-cheṣataika-rasātma-yāthātmya-jñāna-pūrvakaṁ mat-prapadanam| api tu---
Link copiedbahūnāṁ janmanām ante jñānavān māṁ prapadyate|
Link copiedvāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ||19||
Link copiedbahūnāṁ janmanāṁ puṇya-janmanām ante avasāne vāsudeva-śeṣataika-raso'haṁ tad-āyatta-svarūpa-sthiti-pravṛttiś ca| sa cāsaṅkhyeyaiḥ kalyāṇa-guṇa-gaṇaiḥ paratara iti jñānavān bhūtvā vāsudeva eva mama parama-prāpyaṁ prāpakaṁ cānyad api yan manoratha-varti sa eva mama tat sarvam iti māṁ yaḥ prapadyate mām upāste| sa mahātmā mahā-manāḥ sudurlabho durlabhataro loke|
Link copiedvāsudevaḥ sarvam ity asyāyam evārthaḥ| priyo hi jñānino'tyartham aham [7.17], āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim [7.18] iti prakamāt| jñānavān cāyam ukta-lakṣaṇa eva, asyaiva pūrvokta-jñānitvāt| bhūmir āpa ity ārabhya, ahaṅkāra itīyaṁ me bhinnā prakṛtir aṣṭādhā| apareyam itas tv anyāṁ prakṛtiṁ viddhi me parāṁ jīva-bhūtām [7.4, 5] iti hi cetanācetanasya prakṛti-dvayasya parama-puruṣa-śeṣataika-rasatokta ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā| mattaḥ parataraṁ nānyat kiñcid asti dhanañjaya [7.6, 7] iti ārabhya, ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye| matta eveti tān viddhi na tv ahaṁ teṣu te mayi [7.12] iti prakṛti-dvayasya kārya-kāraṇobhayāvasthasya parama-puruṣāyatta-svarūpa-sthiti-pravṛttitvaṁ parama-puruṣasya ca sarvaiḥ prakāraiḥ sarvasmāt parataratvam uktam| ataḥ sa eva atra jñānī ity ucyate||7.19||
Link copiedtasya jñānino durlabhatvam evopapādayati---
Link copiedkāmais tais tair hṛta-jñānāḥ prapadyante'nya-devatāḥ|
Link copiedtaṁ taṁ niyamam āsthāya prakṛtyā niyatāḥ svayā||20||
Link copiedsarva eva hi laukikāḥ puruṣāḥ svayā prakṛtyā pāpa-vāsanayā guṇa-maya-bhāva-viṣayayā niyatā nityānvitāḥ| tais taiḥ sva-vāsanānurūpair guṇa-mayair eva kāmair icchā-viṣaya-bhūtair hṛta-mat-svarūpa-viṣaya-jñānāḥ| tat-tat-kāma-siddhy-artham anya-devatā mad-vyatiriktāḥ kevalendrādi-devatāḥ, taṁ taṁ niyamam āsthāya tat-tad-devatā-viśeṣa-mātra-prīṇanāyāsādhāraṇaṁ niyamam āsthāya prapadyante tā eva āśritya arcayante, na mat-svarūpam abhijānanti||7.20||
Link copiedyo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati|
Link copiedtasya tasyācalāṁ śraddhāṁ tām eva vidadhāmy aham||21||
Link copiedtā api devatā madīyās tanavaḥ| ya āditye tiṣṭhann ādityād antaro na veda, yasyādityaḥ śarīram [bṛ.ā.u. 3.7.9] ity ādi-śrutibhiḥ pratipāditā madīyāḥ tanava iti ajānann api yo yo yāṁ yāṁ madīyām indrādikāṁ tanuṁ bhaktaḥ śraddhayārcitum icchati, tasya tasyājānato'pi mat-tanu-viṣayaiṣā śraddhā ity aham evānusandhāya tām evācalāṁ nirvighnāṁ vidadhāmy aham||7.21||
Link copiedsa tayā śraddhayā yuktas tasyā rādhanam īhate|
Link copiedlabhate ca tataḥ kāmān mayaiva vihitān hi tān||22||
Link copiedsa tayā nirvighnayā śraddhayā yuktas tasyendrāder ārādhanaṁ pratīhate ceṣṭate| tato mat-tanu-bhūtendrādi-devatārādhanāt tān eva hi svābhilaṣitān kāmān mayaiva vihitān labhate| yadyapy ārādhana-kāle ārādhyendrādayo madīyās tanavaḥ| tata eva tad-arcanaṁ ca mad-ārādhanam iti na jānāti| tathāpi tasya vastuto mad-ārādhanatvād ārādhakābhilaṣitam aham eva vidadhāmi||7.22||
Link copiedantavat tu phalaṁ teṣāṁ tad bhavaty alpa-medhasām|
Link copieddevān deva-yajo yānti mad-bhaktā yānti mām api||23||
Link copiedteṣām alpa-medhasām alpa-buddhīnām indrādi-mātra-yājināṁ tad-ārādhana-phalaṁ svalpam antavac ca bhavati| kutaḥ? devān deva-yajo yānti yata indrādīn devān tad-yājino yānti| indrādayo hi paricchinna-bhogāḥ parimita-kāla-vartinaś ca| tatas tat-sāyujyaṁ prāptās taiḥ saha pracyavante| mad-bhaktā api teṣām eva karmaṇāṁ mad-ārādhana-rūpatāṁ jñātvā paricchinna-phala-saṅgaṁ tyaktvā mat-prīṇanaika-prayojanā mām eva prāpnuvanti, na ca punar nivartante mām upetya tu kaunteya punar janma na vidyate [gītā 8.16] iti vakṣyate||7.23||
Link copieditare tu sarva-samāśrayaṇīyatvāya mama manuṣyādiṣu avatāram api akiñcitkaraṁ kurvanti ityāha---
Link copiedavyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ|
Link copiedparaṁ bhāvam ajānanto mamāvyayam anuttamam||24||
Link copiedsarvaiḥ karmabhir ārādhyo'haṁ sarveśvaro vāṅ-manasāparicchedya-svarūpa-svabhāvaḥ parama-kāruṇyād āśrita-vātsalyāc ca sarva-samāśrayaṇīyatvāya ajahat-svabhāva eva vasudeva-sūnur avatīrṇa iti mamaivaṁ paraṁ bhāvam avyayam anuttamam ajānantaḥ prākṛta-rāja-sūnu-samānam itaḥ pūrvam anabhivyaktam idānīṁ karma-vaśāj janma-viśeṣaṁ prāpya vyaktim āpannaṁ prāptaṁ mām abuddhayo manyante ato māṁ na śrayante, na karmabhir ārādhayanti ca||7.24||
Link copiedkuta evaṁ na prakāśate| ity atrāha---
Link copiednāhaṁ prakāśaḥ sarvasya yoga-māyā-samāvṛtaḥ|
Link copiedmūḍho'yaṁ nābhijānāti loko mām ajam avyayam||25||
Link copiedkṣetrajñāsādhāraṇa-manuṣyatvādi-saṁsthāna-yogākhya-māyayā samāvṛto'haṁ na sarvasya prakāśaḥ| mayi manuṣyatvādi-saṁsthāna-darśana-mātreṇa mūḍho'yaṁ loko mām ati-vāyv-indra-karmāṇam atisūryāgni-tejasam upalabhyamānam apy ajam avyayaṁ nikhila-jagad-eka-kāraṇaṁ sarveśvaraṁ māṁ sarva-samāśrayaṇīyatvāya manuṣyatva-saṁsthānam āsthitaṁ na abhijānāti||7.25||
Link copiedvedāhaṁ samatītāni vartamānāni cārjuna|
Link copiedbhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana||26||
Link copiedatītāni vartamānāny anāgatāni ca sarvāṇi bhūtāny ahaṁ veda jānāmi| māṁ tu veda na kaścana| mayānusandhīyamāneṣu kāla-traya-vartiṣu bhūteṣu mām evaṁ-vidhaṁ vāsudevaṁ sarva-samāśrayaṇīyatayāvatīrṇaṁ viditvā mām eva samāśrayam na kaścid upalabhyata ity arthaḥ| ato jñānī sudarlabha eva||7.26||
Link copiedtathā hi---
Link copiedicchā-dveṣa-samutthena dvandva-mohena bhārata|
Link copiedsarva-bhūtāni saṁmohaṁ sarge yānti parantapa||27||
Link copiedicchā-dveṣābhyāṁ samutthena śītoṣṇādi-dvandvākhyena mohena sarva-bhūtāni sarge janma-kāla eva saṁmohaṁ yānti| etad uktaṁ bhavati guṇa-mayeṣu sukha-duḥkhādi-dvandveṣu pūrva-pūrva-janmani yad-viṣayau icchā-dveṣau rāga-dveṣāv abhyastau tad-vāsanayā punar api janma-kāla eva tad eva dvandvākhyam icchā-dveṣa-viṣayatvena samupasthitaṁ bhūtānāṁ mohanaṁ bhavati tena mohena sarva-bhūtāni saṁmohaṁ yānti, tad-viṣayecchā-dveṣa-svabhāvāni bhavanti, na mat-saṁśleṣa-viyoga-sukha-duḥkha-svabhāvāni| jñānī tu mat-saṁśleṣa-viyogaika-sukha-duḥkha-svabhāvaḥ, na tat-svabhāvaṁ kim api bhūtaṁ jāyate iti||7.27||
Link copiedyeṣāṁ tv anta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām|
Link copiedte dvandva-moha-nirmuktā bhajante māṁ dṛḍha-vratāḥ||28||
Link copiedyeṣāṁ tv aneka-janmārjitenotkṛṣṭa-puṇya-sañcayena guṇa-mayaṁ dvandvecchā-dveṣa-hetu-bhūtaṁ mad-aunmukhya-virodhi cānādi-kāla-pravṛttaṁ pāpam anta-gataṁ kṣīṇaṁ te pūrvoktena sukṛta-tāratamyena māṁ śaraṇam anuprapadya guṇa-mayān mohād vinirmuktā jarā-maraṇa-mokṣāya prakṛti-viyuktātma-svarūpa-darśanāya mahate caiśvaryāya mat-prāptaye ca dṛḍha-vratā dṛḍha-saṅkalpā mām eva bhajante||7.28||
Link copiedatra teṣāṁ trayāṇāṁ bhagavantaṁ bhajamānānāṁ jñātavya-viśeṣān upādeyāṁś ca prastauti---
Link copiedjarā-maraṇa-mokṣāya mām āśritya yatanti ye|
Link copiedte brahma tad viduḥ kṛtsnam adhyātmaṁ karma cākhilam||29||
Link copiedjarā-maraṇa-mokṣāya prakṛti-viyuktātma-svarūpa-darśanāya mām āśritya ye yatante te tad brahma viduḥ| adhyātmaṁ ca kṛtsnaṁ viduḥ, karma cākhilaṁ viduḥ||7.29||
Link copiedsādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ|
Link copiedprayāṇa-kāle'pi ca māṁ te vidur yukta-cetasaḥ||30||
Link copiedatra ya iti punar-nirdeśāt pūrva-nirdiṣṭebhyo'nye adhikāriṇo jñāyante| sādhibhūtaṁ sādhidaivaṁ mām aiśvaryārthino ye vidur ity etad anuvāda-svarūpam api aprāptārthatvāt tad-vidhāyakam eva| tathā sādhiyajñam ity api trayāṇām adhikāriṇām aviśeṣeṇa vidhīyate, artha-svābhāvyāt trayāṇāṁ hi nitya-naimittika-rūpa-mahā-yajñādy-anuṣṭhānam avarjanīyam|
Link copiedte ca prayāṇa-kāle'pi svāprāpyānuguṇaṁ māṁ viduḥ| te ca iti ca-kārāt pūrve jarā-maraṇa-mokṣāya yatamānāś ca prayāṇa-kāle'pi viduḥ, iti samuccīyante| anena jñānino'pi artha-svābhāvyāt sādhiyajñaṁ māṁ viduḥ prayāṇa-kāle'pi sva-prāpyānuguṇaṁ māṁ vidur ity uktaṁ bhavati||7.30||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye saptamo'dhyāyaḥ ||7||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 7 — The Supreme Saintly Wisdom (in Sanskrit: Paramahaṁsa-Vijñāna-Yoga)
With this chapter, the Gita turns from the first six chapters (which taught the path of self-realization through disciplined action) to the middle six chapters (VII–XII), whose theme is the nature of the Supreme Person, Śriman Nārāyaṇa, and the way of loving meditation upon Him called upāsana or bhakti (devotion). Bhagavad Ramanuja opens by reminding us that devotion — constant, loving, ecstatic remembrance of God — is the path that makes the Divine descend to the devotee.
Link copiedVerses 1–3 (The rarity of true knowledge of God)
Verse 7.1. — "Hear, Partha, how, with your mind attached to Me, practicing bhakti-yoga and taking refuge in Me, you shall know Me fully and without doubt."
Link copiedTo have one's mind attached to the Lord means that the mind is so impassioned by love that even a moment's separation from Him, or a moment's forgetfulness of His attributes, deeds, or glorious universal estate, would imperil one's very existence. To take refuge in Him is to rely on Him as the sole Prop without which one could not stand. Sri Krishna now promises to disclose, to one so disposed, what He is in His total perfection.
Link copiedVerse 7.2. — "I shall declare to you, in full, this jñāna (wisdom) together with vijñāna (discriminating wisdom), knowing which nothing more here remains to be known."
Link copiedJñāna is the general wisdom concerning the Lord's manifested nature. Vijñāna is the discriminating wisdom that distinguishes Him from everything animate and inanimate, for He is the Opposite of all evil, the Master of universal estate, the possessor of countless blessed attributes.
Link copiedVerse 7.3. — "Among thousands of men, scarcely one strives for perfection; among those who strive and succeed, scarcely one knows Me in truth."
Link copiedOf the many who follow scriptural injunctions, few persevere to the end. Of those, fewer still understand and work through the Lord. Of those who know Him, only rarely does one know Him as He truly is.
Link copiedVerses 4–7 (The two Natures of the Lord and His ensouling of the cosmos)
Verse 7.4. — "Earth, water, fire, air, space, mind (manas), intellect (buddhi), and egoism (ahaṁkāra) — this is My Nature divided eightfold."
Link copiedThis is the primal matter-stuff (mūla-prakṛti), the womb of this infinite and marvelous universe, serving sentient souls as objects of enjoyment, instruments, and regions of enjoyment. It belongs to the Lord.
Link copiedVerse 7.5. — "But this is My lower Nature. Know My other, higher Nature, the living soul (jīva), by which, O Strong-armed, this universe is sustained."
Link copiedThe higher Nature is the conscious, intelligent living substance — the class of souls — distinct from inert matter. The lower Nature contributes to the enjoyment of the higher. Both are the Lord's; the soul ensouls and sustains the lifeless world.
Link copiedVerse 7.6. — "Understand, all beings have these two Natures as their womb. And I am the Origin as well as the End of the whole cosmos."
Link copiedFrom this dual Nature — sentient (cit) and insentient (acit) — all things, from Brahmā down to a blade of grass, take form as compounds of spirit and matter. The Lord is the womb of the womb, the ultimate Cause, the Projector and the Retractor of all.
Link copiedVerse 7.6½. — "Nothing whatsoever is higher than I, Dhanañjaya."
Link copiedAs the Cause of the cause of all, as Lord of the compound of sentient and insentient, as possessor of wisdom, power, energy, and all blessed attributes, nothing is above Him, nothing separate from Him.
Link copiedVerse 7.7. — "Like a row of gems strung on a string, all this is threaded by Me."
Link copiedThe whole cosmos — the aggregate of souls and matter — constitutes His body. All things depend on Him as body depends on soul. He is their Soul; they are His body. Upanishadic texts declare that of Him, earth is body, water is body, soul itself is body. Therefore all terms ultimately refer to Him — the substance of which everything else is a mode.
Link copiedVerses 8–11 (The Lord as the essence of all things)
Verse 7.8. — "I am the savor in water, O Kaunteya; the light in the moon and the sun; the sacred syllable (praṇava) in all the Vedas; the sound in space; the manhood in men."
Link copiedVerse 7.9. — "The fragrance in the earth, the brilliance in fire, the life in all beings, and the austerity of the austere — I am."
Link copiedVerse 7.10. — "Know Me, O Partha, as the primeval Seed of all beings. I am the wisdom of the wise and the lustre of the illustrious."
Link copiedVerse 7.11. — "I am the strength of the strong, divorced of lust and love. And I am desire which is not contrary to dharma, O Chief of Bharatas."
Link copiedAll these distinguishing qualities spring from Him alone; they are His belongings, they constitute His body, they ever abide in Him. Therefore He is the sole Existence, and all things stand to Him as predicates to a substance.
Link copiedVerses 12–14 (The three guṇas and the mystery of divine māyā)
Verse 7.12. — "Whatever things are of the qualities sāttvika, rājasa, and tāmasa — know, they all come from Me alone. But I am not in them; they are in Me."
Link copiedAll the qualities that combine to form bodies, senses, and objects of enjoyment emanate from Him and constitute His body. Yet He is not dependent on them. Others' souls are bound to their bodies; He needs nothing. His ordering of things is pure līlā — divine play.
Link copiedVerse 7.13. — "Deluded by these things made of the three guṇas, the world does not know Me, the Exhaustless, beyond them all."
Link copiedThe universe, abounding in animate and inanimate objects, emanates from Him at appointed times and returns to Him. He alone is the Ever-existent, in both potential and kinetic conditions. Yet the ignorant world — bewitched by the trivial, ephemeral objects fashioned for enjoyment according to past karma — does not recognize Him as the Immeasurable Beatitude.
Link copiedVerse 7.13½. — "Verily is this My divine māyā, made of the guṇas, hard to surmount."
Link copiedMāyā here does not mean unreality. It means the wondrous power that produces marvelous, protean effects — the very matter whose function is to veil the Lord's true nature and to lure men to seek pleasure in itself. It is real, real as incantation is real, though its effects may be illusory to the one beguiled.
Link copiedVerse 7.14. — "Those alone who take refuge in Me cross over this māyā."
Link copiedThose who resign themselves to the Firm-Willed, the most Merciful, the Just Shelter of worlds — they alone cross the guṇa-laden māyā.
Link copiedVerses 15–19 (The four classes of the wicked; the four classes of the devout; the supremacy of the jñānī)
Verse 7.15. — "The evil-doers, the ignorant, the ignoble, men of deluded understanding and demonic nature, do not come to Me."
Link copiedFour kinds of wicked men refuse refuge: the ignorant (mūḍhāḥ) who claim as their own what is God's; the ignoble (arādhamāḥ) who know His nature generally but remain distant from His love; those whose knowledge has been robbed by perverse reasoning; and those of demonic nature whose well-settled knowledge serves only as fuel for enmity with God. Each is worse than the last.
Link copiedVerse 7.16. — "Four classes of virtuous men worship Me, O Arjuna: the distressed (ārta), the seeker of wealth (arthārthī), the seeker of the soul (jijñāsu), and the God-knower (jñānī)."
Link copiedIn ascending order of merit: the ārta who has lost his fortune and longs to recover it; the arthārthī who seeks fortune never possessed; the jijñāsu who seeks his own soul-nature free from matter; and the jñānī, the God-lover, who knows that the soul is essentially śeṣa (servant) to the Lord and who does not halt at self-realization but journeys onward to God Himself.
Link copiedVerse 7.17. — "Of these, the jñānī is distinguished — ever united and single-loving. Dear indeed am I to him, and he is dear to Me."
Link copiedThe jñānī is eternally united with the Lord, because the Lord alone is his goal. To him, the Lord is the exclusive Object of love. Others relate to Him only so long as their desires are gained; the jñānī loves Him for Himself alone. His love surpasses even the Lord's power to fathom — as in the case of Prahlāda, who, bitten by huge serpents, did not even feel he had a body, so absorbed was his mind in Krishna.
Link copiedVerse 7.18. — "Noble are they all; but the jñānī is My very soul. For he is My sole-devoted, who depends on Me as the unsurpassed Goal."
Link copiedAll four types are noble because they come to Him. The jñānī alone the Lord regards as His own soul, His very life. For just as the jñānī cannot live without the Lord, the Lord cannot live without him.
Link copiedVerse 7.19. — "After many births the wise one comes to Me, knowing 'Vāsudeva is all.' Such a great soul (mahātmā) is very rare."
Link copiedIt takes many meritorious births to ripen into the wisdom that the soul is by nature the servant of Vāsudeva. Only then does one reflect: "Vāsudeva is my highest Goal; Vāsudeva is my way; whatever my heart longs for, all that is Vāsudeva to me."
Link copiedVerses 20–23 (Why lesser gods are worshipped and why their fruits fail)
Verse 7.20. — "Those deprived of knowledge by various desires, impelled by their nature, take to the worship of other divinities, adopting the rules appropriate thereto."
Link copiedThe tendencies of past sins, acting on guṇa-laden objects, generate fresh longings; these desires rob people of knowledge concerning the Lord and drive them to worship lesser gods like Indra.
Link copiedVerse 7.21. — "Whatever form a devotee wishes in faith to worship, that faith I make firm in him."
Link copiedEven the lesser gods constitute the Lord's body. Not knowing this, the devotee still has his faith strengthened — for the Lord knows his faith is pinned to what is in fact His own body.
Link copiedVerse 7.22. — "Endowed with such faith, the devotee worships and obtains his desires — but the fruits are granted by Me alone."
Link copiedThough the votary is ignorant that Indra and the other gods are the Lord's body, the Lord counts the worship as worship rendered to Himself, and He alone grants the desires.
Link copiedVerse 7.23. — "But limited is the fruit of the small-minded. Worshippers of the devas go to the devas; My worshippers come to Me."
Link copiedThe blessed states of Indra and the other gods are themselves restricted and temporary. When the gods fall, their worshippers fall with them. The Lord's worshippers, whose acts are done in knowledge and for His pleasure, attain Him — and do not return.
Link copiedVerses 24–27 (Why the Lord is not obvious to all)
Verse 7.24. — "The unwise, ignorant of My superior, imperishable, exalted nature, take Me to be merely the Unmanifest become manifest."
Link copiedThe Lord's superior nature is that He is Adorable, Lord of all, unfathomable by speech or thought. Without relinquishing this nature, He is born as the son of Vasudeva out of compassion, that He may be accessible to all. Senseless people mistake Him for any ordinary mortal, born of karma.
Link copiedVerse 7.25. — "Veiled in My yoga-māyā, I am not obvious to all. This ignorant world knows Me not as the Birthless, Deathless."
Link copiedHe is enveloped in a human form — the usual habitat of embodied souls. The blind world does not see that corporeity is assumed precisely to be within reach of all. Though His deeds transcend the powers of Indra and Vāyu, and His lustre dims the sun, the world fails to know Him as the Uncaused Cause.
Link copiedVerse 7.26. — "I know all beings — past, present, and future, O Arjuna. But Me, no one knows."
Link copiedAll creatures are objects of His constant loving concern; yet no one discerns Him as Vāsudeva Incarnate, a Ready Refuge.
Link copiedVerse 7.27. — "By the delusion of the 'pairs' born of desire and aversion, all beings are bewildered at the time of creation, O Bhārata."
Link copiedFrom the start of embodied existence, creatures are trapped by the pairs of opposites — cold and heat, joy and grief — which are carried over from past births as tendencies. These enchantments make them feel that joy and grief arise from worldly contact, rather than from union with, or separation from, the Lord. The jñānī's joy is only in being with the Lord; his grief, only in being severed. Such a one is rarely born.
Link copiedVerses 28–30 (The three requisites of knowledge)
Verse 7.28. — "But when the sins of virtuous-doers come to an end, then, released from the delusion of the pairs, and firm in resolve, they worship Me."
Link copiedMerits accumulated over many lives dissolve the immemorial sins that keep men God-averse. Then, seeking either fortune, deliverance from death and decay, or the Lord Himself, they come to Him.
Link copiedVerse 7.29. — "Those who strive for deliverance from old age and death take refuge in Me, knowing the Tad-brahma, the whole Adhyātma, and all Karma."
Link copiedDeliverance here means disjunction from matter and realization of the soul in its distinctness.
Link copiedVerse 7.30. — "Those, the others, know Me as Adhibhūta, as Adhidaiva, and as Adhiyajña; and all of them know Me, at the hour of death, with steadied mind."
Link copiedThe aspirants for wealth must know the Lord as Adhibhūta and Adhidaiva; all three classes — wealth-seeker, soul-seeker, and God-seeker — must know Him as Adhiyajña (the Lord of sacrifice), and must remember Him at the moment of death, each according to the ideal he has chosen as his goal.
Link copiedThus closes the seventh discourse, named Paramahaṁsa-Vijñāna-Yoga — the Supreme Saintly Wisdom.
Link copied