Skip to content

Bhagavad Gita Bhashya · Section 6 of 19

atha pañcamo'dhyāyaḥ

Sanskrit (IAST) · click to toggle

अर्जुन उवाच

Link copied

सन्न्यासꣳ कर्मणाꣳ कृष्ण पुनर् योगꣳ च शꣳससि

Link copied

यच् छ्रेय एतयोर् एकꣳ तन् मे ब्रूहि सुनिश्चितम्

Link copied

कर्मणाꣳ सन्न्यासꣳ ज्ञान-योगꣳ पुनः कर्म-योगꣳ च शꣳससि। एतद् उक्तꣳ भवति द्वितीयेऽध्याये मुमुक्षोः प्रथमꣳ कर्म-योग एव कार्यः, कर्म-योगेन मृदितान्तः-करण-कषायस्य ज्ञान-योगेन आत्म-दर्शनꣳ कार्यम् इति प्रतिपाद्य, पुनस् तृतीय-चतुर्थयोः ज्ञान-योगाधिकार-दशाम् आपन्नस्यापि कर्म-निष्ठा एव ज्यायसी। सा एव ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्त्य्-एक-साधनम् इति कर्म-निष्ठाꣳ प्रशꣳससीति। तत्रैतयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकꣳ सौकर्यात् शैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितꣳ तन् मे ब्रूहि॥५।१॥

Link copied

श्री-भगवान् उवाच---

Link copied

सन्न्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ

Link copied

तयोस् तु कर्म-सन्न्यासात् कर्म-योगो विशिष्यते

Link copied

सन्न्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्याप्य् उभौ निरपेक्षौ निःश्रेयस-करौ। तयोस् तु कर्म-सन्न्यासाद् ज्ञान-योगात् कर्म-योग एव विशिष्यते॥५।२॥

Link copied

कुत इत्य् अत आह---

Link copied

ज्ञेयः स नित्य-सन्न्यासी यो न द्वेष्टि न काङ्क्षति

Link copied

निर्द्वन्द्वो हि महा-बाहो सुखꣳ बन्धात् प्रमुच्यते

Link copied

यः कर्म-योगी तद्-अन्तर्-गतात्मानुभव-तृप्तस् तद्-व्यतिरिक्तꣳ किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च। स नित्य-सन्न्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः। स हि सुकर-कर्म-योग-निष्ठतया सुखꣳ बन्धात् प्रमुच्यते॥५।३॥

Link copied

ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावेऽन्योन्य-नैरपेक्ष्यम् आह---

Link copied

साङ्ख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः

Link copied

एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम्

Link copied

ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूतौ ये प्रवदन्ति ते बाला अनिष्पन्न-ज्ञानाः, न पण्डिताः, न तु कृत्स्न-विदः। कर्म-योगो ज्ञान-योगम् एव साधयति। ज्ञान-योगस् त्व् एक आत्मावलोकनꣳ साधयतीति तयोः फल-भेदेन पृथक्त्वꣳ वदन्तो न पण्डिता इत्य् अर्थः। उभयोर् आत्मावलोकनैक-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलꣳ लभते॥५।४॥

Link copied

एतद् एव विवृणोति---

Link copied

यत् साङ्ख्यैः प्राप्यते स्थानꣳ तद् योगैर् अपि गम्यते

Link copied

एकꣳ साङ्ख्यꣳ च योगꣳ च यः पश्यति स पश्यति

Link copied

साङ्ख्यैर् ज्ञान-निष्ठैर् यद् आत्मावलोकन-रूप-फलꣳ प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते। एवम् एक-फलत्वेन एवꣳ वैकल्पिकꣳ साङ्खयꣳ योगꣳ च यः पश्यति, स पश्यति, स एव पण्डित इत्य् अर्थः॥५।५॥

Link copied

इयान् विशेष इत्य् आह---

Link copied

सन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः

Link copied

योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति

Link copied

सन्न्यासो ज्ञान-योगस् त्व् अयोगतः कर्म-योगाद् ऋते प्राप्तुम् अशक्यः। योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिर् आत्म-मनन-शीलः सुखेन कर्म-योगꣳ साधयित्वा न चिरेण एव अल्प-कालेनैव ब्रह्माधिगच्छति, आत्मानꣳ प्राप्नोति। ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगꣳ साधयति। दुःख-साध्यत्वाद् दुःख-प्राप्यत्वाद् आत्मानꣳ चिरेण प्राप्नोतीत्य् अर्थः॥५।६॥

Link copied

योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः

Link copied

सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते

Link copied

कर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषाराधन-रूपे विशुद्धे कर्मणि वर्तमानः, तेन विशुद्ध-मनाः। विजितात्मा स्वाभ्यस्ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः। तत एवꣳ जितेन्द्रियः। कर्तुर् आत्मनो याथात्म्यानुसन्धान-निष्ठतया सर्व-भूतात्म-भूतात्मा। सर्वेषाꣳ देवादि-भूतानाम् आत्म-भूत आत्मा यस्यासौ सर्व-भूतात्म-भूतात्मा। आत्म-याथात्म्यम् अनुसन्दधानस्य हि देवादीनाꣳ स्वस्य च एकाकार आत्मा। देवादि-भेदानाꣳ प्रकृति-परिणाम-विशेष-रूपतयात्माकारत्वासम्भवात्। प्रकृति-वियुक्तः सर्वत्र देवादि-देहेषु ज्ञानैकाकारतया समानाकार इति निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति अनन्तरम् एव वक्ष्यते। स एवम्भूतः कर्म कुर्वन्न् अप्य् अनात्मन्य् आत्माभिमानेन न लिप्यते न सम्बध्यते। अतोऽचिरेण आत्मानम् आप्नोतीत्य् अर्थः॥५।७॥

Link copied

यतः सौकर्यात् शैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितꣳ सृणु---

Link copied

नैव किꣳ चित् करोमीति युक्तो मन्येत तत्त्व-वित्

Link copied

पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन्

Link copied

प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि

Link copied

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्

Link copied

एवम् आत्म-तत्त्व-वित् श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि कर्मेन्द्रियाणि। प्राणाश् च स्वस्य विषयेषु वर्तन्त इति धारयन् अनुसन्दधानो नाहꣳ किञ्चित् करोमीति मन्येत। ज्ञानैक-स्वभावस्य मम कर्म-मूलेन्द्रिय-प्राण-सम्बन्ध-कृतम् ईदृशꣳ कर्तृत्वम्, न स्वरूप-प्रयुक्तम् इति मन्येतेत्य् अर्थः॥५।८-९॥

Link copied

ब्रह्मण्य् आधाय कर्माणि सङ्गꣳ त्यक्त्वा करोति यः

Link copied

लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा१०

Link copied

ब्रह्म-शब्देन प्रकृतिर् इहोच्यते, मम योनिर् महद् ब्रह्म [गीता १४।३] इति हि वक्ष्यते। इन्द्रियाणाꣳ प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रियाकारेण अवस्थितायाꣳ प्रकृतौ पश्यन् सृण्वन् [गीता ५।८] इत्य्-आदिनोक्त-प्रकारेण कर्म ब्रह्मण्य् आधाय फल-सङ्गꣳ त्यक्त्वा नैव किञ्चित् करोमि [गीता ५।८] इति यः कर्माणि करोति। स प्रकृति-सꣳसृष्टतया वर्तमानोऽपि प्रकृत्य्-आत्माभिमान-रूपेण सम्बन्ध-हेतुना पापेन न लिप्यते। पद्म-पत्रम् इवाम्भसा, यथा पद्म-पत्रम् अम्भसा सꣳस्पृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य् अर्थः॥५।१०॥

Link copied

कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि

Link copied

योगिनः कर्म कुर्वन्ति सङ्गꣳ त्यक्त्वात्म-शुद्धये११

Link copied

काय-मनो-बुद्धीन्द्रिय-साध्यꣳ कर्म स्वर्गादि-फल-सङ्गꣳ त्यक्त्वा योगिन आत्म-विशुद्धये कुर्वन्ति, आत्म-गत-प्राचीन-कर्म-बन्धन-विनाशाय कुर्वन्तीत्य् अर्थः॥५।११॥

Link copied

युक्तः कर्म-फलꣳ त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्

Link copied

अयुक्तः काम-कारेण फले सक्तो निबध्यते१२

Link copied

युक्त आत्म-व्यतिरिक्त-फलेष्व् अचपल आत्मैक-प्रवणः कर्म-फलꣳ त्यक्त्वा केवलात्म-शुद्धये कर्मानुष्ठाय नैष्ठिकीꣳ शान्तिम् आप्नोति। स्थिराम् आत्मानुभव-रूपाꣳ निर्वृतिम् आप्नोति। अयुक्त आत्म-व्यतिरिक्त-फलेषु चपल आत्मावलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यꣳ कर्मभिर् बध्यते नित्य-सꣳसारी भवति। अतः फल-सङ्ग-रहित इन्द्रियाकारेण परिणतायाꣳ प्रकृतौ कर्माणि सन्न्यस्यात्मनो बन्ध-मोचनायैव कर्माणि कुर्वीतेत्य् उक्तꣳ भवति॥५।१२॥

Link copied

अथ देहाकारेण परिणतायाꣳ प्रकृतौ कर्तृत्व-सन्न्यास उच्यते---

Link copied

सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखꣳ वशी

Link copied

नव-द्वारे पुरे देही नैव कुर्वन् न कारयन्१३

Link copied

आत्मनः प्राचीन-कर्म-मूल-देह-सम्बन्ध-प्रयुक्तम् इदꣳ कर्मणाꣳ कर्तृत्वꣳ न स्वरूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे सन्न्यस्य देही स्वयꣳ वशी देहाधिष्ठान-प्रयत्नम् अकुर्वन् देहेनैव कारयन् सुखम् आस्ते॥५।१३॥

Link copied

साक्षाद् आत्मनः स्वाभाविक-रूपम् आह---

Link copied

न कर्तृत्वꣳ न कर्माणि लोकस्य सृजति प्रभुः

Link copied

न कर्म-फल-सꣳयोगꣳ स्वभावस् तु प्रवर्तते१४

Link copied

अस्य देव-तिर्यङ्-मनुष्य-स्थावरात्मना प्रकृति-सꣳसर्गेण वर्तमानस्य लोकस्य देवाद्य्-असाधारणꣳ कर्तृत्वꣳ तत्-तद्-असाधारणानि कर्माणि तत् तत् कर्म-जन्य-देवादि-फल-सꣳयोगꣳ चायꣳ प्रभुर् अकर्म-वश्यः स्वाभाविक-स्वरूपेणावस्थित आत्मा न सृजति, नोत्पादयति। कस् तर्हि। स्वभावस् तु प्रवर्तते, स्वभावः प्रकृति-वासना। अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवाद्य्-आकार-प्रकृति-सꣳसर्ग-कृत-तत्-तद्-आत्माभिमान-जनित-वासना-कृतम् ईदृशꣳ कर्तृत्वादिकꣳ सर्वम्, न स्वरूप-प्रयुक्तम् इत्य् अर्थः॥५।१४॥

Link copied

नादत्ते कस्य चित् पापꣳ न चैव सुकृतꣳ विभुः

Link copied

अज्ञानेनावृतꣳ ज्ञानꣳ तेन मुह्यन्ति जन्तवः१५

Link copied

कस्यचित् स्व-सम्बन्धितया अभिमतस्य पुत्रादेः पापꣳ दुःखꣳ नादत्ते, नापनुदति, कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतꣳ सुखꣳ च नादत्ते नापनुदति। यतोऽयꣳ विभुः, न क्वाचित्कः, न देवादि-देहाद्य्-असाधारण-देशः, अत एव न कस्यचित् सम्बन्धी, न कस्यचित् प्रतिकूलश् च। सर्वम् इदꣳ वासना-कृतम्। एवꣳ-स्वभावस्य कथम् इयꣳ विपरीत-वासना उत्पद्यते। अज्ञानेनावृतꣳ ज्ञानम्, ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फलानुभव-योग्यत्वायास्य ज्ञानम् आवृतꣳ सङ्कुचितम्। तेन ज्ञानावरण-रूपेण कर्मणा देवादि-देह-सꣳयोगस् तत्-तद्-आत्माभिमान-रूप-मोहश् च जायते। ततश् च तथाविधात्माभिमान-वासना तद्-उचित-कर्म-वासना च। वासनातो विपरीतात्माभिमानः कर्मारम्भश् चोपपद्यते॥५।१५॥

Link copied

सर्वꣳ ज्ञान-प्लवेनैव वृजिनꣳ सन्तरिष्यसि [गीता ४।३६] ज्ञानाग्निः सर्व-कर्माणि भस्म-सात् कुरुते तथा [गीता ४।३७] न हि ज्ञानेन सदृशꣳ पवित्रम् [गीता ४।३८] इति पूर्वोक्तꣳ स्व-काले सङ्गमयति---

Link copied

ज्ञानेन तु तद् अज्ञानꣳ येषाꣳ नाशितम् आत्मनः

Link copied

तेषाम् आदित्यवज् ज्ञानꣳ प्रकाशयति तत्परम्१६

Link copied

एवꣳ वर्तमानेषु सर्वात्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्योपदेश-जनितेन आत्म-विषयेण अहरहर् अभ्यासाधेयातिशयेन निरतिशय-पवित्रेण ज्ञानेन तद्-अज्ञानावरणम् अनादि-काल-प्रवृत्तानन्त-कर्म-सꣳशय-रूपाज्ञानꣳ नाशितꣳ तेषाꣳ तत् स्वाभाविकꣳ परꣳ ज्ञानम् अपरिमितम् असङ्कुचितम् आदित्यवत् सर्वꣳ यथावस्थितꣳ प्रकाशयति। तेषाम् इति विनष्ट-ज्ञानानाꣳ बहुत्वाभिधानाद् आत्म-स्वरूप-बहुत्वम्--- न त्व् एवाहꣳ जातु नासꣳ न त्वꣳ नेमे [गीता २।१२] इति उपक्रमावगतम् अत्र स्पष्टतरम् उक्तम्।

Link copied

न चेदꣳ बहुत्वम् उपाधिकृतꣳ विनष्ट-ज्ञानानाम् उपाधि-गन्धाभावात्। तेषाम् आदित्यवज् ज्ञानम् इति व्यतिरेक-निर्देशात् ज्ञानस्य स्वरूपानुबन्धित्वम् उक्तम् आदित्य-दृष्टन्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् इवावस्थानꣳ च। तत एव सꣳसार-दशायाꣳ ज्ञानस्य कर्मणा सङ्कोचः मोक्ष-दशायाꣳ विकासश् चोपपन्नः॥५।१६॥

Link copied

तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः

Link copied

गच्छन्त्य् अपुनर्-आवृत्तिꣳ ज्ञान-निर्धूत-कल्मषाः१७

Link copied

तद्-बुद्धयस् तथा-विधात्म-दर्शनाध्यवसायाः, तद्-आत्मानस् तद्-विषय-मनसः, तन्-निष्ठास् तद्-अभ्यास-निरताः, तत्-परायणास् तद् एव परम् अयनꣳ येषाꣳ ते। एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषास् तथा-विधम् आत्मानम् अपुनर्-आवृत्तिꣳ गच्छन्ति। यद्-अवस्थाद् आत्मनः पुनर्-आवृत्तिः न विद्यते स आत्मा अपुनर्-आवृत्तिः, स्वेन रूपेणावस्थितः। तम् आत्मानꣳ गच्छन्तीत्य् अर्थः॥५।१७॥

Link copied

विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि

Link copied

शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः१८

Link copied

विद्या-विनय-सम्पन्ने ब्राह्मणो गो-हस्ति-श्वपचादिषु अत्यन्त-विषमाकारतया प्रतीयमानेषु चात्मसु पण्डिता आत्म-याथात्म्य-विदो ज्ञानैकाकारतया सर्वत्र सम-दर्शिनः। विषमाकारस् तु प्रकृतेर् नात्मनः। आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्य् अर्थः॥५।१८॥

Link copied

इहैव तैर् जितः सर्गो येषाꣳ साम्ये स्थितꣳ मनः

Link copied

निर्दोषꣳ हि समꣳ ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः१९

Link copied

इहैव साधनानुष्ठान-दशायाम् एव तैः सर्गो जितः सꣳसारो जितः। येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितꣳ मनः। निर्दोषꣳ हि समꣳ ब्रह्म प्रकृति-सꣳसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रह्म। आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते। ब्रह्मणि स्थितिर् एव हि सꣳसार-जयः। आत्मसु ज्ञानैकाकारतया साम्यम् एव अनुसन्दधाना मुक्ता एव इत्य् अर्थः॥५।१९॥

Link copied

येन प्रकारेणावस्थितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञान-विपाको भवति, तꣳ प्रकारम् उपदिशति---

Link copied

न प्रहृष्येत् प्रियꣳ प्राप्य नोद्विजेत् प्राप्य चाप्रियम्

Link copied

स्थिर-बुद्धिर् असꣳमूढो ब्रह्मविद् ब्रह्मणि स्थितः२०

Link copied

यादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियꣳ यच् चाप्रियꣳ तद् उभयꣳ प्राप्य हर्षोद्वेगौ न कुर्यात्। कथम्। स्थिर-बुद्धिः स्थिरे आत्मनि बुद्धिर् यस्य स स्थिर-बुद्धिः। असꣳमूढः--- अस्थिरेण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः सꣳमोहस् तद्-रहितः। तत् च कथम्। ब्रह्म-विद् ब्रह्मणि स्थितः। उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः। एतद् उक्तꣳ भवति--- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रैव यतमानो देहाभिमानꣳ परित्यज्य स्थिर-रूपात्मावलोकन-प्रियानुभवे व्यवस्थितोऽस्थिरे प्राकृत-प्रियाप्रिये प्राप्य।हर्षोद्वेगौ न कुर्याद् इति॥५।२०॥

Link copied

बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम्

Link copied

स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते२१

Link copied

एवम् उक्तेन प्रकारेण बाह्य-स्पर्शेष्व् आत्म-व्यतिरिक्त-विषयानुभावेष्व् असक्त-मना अन्तरात्मन्य् एव यः सुखꣳ विन्दति लभते स प्रकृत्य्-अभ्यासꣳ विहाय ब्रह्म-योग-युक्तात्मा ब्रह्माभ्यास-युक्त-मना ब्रह्मानुभव-रूपम् अक्षयꣳ सुखꣳ प्राप्नोति॥५।२१॥

Link copied

प्राकृतस्य भोगस्य सुत्यजताम् आह---

Link copied

ये हि सꣳस्पर्शजा भोगा दुःख-योनय एव ते

Link copied

आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः२२

Link copied

विषयेन्द्रिय-स्पर्शजा ये भोगाः, दुःख-योनयस् ते दुःखोदर्का आद्य्-अन्त-वन्तोऽल्प-काल-वर्तिनो हि उपलभ्यन्ते। न तेषु तद्-याथात्म्य-विद् रमते॥५।२२॥

Link copied

शक्नोतीहैव यः सोढुꣳ प्राक् शरीर-विमोक्षणात्

Link copied

काम-क्रोधोद्भवꣳ वेगꣳ स युक्तः स सुखी नरः२३

Link copied

शरीर-विमोक्षणात् प्राग् इहैव साधनानुष्ठान-दशायाम् एव आत्मानुभव-प्रीत्या काम-क्रोधोद्भवꣳ वेगꣳ सोढुꣳ निरोद्धुꣳ यः शक्नोति स युक्त आत्मानुभवायार्हः। शरीर-मोक्षणोत्तर-कालम् आत्मानुभव-सुखः सम्पत्स्यते॥५।२३॥

Link copied

योऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः

Link copied

स योगी ब्रह्म-निर्वाणꣳ ब्रह्म-भूतोऽधिगच्छति२४

Link copied

यो बाह्य-विषयानुभवꣳ सर्वꣳ विहाय अन्तः-सुख आत्मानुभवैक-सुखोऽन्तराराम आत्मैकाधीनः स्व-गुणैर् आत्मैव सुख-वर्धको यस्य स तथोक्तः, तथा अन्तर्-ज्योतिर् आत्मैक-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मानुभव-सुखꣳ प्राप्नोति॥५।२४॥

Link copied

लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः

Link copied

छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः२५

Link copied

छिन-द्वैधाः--- शीतोष्णादि-द्वन्द्वैर् विमुक्ताः। यतात्मान--- आत्मन्य् एव नियमित-मनसः। सर्व-भूत-हिते रताः--- आत्मवत् सर्वेषाꣳ भूतानाꣳ हितेषु निरताः। ऋषयः--- द्रष्टर आत्मावलोकन-परा ये एवम्भूतास् ते क्षीणाशेषात्म-प्राप्ति-विरोधि-कल्मषा ब्रह्म-निर्वाणꣳ लभन्ते॥५।२५॥

Link copied

उक्त-गुणानाꣳ ब्रह्मात्यन्त-सुलभम् इत्य् आह---

Link copied

काम-क्रोध-वियुक्तानाꣳ यतीनाꣳ यत-चेतसाम्

Link copied

अभितो ब्रह्म-निर्वाणꣳ वर्तते विदितात्मनाम्२६

Link copied

काम-क्रोध-वियुक्तानाꣳ यतीनाꣳ यतन-शीलानाꣳ यत-चेतसाꣳ नियमित-मनसाꣳ विजितात्मनाꣳ विजित-मनसाꣳ ब्रह्म-निर्वाणम् अभितो वर्तते। एवꣳ-भूतानाꣳ हस्त-स्थꣳ ब्रह्म-निर्वाणम् इत्य् अर्थः॥५।२६॥

Link copied

उक्तꣳ कर्म-योगꣳ स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसꣳहरति---

Link copied

स्पर्शान् कृत्वा बहिर् बाह्याꣳश् चक्षुश् चैवान्तरे भ्रुवोः

Link copied

प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ२७

Link copied

यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः

Link copied

विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः२८

Link copied

बाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्येन्द्रिय-व्यापारꣳ सर्वम् उपसꣳहृत्य योग-योग्यासने ऋजु-काय उपविश्य चक्षुर् भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तर-चारिणौ प्राणापानौ समौ कृत्वा उच्छवास-निःश्वासौ सम-गती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हेन्द्रिय-मनो-बुद्धिस् तत एव विगतेच्छा-भय-क्रोधो मोक्ष-परायणो मोक्षैक-प्रयोजनो मुनिर् आत्मावलोकन-शीलो यः सदा मुक्त एव। साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त एव स इत्य् अर्थः॥५।२७-२८॥

Link copied

उक्तस्य नित्य-नैमित्तिक-कर्मेति कर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह---

Link copied

भोक्तारꣳ यज्ञ-तपसाꣳ सर्व-लोक-महेश्वरम्

Link copied

सुहृदꣳ सर्व-भूतानाꣳ ज्ञात्वा माꣳ शान्तिम् ऋच्छति२९

Link copied

यज्ञ-तपसाꣳ भोक्तारꣳ सर्व-लोक-महेश्वरꣳ सर्व-भूतानाꣳ सुहृदꣳ माꣳ ज्ञात्वा शान्तिम् ऋच्छति कर्म-योग-करण एव सुखम् ऋच्छति। सर्व-लोक-महेश्वरꣳ सर्वेषाꣳ लोकेश्वराणाम् अपीश्वरꣳ तम् ईश्वराणाꣳ परमꣳ महेश्वरम् [श्वे।उ। ६।७] इति हि श्रूयते। माꣳ सर्व-लोक-महेश्वरꣳ सर्व-सुहृदꣳ ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य् अर्थः। सुहृदाम् आराधनाय सर्वे प्रवर्तन्ते॥५।२९॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये पञ्चमोऽध्यायः॥५॥

Link copied

**

Link copied

English · simplified from Thibaut (1904)

Lecture 5 — The Yoga of Renouncing Action (in Sanskrit: Karma-sannyāsa-yoga)

The Fifth Lecture returns to Sri Arjuna's puzzlement about the relation of jñāna-yoga and karma-yoga, this time comparing them for expediency. Sri Krishna's verdict, which Ramanuja underscores throughout, is that karma-yoga is the better of the two — not merely because it is easier and safer, but because it includes within itself the wisdom of the jñāna-path, leading more directly to ātman-realisation and brahma-bliss. Yamunacharya summarises: "To show that mode of works that brings soon the fruit, Book Five begins, and then dwells on the Brahma-ken."

Link copied

Verses 1–6 (The two paths compared)

Verse 5.1. Sri Arjuna asks: "On renunciation of work, Krishna, and again on doing of works (yoga), Thou dost descant. Which of the two is better? Tell me conclusively."

Link copied

Sri Arjuna is puzzled. In Lecture Two the Lord taught that karma-yoga purifies the heart, after which one embarks on jñāna-yoga. But in Lectures Three and Four He maintained that karma-yoga is preferable even for the jñāna-qualified and sufficient by itself as a means to ātman-realisation. Which is the superior, readier, easier means?

Link copied

Verse 5.2. Sri Bhagavan replies: "Renunciation (sannyāsa) and karma-yoga both conduct to bliss. But of these two, karma-yoga is declared better than renunciation of works."

Link copied

Sannyāsa here is cessation from work, jñāna-yoga. Both paths, independently, achieve liberation. But karma-yoga is superior.

Link copied

Verse 5.3. "He is to be known as the perpetual sannyāsī who neither hates nor craves. Above the pairs, O Mighty-armed, he easily escapes bondage."

Link copied

The karma-yogī who has experienced ātman-bliss in the practice of karma-yoga no longer desires anything else than ātman. He has no occasion for hatred; he endures the pairs of opposites easily; such a person is to be known as the constant sannyāsī — the constant practiser of jñāna.

Link copied

Verse 5.4–5. "'Sankhya and yoga are different,' say children, not the wise. Whoso is well established in one reaps the fruits of both. The place gained by the Sankhyas is gained also by the yogis. He sees who sees that Sankhya and yoga are one."

Link copied

Those who say that karma-yoga can only lead to jñāna-yoga, and that jñāna-yoga alone leads to ātman-vision — as though they had different fruits — are spiritually immature. The aim of both paths is one: ātman-vision. Both paths achieve it so long as one is firmly adopted.

Link copied

Verse 5.6. "But sannyāsa without karma-yoga is difficult to achieve, O Mighty-armed. The karma-yoga-united muni soon attains Brahman."

Link copied

Jñāna-yoga without the aid of karma-yoga is difficult; karma-yoga, for him who constantly ruminates on the ātman (muni), is swift and safe. Jñāna-yoga takes long, on account of its difficulty, to attain ātman.

Link copied

Verses 7–12 (The karma-yogī as non-actor)

Verse 5.7. "The karma-yoga-united, pure-minded, who has controlled mind and senses, who looks on the ātmans of all beings as his own ātman, is not tainted though he works."

Link copied

Purity of mind, control of senses, and the vision of equality of all ātmans — these are the marks. For the meditator on ātman, bodies vary but the indwelling ātmans are alike, one and all, in their essential nature as conscious entities, when viewed apart from the non-conscious bodies that veil them. Gita declares this later: "Faultless is Brahman, and equal" (V.19).

Link copied

Verse 5.8–9. "Knowing that the senses abide in their appropriate objects, the truth-seer, the yuktah, shall reflect: 'Naught do I do,' though he be seeing or hearing, touching or smelling, eating or walking, sleeping or breathing, talking, answering the calls of nature, or grasping, opening the eyes or closing them."

Link copied

The ātman-knower reflects: the senses of perception, the senses of action, and the prāṇas function within their corresponding objects, but I do not virtually do any of those actions. The conscious entity is the ātman; doership comes to it from its union with the senses and prāṇas forced by past deeds; it is not an essential attribute of ātman-nature.

Link copied

Verse 5.10. "Whoso performs acts, ascribing them to matter (brahma), and abandoning all attachment, is not touched by sin, like the lotus-leaf unwetted by water."

Link copied

Ramanuja interprets brahma here as prakṛti (matter), citing "My womb is the great brahma" (XIV.3). Thinking that all activities belong to matter and matter's modifications into organised forms of senses, the yogi imputes work to matter and, renouncing attachment, thinks "naught do I do." So he remains untouched by the sin arising from the misconception of taking matter for ātman.

Link copied

Verse 5.11. "Unattached — for the sake of self-purification — the yogis act, by body, by manas, by buddhi, even by the mere senses."

Link copied

Self-purification (ātma-śuddhi) is the breaking of the bonds of past deeds binding ātman. Work is done to gain this release, not to secure any fruit such as Svarga.

Link copied

Verse 5.12. "The yuktah, forsaking actions' fruit, attains everlasting rest. The ayuktah, prompted by lust, clings to fruit thereof, and remains bound."

Link copied

Verses 13–16 (The nine-gated city; Nature's agency; ignorance veils wisdom)

Verse 5.13. "Neither doing anything nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits there the happy victor."

Link copied

Distinguishing that all authorship of work rests in the body — with which ātman is conjoined as a result of past deeds — and that authorship is not essential to ātman, the embodied ātman assigns all acts to the body. Himself independent (vaśī), he remains happy, not doing aught as a consequence of his residence in the body.

Link copied

Verse 5.14. "Neither actorship nor act does the Lord of the body create for the world; nor even the bond between act and its fruit. It is Nature (svabhāva) that prevails."

Link copied

The prabhu is ātman, ruler of the body. By essence he is above karma's influences. He does not originate, in the four-fold world of deva, animal, human, and immovable beings, either the authorships, the actions, or the act-fruit links. What does all this? It is Nature — the material vāsanā, the reminiscence or instinct. Authorship springs from union with matter fashioned by the chain of deeds from immemorial time.

Link copied

Verse 5.15. "The Lord (vibhu) takes not away one's sin or merit. It is by ignorance that wisdom is wrapped; creatures are thereby deluded."

Link copied

Ātman cannot snatch away misery from a beloved son, nor steal merit from one who is hated. Such notions — friends, foes — are caused by vāsanā. And vāsanā comes from ajñāna, which veils wisdom. By retrospective karma, intelligence is contracted; bodies as deva and the rest are forged; from love for bodies arises infatuation; infatuation persisting becomes the vāsanā that seeds further material existence.

Link copied

Verse 5.16. "But for the ātmans whose ignorance is destroyed by knowledge, their extraordinary intelligence illumines all like the Sun."

Link copied

For those whose endless accumulated karma is dispersed by the ātman-related knowledge derived from teachings, that which increases by daily culture, the innate transcendental consciousness — hitherto cooped and confined — becomes all-shining. Like the Sun, limitless and expanded, it reveals all things in their exact nature.

Link copied

Ramanuja pauses here on a crucial point. The verse uses teṣām ("for them") and ātmānām ("of many ātmans"). This declares most clearly the plurality of ātmans, already enunciated in II.12. This plurality is not attributable to upādhi (limiting condition), for no trace of upādhi can exist in the case of those whose ignorance is dispelled. Further, the phrase "their knowledge" — genitive possessor with attributive possessed — shows that jñāna is an attribute possessed by a possessor; the possessors are the ātmans, and the possessed is intelligence. Intelligence has an attributive existence in relation to its substantial possessor. In saṁsāra, intelligence is contracted by karma; in mokṣa, it is unlimitedly diffused.

Link copied

Verses 17–21 (The four marks of the wise, and equal vision)

Verse 5.17. "Meditating on That (ātman), engrossed in That, pursuing That, aiming That, they go, wisdom-effaced of taint, to the non-reverting That."

Link copied

Ramanuja glosses the four compounds:

Link copied
  • tad-buddhayaḥ — having all the understanding employed on That, meaning meditating for ātman-vision;
  • tad-ātmānaḥ — having all the mind centred on That, making ātman the sole subject of loving reflection (mind involves emotion; here is engrossment);
  • tan-niṣṭhāḥ — earnestly practising all that takes them to the end;
  • tat-parāyaṇāḥ — whose sole noble aim is ātman alone.

They reach ātman, whence once awake there is no falling back.

Link copied

Verse 5.18. "The wise regard equally the brāhmaṇa of learning and conduct, the cow, the elephant, the dog, and even the outcaste."

Link copied

Equal-regarding consists in seeing all ātmans abiding in these varied bodies as equal by their essential jñāna — the common property. Variety is due to prakṛti, not to ātman. Bodies differ; the ātmans within are one like another by their inherent consciousness.

Link copied

Verse 5.19. "By them whose mind is fixed in equality, saṁsāra is overcome even here. Verily Brahman (ātman) is stainless and equal. Hence are they fixed in Brahman."

Link copied

Ātman is indeed equal-natured when divested of matter's stain. To be fixed in ātman-equality is to be fixed in Brahman itself. Fixture in Brahman is victory over saṁsāra. Those who can reflect on the equality of all ātmans are indeed muktas, liberated beings.

Link copied

Verse 5.20. "He shall not exult, attaining the agreeable; nor grieve, encountering the disagreeable. The steady-willed, undeluded, Brahma-knower remains in Brahman itself."

Link copied

From the teaching of truth-seers one learns the exact nature of ātman (brahma-vit); one then practises it, planting the will in the stable ātman, free from the delusion that confuses stable ātman with unstable body; one abjures the ātman-love placed in the body; one employs oneself in blissful contemplation of eternal ātman-intercourse; and then the pairs cannot shake one.

Link copied

Verse 5.21. "With mind unattached to external contacts, whoso feels delight in ātman itself, joins himself in mind to brahma-yoga, and tastes eternal bliss."

Link copied

Verses 22–26 (The extinction of passion; brahma-nirvāṇa)

Verse 5.22. "As contact-derived delights are wombs of grief, with beginnings and endings, no sage, Kaunteya, delights in them."

Link copied

Sense-contacts produce pain; their joys are transient; the sage who knows this does not delight in them.

Link copied

Verse 5.23. "He is yukta and happy, who, even here, before deliverance from body, is able to resist the violence born of lust and anger."

Link copied

Even during the practice of yoga while yet in body, the one who, from the grateful experiences of ātman he has already had, is able to oppose the on-rush of desire and passion — he is fit for yoga, and finds his bliss in ātman after departing from the body.

Link copied

Verse 5.24. "Who finds joy within, enjoyment within, light within — the Brahma-like yogi attains brahma-nirvāṇa."

Link copied

Antaḥ-sukha is one who feels desire for the happy ātman-experience. Antar-ārāma is one whose ātman is his pleasure-garden. When his sole illumination is the wisdom concerning ātman, he is Brahma-like and attains brahma-bliss — bliss from ātman-enjoyment.

Link copied

Verse 5.25. "Those seers who have cut the pairs asunder, who have set their minds on ātman, who delight in the well-being of all beings — assoiled of taints — obtain brahma-nirvāṇa."

Link copied

The ṛṣis are the intent seers of ātman, those who ever wish for all other creatures the happiness they would have for themselves.

Link copied

Verse 5.26. "Brahma-nirvāṇa is everywhere for those weaned from lust and wrath, who are perseverers (yatayaḥ), who have restrained and mastered the mind."

Link copied

Verses 27–29 (Meditation and the Lord as Friend)

Verse 5.27–28. "Shutting out all outward contacts, fixing the eyes between the brows, equalising the nasal currents prāṇa and apāna; governing the senses, manas, and buddhi; exempt from desire, dread, and anger — the muni, the sole mokṣa-desirer, is verily ever the liberated."

Link copied

This meditation practice is briefly sketched here and amplified in Lecture Six. In an erect posture, shutting out sense-contacts, fixing the gaze on the tip of the nose between the brows, equalising the breaths, the yogi renders the senses, manas, and buddhi incapable of moving out to any subject save ātman. Such a one is considered liberated even during the journey itself on the path of spirituality.

Link copied

Verse 5.29. "Knowing Me to be the Acceptor of yajñas and tapases, the Great Lord of the Cosmos, the Friend of all beings, one goes to Peace."

Link copied

This crowning verse teaches the easiest mode of karma-yoga. If the whole sum of prescribed duties is performed as acts of worship to the Lord, that way of doing karma-yoga is the easiest. As worshipful service to Him it becomes easy; and who would not gladly render such service when it is to the Universal Friend?

Link copied

Thus closes Lecture Five, Karma-sannyāsa-yoga, the Yoga of Renouncing Works (in mind), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.

Link copied
Join our community