Bhagavad Gita Bhashya · Section 6 of 19
atha pañcamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
अर्जुन उवाच
Link copiedसन्न्यासꣳ कर्मणाꣳ कृष्ण पुनर् योगꣳ च शꣳससि।
Link copiedयच् छ्रेय एतयोर् एकꣳ तन् मे ब्रूहि सुनिश्चितम्॥१॥
Link copiedकर्मणाꣳ सन्न्यासꣳ ज्ञान-योगꣳ पुनः कर्म-योगꣳ च शꣳससि। एतद् उक्तꣳ भवति द्वितीयेऽध्याये मुमुक्षोः प्रथमꣳ कर्म-योग एव कार्यः, कर्म-योगेन मृदितान्तः-करण-कषायस्य ज्ञान-योगेन आत्म-दर्शनꣳ कार्यम् इति प्रतिपाद्य, पुनस् तृतीय-चतुर्थयोः ज्ञान-योगाधिकार-दशाम् आपन्नस्यापि कर्म-निष्ठा एव ज्यायसी। सा एव ज्ञान-निष्ठा-निरपेक्षा आत्म-प्राप्त्य्-एक-साधनम् इति कर्म-निष्ठाꣳ प्रशꣳससीति। तत्रैतयोर् ज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावे यद् एकꣳ सौकर्यात् शैघ्र्याच् च श्रेयः श्रेष्ठम् इति सुनिश्चितꣳ तन् मे ब्रूहि॥५।१॥
Link copiedश्री-भगवान् उवाच---
Link copiedसन्न्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ।
Link copiedतयोस् तु कर्म-सन्न्यासात् कर्म-योगो विशिष्यते॥२॥
Link copiedसन्न्यासः ज्ञान-योगः, कर्म-योगश् च ज्ञान-योग-शक्तस्याप्य् उभौ निरपेक्षौ निःश्रेयस-करौ। तयोस् तु कर्म-सन्न्यासाद् ज्ञान-योगात् कर्म-योग एव विशिष्यते॥५।२॥
Link copiedकुत इत्य् अत आह---
Link copiedज्ञेयः स नित्य-सन्न्यासी यो न द्वेष्टि न काङ्क्षति।
Link copiedनिर्द्वन्द्वो हि महा-बाहो सुखꣳ बन्धात् प्रमुच्यते॥३॥
Link copiedयः कर्म-योगी तद्-अन्तर्-गतात्मानुभव-तृप्तस् तद्-व्यतिरिक्तꣳ किम् अपि न काङ्क्षति, तत एव किम् अपि न द्वेष्टि, तत एव द्वन्द्व-सहश् च। स नित्य-सन्न्यासी नित्य-ज्ञान-निष्ठ इति ज्ञेयः। स हि सुकर-कर्म-योग-निष्ठतया सुखꣳ बन्धात् प्रमुच्यते॥५।३॥
Link copiedज्ञान-योग-कर्म-योगयोर् आत्म-प्राप्ति-साधन-भावेऽन्योन्य-नैरपेक्ष्यम् आह---
Link copiedसाङ्ख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः।
Link copiedएकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम्॥४॥
Link copiedज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूतौ ये प्रवदन्ति ते बाला अनिष्पन्न-ज्ञानाः, न पण्डिताः, न तु कृत्स्न-विदः। कर्म-योगो ज्ञान-योगम् एव साधयति। ज्ञान-योगस् त्व् एक आत्मावलोकनꣳ साधयतीति तयोः फल-भेदेन पृथक्त्वꣳ वदन्तो न पण्डिता इत्य् अर्थः। उभयोर् आत्मावलोकनैक-फलयोर् एक-फलत्वेन एकम् अप्य् आस्थितस् तद् एव फलꣳ लभते॥५।४॥
Link copiedएतद् एव विवृणोति---
Link copiedयत् साङ्ख्यैः प्राप्यते स्थानꣳ तद् योगैर् अपि गम्यते।
Link copiedएकꣳ साङ्ख्यꣳ च योगꣳ च यः पश्यति स पश्यति॥५॥
Link copiedसाङ्ख्यैर् ज्ञान-निष्ठैर् यद् आत्मावलोकन-रूप-फलꣳ प्राप्यते, तद् एव कर्म-योग-निष्ठैर् अपि प्राप्यते। एवम् एक-फलत्वेन एवꣳ वैकल्पिकꣳ साङ्खयꣳ योगꣳ च यः पश्यति, स पश्यति, स एव पण्डित इत्य् अर्थः॥५।५॥
Link copiedइयान् विशेष इत्य् आह---
Link copiedसन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः।
Link copiedयोग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति॥६॥
Link copiedसन्न्यासो ज्ञान-योगस् त्व् अयोगतः कर्म-योगाद् ऋते प्राप्तुम् अशक्यः। योग-युक्तः कर्म-योग-युक्तः स्वयम् एव मुनिर् आत्म-मनन-शीलः सुखेन कर्म-योगꣳ साधयित्वा न चिरेण एव अल्प-कालेनैव ब्रह्माधिगच्छति, आत्मानꣳ प्राप्नोति। ज्ञान-योग-युक्तस् तु महता दुःखेन ज्ञान-योगꣳ साधयति। दुःख-साध्यत्वाद् दुःख-प्राप्यत्वाद् आत्मानꣳ चिरेण प्राप्नोतीत्य् अर्थः॥५।६॥
Link copiedयोग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
Link copiedसर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते॥७॥
Link copiedकर्म-योग-युक्तस् तु शास्त्रीये परम-पुरुषाराधन-रूपे विशुद्धे कर्मणि वर्तमानः, तेन विशुद्ध-मनाः। विजितात्मा स्वाभ्यस्ते कर्मणि व्यापृत-मनस्त्वेन सुखेन विजित-मनाः। तत एवꣳ जितेन्द्रियः। कर्तुर् आत्मनो याथात्म्यानुसन्धान-निष्ठतया सर्व-भूतात्म-भूतात्मा। सर्वेषाꣳ देवादि-भूतानाम् आत्म-भूत आत्मा यस्यासौ सर्व-भूतात्म-भूतात्मा। आत्म-याथात्म्यम् अनुसन्दधानस्य हि देवादीनाꣳ स्वस्य च एकाकार आत्मा। देवादि-भेदानाꣳ प्रकृति-परिणाम-विशेष-रूपतयात्माकारत्वासम्भवात्। प्रकृति-वियुक्तः सर्वत्र देवादि-देहेषु ज्ञानैकाकारतया समानाकार इति निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति अनन्तरम् एव वक्ष्यते। स एवम्भूतः कर्म कुर्वन्न् अप्य् अनात्मन्य् आत्माभिमानेन न लिप्यते न सम्बध्यते। अतोऽचिरेण आत्मानम् आप्नोतीत्य् अर्थः॥५।७॥
Link copiedयतः सौकर्यात् शैघ्र्याच् च कर्म-योग एव श्रेयान्, अतस् तद्-अपेक्षितꣳ सृणु---
Link copiedनैव किꣳ चित् करोमीति युक्तो मन्येत तत्त्व-वित्।
Link copiedपश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन्॥८॥
Link copiedप्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि।
Link copiedइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९॥
Link copiedएवम् आत्म-तत्त्व-वित् श्रोत्रादीनि ज्ञानेन्द्रियाणि वाग्-आदीनि कर्मेन्द्रियाणि। प्राणाश् च स्वस्य विषयेषु वर्तन्त इति धारयन् अनुसन्दधानो नाहꣳ किञ्चित् करोमीति मन्येत। ज्ञानैक-स्वभावस्य मम कर्म-मूलेन्द्रिय-प्राण-सम्बन्ध-कृतम् ईदृशꣳ कर्तृत्वम्, न स्वरूप-प्रयुक्तम् इति मन्येतेत्य् अर्थः॥५।८-९॥
Link copiedब्रह्मण्य् आधाय कर्माणि सङ्गꣳ त्यक्त्वा करोति यः।
Link copiedलिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा॥१०॥
Link copiedब्रह्म-शब्देन प्रकृतिर् इहोच्यते, मम योनिर् महद् ब्रह्म [गीता १४।३] इति हि वक्ष्यते। इन्द्रियाणाꣳ प्रकृति-परिणाम-विशेष-रूपत्वेन इन्द्रियाकारेण अवस्थितायाꣳ प्रकृतौ पश्यन् सृण्वन् [गीता ५।८] इत्य्-आदिनोक्त-प्रकारेण कर्म ब्रह्मण्य् आधाय फल-सङ्गꣳ त्यक्त्वा नैव किञ्चित् करोमि [गीता ५।८] इति यः कर्माणि करोति। स प्रकृति-सꣳसृष्टतया वर्तमानोऽपि प्रकृत्य्-आत्माभिमान-रूपेण सम्बन्ध-हेतुना पापेन न लिप्यते। पद्म-पत्रम् इवाम्भसा, यथा पद्म-पत्रम् अम्भसा सꣳस्पृष्टम् अपि न लिप्यते, तथा न लिप्यत इत्य् अर्थः॥५।१०॥
Link copiedकायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि।
Link copiedयोगिनः कर्म कुर्वन्ति सङ्गꣳ त्यक्त्वात्म-शुद्धये॥११॥
Link copiedकाय-मनो-बुद्धीन्द्रिय-साध्यꣳ कर्म स्वर्गादि-फल-सङ्गꣳ त्यक्त्वा योगिन आत्म-विशुद्धये कुर्वन्ति, आत्म-गत-प्राचीन-कर्म-बन्धन-विनाशाय कुर्वन्तीत्य् अर्थः॥५।११॥
Link copiedयुक्तः कर्म-फलꣳ त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्।
Link copiedअयुक्तः काम-कारेण फले सक्तो निबध्यते॥१२॥
Link copiedयुक्त आत्म-व्यतिरिक्त-फलेष्व् अचपल आत्मैक-प्रवणः कर्म-फलꣳ त्यक्त्वा केवलात्म-शुद्धये कर्मानुष्ठाय नैष्ठिकीꣳ शान्तिम् आप्नोति। स्थिराम् आत्मानुभव-रूपाꣳ निर्वृतिम् आप्नोति। अयुक्त आत्म-व्यतिरिक्त-फलेषु चपल आत्मावलोकन-विमुखः काम-कारेण फले सक्तः कर्माणि कुर्वन् नित्यꣳ कर्मभिर् बध्यते नित्य-सꣳसारी भवति। अतः फल-सङ्ग-रहित इन्द्रियाकारेण परिणतायाꣳ प्रकृतौ कर्माणि सन्न्यस्यात्मनो बन्ध-मोचनायैव कर्माणि कुर्वीतेत्य् उक्तꣳ भवति॥५।१२॥
Link copiedअथ देहाकारेण परिणतायाꣳ प्रकृतौ कर्तृत्व-सन्न्यास उच्यते---
Link copiedसर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखꣳ वशी।
Link copiedनव-द्वारे पुरे देही नैव कुर्वन् न कारयन्॥१३॥
Link copiedआत्मनः प्राचीन-कर्म-मूल-देह-सम्बन्ध-प्रयुक्तम् इदꣳ कर्मणाꣳ कर्तृत्वꣳ न स्वरूप-प्रयुक्तम् इति विवेक-विषयेण मनसा सर्वाणि कर्माणि नव-द्वारे पुरे सन्न्यस्य देही स्वयꣳ वशी देहाधिष्ठान-प्रयत्नम् अकुर्वन् देहेनैव कारयन् सुखम् आस्ते॥५।१३॥
Link copiedसाक्षाद् आत्मनः स्वाभाविक-रूपम् आह---
Link copiedन कर्तृत्वꣳ न कर्माणि लोकस्य सृजति प्रभुः।
Link copiedन कर्म-फल-सꣳयोगꣳ स्वभावस् तु प्रवर्तते॥१४॥
Link copiedअस्य देव-तिर्यङ्-मनुष्य-स्थावरात्मना प्रकृति-सꣳसर्गेण वर्तमानस्य लोकस्य देवाद्य्-असाधारणꣳ कर्तृत्वꣳ तत्-तद्-असाधारणानि कर्माणि तत् तत् कर्म-जन्य-देवादि-फल-सꣳयोगꣳ चायꣳ प्रभुर् अकर्म-वश्यः स्वाभाविक-स्वरूपेणावस्थित आत्मा न सृजति, नोत्पादयति। कस् तर्हि। स्वभावस् तु प्रवर्तते, स्वभावः प्रकृति-वासना। अनादि-काल-प्रवृत्त-पूर्व-पूर्व-कर्म-जनित-देवाद्य्-आकार-प्रकृति-सꣳसर्ग-कृत-तत्-तद्-आत्माभिमान-जनित-वासना-कृतम् ईदृशꣳ कर्तृत्वादिकꣳ सर्वम्, न स्वरूप-प्रयुक्तम् इत्य् अर्थः॥५।१४॥
Link copiedनादत्ते कस्य चित् पापꣳ न चैव सुकृतꣳ विभुः।
Link copiedअज्ञानेनावृतꣳ ज्ञानꣳ तेन मुह्यन्ति जन्तवः॥१५॥
Link copiedकस्यचित् स्व-सम्बन्धितया अभिमतस्य पुत्रादेः पापꣳ दुःखꣳ नादत्ते, नापनुदति, कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतꣳ सुखꣳ च नादत्ते नापनुदति। यतोऽयꣳ विभुः, न क्वाचित्कः, न देवादि-देहाद्य्-असाधारण-देशः, अत एव न कस्यचित् सम्बन्धी, न कस्यचित् प्रतिकूलश् च। सर्वम् इदꣳ वासना-कृतम्। एवꣳ-स्वभावस्य कथम् इयꣳ विपरीत-वासना उत्पद्यते। अज्ञानेनावृतꣳ ज्ञानम्, ज्ञान-विरोधिना पूर्व-पूर्व-कर्मणा स्व-फलानुभव-योग्यत्वायास्य ज्ञानम् आवृतꣳ सङ्कुचितम्। तेन ज्ञानावरण-रूपेण कर्मणा देवादि-देह-सꣳयोगस् तत्-तद्-आत्माभिमान-रूप-मोहश् च जायते। ततश् च तथाविधात्माभिमान-वासना तद्-उचित-कर्म-वासना च। वासनातो विपरीतात्माभिमानः कर्मारम्भश् चोपपद्यते॥५।१५॥
Link copiedसर्वꣳ ज्ञान-प्लवेनैव वृजिनꣳ सन्तरिष्यसि [गीता ४।३६] ज्ञानाग्निः सर्व-कर्माणि भस्म-सात् कुरुते तथा [गीता ४।३७] न हि ज्ञानेन सदृशꣳ पवित्रम् [गीता ४।३८] इति पूर्वोक्तꣳ स्व-काले सङ्गमयति---
Link copiedज्ञानेन तु तद् अज्ञानꣳ येषाꣳ नाशितम् आत्मनः।
Link copiedतेषाम् आदित्यवज् ज्ञानꣳ प्रकाशयति तत्परम्॥१६॥
Link copiedएवꣳ वर्तमानेषु सर्वात्मसु येषाम् आत्मनाम् उक्त-लक्षणेन आत्म-याथात्म्योपदेश-जनितेन आत्म-विषयेण अहरहर् अभ्यासाधेयातिशयेन निरतिशय-पवित्रेण ज्ञानेन तद्-अज्ञानावरणम् अनादि-काल-प्रवृत्तानन्त-कर्म-सꣳशय-रूपाज्ञानꣳ नाशितꣳ तेषाꣳ तत् स्वाभाविकꣳ परꣳ ज्ञानम् अपरिमितम् असङ्कुचितम् आदित्यवत् सर्वꣳ यथावस्थितꣳ प्रकाशयति। तेषाम् इति विनष्ट-ज्ञानानाꣳ बहुत्वाभिधानाद् आत्म-स्वरूप-बहुत्वम्--- न त्व् एवाहꣳ जातु नासꣳ न त्वꣳ नेमे [गीता २।१२] इति उपक्रमावगतम् अत्र स्पष्टतरम् उक्तम्।
Link copiedन चेदꣳ बहुत्वम् उपाधिकृतꣳ विनष्ट-ज्ञानानाम् उपाधि-गन्धाभावात्। तेषाम् आदित्यवज् ज्ञानम् इति व्यतिरेक-निर्देशात् ज्ञानस्य स्वरूपानुबन्धित्वम् उक्तम् आदित्य-दृष्टन्तेन च ज्ञातृ-ज्ञानयोः प्रभा-प्रभावतोर् इवावस्थानꣳ च। तत एव सꣳसार-दशायाꣳ ज्ञानस्य कर्मणा सङ्कोचः मोक्ष-दशायाꣳ विकासश् चोपपन्नः॥५।१६॥
Link copiedतद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः।
Link copiedगच्छन्त्य् अपुनर्-आवृत्तिꣳ ज्ञान-निर्धूत-कल्मषाः॥१७॥
Link copiedतद्-बुद्धयस् तथा-विधात्म-दर्शनाध्यवसायाः, तद्-आत्मानस् तद्-विषय-मनसः, तन्-निष्ठास् तद्-अभ्यास-निरताः, तत्-परायणास् तद् एव परम् अयनꣳ येषाꣳ ते। एवम् अभ्यस्यमानेन ज्ञानेन निर्धूत-प्राचीन-कल्मषास् तथा-विधम् आत्मानम् अपुनर्-आवृत्तिꣳ गच्छन्ति। यद्-अवस्थाद् आत्मनः पुनर्-आवृत्तिः न विद्यते स आत्मा अपुनर्-आवृत्तिः, स्वेन रूपेणावस्थितः। तम् आत्मानꣳ गच्छन्तीत्य् अर्थः॥५।१७॥
Link copiedविद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि।
Link copiedशुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः॥१८॥
Link copiedविद्या-विनय-सम्पन्ने ब्राह्मणो गो-हस्ति-श्वपचादिषु अत्यन्त-विषमाकारतया प्रतीयमानेषु चात्मसु पण्डिता आत्म-याथात्म्य-विदो ज्ञानैकाकारतया सर्वत्र सम-दर्शिनः। विषमाकारस् तु प्रकृतेर् नात्मनः। आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्य् अर्थः॥५।१८॥
Link copiedइहैव तैर् जितः सर्गो येषाꣳ साम्ये स्थितꣳ मनः।
Link copiedनिर्दोषꣳ हि समꣳ ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥१९॥
Link copiedइहैव साधनानुष्ठान-दशायाम् एव तैः सर्गो जितः सꣳसारो जितः। येषाम् उक्त-रीत्या सर्वेष्व् आत्मसु साम्ये स्थितꣳ मनः। निर्दोषꣳ हि समꣳ ब्रह्म प्रकृति-सꣳसर्ग-दोष-वियुक्ततया समम् आत्म-वस्तु हि ब्रह्म। आत्म-साम्ये स्थिताश् चेद् ब्रह्मणि स्थिता एव ते। ब्रह्मणि स्थितिर् एव हि सꣳसार-जयः। आत्मसु ज्ञानैकाकारतया साम्यम् एव अनुसन्दधाना मुक्ता एव इत्य् अर्थः॥५।१९॥
Link copiedयेन प्रकारेणावस्थितस्य कर्म-योगिनः सम-दर्शन-रूपो ज्ञान-विपाको भवति, तꣳ प्रकारम् उपदिशति---
Link copiedन प्रहृष्येत् प्रियꣳ प्राप्य नोद्विजेत् प्राप्य चाप्रियम्।
Link copiedस्थिर-बुद्धिर् असꣳमूढो ब्रह्मविद् ब्रह्मणि स्थितः॥२०॥
Link copiedयादृश-देह-स्थस्य यद्-अवस्थस्य प्राचीन-कर्म-वासनया यत् प्रियꣳ यच् चाप्रियꣳ तद् उभयꣳ प्राप्य हर्षोद्वेगौ न कुर्यात्। कथम्। स्थिर-बुद्धिः स्थिरे आत्मनि बुद्धिर् यस्य स स्थिर-बुद्धिः। असꣳमूढः--- अस्थिरेण शरीरेण स्थिरम् आत्मानम् एकीकृत्य मोहः सꣳमोहस् तद्-रहितः। तत् च कथम्। ब्रह्म-विद् ब्रह्मणि स्थितः। उपदेशेन ब्रह्म-वित् सन् तस्मिन् ब्रह्मण्य् अभ्यास-युक्तः। एतद् उक्तꣳ भवति--- तत्त्व-विदाम् उपदेशेन आत्म-याथात्म्य-विद् भूत्वा तत्रैव यतमानो देहाभिमानꣳ परित्यज्य स्थिर-रूपात्मावलोकन-प्रियानुभवे व्यवस्थितोऽस्थिरे प्राकृत-प्रियाप्रिये प्राप्य।हर्षोद्वेगौ न कुर्याद् इति॥५।२०॥
Link copiedबाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम्।
Link copiedस ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते॥२१॥
Link copiedएवम् उक्तेन प्रकारेण बाह्य-स्पर्शेष्व् आत्म-व्यतिरिक्त-विषयानुभावेष्व् असक्त-मना अन्तरात्मन्य् एव यः सुखꣳ विन्दति लभते स प्रकृत्य्-अभ्यासꣳ विहाय ब्रह्म-योग-युक्तात्मा ब्रह्माभ्यास-युक्त-मना ब्रह्मानुभव-रूपम् अक्षयꣳ सुखꣳ प्राप्नोति॥५।२१॥
Link copiedप्राकृतस्य भोगस्य सुत्यजताम् आह---
Link copiedये हि सꣳस्पर्शजा भोगा दुःख-योनय एव ते।
Link copiedआद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः॥२२॥
Link copiedविषयेन्द्रिय-स्पर्शजा ये भोगाः, दुःख-योनयस् ते दुःखोदर्का आद्य्-अन्त-वन्तोऽल्प-काल-वर्तिनो हि उपलभ्यन्ते। न तेषु तद्-याथात्म्य-विद् रमते॥५।२२॥
Link copiedशक्नोतीहैव यः सोढुꣳ प्राक् शरीर-विमोक्षणात्।
Link copiedकाम-क्रोधोद्भवꣳ वेगꣳ स युक्तः स सुखी नरः॥२३॥
Link copiedशरीर-विमोक्षणात् प्राग् इहैव साधनानुष्ठान-दशायाम् एव आत्मानुभव-प्रीत्या काम-क्रोधोद्भवꣳ वेगꣳ सोढुꣳ निरोद्धुꣳ यः शक्नोति स युक्त आत्मानुभवायार्हः। शरीर-मोक्षणोत्तर-कालम् आत्मानुभव-सुखः सम्पत्स्यते॥५।२३॥
Link copiedयोऽन्तः-सुखोऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः।
Link copiedस योगी ब्रह्म-निर्वाणꣳ ब्रह्म-भूतोऽधिगच्छति॥२४॥
Link copiedयो बाह्य-विषयानुभवꣳ सर्वꣳ विहाय अन्तः-सुख आत्मानुभवैक-सुखोऽन्तराराम आत्मैकाधीनः स्व-गुणैर् आत्मैव सुख-वर्धको यस्य स तथोक्तः, तथा अन्तर्-ज्योतिर् आत्मैक-ज्ञानो यो वर्तते, स ब्रह्म-भूतो योगी ब्रह्म-निर्वाणम् आत्मानुभव-सुखꣳ प्राप्नोति॥५।२४॥
Link copiedलभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः।
Link copiedछिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः॥२५॥
Link copiedछिन-द्वैधाः--- शीतोष्णादि-द्वन्द्वैर् विमुक्ताः। यतात्मान--- आत्मन्य् एव नियमित-मनसः। सर्व-भूत-हिते रताः--- आत्मवत् सर्वेषाꣳ भूतानाꣳ हितेषु निरताः। ऋषयः--- द्रष्टर आत्मावलोकन-परा ये एवम्भूतास् ते क्षीणाशेषात्म-प्राप्ति-विरोधि-कल्मषा ब्रह्म-निर्वाणꣳ लभन्ते॥५।२५॥
Link copiedउक्त-गुणानाꣳ ब्रह्मात्यन्त-सुलभम् इत्य् आह---
Link copiedकाम-क्रोध-वियुक्तानाꣳ यतीनाꣳ यत-चेतसाम्।
Link copiedअभितो ब्रह्म-निर्वाणꣳ वर्तते विदितात्मनाम्॥२६॥
Link copiedकाम-क्रोध-वियुक्तानाꣳ यतीनाꣳ यतन-शीलानाꣳ यत-चेतसाꣳ नियमित-मनसाꣳ विजितात्मनाꣳ विजित-मनसाꣳ ब्रह्म-निर्वाणम् अभितो वर्तते। एवꣳ-भूतानाꣳ हस्त-स्थꣳ ब्रह्म-निर्वाणम् इत्य् अर्थः॥५।२६॥
Link copiedउक्तꣳ कर्म-योगꣳ स्व-लक्ष्य-भूत-योग-शिरस्कम् उपसꣳहरति---
Link copiedस्पर्शान् कृत्वा बहिर् बाह्याꣳश् चक्षुश् चैवान्तरे भ्रुवोः।
Link copiedप्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ॥२७॥
Link copiedयतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः।
Link copiedविगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः॥२८॥
Link copiedबाह्यान् विषय-स्पर्शान् बहिः कृत्वा बाह्येन्द्रिय-व्यापारꣳ सर्वम् उपसꣳहृत्य योग-योग्यासने ऋजु-काय उपविश्य चक्षुर् भ्रुवोर् अन्तरे नासाग्रे विन्यस्य नासाभ्यन्तर-चारिणौ प्राणापानौ समौ कृत्वा उच्छवास-निःश्वासौ सम-गती कृत्वा आत्मावलोकनाद् अन्यत्र प्रवृत्त्य्-अनर्हेन्द्रिय-मनो-बुद्धिस् तत एव विगतेच्छा-भय-क्रोधो मोक्ष-परायणो मोक्षैक-प्रयोजनो मुनिर् आत्मावलोकन-शीलो यः सदा मुक्त एव। साध्य-दशायाम् इव साधन-दशायाम् अपि मुक्त एव स इत्य् अर्थः॥५।२७-२८॥
Link copiedउक्तस्य नित्य-नैमित्तिक-कर्मेति कर्तव्यताकस्य कर्म-योगस्य योग-शिरस्कस्य सुशकताम् आह---
Link copiedभोक्तारꣳ यज्ञ-तपसाꣳ सर्व-लोक-महेश्वरम्।
Link copiedसुहृदꣳ सर्व-भूतानाꣳ ज्ञात्वा माꣳ शान्तिम् ऋच्छति॥२९॥
Link copiedयज्ञ-तपसाꣳ भोक्तारꣳ सर्व-लोक-महेश्वरꣳ सर्व-भूतानाꣳ सुहृदꣳ माꣳ ज्ञात्वा शान्तिम् ऋच्छति कर्म-योग-करण एव सुखम् ऋच्छति। सर्व-लोक-महेश्वरꣳ सर्वेषाꣳ लोकेश्वराणाम् अपीश्वरꣳ तम् ईश्वराणाꣳ परमꣳ महेश्वरम् [श्वे।उ। ६।७] इति हि श्रूयते। माꣳ सर्व-लोक-महेश्वरꣳ सर्व-सुहृदꣳ ज्ञात्वा मद्-आराधन-रूपः कर्म-योग इति सुखेन तत्र प्रवर्तत इत्य् अर्थः। सुहृदाम् आराधनाय सर्वे प्रवर्तन्ते॥५।२९॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये पञ्चमोऽध्यायः॥५॥
Link copied**
Link copiedఅర్జున ఉవాచ
Link copiedసన్న్యాసṁ కర్మణాṁ కృష్ణ పునర్ యోగṁ చ శṁససి।
Link copiedయచ్ ఛ్రేయ ఏతయోర్ ఏకṁ తన్ మే బ్రూహి సునిశ్చితమ్॥౧॥
Link copiedకర్మణాṁ సన్న్యాసṁ జ్ఞాన-యోగṁ పునః కర్మ-యోగṁ చ శṁససి। ఏతద్ ఉక్తṁ భవతి ద్వితీయేఽధ్యాయే ముముక్షోః ప్రథమṁ కర్మ-యోగ ఏవ కార్యః, కర్మ-యోగేన మృదితాన్తః-కరణ-కషాయస్య జ్ఞాన-యోగేన ఆత్మ-దర్శనṁ కార్యమ్ ఇతి ప్రతిపాద్య, పునస్ తృతీయ-చతుర్థయోః జ్ఞాన-యోగాధికార-దశామ్ ఆపన్నస్యాపి కర్మ-నిష్ఠా ఏవ జ్యాయసీ। సా ఏవ జ్ఞాన-నిష్ఠా-నిరపేక్షా ఆత్మ-ప్రాప్త్య్-ఏక-సాధనమ్ ఇతి కర్మ-నిష్ఠాṁ ప్రశṁససీతి। తత్రైతయోర్ జ్ఞాన-యోగ-కర్మ-యోగయోర్ ఆత్మ-ప్రాప్తి-సాధన-భావే యద్ ఏకṁ సౌకర్యాత్ శైఘ్ర్యాచ్ చ శ్రేయః శ్రేష్ఠమ్ ఇతి సునిశ్చితṁ తన్ మే బ్రూహి॥౫।౧॥
Link copiedశ్రీ-భగవాన్ ఉవాచ---
Link copiedసన్న్యాసః కర్మ-యోగశ్ చ నిఃశ్రేయస-కరావ్ ఉభౌ।
Link copiedతయోస్ తు కర్మ-సన్న్యాసాత్ కర్మ-యోగో విశిష్యతే॥౨॥
Link copiedసన్న్యాసః జ్ఞాన-యోగః, కర్మ-యోగశ్ చ జ్ఞాన-యోగ-శక్తస్యాప్య్ ఉభౌ నిరపేక్షౌ నిఃశ్రేయస-కరౌ। తయోస్ తు కర్మ-సన్న్యాసాద్ జ్ఞాన-యోగాత్ కర్మ-యోగ ఏవ విశిష్యతే॥౫।౨॥
Link copiedకుత ఇత్య్ అత ఆహ---
Link copiedజ్ఞేయః స నిత్య-సన్న్యాసీ యో న ద్వేష్టి న కాఙ్క్షతి।
Link copiedనిర్ద్వన్ద్వో హి మహా-బాహో సుఖṁ బన్ధాత్ ప్రముచ్యతే॥౩॥
Link copiedయః కర్మ-యోగీ తద్-అన్తర్-గతాత్మానుభవ-తృప్తస్ తద్-వ్యతిరిక్తṁ కిమ్ అపి న కాఙ్క్షతి, తత ఏవ కిమ్ అపి న ద్వేష్టి, తత ఏవ ద్వన్ద్వ-సహశ్ చ। స నిత్య-సన్న్యాసీ నిత్య-జ్ఞాన-నిష్ఠ ఇతి జ్ఞేయః। స హి సుకర-కర్మ-యోగ-నిష్ఠతయా సుఖṁ బన్ధాత్ ప్రముచ్యతే॥౫।౩॥
Link copiedజ్ఞాన-యోగ-కర్మ-యోగయోర్ ఆత్మ-ప్రాప్తి-సాధన-భావేఽన్యోన్య-నైరపేక్ష్యమ్ ఆహ---
Link copiedసాఙ్ఖ్య-యోగౌ పృథగ్ బాలాః ప్రవదన్తి న పణ్డితాః।
Link copiedఏకమ్ అప్య్ ఆస్థితః సమ్యగ్ ఉభయోర్ విన్దతే ఫలమ్॥౪॥
Link copiedజ్ఞాన-యోగ-కర్మ-యోగౌ ఫల-భేదాత్ పృథగ్-భూతౌ యే ప్రవదన్తి తే బాలా అనిష్పన్న-జ్ఞానాః, న పణ్డితాః, న తు కృత్స్న-విదః। కర్మ-యోగో జ్ఞాన-యోగమ్ ఏవ సాధయతి। జ్ఞాన-యోగస్ త్వ్ ఏక ఆత్మావలోకనṁ సాధయతీతి తయోః ఫల-భేదేన పృథక్త్వṁ వదన్తో న పణ్డితా ఇత్య్ అర్థః। ఉభయోర్ ఆత్మావలోకనైక-ఫలయోర్ ఏక-ఫలత్వేన ఏకమ్ అప్య్ ఆస్థితస్ తద్ ఏవ ఫలṁ లభతే॥౫।౪॥
Link copiedఏతద్ ఏవ వివృణోతి---
Link copiedయత్ సాఙ్ఖ్యైః ప్రాప్యతే స్థానṁ తద్ యోగైర్ అపి గమ్యతే।
Link copiedఏకṁ సాఙ్ఖ్యṁ చ యోగṁ చ యః పశ్యతి స పశ్యతి॥౫॥
Link copiedసాఙ్ఖ్యైర్ జ్ఞాన-నిష్ఠైర్ యద్ ఆత్మావలోకన-రూప-ఫలṁ ప్రాప్యతే, తద్ ఏవ కర్మ-యోగ-నిష్ఠైర్ అపి ప్రాప్యతే। ఏవమ్ ఏక-ఫలత్వేన ఏవṁ వైకల్పికṁ సాఙ్ఖయṁ యోగṁ చ యః పశ్యతి, స పశ్యతి, స ఏవ పణ్డిత ఇత్య్ అర్థః॥౫।౫॥
Link copiedఇయాన్ విశేష ఇత్య్ ఆహ---
Link copiedసన్న్యాసస్ తు మహాబాహో దుఃఖమ్ ఆప్తుమ్ అయోగతః।
Link copiedయోగ-యుక్తో మునిర్ బ్రహ్మ నచిరేణాధిగచ్ఛతి॥౬॥
Link copiedసన్న్యాసో జ్ఞాన-యోగస్ త్వ్ అయోగతః కర్మ-యోగాద్ ఋతే ప్రాప్తుమ్ అశక్యః। యోగ-యుక్తః కర్మ-యోగ-యుక్తః స్వయమ్ ఏవ మునిర్ ఆత్మ-మనన-శీలః సుఖేన కర్మ-యోగṁ సాధయిత్వా న చిరేణ ఏవ అల్ప-కాలేనైవ బ్రహ్మాధిగచ్ఛతి, ఆత్మానṁ ప్రాప్నోతి। జ్ఞాన-యోగ-యుక్తస్ తు మహతా దుఃఖేన జ్ఞాన-యోగṁ సాధయతి। దుఃఖ-సాధ్యత్వాద్ దుఃఖ-ప్రాప్యత్వాద్ ఆత్మానṁ చిరేణ ప్రాప్నోతీత్య్ అర్థః॥౫।౬॥
Link copiedయోగ-యుక్తో విశుద్ధాత్మా విజితాత్మా జితేన్ద్రియః।
Link copiedసర్వ-భూతాత్మ-భూతాత్మా కుర్వన్న్ అపి న లిప్యతే॥౭॥
Link copiedకర్మ-యోగ-యుక్తస్ తు శాస్త్రీయే పరమ-పురుషారాధన-రూపే విశుద్ధే కర్మణి వర్తమానః, తేన విశుద్ధ-మనాః। విజితాత్మా స్వాభ్యస్తే కర్మణి వ్యాపృత-మనస్త్వేన సుఖేన విజిత-మనాః। తత ఏవṁ జితేన్ద్రియః। కర్తుర్ ఆత్మనో యాథాత్మ్యానుసన్ధాన-నిష్ఠతయా సర్వ-భూతాత్మ-భూతాత్మా। సర్వేషాṁ దేవాది-భూతానామ్ ఆత్మ-భూత ఆత్మా యస్యాసౌ సర్వ-భూతాత్మ-భూతాత్మా। ఆత్మ-యాథాత్మ్యమ్ అనుసన్దధానస్య హి దేవాదీనాṁ స్వస్య చ ఏకాకార ఆత్మా। దేవాది-భేదానాṁ ప్రకృతి-పరిణామ-విశేష-రూపతయాత్మాకారత్వాసమ్భవాత్। ప్రకృతి-వియుక్తః సర్వత్ర దేవాది-దేహేషు జ్ఞానైకాకారతయా సమానాకార ఇతి నిర్దోషṁ హి సమṁ బ్రహ్మ [గీతా ౫।౧౯] ఇతి అనన్తరమ్ ఏవ వక్ష్యతే। స ఏవమ్భూతః కర్మ కుర్వన్న్ అప్య్ అనాత్మన్య్ ఆత్మాభిమానేన న లిప్యతే న సమ్బధ్యతే। అతోఽచిరేణ ఆత్మానమ్ ఆప్నోతీత్య్ అర్థః॥౫।౭॥
Link copiedయతః సౌకర్యాత్ శైఘ్ర్యాచ్ చ కర్మ-యోగ ఏవ శ్రేయాన్, అతస్ తద్-అపేక్షితṁ సృణు---
Link copiedనైవ కిṁ చిత్ కరోమీతి యుక్తో మన్యేత తత్త్వ-విత్।
Link copiedపశ్యఞ్ శృణ్వన్ స్పృశఞ్ జిఘ్రన్న్ అశ్నన్ గచ్ఛన్ స్వపఞ్ శ్వసన్॥౮॥
Link copiedప్రలపన్ విసృజన్ గృహ్ణన్న్ ఉన్మిషన్ నిమిషన్న్ అపి।
Link copiedఇన్ద్రియాణీన్ద్రియార్థేషు వర్తన్త ఇతి ధారయన్॥౯॥
Link copiedఏవమ్ ఆత్మ-తత్త్వ-విత్ శ్రోత్రాదీని జ్ఞానేన్ద్రియాణి వాగ్-ఆదీని కర్మేన్ద్రియాణి। ప్రాణాశ్ చ స్వస్య విషయేషు వర్తన్త ఇతి ధారయన్ అనుసన్దధానో నాహṁ కిఞ్చిత్ కరోమీతి మన్యేత। జ్ఞానైక-స్వభావస్య మమ కర్మ-మూలేన్ద్రియ-ప్రాణ-సమ్బన్ధ-కృతమ్ ఈదృశṁ కర్తృత్వమ్, న స్వరూప-ప్రయుక్తమ్ ఇతి మన్యేతేత్య్ అర్థః॥౫।౮-౯॥
Link copiedబ్రహ్మణ్య్ ఆధాయ కర్మాణి సఙ్గṁ త్యక్త్వా కరోతి యః।
Link copiedలిప్యతే న స పాపేన పద్మ-పత్రమ్ ఇవామ్భసా॥౧౦॥
Link copiedబ్రహ్మ-శబ్దేన ప్రకృతిర్ ఇహోచ్యతే, మమ యోనిర్ మహద్ బ్రహ్మ [గీతా ౧౪।౩] ఇతి హి వక్ష్యతే। ఇన్ద్రియాణాṁ ప్రకృతి-పరిణామ-విశేష-రూపత్వేన ఇన్ద్రియాకారేణ అవస్థితాయాṁ ప్రకృతౌ పశ్యన్ సృణ్వన్ [గీతా ౫।౮] ఇత్య్-ఆదినోక్త-ప్రకారేణ కర్మ బ్రహ్మణ్య్ ఆధాయ ఫల-సఙ్గṁ త్యక్త్వా నైవ కిఞ్చిత్ కరోమి [గీతా ౫।౮] ఇతి యః కర్మాణి కరోతి। స ప్రకృతి-సṁసృష్టతయా వర్తమానోఽపి ప్రకృత్య్-ఆత్మాభిమాన-రూపేణ సమ్బన్ధ-హేతునా పాపేన న లిప్యతే। పద్మ-పత్రమ్ ఇవామ్భసా, యథా పద్మ-పత్రమ్ అమ్భసా సṁస్పృష్టమ్ అపి న లిప్యతే, తథా న లిప్యత ఇత్య్ అర్థః॥౫।౧౦॥
Link copiedకాయేన మనసా బుద్ధ్యా కేవలైర్ ఇన్ద్రియైర్ అపి।
Link copiedయోగినః కర్మ కుర్వన్తి సఙ్గṁ త్యక్త్వాత్మ-శుద్ధయే॥౧౧॥
Link copiedకాయ-మనో-బుద్ధీన్ద్రియ-సాధ్యṁ కర్మ స్వర్గాది-ఫల-సఙ్గṁ త్యక్త్వా యోగిన ఆత్మ-విశుద్ధయే కుర్వన్తి, ఆత్మ-గత-ప్రాచీన-కర్మ-బన్ధన-వినాశాయ కుర్వన్తీత్య్ అర్థః॥౫।౧౧॥
Link copiedయుక్తః కర్మ-ఫలṁ త్యక్త్వా శాన్తిమ్ ఆప్నోతి నైష్ఠికీమ్।
Link copiedఅయుక్తః కామ-కారేణ ఫలే సక్తో నిబధ్యతే॥౧౨॥
Link copiedయుక్త ఆత్మ-వ్యతిరిక్త-ఫలేష్వ్ అచపల ఆత్మైక-ప్రవణః కర్మ-ఫలṁ త్యక్త్వా కేవలాత్మ-శుద్ధయే కర్మానుష్ఠాయ నైష్ఠికీṁ శాన్తిమ్ ఆప్నోతి। స్థిరామ్ ఆత్మానుభవ-రూపాṁ నిర్వృతిమ్ ఆప్నోతి। అయుక్త ఆత్మ-వ్యతిరిక్త-ఫలేషు చపల ఆత్మావలోకన-విముఖః కామ-కారేణ ఫలే సక్తః కర్మాణి కుర్వన్ నిత్యṁ కర్మభిర్ బధ్యతే నిత్య-సṁసారీ భవతి। అతః ఫల-సఙ్గ-రహిత ఇన్ద్రియాకారేణ పరిణతాయాṁ ప్రకృతౌ కర్మాణి సన్న్యస్యాత్మనో బన్ధ-మోచనాయైవ కర్మాణి కుర్వీతేత్య్ ఉక్తṁ భవతి॥౫।౧౨॥
Link copiedఅథ దేహాకారేణ పరిణతాయాṁ ప్రకృతౌ కర్తృత్వ-సన్న్యాస ఉచ్యతే---
Link copiedసర్వ-కర్మాణి మనసా సన్న్యస్యాస్తే సుఖṁ వశీ।
Link copiedనవ-ద్వారే పురే దేహీ నైవ కుర్వన్ న కారయన్॥౧౩॥
Link copiedఆత్మనః ప్రాచీన-కర్మ-మూల-దేహ-సమ్బన్ధ-ప్రయుక్తమ్ ఇదṁ కర్మణాṁ కర్తృత్వṁ న స్వరూప-ప్రయుక్తమ్ ఇతి వివేక-విషయేణ మనసా సర్వాణి కర్మాణి నవ-ద్వారే పురే సన్న్యస్య దేహీ స్వయṁ వశీ దేహాధిష్ఠాన-ప్రయత్నమ్ అకుర్వన్ దేహేనైవ కారయన్ సుఖమ్ ఆస్తే॥౫।౧౩॥
Link copiedసాక్షాద్ ఆత్మనః స్వాభావిక-రూపమ్ ఆహ---
Link copiedన కర్తృత్వṁ న కర్మాణి లోకస్య సృజతి ప్రభుః।
Link copiedన కర్మ-ఫల-సṁయోగṁ స్వభావస్ తు ప్రవర్తతే॥౧౪॥
Link copiedఅస్య దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మనా ప్రకృతి-సṁసర్గేణ వర్తమానస్య లోకస్య దేవాద్య్-అసాధారణṁ కర్తృత్వṁ తత్-తద్-అసాధారణాని కర్మాణి తత్ తత్ కర్మ-జన్య-దేవాది-ఫల-సṁయోగṁ చాయṁ ప్రభుర్ అకర్మ-వశ్యః స్వాభావిక-స్వరూపేణావస్థిత ఆత్మా న సృజతి, నోత్పాదయతి। కస్ తర్హి। స్వభావస్ తు ప్రవర్తతే, స్వభావః ప్రకృతి-వాసనా। అనాది-కాల-ప్రవృత్త-పూర్వ-పూర్వ-కర్మ-జనిత-దేవాద్య్-ఆకార-ప్రకృతి-సṁసర్గ-కృత-తత్-తద్-ఆత్మాభిమాన-జనిత-వాసనా-కృతమ్ ఈదృశṁ కర్తృత్వాదికṁ సర్వమ్, న స్వరూప-ప్రయుక్తమ్ ఇత్య్ అర్థః॥౫।౧౪॥
Link copiedనాదత్తే కస్య చిత్ పాపṁ న చైవ సుకృతṁ విభుః।
Link copiedఅజ్ఞానేనావృతṁ జ్ఞానṁ తేన ముహ్యన్తి జన్తవః॥౧౫॥
Link copiedకస్యచిత్ స్వ-సమ్బన్ధితయా అభిమతస్య పుత్రాదేః పాపṁ దుఃఖṁ నాదత్తే, నాపనుదతి, కస్యచిత్ ప్రతికూలతయాభిమతస్య సుకృతṁ సుఖṁ చ నాదత్తే నాపనుదతి। యతోఽయṁ విభుః, న క్వాచిత్కః, న దేవాది-దేహాద్య్-అసాధారణ-దేశః, అత ఏవ న కస్యచిత్ సమ్బన్ధీ, న కస్యచిత్ ప్రతికూలశ్ చ। సర్వమ్ ఇదṁ వాసనా-కృతమ్। ఏవṁ-స్వభావస్య కథమ్ ఇయṁ విపరీత-వాసనా ఉత్పద్యతే। అజ్ఞానేనావృతṁ జ్ఞానమ్, జ్ఞాన-విరోధినా పూర్వ-పూర్వ-కర్మణా స్వ-ఫలానుభవ-యోగ్యత్వాయాస్య జ్ఞానమ్ ఆవృతṁ సఙ్కుచితమ్। తేన జ్ఞానావరణ-రూపేణ కర్మణా దేవాది-దేహ-సṁయోగస్ తత్-తద్-ఆత్మాభిమాన-రూప-మోహశ్ చ జాయతే। తతశ్ చ తథావిధాత్మాభిమాన-వాసనా తద్-ఉచిత-కర్మ-వాసనా చ। వాసనాతో విపరీతాత్మాభిమానః కర్మారమ్భశ్ చోపపద్యతే॥౫।౧౫॥
Link copiedసర్వṁ జ్ఞాన-ప్లవేనైవ వృజినṁ సన్తరిష్యసి [గీతా ౪।౩౬] జ్ఞానాగ్నిః సర్వ-కర్మాణి భస్మ-సాత్ కురుతే తథా [గీతా ౪।౩౭] న హి జ్ఞానేన సదృశṁ పవిత్రమ్ [గీతా ౪।౩౮] ఇతి పూర్వోక్తṁ స్వ-కాలే సఙ్గమయతి---
Link copiedజ్ఞానేన తు తద్ అజ్ఞానṁ యేషాṁ నాశితమ్ ఆత్మనః।
Link copiedతేషామ్ ఆదిత్యవజ్ జ్ఞానṁ ప్రకాశయతి తత్పరమ్॥౧౬॥
Link copiedఏవṁ వర్తమానేషు సర్వాత్మసు యేషామ్ ఆత్మనామ్ ఉక్త-లక్షణేన ఆత్మ-యాథాత్మ్యోపదేశ-జనితేన ఆత్మ-విషయేణ అహరహర్ అభ్యాసాధేయాతిశయేన నిరతిశయ-పవిత్రేణ జ్ఞానేన తద్-అజ్ఞానావరణమ్ అనాది-కాల-ప్రవృత్తానన్త-కర్మ-సṁశయ-రూపాజ్ఞానṁ నాశితṁ తేషాṁ తత్ స్వాభావికṁ పరṁ జ్ఞానమ్ అపరిమితమ్ అసఙ్కుచితమ్ ఆదిత్యవత్ సర్వṁ యథావస్థితṁ ప్రకాశయతి। తేషామ్ ఇతి వినష్ట-జ్ఞానానాṁ బహుత్వాభిధానాద్ ఆత్మ-స్వరూప-బహుత్వమ్--- న త్వ్ ఏవాహṁ జాతు నాసṁ న త్వṁ నేమే [గీతా ౨।౧౨] ఇతి ఉపక్రమావగతమ్ అత్ర స్పష్టతరమ్ ఉక్తమ్।
Link copiedన చేదṁ బహుత్వమ్ ఉపాధికృతṁ వినష్ట-జ్ఞానానామ్ ఉపాధి-గన్ధాభావాత్। తేషామ్ ఆదిత్యవజ్ జ్ఞానమ్ ఇతి వ్యతిరేక-నిర్దేశాత్ జ్ఞానస్య స్వరూపానుబన్ధిత్వమ్ ఉక్తమ్ ఆదిత్య-దృష్టన్తేన చ జ్ఞాతృ-జ్ఞానయోః ప్రభా-ప్రభావతోర్ ఇవావస్థానṁ చ। తత ఏవ సṁసార-దశాయాṁ జ్ఞానస్య కర్మణా సఙ్కోచః మోక్ష-దశాయాṁ వికాసశ్ చోపపన్నః॥౫।౧౬॥
Link copiedతద్-బుద్ధయస్ తద్-ఆత్మానస్ తన్-నిష్ఠాస్ తత్-పరాయణాః।
Link copiedగచ్ఛన్త్య్ అపునర్-ఆవృత్తిṁ జ్ఞాన-నిర్ధూత-కల్మషాః॥౧౭॥
Link copiedతద్-బుద్ధయస్ తథా-విధాత్మ-దర్శనాధ్యవసాయాః, తద్-ఆత్మానస్ తద్-విషయ-మనసః, తన్-నిష్ఠాస్ తద్-అభ్యాస-నిరతాః, తత్-పరాయణాస్ తద్ ఏవ పరమ్ అయనṁ యేషాṁ తే। ఏవమ్ అభ్యస్యమానేన జ్ఞానేన నిర్ధూత-ప్రాచీన-కల్మషాస్ తథా-విధమ్ ఆత్మానమ్ అపునర్-ఆవృత్తిṁ గచ్ఛన్తి। యద్-అవస్థాద్ ఆత్మనః పునర్-ఆవృత్తిః న విద్యతే స ఆత్మా అపునర్-ఆవృత్తిః, స్వేన రూపేణావస్థితః। తమ్ ఆత్మానṁ గచ్ఛన్తీత్య్ అర్థః॥౫।౧౭॥
Link copiedవిద్యా-వినయ-సమ్పన్నే బ్రాహ్మణే గవి హస్తిని।
Link copiedశుని చైవ శ్వపాకే చ పణ్డితాః సమ-దర్శినః॥౧౮॥
Link copiedవిద్యా-వినయ-సమ్పన్నే బ్రాహ్మణో గో-హస్తి-శ్వపచాదిషు అత్యన్త-విషమాకారతయా ప్రతీయమానేషు చాత్మసు పణ్డితా ఆత్మ-యాథాత్మ్య-విదో జ్ఞానైకాకారతయా సర్వత్ర సమ-దర్శినః। విషమాకారస్ తు ప్రకృతేర్ నాత్మనః। ఆత్మా తు సర్వత్ర జ్ఞానైకాకారతయా సమ ఇతి పశ్యన్తీత్య్ అర్థః॥౫।౧౮॥
Link copiedఇహైవ తైర్ జితః సర్గో యేషాṁ సామ్యే స్థితṁ మనః।
Link copiedనిర్దోషṁ హి సమṁ బ్రహ్మ తస్మాద్ బ్రహ్మణి తే స్థితాః॥౧౯॥
Link copiedఇహైవ సాధనానుష్ఠాన-దశాయామ్ ఏవ తైః సర్గో జితః సṁసారో జితః। యేషామ్ ఉక్త-రీత్యా సర్వేష్వ్ ఆత్మసు సామ్యే స్థితṁ మనః। నిర్దోషṁ హి సమṁ బ్రహ్మ ప్రకృతి-సṁసర్గ-దోష-వియుక్తతయా సమమ్ ఆత్మ-వస్తు హి బ్రహ్మ। ఆత్మ-సామ్యే స్థితాశ్ చేద్ బ్రహ్మణి స్థితా ఏవ తే। బ్రహ్మణి స్థితిర్ ఏవ హి సṁసార-జయః। ఆత్మసు జ్ఞానైకాకారతయా సామ్యమ్ ఏవ అనుసన్దధానా ముక్తా ఏవ ఇత్య్ అర్థః॥౫।౧౯॥
Link copiedయేన ప్రకారేణావస్థితస్య కర్మ-యోగినః సమ-దర్శన-రూపో జ్ఞాన-విపాకో భవతి, తṁ ప్రకారమ్ ఉపదిశతి---
Link copiedన ప్రహృష్యేత్ ప్రియṁ ప్రాప్య నోద్విజేత్ ప్రాప్య చాప్రియమ్।
Link copiedస్థిర-బుద్ధిర్ అసṁమూఢో బ్రహ్మవిద్ బ్రహ్మణి స్థితః॥౨౦॥
Link copiedయాదృశ-దేహ-స్థస్య యద్-అవస్థస్య ప్రాచీన-కర్మ-వాసనయా యత్ ప్రియṁ యచ్ చాప్రియṁ తద్ ఉభయṁ ప్రాప్య హర్షోద్వేగౌ న కుర్యాత్। కథమ్। స్థిర-బుద్ధిః స్థిరే ఆత్మని బుద్ధిర్ యస్య స స్థిర-బుద్ధిః। అసṁమూఢః--- అస్థిరేణ శరీరేణ స్థిరమ్ ఆత్మానమ్ ఏకీకృత్య మోహః సṁమోహస్ తద్-రహితః। తత్ చ కథమ్। బ్రహ్మ-విద్ బ్రహ్మణి స్థితః। ఉపదేశేన బ్రహ్మ-విత్ సన్ తస్మిన్ బ్రహ్మణ్య్ అభ్యాస-యుక్తః। ఏతద్ ఉక్తṁ భవతి--- తత్త్వ-విదామ్ ఉపదేశేన ఆత్మ-యాథాత్మ్య-విద్ భూత్వా తత్రైవ యతమానో దేహాభిమానṁ పరిత్యజ్య స్థిర-రూపాత్మావలోకన-ప్రియానుభవే వ్యవస్థితోఽస్థిరే ప్రాకృత-ప్రియాప్రియే ప్రాప్య।హర్షోద్వేగౌ న కుర్యాద్ ఇతి॥౫।౨౦॥
Link copiedబాహ్య-స్పర్శేష్వ్ అసక్తాత్మా విన్దత్య్ ఆత్మని యత్ సుఖమ్।
Link copiedస బ్రహ్మ-యోగ-యుక్తాత్మా సుఖమ్ అక్షయమ్ అశ్నుతే॥౨౧॥
Link copiedఏవమ్ ఉక్తేన ప్రకారేణ బాహ్య-స్పర్శేష్వ్ ఆత్మ-వ్యతిరిక్త-విషయానుభావేష్వ్ అసక్త-మనా అన్తరాత్మన్య్ ఏవ యః సుఖṁ విన్దతి లభతే స ప్రకృత్య్-అభ్యాసṁ విహాయ బ్రహ్మ-యోగ-యుక్తాత్మా బ్రహ్మాభ్యాస-యుక్త-మనా బ్రహ్మానుభవ-రూపమ్ అక్షయṁ సుఖṁ ప్రాప్నోతి॥౫।౨౧॥
Link copiedప్రాకృతస్య భోగస్య సుత్యజతామ్ ఆహ---
Link copiedయే హి సṁస్పర్శజా భోగా దుఃఖ-యోనయ ఏవ తే।
Link copiedఆద్య్-అన్త-వన్తః కౌన్తేయ న తేషు రమతే బుధః॥౨౨॥
Link copiedవిషయేన్ద్రియ-స్పర్శజా యే భోగాః, దుఃఖ-యోనయస్ తే దుఃఖోదర్కా ఆద్య్-అన్త-వన్తోఽల్ప-కాల-వర్తినో హి ఉపలభ్యన్తే। న తేషు తద్-యాథాత్మ్య-విద్ రమతే॥౫।౨౨॥
Link copiedశక్నోతీహైవ యః సోఢుṁ ప్రాక్ శరీర-విమోక్షణాత్।
Link copiedకామ-క్రోధోద్భవṁ వేగṁ స యుక్తః స సుఖీ నరః॥౨౩॥
Link copiedశరీర-విమోక్షణాత్ ప్రాగ్ ఇహైవ సాధనానుష్ఠాన-దశాయామ్ ఏవ ఆత్మానుభవ-ప్రీత్యా కామ-క్రోధోద్భవṁ వేగṁ సోఢుṁ నిరోద్ధుṁ యః శక్నోతి స యుక్త ఆత్మానుభవాయార్హః। శరీర-మోక్షణోత్తర-కాలమ్ ఆత్మానుభవ-సుఖః సమ్పత్స్యతే॥౫।౨౩॥
Link copiedయోఽన్తః-సుఖోఽన్తరారామస్ తథాన్తర్-జ్యోతిర్ ఏవ యః।
Link copiedస యోగీ బ్రహ్మ-నిర్వాణṁ బ్రహ్మ-భూతోఽధిగచ్ఛతి॥౨౪॥
Link copiedయో బాహ్య-విషయానుభవṁ సర్వṁ విహాయ అన్తః-సుఖ ఆత్మానుభవైక-సుఖోఽన్తరారామ ఆత్మైకాధీనః స్వ-గుణైర్ ఆత్మైవ సుఖ-వర్ధకో యస్య స తథోక్తః, తథా అన్తర్-జ్యోతిర్ ఆత్మైక-జ్ఞానో యో వర్తతే, స బ్రహ్మ-భూతో యోగీ బ్రహ్మ-నిర్వాణమ్ ఆత్మానుభవ-సుఖṁ ప్రాప్నోతి॥౫।౨౪॥
Link copiedలభన్తే బ్రహ్మ-నిర్వాణమ్ ఋషయః క్షీణ-కల్మషాః।
Link copiedఛిన్న-ద్వైధా యతాత్మానః సర్వ-భూత-హితే రతాః॥౨౫॥
Link copiedఛిన-ద్వైధాః--- శీతోష్ణాది-ద్వన్ద్వైర్ విముక్తాః। యతాత్మాన--- ఆత్మన్య్ ఏవ నియమిత-మనసః। సర్వ-భూత-హితే రతాః--- ఆత్మవత్ సర్వేషాṁ భూతానాṁ హితేషు నిరతాః। ఋషయః--- ద్రష్టర ఆత్మావలోకన-పరా యే ఏవమ్భూతాస్ తే క్షీణాశేషాత్మ-ప్రాప్తి-విరోధి-కల్మషా బ్రహ్మ-నిర్వాణṁ లభన్తే॥౫।౨౫॥
Link copiedఉక్త-గుణానాṁ బ్రహ్మాత్యన్త-సులభమ్ ఇత్య్ ఆహ---
Link copiedకామ-క్రోధ-వియుక్తానాṁ యతీనాṁ యత-చేతసామ్।
Link copiedఅభితో బ్రహ్మ-నిర్వాణṁ వర్తతే విదితాత్మనామ్॥౨౬॥
Link copiedకామ-క్రోధ-వియుక్తానాṁ యతీనాṁ యతన-శీలానాṁ యత-చేతసాṁ నియమిత-మనసాṁ విజితాత్మనాṁ విజిత-మనసాṁ బ్రహ్మ-నిర్వాణమ్ అభితో వర్తతే। ఏవṁ-భూతానాṁ హస్త-స్థṁ బ్రహ్మ-నిర్వాణమ్ ఇత్య్ అర్థః॥౫।౨౬॥
Link copiedఉక్తṁ కర్మ-యోగṁ స్వ-లక్ష్య-భూత-యోగ-శిరస్కమ్ ఉపసṁహరతి---
Link copiedస్పర్శాన్ కృత్వా బహిర్ బాహ్యాṁశ్ చక్షుశ్ చైవాన్తరే భ్రువోః।
Link copiedప్రాణాపానౌ సమౌ కృత్వా నాసాభ్యన్తర-చారిణౌ॥౨౭॥
Link copiedయతేన్ద్రియ-మనో-బుద్ధిర్ మునిర్ మోక్ష-పరాయణః।
Link copiedవిగతేచ్ఛా-భయ-క్రోధో యః సదా ముక్త ఏవ సః॥౨౮॥
Link copiedబాహ్యాన్ విషయ-స్పర్శాన్ బహిః కృత్వా బాహ్యేన్ద్రియ-వ్యాపారṁ సర్వమ్ ఉపసṁహృత్య యోగ-యోగ్యాసనే ఋజు-కాయ ఉపవిశ్య చక్షుర్ భ్రువోర్ అన్తరే నాసాగ్రే విన్యస్య నాసాభ్యన్తర-చారిణౌ ప్రాణాపానౌ సమౌ కృత్వా ఉచ్ఛవాస-నిఃశ్వాసౌ సమ-గతీ కృత్వా ఆత్మావలోకనాద్ అన్యత్ర ప్రవృత్త్య్-అనర్హేన్ద్రియ-మనో-బుద్ధిస్ తత ఏవ విగతేచ్ఛా-భయ-క్రోధో మోక్ష-పరాయణో మోక్షైక-ప్రయోజనో మునిర్ ఆత్మావలోకన-శీలో యః సదా ముక్త ఏవ। సాధ్య-దశాయామ్ ఇవ సాధన-దశాయామ్ అపి ముక్త ఏవ స ఇత్య్ అర్థః॥౫।౨౭-౨౮॥
Link copiedఉక్తస్య నిత్య-నైమిత్తిక-కర్మేతి కర్తవ్యతాకస్య కర్మ-యోగస్య యోగ-శిరస్కస్య సుశకతామ్ ఆహ---
Link copiedభోక్తారṁ యజ్ఞ-తపసాṁ సర్వ-లోక-మహేశ్వరమ్।
Link copiedసుహృదṁ సర్వ-భూతానాṁ జ్ఞాత్వా మాṁ శాన్తిమ్ ఋచ్ఛతి॥౨౯॥
Link copiedయజ్ఞ-తపసాṁ భోక్తారṁ సర్వ-లోక-మహేశ్వరṁ సర్వ-భూతానాṁ సుహృదṁ మాṁ జ్ఞాత్వా శాన్తిమ్ ఋచ్ఛతి కర్మ-యోగ-కరణ ఏవ సుఖమ్ ఋచ్ఛతి। సర్వ-లోక-మహేశ్వరṁ సర్వేషాṁ లోకేశ్వరాణామ్ అపీశ్వరṁ తమ్ ఈశ్వరాణాṁ పరమṁ మహేశ్వరమ్ [శ్వే।ఉ। ౬।౭] ఇతి హి శ్రూయతే। మాṁ సర్వ-లోక-మహేశ్వరṁ సర్వ-సుహృదṁ జ్ఞాత్వా మద్-ఆరాధన-రూపః కర్మ-యోగ ఇతి సుఖేన తత్ర ప్రవర్తత ఇత్య్ అర్థః। సుహృదామ్ ఆరాధనాయ సర్వే ప్రవర్తన్తే॥౫।౨౯॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే పఞ్చమోఽధ్యాయః॥౫॥
Link copied**
Link copiedarjuna uvāca
Link copiedsannyāsaṁ karmaṇāṁ kṛṣṇa punar yogaṁ ca śaṁsasi|
Link copiedyac chreya etayor ekaṁ tan me brūhi suniścitam||1||
Link copiedkarmaṇāṁ sannyāsaṁ jñāna-yogaṁ punaḥ karma-yogaṁ ca śaṁsasi| etad uktaṁ bhavati dvitīye'dhyāye mumukṣoḥ prathamaṁ karma-yoga eva kāryaḥ, karma-yogena mṛditāntaḥ-karaṇa-kaṣāyasya jñāna-yogena ātma-darśanaṁ kāryam iti pratipādya, punas tṛtīya-caturthayoḥ jñāna-yogādhikāra-daśām āpannasyāpi karma-niṣṭhā eva jyāyasī| sā eva jñāna-niṣṭhā-nirapekṣā ātma-prāpty-eka-sādhanam iti karma-niṣṭhāṁ praśaṁsasīti| tatraitayor jñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve yad ekaṁ saukaryāt śaighryāc ca śreyaḥ śreṣṭham iti suniścitaṁ tan me brūhi||5.1||
Link copiedśrī-bhagavān uvāca---
Link copiedsannyāsaḥ karma-yogaś ca niḥśreyasa-karāv ubhau|
Link copiedtayos tu karma-sannyāsāt karma-yogo viśiṣyate||2||
Link copiedsannyāsaḥ jñāna-yogaḥ, karma-yogaś ca jñāna-yoga-śaktasyāpy ubhau nirapekṣau niḥśreyasa-karau| tayos tu karma-sannyāsād jñāna-yogāt karma-yoga eva viśiṣyate||5.2||
Link copiedkuta ity ata āha---
Link copiedjñeyaḥ sa nitya-sannyāsī yo na dveṣṭi na kāṅkṣati|
Link copiednirdvandvo hi mahā-bāho sukhaṁ bandhāt pramucyate||3||
Link copiedyaḥ karma-yogī tad-antar-gatātmānubhava-tṛptas tad-vyatiriktaṁ kim api na kāṅkṣati, tata eva kim api na dveṣṭi, tata eva dvandva-sahaś ca| sa nitya-sannyāsī nitya-jñāna-niṣṭha iti jñeyaḥ| sa hi sukara-karma-yoga-niṣṭhatayā sukhaṁ bandhāt pramucyate||5.3||
Link copiedjñāna-yoga-karma-yogayor ātma-prāpti-sādhana-bhāve'nyonya-nairapekṣyam āha---
Link copiedsāṅkhya-yogau pṛthag bālāḥ pravadanti na paṇḍitāḥ|
Link copiedekam apy āsthitaḥ samyag ubhayor vindate phalam||4||
Link copiedjñāna-yoga-karma-yogau phala-bhedāt pṛthag-bhūtau ye pravadanti te bālā aniṣpanna-jñānāḥ, na paṇḍitāḥ, na tu kṛtsna-vidaḥ| karma-yogo jñāna-yogam eva sādhayati| jñāna-yogas tv eka ātmāvalokanaṁ sādhayatīti tayoḥ phala-bhedena pṛthaktvaṁ vadanto na paṇḍitā ity arthaḥ| ubhayor ātmāvalokanaika-phalayor eka-phalatvena ekam apy āsthitas tad eva phalaṁ labhate||5.4||
Link copiedetad eva vivṛṇoti---
Link copiedyat sāṅkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate|
Link copiedekaṁ sāṅkhyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati||5||
Link copiedsāṅkhyair jñāna-niṣṭhair yad ātmāvalokana-rūpa-phalaṁ prāpyate, tad eva karma-yoga-niṣṭhair api prāpyate| evam eka-phalatvena evaṁ vaikalpikaṁ sāṅkhayaṁ yogaṁ ca yaḥ paśyati, sa paśyati, sa eva paṇḍita ity arthaḥ||5.5||
Link copiediyān viśeṣa ity āha---
Link copiedsannyāsas tu mahābāho duḥkham āptum ayogataḥ|
Link copiedyoga-yukto munir brahma nacireṇādhigacchati||6||
Link copiedsannyāso jñāna-yogas tv ayogataḥ karma-yogād ṛte prāptum aśakyaḥ| yoga-yuktaḥ karma-yoga-yuktaḥ svayam eva munir ātma-manana-śīlaḥ sukhena karma-yogaṁ sādhayitvā na cireṇa eva alpa-kālenaiva brahmādhigacchati, ātmānaṁ prāpnoti| jñāna-yoga-yuktas tu mahatā duḥkhena jñāna-yogaṁ sādhayati| duḥkha-sādhyatvād duḥkha-prāpyatvād ātmānaṁ cireṇa prāpnotīty arthaḥ||5.6||
Link copiedyoga-yukto viśuddhātmā vijitātmā jitendriyaḥ|
Link copiedsarva-bhūtātma-bhūtātmā kurvann api na lipyate||7||
Link copiedkarma-yoga-yuktas tu śāstrīye parama-puruṣārādhana-rūpe viśuddhe karmaṇi vartamānaḥ, tena viśuddha-manāḥ| vijitātmā svābhyaste karmaṇi vyāpṛta-manastvena sukhena vijita-manāḥ| tata evaṁ jitendriyaḥ| kartur ātmano yāthātmyānusandhāna-niṣṭhatayā sarva-bhūtātma-bhūtātmā| sarveṣāṁ devādi-bhūtānām ātma-bhūta ātmā yasyāsau sarva-bhūtātma-bhūtātmā| ātma-yāthātmyam anusandadhānasya hi devādīnāṁ svasya ca ekākāra ātmā| devādi-bhedānāṁ prakṛti-pariṇāma-viśeṣa-rūpatayātmākāratvāsambhavāt| prakṛti-viyuktaḥ sarvatra devādi-deheṣu jñānaikākāratayā samānākāra iti nirdoṣaṁ hi samaṁ brahma [gītā 5.19] iti anantaram eva vakṣyate| sa evambhūtaḥ karma kurvann apy anātmany ātmābhimānena na lipyate na sambadhyate| ato'cireṇa ātmānam āpnotīty arthaḥ||5.7||
Link copiedyataḥ saukaryāt śaighryāc ca karma-yoga eva śreyān, atas tad-apekṣitaṁ sṛṇu---
Link copiednaiva kiṁ cit karomīti yukto manyeta tattva-vit|
Link copiedpaśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan||8||
Link copiedpralapan visṛjan gṛhṇann unmiṣan nimiṣann api|
Link copiedindriyāṇīndriyārtheṣu vartanta iti dhārayan||9||
Link copiedevam ātma-tattva-vit śrotrādīni jñānendriyāṇi vāg-ādīni karmendriyāṇi| prāṇāś ca svasya viṣayeṣu vartanta iti dhārayan anusandadhāno nāhaṁ kiñcit karomīti manyeta| jñānaika-svabhāvasya mama karma-mūlendriya-prāṇa-sambandha-kṛtam īdṛśaṁ kartṛtvam, na svarūpa-prayuktam iti manyetety arthaḥ||5.8-9||
Link copiedbrahmaṇy ādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ|
Link copiedlipyate na sa pāpena padma-patram ivāmbhasā||10||
Link copiedbrahma-śabdena prakṛtir ihocyate, mama yonir mahad brahma [gītā 14.3] iti hi vakṣyate| indriyāṇāṁ prakṛti-pariṇāma-viśeṣa-rūpatvena indriyākāreṇa avasthitāyāṁ prakṛtau paśyan sṛṇvan [gītā 5.8] ity-ādinokta-prakāreṇa karma brahmaṇy ādhāya phala-saṅgaṁ tyaktvā naiva kiñcit karomi [gītā 5.8] iti yaḥ karmāṇi karoti| sa prakṛti-saṁsṛṣṭatayā vartamāno'pi prakṛty-ātmābhimāna-rūpeṇa sambandha-hetunā pāpena na lipyate| padma-patram ivāmbhasā, yathā padma-patram ambhasā saṁspṛṣṭam api na lipyate, tathā na lipyata ity arthaḥ||5.10||
Link copiedkāyena manasā buddhyā kevalair indriyair api|
Link copiedyoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śuddhaye||11||
Link copiedkāya-mano-buddhīndriya-sādhyaṁ karma svargādi-phala-saṅgaṁ tyaktvā yogina ātma-viśuddhaye kurvanti, ātma-gata-prācīna-karma-bandhana-vināśāya kurvantīty arthaḥ||5.11||
Link copiedyuktaḥ karma-phalaṁ tyaktvā śāntim āpnoti naiṣṭhikīm|
Link copiedayuktaḥ kāma-kāreṇa phale sakto nibadhyate||12||
Link copiedyukta ātma-vyatirikta-phaleṣv acapala ātmaika-pravaṇaḥ karma-phalaṁ tyaktvā kevalātma-śuddhaye karmānuṣṭhāya naiṣṭhikīṁ śāntim āpnoti| sthirām ātmānubhava-rūpāṁ nirvṛtim āpnoti| ayukta ātma-vyatirikta-phaleṣu capala ātmāvalokana-vimukhaḥ kāma-kāreṇa phale saktaḥ karmāṇi kurvan nityaṁ karmabhir badhyate nitya-saṁsārī bhavati| ataḥ phala-saṅga-rahita indriyākāreṇa pariṇatāyāṁ prakṛtau karmāṇi sannyasyātmano bandha-mocanāyaiva karmāṇi kurvītety uktaṁ bhavati||5.12||
Link copiedatha dehākāreṇa pariṇatāyāṁ prakṛtau kartṛtva-sannyāsa ucyate---
Link copiedsarva-karmāṇi manasā sannyasyāste sukhaṁ vaśī|
Link copiednava-dvāre pure dehī naiva kurvan na kārayan||13||
Link copiedātmanaḥ prācīna-karma-mūla-deha-sambandha-prayuktam idaṁ karmaṇāṁ kartṛtvaṁ na svarūpa-prayuktam iti viveka-viṣayeṇa manasā sarvāṇi karmāṇi nava-dvāre pure sannyasya dehī svayaṁ vaśī dehādhiṣṭhāna-prayatnam akurvan dehenaiva kārayan sukham āste||5.13||
Link copiedsākṣād ātmanaḥ svābhāvika-rūpam āha---
Link copiedna kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ|
Link copiedna karma-phala-saṁyogaṁ svabhāvas tu pravartate||14||
Link copiedasya deva-tiryaṅ-manuṣya-sthāvarātmanā prakṛti-saṁsargeṇa vartamānasya lokasya devādy-asādhāraṇaṁ kartṛtvaṁ tat-tad-asādhāraṇāni karmāṇi tat tat karma-janya-devādi-phala-saṁyogaṁ cāyaṁ prabhur akarma-vaśyaḥ svābhāvika-svarūpeṇāvasthita ātmā na sṛjati, notpādayati| kas tarhi| svabhāvas tu pravartate, svabhāvaḥ prakṛti-vāsanā| anādi-kāla-pravṛtta-pūrva-pūrva-karma-janita-devādy-ākāra-prakṛti-saṁsarga-kṛta-tat-tad-ātmābhimāna-janita-vāsanā-kṛtam īdṛśaṁ kartṛtvādikaṁ sarvam, na svarūpa-prayuktam ity arthaḥ||5.14||
Link copiednādatte kasya cit pāpaṁ na caiva sukṛtaṁ vibhuḥ|
Link copiedajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ||15||
Link copiedkasyacit sva-sambandhitayā abhimatasya putrādeḥ pāpaṁ duḥkhaṁ nādatte, nāpanudati, kasyacit pratikūlatayābhimatasya sukṛtaṁ sukhaṁ ca nādatte nāpanudati| yato'yaṁ vibhuḥ, na kvācitkaḥ, na devādi-dehādy-asādhāraṇa-deśaḥ, ata eva na kasyacit sambandhī, na kasyacit pratikūlaś ca| sarvam idaṁ vāsanā-kṛtam| evaṁ-svabhāvasya katham iyaṁ viparīta-vāsanā utpadyate| ajñānenāvṛtaṁ jñānam, jñāna-virodhinā pūrva-pūrva-karmaṇā sva-phalānubhava-yogyatvāyāsya jñānam āvṛtaṁ saṅkucitam| tena jñānāvaraṇa-rūpeṇa karmaṇā devādi-deha-saṁyogas tat-tad-ātmābhimāna-rūpa-mohaś ca jāyate| tataś ca tathāvidhātmābhimāna-vāsanā tad-ucita-karma-vāsanā ca| vāsanāto viparītātmābhimānaḥ karmārambhaś copapadyate||5.15||
Link copiedsarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi [gītā 4.36] jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā [gītā 4.37] na hi jñānena sadṛśaṁ pavitram [gītā 4.38] iti pūrvoktaṁ sva-kāle saṅgamayati---
Link copiedjñānena tu tad ajñānaṁ yeṣāṁ nāśitam ātmanaḥ|
Link copiedteṣām ādityavaj jñānaṁ prakāśayati tatparam||16||
Link copiedevaṁ vartamāneṣu sarvātmasu yeṣām ātmanām ukta-lakṣaṇena ātma-yāthātmyopadeśa-janitena ātma-viṣayeṇa aharahar abhyāsādheyātiśayena niratiśaya-pavitreṇa jñānena tad-ajñānāvaraṇam anādi-kāla-pravṛttānanta-karma-saṁśaya-rūpājñānaṁ nāśitaṁ teṣāṁ tat svābhāvikaṁ paraṁ jñānam aparimitam asaṅkucitam ādityavat sarvaṁ yathāvasthitaṁ prakāśayati| teṣām iti vinaṣṭa-jñānānāṁ bahutvābhidhānād ātma-svarūpa-bahutvam--- na tv evāhaṁ jātu nāsaṁ na tvaṁ neme [gītā 2.12] iti upakramāvagatam atra spaṣṭataram uktam|
Link copiedna cedaṁ bahutvam upādhikṛtaṁ vinaṣṭa-jñānānām upādhi-gandhābhāvāt| teṣām ādityavaj jñānam iti vyatireka-nirdeśāt jñānasya svarūpānubandhitvam uktam āditya-dṛṣṭantena ca jñātṛ-jñānayoḥ prabhā-prabhāvator ivāvasthānaṁ ca| tata eva saṁsāra-daśāyāṁ jñānasya karmaṇā saṅkocaḥ mokṣa-daśāyāṁ vikāsaś copapannaḥ||5.16||
Link copiedtad-buddhayas tad-ātmānas tan-niṣṭhās tat-parāyaṇāḥ|
Link copiedgacchanty apunar-āvṛttiṁ jñāna-nirdhūta-kalmaṣāḥ||17||
Link copiedtad-buddhayas tathā-vidhātma-darśanādhyavasāyāḥ, tad-ātmānas tad-viṣaya-manasaḥ, tan-niṣṭhās tad-abhyāsa-niratāḥ, tat-parāyaṇās tad eva param ayanaṁ yeṣāṁ te| evam abhyasyamānena jñānena nirdhūta-prācīna-kalmaṣās tathā-vidham ātmānam apunar-āvṛttiṁ gacchanti| yad-avasthād ātmanaḥ punar-āvṛttiḥ na vidyate sa ātmā apunar-āvṛttiḥ, svena rūpeṇāvasthitaḥ| tam ātmānaṁ gacchantīty arthaḥ||5.17||
Link copiedvidyā-vinaya-sampanne brāhmaṇe gavi hastini|
Link copiedśuni caiva śvapāke ca paṇḍitāḥ sama-darśinaḥ||18||
Link copiedvidyā-vinaya-sampanne brāhmaṇo go-hasti-śvapacādiṣu atyanta-viṣamākāratayā pratīyamāneṣu cātmasu paṇḍitā ātma-yāthātmya-vido jñānaikākāratayā sarvatra sama-darśinaḥ| viṣamākāras tu prakṛter nātmanaḥ| ātmā tu sarvatra jñānaikākāratayā sama iti paśyantīty arthaḥ||5.18||
Link copiedihaiva tair jitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ|
Link copiednirdoṣaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ||19||
Link copiedihaiva sādhanānuṣṭhāna-daśāyām eva taiḥ sargo jitaḥ saṁsāro jitaḥ| yeṣām ukta-rītyā sarveṣv ātmasu sāmye sthitaṁ manaḥ| nirdoṣaṁ hi samaṁ brahma prakṛti-saṁsarga-doṣa-viyuktatayā samam ātma-vastu hi brahma| ātma-sāmye sthitāś ced brahmaṇi sthitā eva te| brahmaṇi sthitir eva hi saṁsāra-jayaḥ| ātmasu jñānaikākāratayā sāmyam eva anusandadhānā muktā eva ity arthaḥ||5.19||
Link copiedyena prakāreṇāvasthitasya karma-yoginaḥ sama-darśana-rūpo jñāna-vipāko bhavati, taṁ prakāram upadiśati---
Link copiedna prahṛṣyet priyaṁ prāpya nodvijet prāpya cāpriyam|
Link copiedsthira-buddhir asaṁmūḍho brahmavid brahmaṇi sthitaḥ||20||
Link copiedyādṛśa-deha-sthasya yad-avasthasya prācīna-karma-vāsanayā yat priyaṁ yac cāpriyaṁ tad ubhayaṁ prāpya harṣodvegau na kuryāt| katham| sthira-buddhiḥ sthire ātmani buddhir yasya sa sthira-buddhiḥ| asaṁmūḍhaḥ--- asthireṇa śarīreṇa sthiram ātmānam ekīkṛtya mohaḥ saṁmohas tad-rahitaḥ| tat ca katham| brahma-vid brahmaṇi sthitaḥ| upadeśena brahma-vit san tasmin brahmaṇy abhyāsa-yuktaḥ| etad uktaṁ bhavati--- tattva-vidām upadeśena ātma-yāthātmya-vid bhūtvā tatraiva yatamāno dehābhimānaṁ parityajya sthira-rūpātmāvalokana-priyānubhave vyavasthito'sthire prākṛta-priyāpriye prāpya.harṣodvegau na kuryād iti||5.20||
Link copiedbāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham|
Link copiedsa brahma-yoga-yuktātmā sukham akṣayam aśnute||21||
Link copiedevam uktena prakāreṇa bāhya-sparśeṣv ātma-vyatirikta-viṣayānubhāveṣv asakta-manā antarātmany eva yaḥ sukhaṁ vindati labhate sa prakṛty-abhyāsaṁ vihāya brahma-yoga-yuktātmā brahmābhyāsa-yukta-manā brahmānubhava-rūpam akṣayaṁ sukhaṁ prāpnoti||5.21||
Link copiedprākṛtasya bhogasya sutyajatām āha---
Link copiedye hi saṁsparśajā bhogā duḥkha-yonaya eva te|
Link copiedādy-anta-vantaḥ kaunteya na teṣu ramate budhaḥ||22||
Link copiedviṣayendriya-sparśajā ye bhogāḥ, duḥkha-yonayas te duḥkhodarkā ādy-anta-vanto'lpa-kāla-vartino hi upalabhyante| na teṣu tad-yāthātmya-vid ramate||5.22||
Link copiedśaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt|
Link copiedkāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ||23||
Link copiedśarīra-vimokṣaṇāt prāg ihaiva sādhanānuṣṭhāna-daśāyām eva ātmānubhava-prītyā kāma-krodhodbhavaṁ vegaṁ soḍhuṁ niroddhuṁ yaḥ śaknoti sa yukta ātmānubhavāyārhaḥ| śarīra-mokṣaṇottara-kālam ātmānubhava-sukhaḥ sampatsyate||5.23||
Link copiedyo'ntaḥ-sukho'ntarārāmas tathāntar-jyotir eva yaḥ|
Link copiedsa yogī brahma-nirvāṇaṁ brahma-bhūto'dhigacchati||24||
Link copiedyo bāhya-viṣayānubhavaṁ sarvaṁ vihāya antaḥ-sukha ātmānubhavaika-sukho'ntarārāma ātmaikādhīnaḥ sva-guṇair ātmaiva sukha-vardhako yasya sa tathoktaḥ, tathā antar-jyotir ātmaika-jñāno yo vartate, sa brahma-bhūto yogī brahma-nirvāṇam ātmānubhava-sukhaṁ prāpnoti||5.24||
Link copiedlabhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ|
Link copiedchinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ||25||
Link copiedchina-dvaidhāḥ--- śītoṣṇādi-dvandvair vimuktāḥ| yatātmāna--- ātmany eva niyamita-manasaḥ| sarva-bhūta-hite ratāḥ--- ātmavat sarveṣāṁ bhūtānāṁ hiteṣu niratāḥ| ṛṣayaḥ--- draṣṭara ātmāvalokana-parā ye evambhūtās te kṣīṇāśeṣātma-prāpti-virodhi-kalmaṣā brahma-nirvāṇaṁ labhante||5.25||
Link copiedukta-guṇānāṁ brahmātyanta-sulabham ity āha---
Link copiedkāma-krodha-viyuktānāṁ yatīnāṁ yata-cetasām|
Link copiedabhito brahma-nirvāṇaṁ vartate viditātmanām||26||
Link copiedkāma-krodha-viyuktānāṁ yatīnāṁ yatana-śīlānāṁ yata-cetasāṁ niyamita-manasāṁ vijitātmanāṁ vijita-manasāṁ brahma-nirvāṇam abhito vartate| evaṁ-bhūtānāṁ hasta-sthaṁ brahma-nirvāṇam ity arthaḥ||5.26||
Link copieduktaṁ karma-yogaṁ sva-lakṣya-bhūta-yoga-śiraskam upasaṁharati---
Link copiedsparśān kṛtvā bahir bāhyāṁś cakṣuś caivāntare bhruvoḥ|
Link copiedprāṇāpānau samau kṛtvā nāsābhyantara-cāriṇau||27||
Link copiedyatendriya-mano-buddhir munir mokṣa-parāyaṇaḥ|
Link copiedvigatecchā-bhaya-krodho yaḥ sadā mukta eva saḥ||28||
Link copiedbāhyān viṣaya-sparśān bahiḥ kṛtvā bāhyendriya-vyāpāraṁ sarvam upasaṁhṛtya yoga-yogyāsane ṛju-kāya upaviśya cakṣur bhruvor antare nāsāgre vinyasya nāsābhyantara-cāriṇau prāṇāpānau samau kṛtvā ucchavāsa-niḥśvāsau sama-gatī kṛtvā ātmāvalokanād anyatra pravṛtty-anarhendriya-mano-buddhis tata eva vigatecchā-bhaya-krodho mokṣa-parāyaṇo mokṣaika-prayojano munir ātmāvalokana-śīlo yaḥ sadā mukta eva| sādhya-daśāyām iva sādhana-daśāyām api mukta eva sa ity arthaḥ||5.27-28||
Link copieduktasya nitya-naimittika-karmeti kartavyatākasya karma-yogasya yoga-śiraskasya suśakatām āha---
Link copiedbhoktāraṁ yajña-tapasāṁ sarva-loka-maheśvaram|
Link copiedsuhṛdaṁ sarva-bhūtānāṁ jñātvā māṁ śāntim ṛcchati||29||
Link copiedyajña-tapasāṁ bhoktāraṁ sarva-loka-maheśvaraṁ sarva-bhūtānāṁ suhṛdaṁ māṁ jñātvā śāntim ṛcchati karma-yoga-karaṇa eva sukham ṛcchati| sarva-loka-maheśvaraṁ sarveṣāṁ lokeśvarāṇām apīśvaraṁ tam īśvarāṇāṁ paramaṁ maheśvaram [śve.u. 6.7] iti hi śrūyate| māṁ sarva-loka-maheśvaraṁ sarva-suhṛdaṁ jñātvā mad-ārādhana-rūpaḥ karma-yoga iti sukhena tatra pravartata ity arthaḥ| suhṛdām ārādhanāya sarve pravartante||5.29||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye pañcamo'dhyāyaḥ||5||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 5 — The Yoga of Renouncing Action (in Sanskrit: Karma-sannyāsa-yoga)
The Fifth Lecture returns to Sri Arjuna's puzzlement about the relation of jñāna-yoga and karma-yoga, this time comparing them for expediency. Sri Krishna's verdict, which Ramanuja underscores throughout, is that karma-yoga is the better of the two — not merely because it is easier and safer, but because it includes within itself the wisdom of the jñāna-path, leading more directly to ātman-realisation and brahma-bliss. Yamunacharya summarises: "To show that mode of works that brings soon the fruit, Book Five begins, and then dwells on the Brahma-ken."
Link copiedVerses 1–6 (The two paths compared)
Verse 5.1. Sri Arjuna asks: "On renunciation of work, Krishna, and again on doing of works (yoga), Thou dost descant. Which of the two is better? Tell me conclusively."
Link copiedSri Arjuna is puzzled. In Lecture Two the Lord taught that karma-yoga purifies the heart, after which one embarks on jñāna-yoga. But in Lectures Three and Four He maintained that karma-yoga is preferable even for the jñāna-qualified and sufficient by itself as a means to ātman-realisation. Which is the superior, readier, easier means?
Link copiedVerse 5.2. Sri Bhagavan replies: "Renunciation (sannyāsa) and karma-yoga both conduct to bliss. But of these two, karma-yoga is declared better than renunciation of works."
Link copiedSannyāsa here is cessation from work, jñāna-yoga. Both paths, independently, achieve liberation. But karma-yoga is superior.
Link copiedVerse 5.3. "He is to be known as the perpetual sannyāsī who neither hates nor craves. Above the pairs, O Mighty-armed, he easily escapes bondage."
Link copiedThe karma-yogī who has experienced ātman-bliss in the practice of karma-yoga no longer desires anything else than ātman. He has no occasion for hatred; he endures the pairs of opposites easily; such a person is to be known as the constant sannyāsī — the constant practiser of jñāna.
Link copiedVerse 5.4–5. "'Sankhya and yoga are different,' say children, not the wise. Whoso is well established in one reaps the fruits of both. The place gained by the Sankhyas is gained also by the yogis. He sees who sees that Sankhya and yoga are one."
Link copiedThose who say that karma-yoga can only lead to jñāna-yoga, and that jñāna-yoga alone leads to ātman-vision — as though they had different fruits — are spiritually immature. The aim of both paths is one: ātman-vision. Both paths achieve it so long as one is firmly adopted.
Link copiedVerse 5.6. "But sannyāsa without karma-yoga is difficult to achieve, O Mighty-armed. The karma-yoga-united muni soon attains Brahman."
Link copiedJñāna-yoga without the aid of karma-yoga is difficult; karma-yoga, for him who constantly ruminates on the ātman (muni), is swift and safe. Jñāna-yoga takes long, on account of its difficulty, to attain ātman.
Link copiedVerses 7–12 (The karma-yogī as non-actor)
Verse 5.7. "The karma-yoga-united, pure-minded, who has controlled mind and senses, who looks on the ātmans of all beings as his own ātman, is not tainted though he works."
Link copiedPurity of mind, control of senses, and the vision of equality of all ātmans — these are the marks. For the meditator on ātman, bodies vary but the indwelling ātmans are alike, one and all, in their essential nature as conscious entities, when viewed apart from the non-conscious bodies that veil them. Gita declares this later: "Faultless is Brahman, and equal" (V.19).
Link copiedVerse 5.8–9. "Knowing that the senses abide in their appropriate objects, the truth-seer, the yuktah, shall reflect: 'Naught do I do,' though he be seeing or hearing, touching or smelling, eating or walking, sleeping or breathing, talking, answering the calls of nature, or grasping, opening the eyes or closing them."
Link copiedThe ātman-knower reflects: the senses of perception, the senses of action, and the prāṇas function within their corresponding objects, but I do not virtually do any of those actions. The conscious entity is the ātman; doership comes to it from its union with the senses and prāṇas forced by past deeds; it is not an essential attribute of ātman-nature.
Link copiedVerse 5.10. "Whoso performs acts, ascribing them to matter (brahma), and abandoning all attachment, is not touched by sin, like the lotus-leaf unwetted by water."
Link copiedRamanuja interprets brahma here as prakṛti (matter), citing "My womb is the great brahma" (XIV.3). Thinking that all activities belong to matter and matter's modifications into organised forms of senses, the yogi imputes work to matter and, renouncing attachment, thinks "naught do I do." So he remains untouched by the sin arising from the misconception of taking matter for ātman.
Link copiedVerse 5.11. "Unattached — for the sake of self-purification — the yogis act, by body, by manas, by buddhi, even by the mere senses."
Link copiedSelf-purification (ātma-śuddhi) is the breaking of the bonds of past deeds binding ātman. Work is done to gain this release, not to secure any fruit such as Svarga.
Link copiedVerse 5.12. "The yuktah, forsaking actions' fruit, attains everlasting rest. The ayuktah, prompted by lust, clings to fruit thereof, and remains bound."
Link copiedVerses 13–16 (The nine-gated city; Nature's agency; ignorance veils wisdom)
Verse 5.13. "Neither doing anything nor causing any act, the embodied mentally consigns all acts to the nine-gated city (body), and sits there the happy victor."
Link copiedDistinguishing that all authorship of work rests in the body — with which ātman is conjoined as a result of past deeds — and that authorship is not essential to ātman, the embodied ātman assigns all acts to the body. Himself independent (vaśī), he remains happy, not doing aught as a consequence of his residence in the body.
Link copiedVerse 5.14. "Neither actorship nor act does the Lord of the body create for the world; nor even the bond between act and its fruit. It is Nature (svabhāva) that prevails."
Link copiedThe prabhu is ātman, ruler of the body. By essence he is above karma's influences. He does not originate, in the four-fold world of deva, animal, human, and immovable beings, either the authorships, the actions, or the act-fruit links. What does all this? It is Nature — the material vāsanā, the reminiscence or instinct. Authorship springs from union with matter fashioned by the chain of deeds from immemorial time.
Link copiedVerse 5.15. "The Lord (vibhu) takes not away one's sin or merit. It is by ignorance that wisdom is wrapped; creatures are thereby deluded."
Link copiedĀtman cannot snatch away misery from a beloved son, nor steal merit from one who is hated. Such notions — friends, foes — are caused by vāsanā. And vāsanā comes from ajñāna, which veils wisdom. By retrospective karma, intelligence is contracted; bodies as deva and the rest are forged; from love for bodies arises infatuation; infatuation persisting becomes the vāsanā that seeds further material existence.
Link copiedVerse 5.16. "But for the ātmans whose ignorance is destroyed by knowledge, their extraordinary intelligence illumines all like the Sun."
Link copiedFor those whose endless accumulated karma is dispersed by the ātman-related knowledge derived from teachings, that which increases by daily culture, the innate transcendental consciousness — hitherto cooped and confined — becomes all-shining. Like the Sun, limitless and expanded, it reveals all things in their exact nature.
Link copiedRamanuja pauses here on a crucial point. The verse uses teṣām ("for them") and ātmānām ("of many ātmans"). This declares most clearly the plurality of ātmans, already enunciated in II.12. This plurality is not attributable to upādhi (limiting condition), for no trace of upādhi can exist in the case of those whose ignorance is dispelled. Further, the phrase "their knowledge" — genitive possessor with attributive possessed — shows that jñāna is an attribute possessed by a possessor; the possessors are the ātmans, and the possessed is intelligence. Intelligence has an attributive existence in relation to its substantial possessor. In saṁsāra, intelligence is contracted by karma; in mokṣa, it is unlimitedly diffused.
Link copiedVerses 17–21 (The four marks of the wise, and equal vision)
Verse 5.17. "Meditating on That (ātman), engrossed in That, pursuing That, aiming That, they go, wisdom-effaced of taint, to the non-reverting That."
Link copiedRamanuja glosses the four compounds:
Link copied- tad-buddhayaḥ — having all the understanding employed on That, meaning meditating for ātman-vision;
- tad-ātmānaḥ — having all the mind centred on That, making ātman the sole subject of loving reflection (mind involves emotion; here is engrossment);
- tan-niṣṭhāḥ — earnestly practising all that takes them to the end;
- tat-parāyaṇāḥ — whose sole noble aim is ātman alone.
They reach ātman, whence once awake there is no falling back.
Link copiedVerse 5.18. "The wise regard equally the brāhmaṇa of learning and conduct, the cow, the elephant, the dog, and even the outcaste."
Link copiedEqual-regarding consists in seeing all ātmans abiding in these varied bodies as equal by their essential jñāna — the common property. Variety is due to prakṛti, not to ātman. Bodies differ; the ātmans within are one like another by their inherent consciousness.
Link copiedVerse 5.19. "By them whose mind is fixed in equality, saṁsāra is overcome even here. Verily Brahman (ātman) is stainless and equal. Hence are they fixed in Brahman."
Link copiedĀtman is indeed equal-natured when divested of matter's stain. To be fixed in ātman-equality is to be fixed in Brahman itself. Fixture in Brahman is victory over saṁsāra. Those who can reflect on the equality of all ātmans are indeed muktas, liberated beings.
Link copiedVerse 5.20. "He shall not exult, attaining the agreeable; nor grieve, encountering the disagreeable. The steady-willed, undeluded, Brahma-knower remains in Brahman itself."
Link copiedFrom the teaching of truth-seers one learns the exact nature of ātman (brahma-vit); one then practises it, planting the will in the stable ātman, free from the delusion that confuses stable ātman with unstable body; one abjures the ātman-love placed in the body; one employs oneself in blissful contemplation of eternal ātman-intercourse; and then the pairs cannot shake one.
Link copiedVerse 5.21. "With mind unattached to external contacts, whoso feels delight in ātman itself, joins himself in mind to brahma-yoga, and tastes eternal bliss."
Link copiedVerses 22–26 (The extinction of passion; brahma-nirvāṇa)
Verse 5.22. "As contact-derived delights are wombs of grief, with beginnings and endings, no sage, Kaunteya, delights in them."
Link copiedSense-contacts produce pain; their joys are transient; the sage who knows this does not delight in them.
Link copiedVerse 5.23. "He is yukta and happy, who, even here, before deliverance from body, is able to resist the violence born of lust and anger."
Link copiedEven during the practice of yoga while yet in body, the one who, from the grateful experiences of ātman he has already had, is able to oppose the on-rush of desire and passion — he is fit for yoga, and finds his bliss in ātman after departing from the body.
Link copiedVerse 5.24. "Who finds joy within, enjoyment within, light within — the Brahma-like yogi attains brahma-nirvāṇa."
Link copiedAntaḥ-sukha is one who feels desire for the happy ātman-experience. Antar-ārāma is one whose ātman is his pleasure-garden. When his sole illumination is the wisdom concerning ātman, he is Brahma-like and attains brahma-bliss — bliss from ātman-enjoyment.
Link copiedVerse 5.25. "Those seers who have cut the pairs asunder, who have set their minds on ātman, who delight in the well-being of all beings — assoiled of taints — obtain brahma-nirvāṇa."
Link copiedThe ṛṣis are the intent seers of ātman, those who ever wish for all other creatures the happiness they would have for themselves.
Link copiedVerse 5.26. "Brahma-nirvāṇa is everywhere for those weaned from lust and wrath, who are perseverers (yatayaḥ), who have restrained and mastered the mind."
Link copiedVerses 27–29 (Meditation and the Lord as Friend)
Verse 5.27–28. "Shutting out all outward contacts, fixing the eyes between the brows, equalising the nasal currents prāṇa and apāna; governing the senses, manas, and buddhi; exempt from desire, dread, and anger — the muni, the sole mokṣa-desirer, is verily ever the liberated."
Link copiedThis meditation practice is briefly sketched here and amplified in Lecture Six. In an erect posture, shutting out sense-contacts, fixing the gaze on the tip of the nose between the brows, equalising the breaths, the yogi renders the senses, manas, and buddhi incapable of moving out to any subject save ātman. Such a one is considered liberated even during the journey itself on the path of spirituality.
Link copiedVerse 5.29. "Knowing Me to be the Acceptor of yajñas and tapases, the Great Lord of the Cosmos, the Friend of all beings, one goes to Peace."
Link copiedThis crowning verse teaches the easiest mode of karma-yoga. If the whole sum of prescribed duties is performed as acts of worship to the Lord, that way of doing karma-yoga is the easiest. As worshipful service to Him it becomes easy; and who would not gladly render such service when it is to the Universal Friend?
Link copiedThus closes Lecture Five, Karma-sannyāsa-yoga, the Yoga of Renouncing Works (in mind), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.
Link copied