Bhagavad Gita Bhashya · Section 7 of 19
atha ṣaṣṭho'dhyāyaḥ
Sanskrit (IAST) · click to toggle
उक्तः कर्म-योगः स-परिकरः। इदानीꣳ ज्ञान-योग-कर्म-योग-साध्यात्मावलोकन-रूप-योगाभ्यास-विधिर् उच्यते। तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वꣳ द्रढयितुꣳ ज्ञानाकारः कर्म-योगो योग-शिरस्कोऽनूद्यते।
Link copiedअनाश्रितः कर्म-फलꣳ कार्यꣳ कर्म करोति यः।
Link copiedस सन्न्यासी च योगी च न निरग्निर् न चाक्रियः॥१॥
Link copiedकर्म-फलꣳ स्वर्गादिकम् अनाश्रितः कार्यꣳ कर्मानुष्ठानम् एव कार्यꣳ सर्वात्मनास्मत्-सुहृद्-भूत-परम-पुरुषाराधन-रूपतया कर्मैव मम प्रयोजनꣳ न तत्-साध्यꣳ किञ्चिद् इति यः कर्म करोति, स सन्न्यासी च ज्ञान-योग-निष्ठश् च योगी च कर्म-योग-निष्ठश् च। आत्मावलोकन-रूप-योग-साधन-भूतोभय-निष्ठ इत्य् अर्थः। न निरग्निश् चाक्रियः--- न चोदित-यज्ञादि-कर्मस्व् अप्रवृत्तः, केवल-ज्ञान-निष्ठः। तस्य हि ज्ञान-निष्ठा एव कर्म-योग-निष्ठस्य तूभयम् अस्तीत्य् अभिप्रायः॥६।१॥
Link copiedउक्त-लक्षणे कर्म-योगे ज्ञानम् अप्य् अस्ति, इत्य् आह---
Link copiedयꣳ सन्न्यासम् इति प्राहुर् योगꣳ तꣳ विद्धि पाण्डव।
Link copiedन ह्य् असन्न्यस्त-सङ्कल्पो योगी भवति कश्चन॥२॥
Link copiedज्ञान-योग इत्य् आत्म-याथात्म्य-ज्ञानम् इति प्राहुस् तꣳ कर्म-योगम् एव विद्धि। तद् उपपादयति, न ह्य् असन्न्यस्त-सङ्कल्पो योगी भवति कश्चन इति। आत्म-याथात्म्यानुसन्धानेनानात्मनि प्रकृतव् आत्म-सङ्कल्पः सन्न्यस्तः परित्यक्तो येन स सन्न्यस्त-सङ्कल्पः, अनेवम्भूताऋ यः सासन्न्यस्त-सङ्कल्पः। न ह्य् उक्तेषु कर्म-योगेष्व् अनेवम्भूतः कश्चन कर्म-योगी भवति। यस्य सर्वे समारम्भाः कामसङ्कल्प-वर्जिताः [गीता ४।१९] इति ह्य् उक्तम्॥६।२॥
Link copiedकर्म-योग एवाप्रमादेन योगꣳ साधयतीत्य् आह---
Link copiedआरुरुक्षोर् मुनेर् योगꣳ कर्म कारणम् उच्यते।
Link copiedयोगारूढस्य तस्यैव शमः कारणम् उच्यते॥३॥
Link copiedयोगम् आत्मावलोकनꣳ प्राप्तुम् इच्छोः मुमुक्षोः कर्म-योग एव कारणम् उच्यते। तस्य एव योगारूढस्य प्रतिष्ठित-योगस्य एव शमः कर्म-निवृत्तिः कारणम् उच्यते। यावद् आत्मावलोकन-रूप-मोक्ष-प्राप्तिः, तावत् कर्म कार्यम् इत्य् अर्थः॥६।३॥
Link copiedकदा प्रतिष्ठित-योगो भवति। इत्य् अत्राह---
Link copiedयदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते।
Link copiedसर्व-सङ्कल्प-सन्न्यासी योगारूढस् तदोच्यते॥४॥
Link copiedयदायꣳ योगी आत्मैकानुभव-स्वभावतया इन्द्रियार्थेष्व् आत्म-व्यतिरिक्त-प्राकृत-विषयेषु तत्-सम्बन्धिषु कर्मसु च नानुषज्जते न सङ्गम् अर्हति, तदा हि सर्व-सङ्कल्प-सन्न्यासी योगारूढ इत्य् उच्यते। तस्माद् आरुरुक्षोर् विषयानुभवार्हतया तद्-अननुषङ्गाभ्यास-रूपः कर्म-योग एव निष्पत्ति-कारणम्, अतो विषयाननुषङ्गाभ्यास-रूपꣳ कर्म-योगम् एव आरुरुक्षुः कुर्यात्॥६।४॥
Link copiedतद् एव आह---
Link copiedउद्धरेद् आत्मनात्मानꣳ नात्मानम् अवसादयेत्।
Link copiedआत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः॥५॥
Link copiedआत्मना मनसा विषयाननुषक्तेन मनसा आत्मानम् उद्धरेत्। तद्-विपरीतेन मनसा आत्मानꣳ नावसादयेत्। आत्मैव मन एव ह्य् आत्मनो बन्धुः, तद् एवात्मनो रिपुः॥६।५॥
Link copiedबन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः।
Link copiedअनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥६॥
Link copiedयेन पुरुषेण स्वेनैव स्व-मनो विषयेभ्यो जितꣳ तन्-मनस् तस्य बन्धुः, अनात्मनोऽजित-मनसः स्वकीयम् एव मनः स्वस्य शत्रुवत् शत्रुत्वे वर्तेत, स्व-निःश्रेयस-विपरीते वर्तेत इत्य् अर्थः। यथोक्तꣳ भगवता पराशरेणापि---
Link copiedमन एव मनुष्याणाꣳ कारणꣳ बन्ध-मोक्षयोः।
Link copiedबन्धाय विषयासङ्गि मुक्त्यै निर्विषयꣳ मनः। [वि।पु। ६।७।२८] इति॥६।६॥
Link copied
योगारम्भ-योग्यावस्था उच्यते---
Link copiedजितात्मनः प्रशान्तस्य परमात्मा समाहितः।
Link copiedशीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः॥७॥
Link copiedशीतोष्णसुख-दुःखेषु मानापमानयोश् च जितात्मनः जितमनसः, विकाररहितमनसः। प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः। स्वरूपेणावस्थितः प्रत्यगात्मा अत्र परमात्मा इत्युच्यते, तस्य एव प्रकृतत्वात्, तस्यापि पूर्वपूर्वास्थापेक्षया परमात्मत्वात्। आत्मा परꣳ समाहित इति वा सम्बन्धः॥६।७॥
Link copiedज्ञान-विज्ञान-तृप्तात्मा आत्म-स्वरूप-विषयेण ज्ञानेन तस्य च प्रकृति-विसजातीयाकार-विषयेण विज्ञानेन च तृप्त-मनाः कूटस्थः--- देवाद्य्-अवस्थास्व् अनुवर्तमानः सर्व-साधारण-ज्ञानैकाकारात्मनि स्थितः, तत्रैव विजितेन्द्रियः, सम-लोष्टाश्म-काञ्चनः--- प्रकृति-विविक्त-स्वरूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्वाभावात् लोष्टाश्म-काञ्चनेषु सम-प्रयोजनो यः कर्म-योगी स युक्त इत्य् उच्यते---
Link copiedज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः।
Link copiedयुक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः॥८॥
Link copiedआत्मावलोकन-रूप-योगाभ्यासार्ह उच्यते॥६।८॥
Link copiedतथा च---
Link copiedसुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु।
Link copiedसाधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते॥९॥
Link copiedवयो-विशेषानङ्गीकारेण स्व-हितैषिणः सुहृदः, स-वयसो हितैषिणो मित्राणि, अरयो निमित्ततोऽनर्थोच्छवः, उभय-हेत्व्-अभावाद् उभय-रहिता उदासीनाः, जन्मत एव उभय-रहिता मध्य-स्थाः, जन्मत एवानिष्टोच्छवो द्वेष्याः, जन्मत एव हितैषिणो बन्धवः, साधवो धर्म-शीलाः, पापाः पप-शीलाः, आत्मैक-प्रयोजनतया सुहृन्-मित्रादिभिः प्रयोजनाभावाद् विरोधाभावाच् च तेषु सम-बुद्धिः, योगाभ्यासार्हत्वे विशिष्यते॥६।९॥
Link copiedयोगी युञ्जीत सततम् आत्मानꣳ रहसि स्थितः।
Link copiedएकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः॥१०॥
Link copiedयोगी उक्त-प्रकार-कर्म-योग-निष्ठः सततम् अहर्-अहः योग-काले आत्मानꣳ युञ्जीत, आत्मानꣳ युक्तꣳ कुर्वीत। स्व-दर्शन-निष्ठꣳ कुर्वीतेत्य् अर्थः। रहसि जन-वर्जिते निःशब्दे देशे स्थितः, एकाकी तत्रापि न स-द्वितीयः, तत्रापि यत-चित्तात्मा यत-चित्त-मनस्कः, निराशीर् आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः, अपरिग्रहस् तद्-व्यतिरिक्ते कस्मिꣳश्चिद् अपि ममता-रहितः॥६।१०॥
Link copiedशुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः।
Link copiedनात्युच्छ्रितꣳ नातिनीचꣳ चैलाजिन-कुशोत्तरम्॥११॥
Link copiedतत्रैकाग्रꣳ मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः।
Link copiedउपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये॥१२॥
Link copiedशुचौ देशेऽशुचिभिः पुरुषैर् अनधिष्ठितेऽपरिगृहीते चाशुचिभिर् वस्तुभिर् अस्पृष्टश् च पवित्री-भूते देशे दार्व्-आदि-निर्मितꣳ नात्युच्छ्रितꣳ नातिनीचꣳ चैलाजिन-कुशोत्तरम् आसनꣳ प्रतिष्ठाय तस्मिन् मनः-प्रसाद-करे सापाश्रये उपविश्य योगैकाग्रम् अव्याकुलम् मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः सर्वात्मनोपसꣳहृत-चित्तेन्द्रिय-क्रियः आत्म-विशुद्धये बन्ध-विमुक्तये योगꣳ युञ्ज्यात्। आत्मावलोकनꣳ कुर्वीत॥६।११-१२॥
Link copiedसमꣳ काय-शिरो-ग्रीवꣳ धारयन्न् अचलꣳ स्थिरः।
Link copiedसम्प्रेक्ष्य नासिकाग्रꣳ स्वꣳ दिशश् चानवलोकयन्॥१३॥
Link copiedप्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः।
Link copiedमनः सꣳयम्य मच्-चित्तो युक्त आसीत मत्-परः॥१४॥
Link copiedकाय-शिरो-ग्रीवꣳ समम् अचलꣳ सापाश्रयतया स्थिरꣳ धारयन् दिशश् चानवलोकयन् स्वꣳ नासिकाग्रꣳ सम्प्रेक्ष्य प्रशान्तात्मा अत्यन्त-निर्वृत-मनाः विगत-भीर् ब्रह्मचर्य-युक्तो मनः सꣳयम्य मच्-चित्तो युक्तोऽवहितो मत्-पर आसीत माम् एव चिन्तयन् आसीत॥६।१३-१४॥
Link copiedयुञ्जन्न् एवꣳ सदात्मानꣳ योगी नियत-मानसः।
Link copiedशान्तिꣳ निर्वाण-परमाꣳ मत्-सꣳस्थाम् अधिगच्छति॥१५॥
Link copiedएवꣳ मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसः शुभाश्रये सदात्मानꣳ मनो युञ्जन् नियत-मानसो निश्चल-मानसः मत्-स्पर्श-पवित्रीकृत-मानसतया निश्चल-मानसः मत्-सꣳस्थाꣳ निर्वाण-परमाꣳ शान्तिम् अधिगच्छति निर्वाण-काष्ठा-रूपाꣳ मत्-सꣳस्थाꣳ मयि सꣳस्थिताꣳ शान्तिम् अधिगच्छति॥६।१५॥
Link copiedएवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूताꣳ मनसो भगवति शुभाश्रये स्थितिम् अभिधायान्यद् अपि योगोपकरणम् आह---
Link copiedनात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः।
Link copiedन चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन॥१६॥
Link copiedअत्यशनानशने योग-विरोधिनी, अतिविहार-विहारौ च तथातिमात्र-स्वप्न-जागर्ये तथा चात्यायासानायासौ॥६।१६॥
Link copiedयुक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु।
Link copiedयुक्त-स्वप्नावबोधस्य योगो भवति दुःखहा॥१७॥
Link copiedमिताहार-विहारस्य मितायासस्य मित-स्वप्नावबोधस्य सकल-दुःखहा बन्ध-नाशनो योगः सम्पन्नो भवति॥६।१७॥
Link copiedयदा विनियतꣳ चित्तम् आत्मन्य् एवावतिष्ठते।
Link copiedनिःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा॥१८॥
Link copiedयदा प्रयोजन-विषयꣳ चित्तम् आत्मन्य् एव विनियतꣳ विशेषेण नियतꣳ निरतिशय-प्रयोजनतया तत्रैव नियतꣳ निश्चलम् अवतिष्ठते तदा सर्व-कामेभ्यो निःस्पृहः सन् युक्त इत्य् उच्यते योगार्ह इत्य् उच्यते॥६।१८॥
Link copiedयथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता।
Link copiedयोगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः॥१९॥
Link copiedनिवात-स्थो दीपो यथा नेङ्गते न चलति, अचलः स-प्रभस् तिष्ठति, यत-चित्तस्य निवृत्त-सकलेतर-मनो-वृत्तेर् योगिन आत्मनि योगꣳ युञ्जतः आत्म-स्वरूपस्य सोपमा।
Link copiedनिवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकलेतर-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठतीत्य् अर्थः॥६।१९॥
Link copiedयत्रोपरमते चित्तꣳ निरुद्धꣳ योग-सेवया।
Link copiedयत्र चैवात्मनात्मानꣳ पश्यन्न् आत्मनि तुष्यति॥२०॥
Link copiedयोग-सेवायाꣳ हेतुना सर्वत्र निरुद्धꣳ चित्तꣳ यत्र योग उपरमतेऽतिशयित-सुखम् इदम् एवेति रमते, यत्र च योग आत्मना मनसात्मानꣳ पश्यन्न् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति॥६।२०॥
Link copiedसुखम् आत्यन्तिकꣳ यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम्।
Link copiedवेत्ति यत्र न चैवायꣳ स्थितश् चलति तत्त्वतः॥२१॥
Link copiedयत् तद् अतीन्द्रियम् आत्म-बुद्ध्य्-एक-ग्राह्यम् आत्यन्तिकꣳ सुखꣳ यत्र च योगे वेत्त्य् अनुभवति यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतस् तद्-भावात् न चलति॥६।२१॥
Link copiedयꣳ लब्ध्वा चापरꣳ लाभꣳ मन्यते नाधिकꣳ ततः।
Link copiedयस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते॥२२॥
Link copiedयꣳ योगꣳ लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो नापरꣳ लाभꣳ मन्यते, यस्मिन् च योगे स्थितोऽविरतोऽपि गुणवत्-पुत्र-वियोगादिना गुरुणापि दुःखेन न विचाल्यते॥६।२२॥
Link copiedतꣳ विद्याद् दुःख-सꣳयोग-वियोगꣳ योग-सꣳज्ञितम्।
Link copiedस निश्चयेन योक्तव्यो योगोऽनिर्विण्ण-चेतसा॥२३॥
Link copiedतꣳ दुःख-सꣳयोग-वियोगꣳ दुःख-सꣳयोग-प्रत्यनीकाकारꣳ योग-शब्दाभिधेयꣳ ज्ञानꣳ विद्यात्, स एवम्भूतो योग इत्य् आरम्भ-दशायाꣳ निश्चयेनानिर्विण्ण-चेतसा हृष्ट-चेतसा योगो योक्तव्यः॥६।२३॥
Link copiedसङ्कल्प-प्रभवान् कामाꣳस् त्यक्त्वा सर्वान् अशेषतः।
Link copiedमनसैवेन्द्रिय-ग्रामꣳ विनियम्य समन्ततः॥२४॥
Link copiedशनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया।
Link copiedआत्मसꣳस्थꣳ मनः कृत्वा न किञ्चिद् अपि चिन्तयेत्॥२५॥
Link copiedस्पर्शजाः सङ्कल्पजाश् चेति द्वि-विधाः कामाः स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्र-पौत्र-क्षेत्रादयः, तत्र सङ्कल्प-प्रभवाः स्वरूपेण एव त्यक्तुꣳ शक्याः, तान् सर्वान् मनसा एव तद्-अनन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्व् अवर्जनीयेषु तन्-निमित्त-हर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामꣳ विनियम्य शनैः शनैः धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-सꣳस्थꣳ मनः कृत्वा न किञ्चिद् अपि चिन्तयेत्॥६।२४-२५॥
Link copiedयतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम्।
Link copiedततस् ततो नियम्यैतद् आत्मन्य् एव वशꣳ नयेत्॥२६॥
Link copiedचल-स्वभावतया आत्मन्य् अस्थिरꣳ मनो यतो यतो विषय-प्रावण्य-हेतोर् बहिर् निश्चरति ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एवातिशयित-सुख-भावनया वशꣳ नयेत्॥६।२६॥
Link copiedप्रशान्त-मनसꣳ ह्य् एनꣳ योगिनꣳ सुखम् उत्तमम्।
Link copiedउपैति शान्त-रजसꣳ ब्रह्म-भूतम् अकल्मषम्॥२७॥
Link copiedप्रशान्त-मनसम् आत्मनि निश्चल-मनसम् आत्म-न्यस्त-मनसꣳ तत एव हेतोर् दग्धाशेष-कल्मषꣳ तत एव शान्त-रजसꣳ विनष्ट-रजो-गुणꣳ तत एव ब्रह्म-भूतꣳ स्व-स्वरूपेणावस्थितम् एनꣳ योगिनम् आत्मानुभव-रूपम् उत्तमꣳ सुखम् उपैति, हीति हेतौ, उत्तम-सुख-रूपम् उपैतीत्य् अर्थः॥६।२७॥
Link copiedयुञ्जन्न् एवꣳ सदात्मानꣳ योगी विगत-कल्मषः।
Link copiedसुखेन ब्रह्म-सꣳस्पर्शम् अत्यन्तꣳ सुखम् अश्नुते॥२८॥
Link copiedएवम् उक्त-प्रकारेणात्मानꣳ युञ्जन् तेनैव विगत-प्राचीन-समस्त-कल्मषो ब्रह्म-सꣳस्पर्शो ब्रह्मानुभव-रूपꣳ सुखम् अत्यन्तम् अपरिमितꣳ सुखेनानायासेन सदा अश्नुते॥६।२८॥
Link copiedअथ योग-विपाक-दशा चतुष्-प्रकारा उच्यते---
Link copiedसर्व-भूत-स्थम् आत्मानꣳ सर्व-भूतानि चात्मनि।
Link copiedईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः॥२९॥
Link copiedस्वात्मनः परेषाꣳ च भूतानाꣳ प्रकृति-वियुक्त-स्वरूपाणाꣳ ज्ञानैकाकारतया साम्याद् वैषम्यस्य च प्रकृति-गतत्वाद् योग-युक्तात्मा प्रकृति-वियुक्तेष्व् आत्मसु सर्वत्र ज्ञानैकाकारतया सम-दर्शनः सर्व-भूत-स्थꣳ स्वात्मानꣳ सर्व-भूतानि च स्वात्मनि ईक्षते। सर्व-भूत-समानाकारꣳ स्वात्मानꣳ स्वात्म-समानाकाराणि च सर्व-भूतानि पश्यतीत्य् अर्थः॥६।२९॥
Link copiedएकस्मिन्न् आत्मनि दृष्टो सर्वस्य आत्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टꣳ भवतीत्य् अर्थः। सर्वत्र सम-दर्शनः इति वचनात् योऽयꣳ योगस् त्वया प्रोक्तः साम्येन [गीता ६।३३] इत्य् अनुभाषणाच् च निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति वचनाच् च।
Link copiedयो माꣳ पश्यति सर्वत्र सर्वꣳ च मयि पश्यति।
Link copiedतस्याहꣳ न प्रणश्यामि स च मे न प्रणश्यति॥३०॥
Link copiedततो विपाक-दशाम् आपन्नो मम साधर्म्यम् उपागतो निरजनः परमꣳ साम्यम् उपैति [मु।उ। ३।१।३] इत्य् उच्यमानꣳ सर्वस्यात्म-वस्तुनो विधूत-पुण्य-पापस्य स्वरूपेणावस्थितस्य मत्-साम्यꣳ पश्यन् यः सर्वत्रात्म-वस्तुनि माꣳ पश्यति, सर्वम् आत्म-वस्तु च मयि पश्यति, अन्योन्य-साम्याद् अन्यतर-दर्शनेनान्यतरद् अपीदृशम् इति पश्यति, तस्य स्वात्म-स्वरूपꣳ पश्यतोऽहꣳ तत्-साम्यात् न प्रणश्यामि, नादर्शनम् उपयामि, ममापि माꣳ पश्यतः, मत्-साम्यात् स्वात्मानꣳ मत्-समम् अवलोकयन् स नादर्शनम् उपयाति॥६।३०॥
Link copiedततो विपाक-दशाम् आह---
Link copiedसर्व-भूत-स्थितꣳ यो माꣳ भजत्य् एकत्वम् आस्थितः।
Link copiedसर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥३१॥
Link copiedयोग-दशायाꣳ सर्व-भूत-स्थितꣳ माम् असङ्कुचित-ज्ञानैकाकारतयैकत्वम् आस्थितः प्राकृत-भेद-परित्यागेन सुदृढꣳ यो भजते स योगी व्युत्थान-कालेऽपि यथा तथा वर्तमानः स्वात्मानꣳ सर्व-भूतानि च पश्यन् मयि वर्तते माम् एव पश्यति। स्वात्मनि सर्व-भूतेषु च सर्वदा मत्-साम्यम् एव पश्यतीत्य् अर्थः॥६।३१॥
Link copiedततोऽपि काष्ठाम् आह---
Link copiedआत्मौपम्येन सर्वत्र समꣳ पश्यति योऽर्जुन।
Link copiedसुखꣳ वा यदि वा दुःखꣳ स योगी परमो मतः॥३२॥
Link copiedआत्मनश् चान्येषाꣳ चात्मनाम् असङ्कुचित-ज्ञानैकाकारतया औपम्येन स्वात्मनि चान्येषु सर्वत्र वर्तमानꣳ पुत्र-जन्मादि-रूपꣳ सुखꣳ तन्-मरणादि-रूपꣳ च दुःखम् असम्बन्ध-साम्यात् समꣳ यः पश्यति पर-पुत्र-जन्म-मरणादि-समꣳ स्व-पुत्र-जन्म-मरणादिकꣳ यः पश्यतीत्य् अर्थः। स योगी परम-योग-काष्ठꣳ गतो मतः॥६।३२॥
Link copiedअर्जुन उवाच
Link copiedयोऽयꣳ योगस् त्वया प्रोक्तः साम्येन मधुसूदन।
Link copiedएतस्याहꣳ न पश्यामि चञ्चलत्वात् स्थितिꣳ स्थिराम्॥३३॥
Link copiedयोऽयꣳ देव-मनुष्यादि-भेदेन जीवेश्वर-भेदेन चात्यन्त-भिन्नतया एतावन्तꣳ कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानैकाकारतया परस्पर-साम्येनाकर्म-वश्यतया च ईश्वर-साम्येन सर्वत्र सम-दर्शन-रूपो योगस् त्वयोक्तः। एतस्य योगस्य स्थिराꣳ स्थितिꣳ न पश्यामि मनसश् चञ्चलत्वात्॥६।३३॥
Link copiedचञ्चलꣳ हि मनः कृष्ण प्रमाथि बलवद् दृढम्।
Link copiedतस्याहꣳ निग्रहꣳ मन्ये वायोर् इव सुदुष्करम्॥३४॥
Link copiedतथा ह्य् अनवरताभ्यस्त-विषयेष्व् अपि स्वत एव चञ्चलꣳ पुरुषेणैकत्र स्थापयितुम् अशक्यꣳ मनः पुरुषꣳ बलात् प्रमथ्य दृढम् अन्यत्र चरति। तस्य स्वाभ्यस्त-विषयेष्व् अपि चञ्चल-स्वभावस्य मनसस् तद्-विपरीताकारात्मनि स्थापयितुꣳ निग्रहꣳ प्रतिकूल-गतेर् महावातस्य व्यञ्जनादिनेव सुदुष्करम् अहꣳ मन्ये। मनो-निग्रहोपायो वक्तव्य इत्य् अभिप्रायः॥६।३४॥
Link copiedश्री-भगवान् उवाच
Link copiedअसꣳशयꣳ महाबाहो मनो दुर्णिग्रहꣳ चलम्।
Link copiedअभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥३५॥
Link copiedचल-स्वभावतया मनो दुर्निग्रहम् एवेत्य् अत्र न सꣳशयः, तथाप्य् आत्मनो गुणाकरत्वाभ्यास-जनिताभिमुख्येनात्म-व्यतिरिक्तेषु विषयेष्व् अपि दोषाकरत्व-दर्शन-जनित-वैतृष्ण्येन च कथञ्चिद् गृह्यते॥६।३५॥
Link copiedअसꣳयतात्मना योगो दुष्प्राप इति मे मतिः।
Link copiedवश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः॥३६॥
Link copiedअसꣳयतात्मनाजित-मनसा महता अपि बलेन योगो दुष्प्राप एव। उपायतस् तु वश्यात्मना पूर्वोक्तेन मद्-आराधन-रूपेणान्तर्-गत-ज्ञानेन कर्मणा जित-मनसा यतमानेनायम् एव सम-दर्शन-रूपो योगोऽवाप्तुꣳ शक्यः॥६।३६॥
Link copiedअथ नेहाभिक्रम-नाशोऽस्ति [गीता २।४०] इत्य् आदाव् एव श्रुतꣳ योग-माहात्म्यꣳ यथावत् श्रोतुम् अर्जुनः पृच्छति। अन्तर्-गतात्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यꣳ तत्रोदितꣳ तच् च योग-माहात्म्यम् एव अर्जुन उवाच---
Link copiedअयतिः श्रद्धयोपेतो योगाच् चलितमानसः।
Link copiedअप्राप्य योग-सꣳसिद्धिꣳ काꣳ गतिꣳ कृष्ण गच्छति॥३७॥
Link copiedश्रद्धया योगे प्रवृत्तो दृढतराभ्यास-रूप-यत्न-वैकल्येन योग-सꣳसिद्धिम् अप्राप्य योगाच् चलित-मानसः काꣳ गतिꣳ गच्छति॥६।३७॥
Link copiedकच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति।
Link copiedअप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥३८॥
Link copiedउभय-विभ्रष्टोऽयꣳ छिन्नाभ्रम् इव कच्चिन् न नश्यति यथा मेघ-शकलः पूर्वस्मात् महतो मेघाच् छिन्नः परꣳ महान्तꣳ मेघम् अप्राप्य मध्ये विनष्टे भवति, तथा एव कच्चित् न नश्यति, कथम् उभय-विभ्रष्टतया, अप्रतिष्ठो विमूढो ब्रह्मणाः पथीति, यथावस्थितꣳ स्वर्गादि-साधन-भूतꣳ कर्म फलाभिसन्धि-रहितस्यास्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवतीत्य् अप्रतिष्ठः। प्रक्रान्ते ब्रह्मणः पथि विमूढस् तस्मात् पथः प्रच्युतः, अत उभय-भ्रष्टतया किम् अयꣳ नश्यत्य् एव, उत न नश्यति॥६।३८॥
Link copiedएतन् मे सꣳशयꣳ कृष्ण छेत्तुम् अर्हस्य् अशेषतः।
Link copiedत्वद्-अन्यः सꣳशयस्यास्य छेत्ता न ह्य् उपपद्यते॥३९॥
Link copiedतम् एनꣳ सꣳशयम् अशेषतश् छेत्तुम् अर्हसि स्वतः प्रत्यक्षेण युगपत् सर्वꣳ सर्वदा स्वत एव पश्यतस् त्वत्तोऽन्यः सꣳशयस्यास्य छेत्ता न ह्य् उपपद्यते॥६।३९॥
Link copiedश्री-भगवान् उवाच
Link copiedपार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते।
Link copiedन हि कल्याण-कृत् कश्चिद् दुर्गतिꣳ तात गच्छति॥४०॥
Link copiedश्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्य इह चामुत्र च विनाशः न विद्यते, प्राकृत-स्वर्गादि-भोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्ति-रूपः प्रत्यवायाख्योऽनिष्टावाप्ति-रूपश् च विनाशो न विद्यत इत्य् अर्थः। न हि निरतिशय-कल्याण-रूप-योग-कृत् कश्चित् काल-त्रयेऽपि दुर्गतिꣳ गच्छति॥६।४०॥
Link copiedकथम् अयꣳ भविष्यति। इत्य् अत्राह---
Link copiedप्राप्य पुण्य-कृताꣳ लोकान् उषित्वा शाश्वतीः समाः।
Link copiedशुचीनाꣳ श्रीमताꣳ गेहे योग-भ्रष्टोऽभिजायते॥४१॥
Link copiedयज्-जातीय-भोगाभिकाङ्क्षया योगात् प्रच्युतोऽयम् अतिपुण्य-कृताꣳ प्राप्यान् लोकान् प्राप्य तज्-जातीयान् अतिकल्याण-भोगान् ज्ञानोपाय-योग-माहात्म्याद् एव भुजानो यावात् तद्-भोग-तृष्णावसानꣳ शाश्वतीः समास् तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनाꣳ श्रीमताꣳ योगोपक्रम-योग्यानाꣳ कुले योगोपक्रमे भ्रष्टे योग-माहात्म्याज् जायते॥६।४१॥
Link copiedअथ वा योगिनाम् एव कुले भवति धीमताम्।
Link copiedएतद् धि दुर्लभतरꣳ लोके जन्म यद् ईदृशम्॥४२॥
Link copiedपरिपक्व-योगश् चलितश् चेद् योगिनाꣳ धीमताꣳ योगꣳ कुर्वताꣳ स्वयम् एव, योगोपदेष्टॄणाꣳ कुले भवति। तद् एतद् उभय-विधꣳ योग-योग्यानाꣳ योगिनाꣳ च कुले जन्म लोके प्राकृतानाꣳ दुर्लभतरम्, एतत् तु योग-माहात्म्य-कृतम्॥६।४२॥
Link copiedतत्र तꣳ बुद्धि-सꣳयोगꣳ लभते पौर्वदेहिकम्।
Link copiedयतते च ततो भूयः सꣳसिद्धौ कुरुनन्दन॥४३॥
Link copiedतत्र जन्मनि तम् एव पौर्व-दैहिकꣳ योग-विषयꣳ बुद्धि-सꣳयोगꣳ लभते। ततः स्पुत-प्रबुद्धवद् भूयः सꣳसिद्धौ यतते। यथा नान्तराय-हतो भवति, तथा यतते॥६।४३॥
Link copiedपूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः।
Link copiedजिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते॥४४॥
Link copiedतेन पूर्वाभ्यासेन पूर्वेण योग-विषयेणाभ्यासेन स योग-भ्रष्टे ह्य् अवशोऽपि योग एव ह्रियते, प्रसिद्धꣳ हि एतद् योग-माहात्म्यम् इत्य् अर्थः। अप्रवृत्त-योगो योग-जिज्ञासुर् अपि ततश् चलित-मानसः पुनर् अपि ताम् एव जिज्ञासाꣳ प्राप्य कर्म-योगादिकꣳ योगम् अनुष्ठाय शब्द-ब्रह्मातिवर्तते।
Link copiedशब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्गादि-शब्दाभिलाप-योग्यꣳ ब्रह्म प्रकृतिः, प्रकृति-सम्बन्धाद् विमुक्तो देव-मनुष्यादि-शब्दाभिलापानर्हꣳ ज्ञानानन्दैकतानम् आत्मानꣳ प्राप्नोतीत्य् अर्थः॥६।४४॥
Link copiedयत एवꣳ योग-माहात्म्यम्, ततः---
Link copiedप्रयत्नाद् यतमानस् तु योगी सꣳशुद्ध-किल्बिषः।
Link copiedअनेक-जन्म-सꣳसिद्धस् ततो याति पराꣳ गतिम्॥४५॥
Link copiedअनेक-जन्मार्जित-पुण्य-सञ्चयैः सꣳशुद्ध-किल्बिषः सꣳसिद्धः सञ्जातः प्रयत्नाद् यतमानस् तु योगी चलितोऽपि पुनः पराꣳ गतिꣳ यात्य् एव॥६।४५॥
Link copiedअतिशयित-पुरुषार्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह---
Link copiedतपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।
Link copiedकर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन॥४६॥
Link copiedकेवल-तपोभिर् यः पुरुषार्थः साध्यते आत्म-ज्ञान-व्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्वमेधादिभिः कर्मभिः, तेभ्यः सर्वेभ्योऽधिक-पुरुषार्थ-साधनत्वात् योगस्य तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन॥६।४६॥
Link copiedतद् एवꣳ पर-विद्याङ्ग-भूतꣳ प्रजापति-वाक्योदितꣳ प्रत्यग्-आत्म-दर्शनम् उक्तम्। अथ पर-विद्याꣳ प्रस्तौति---
Link copiedयोगिनाम् अपि सर्वेषाꣳ मद्-गतेनान्तरात्मना।
Link copiedश्रद्धावान् भजते यो माꣳ स मे युक्ततमो मतः॥४७॥
Link copiedयोगिनाम् इति पञ्चम्य्-अर्थो षष्ठी। सर्व-भूत-स्थम् इत्य्-आदिना चतुर्-विधा-योगिनः प्रतिपादिताः, तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः, न निर्धारणे षष्ठी सम्भवति।
Link copiedअपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टस् तपस्वि-प्रभृतयः, तत्राप्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः, योगिभ्योऽपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः, तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनाꣳ योगिनाꣳ च न कश्चिद् विशेष इत्य् अर्थः। मेर्व्-अपेक्षया सर्वापाणाम् इव यद्यपि सर्वापेष्व् अन्योन्य-न्यूनाधिक-भावो विद्यते, तथापि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः।
Link copiedमत्-प्रियत्वातिरेकेणानन्य-साधारण-स्वभावतया मद्-गतेनान्तरात्मना मनसा बाह्याभ्यन्तर-सकल-वृत्ति-विशेषाश्रय-भूतꣳ मनो ह्य् अन्तरात्मा, अत्यर्थ-मत्-प्रियत्वेन मया विना स्व-धारणा-लाभात् मद्-गतेन मनसा श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-वियोगासहतयाम् अप्राप्ति-प्रवृत्तौ त्वरावान् यो माꣳ भजते। माꣳ विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-भोगोपकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम् अस्पृष्ट-शेष-दोषानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-निधिꣳ स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य्-अनिरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि-दिव्य-रूपꣳ वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावम् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्यैश्वर्य-महोदधिम् अनालोचित-विशेषाशेष-लोक-शरण्यꣳ प्रणतार्ति-हरम् आश्रित-वात्सल्यैक-जलधिम् अखिल-मनुज-नयन-विषयताꣳ गतम् अजहत्-स्व-स्वभावꣳ वसुदेव-गृहेऽवतीर्णम् अनवधिकातिशय-तेजसा निखिलꣳ जगद् भासयन्तम् आत्म-कान्त्या विश्वम् आप्यायन्तꣳ भजते, सेवत उपासत इत्य् अर्थः। स मे युक्ततमो मतः, स सर्वेभ्यः श्रेष्ठतम इति सर्वꣳ सर्वदा यथावस्थितꣳ स्वत एव साक्षात्-कुर्वन् अहꣳ मन्ये॥६।४७॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये षष्ठोऽध्यायः॥६॥
Link copied**
Link copiedఉక్తః కర్మ-యోగః స-పరికరః। ఇదానీṁ జ్ఞాన-యోగ-కర్మ-యోగ-సాధ్యాత్మావలోకన-రూప-యోగాభ్యాస-విధిర్ ఉచ్యతే। తత్ర కర్మ-యోగస్య నిరపేక్ష-యోగ-సాధనత్వṁ ద్రఢయితుṁ జ్ఞానాకారః కర్మ-యోగో యోగ-శిరస్కోఽనూద్యతే।
Link copiedఅనాశ్రితః కర్మ-ఫలṁ కార్యṁ కర్మ కరోతి యః।
Link copiedస సన్న్యాసీ చ యోగీ చ న నిరగ్నిర్ న చాక్రియః॥౧॥
Link copiedకర్మ-ఫలṁ స్వర్గాదికమ్ అనాశ్రితః కార్యṁ కర్మానుష్ఠానమ్ ఏవ కార్యṁ సర్వాత్మనాస్మత్-సుహృద్-భూత-పరమ-పురుషారాధన-రూపతయా కర్మైవ మమ ప్రయోజనṁ న తత్-సాధ్యṁ కిఞ్చిద్ ఇతి యః కర్మ కరోతి, స సన్న్యాసీ చ జ్ఞాన-యోగ-నిష్ఠశ్ చ యోగీ చ కర్మ-యోగ-నిష్ఠశ్ చ। ఆత్మావలోకన-రూప-యోగ-సాధన-భూతోభయ-నిష్ఠ ఇత్య్ అర్థః। న నిరగ్నిశ్ చాక్రియః--- న చోదిత-యజ్ఞాది-కర్మస్వ్ అప్రవృత్తః, కేవల-జ్ఞాన-నిష్ఠః। తస్య హి జ్ఞాన-నిష్ఠా ఏవ కర్మ-యోగ-నిష్ఠస్య తూభయమ్ అస్తీత్య్ అభిప్రాయః॥౬।౧॥
Link copiedఉక్త-లక్షణే కర్మ-యోగే జ్ఞానమ్ అప్య్ అస్తి, ఇత్య్ ఆహ---
Link copiedయṁ సన్న్యాసమ్ ఇతి ప్రాహుర్ యోగṁ తṁ విద్ధి పాణ్డవ।
Link copiedన హ్య్ అసన్న్యస్త-సఙ్కల్పో యోగీ భవతి కశ్చన॥౨॥
Link copiedజ్ఞాన-యోగ ఇత్య్ ఆత్మ-యాథాత్మ్య-జ్ఞానమ్ ఇతి ప్రాహుస్ తṁ కర్మ-యోగమ్ ఏవ విద్ధి। తద్ ఉపపాదయతి, న హ్య్ అసన్న్యస్త-సఙ్కల్పో యోగీ భవతి కశ్చన ఇతి। ఆత్మ-యాథాత్మ్యానుసన్ధానేనానాత్మని ప్రకృతవ్ ఆత్మ-సఙ్కల్పః సన్న్యస్తః పరిత్యక్తో యేన స సన్న్యస్త-సఙ్కల్పః, అనేవమ్భూతాఋ యః సాసన్న్యస్త-సఙ్కల్పః। న హ్య్ ఉక్తేషు కర్మ-యోగేష్వ్ అనేవమ్భూతః కశ్చన కర్మ-యోగీ భవతి। యస్య సర్వే సమారమ్భాః కామసఙ్కల్ప-వర్జితాః [గీతా ౪।౧౯] ఇతి హ్య్ ఉక్తమ్॥౬।౨॥
Link copiedకర్మ-యోగ ఏవాప్రమాదేన యోగṁ సాధయతీత్య్ ఆహ---
Link copiedఆరురుక్షోర్ మునేర్ యోగṁ కర్మ కారణమ్ ఉచ్యతే।
Link copiedయోగారూఢస్య తస్యైవ శమః కారణమ్ ఉచ్యతే॥౩॥
Link copiedయోగమ్ ఆత్మావలోకనṁ ప్రాప్తుమ్ ఇచ్ఛోః ముముక్షోః కర్మ-యోగ ఏవ కారణమ్ ఉచ్యతే। తస్య ఏవ యోగారూఢస్య ప్రతిష్ఠిత-యోగస్య ఏవ శమః కర్మ-నివృత్తిః కారణమ్ ఉచ్యతే। యావద్ ఆత్మావలోకన-రూప-మోక్ష-ప్రాప్తిః, తావత్ కర్మ కార్యమ్ ఇత్య్ అర్థః॥౬।౩॥
Link copiedకదా ప్రతిష్ఠిత-యోగో భవతి। ఇత్య్ అత్రాహ---
Link copiedయదా హి నేన్ద్రియార్థేషు న కర్మస్వ్ అనుషజ్జతే।
Link copiedసర్వ-సఙ్కల్ప-సన్న్యాసీ యోగారూఢస్ తదోచ్యతే॥౪॥
Link copiedయదాయṁ యోగీ ఆత్మైకానుభవ-స్వభావతయా ఇన్ద్రియార్థేష్వ్ ఆత్మ-వ్యతిరిక్త-ప్రాకృత-విషయేషు తత్-సమ్బన్ధిషు కర్మసు చ నానుషజ్జతే న సఙ్గమ్ అర్హతి, తదా హి సర్వ-సఙ్కల్ప-సన్న్యాసీ యోగారూఢ ఇత్య్ ఉచ్యతే। తస్మాద్ ఆరురుక్షోర్ విషయానుభవార్హతయా తద్-అననుషఙ్గాభ్యాస-రూపః కర్మ-యోగ ఏవ నిష్పత్తి-కారణమ్, అతో విషయాననుషఙ్గాభ్యాస-రూపṁ కర్మ-యోగమ్ ఏవ ఆరురుక్షుః కుర్యాత్॥౬।౪॥
Link copiedతద్ ఏవ ఆహ---
Link copiedఉద్ధరేద్ ఆత్మనాత్మానṁ నాత్మానమ్ అవసాదయేత్।
Link copiedఆత్మైవ హ్య్ ఆత్మనో బన్ధుర్ ఆత్మైవ రిపుర్ ఆత్మనః॥౫॥
Link copiedఆత్మనా మనసా విషయాననుషక్తేన మనసా ఆత్మానమ్ ఉద్ధరేత్। తద్-విపరీతేన మనసా ఆత్మానṁ నావసాదయేత్। ఆత్మైవ మన ఏవ హ్య్ ఆత్మనో బన్ధుః, తద్ ఏవాత్మనో రిపుః॥౬।౫॥
Link copiedబన్ధుర్ ఆత్మాత్మనస్ తస్య యేనాత్మైవాత్మనా జితః।
Link copiedఅనాత్మనస్ తు శత్రుత్వే వర్తేతాత్మైవ శత్రువత్॥౬॥
Link copiedయేన పురుషేణ స్వేనైవ స్వ-మనో విషయేభ్యో జితṁ తన్-మనస్ తస్య బన్ధుః, అనాత్మనోఽజిత-మనసః స్వకీయమ్ ఏవ మనః స్వస్య శత్రువత్ శత్రుత్వే వర్తేత, స్వ-నిఃశ్రేయస-విపరీతే వర్తేత ఇత్య్ అర్థః। యథోక్తṁ భగవతా పరాశరేణాపి---
Link copiedమన ఏవ మనుష్యాణాṁ కారణṁ బన్ధ-మోక్షయోః।
Link copiedబన్ధాయ విషయాసఙ్గి ముక్త్యై నిర్విషయṁ మనః। [వి।పు। ౬।౭।౨౮] ఇతి॥౬।౬॥
Link copied
యోగారమ్భ-యోగ్యావస్థా ఉచ్యతే---
Link copiedజితాత్మనః ప్రశాన్తస్య పరమాత్మా సమాహితః।
Link copiedశీతోష్ణ-సుఖ-దుఃఖేషు తథా మానాపమానయోః॥౭॥
Link copiedశీతోష్ణసుఖ-దుఃఖేషు మానాపమానయోశ్ చ జితాత్మనః జితమనసః, వికారరహితమనసః। ప్రశాన్తస్య మనసి పరమాత్మా సమాహితః సమ్యగాహితః। స్వరూపేణావస్థితః ప్రత్యగాత్మా అత్ర పరమాత్మా ఇత్యుచ్యతే, తస్య ఏవ ప్రకృతత్వాత్, తస్యాపి పూర్వపూర్వాస్థాపేక్షయా పరమాత్మత్వాత్। ఆత్మా పరṁ సమాహిత ఇతి వా సమ్బన్ధః॥౬।౭॥
Link copiedజ్ఞాన-విజ్ఞాన-తృప్తాత్మా ఆత్మ-స్వరూప-విషయేణ జ్ఞానేన తస్య చ ప్రకృతి-విసజాతీయాకార-విషయేణ విజ్ఞానేన చ తృప్త-మనాః కూటస్థః--- దేవాద్య్-అవస్థాస్వ్ అనువర్తమానః సర్వ-సాధారణ-జ్ఞానైకాకారాత్మని స్థితః, తత్రైవ విజితేన్ద్రియః, సమ-లోష్టాశ్మ-కాఞ్చనః--- ప్రకృతి-వివిక్త-స్వరూప-నిష్ఠతయా ప్రాకృత-వస్తు-విశేషేషు భోగ్యత్వాభావాత్ లోష్టాశ్మ-కాఞ్చనేషు సమ-ప్రయోజనో యః కర్మ-యోగీ స యుక్త ఇత్య్ ఉచ్యతే---
Link copiedజ్ఞాన-విజ్ఞాన-తృప్తాత్మా కూటస్థో విజితేన్ద్రియః।
Link copiedయుక్త ఇత్య్ ఉచ్యతే యోగీ సమ-లోష్టాశ్మ-కాఞ్చనః॥౮॥
Link copiedఆత్మావలోకన-రూప-యోగాభ్యాసార్హ ఉచ్యతే॥౬।౮॥
Link copiedతథా చ---
Link copiedసుహృన్-మిత్రార్య్-ఉదాసీన-మధ్యస్థ-ద్వేష్య-బన్ధుషు।
Link copiedసాధుష్వ్ అపి చ పాపేషు సమ-బుద్ధిర్ విశిష్యతే॥౯॥
Link copiedవయో-విశేషానఙ్గీకారేణ స్వ-హితైషిణః సుహృదః, స-వయసో హితైషిణో మిత్రాణి, అరయో నిమిత్తతోఽనర్థోచ్ఛవః, ఉభయ-హేత్వ్-అభావాద్ ఉభయ-రహితా ఉదాసీనాః, జన్మత ఏవ ఉభయ-రహితా మధ్య-స్థాః, జన్మత ఏవానిష్టోచ్ఛవో ద్వేష్యాః, జన్మత ఏవ హితైషిణో బన్ధవః, సాధవో ధర్మ-శీలాః, పాపాః పప-శీలాః, ఆత్మైక-ప్రయోజనతయా సుహృన్-మిత్రాదిభిః ప్రయోజనాభావాద్ విరోధాభావాచ్ చ తేషు సమ-బుద్ధిః, యోగాభ్యాసార్హత్వే విశిష్యతే॥౬।౯॥
Link copiedయోగీ యుఞ్జీత సతతమ్ ఆత్మానṁ రహసి స్థితః।
Link copiedఏకాకీ యత-చిత్తాత్మా నిరాశీర్ అపరిగ్రహః॥౧౦॥
Link copiedయోగీ ఉక్త-ప్రకార-కర్మ-యోగ-నిష్ఠః సతతమ్ అహర్-అహః యోగ-కాలే ఆత్మానṁ యుఞ్జీత, ఆత్మానṁ యుక్తṁ కుర్వీత। స్వ-దర్శన-నిష్ఠṁ కుర్వీతేత్య్ అర్థః। రహసి జన-వర్జితే నిఃశబ్దే దేశే స్థితః, ఏకాకీ తత్రాపి న స-ద్వితీయః, తత్రాపి యత-చిత్తాత్మా యత-చిత్త-మనస్కః, నిరాశీర్ ఆత్మ-వ్యతిరిక్తే కృత్స్నే వస్తుని నిరపేక్షః, అపరిగ్రహస్ తద్-వ్యతిరిక్తే కస్మిṁశ్చిద్ అపి మమతా-రహితః॥౬।౧౦॥
Link copiedశుచౌ దేశే ప్రతిష్ఠాప్య స్థిరమ్ ఆసనమ్ ఆత్మనః।
Link copiedనాత్యుచ్ఛ్రితṁ నాతినీచṁ చైలాజిన-కుశోత్తరమ్॥౧౧॥
Link copiedతత్రైకాగ్రṁ మనః కృత్వా యత-చిత్తేన్ద్రియ-క్రియః।
Link copiedఉపవిశ్యాసనే యుఞ్జ్యాద్ యోగమ్ ఆత్మ-విశుద్ధయే॥౧౨॥
Link copiedశుచౌ దేశేఽశుచిభిః పురుషైర్ అనధిష్ఠితేఽపరిగృహీతే చాశుచిభిర్ వస్తుభిర్ అస్పృష్టశ్ చ పవిత్రీ-భూతే దేశే దార్వ్-ఆది-నిర్మితṁ నాత్యుచ్ఛ్రితṁ నాతినీచṁ చైలాజిన-కుశోత్తరమ్ ఆసనṁ ప్రతిష్ఠాయ తస్మిన్ మనః-ప్రసాద-కరే సాపాశ్రయే ఉపవిశ్య యోగైకాగ్రమ్ అవ్యాకులమ్ మనః కృత్వా యత-చిత్తేన్ద్రియ-క్రియః సర్వాత్మనోపసṁహృత-చిత్తేన్ద్రియ-క్రియః ఆత్మ-విశుద్ధయే బన్ధ-విముక్తయే యోగṁ యుఞ్జ్యాత్। ఆత్మావలోకనṁ కుర్వీత॥౬।౧౧-౧౨॥
Link copiedసమṁ కాయ-శిరో-గ్రీవṁ ధారయన్న్ అచలṁ స్థిరః।
Link copiedసమ్ప్రేక్ష్య నాసికాగ్రṁ స్వṁ దిశశ్ చానవలోకయన్॥౧౩॥
Link copiedప్రశాన్తాత్మా విగత-భీర్ బ్రహ్మచారి-వ్రతే స్థితః।
Link copiedమనః సṁయమ్య మచ్-చిత్తో యుక్త ఆసీత మత్-పరః॥౧౪॥
Link copiedకాయ-శిరో-గ్రీవṁ సమమ్ అచలṁ సాపాశ్రయతయా స్థిరṁ ధారయన్ దిశశ్ చానవలోకయన్ స్వṁ నాసికాగ్రṁ సమ్ప్రేక్ష్య ప్రశాన్తాత్మా అత్యన్త-నిర్వృత-మనాః విగత-భీర్ బ్రహ్మచర్య-యుక్తో మనః సṁయమ్య మచ్-చిత్తో యుక్తోఽవహితో మత్-పర ఆసీత మామ్ ఏవ చిన్తయన్ ఆసీత॥౬।౧౩-౧౪॥
Link copiedయుఞ్జన్న్ ఏవṁ సదాత్మానṁ యోగీ నియత-మానసః।
Link copiedశాన్తిṁ నిర్వాణ-పరమాṁ మత్-సṁస్థామ్ అధిగచ్ఛతి॥౧౫॥
Link copiedఏవṁ మయి పరస్మిన్ బ్రహ్మణి పురుషోత్తమే మనసః శుభాశ్రయే సదాత్మానṁ మనో యుఞ్జన్ నియత-మానసో నిశ్చల-మానసః మత్-స్పర్శ-పవిత్రీకృత-మానసతయా నిశ్చల-మానసః మత్-సṁస్థాṁ నిర్వాణ-పరమాṁ శాన్తిమ్ అధిగచ్ఛతి నిర్వాణ-కాష్ఠా-రూపాṁ మత్-సṁస్థాṁ మయి సṁస్థితాṁ శాన్తిమ్ అధిగచ్ఛతి॥౬।౧౫॥
Link copiedఏవమ్ ఆత్మ-యోగమ్ ఆరభమాణస్య మనో-నైర్మల్య-హేతు-భూతాṁ మనసో భగవతి శుభాశ్రయే స్థితిమ్ అభిధాయాన్యద్ అపి యోగోపకరణమ్ ఆహ---
Link copiedనాత్యశ్నతస్ తు యోగోఽస్తి న చైకాన్తమ్ అనశ్నతః।
Link copiedన చాతిస్వప్న-శీలస్య జాగ్రతో నైవ చార్జున॥౧౬॥
Link copiedఅత్యశనానశనే యోగ-విరోధినీ, అతివిహార-విహారౌ చ తథాతిమాత్ర-స్వప్న-జాగర్యే తథా చాత్యాయాసానాయాసౌ॥౬।౧౬॥
Link copiedయుక్తాహార-విహారస్య యుక్త-చేష్టస్య కర్మసు।
Link copiedయుక్త-స్వప్నావబోధస్య యోగో భవతి దుఃఖహా॥౧౭॥
Link copiedమితాహార-విహారస్య మితాయాసస్య మిత-స్వప్నావబోధస్య సకల-దుఃఖహా బన్ధ-నాశనో యోగః సమ్పన్నో భవతి॥౬।౧౭॥
Link copiedయదా వినియతṁ చిత్తమ్ ఆత్మన్య్ ఏవావతిష్ఠతే।
Link copiedనిఃస్పృహః సర్వ-కామేభ్యో యుక్త ఇత్య్ ఉచ్యతే తదా॥౧౮॥
Link copiedయదా ప్రయోజన-విషయṁ చిత్తమ్ ఆత్మన్య్ ఏవ వినియతṁ విశేషేణ నియతṁ నిరతిశయ-ప్రయోజనతయా తత్రైవ నియతṁ నిశ్చలమ్ అవతిష్ఠతే తదా సర్వ-కామేభ్యో నిఃస్పృహః సన్ యుక్త ఇత్య్ ఉచ్యతే యోగార్హ ఇత్య్ ఉచ్యతే॥౬।౧౮॥
Link copiedయథా దీపో నివాత-స్థో నేఙ్గతే సోపమా స్మృతా।
Link copiedయోగినో యత-చిత్తస్య యుఞ్జతో యోగమ్ ఆత్మనః॥౧౯॥
Link copiedనివాత-స్థో దీపో యథా నేఙ్గతే న చలతి, అచలః స-ప్రభస్ తిష్ఠతి, యత-చిత్తస్య నివృత్త-సకలేతర-మనో-వృత్తేర్ యోగిన ఆత్మని యోగṁ యుఞ్జతః ఆత్మ-స్వరూపస్య సోపమా।
Link copiedనివాత-స్థతయా నిశ్చల-స-ప్రభ-దీపవన్ నివృత్త-సకలేతర-మనో-వృత్తితయా నిశ్చలో జ్ఞాన-ప్రభ ఆత్మా తిష్ఠతీత్య్ అర్థః॥౬।౧౯॥
Link copiedయత్రోపరమతే చిత్తṁ నిరుద్ధṁ యోగ-సేవయా।
Link copiedయత్ర చైవాత్మనాత్మానṁ పశ్యన్న్ ఆత్మని తుష్యతి॥౨౦॥
Link copiedయోగ-సేవాయాṁ హేతునా సర్వత్ర నిరుద్ధṁ చిత్తṁ యత్ర యోగ ఉపరమతేఽతిశయిత-సుఖమ్ ఇదమ్ ఏవేతి రమతే, యత్ర చ యోగ ఆత్మనా మనసాత్మానṁ పశ్యన్న్ అన్య-నిరపేక్షమ్ ఆత్మన్య్ ఏవ తుష్యతి॥౬।౨౦॥
Link copiedసుఖమ్ ఆత్యన్తికṁ యత్ తద్ బుద్ధి-గ్రాహ్యమ్ అతీన్ద్రియమ్।
Link copiedవేత్తి యత్ర న చైవాయṁ స్థితశ్ చలతి తత్త్వతః॥౨౧॥
Link copiedయత్ తద్ అతీన్ద్రియమ్ ఆత్మ-బుద్ధ్య్-ఏక-గ్రాహ్యమ్ ఆత్యన్తికṁ సుఖṁ యత్ర చ యోగే వేత్త్య్ అనుభవతి యత్ర చ యోగే స్థితః సుఖాతిరేకేణ తత్త్వతస్ తద్-భావాత్ న చలతి॥౬।౨౧॥
Link copiedయṁ లబ్ధ్వా చాపరṁ లాభṁ మన్యతే నాధికṁ తతః।
Link copiedయస్మిన్ స్థితో న దుఃఖేన గురుణాపి విచాల్యతే॥౨౨॥
Link copiedయṁ యోగṁ లబ్ధ్వా యోగాద్ విరతస్ తమ్ ఏవ కాఙ్క్షమాణో నాపరṁ లాభṁ మన్యతే, యస్మిన్ చ యోగే స్థితోఽవిరతోఽపి గుణవత్-పుత్ర-వియోగాదినా గురుణాపి దుఃఖేన న విచాల్యతే॥౬।౨౨॥
Link copiedతṁ విద్యాద్ దుఃఖ-సṁయోగ-వియోగṁ యోగ-సṁజ్ఞితమ్।
Link copiedస నిశ్చయేన యోక్తవ్యో యోగోఽనిర్విణ్ణ-చేతసా॥౨౩॥
Link copiedతṁ దుఃఖ-సṁయోగ-వియోగṁ దుఃఖ-సṁయోగ-ప్రత్యనీకాకారṁ యోగ-శబ్దాభిధేయṁ జ్ఞానṁ విద్యాత్, స ఏవమ్భూతో యోగ ఇత్య్ ఆరమ్భ-దశాయాṁ నిశ్చయేనానిర్విణ్ణ-చేతసా హృష్ట-చేతసా యోగో యోక్తవ్యః॥౬।౨౩॥
Link copiedసఙ్కల్ప-ప్రభవాన్ కామాṁస్ త్యక్త్వా సర్వాన్ అశేషతః।
Link copiedమనసైవేన్ద్రియ-గ్రామṁ వినియమ్య సమన్తతః॥౨౪॥
Link copiedశనైః శనైర్ ఉపరమేద్ బుద్ధ్యా ధృతి-గృహీతయా।
Link copiedఆత్మసṁస్థṁ మనః కృత్వా న కిఞ్చిద్ అపి చిన్తయేత్॥౨౫॥
Link copiedస్పర్శజాః సఙ్కల్పజాశ్ చేతి ద్వి-విధాః కామాః స్పర్శజాః శీతోష్ణాదయః, సఙ్కల్పజాః పుత్ర-పౌత్ర-క్షేత్రాదయః, తత్ర సఙ్కల్ప-ప్రభవాః స్వరూపేణ ఏవ త్యక్తుṁ శక్యాః, తాన్ సర్వాన్ మనసా ఏవ తద్-అనన్వయానుసన్ధానేన త్యక్త్వా స్పర్శజేష్వ్ అవర్జనీయేషు తన్-నిమిత్త-హర్షోద్వేగౌ త్యక్త్వా సమన్తతః సర్వస్మాద్ విషయాత్ సర్వమ్ ఇన్ద్రియ-గ్రామṁ వినియమ్య శనైః శనైః ధృతి-గృహీతయా వివేక-విషయయా బుద్ధ్యా సర్వస్మాద్ ఆత్మ-వ్యతిరిక్తాద్ ఉపరమ్య ఆత్మ-సṁస్థṁ మనః కృత్వా న కిఞ్చిద్ అపి చిన్తయేత్॥౬।౨౪-౨౫॥
Link copiedయతో యతో నిశ్చరతి మనశ్ చఞ్చలమ్ అస్థిరమ్।
Link copiedతతస్ తతో నియమ్యైతద్ ఆత్మన్య్ ఏవ వశṁ నయేత్॥౨౬॥
Link copiedచల-స్వభావతయా ఆత్మన్య్ అస్థిరṁ మనో యతో యతో విషయ-ప్రావణ్య-హేతోర్ బహిర్ నిశ్చరతి తతస్ తతో యత్నేన మనో నియమ్య ఆత్మన్య్ ఏవాతిశయిత-సుఖ-భావనయా వశṁ నయేత్॥౬।౨౬॥
Link copiedప్రశాన్త-మనసṁ హ్య్ ఏనṁ యోగినṁ సుఖమ్ ఉత్తమమ్।
Link copiedఉపైతి శాన్త-రజసṁ బ్రహ్మ-భూతమ్ అకల్మషమ్॥౨౭॥
Link copiedప్రశాన్త-మనసమ్ ఆత్మని నిశ్చల-మనసమ్ ఆత్మ-న్యస్త-మనసṁ తత ఏవ హేతోర్ దగ్ధాశేష-కల్మషṁ తత ఏవ శాన్త-రజసṁ వినష్ట-రజో-గుణṁ తత ఏవ బ్రహ్మ-భూతṁ స్వ-స్వరూపేణావస్థితమ్ ఏనṁ యోగినమ్ ఆత్మానుభవ-రూపమ్ ఉత్తమṁ సుఖమ్ ఉపైతి, హీతి హేతౌ, ఉత్తమ-సుఖ-రూపమ్ ఉపైతీత్య్ అర్థః॥౬।౨౭॥
Link copiedయుఞ్జన్న్ ఏవṁ సదాత్మానṁ యోగీ విగత-కల్మషః।
Link copiedసుఖేన బ్రహ్మ-సṁస్పర్శమ్ అత్యన్తṁ సుఖమ్ అశ్నుతే॥౨౮॥
Link copiedఏవమ్ ఉక్త-ప్రకారేణాత్మానṁ యుఞ్జన్ తేనైవ విగత-ప్రాచీన-సమస్త-కల్మషో బ్రహ్మ-సṁస్పర్శో బ్రహ్మానుభవ-రూపṁ సుఖమ్ అత్యన్తమ్ అపరిమితṁ సుఖేనానాయాసేన సదా అశ్నుతే॥౬।౨౮॥
Link copiedఅథ యోగ-విపాక-దశా చతుష్-ప్రకారా ఉచ్యతే---
Link copiedసర్వ-భూత-స్థమ్ ఆత్మానṁ సర్వ-భూతాని చాత్మని।
Link copiedఈక్షతే యోగ-యుక్తాత్మా సర్వత్ర సమ-దర్శనః॥౨౯॥
Link copiedస్వాత్మనః పరేషాṁ చ భూతానాṁ ప్రకృతి-వియుక్త-స్వరూపాణాṁ జ్ఞానైకాకారతయా సామ్యాద్ వైషమ్యస్య చ ప్రకృతి-గతత్వాద్ యోగ-యుక్తాత్మా ప్రకృతి-వియుక్తేష్వ్ ఆత్మసు సర్వత్ర జ్ఞానైకాకారతయా సమ-దర్శనః సర్వ-భూత-స్థṁ స్వాత్మానṁ సర్వ-భూతాని చ స్వాత్మని ఈక్షతే। సర్వ-భూత-సమానాకారṁ స్వాత్మానṁ స్వాత్మ-సమానాకారాణి చ సర్వ-భూతాని పశ్యతీత్య్ అర్థః॥౬।౨౯॥
Link copiedఏకస్మిన్న్ ఆత్మని దృష్టో సర్వస్య ఆత్మ-వస్తునస్ తత్-సామ్యాత్ సర్వమ్ ఆత్మ-వస్తు దృష్టṁ భవతీత్య్ అర్థః। సర్వత్ర సమ-దర్శనః ఇతి వచనాత్ యోఽయṁ యోగస్ త్వయా ప్రోక్తః సామ్యేన [గీతా ౬।౩౩] ఇత్య్ అనుభాషణాచ్ చ నిర్దోషṁ హి సమṁ బ్రహ్మ [గీతా ౫।౧౯] ఇతి వచనాచ్ చ।
Link copiedయో మాṁ పశ్యతి సర్వత్ర సర్వṁ చ మయి పశ్యతి।
Link copiedతస్యాహṁ న ప్రణశ్యామి స చ మే న ప్రణశ్యతి॥౩౦॥
Link copiedతతో విపాక-దశామ్ ఆపన్నో మమ సాధర్మ్యమ్ ఉపాగతో నిరజనః పరమṁ సామ్యమ్ ఉపైతి [ము।ఉ। ౩।౧।౩] ఇత్య్ ఉచ్యమానṁ సర్వస్యాత్మ-వస్తునో విధూత-పుణ్య-పాపస్య స్వరూపేణావస్థితస్య మత్-సామ్యṁ పశ్యన్ యః సర్వత్రాత్మ-వస్తుని మాṁ పశ్యతి, సర్వమ్ ఆత్మ-వస్తు చ మయి పశ్యతి, అన్యోన్య-సామ్యాద్ అన్యతర-దర్శనేనాన్యతరద్ అపీదృశమ్ ఇతి పశ్యతి, తస్య స్వాత్మ-స్వరూపṁ పశ్యతోఽహṁ తత్-సామ్యాత్ న ప్రణశ్యామి, నాదర్శనమ్ ఉపయామి, మమాపి మాṁ పశ్యతః, మత్-సామ్యాత్ స్వాత్మానṁ మత్-సమమ్ అవలోకయన్ స నాదర్శనమ్ ఉపయాతి॥౬।౩౦॥
Link copiedతతో విపాక-దశామ్ ఆహ---
Link copiedసర్వ-భూత-స్థితṁ యో మాṁ భజత్య్ ఏకత్వమ్ ఆస్థితః।
Link copiedసర్వథా వర్తమానోఽపి స యోగీ మయి వర్తతే॥౩౧॥
Link copiedయోగ-దశాయాṁ సర్వ-భూత-స్థితṁ మామ్ అసఙ్కుచిత-జ్ఞానైకాకారతయైకత్వమ్ ఆస్థితః ప్రాకృత-భేద-పరిత్యాగేన సుదృఢṁ యో భజతే స యోగీ వ్యుత్థాన-కాలేఽపి యథా తథా వర్తమానః స్వాత్మానṁ సర్వ-భూతాని చ పశ్యన్ మయి వర్తతే మామ్ ఏవ పశ్యతి। స్వాత్మని సర్వ-భూతేషు చ సర్వదా మత్-సామ్యమ్ ఏవ పశ్యతీత్య్ అర్థః॥౬।౩౧॥
Link copiedతతోఽపి కాష్ఠామ్ ఆహ---
Link copiedఆత్మౌపమ్యేన సర్వత్ర సమṁ పశ్యతి యోఽర్జున।
Link copiedసుఖṁ వా యది వా దుఃఖṁ స యోగీ పరమో మతః॥౩౨॥
Link copiedఆత్మనశ్ చాన్యేషాṁ చాత్మనామ్ అసఙ్కుచిత-జ్ఞానైకాకారతయా ఔపమ్యేన స్వాత్మని చాన్యేషు సర్వత్ర వర్తమానṁ పుత్ర-జన్మాది-రూపṁ సుఖṁ తన్-మరణాది-రూపṁ చ దుఃఖమ్ అసమ్బన్ధ-సామ్యాత్ సమṁ యః పశ్యతి పర-పుత్ర-జన్మ-మరణాది-సమṁ స్వ-పుత్ర-జన్మ-మరణాదికṁ యః పశ్యతీత్య్ అర్థః। స యోగీ పరమ-యోగ-కాష్ఠṁ గతో మతః॥౬।౩౨॥
Link copiedఅర్జున ఉవాచ
Link copiedయోఽయṁ యోగస్ త్వయా ప్రోక్తః సామ్యేన మధుసూదన।
Link copiedఏతస్యాహṁ న పశ్యామి చఞ్చలత్వాత్ స్థితిṁ స్థిరామ్॥౩౩॥
Link copiedయోఽయṁ దేవ-మనుష్యాది-భేదేన జీవేశ్వర-భేదేన చాత్యన్త-భిన్నతయా ఏతావన్తṁ కాలమ్ అనుభూతేషు సర్వేష్వ్ ఆత్మసు జ్ఞానైకాకారతయా పరస్పర-సామ్యేనాకర్మ-వశ్యతయా చ ఈశ్వర-సామ్యేన సర్వత్ర సమ-దర్శన-రూపో యోగస్ త్వయోక్తః। ఏతస్య యోగస్య స్థిరాṁ స్థితిṁ న పశ్యామి మనసశ్ చఞ్చలత్వాత్॥౬।౩౩॥
Link copiedచఞ్చలṁ హి మనః కృష్ణ ప్రమాథి బలవద్ దృఢమ్।
Link copiedతస్యాహṁ నిగ్రహṁ మన్యే వాయోర్ ఇవ సుదుష్కరమ్॥౩౪॥
Link copiedతథా హ్య్ అనవరతాభ్యస్త-విషయేష్వ్ అపి స్వత ఏవ చఞ్చలṁ పురుషేణైకత్ర స్థాపయితుమ్ అశక్యṁ మనః పురుషṁ బలాత్ ప్రమథ్య దృఢమ్ అన్యత్ర చరతి। తస్య స్వాభ్యస్త-విషయేష్వ్ అపి చఞ్చల-స్వభావస్య మనసస్ తద్-విపరీతాకారాత్మని స్థాపయితుṁ నిగ్రహṁ ప్రతికూల-గతేర్ మహావాతస్య వ్యఞ్జనాదినేవ సుదుష్కరమ్ అహṁ మన్యే। మనో-నిగ్రహోపాయో వక్తవ్య ఇత్య్ అభిప్రాయః॥౬।౩౪॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedఅసṁశయṁ మహాబాహో మనో దుర్ణిగ్రహṁ చలమ్।
Link copiedఅభ్యాసేన తు కౌన్తేయ వైరాగ్యేణ చ గృహ్యతే॥౩౫॥
Link copiedచల-స్వభావతయా మనో దుర్నిగ్రహమ్ ఏవేత్య్ అత్ర న సṁశయః, తథాప్య్ ఆత్మనో గుణాకరత్వాభ్యాస-జనితాభిముఖ్యేనాత్మ-వ్యతిరిక్తేషు విషయేష్వ్ అపి దోషాకరత్వ-దర్శన-జనిత-వైతృష్ణ్యేన చ కథఞ్చిద్ గృహ్యతే॥౬।౩౫॥
Link copiedఅసṁయతాత్మనా యోగో దుష్ప్రాప ఇతి మే మతిః।
Link copiedవశ్యాత్మనా తు యతతా శక్యోఽవాప్తుమ్ ఉపాయతః॥౩౬॥
Link copiedఅసṁయతాత్మనాజిత-మనసా మహతా అపి బలేన యోగో దుష్ప్రాప ఏవ। ఉపాయతస్ తు వశ్యాత్మనా పూర్వోక్తేన మద్-ఆరాధన-రూపేణాన్తర్-గత-జ్ఞానేన కర్మణా జిత-మనసా యతమానేనాయమ్ ఏవ సమ-దర్శన-రూపో యోగోఽవాప్తుṁ శక్యః॥౬।౩౬॥
Link copiedఅథ నేహాభిక్రమ-నాశోఽస్తి [గీతా ౨।౪౦] ఇత్య్ ఆదావ్ ఏవ శ్రుతṁ యోగ-మాహాత్మ్యṁ యథావత్ శ్రోతుమ్ అర్జునః పృచ్ఛతి। అన్తర్-గతాత్మ-జ్ఞానతయా యోగ-శిరస్కతయా చ హి కర్మ-యోగస్య మాహాత్మ్యṁ తత్రోదితṁ తచ్ చ యోగ-మాహాత్మ్యమ్ ఏవ అర్జున ఉవాచ---
Link copiedఅయతిః శ్రద్ధయోపేతో యోగాచ్ చలితమానసః।
Link copiedఅప్రాప్య యోగ-సṁసిద్ధిṁ కాṁ గతిṁ కృష్ణ గచ్ఛతి॥౩౭॥
Link copiedశ్రద్ధయా యోగే ప్రవృత్తో దృఢతరాభ్యాస-రూప-యత్న-వైకల్యేన యోగ-సṁసిద్ధిమ్ అప్రాప్య యోగాచ్ చలిత-మానసః కాṁ గతిṁ గచ్ఛతి॥౬।౩౭॥
Link copiedకచ్చిన్ నోభయ-విభ్రష్టశ్ ఛిన్నాభ్రమ్ ఇవ నశ్యతి।
Link copiedఅప్రతిష్ఠో మహాబాహో విమూఢో బ్రహ్మణః పథి॥౩౮॥
Link copiedఉభయ-విభ్రష్టోఽయṁ ఛిన్నాభ్రమ్ ఇవ కచ్చిన్ న నశ్యతి యథా మేఘ-శకలః పూర్వస్మాత్ మహతో మేఘాచ్ ఛిన్నః పరṁ మహాన్తṁ మేఘమ్ అప్రాప్య మధ్యే వినష్టే భవతి, తథా ఏవ కచ్చిత్ న నశ్యతి, కథమ్ ఉభయ-విభ్రష్టతయా, అప్రతిష్ఠో విమూఢో బ్రహ్మణాః పథీతి, యథావస్థితṁ స్వర్గాది-సాధన-భూతṁ కర్మ ఫలాభిసన్ధి-రహితస్యాస్య పురుషస్య స్వ-ఫల-సాధనత్వేన ప్రతిష్ఠా న భవతీత్య్ అప్రతిష్ఠః। ప్రక్రాన్తే బ్రహ్మణః పథి విమూఢస్ తస్మాత్ పథః ప్రచ్యుతః, అత ఉభయ-భ్రష్టతయా కిమ్ అయṁ నశ్యత్య్ ఏవ, ఉత న నశ్యతి॥౬।౩౮॥
Link copiedఏతన్ మే సṁశయṁ కృష్ణ ఛేత్తుమ్ అర్హస్య్ అశేషతః।
Link copiedత్వద్-అన్యః సṁశయస్యాస్య ఛేత్తా న హ్య్ ఉపపద్యతే॥౩౯॥
Link copiedతమ్ ఏనṁ సṁశయమ్ అశేషతశ్ ఛేత్తుమ్ అర్హసి స్వతః ప్రత్యక్షేణ యుగపత్ సర్వṁ సర్వదా స్వత ఏవ పశ్యతస్ త్వత్తోఽన్యః సṁశయస్యాస్య ఛేత్తా న హ్య్ ఉపపద్యతే॥౬।౩౯॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedపార్థ నైవేహ నాముత్ర వినాశస్ తస్య విద్యతే।
Link copiedన హి కల్యాణ-కృత్ కశ్చిద్ దుర్గతిṁ తాత గచ్ఛతి॥౪౦॥
Link copiedశ్రద్ధయా యోగే ప్రక్రాన్తస్య తస్మాత్ ప్రచ్యుతస్య ఇహ చాముత్ర చ వినాశః న విద్యతే, ప్రాకృత-స్వర్గాది-భోగానుభవే బ్రహ్మానుభవే చాభిలషితానవాప్తి-రూపః ప్రత్యవాయాఖ్యోఽనిష్టావాప్తి-రూపశ్ చ వినాశో న విద్యత ఇత్య్ అర్థః। న హి నిరతిశయ-కల్యాణ-రూప-యోగ-కృత్ కశ్చిత్ కాల-త్రయేఽపి దుర్గతిṁ గచ్ఛతి॥౬।౪౦॥
Link copiedకథమ్ అయṁ భవిష్యతి। ఇత్య్ అత్రాహ---
Link copiedప్రాప్య పుణ్య-కృతాṁ లోకాన్ ఉషిత్వా శాశ్వతీః సమాః।
Link copiedశుచీనాṁ శ్రీమతాṁ గేహే యోగ-భ్రష్టోఽభిజాయతే॥౪౧॥
Link copiedయజ్-జాతీయ-భోగాభికాఙ్క్షయా యోగాత్ ప్రచ్యుతోఽయమ్ అతిపుణ్య-కృతాṁ ప్రాప్యాన్ లోకాన్ ప్రాప్య తజ్-జాతీయాన్ అతికల్యాణ-భోగాన్ జ్ఞానోపాయ-యోగ-మాహాత్మ్యాద్ ఏవ భుజానో యావాత్ తద్-భోగ-తృష్ణావసానṁ శాశ్వతీః సమాస్ తత్రోషిత్వా తస్మిన్ భోగే వితృష్ణః శుచీనాṁ శ్రీమతాṁ యోగోపక్రమ-యోగ్యానాṁ కులే యోగోపక్రమే భ్రష్టే యోగ-మాహాత్మ్యాజ్ జాయతే॥౬।౪౧॥
Link copiedఅథ వా యోగినామ్ ఏవ కులే భవతి ధీమతామ్।
Link copiedఏతద్ ధి దుర్లభతరṁ లోకే జన్మ యద్ ఈదృశమ్॥౪౨॥
Link copiedపరిపక్వ-యోగశ్ చలితశ్ చేద్ యోగినాṁ ధీమతాṁ యోగṁ కుర్వతాṁ స్వయమ్ ఏవ, యోగోపదేష్టౄణాṁ కులే భవతి। తద్ ఏతద్ ఉభయ-విధṁ యోగ-యోగ్యానాṁ యోగినాṁ చ కులే జన్మ లోకే ప్రాకృతానాṁ దుర్లభతరమ్, ఏతత్ తు యోగ-మాహాత్మ్య-కృతమ్॥౬।౪౨॥
Link copiedతత్ర తṁ బుద్ధి-సṁయోగṁ లభతే పౌర్వదేహికమ్।
Link copiedయతతే చ తతో భూయః సṁసిద్ధౌ కురునన్దన॥౪౩॥
Link copiedతత్ర జన్మని తమ్ ఏవ పౌర్వ-దైహికṁ యోగ-విషయṁ బుద్ధి-సṁయోగṁ లభతే। తతః స్పుత-ప్రబుద్ధవద్ భూయః సṁసిద్ధౌ యతతే। యథా నాన్తరాయ-హతో భవతి, తథా యతతే॥౬।౪౩॥
Link copiedపూర్వాభ్యాసేన తేనైవ హ్రియతే హ్య్ అవశోఽపి సః।
Link copiedజిజ్ఞాసుర్ అపి యోగస్య శబ్ద-బ్రహ్మాతివర్తతే॥౪౪॥
Link copiedతేన పూర్వాభ్యాసేన పూర్వేణ యోగ-విషయేణాభ్యాసేన స యోగ-భ్రష్టే హ్య్ అవశోఽపి యోగ ఏవ హ్రియతే, ప్రసిద్ధṁ హి ఏతద్ యోగ-మాహాత్మ్యమ్ ఇత్య్ అర్థః। అప్రవృత్త-యోగో యోగ-జిజ్ఞాసుర్ అపి తతశ్ చలిత-మానసః పునర్ అపి తామ్ ఏవ జిజ్ఞాసాṁ ప్రాప్య కర్మ-యోగాదికṁ యోగమ్ అనుష్ఠాయ శబ్ద-బ్రహ్మాతివర్తతే।
Link copiedశబ్ద-బ్రహ్మ దేవ-మనుష్య-పృథివ్య్-అన్తరిక్ష-స్వర్గాది-శబ్దాభిలాప-యోగ్యṁ బ్రహ్మ ప్రకృతిః, ప్రకృతి-సమ్బన్ధాద్ విముక్తో దేవ-మనుష్యాది-శబ్దాభిలాపానర్హṁ జ్ఞానానన్దైకతానమ్ ఆత్మానṁ ప్రాప్నోతీత్య్ అర్థః॥౬।౪౪॥
Link copiedయత ఏవṁ యోగ-మాహాత్మ్యమ్, తతః---
Link copiedప్రయత్నాద్ యతమానస్ తు యోగీ సṁశుద్ధ-కిల్బిషః।
Link copiedఅనేక-జన్మ-సṁసిద్ధస్ తతో యాతి పరాṁ గతిమ్॥౪౫॥
Link copiedఅనేక-జన్మార్జిత-పుణ్య-సఞ్చయైః సṁశుద్ధ-కిల్బిషః సṁసిద్ధః సఞ్జాతః ప్రయత్నాద్ యతమానస్ తు యోగీ చలితోఽపి పునః పరాṁ గతిṁ యాత్య్ ఏవ॥౬।౪౫॥
Link copiedఅతిశయిత-పురుషార్థ-నిష్ఠతయా యోగినః సర్వస్మాద్ ఆధిక్యమ్ ఆహ---
Link copiedతపస్విభ్యోఽధికో యోగీ జ్ఞానిభ్యోఽపి మతోఽధికః।
Link copiedకర్మిభ్యశ్ చాధికో యోగీ తస్మాద్ యోగీ భవార్జున॥౪౬॥
Link copiedకేవల-తపోభిర్ యః పురుషార్థః సాధ్యతే ఆత్మ-జ్ఞాన-వ్యతిరిక్తైర్ జ్ఞానైశ్ చ యః, యశ్ చ కేవలైర్ అశ్వమేధాదిభిః కర్మభిః, తేభ్యః సర్వేభ్యోఽధిక-పురుషార్థ-సాధనత్వాత్ యోగస్య తపస్విభ్యో జ్ఞానిభ్యః కర్మిభ్యశ్ చాధికో యోగీ తస్మాద్ యోగీ భవార్జున॥౬।౪౬॥
Link copiedతద్ ఏవṁ పర-విద్యాఙ్గ-భూతṁ ప్రజాపతి-వాక్యోదితṁ ప్రత్యగ్-ఆత్మ-దర్శనమ్ ఉక్తమ్। అథ పర-విద్యాṁ ప్రస్తౌతి---
Link copiedయోగినామ్ అపి సర్వేషాṁ మద్-గతేనాన్తరాత్మనా।
Link copiedశ్రద్ధావాన్ భజతే యో మాṁ స మే యుక్తతమో మతః॥౪౭॥
Link copiedయోగినామ్ ఇతి పఞ్చమ్య్-అర్థో షష్ఠీ। సర్వ-భూత-స్థమ్ ఇత్య్-ఆదినా చతుర్-విధా-యోగినః ప్రతిపాదితాః, తేష్వ్ అనన్తర్గతత్వాద్ వక్ష్యమాణస్య యోగినః, న నిర్ధారణే షష్ఠీ సమ్భవతి।
Link copiedఅపి సర్వేషామ్ ఇతి సర్వ-శబ్ద-నిర్దిష్టస్ తపస్వి-ప్రభృతయః, తత్రాప్య్ ఉక్తేన న్యాయేన పఞ్చమ్య్-అర్థో గ్రహీతవ్యః, యోగిభ్యోఽపి సర్వేభ్యో వక్ష్యమాణో యోగీ యుక్తతమః, తద్-అపేక్షయా అవరత్వే తపస్వి-ప్రభృతీనాṁ యోగినాṁ చ న కశ్చిద్ విశేష ఇత్య్ అర్థః। మేర్వ్-అపేక్షయా సర్వాపాణామ్ ఇవ యద్యపి సర్వాపేష్వ్ అన్యోన్య-న్యూనాధిక-భావో విద్యతే, తథాపి మేర్వ్-అపేక్షయా అవరత్వ-నిర్దేశః సమానః।
Link copiedమత్-ప్రియత్వాతిరేకేణానన్య-సాధారణ-స్వభావతయా మద్-గతేనాన్తరాత్మనా మనసా బాహ్యాభ్యన్తర-సకల-వృత్తి-విశేషాశ్రయ-భూతṁ మనో హ్య్ అన్తరాత్మా, అత్యర్థ-మత్-ప్రియత్వేన మయా వినా స్వ-ధారణా-లాభాత్ మద్-గతేన మనసా శ్రద్ధావాన్ అత్యర్థ-మత్-ప్రియత్వేన క్షణ-మాత్ర-వియోగాసహతయామ్ అప్రాప్తి-ప్రవృత్తౌ త్వరావాన్ యో మాṁ భజతే। మాṁ విచిత్రానన్త-భోగ్య-భోక్తృ-వర్గ-భోగోపకరణ-భోగ-స్థాన-పరిపూర్ణ-నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలమ్ అస్పృష్ట-శేష-దోషానవధికాతిశయ-జ్ఞాన-బలైశ్వర్య-వీర్య-శక్తి-తేజః-ప్రభృత్య్-అసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-నిధిṁ స్వాభిమతానురూపైక-రూపాచిన్త్య-దివ్యాద్భుత-నిత్య-నిరవద్య్-అనిరతిశయౌజ్జ్వల్య-సౌన్దర్య-సౌగన్ధ్య-సౌకుమార్య-లావణ్య-యౌవనాద్య్-అనన్త-గుణ-నిధి-దివ్య-రూపṁ వాఙ్-మనసాపరిచ్ఛేద్య-స్వరూప-స్వభావమ్ అపార-కారుణ్య-సౌశీల్య-వాత్సల్యౌదార్యైశ్వర్య-మహోదధిమ్ అనాలోచిత-విశేషాశేష-లోక-శరణ్యṁ ప్రణతార్తి-హరమ్ ఆశ్రిత-వాత్సల్యైక-జలధిమ్ అఖిల-మనుజ-నయన-విషయతాṁ గతమ్ అజహత్-స్వ-స్వభావṁ వసుదేవ-గృహేఽవతీర్ణమ్ అనవధికాతిశయ-తేజసా నిఖిలṁ జగద్ భాసయన్తమ్ ఆత్మ-కాన్త్యా విశ్వమ్ ఆప్యాయన్తṁ భజతే, సేవత ఉపాసత ఇత్య్ అర్థః। స మే యుక్తతమో మతః, స సర్వేభ్యః శ్రేష్ఠతమ ఇతి సర్వṁ సర్వదా యథావస్థితṁ స్వత ఏవ సాక్షాత్-కుర్వన్ అహṁ మన్యే॥౬।౪౭॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే షష్ఠోఽధ్యాయః॥౬॥
Link copied**
Link copieduktaḥ karma-yogaḥ sa-parikaraḥ| idānīṁ jñāna-yoga-karma-yoga-sādhyātmāvalokana-rūpa-yogābhyāsa-vidhir ucyate| tatra karma-yogasya nirapekṣa-yoga-sādhanatvaṁ draḍhayituṁ jñānākāraḥ karma-yogo yoga-śirasko'nūdyate|
Link copiedanāśritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ|
Link copiedsa sannyāsī ca yogī ca na niragnir na cākriyaḥ||1||
Link copiedkarma-phalaṁ svargādikam anāśritaḥ kāryaṁ karmānuṣṭhānam eva kāryaṁ sarvātmanāsmat-suhṛd-bhūta-parama-puruṣārādhana-rūpatayā karmaiva mama prayojanaṁ na tat-sādhyaṁ kiñcid iti yaḥ karma karoti, sa sannyāsī ca jñāna-yoga-niṣṭhaś ca yogī ca karma-yoga-niṣṭhaś ca| ātmāvalokana-rūpa-yoga-sādhana-bhūtobhaya-niṣṭha ity arthaḥ| na niragniś cākriyaḥ--- na codita-yajñādi-karmasv apravṛttaḥ, kevala-jñāna-niṣṭhaḥ| tasya hi jñāna-niṣṭhā eva karma-yoga-niṣṭhasya tūbhayam astīty abhiprāyaḥ||6.1||
Link copiedukta-lakṣaṇe karma-yoge jñānam apy asti, ity āha---
Link copiedyaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava|
Link copiedna hy asannyasta-saṅkalpo yogī bhavati kaścana||2||
Link copiedjñāna-yoga ity ātma-yāthātmya-jñānam iti prāhus taṁ karma-yogam eva viddhi| tad upapādayati, na hy asannyasta-saṅkalpo yogī bhavati kaścana iti| ātma-yāthātmyānusandhānenānātmani prakṛtav ātma-saṅkalpaḥ sannyastaḥ parityakto yena sa sannyasta-saṅkalpaḥ, anevambhūtāṛ yaḥ sāsannyasta-saṅkalpaḥ| na hy ukteṣu karma-yogeṣv anevambhūtaḥ kaścana karma-yogī bhavati| yasya sarve samārambhāḥ kāmasaṅkalpa-varjitāḥ [gītā 4.19] iti hy uktam||6.2||
Link copiedkarma-yoga evāpramādena yogaṁ sādhayatīty āha---
Link copiedārurukṣor muner yogaṁ karma kāraṇam ucyate|
Link copiedyogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate||3||
Link copiedyogam ātmāvalokanaṁ prāptum icchoḥ mumukṣoḥ karma-yoga eva kāraṇam ucyate| tasya eva yogārūḍhasya pratiṣṭhita-yogasya eva śamaḥ karma-nivṛttiḥ kāraṇam ucyate| yāvad ātmāvalokana-rūpa-mokṣa-prāptiḥ, tāvat karma kāryam ity arthaḥ||6.3||
Link copiedkadā pratiṣṭhita-yogo bhavati| ity atrāha---
Link copiedyadā hi nendriyārtheṣu na karmasv anuṣajjate|
Link copiedsarva-saṅkalpa-sannyāsī yogārūḍhas tadocyate||4||
Link copiedyadāyaṁ yogī ātmaikānubhava-svabhāvatayā indriyārtheṣv ātma-vyatirikta-prākṛta-viṣayeṣu tat-sambandhiṣu karmasu ca nānuṣajjate na saṅgam arhati, tadā hi sarva-saṅkalpa-sannyāsī yogārūḍha ity ucyate| tasmād ārurukṣor viṣayānubhavārhatayā tad-ananuṣaṅgābhyāsa-rūpaḥ karma-yoga eva niṣpatti-kāraṇam, ato viṣayānanuṣaṅgābhyāsa-rūpaṁ karma-yogam eva ārurukṣuḥ kuryāt||6.4||
Link copiedtad eva āha---
Link copieduddhared ātmanātmānaṁ nātmānam avasādayet|
Link copiedātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ||5||
Link copiedātmanā manasā viṣayānanuṣaktena manasā ātmānam uddharet| tad-viparītena manasā ātmānaṁ nāvasādayet| ātmaiva mana eva hy ātmano bandhuḥ, tad evātmano ripuḥ||6.5||
Link copiedbandhur ātmātmanas tasya yenātmaivātmanā jitaḥ|
Link copiedanātmanas tu śatrutve vartetātmaiva śatruvat||6||
Link copiedyena puruṣeṇa svenaiva sva-mano viṣayebhyo jitaṁ tan-manas tasya bandhuḥ, anātmano'jita-manasaḥ svakīyam eva manaḥ svasya śatruvat śatrutve varteta, sva-niḥśreyasa-viparīte varteta ity arthaḥ| yathoktaṁ bhagavatā parāśareṇāpi---
Link copiedmana eva manuṣyāṇāṁ kāraṇaṁ bandha-mokṣayoḥ|
Link copiedbandhāya viṣayāsaṅgi muktyai nirviṣayaṁ manaḥ| [vi.pu. 6.7.28] iti||6.6||
Link copied
yogārambha-yogyāvasthā ucyate---
Link copiedjitātmanaḥ praśāntasya paramātmā samāhitaḥ|
Link copiedśītoṣṇa-sukha-duḥkheṣu tathā mānāpamānayoḥ||7||
Link copiedśītoṣṇasukha-duḥkheṣu mānāpamānayoś ca jitātmanaḥ jitamanasaḥ, vikārarahitamanasaḥ| praśāntasya manasi paramātmā samāhitaḥ samyagāhitaḥ| svarūpeṇāvasthitaḥ pratyagātmā atra paramātmā ityucyate, tasya eva prakṛtatvāt, tasyāpi pūrvapūrvāsthāpekṣayā paramātmatvāt| ātmā paraṁ samāhita iti vā sambandhaḥ||6.7||
Link copiedjñāna-vijñāna-tṛptātmā ātma-svarūpa-viṣayeṇa jñānena tasya ca prakṛti-visajātīyākāra-viṣayeṇa vijñānena ca tṛpta-manāḥ kūṭasthaḥ--- devādy-avasthāsv anuvartamānaḥ sarva-sādhāraṇa-jñānaikākārātmani sthitaḥ, tatraiva vijitendriyaḥ, sama-loṣṭāśma-kāñcanaḥ--- prakṛti-vivikta-svarūpa-niṣṭhatayā prākṛta-vastu-viśeṣeṣu bhogyatvābhāvāt loṣṭāśma-kāñcaneṣu sama-prayojano yaḥ karma-yogī sa yukta ity ucyate---
Link copiedjñāna-vijñāna-tṛptātmā kūṭastho vijitendriyaḥ|
Link copiedyukta ity ucyate yogī sama-loṣṭāśma-kāñcanaḥ||8||
Link copiedātmāvalokana-rūpa-yogābhyāsārha ucyate||6.8||
Link copiedtathā ca---
Link copiedsuhṛn-mitrāry-udāsīna-madhyastha-dveṣya-bandhuṣu|
Link copiedsādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate||9||
Link copiedvayo-viśeṣānaṅgīkāreṇa sva-hitaiṣiṇaḥ suhṛdaḥ, sa-vayaso hitaiṣiṇo mitrāṇi, arayo nimittato'narthocchavaḥ, ubhaya-hetv-abhāvād ubhaya-rahitā udāsīnāḥ, janmata eva ubhaya-rahitā madhya-sthāḥ, janmata evāniṣṭocchavo dveṣyāḥ, janmata eva hitaiṣiṇo bandhavaḥ, sādhavo dharma-śīlāḥ, pāpāḥ papa-śīlāḥ, ātmaika-prayojanatayā suhṛn-mitrādibhiḥ prayojanābhāvād virodhābhāvāc ca teṣu sama-buddhiḥ, yogābhyāsārhatve viśiṣyate||6.9||
Link copiedyogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ|
Link copiedekākī yata-cittātmā nirāśīr aparigrahaḥ||10||
Link copiedyogī ukta-prakāra-karma-yoga-niṣṭhaḥ satatam ahar-ahaḥ yoga-kāle ātmānaṁ yuñjīta, ātmānaṁ yuktaṁ kurvīta| sva-darśana-niṣṭhaṁ kurvītety arthaḥ| rahasi jana-varjite niḥśabde deśe sthitaḥ, ekākī tatrāpi na sa-dvitīyaḥ, tatrāpi yata-cittātmā yata-citta-manaskaḥ, nirāśīr ātma-vyatirikte kṛtsne vastuni nirapekṣaḥ, aparigrahas tad-vyatirikte kasmiṁścid api mamatā-rahitaḥ||6.10||
Link copiedśucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ|
Link copiednātyucchritaṁ nātinīcaṁ cailājina-kuśottaram||11||
Link copiedtatraikāgraṁ manaḥ kṛtvā yata-cittendriya-kriyaḥ|
Link copiedupaviśyāsane yuñjyād yogam ātma-viśuddhaye||12||
Link copiedśucau deśe'śucibhiḥ puruṣair anadhiṣṭhite'parigṛhīte cāśucibhir vastubhir aspṛṣṭaś ca pavitrī-bhūte deśe dārv-ādi-nirmitaṁ nātyucchritaṁ nātinīcaṁ cailājina-kuśottaram āsanaṁ pratiṣṭhāya tasmin manaḥ-prasāda-kare sāpāśraye upaviśya yogaikāgram avyākulam manaḥ kṛtvā yata-cittendriya-kriyaḥ sarvātmanopasaṁhṛta-cittendriya-kriyaḥ ātma-viśuddhaye bandha-vimuktaye yogaṁ yuñjyāt| ātmāvalokanaṁ kurvīta||6.11-12||
Link copiedsamaṁ kāya-śiro-grīvaṁ dhārayann acalaṁ sthiraḥ|
Link copiedsamprekṣya nāsikāgraṁ svaṁ diśaś cānavalokayan||13||
Link copiedpraśāntātmā vigata-bhīr brahmacāri-vrate sthitaḥ|
Link copiedmanaḥ saṁyamya mac-citto yukta āsīta mat-paraḥ||14||
Link copiedkāya-śiro-grīvaṁ samam acalaṁ sāpāśrayatayā sthiraṁ dhārayan diśaś cānavalokayan svaṁ nāsikāgraṁ samprekṣya praśāntātmā atyanta-nirvṛta-manāḥ vigata-bhīr brahmacarya-yukto manaḥ saṁyamya mac-citto yukto'vahito mat-para āsīta mām eva cintayan āsīta||6.13-14||
Link copiedyuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ|
Link copiedśāntiṁ nirvāṇa-paramāṁ mat-saṁsthām adhigacchati||15||
Link copiedevaṁ mayi parasmin brahmaṇi puruṣottame manasaḥ śubhāśraye sadātmānaṁ mano yuñjan niyata-mānaso niścala-mānasaḥ mat-sparśa-pavitrīkṛta-mānasatayā niścala-mānasaḥ mat-saṁsthāṁ nirvāṇa-paramāṁ śāntim adhigacchati nirvāṇa-kāṣṭhā-rūpāṁ mat-saṁsthāṁ mayi saṁsthitāṁ śāntim adhigacchati||6.15||
Link copiedevam ātma-yogam ārabhamāṇasya mano-nairmalya-hetu-bhūtāṁ manaso bhagavati śubhāśraye sthitim abhidhāyānyad api yogopakaraṇam āha---
Link copiednātyaśnatas tu yogo'sti na caikāntam anaśnataḥ|
Link copiedna cātisvapna-śīlasya jāgrato naiva cārjuna||16||
Link copiedatyaśanānaśane yoga-virodhinī, ativihāra-vihārau ca tathātimātra-svapna-jāgarye tathā cātyāyāsānāyāsau||6.16||
Link copiedyuktāhāra-vihārasya yukta-ceṣṭasya karmasu|
Link copiedyukta-svapnāvabodhasya yogo bhavati duḥkhahā||17||
Link copiedmitāhāra-vihārasya mitāyāsasya mita-svapnāvabodhasya sakala-duḥkhahā bandha-nāśano yogaḥ sampanno bhavati||6.17||
Link copiedyadā viniyataṁ cittam ātmany evāvatiṣṭhate|
Link copiedniḥspṛhaḥ sarva-kāmebhyo yukta ity ucyate tadā||18||
Link copiedyadā prayojana-viṣayaṁ cittam ātmany eva viniyataṁ viśeṣeṇa niyataṁ niratiśaya-prayojanatayā tatraiva niyataṁ niścalam avatiṣṭhate tadā sarva-kāmebhyo niḥspṛhaḥ san yukta ity ucyate yogārha ity ucyate||6.18||
Link copiedyathā dīpo nivāta-stho neṅgate sopamā smṛtā|
Link copiedyogino yata-cittasya yuñjato yogam ātmanaḥ||19||
Link copiednivāta-stho dīpo yathā neṅgate na calati, acalaḥ sa-prabhas tiṣṭhati, yata-cittasya nivṛtta-sakaletara-mano-vṛtter yogina ātmani yogaṁ yuñjataḥ ātma-svarūpasya sopamā|
Link copiednivāta-sthatayā niścala-sa-prabha-dīpavan nivṛtta-sakaletara-mano-vṛttitayā niścalo jñāna-prabha ātmā tiṣṭhatīty arthaḥ||6.19||
Link copiedyatroparamate cittaṁ niruddhaṁ yoga-sevayā|
Link copiedyatra caivātmanātmānaṁ paśyann ātmani tuṣyati||20||
Link copiedyoga-sevāyāṁ hetunā sarvatra niruddhaṁ cittaṁ yatra yoga uparamate'tiśayita-sukham idam eveti ramate, yatra ca yoga ātmanā manasātmānaṁ paśyann anya-nirapekṣam ātmany eva tuṣyati||6.20||
Link copiedsukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam|
Link copiedvetti yatra na caivāyaṁ sthitaś calati tattvataḥ||21||
Link copiedyat tad atīndriyam ātma-buddhy-eka-grāhyam ātyantikaṁ sukhaṁ yatra ca yoge vetty anubhavati yatra ca yoge sthitaḥ sukhātirekeṇa tattvatas tad-bhāvāt na calati||6.21||
Link copiedyaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ|
Link copiedyasmin sthito na duḥkhena guruṇāpi vicālyate||22||
Link copiedyaṁ yogaṁ labdhvā yogād viratas tam eva kāṅkṣamāṇo nāparaṁ lābhaṁ manyate, yasmin ca yoge sthito'virato'pi guṇavat-putra-viyogādinā guruṇāpi duḥkhena na vicālyate||6.22||
Link copiedtaṁ vidyād duḥkha-saṁyoga-viyogaṁ yoga-saṁjñitam|
Link copiedsa niścayena yoktavyo yogo'nirviṇṇa-cetasā||23||
Link copiedtaṁ duḥkha-saṁyoga-viyogaṁ duḥkha-saṁyoga-pratyanīkākāraṁ yoga-śabdābhidheyaṁ jñānaṁ vidyāt, sa evambhūto yoga ity ārambha-daśāyāṁ niścayenānirviṇṇa-cetasā hṛṣṭa-cetasā yogo yoktavyaḥ||6.23||
Link copiedsaṅkalpa-prabhavān kāmāṁs tyaktvā sarvān aśeṣataḥ|
Link copiedmanasaivendriya-grāmaṁ viniyamya samantataḥ||24||
Link copiedśanaiḥ śanair uparamed buddhyā dhṛti-gṛhītayā|
Link copiedātmasaṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet||25||
Link copiedsparśajāḥ saṅkalpajāś ceti dvi-vidhāḥ kāmāḥ sparśajāḥ śītoṣṇādayaḥ, saṅkalpajāḥ putra-pautra-kṣetrādayaḥ, tatra saṅkalpa-prabhavāḥ svarūpeṇa eva tyaktuṁ śakyāḥ, tān sarvān manasā eva tad-ananvayānusandhānena tyaktvā sparśajeṣv avarjanīyeṣu tan-nimitta-harṣodvegau tyaktvā samantataḥ sarvasmād viṣayāt sarvam indriya-grāmaṁ viniyamya śanaiḥ śanaiḥ dhṛti-gṛhītayā viveka-viṣayayā buddhyā sarvasmād ātma-vyatiriktād uparamya ātma-saṁsthaṁ manaḥ kṛtvā na kiñcid api cintayet||6.24-25||
Link copiedyato yato niścarati manaś cañcalam asthiram|
Link copiedtatas tato niyamyaitad ātmany eva vaśaṁ nayet||26||
Link copiedcala-svabhāvatayā ātmany asthiraṁ mano yato yato viṣaya-prāvaṇya-hetor bahir niścarati tatas tato yatnena mano niyamya ātmany evātiśayita-sukha-bhāvanayā vaśaṁ nayet||6.26||
Link copiedpraśānta-manasaṁ hy enaṁ yoginaṁ sukham uttamam|
Link copiedupaiti śānta-rajasaṁ brahma-bhūtam akalmaṣam||27||
Link copiedpraśānta-manasam ātmani niścala-manasam ātma-nyasta-manasaṁ tata eva hetor dagdhāśeṣa-kalmaṣaṁ tata eva śānta-rajasaṁ vinaṣṭa-rajo-guṇaṁ tata eva brahma-bhūtaṁ sva-svarūpeṇāvasthitam enaṁ yoginam ātmānubhava-rūpam uttamaṁ sukham upaiti, hīti hetau, uttama-sukha-rūpam upaitīty arthaḥ||6.27||
Link copiedyuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣaḥ|
Link copiedsukhena brahma-saṁsparśam atyantaṁ sukham aśnute||28||
Link copiedevam ukta-prakāreṇātmānaṁ yuñjan tenaiva vigata-prācīna-samasta-kalmaṣo brahma-saṁsparśo brahmānubhava-rūpaṁ sukham atyantam aparimitaṁ sukhenānāyāsena sadā aśnute||6.28||
Link copiedatha yoga-vipāka-daśā catuṣ-prakārā ucyate---
Link copiedsarva-bhūta-stham ātmānaṁ sarva-bhūtāni cātmani|
Link copiedīkṣate yoga-yuktātmā sarvatra sama-darśanaḥ||29||
Link copiedsvātmanaḥ pareṣāṁ ca bhūtānāṁ prakṛti-viyukta-svarūpāṇāṁ jñānaikākāratayā sāmyād vaiṣamyasya ca prakṛti-gatatvād yoga-yuktātmā prakṛti-viyukteṣv ātmasu sarvatra jñānaikākāratayā sama-darśanaḥ sarva-bhūta-sthaṁ svātmānaṁ sarva-bhūtāni ca svātmani īkṣate| sarva-bhūta-samānākāraṁ svātmānaṁ svātma-samānākārāṇi ca sarva-bhūtāni paśyatīty arthaḥ||6.29||
Link copiedekasminn ātmani dṛṣṭo sarvasya ātma-vastunas tat-sāmyāt sarvam ātma-vastu dṛṣṭaṁ bhavatīty arthaḥ| sarvatra sama-darśanaḥ iti vacanāt yo'yaṁ yogas tvayā proktaḥ sāmyena [gītā 6.33] ity anubhāṣaṇāc ca nirdoṣaṁ hi samaṁ brahma [gītā 5.19] iti vacanāc ca|
Link copiedyo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati|
Link copiedtasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati||30||
Link copiedtato vipāka-daśām āpanno mama sādharmyam upāgato nirajanaḥ paramaṁ sāmyam upaiti [mu.u. 3.1.3] ity ucyamānaṁ sarvasyātma-vastuno vidhūta-puṇya-pāpasya svarūpeṇāvasthitasya mat-sāmyaṁ paśyan yaḥ sarvatrātma-vastuni māṁ paśyati, sarvam ātma-vastu ca mayi paśyati, anyonya-sāmyād anyatara-darśanenānyatarad apīdṛśam iti paśyati, tasya svātma-svarūpaṁ paśyato'haṁ tat-sāmyāt na praṇaśyāmi, nādarśanam upayāmi, mamāpi māṁ paśyataḥ, mat-sāmyāt svātmānaṁ mat-samam avalokayan sa nādarśanam upayāti||6.30||
Link copiedtato vipāka-daśām āha---
Link copiedsarva-bhūta-sthitaṁ yo māṁ bhajaty ekatvam āsthitaḥ|
Link copiedsarvathā vartamāno'pi sa yogī mayi vartate||31||
Link copiedyoga-daśāyāṁ sarva-bhūta-sthitaṁ mām asaṅkucita-jñānaikākāratayaikatvam āsthitaḥ prākṛta-bheda-parityāgena sudṛḍhaṁ yo bhajate sa yogī vyutthāna-kāle'pi yathā tathā vartamānaḥ svātmānaṁ sarva-bhūtāni ca paśyan mayi vartate mām eva paśyati| svātmani sarva-bhūteṣu ca sarvadā mat-sāmyam eva paśyatīty arthaḥ||6.31||
Link copiedtato'pi kāṣṭhām āha---
Link copiedātmaupamyena sarvatra samaṁ paśyati yo'rjuna|
Link copiedsukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ||32||
Link copiedātmanaś cānyeṣāṁ cātmanām asaṅkucita-jñānaikākāratayā aupamyena svātmani cānyeṣu sarvatra vartamānaṁ putra-janmādi-rūpaṁ sukhaṁ tan-maraṇādi-rūpaṁ ca duḥkham asambandha-sāmyāt samaṁ yaḥ paśyati para-putra-janma-maraṇādi-samaṁ sva-putra-janma-maraṇādikaṁ yaḥ paśyatīty arthaḥ| sa yogī parama-yoga-kāṣṭhaṁ gato mataḥ||6.32||
Link copiedarjuna uvāca
Link copiedyo'yaṁ yogas tvayā proktaḥ sāmyena madhusūdana|
Link copiedetasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām||33||
Link copiedyo'yaṁ deva-manuṣyādi-bhedena jīveśvara-bhedena cātyanta-bhinnatayā etāvantaṁ kālam anubhūteṣu sarveṣv ātmasu jñānaikākāratayā paraspara-sāmyenākarma-vaśyatayā ca īśvara-sāmyena sarvatra sama-darśana-rūpo yogas tvayoktaḥ| etasya yogasya sthirāṁ sthitiṁ na paśyāmi manasaś cañcalatvāt||6.33||
Link copiedcañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham|
Link copiedtasyāhaṁ nigrahaṁ manye vāyor iva suduṣkaram||34||
Link copiedtathā hy anavaratābhyasta-viṣayeṣv api svata eva cañcalaṁ puruṣeṇaikatra sthāpayitum aśakyaṁ manaḥ puruṣaṁ balāt pramathya dṛḍham anyatra carati| tasya svābhyasta-viṣayeṣv api cañcala-svabhāvasya manasas tad-viparītākārātmani sthāpayituṁ nigrahaṁ pratikūla-gater mahāvātasya vyañjanādineva suduṣkaram ahaṁ manye| mano-nigrahopāyo vaktavya ity abhiprāyaḥ||6.34||
Link copiedśrī-bhagavān uvāca
Link copiedasaṁśayaṁ mahābāho mano durṇigrahaṁ calam|
Link copiedabhyāsena tu kaunteya vairāgyeṇa ca gṛhyate||35||
Link copiedcala-svabhāvatayā mano durnigraham evety atra na saṁśayaḥ, tathāpy ātmano guṇākaratvābhyāsa-janitābhimukhyenātma-vyatirikteṣu viṣayeṣv api doṣākaratva-darśana-janita-vaitṛṣṇyena ca kathañcid gṛhyate||6.35||
Link copiedasaṁyatātmanā yogo duṣprāpa iti me matiḥ|
Link copiedvaśyātmanā tu yatatā śakyo'vāptum upāyataḥ||36||
Link copiedasaṁyatātmanājita-manasā mahatā api balena yogo duṣprāpa eva| upāyatas tu vaśyātmanā pūrvoktena mad-ārādhana-rūpeṇāntar-gata-jñānena karmaṇā jita-manasā yatamānenāyam eva sama-darśana-rūpo yogo'vāptuṁ śakyaḥ||6.36||
Link copiedatha nehābhikrama-nāśo'sti [gītā 2.40] ity ādāv eva śrutaṁ yoga-māhātmyaṁ yathāvat śrotum arjunaḥ pṛcchati| antar-gatātma-jñānatayā yoga-śiraskatayā ca hi karma-yogasya māhātmyaṁ tatroditaṁ tac ca yoga-māhātmyam eva arjuna uvāca---
Link copiedayatiḥ śraddhayopeto yogāc calitamānasaḥ|
Link copiedaprāpya yoga-saṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati||37||
Link copiedśraddhayā yoge pravṛtto dṛḍhatarābhyāsa-rūpa-yatna-vaikalyena yoga-saṁsiddhim aprāpya yogāc calita-mānasaḥ kāṁ gatiṁ gacchati||6.37||
Link copiedkaccin nobhaya-vibhraṣṭaś chinnābhram iva naśyati|
Link copiedapratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi||38||
Link copiedubhaya-vibhraṣṭo'yaṁ chinnābhram iva kaccin na naśyati yathā megha-śakalaḥ pūrvasmāt mahato meghāc chinnaḥ paraṁ mahāntaṁ megham aprāpya madhye vinaṣṭe bhavati, tathā eva kaccit na naśyati, katham ubhaya-vibhraṣṭatayā, apratiṣṭho vimūḍho brahmaṇāḥ pathīti, yathāvasthitaṁ svargādi-sādhana-bhūtaṁ karma phalābhisandhi-rahitasyāsya puruṣasya sva-phala-sādhanatvena pratiṣṭhā na bhavatīty apratiṣṭhaḥ| prakrānte brahmaṇaḥ pathi vimūḍhas tasmāt pathaḥ pracyutaḥ, ata ubhaya-bhraṣṭatayā kim ayaṁ naśyaty eva, uta na naśyati||6.38||
Link copiedetan me saṁśayaṁ kṛṣṇa chettum arhasy aśeṣataḥ|
Link copiedtvad-anyaḥ saṁśayasyāsya chettā na hy upapadyate||39||
Link copiedtam enaṁ saṁśayam aśeṣataś chettum arhasi svataḥ pratyakṣeṇa yugapat sarvaṁ sarvadā svata eva paśyatas tvatto'nyaḥ saṁśayasyāsya chettā na hy upapadyate||6.39||
Link copiedśrī-bhagavān uvāca
Link copiedpārtha naiveha nāmutra vināśas tasya vidyate|
Link copiedna hi kalyāṇa-kṛt kaścid durgatiṁ tāta gacchati||40||
Link copiedśraddhayā yoge prakrāntasya tasmāt pracyutasya iha cāmutra ca vināśaḥ na vidyate, prākṛta-svargādi-bhogānubhave brahmānubhave cābhilaṣitānavāpti-rūpaḥ pratyavāyākhyo'niṣṭāvāpti-rūpaś ca vināśo na vidyata ity arthaḥ| na hi niratiśaya-kalyāṇa-rūpa-yoga-kṛt kaścit kāla-traye'pi durgatiṁ gacchati||6.40||
Link copiedkatham ayaṁ bhaviṣyati| ity atrāha---
Link copiedprāpya puṇya-kṛtāṁ lokān uṣitvā śāśvatīḥ samāḥ|
Link copiedśucīnāṁ śrīmatāṁ gehe yoga-bhraṣṭo'bhijāyate||41||
Link copiedyaj-jātīya-bhogābhikāṅkṣayā yogāt pracyuto'yam atipuṇya-kṛtāṁ prāpyān lokān prāpya taj-jātīyān atikalyāṇa-bhogān jñānopāya-yoga-māhātmyād eva bhujāno yāvāt tad-bhoga-tṛṣṇāvasānaṁ śāśvatīḥ samās tatroṣitvā tasmin bhoge vitṛṣṇaḥ śucīnāṁ śrīmatāṁ yogopakrama-yogyānāṁ kule yogopakrame bhraṣṭe yoga-māhātmyāj jāyate||6.41||
Link copiedatha vā yoginām eva kule bhavati dhīmatām|
Link copiedetad dhi durlabhataraṁ loke janma yad īdṛśam||42||
Link copiedparipakva-yogaś calitaś ced yogināṁ dhīmatāṁ yogaṁ kurvatāṁ svayam eva, yogopadeṣṭṝṇāṁ kule bhavati| tad etad ubhaya-vidhaṁ yoga-yogyānāṁ yogināṁ ca kule janma loke prākṛtānāṁ durlabhataram, etat tu yoga-māhātmya-kṛtam||6.42||
Link copiedtatra taṁ buddhi-saṁyogaṁ labhate paurvadehikam|
Link copiedyatate ca tato bhūyaḥ saṁsiddhau kurunandana||43||
Link copiedtatra janmani tam eva paurva-daihikaṁ yoga-viṣayaṁ buddhi-saṁyogaṁ labhate| tataḥ sputa-prabuddhavad bhūyaḥ saṁsiddhau yatate| yathā nāntarāya-hato bhavati, tathā yatate||6.43||
Link copiedpūrvābhyāsena tenaiva hriyate hy avaśo'pi saḥ|
Link copiedjijñāsur api yogasya śabda-brahmātivartate||44||
Link copiedtena pūrvābhyāsena pūrveṇa yoga-viṣayeṇābhyāsena sa yoga-bhraṣṭe hy avaśo'pi yoga eva hriyate, prasiddhaṁ hi etad yoga-māhātmyam ity arthaḥ| apravṛtta-yogo yoga-jijñāsur api tataś calita-mānasaḥ punar api tām eva jijñāsāṁ prāpya karma-yogādikaṁ yogam anuṣṭhāya śabda-brahmātivartate|
Link copiedśabda-brahma deva-manuṣya-pṛthivy-antarikṣa-svargādi-śabdābhilāpa-yogyaṁ brahma prakṛtiḥ, prakṛti-sambandhād vimukto deva-manuṣyādi-śabdābhilāpānarhaṁ jñānānandaikatānam ātmānaṁ prāpnotīty arthaḥ||6.44||
Link copiedyata evaṁ yoga-māhātmyam, tataḥ---
Link copiedprayatnād yatamānas tu yogī saṁśuddha-kilbiṣaḥ|
Link copiedaneka-janma-saṁsiddhas tato yāti parāṁ gatim||45||
Link copiedaneka-janmārjita-puṇya-sañcayaiḥ saṁśuddha-kilbiṣaḥ saṁsiddhaḥ sañjātaḥ prayatnād yatamānas tu yogī calito'pi punaḥ parāṁ gatiṁ yāty eva||6.45||
Link copiedatiśayita-puruṣārtha-niṣṭhatayā yoginaḥ sarvasmād ādhikyam āha---
Link copiedtapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ|
Link copiedkarmibhyaś cādhiko yogī tasmād yogī bhavārjuna||46||
Link copiedkevala-tapobhir yaḥ puruṣārthaḥ sādhyate ātma-jñāna-vyatiriktair jñānaiś ca yaḥ, yaś ca kevalair aśvamedhādibhiḥ karmabhiḥ, tebhyaḥ sarvebhyo'dhika-puruṣārtha-sādhanatvāt yogasya tapasvibhyo jñānibhyaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna||6.46||
Link copiedtad evaṁ para-vidyāṅga-bhūtaṁ prajāpati-vākyoditaṁ pratyag-ātma-darśanam uktam| atha para-vidyāṁ prastauti---
Link copiedyoginām api sarveṣāṁ mad-gatenāntarātmanā|
Link copiedśraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ||47||
Link copiedyoginām iti pañcamy-artho ṣaṣṭhī| sarva-bhūta-stham ity-ādinā catur-vidhā-yoginaḥ pratipāditāḥ, teṣv anantargatatvād vakṣyamāṇasya yoginaḥ, na nirdhāraṇe ṣaṣṭhī sambhavati|
Link copiedapi sarveṣām iti sarva-śabda-nirdiṣṭas tapasvi-prabhṛtayaḥ, tatrāpy uktena nyāyena pañcamy-artho grahītavyaḥ, yogibhyo'pi sarvebhyo vakṣyamāṇo yogī yuktatamaḥ, tad-apekṣayā avaratve tapasvi-prabhṛtīnāṁ yogināṁ ca na kaścid viśeṣa ity arthaḥ| merv-apekṣayā sarvāpāṇām iva yadyapi sarvāpeṣv anyonya-nyūnādhika-bhāvo vidyate, tathāpi merv-apekṣayā avaratva-nirdeśaḥ samānaḥ|
Link copiedmat-priyatvātirekeṇānanya-sādhāraṇa-svabhāvatayā mad-gatenāntarātmanā manasā bāhyābhyantara-sakala-vṛtti-viśeṣāśraya-bhūtaṁ mano hy antarātmā, atyartha-mat-priyatvena mayā vinā sva-dhāraṇā-lābhāt mad-gatena manasā śraddhāvān atyartha-mat-priyatvena kṣaṇa-mātra-viyogāsahatayām aprāpti-pravṛttau tvarāvān yo māṁ bhajate| māṁ vicitrānanta-bhogya-bhoktṛ-varga-bhogopakaraṇa-bhoga-sthāna-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlam aspṛṣṭa-śeṣa-doṣānavadhikātiśaya-jñāna-balaiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṅkhyeya-kalyāṇa-guṇa-gaṇa-nidhiṁ svābhimatānurūpaika-rūpācintya-divyādbhuta-nitya-niravady-aniratiśayaujjvalya-saundarya-saugandhya-saukumārya-lāvaṇya-yauvanādy-ananta-guṇa-nidhi-divya-rūpaṁ vāṅ-manasāparicchedya-svarūpa-svabhāvam apāra-kāruṇya-sauśīlya-vātsalyaudāryaiśvarya-mahodadhim anālocita-viśeṣāśeṣa-loka-śaraṇyaṁ praṇatārti-haram āśrita-vātsalyaika-jaladhim akhila-manuja-nayana-viṣayatāṁ gatam ajahat-sva-svabhāvaṁ vasudeva-gṛhe'vatīrṇam anavadhikātiśaya-tejasā nikhilaṁ jagad bhāsayantam ātma-kāntyā viśvam āpyāyantaṁ bhajate, sevata upāsata ity arthaḥ| sa me yuktatamo mataḥ, sa sarvebhyaḥ śreṣṭhatama iti sarvaṁ sarvadā yathāvasthitaṁ svata eva sākṣāt-kurvan ahaṁ manye||6.47||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye ṣaṣṭho'dhyāyaḥ||6||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 6 — The Yoga of Meditation-Practice (in Sanskrit: Abhyāsa-yoga or Dhyāna-yoga)
The Sixth Lecture unfolds the detailed discipline of meditation — the practice (abhyāsa) by which karma-yoga culminates in ātman-vision. Sri Krishna now teaches how mind is made friend rather than foe, how the yogi sits and eats and sleeps, what four stages of equal-vision the meditation produces, and — crowning the whole — which yogi stands higher than every other. This last verse (VI.47) is a gateway opening into the Second Division of the Gita, the great teaching of bhakti. Yamunacharya summarises: "The mode and means of doing Yoga; Yogis are four; Yoga's perfections end in God — such is the Sixth Book's lore."
Link copiedVerses 1–4 (Who is the true sannyāsī and yogi)
Verse 6.1. "He is the sannyāsī, he is the yogi, who discharges work as duty, independent of its fruit — not he that is fire-less (anagnih), not he that is act-less (akriyaḥ)."
Link copiedRamanuja reads this as a recapitulatory assertion: karma-yoga is the immediate means; it has the wisdom-aspect within it; it aims at yoga (meditation preceding ātman-vision). Whosoever performs work independently of fruits, as worshipful service to the Supreme Spirit — our Real Loving Friend — is both the sannyāsī (the jñāna-yogī) and the true yogi (the karma-yogī). The true sannyāsī is not the one who simply abstains from Vedic fire-rituals or ceases to do Sastra-enjoined work; he is the one who engages in work answering at once to the requirements of both action and knowledge.
Link copiedVerse 6.2. "What they call sannyāsa, Pandava, know it is yoga. No one becomes a yogi who is not exempt from delusion (sannyasta-saṅkalpaḥ)."
Link copiedDelusion is the error of mistaking matter for ātman. No one who has not shaken off this delusion can be counted a real karma-yogī.
Link copiedVerse 6.3. "For the yoga-ascending (ārurukṣu) muni, work is declared as the means. But for him — yoga-ascended (ārūḍha) — peace is declared as the means."
Link copiedKarma-yoga is prescribed as means for the novice who is striving to achieve ātman-vision. But for the one who is securely established in meditation, surceasal from work is the means. Until ātman-realising mokṣa is effected, work is incumbent.
Link copiedVerse 6.4. "He is called yoga-perfected (yogārūḍhaḥ) when he has ceased from loving sense-objects and sense-promptings, when he has shaken off every saṅkalpa (illusion)."
Link copiedVerses 5–9 (Mind as friend and foe; the equal-seeing yogi)
Verse 6.5. "Let one elevate his ātman by his mind, and let not ātman be molested. The mind verily is ātman's friend, as well its foe."
Link copiedThrough the mind, detached from sense-pleasures, ātman is elevated to noble thoughts. But through the mind employed in the opposite direction, ātman is harassed. Mind is both the friend and the foe of ātman.
Link copiedVerse 6.6. "The mind is friend to him who has himself conquered it; but to him who has not conquered mind, it assumes an inimical attitude."
Link copiedBhagavan Parasara declares: "To men, their mind alone is the cause of bondage as well as emancipation. The mind addicted to sense-objects constitutes bondage; the mind destitute thereof constitutes freedom."
Link copiedVerse 6.7. "By him who has effected mind-control and has peace in the midst of cold and heat, joy and grief, honour and dishonour, the exalted ātman is realised."
Link copiedSamāhitaḥ — "well-placed" — here means ātman realised in its own true essence. Ramanuja notes that Paramātman here denotes pratyag-ātman, the individual soul, since each subsequent stage of ātman-experience is perceived as more exalted than its antecedent; or, alternatively, the phrase reads: "ātman is sublimely realised."
Link copiedVerse 6.8. "That yogi is fit for yoga whose mind is content with jñāna and vijñāna; who is constant; who has conquered the senses; who looks equally on a clod, a stone, or gold."
Link copiedJñāna — knowledge concerning the nature of ātman. Vijñāna — higher knowledge concerning ātman as contrasted with matter. Kūṭastha — constant amidst ever-varying phenomenal conditions. When ātman is realised in its distinction from matter, all material objects cease to have pleasure-giving importance.
Link copiedVerse 6.9. "He is specially distinguished who looks with equal eye on friends, comrades, foes, strangers, neutrals, born-enemies, kinsmen, the virtuous, and the vile."
Link copiedRamanuja distinguishes these carefully: suhṛt (friend who wishes well regardless of age); mitra (comrade of equal age who wishes well); ari (foe for a given cause); udāsīna (stranger); madhyastha (neutral from birth); dveṣya (born enemy); bandhu (kinsman); sādhu (walker in rectitude); pāpa (walker in iniquity). The yukta has ceased from all worldly relationship and is equal-eyed to all.
Link copiedVerses 10–15 (The method of meditation)
Verse 6.10. "Let the yogi, alone and in secret — checking the thoughts of the mind — rid of desires and belongings — constantly practise ātman-concentration."
Link copiedSatatam (constantly) means: daily, at fixed times set apart for meditative practice. Rahasi — in a retired place free from people and noises. Ekākī — solitary, without a companion or disciple. Yata-cittātmā — checking the capricious stream of thought. Nirāśīḥ — weaned from every other desire save for ātman. Aparigrahaḥ — free from every possession save ātman.
Link copiedVerse 6.11–12. "In a pure place let him prepare a firm seat, neither too high nor too low, made of kuśa-grass, deerskin, and a sheet (one over the other). There into the seat let him enter and let the mind be made one-pointed, restraining the activities of mind and senses, and let concentration be practised for ātman-purification."
Link copiedThe seat is comfortable and inviting, with a bolster to rest the body. Purification here means deliverance from material bondage.
Link copiedVerse 6.13–14. "Keeping body, head, and neck straight, unmoving and firm, fixing the gaze on the nose-tip so as not to wander into space; with mind in perfect tranquillity, fearless, keeping the vow of brahmacarya, restraining the mind, making the thoughts to dwell on Me, let one collected sit meditating on Me."
Link copiedBrahmacarya — continence, the reservation of the vital energy — is defined in tradition as exemption from thinking of, speaking of, sporting with, seeing, speaking secretly to, willing, resolving upon, approaching, and consummating with women. The gaze at the nose-tip is the directrix that brings attention to the middle of the brows. The meditator turns the mind on the Lord and sits fixing it there.
Link copiedVerse 6.15. "Thus ever uniting his mind in Me, the yogi becomes mind-disciplined, and reaches the supreme peace of bliss abiding in Me."
Link copiedConstantly fixing the thoughts on Him — Parabrahma, Purushottama, the Holiest Subject for the mind — the mind is purified by contact with Him. Such a person attains the Peace whose ultimate goal is Nirvana — the Peace to be found in the Lord.
Link copiedVerses 16–23 (The rhythm of life and the nature of yoga)
Verse 6.16–17. "Meditation cannot be for him who feasts much or fasts much; for him given to much sleep or much waking. Meditation becomes the woe-destroyer for him who is careful in food and exercise, careful in works, and regulated in sleep and waking."
Link copiedThe path requires temperance in every bodily rhythm.
Link copiedVerse 6.18. "Then is he called yoga-fit, untouched by any desire, when the fickle mind is firmly planted in ātman."
Link copiedVerse 6.19. "Like the flame flickering not when screened from wind, they compare the ātman with which communes the yogi of restrained mind."
Link copiedĀtman shines steady and radiant in its own light of intelligence when all extraneous workings of mind are shut out — like the lamp burning bright when all breeze is kept from it. Another image the Bhagavata gives: the ocean with its waves subsided.
Link copiedVerse 6.20–23. "That wherein, by practice, the restrained mind revels; that wherein the mind, perceiving ātman, rests content in ātman; that wherein one feels infinite intellectual bliss, beyond the senses; that wherein, firmly planted, one would not think of retiring; that which gained, no other is considered a higher gain; that wherein one is not agitated by grief however heavy — know that is called meditation (yoga), the disunion from union with pain. That, one shall with unafflicted mind positively enter."
Link copiedThis cluster of verses describes the inner texture of realised meditation — the rapture in ecstatic felicity, the perception of ātman, the bliss beyond the senses, the unshakability in face of even heavy bereavement.
Link copiedVerses 24–28 (The method of gradual ascent)
Verse 6.24–25. "Completely forsaking all will-born desires, well ruling the community of the senses by the mind; slowly and slowly, let one, by force of trained buddhi, retire; and fixing manas in ātman, let naught be thought."
Link copiedRamanuja distinguishes two kinds of desires: sparśa-ja (contact-born, sensational — cold, heat) and saṅkalpa-ja (will-born, mental — sons, land). Will-born desires can be wholly abandoned by the mind refusing to dwell on them. Contact-born desires, pains and pleasures arising from sensations, must be resisted by indifference. By slow degrees, by wise resolute will, the mind is drawn away from all things save ātman and rested in ātman, thinking nothing else.
Link copiedVerse 6.26. "From wherever the fickle, unsteady mind rambles, let it again be forced back; let it be placed under the power of ātman alone."
Link copiedVerse 6.27. "Supreme bliss comes to that yogi whose mind has attained peace, whose rajas-nature has been calmed, who is stainless and Brahma-like."
Link copiedWhen the mind is placed in ātman, sins are expunged; the rajas-quality is stilled; the yogi is Brahma-like — re-established in his own true essence. To such a one comes transcendent ātman-beatitude.
Link copiedVerse 6.28. "Ever thus vowed to ātman, the yogi, cleansed of sin, with ease tastes the endless bliss of contact with Brahman."
Link copiedVerses 29–32 (Four stages of equal-vision)
Ramanuja structures these four verses as describing four progressively mature states of meditation.
Link copiedVerse 6.29. "The meditation-absorbed equal-seer everywhere perceives ātman abiding in all beings and all beings abiding in ātman."
Link copiedEqual-seeing is the realisation that ātman, wherever it abides, is of the self-same essence — by virtue of the attribute of consciousness (jñāna), common to all ātmans. Inequality comes only from viewing ātman in its matter-conditioned states.
Link copiedVerse 6.30. "Whoso perceives Me everywhere and perceives all in Me, to him I am never lost, nor to Me is he lost."
Link copiedEven more advanced is the yogi who, approaching the Lord's nature, sees his own ātman (in its purity, free from good and evil) as comparable to the Lord, and sees all ātman-principle in Him and Him in all ātman-principle. To such a seer, the Lord does not veil Himself — for His nature, in purity, is the same as the seer's — and the Lord ever reveals Himself to his vision. "I seek him who seeks Me."
Link copiedVerse 6.31. "He, taking his stand in unity, worships Me, Abidant in all beings — that yogi, in whatever condition he be, dwells in Me."
Link copiedTaking stand in unity means eschewing all differences arising from material conditions and expanding the yogi's consciousness, in meditative moments, to cognise the Lord abiding everywhere. In whatever condition — immersed in meditation or awake from it — he ever dwells in the Lord, ever seeing Him alone.
Link copiedVerse 6.32. "He is known as the superior yogi, Arjuna, who by reason of ātman-similitude looks everywhere on happiness or misery as equal."
Link copiedĀtman-similitude is the sameness of all ātmans in their native character of all-pervading consciousness. Knowing that ātman has no connection with happiness or misery, he looks on them as equal whether they fall on him or on others.
Link copiedVerses 33–36 (Arjuna's doubt about the restless mind)
Verse 6.33–34. "This equal-seeing yoga, Madhusudana, I do not understand, from heedlessness. The mind, Krishna, is wavering, tumultuous, virulent, wayward. Restraining it, I deem, is as extremely hard as catching the wind."
Link copiedSri Arjuna cannot grasp a doctrine in which jīvas are equal to one another (viewed by the attribute of consciousness) and even equal to Īśvara (as far as the common attribute of freedom from karma-bondage, which emancipated souls share with Īśvara). It conflicts with the immediate evidence of differences — divine, human, animal — and between jīvas and God. So he confesses his inability and asks for practical instruction.
Link copiedVerse 6.35–36. Sri Bhagavan: "Doubtless, Mighty-armed, the roving mind is difficult to subdue; but by abhyāsa (practice) and vairāgya (dispassion) it is governable. Yoga is hard to be won by him of ungoverned mind; but by him of mastered mind, using proper means, it can be won."
Link copiedThe means is to generate in the mind a love for ātman by accustoming it to reflect on its excellences, and an aversion for objects other than ātman by presenting their inherent imperfections. Mind-control is attainable by the already described wisdom-based karma-yoga, which is worship of the Lord.
Link copiedVerses 37–45 (What becomes of the one who falls from yoga?)
Verse 6.37–39. Sri Arjuna asks: "Which way goes he, Krishna, who, ardent yet wanting in application, has his mind moved away from yoga and does not reach yoga-perfection? Cut off from both ends, is he not lost like a divided cloud, unfixed, unenlightened in the Path of Brahman? Thou art fit, Krishna, to clear this doubt; none else can."
Link copiedBoth ends lost: the material fruit of Svarga (forfeited because he performed work without that intent) and the spiritual path of Brahman (begun but not completed).
Link copiedVerse 6.40. The Lord: "Neither here nor in the next world, Partha, is there destruction for him. Verily no one who is a doer of good work goes the evil way, Beloved."
Link copiedThis reassurance is echoed by the Gita's earlier promise that even a little of this dharma saves from great fear (II.40).
Link copiedVerse 6.41–43. "The yoga-fallen, attaining the realms of the meritorious, dwelling there for long years, is born again in a family of well-to-do people. Or he is born in a family of wise yogis, but this kind of birth is indeed in this world most seldom merited. In that birth, he picks up the memory-link connected with his previous body; thence he strives toward yoga-perfection. By the previous habit alone, he is drawn into yoga even involuntarily."
Link copiedVerse 6.44. "Even he who has the mere desire to know yoga passes beyond the śabda-brahma (the name-great — the vast matter-expanse named as devas, men, earth, sky, Svarga)."
Link copiedEven a mere inquirer, having begun in one life and resumed in another, eventually transcends matter and attains ātman, the sole harbour of jñāna and ānanda.
Link copiedVerse 6.45. "The sedulously exerting yogi, assoiled of sin, obtaining perfection after many births, thence passes to the Supreme State."
Link copiedVerses 46–47 (The two summits: the yogi above all, and the yogi who is beyond all)
Verse 6.46. "The yogi ranks higher than the tapasvīs, higher than the jñānīs (of lesser kinds of knowledge), higher than the karmīs (ritualists). Hence, Arjuna, become thou the yogi."
Link copiedYoga, the spiritual path leading to the highest aspiration of man — ātman-realisation — is greater than all ascetic mortifications, greater than all psychic or planetary or sensory knowledge, greater than all Vedic ritualists (even the performer of aśvamedha). The yogi of ātman-intuition surpasses them all.
Link copiedVerse 6.47. "Beyond all the yogis and beyond all, he is said to be most superior who, in faith, with his inmost manas immersed in Me, worships Me."
Link copiedRamanuja interprets the genitive case yogīnām with ablative force: "beyond the yogis" — not one among them, but a fifth standing above and beyond the four kinds of yogis already described. Api sarveṣām — "and beyond all" — refers to the tapasvīs and the rest. This yogi's nature is unique.
Link copied"Antar-ātmanā mayi" — the inmost manas immersed in Me. Out of overflowing love for the Lord, all his heart, life, and soul are merged in Him. He is unable, without the Lord, to support his very existence.
Link copiedŚraddhāvān — full of earnestness, of faith. This earnestness comes from the inordinate yearning that impels him to find the Lord, for the intensity of his love is such that he cannot tolerate a moment's separation.
Link copiedRamanuja now breaks into a meditation on the Lord as the object of this highest yogi's love. The Lord to whom the emanations, sustentations, and dissolutions of the cosmos are but sport. The Lord — Treasury of wisdom, power, dominion, energy, capacity, lustre. The Lord whose divine figure is a synthesis of all beauty — radiance, loveliness, fragrance, softness, grace, and youth. The Lord beyond mind and speech. The Lord — unbounded Ocean of compassion, condescension (sauśīlya), love (vātsalya), and bounty. The Lord — Saviour and impartial asylum of all the worlds. The Lord — Reliever of distress for His supplicants, sole object of passionate love for His postulants, theophanous for all men to see. The Lord — incarnate in Vasudeva's house without laying aside His divine nature. The Lord — illumining and gladdening all the universe by the resplendent glory of His divine Self.
Link copied"Whoso meditates on Me in this wise, I hold him to be the nearest to Me, the most estimable above all others. Because I am Omnipresent and Omniscient in Eternity, I know all this."
Link copiedThis crowning verse opens directly into the Second Division of the Gita — the teaching of bhakti-yoga, the path of loving devotion — which unfolds from Lecture Seven through Lecture Twelve.
Link copiedThus closes Lecture Six, Abhyāsa-yoga, the Yoga of Meditation-Practice, with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.
Link copied