Skip to content

Bhagavad Gita Bhashya · Section 7 of 19

atha ṣaṣṭho'dhyāyaḥ

Sanskrit (IAST) · click to toggle

उक्तः कर्म-योगः स-परिकरः। इदानीꣳ ज्ञान-योग-कर्म-योग-साध्यात्मावलोकन-रूप-योगाभ्यास-विधिर् उच्यते। तत्र कर्म-योगस्य निरपेक्ष-योग-साधनत्वꣳ द्रढयितुꣳ ज्ञानाकारः कर्म-योगो योग-शिरस्कोऽनूद्यते।

Link copied

अनाश्रितः कर्म-फलꣳ कार्यꣳ कर्म करोति यः

Link copied

स सन्न्यासी च योगी च न निरग्निर् न चाक्रियः

Link copied

कर्म-फलꣳ स्वर्गादिकम् अनाश्रितः कार्यꣳ कर्मानुष्ठानम् एव कार्यꣳ सर्वात्मनास्मत्-सुहृद्-भूत-परम-पुरुषाराधन-रूपतया कर्मैव मम प्रयोजनꣳ न तत्-साध्यꣳ किञ्चिद् इति यः कर्म करोति, स सन्न्यासी च ज्ञान-योग-निष्ठश् च योगी च कर्म-योग-निष्ठश् च। आत्मावलोकन-रूप-योग-साधन-भूतोभय-निष्ठ इत्य् अर्थः। न निरग्निश् चाक्रियः--- न चोदित-यज्ञादि-कर्मस्व् अप्रवृत्तः, केवल-ज्ञान-निष्ठः। तस्य हि ज्ञान-निष्ठा एव कर्म-योग-निष्ठस्य तूभयम् अस्तीत्य् अभिप्रायः॥६।१॥

Link copied

उक्त-लक्षणे कर्म-योगे ज्ञानम् अप्य् अस्ति, इत्य् आह---

Link copied

यꣳ सन्न्यासम् इति प्राहुर् योगꣳ तꣳ विद्धि पाण्डव

Link copied

न ह्य् असन्न्यस्त-सङ्कल्पो योगी भवति कश्चन

Link copied

ज्ञान-योग इत्य् आत्म-याथात्म्य-ज्ञानम् इति प्राहुस् तꣳ कर्म-योगम् एव विद्धि। तद् उपपादयति, न ह्य् असन्न्यस्त-सङ्कल्पो योगी भवति कश्चन इति। आत्म-याथात्म्यानुसन्धानेनानात्मनि प्रकृतव् आत्म-सङ्कल्पः सन्न्यस्तः परित्यक्तो येन स सन्न्यस्त-सङ्कल्पः, अनेवम्भूताऋ यः सासन्न्यस्त-सङ्कल्पः। न ह्य् उक्तेषु कर्म-योगेष्व् अनेवम्भूतः कश्चन कर्म-योगी भवति। यस्य सर्वे समारम्भाः कामसङ्कल्प-वर्जिताः [गीता ४।१९] इति ह्य् उक्तम्॥६।२॥

Link copied

कर्म-योग एवाप्रमादेन योगꣳ साधयतीत्य् आह---

Link copied

आरुरुक्षोर् मुनेर् योगꣳ कर्म कारणम् उच्यते

Link copied

योगारूढस्य तस्यैव शमः कारणम् उच्यते

Link copied

योगम् आत्मावलोकनꣳ प्राप्तुम् इच्छोः मुमुक्षोः कर्म-योग एव कारणम् उच्यते। तस्य एव योगारूढस्य प्रतिष्ठित-योगस्य एव शमः कर्म-निवृत्तिः कारणम् उच्यते। यावद् आत्मावलोकन-रूप-मोक्ष-प्राप्तिः, तावत् कर्म कार्यम् इत्य् अर्थः॥६।३॥

Link copied

कदा प्रतिष्ठित-योगो भवति। इत्य् अत्राह---

Link copied

यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते

Link copied

सर्व-सङ्कल्प-सन्न्यासी योगारूढस् तदोच्यते

Link copied

यदायꣳ योगी आत्मैकानुभव-स्वभावतया इन्द्रियार्थेष्व् आत्म-व्यतिरिक्त-प्राकृत-विषयेषु तत्-सम्बन्धिषु कर्मसु च नानुषज्जते न सङ्गम् अर्हति, तदा हि सर्व-सङ्कल्प-सन्न्यासी योगारूढ इत्य् उच्यते। तस्माद् आरुरुक्षोर् विषयानुभवार्हतया तद्-अननुषङ्गाभ्यास-रूपः कर्म-योग एव निष्पत्ति-कारणम्, अतो विषयाननुषङ्गाभ्यास-रूपꣳ कर्म-योगम् एव आरुरुक्षुः कुर्यात्॥६।४॥

Link copied

तद् एव आह---

Link copied

उद्धरेद् आत्मनात्मानꣳ नात्मानम् अवसादयेत्

Link copied

आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः

Link copied

आत्मना मनसा विषयाननुषक्तेन मनसा आत्मानम् उद्धरेत्। तद्-विपरीतेन मनसा आत्मानꣳ नावसादयेत्। आत्मैव मन एव ह्य् आत्मनो बन्धुः, तद् एवात्मनो रिपुः॥६।५॥

Link copied

बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः

Link copied

अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्

Link copied

येन पुरुषेण स्वेनैव स्व-मनो विषयेभ्यो जितꣳ तन्-मनस् तस्य बन्धुः, अनात्मनोऽजित-मनसः स्वकीयम् एव मनः स्वस्य शत्रुवत् शत्रुत्वे वर्तेत, स्व-निःश्रेयस-विपरीते वर्तेत इत्य् अर्थः। यथोक्तꣳ भगवता पराशरेणापि---

Link copied

मन एव मनुष्याणाꣳ कारणꣳ बन्ध-मोक्षयोः।

Link copied

बन्धाय विषयासङ्गि मुक्त्यै निर्विषयꣳ मनः। [वि।पु। ६।७।२८] इति॥६।६॥

Link copied

योगारम्भ-योग्यावस्था उच्यते---

Link copied

जितात्मनः प्रशान्तस्य परमात्मा समाहितः

Link copied

शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः

Link copied

शीतोष्णसुख-दुःखेषु मानापमानयोश् च जितात्मनः जितमनसः, विकाररहितमनसः। प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः। स्वरूपेणावस्थितः प्रत्यगात्मा अत्र परमात्मा इत्युच्यते, तस्य एव प्रकृतत्वात्, तस्यापि पूर्वपूर्वास्थापेक्षया परमात्मत्वात्। आत्मा परꣳ समाहित इति वा सम्बन्धः॥६।७॥

Link copied

ज्ञान-विज्ञान-तृप्तात्मा आत्म-स्वरूप-विषयेण ज्ञानेन तस्य च प्रकृति-विसजातीयाकार-विषयेण विज्ञानेन च तृप्त-मनाः कूटस्थः--- देवाद्य्-अवस्थास्व् अनुवर्तमानः सर्व-साधारण-ज्ञानैकाकारात्मनि स्थितः, तत्रैव विजितेन्द्रियः, सम-लोष्टाश्म-काञ्चनः--- प्रकृति-विविक्त-स्वरूप-निष्ठतया प्राकृत-वस्तु-विशेषेषु भोग्यत्वाभावात् लोष्टाश्म-काञ्चनेषु सम-प्रयोजनो यः कर्म-योगी स युक्त इत्य् उच्यते---

Link copied

ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः

Link copied

युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः

Link copied

आत्मावलोकन-रूप-योगाभ्यासार्ह उच्यते॥६।८॥

Link copied

तथा च---

Link copied

सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु

Link copied

साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते

Link copied

वयो-विशेषानङ्गीकारेण स्व-हितैषिणः सुहृदः, स-वयसो हितैषिणो मित्राणि, अरयो निमित्ततोऽनर्थोच्छवः, उभय-हेत्व्-अभावाद् उभय-रहिता उदासीनाः, जन्मत एव उभय-रहिता मध्य-स्थाः, जन्मत एवानिष्टोच्छवो द्वेष्याः, जन्मत एव हितैषिणो बन्धवः, साधवो धर्म-शीलाः, पापाः पप-शीलाः, आत्मैक-प्रयोजनतया सुहृन्-मित्रादिभिः प्रयोजनाभावाद् विरोधाभावाच् च तेषु सम-बुद्धिः, योगाभ्यासार्हत्वे विशिष्यते॥६।९॥

Link copied

योगी युञ्जीत सततम् आत्मानꣳ रहसि स्थितः

Link copied

एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः१०

Link copied

योगी उक्त-प्रकार-कर्म-योग-निष्ठः सततम् अहर्-अहः योग-काले आत्मानꣳ युञ्जीत, आत्मानꣳ युक्तꣳ कुर्वीत। स्व-दर्शन-निष्ठꣳ कुर्वीतेत्य् अर्थः। रहसि जन-वर्जिते निःशब्दे देशे स्थितः, एकाकी तत्रापि न स-द्वितीयः, तत्रापि यत-चित्तात्मा यत-चित्त-मनस्कः, निराशीर् आत्म-व्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः, अपरिग्रहस् तद्-व्यतिरिक्ते कस्मिꣳश्चिद् अपि ममता-रहितः॥६।१०॥

Link copied

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः

Link copied

नात्युच्छ्रितꣳ नातिनीचꣳ चैलाजिन-कुशोत्तरम्११

Link copied

तत्रैकाग्रꣳ मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः

Link copied

उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये१२

Link copied

शुचौ देशेऽशुचिभिः पुरुषैर् अनधिष्ठितेऽपरिगृहीते चाशुचिभिर् वस्तुभिर् अस्पृष्टश् च पवित्री-भूते देशे दार्व्-आदि-निर्मितꣳ नात्युच्छ्रितꣳ नातिनीचꣳ चैलाजिन-कुशोत्तरम् आसनꣳ प्रतिष्ठाय तस्मिन् मनः-प्रसाद-करे सापाश्रये उपविश्य योगैकाग्रम् अव्याकुलम् मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः सर्वात्मनोपसꣳहृत-चित्तेन्द्रिय-क्रियः आत्म-विशुद्धये बन्ध-विमुक्तये योगꣳ युञ्ज्यात्। आत्मावलोकनꣳ कुर्वीत॥६।११-१२॥

Link copied

समꣳ काय-शिरो-ग्रीवꣳ धारयन्न् अचलꣳ स्थिरः

Link copied

सम्प्रेक्ष्य नासिकाग्रꣳ स्वꣳ दिशश् चानवलोकयन्१३

Link copied

प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः

Link copied

मनः सꣳयम्य मच्-चित्तो युक्त आसीत मत्-परः१४

Link copied

काय-शिरो-ग्रीवꣳ समम् अचलꣳ सापाश्रयतया स्थिरꣳ धारयन् दिशश् चानवलोकयन् स्वꣳ नासिकाग्रꣳ सम्प्रेक्ष्य प्रशान्तात्मा अत्यन्त-निर्वृत-मनाः विगत-भीर् ब्रह्मचर्य-युक्तो मनः सꣳयम्य मच्-चित्तो युक्तोऽवहितो मत्-पर आसीत माम् एव चिन्तयन् आसीत॥६।१३-१४॥

Link copied

युञ्जन्न् एवꣳ सदात्मानꣳ योगी नियत-मानसः

Link copied

शान्तिꣳ निर्वाण-परमाꣳ मत्-सꣳस्थाम् अधिगच्छति१५

Link copied

एवꣳ मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसः शुभाश्रये सदात्मानꣳ मनो युञ्जन् नियत-मानसो निश्चल-मानसः मत्-स्पर्श-पवित्रीकृत-मानसतया निश्चल-मानसः मत्-सꣳस्थाꣳ निर्वाण-परमाꣳ शान्तिम् अधिगच्छति निर्वाण-काष्ठा-रूपाꣳ मत्-सꣳस्थाꣳ मयि सꣳस्थिताꣳ शान्तिम् अधिगच्छति॥६।१५॥

Link copied

एवम् आत्म-योगम् आरभमाणस्य मनो-नैर्मल्य-हेतु-भूताꣳ मनसो भगवति शुभाश्रये स्थितिम् अभिधायान्यद् अपि योगोपकरणम् आह---

Link copied

नात्यश्नतस् तु योगोऽस्ति न चैकान्तम् अनश्नतः

Link copied

न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन१६

Link copied

अत्यशनानशने योग-विरोधिनी, अतिविहार-विहारौ च तथातिमात्र-स्वप्न-जागर्ये तथा चात्यायासानायासौ॥६।१६॥

Link copied

युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु

Link copied

युक्त-स्वप्नावबोधस्य योगो भवति दुःखहा१७

Link copied

मिताहार-विहारस्य मितायासस्य मित-स्वप्नावबोधस्य सकल-दुःखहा बन्ध-नाशनो योगः सम्पन्नो भवति॥६।१७॥

Link copied

यदा विनियतꣳ चित्तम् आत्मन्य् एवावतिष्ठते

Link copied

निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा१८

Link copied

यदा प्रयोजन-विषयꣳ चित्तम् आत्मन्य् एव विनियतꣳ विशेषेण नियतꣳ निरतिशय-प्रयोजनतया तत्रैव नियतꣳ निश्चलम् अवतिष्ठते तदा सर्व-कामेभ्यो निःस्पृहः सन् युक्त इत्य् उच्यते योगार्ह इत्य् उच्यते॥६।१८॥

Link copied

यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता

Link copied

योगिनो यत-चित्तस्य युञ्जतो योगम् आत्मनः१९

Link copied

निवात-स्थो दीपो यथा नेङ्गते न चलति, अचलः स-प्रभस् तिष्ठति, यत-चित्तस्य निवृत्त-सकलेतर-मनो-वृत्तेर् योगिन आत्मनि योगꣳ युञ्जतः आत्म-स्वरूपस्य सोपमा।

Link copied

निवात-स्थतया निश्चल-स-प्रभ-दीपवन् निवृत्त-सकलेतर-मनो-वृत्तितया निश्चलो ज्ञान-प्रभ आत्मा तिष्ठतीत्य् अर्थः॥६।१९॥

Link copied

यत्रोपरमते चित्तꣳ निरुद्धꣳ योग-सेवया

Link copied

यत्र चैवात्मनात्मानꣳ पश्यन्न् आत्मनि तुष्यति२०

Link copied

योग-सेवायाꣳ हेतुना सर्वत्र निरुद्धꣳ चित्तꣳ यत्र योग उपरमतेऽतिशयित-सुखम् इदम् एवेति रमते, यत्र च योग आत्मना मनसात्मानꣳ पश्यन्न् अन्य-निरपेक्षम् आत्मन्य् एव तुष्यति॥६।२०॥

Link copied

सुखम् आत्यन्तिकꣳ यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम्

Link copied

वेत्ति यत्र न चैवायꣳ स्थितश् चलति तत्त्वतः२१

Link copied

यत् तद् अतीन्द्रियम् आत्म-बुद्ध्य्-एक-ग्राह्यम् आत्यन्तिकꣳ सुखꣳ यत्र च योगे वेत्त्य् अनुभवति यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतस् तद्-भावात् न चलति॥६।२१॥

Link copied

यꣳ लब्ध्वा चापरꣳ लाभꣳ मन्यते नाधिकꣳ ततः

Link copied

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते२२

Link copied

यꣳ योगꣳ लब्ध्वा योगाद् विरतस् तम् एव काङ्क्षमाणो नापरꣳ लाभꣳ मन्यते, यस्मिन् च योगे स्थितोऽविरतोऽपि गुणवत्-पुत्र-वियोगादिना गुरुणापि दुःखेन न विचाल्यते॥६।२२॥

Link copied

तꣳ विद्याद् दुःख-सꣳयोग-वियोगꣳ योग-सꣳज्ञितम्

Link copied

स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण-चेतसा२३

Link copied

तꣳ दुःख-सꣳयोग-वियोगꣳ दुःख-सꣳयोग-प्रत्यनीकाकारꣳ योग-शब्दाभिधेयꣳ ज्ञानꣳ विद्यात्, स एवम्भूतो योग इत्य् आरम्भ-दशायाꣳ निश्चयेनानिर्विण्ण-चेतसा हृष्ट-चेतसा योगो योक्तव्यः॥६।२३॥

Link copied

सङ्कल्प-प्रभवान् कामाꣳस् त्यक्त्वा सर्वान् अशेषतः

Link copied

मनसैवेन्द्रिय-ग्रामꣳ विनियम्य समन्ततः२४

Link copied

शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया

Link copied

आत्मसꣳस्थꣳ मनः कृत्वा न किञ्चिद् अपि चिन्तयेत्२५

Link copied

स्पर्शजाः सङ्कल्पजाश् चेति द्वि-विधाः कामाः स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्र-पौत्र-क्षेत्रादयः, तत्र सङ्कल्प-प्रभवाः स्वरूपेण एव त्यक्तुꣳ शक्याः, तान् सर्वान् मनसा एव तद्-अनन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्व् अवर्जनीयेषु तन्-निमित्त-हर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद् विषयात् सर्वम् इन्द्रिय-ग्रामꣳ विनियम्य शनैः शनैः धृति-गृहीतया विवेक-विषयया बुद्ध्या सर्वस्माद् आत्म-व्यतिरिक्ताद् उपरम्य आत्म-सꣳस्थꣳ मनः कृत्वा न किञ्चिद् अपि चिन्तयेत्॥६।२४-२५॥

Link copied

यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम्

Link copied

ततस् ततो नियम्यैतद् आत्मन्य् एव वशꣳ नयेत्२६

Link copied

चल-स्वभावतया आत्मन्य् अस्थिरꣳ मनो यतो यतो विषय-प्रावण्य-हेतोर् बहिर् निश्चरति ततस् ततो यत्नेन मनो नियम्य आत्मन्य् एवातिशयित-सुख-भावनया वशꣳ नयेत्॥६।२६॥

Link copied

प्रशान्त-मनसꣳ ह्य् एनꣳ योगिनꣳ सुखम् उत्तमम्

Link copied

उपैति शान्त-रजसꣳ ब्रह्म-भूतम् अकल्मषम्२७

Link copied

प्रशान्त-मनसम् आत्मनि निश्चल-मनसम् आत्म-न्यस्त-मनसꣳ तत एव हेतोर् दग्धाशेष-कल्मषꣳ तत एव शान्त-रजसꣳ विनष्ट-रजो-गुणꣳ तत एव ब्रह्म-भूतꣳ स्व-स्वरूपेणावस्थितम् एनꣳ योगिनम् आत्मानुभव-रूपम् उत्तमꣳ सुखम् उपैति, हीति हेतौ, उत्तम-सुख-रूपम् उपैतीत्य् अर्थः॥६।२७॥

Link copied

युञ्जन्न् एवꣳ सदात्मानꣳ योगी विगत-कल्मषः

Link copied

सुखेन ब्रह्म-सꣳस्पर्शम् अत्यन्तꣳ सुखम् अश्नुते२८

Link copied

एवम् उक्त-प्रकारेणात्मानꣳ युञ्जन् तेनैव विगत-प्राचीन-समस्त-कल्मषो ब्रह्म-सꣳस्पर्शो ब्रह्मानुभव-रूपꣳ सुखम् अत्यन्तम् अपरिमितꣳ सुखेनानायासेन सदा अश्नुते॥६।२८॥

Link copied

अथ योग-विपाक-दशा चतुष्-प्रकारा उच्यते---

Link copied

सर्व-भूत-स्थम् आत्मानꣳ सर्व-भूतानि चात्मनि

Link copied

ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः२९

Link copied

स्वात्मनः परेषाꣳ च भूतानाꣳ प्रकृति-वियुक्त-स्वरूपाणाꣳ ज्ञानैकाकारतया साम्याद् वैषम्यस्य च प्रकृति-गतत्वाद् योग-युक्तात्मा प्रकृति-वियुक्तेष्व् आत्मसु सर्वत्र ज्ञानैकाकारतया सम-दर्शनः सर्व-भूत-स्थꣳ स्वात्मानꣳ सर्व-भूतानि च स्वात्मनि ईक्षते। सर्व-भूत-समानाकारꣳ स्वात्मानꣳ स्वात्म-समानाकाराणि च सर्व-भूतानि पश्यतीत्य् अर्थः॥६।२९॥

Link copied

एकस्मिन्न् आत्मनि दृष्टो सर्वस्य आत्म-वस्तुनस् तत्-साम्यात् सर्वम् आत्म-वस्तु दृष्टꣳ भवतीत्य् अर्थः। सर्वत्र सम-दर्शनः इति वचनात् योऽयꣳ योगस् त्वया प्रोक्तः साम्येन [गीता ६।३३] इत्य् अनुभाषणाच् च निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति वचनाच् च।

Link copied

यो माꣳ पश्यति सर्वत्र सर्वꣳ च मयि पश्यति

Link copied

तस्याहꣳ न प्रणश्यामि स च मे न प्रणश्यति३०

Link copied

ततो विपाक-दशाम् आपन्नो मम साधर्म्यम् उपागतो निरजनः परमꣳ साम्यम् उपैति [मु।उ। ३।१।३] इत्य् उच्यमानꣳ सर्वस्यात्म-वस्तुनो विधूत-पुण्य-पापस्य स्वरूपेणावस्थितस्य मत्-साम्यꣳ पश्यन् यः सर्वत्रात्म-वस्तुनि माꣳ पश्यति, सर्वम् आत्म-वस्तु च मयि पश्यति, अन्योन्य-साम्याद् अन्यतर-दर्शनेनान्यतरद् अपीदृशम् इति पश्यति, तस्य स्वात्म-स्वरूपꣳ पश्यतोऽहꣳ तत्-साम्यात् न प्रणश्यामि, नादर्शनम् उपयामि, ममापि माꣳ पश्यतः, मत्-साम्यात् स्वात्मानꣳ मत्-समम् अवलोकयन् स नादर्शनम् उपयाति॥६।३०॥

Link copied

ततो विपाक-दशाम् आह---

Link copied

सर्व-भूत-स्थितꣳ यो माꣳ भजत्य् एकत्वम् आस्थितः

Link copied

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते३१

Link copied

योग-दशायाꣳ सर्व-भूत-स्थितꣳ माम् असङ्कुचित-ज्ञानैकाकारतयैकत्वम् आस्थितः प्राकृत-भेद-परित्यागेन सुदृढꣳ यो भजते स योगी व्युत्थान-कालेऽपि यथा तथा वर्तमानः स्वात्मानꣳ सर्व-भूतानि च पश्यन् मयि वर्तते माम् एव पश्यति। स्वात्मनि सर्व-भूतेषु च सर्वदा मत्-साम्यम् एव पश्यतीत्य् अर्थः॥६।३१॥

Link copied

ततोऽपि काष्ठाम् आह---

Link copied

आत्मौपम्येन सर्वत्र समꣳ पश्यति योऽर्जुन

Link copied

सुखꣳ वा यदि वा दुःखꣳ स योगी परमो मतः३२

Link copied

आत्मनश् चान्येषाꣳ चात्मनाम् असङ्कुचित-ज्ञानैकाकारतया औपम्येन स्वात्मनि चान्येषु सर्वत्र वर्तमानꣳ पुत्र-जन्मादि-रूपꣳ सुखꣳ तन्-मरणादि-रूपꣳ च दुःखम् असम्बन्ध-साम्यात् समꣳ यः पश्यति पर-पुत्र-जन्म-मरणादि-समꣳ स्व-पुत्र-जन्म-मरणादिकꣳ यः पश्यतीत्य् अर्थः। स योगी परम-योग-काष्ठꣳ गतो मतः॥६।३२॥

Link copied

अर्जुन उवाच

Link copied

योऽयꣳ योगस् त्वया प्रोक्तः साम्येन मधुसूदन

Link copied

एतस्याहꣳ न पश्यामि चञ्चलत्वात् स्थितिꣳ स्थिराम्३३

Link copied

योऽयꣳ देव-मनुष्यादि-भेदेन जीवेश्वर-भेदेन चात्यन्त-भिन्नतया एतावन्तꣳ कालम् अनुभूतेषु सर्वेष्व् आत्मसु ज्ञानैकाकारतया परस्पर-साम्येनाकर्म-वश्यतया च ईश्वर-साम्येन सर्वत्र सम-दर्शन-रूपो योगस् त्वयोक्तः। एतस्य योगस्य स्थिराꣳ स्थितिꣳ न पश्यामि मनसश् चञ्चलत्वात्॥६।३३॥

Link copied

चञ्चलꣳ हि मनः कृष्ण प्रमाथि बलवद् दृढम्

Link copied

तस्याहꣳ निग्रहꣳ मन्ये वायोर् इव सुदुष्करम्३४

Link copied

तथा ह्य् अनवरताभ्यस्त-विषयेष्व् अपि स्वत एव चञ्चलꣳ पुरुषेणैकत्र स्थापयितुम् अशक्यꣳ मनः पुरुषꣳ बलात् प्रमथ्य दृढम् अन्यत्र चरति। तस्य स्वाभ्यस्त-विषयेष्व् अपि चञ्चल-स्वभावस्य मनसस् तद्-विपरीताकारात्मनि स्थापयितुꣳ निग्रहꣳ प्रतिकूल-गतेर् महावातस्य व्यञ्जनादिनेव सुदुष्करम् अहꣳ मन्ये। मनो-निग्रहोपायो वक्तव्य इत्य् अभिप्रायः॥६।३४॥

Link copied

श्री-भगवान् उवाच

Link copied

असꣳशयꣳ महाबाहो मनो दुर्णिग्रहꣳ चलम्

Link copied

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते३५

Link copied

चल-स्वभावतया मनो दुर्निग्रहम् एवेत्य् अत्र न सꣳशयः, तथाप्य् आत्मनो गुणाकरत्वाभ्यास-जनिताभिमुख्येनात्म-व्यतिरिक्तेषु विषयेष्व् अपि दोषाकरत्व-दर्शन-जनित-वैतृष्ण्येन च कथञ्चिद् गृह्यते॥६।३५॥

Link copied

असꣳयतात्मना योगो दुष्प्राप इति मे मतिः

Link copied

वश्यात्मना तु यतता शक्योऽवाप्तुम् उपायतः३६

Link copied

असꣳयतात्मनाजित-मनसा महता अपि बलेन योगो दुष्प्राप एव। उपायतस् तु वश्यात्मना पूर्वोक्तेन मद्-आराधन-रूपेणान्तर्-गत-ज्ञानेन कर्मणा जित-मनसा यतमानेनायम् एव सम-दर्शन-रूपो योगोऽवाप्तुꣳ शक्यः॥६।३६॥

Link copied

अथ नेहाभिक्रम-नाशोऽस्ति [गीता २।४०] इत्य् आदाव् एव श्रुतꣳ योग-माहात्म्यꣳ यथावत् श्रोतुम् अर्जुनः पृच्छति। अन्तर्-गतात्म-ज्ञानतया योग-शिरस्कतया च हि कर्म-योगस्य माहात्म्यꣳ तत्रोदितꣳ तच् च योग-माहात्म्यम् एव अर्जुन उवाच---

Link copied

अयतिः श्रद्धयोपेतो योगाच् चलितमानसः

Link copied

अप्राप्य योग-सꣳसिद्धिꣳ काꣳ गतिꣳ कृष्ण गच्छति३७

Link copied

श्रद्धया योगे प्रवृत्तो दृढतराभ्यास-रूप-यत्न-वैकल्येन योग-सꣳसिद्धिम् अप्राप्य योगाच् चलित-मानसः काꣳ गतिꣳ गच्छति॥६।३७॥

Link copied

कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति

Link copied

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि३८

Link copied

उभय-विभ्रष्टोऽयꣳ छिन्नाभ्रम् इव कच्चिन् न नश्यति यथा मेघ-शकलः पूर्वस्मात् महतो मेघाच् छिन्नः परꣳ महान्तꣳ मेघम् अप्राप्य मध्ये विनष्टे भवति, तथा एव कच्चित् न नश्यति, कथम् उभय-विभ्रष्टतया, अप्रतिष्ठो विमूढो ब्रह्मणाः पथीति, यथावस्थितꣳ स्वर्गादि-साधन-भूतꣳ कर्म फलाभिसन्धि-रहितस्यास्य पुरुषस्य स्व-फल-साधनत्वेन प्रतिष्ठा न भवतीत्य् अप्रतिष्ठः। प्रक्रान्ते ब्रह्मणः पथि विमूढस् तस्मात् पथः प्रच्युतः, अत उभय-भ्रष्टतया किम् अयꣳ नश्यत्य् एव, उत न नश्यति॥६।३८॥

Link copied

एतन् मे सꣳशयꣳ कृष्ण छेत्तुम् अर्हस्य् अशेषतः

Link copied

त्वद्-अन्यः सꣳशयस्यास्य छेत्ता न ह्य् उपपद्यते३९

Link copied

तम् एनꣳ सꣳशयम् अशेषतश् छेत्तुम् अर्हसि स्वतः प्रत्यक्षेण युगपत् सर्वꣳ सर्वदा स्वत एव पश्यतस् त्वत्तोऽन्यः सꣳशयस्यास्य छेत्ता न ह्य् उपपद्यते॥६।३९॥

Link copied

श्री-भगवान् उवाच

Link copied

पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते

Link copied

न हि कल्याण-कृत् कश्चिद् दुर्गतिꣳ तात गच्छति४०

Link copied

श्रद्धया योगे प्रक्रान्तस्य तस्मात् प्रच्युतस्य इह चामुत्र च विनाशः न विद्यते, प्राकृत-स्वर्गादि-भोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्ति-रूपः प्रत्यवायाख्योऽनिष्टावाप्ति-रूपश् च विनाशो न विद्यत इत्य् अर्थः। न हि निरतिशय-कल्याण-रूप-योग-कृत् कश्चित् काल-त्रयेऽपि दुर्गतिꣳ गच्छति॥६।४०॥

Link copied

कथम् अयꣳ भविष्यति। इत्य् अत्राह---

Link copied

प्राप्य पुण्य-कृताꣳ लोकान् उषित्वा शाश्वतीः समाः

Link copied

शुचीनाꣳ श्रीमताꣳ गेहे योग-भ्रष्टोऽभिजायते४१

Link copied

यज्-जातीय-भोगाभिकाङ्क्षया योगात् प्रच्युतोऽयम् अतिपुण्य-कृताꣳ प्राप्यान् लोकान् प्राप्य तज्-जातीयान् अतिकल्याण-भोगान् ज्ञानोपाय-योग-माहात्म्याद् एव भुजानो यावात् तद्-भोग-तृष्णावसानꣳ शाश्वतीः समास् तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनाꣳ श्रीमताꣳ योगोपक्रम-योग्यानाꣳ कुले योगोपक्रमे भ्रष्टे योग-माहात्म्याज् जायते॥६।४१॥

Link copied

अथ वा योगिनाम् एव कुले भवति धीमताम्

Link copied

एतद् धि दुर्लभतरꣳ लोके जन्म यद् ईदृशम्४२

Link copied

परिपक्व-योगश् चलितश् चेद् योगिनाꣳ धीमताꣳ योगꣳ कुर्वताꣳ स्वयम् एव, योगोपदेष्टॄणाꣳ कुले भवति। तद् एतद् उभय-विधꣳ योग-योग्यानाꣳ योगिनाꣳ च कुले जन्म लोके प्राकृतानाꣳ दुर्लभतरम्, एतत् तु योग-माहात्म्य-कृतम्॥६।४२॥

Link copied

तत्र तꣳ बुद्धि-सꣳयोगꣳ लभते पौर्वदेहिकम्

Link copied

यतते च ततो भूयः सꣳसिद्धौ कुरुनन्दन४३

Link copied

तत्र जन्मनि तम् एव पौर्व-दैहिकꣳ योग-विषयꣳ बुद्धि-सꣳयोगꣳ लभते। ततः स्पुत-प्रबुद्धवद् भूयः सꣳसिद्धौ यतते। यथा नान्तराय-हतो भवति, तथा यतते॥६।४३॥

Link copied

पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशोऽपि सः

Link copied

जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते४४

Link copied

तेन पूर्वाभ्यासेन पूर्वेण योग-विषयेणाभ्यासेन स योग-भ्रष्टे ह्य् अवशोऽपि योग एव ह्रियते, प्रसिद्धꣳ हि एतद् योग-माहात्म्यम् इत्य् अर्थः। अप्रवृत्त-योगो योग-जिज्ञासुर् अपि ततश् चलित-मानसः पुनर् अपि ताम् एव जिज्ञासाꣳ प्राप्य कर्म-योगादिकꣳ योगम् अनुष्ठाय शब्द-ब्रह्मातिवर्तते।

Link copied

शब्द-ब्रह्म देव-मनुष्य-पृथिव्य्-अन्तरिक्ष-स्वर्गादि-शब्दाभिलाप-योग्यꣳ ब्रह्म प्रकृतिः, प्रकृति-सम्बन्धाद् विमुक्तो देव-मनुष्यादि-शब्दाभिलापानर्हꣳ ज्ञानानन्दैकतानम् आत्मानꣳ प्राप्नोतीत्य् अर्थः॥६।४४॥

Link copied

यत एवꣳ योग-माहात्म्यम्, ततः---

Link copied

प्रयत्नाद् यतमानस् तु योगी सꣳशुद्ध-किल्बिषः

Link copied

अनेक-जन्म-सꣳसिद्धस् ततो याति पराꣳ गतिम्४५

Link copied

अनेक-जन्मार्जित-पुण्य-सञ्चयैः सꣳशुद्ध-किल्बिषः सꣳसिद्धः सञ्जातः प्रयत्नाद् यतमानस् तु योगी चलितोऽपि पुनः पराꣳ गतिꣳ यात्य् एव॥६।४५॥

Link copied

अतिशयित-पुरुषार्थ-निष्ठतया योगिनः सर्वस्माद् आधिक्यम् आह---

Link copied

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः

Link copied

कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन४६

Link copied

केवल-तपोभिर् यः पुरुषार्थः साध्यते आत्म-ज्ञान-व्यतिरिक्तैर् ज्ञानैश् च यः, यश् च केवलैर् अश्वमेधादिभिः कर्मभिः, तेभ्यः सर्वेभ्योऽधिक-पुरुषार्थ-साधनत्वात् योगस्य तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन॥६।४६॥

Link copied

तद् एवꣳ पर-विद्याङ्ग-भूतꣳ प्रजापति-वाक्योदितꣳ प्रत्यग्-आत्म-दर्शनम् उक्तम्। अथ पर-विद्याꣳ प्रस्तौति---

Link copied

योगिनाम् अपि सर्वेषाꣳ मद्-गतेनान्तरात्मना

Link copied

श्रद्धावान् भजते यो माꣳ स मे युक्ततमो मतः४७

Link copied

योगिनाम् इति पञ्चम्य्-अर्थो षष्ठी। सर्व-भूत-स्थम् इत्य्-आदिना चतुर्-विधा-योगिनः प्रतिपादिताः, तेष्व् अनन्तर्गतत्वाद् वक्ष्यमाणस्य योगिनः, न निर्धारणे षष्ठी सम्भवति।

Link copied

अपि सर्वेषाम् इति सर्व-शब्द-निर्दिष्टस् तपस्वि-प्रभृतयः, तत्राप्य् उक्तेन न्यायेन पञ्चम्य्-अर्थो ग्रहीतव्यः, योगिभ्योऽपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः, तद्-अपेक्षया अवरत्वे तपस्वि-प्रभृतीनाꣳ योगिनाꣳ च न कश्चिद् विशेष इत्य् अर्थः। मेर्व्-अपेक्षया सर्वापाणाम् इव यद्यपि सर्वापेष्व् अन्योन्य-न्यूनाधिक-भावो विद्यते, तथापि मेर्व्-अपेक्षया अवरत्व-निर्देशः समानः।

Link copied

मत्-प्रियत्वातिरेकेणानन्य-साधारण-स्वभावतया मद्-गतेनान्तरात्मना मनसा बाह्याभ्यन्तर-सकल-वृत्ति-विशेषाश्रय-भूतꣳ मनो ह्य् अन्तरात्मा, अत्यर्थ-मत्-प्रियत्वेन मया विना स्व-धारणा-लाभात् मद्-गतेन मनसा श्रद्धावान् अत्यर्थ-मत्-प्रियत्वेन क्षण-मात्र-वियोगासहतयाम् अप्राप्ति-प्रवृत्तौ त्वरावान् यो माꣳ भजते। माꣳ विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-भोगोपकरण-भोग-स्थान-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलम् अस्पृष्ट-शेष-दोषानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-निधिꣳ स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य्-अनिरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि-दिव्य-रूपꣳ वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावम् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्यैश्वर्य-महोदधिम् अनालोचित-विशेषाशेष-लोक-शरण्यꣳ प्रणतार्ति-हरम् आश्रित-वात्सल्यैक-जलधिम् अखिल-मनुज-नयन-विषयताꣳ गतम् अजहत्-स्व-स्वभावꣳ वसुदेव-गृहेऽवतीर्णम् अनवधिकातिशय-तेजसा निखिलꣳ जगद् भासयन्तम् आत्म-कान्त्या विश्वम् आप्यायन्तꣳ भजते, सेवत उपासत इत्य् अर्थः। स मे युक्ततमो मतः, स सर्वेभ्यः श्रेष्ठतम इति सर्वꣳ सर्वदा यथावस्थितꣳ स्वत एव साक्षात्-कुर्वन् अहꣳ मन्ये॥६।४७॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये षष्ठोऽध्यायः॥६॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 6 — The Yoga of Meditation-Practice (in Sanskrit: Abhyāsa-yoga or Dhyāna-yoga)

The Sixth Lecture unfolds the detailed discipline of meditation — the practice (abhyāsa) by which karma-yoga culminates in ātman-vision. Sri Krishna now teaches how mind is made friend rather than foe, how the yogi sits and eats and sleeps, what four stages of equal-vision the meditation produces, and — crowning the whole — which yogi stands higher than every other. This last verse (VI.47) is a gateway opening into the Second Division of the Gita, the great teaching of bhakti. Yamunacharya summarises: "The mode and means of doing Yoga; Yogis are four; Yoga's perfections end in God — such is the Sixth Book's lore."

Link copied

Verses 1–4 (Who is the true sannyāsī and yogi)

Verse 6.1. "He is the sannyāsī, he is the yogi, who discharges work as duty, independent of its fruit — not he that is fire-less (anagnih), not he that is act-less (akriyaḥ)."

Link copied

Ramanuja reads this as a recapitulatory assertion: karma-yoga is the immediate means; it has the wisdom-aspect within it; it aims at yoga (meditation preceding ātman-vision). Whosoever performs work independently of fruits, as worshipful service to the Supreme Spirit — our Real Loving Friend — is both the sannyāsī (the jñāna-yogī) and the true yogi (the karma-yogī). The true sannyāsī is not the one who simply abstains from Vedic fire-rituals or ceases to do Sastra-enjoined work; he is the one who engages in work answering at once to the requirements of both action and knowledge.

Link copied

Verse 6.2. "What they call sannyāsa, Pandava, know it is yoga. No one becomes a yogi who is not exempt from delusion (sannyasta-saṅkalpaḥ)."

Link copied

Delusion is the error of mistaking matter for ātman. No one who has not shaken off this delusion can be counted a real karma-yogī.

Link copied

Verse 6.3. "For the yoga-ascending (ārurukṣu) muni, work is declared as the means. But for him — yoga-ascended (ārūḍha) — peace is declared as the means."

Link copied

Karma-yoga is prescribed as means for the novice who is striving to achieve ātman-vision. But for the one who is securely established in meditation, surceasal from work is the means. Until ātman-realising mokṣa is effected, work is incumbent.

Link copied

Verse 6.4. "He is called yoga-perfected (yogārūḍhaḥ) when he has ceased from loving sense-objects and sense-promptings, when he has shaken off every saṅkalpa (illusion)."

Link copied

Verses 5–9 (Mind as friend and foe; the equal-seeing yogi)

Verse 6.5. "Let one elevate his ātman by his mind, and let not ātman be molested. The mind verily is ātman's friend, as well its foe."

Link copied

Through the mind, detached from sense-pleasures, ātman is elevated to noble thoughts. But through the mind employed in the opposite direction, ātman is harassed. Mind is both the friend and the foe of ātman.

Link copied

Verse 6.6. "The mind is friend to him who has himself conquered it; but to him who has not conquered mind, it assumes an inimical attitude."

Link copied

Bhagavan Parasara declares: "To men, their mind alone is the cause of bondage as well as emancipation. The mind addicted to sense-objects constitutes bondage; the mind destitute thereof constitutes freedom."

Link copied

Verse 6.7. "By him who has effected mind-control and has peace in the midst of cold and heat, joy and grief, honour and dishonour, the exalted ātman is realised."

Link copied

Samāhitaḥ — "well-placed" — here means ātman realised in its own true essence. Ramanuja notes that Paramātman here denotes pratyag-ātman, the individual soul, since each subsequent stage of ātman-experience is perceived as more exalted than its antecedent; or, alternatively, the phrase reads: "ātman is sublimely realised."

Link copied

Verse 6.8. "That yogi is fit for yoga whose mind is content with jñāna and vijñāna; who is constant; who has conquered the senses; who looks equally on a clod, a stone, or gold."

Link copied

Jñāna — knowledge concerning the nature of ātman. Vijñāna — higher knowledge concerning ātman as contrasted with matter. Kūṭastha — constant amidst ever-varying phenomenal conditions. When ātman is realised in its distinction from matter, all material objects cease to have pleasure-giving importance.

Link copied

Verse 6.9. "He is specially distinguished who looks with equal eye on friends, comrades, foes, strangers, neutrals, born-enemies, kinsmen, the virtuous, and the vile."

Link copied

Ramanuja distinguishes these carefully: suhṛt (friend who wishes well regardless of age); mitra (comrade of equal age who wishes well); ari (foe for a given cause); udāsīna (stranger); madhyastha (neutral from birth); dveṣya (born enemy); bandhu (kinsman); sādhu (walker in rectitude); pāpa (walker in iniquity). The yukta has ceased from all worldly relationship and is equal-eyed to all.

Link copied

Verses 10–15 (The method of meditation)

Verse 6.10. "Let the yogi, alone and in secret — checking the thoughts of the mind — rid of desires and belongings — constantly practise ātman-concentration."

Link copied

Satatam (constantly) means: daily, at fixed times set apart for meditative practice. Rahasi — in a retired place free from people and noises. Ekākī — solitary, without a companion or disciple. Yata-cittātmā — checking the capricious stream of thought. Nirāśīḥ — weaned from every other desire save for ātman. Aparigrahaḥ — free from every possession save ātman.

Link copied

Verse 6.11–12. "In a pure place let him prepare a firm seat, neither too high nor too low, made of kuśa-grass, deerskin, and a sheet (one over the other). There into the seat let him enter and let the mind be made one-pointed, restraining the activities of mind and senses, and let concentration be practised for ātman-purification."

Link copied

The seat is comfortable and inviting, with a bolster to rest the body. Purification here means deliverance from material bondage.

Link copied

Verse 6.13–14. "Keeping body, head, and neck straight, unmoving and firm, fixing the gaze on the nose-tip so as not to wander into space; with mind in perfect tranquillity, fearless, keeping the vow of brahmacarya, restraining the mind, making the thoughts to dwell on Me, let one collected sit meditating on Me."

Link copied

Brahmacarya — continence, the reservation of the vital energy — is defined in tradition as exemption from thinking of, speaking of, sporting with, seeing, speaking secretly to, willing, resolving upon, approaching, and consummating with women. The gaze at the nose-tip is the directrix that brings attention to the middle of the brows. The meditator turns the mind on the Lord and sits fixing it there.

Link copied

Verse 6.15. "Thus ever uniting his mind in Me, the yogi becomes mind-disciplined, and reaches the supreme peace of bliss abiding in Me."

Link copied

Constantly fixing the thoughts on Him — Parabrahma, Purushottama, the Holiest Subject for the mind — the mind is purified by contact with Him. Such a person attains the Peace whose ultimate goal is Nirvana — the Peace to be found in the Lord.

Link copied

Verses 16–23 (The rhythm of life and the nature of yoga)

Verse 6.16–17. "Meditation cannot be for him who feasts much or fasts much; for him given to much sleep or much waking. Meditation becomes the woe-destroyer for him who is careful in food and exercise, careful in works, and regulated in sleep and waking."

Link copied

The path requires temperance in every bodily rhythm.

Link copied

Verse 6.18. "Then is he called yoga-fit, untouched by any desire, when the fickle mind is firmly planted in ātman."

Link copied

Verse 6.19. "Like the flame flickering not when screened from wind, they compare the ātman with which communes the yogi of restrained mind."

Link copied

Ātman shines steady and radiant in its own light of intelligence when all extraneous workings of mind are shut out — like the lamp burning bright when all breeze is kept from it. Another image the Bhagavata gives: the ocean with its waves subsided.

Link copied

Verse 6.20–23. "That wherein, by practice, the restrained mind revels; that wherein the mind, perceiving ātman, rests content in ātman; that wherein one feels infinite intellectual bliss, beyond the senses; that wherein, firmly planted, one would not think of retiring; that which gained, no other is considered a higher gain; that wherein one is not agitated by grief however heavy — know that is called meditation (yoga), the disunion from union with pain. That, one shall with unafflicted mind positively enter."

Link copied

This cluster of verses describes the inner texture of realised meditation — the rapture in ecstatic felicity, the perception of ātman, the bliss beyond the senses, the unshakability in face of even heavy bereavement.

Link copied

Verses 24–28 (The method of gradual ascent)

Verse 6.24–25. "Completely forsaking all will-born desires, well ruling the community of the senses by the mind; slowly and slowly, let one, by force of trained buddhi, retire; and fixing manas in ātman, let naught be thought."

Link copied

Ramanuja distinguishes two kinds of desires: sparśa-ja (contact-born, sensational — cold, heat) and saṅkalpa-ja (will-born, mental — sons, land). Will-born desires can be wholly abandoned by the mind refusing to dwell on them. Contact-born desires, pains and pleasures arising from sensations, must be resisted by indifference. By slow degrees, by wise resolute will, the mind is drawn away from all things save ātman and rested in ātman, thinking nothing else.

Link copied

Verse 6.26. "From wherever the fickle, unsteady mind rambles, let it again be forced back; let it be placed under the power of ātman alone."

Link copied

Verse 6.27. "Supreme bliss comes to that yogi whose mind has attained peace, whose rajas-nature has been calmed, who is stainless and Brahma-like."

Link copied

When the mind is placed in ātman, sins are expunged; the rajas-quality is stilled; the yogi is Brahma-like — re-established in his own true essence. To such a one comes transcendent ātman-beatitude.

Link copied

Verse 6.28. "Ever thus vowed to ātman, the yogi, cleansed of sin, with ease tastes the endless bliss of contact with Brahman."

Link copied

Verses 29–32 (Four stages of equal-vision)

Ramanuja structures these four verses as describing four progressively mature states of meditation.

Link copied

Verse 6.29. "The meditation-absorbed equal-seer everywhere perceives ātman abiding in all beings and all beings abiding in ātman."

Link copied

Equal-seeing is the realisation that ātman, wherever it abides, is of the self-same essence — by virtue of the attribute of consciousness (jñāna), common to all ātmans. Inequality comes only from viewing ātman in its matter-conditioned states.

Link copied

Verse 6.30. "Whoso perceives Me everywhere and perceives all in Me, to him I am never lost, nor to Me is he lost."

Link copied

Even more advanced is the yogi who, approaching the Lord's nature, sees his own ātman (in its purity, free from good and evil) as comparable to the Lord, and sees all ātman-principle in Him and Him in all ātman-principle. To such a seer, the Lord does not veil Himself — for His nature, in purity, is the same as the seer's — and the Lord ever reveals Himself to his vision. "I seek him who seeks Me."

Link copied

Verse 6.31. "He, taking his stand in unity, worships Me, Abidant in all beings — that yogi, in whatever condition he be, dwells in Me."

Link copied

Taking stand in unity means eschewing all differences arising from material conditions and expanding the yogi's consciousness, in meditative moments, to cognise the Lord abiding everywhere. In whatever condition — immersed in meditation or awake from it — he ever dwells in the Lord, ever seeing Him alone.

Link copied

Verse 6.32. "He is known as the superior yogi, Arjuna, who by reason of ātman-similitude looks everywhere on happiness or misery as equal."

Link copied

Ātman-similitude is the sameness of all ātmans in their native character of all-pervading consciousness. Knowing that ātman has no connection with happiness or misery, he looks on them as equal whether they fall on him or on others.

Link copied

Verses 33–36 (Arjuna's doubt about the restless mind)

Verse 6.33–34. "This equal-seeing yoga, Madhusudana, I do not understand, from heedlessness. The mind, Krishna, is wavering, tumultuous, virulent, wayward. Restraining it, I deem, is as extremely hard as catching the wind."

Link copied

Sri Arjuna cannot grasp a doctrine in which jīvas are equal to one another (viewed by the attribute of consciousness) and even equal to Īśvara (as far as the common attribute of freedom from karma-bondage, which emancipated souls share with Īśvara). It conflicts with the immediate evidence of differences — divine, human, animal — and between jīvas and God. So he confesses his inability and asks for practical instruction.

Link copied

Verse 6.35–36. Sri Bhagavan: "Doubtless, Mighty-armed, the roving mind is difficult to subdue; but by abhyāsa (practice) and vairāgya (dispassion) it is governable. Yoga is hard to be won by him of ungoverned mind; but by him of mastered mind, using proper means, it can be won."

Link copied

The means is to generate in the mind a love for ātman by accustoming it to reflect on its excellences, and an aversion for objects other than ātman by presenting their inherent imperfections. Mind-control is attainable by the already described wisdom-based karma-yoga, which is worship of the Lord.

Link copied

Verses 37–45 (What becomes of the one who falls from yoga?)

Verse 6.37–39. Sri Arjuna asks: "Which way goes he, Krishna, who, ardent yet wanting in application, has his mind moved away from yoga and does not reach yoga-perfection? Cut off from both ends, is he not lost like a divided cloud, unfixed, unenlightened in the Path of Brahman? Thou art fit, Krishna, to clear this doubt; none else can."

Link copied

Both ends lost: the material fruit of Svarga (forfeited because he performed work without that intent) and the spiritual path of Brahman (begun but not completed).

Link copied

Verse 6.40. The Lord: "Neither here nor in the next world, Partha, is there destruction for him. Verily no one who is a doer of good work goes the evil way, Beloved."

Link copied

This reassurance is echoed by the Gita's earlier promise that even a little of this dharma saves from great fear (II.40).

Link copied

Verse 6.41–43. "The yoga-fallen, attaining the realms of the meritorious, dwelling there for long years, is born again in a family of well-to-do people. Or he is born in a family of wise yogis, but this kind of birth is indeed in this world most seldom merited. In that birth, he picks up the memory-link connected with his previous body; thence he strives toward yoga-perfection. By the previous habit alone, he is drawn into yoga even involuntarily."

Link copied

Verse 6.44. "Even he who has the mere desire to know yoga passes beyond the śabda-brahma (the name-great — the vast matter-expanse named as devas, men, earth, sky, Svarga)."

Link copied

Even a mere inquirer, having begun in one life and resumed in another, eventually transcends matter and attains ātman, the sole harbour of jñāna and ānanda.

Link copied

Verse 6.45. "The sedulously exerting yogi, assoiled of sin, obtaining perfection after many births, thence passes to the Supreme State."

Link copied

Verses 46–47 (The two summits: the yogi above all, and the yogi who is beyond all)

Verse 6.46. "The yogi ranks higher than the tapasvīs, higher than the jñānīs (of lesser kinds of knowledge), higher than the karmīs (ritualists). Hence, Arjuna, become thou the yogi."

Link copied

Yoga, the spiritual path leading to the highest aspiration of man — ātman-realisation — is greater than all ascetic mortifications, greater than all psychic or planetary or sensory knowledge, greater than all Vedic ritualists (even the performer of aśvamedha). The yogi of ātman-intuition surpasses them all.

Link copied

Verse 6.47. "Beyond all the yogis and beyond all, he is said to be most superior who, in faith, with his inmost manas immersed in Me, worships Me."

Link copied

Ramanuja interprets the genitive case yogīnām with ablative force: "beyond the yogis" — not one among them, but a fifth standing above and beyond the four kinds of yogis already described. Api sarveṣām — "and beyond all" — refers to the tapasvīs and the rest. This yogi's nature is unique.

Link copied

"Antar-ātmanā mayi" — the inmost manas immersed in Me. Out of overflowing love for the Lord, all his heart, life, and soul are merged in Him. He is unable, without the Lord, to support his very existence.

Link copied

Śraddhāvān — full of earnestness, of faith. This earnestness comes from the inordinate yearning that impels him to find the Lord, for the intensity of his love is such that he cannot tolerate a moment's separation.

Link copied

Ramanuja now breaks into a meditation on the Lord as the object of this highest yogi's love. The Lord to whom the emanations, sustentations, and dissolutions of the cosmos are but sport. The Lord — Treasury of wisdom, power, dominion, energy, capacity, lustre. The Lord whose divine figure is a synthesis of all beauty — radiance, loveliness, fragrance, softness, grace, and youth. The Lord beyond mind and speech. The Lord — unbounded Ocean of compassion, condescension (sauśīlya), love (vātsalya), and bounty. The Lord — Saviour and impartial asylum of all the worlds. The Lord — Reliever of distress for His supplicants, sole object of passionate love for His postulants, theophanous for all men to see. The Lord — incarnate in Vasudeva's house without laying aside His divine nature. The Lord — illumining and gladdening all the universe by the resplendent glory of His divine Self.

Link copied

"Whoso meditates on Me in this wise, I hold him to be the nearest to Me, the most estimable above all others. Because I am Omnipresent and Omniscient in Eternity, I know all this."

Link copied

This crowning verse opens directly into the Second Division of the Gita — the teaching of bhakti-yoga, the path of loving devotion — which unfolds from Lecture Seven through Lecture Twelve.

Link copied

Thus closes Lecture Six, Abhyāsa-yoga, the Yoga of Meditation-Practice, with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.

Link copied
Join our community