Skip to content

Bhagavad Gita Bhashya · Section 5 of 19

atha jñāna-karma-sannyāsa-yogo nāma caturtho'dhyāyaḥ

Sanskrit (IAST) · click to toggle

तृतीयेऽध्याये प्रकृति-सꣳसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगेऽनधिकारात् कर्म-योग एव कार्यः। ज्ञान-योगाधिकारिणोऽप्य् अकर्तृत्वानुसन्धान-पूर्वकꣳ कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम्। इव्शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति चोक्तम्। चतुर्थेनेदानीम् अस्यैव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यताꣳ द्रढयित्वा अन्तर्गत-ज्ञानतत्याऽस्यैव ज्ञान-योगाकारताꣳ प्रदर्श्य, कर्म-योग-स्वरूपꣳ तद्-भेदाः कर्म-योगे ज्ञानाꣳशस्यैव प्राधान्यꣳ चोच्यते। प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते---

Link copied

श्री-भगवान् उवाच

Link copied

इमꣳ विवस्वते योगꣳ प्रोक्तवान् अहम् अव्ययम्

Link copied

विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत्

Link copied

एवꣳ परम्परा-प्राप्तम् इमꣳ राजर्षयो विदुः

Link copied

स कालेनेह महता योगो नष्टः परन्तप

Link copied

योऽयꣳ तवोदितो योगः स केवलꣳ युद्ध-प्रोत्साहनायेदानीम् उदित इति न मन्तव्यम्। मन्वन्तरादाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया इमꣳ योगम् अहम् एव विवस्वते प्रोक्तवान्। विवस्वान् च मनवे मनुर् इक्ष्वाकव इत्य् एवꣳ सम्प्रदाय-परम्परया प्राप्तम् इमꣳ योगꣳ पूर्वे राजर्षायो विदुः। स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायोऽभूत्॥४।१-२॥

Link copied

स एवायꣳ मया तेऽद्य योगः प्रोक्तः पुरातनः

Link copied

भक्तोऽसि मे सखा चेति रहस्यꣳ ह्य् एतद् उत्तमम्

Link copied

स एवायम् अस्खलित-स्वरूपः पुरातनः योगः सख्येनातिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः। स-परिकरः स-विस्तरम् उक्त इत्य् अर्थः। मद्-अन्येन केनापि ज्ञातुꣳ वक्तुꣳ वा न शक्यम्, यत इदꣳ वेदान्तोदितम् उत्तमꣳ रहस्यꣳ ज्ञानम्॥४।३॥

Link copied

अस्मिन् प्रसङ्गे भगवद्-अवतार-याथात्म्यꣳ यथावद् ज्ञातुम् अर्जुन उवाच---

Link copied

अपरꣳ भवतो जन्म परꣳ जन्म विवस्वतः

Link copied

कथम् एतद् विजानीयाꣳ त्वम् आदौ प्रोक्तवान् इति

Link copied

काल-सङ्ख्यया अपरम् अस्मज्-जन्म-सम-कालꣳ हि भवतो जन्म। विवस्वतश् च काल-सङ्ख्यया परम् अष्ट-विꣳशति-चतुर्युग-सङ्ख्या-सङ्ख्यातम्। त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयꣳ विशेषेण यथार्थꣳ जानीयाम्।

Link copied

ननु जन्मान्तरेणापि वक्तुꣳ शक्यम्। जन्मान्तर-कृतस्य महताꣳ स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः। न चासौ वक्तारम् एनꣳ वसुदेव-तनयꣳ सर्वेश्वरꣳ न जानाति। यत एवꣳ वक्ष्यति---

Link copied

परꣳ ब्रह्म परꣳ धाम पवित्रꣳ परमꣳ भवान्।

Link copied

पुरुषꣳ शाश्वतꣳ दिव्यम् आदि-देवम् अजꣳ विभुम्॥

Link copied

आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा।

Link copied

असितो देवलो व्यासः स्वयꣳ चैव ब्रवीषि मे॥ [गीता १०।१२-१३] इति।

Link copied

युधिष्ठिर-राजसूयादिषु भीष्मादिभ्यश् चासकृत् श्रुतम्---

Link copied

कृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्य् अयः।

Link copied

कृष्णस्य हि कृते भूतम् इदꣳ विश्वꣳ चराचरम्॥ [म।भा। २।३८।२३]

Link copied

इत्य् एवम् आदिषु। कृष्णस्य हि कृते इति कृष्णस्य शेष-भूतम् इदꣳ कृत्स्नꣳ जगद् इत्य् अर्थः।

Link copied

अत्रोच्यते--- जानात्य् एवायꣳ भगवन्तꣳ वसुदेव-तनयꣳ पार्थः। जानतोऽप्य् अजानत इव पृच्छतोऽयम् आशयः--- निखिल-हेय-प्रत्यनीक-कल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्य-सङ्कल्पस्य चावाप्त-समस्त-कामस्य कर्म-परवश-देव-मनुष्यादि-सजातीयꣳ जन्म किम् इन्द्रजालादिवन् मिथ्या उत सत्यम्। सत्यत्वे च कथꣳ जन्म-प्रकारः। किम्-आत्मकोऽयꣳ देहः। कश् च जन्म-हेतुः। कदा च जन्म। किम्-अर्थꣳ वा जन्म। इति परिहार-प्रकारेण प्रश्नार्थो विज्ञायते॥४।४॥

Link copied

परिहरन् श्री-भगवान् उवाच---

Link copied

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन

Link copied

तान्य् अहꣳ वेद सर्वाणि न त्वꣳ वेत्थ परन्तप

Link copied

अनेन जन्मनः सत्यत्वम् उक्तꣳ बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टन्ततया उपादानाच् च॥४।५॥

Link copied

आत्मनोऽवतार-प्रकारꣳ देह-याथात्म्यꣳ जन्म-हेतुꣳ चाह---

Link copied

अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्

Link copied

प्रकृतिꣳ स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया

Link copied

अजत्वाव्ययत्व-सर्वेश्वरत्वादि-सर्वꣳ पारमेश्वरꣳ प्रकारम् अजहद् एव स्वाꣳ प्रकृतिम् अधिष्ठाय आत्म-मायया सम्भवामि। प्रकृतिः स्वभावः, स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया सम्भवामीत्य् अर्थः।

Link copied

स्वरूपꣳ हि--- आदित्य-वर्णꣳ तमसः परस्तात् [य।वे। ३१।१८], क्षयन्तम् अस्य रजसः पराके [सा।वे। १७।१।४।२], य एषोऽन्तरादित्ये हिरण्मयः पुरुषः [छा।उ। १।६।६], तस्मिन्न् अयꣳ पुरुषो मनोमयोऽमृतो हिरण्मयः [तै।उ। १।६।१] सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [य।वे। ३२।२], भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [छा।उ। ३।१४।२], माहारजनꣳ वासः [बृ।आ।उ। २।३।६] इत्य्-आदि-श्रुति-सिद्धम्।

Link copied

आत्म-मायया आत्मीयया मायया। माया वयुनꣳ ज्ञानम् [निघण्टु २२] इति ज्ञान-पर्यायोऽत्र माया-शब्दः। तथा चाभियुक्त-प्रयोगः--- मायया सततꣳ वेत्ति प्राणिनाꣳ च शुभाशुभम् इति। आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेनेत्य् अर्थः।

Link copied

अतोऽपहत-पाप्मत्वादि-समस्त-कल्याण-गुणात्मकत्वꣳ सर्वम् ऐश्वरꣳ स्वभावम् अजहद् एव स्वम् एव रूपꣳ देव-मनुष्यादि-सजातीय-स्थानꣳ कुर्वन् आत्म-सङ्कल्पेन देवादि-रूपः सम्भवामि। तद् इदम् आह--- अजायमानो बहुधा विजायते [य।वे। ३१।१९] इति श्रुतिः। इतर-पुरुष-साधारणꣳ जन्म अकुर्वन् देवादि-रूपेण स्व-सङ्कल्पेन उक्त-प्रक्रियया जायत इत्य् अर्थः। बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्य् अहꣳ वेद सर्वाणि [गीता ४।५] तद् आत्मानꣳ सृजाम्य् अहम् [गीता ४।७], जन्म कर्म च मे दिव्यम् एवꣳ यो वेत्ति तत्त्वतः [गीता ४।९] इति पूर्वापराविरोधाच् च॥४।६॥

Link copied

जन्म-कालम् आह---

Link copied

यदा यदा हि धर्मस्य ग्लानिर् भवति भारत

Link copied

अभ्युत्थानम् अधर्मस्य तदात्मानꣳ सृजाम्य् अहम्

Link copied

न काल-नियमोऽस्मत्-सम्भवस्य। यदा यदा हि धर्मस्य वेदेनोदितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थयावस्थितस्य कर्तव्यस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्याधर्मस्य अभ्युत्थानꣳ, तदाहम् एव स्व-सङ्कल्पेनोक्त-प्रकारेणात्मानꣳ सृजामि॥४।७॥

Link copied

जन्मनः प्रयोजनम् आह---

Link copied

परित्राणाय साधूनाꣳ विनाशाय च दुष्कृताम्

Link copied

धर्म-सꣳस्थापनार्थाय सम्भवामि युगे युगे

Link copied

साधव उक्त-लक्षण-धर्म-शीला वैष्णवाग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्वरूपाणाम् अवाङ्-मनसागोचरतया मद्-दर्शनाद् ऋते स्वात्म-धारण-पोषणादि-सुखम् अलभमाना अणु-मात्र-कालम् अपि कल्प-सहस्राꣳ मन्वानाः प्रशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्वरूप-चेष्टितावलोकनालापादि-दानेन तेषाꣳ परित्राणाय तद्-विपरीतानाꣳ विनाशाय च क्षीणस्य वैदिक-धर्मस्य मद्-आराधन-रूपस्य आराध्य-स्वरूप-प्रदर्शनेन तस्य स्थापनाय च देव-मनुष्यादि-रूपेण युगे युगे सम्भवामि। कृत-त्रेतादि-युग-विशेष-नियमोऽपि नास्तीत्य् अर्थः॥४।८॥

Link copied

जन्म कर्म च मे दिव्यम् एवꣳ यो वेत्ति तत्त्वतः

Link copied

त्यक्त्वा देहꣳ पुनर् जन्म नैति माम् एति सोऽर्जुन

Link copied

एवꣳ कर्म-मूल-भूत-हेय-त्रिगुण-प्रकृति-सꣳसर्ग-रूप-जन्म-रहितस्य सर्वेश्वरत्व-सर्वज्ञत्व-सत्य-सङ्कल्पत्वादि-समस्त-कल्याण-गुणोपेतस्य साधु-परित्राण-मत्-समाश्रयणैक-प्रयोजनꣳ दिव्यम् अप्राकृतꣳ मद्-असाधारणꣳ मम जन्म चेष्टितꣳ च तत्त्वतो यो वेत्ति स वर्तमानꣳ देहꣳ परित्यज्य पुनर् जन्म नैति माम् एव प्राप्नोति। मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति॥४।९॥

Link copied

तद् आह---

Link copied

वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः

Link copied

बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः१०

Link copied

मदीय-जन्म-कर्म-तत्त्व-ज्ञानाख्येन तपसा पूता बहव एवꣳ सꣳवृत्ताः। तथा च श्रुतिः--- तस्य धीराः परिजानन्ति योनिम् इति। धीरा धीमताम् अग्रेसरा एव तस्य जन्म-प्रकारꣳ जानन्तीत्य् अर्थः॥४।१०॥

Link copied

न केवलꣳ देव-मनुष्यादि-रूपेणावतीर्य मत्-समाश्रयणापेक्षाणाꣳ परित्राणꣳ करोमि। अपि तु---

Link copied

ये यथा माꣳ प्रपद्यन्ते ताꣳस् तथैव भजाम्य् अहम्

Link copied

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः११

Link copied

ये मत्-समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपꣳ माꣳ सङ्कल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्-मनीषित-प्रकारेण भजामि माꣳ दर्शयामि। किम् अत्र बहुना। सर्वे मनुष्या मद्-अनुवर्तनैक-मनोरथा मम वत्र्म मत्-स्वभावꣳ सर्वꣳ योगिनाꣳ वाङ्-मनसागोचरम् अपि स्वकीयैश् चक्षुरादि-करणैः सर्वशः स्वापेक्षितैः सर्व-प्रकारैर् अनुभूय अनुवर्तन्ते॥४।११॥

Link copied

इदानीꣳ प्रासङ्गिकꣳ परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञानाकारता-प्रकारꣳ वक्तुꣳ तथा-विध-कर्म-योगाधिकारिणो दुर्लभत्वम् आह---

Link copied

काङ्क्षन्तः कर्मणाꣳ सिद्धिꣳ यजन्त इह देवताः

Link copied

क्षिप्रꣳ हि मानुषे लोके सिद्धिर् भवति कर्मजा१२

Link copied

सर्व एव पुरुषाः कर्मणाꣳ फलꣳ काङ्क्षमाणा इन्द्रादि-देवता यथा-शास्त्रꣳ यजन्ते आराधयन्ति। न तु कश्चिद् अनभिसꣳहित-फल इन्द्रादि-देवतात्म-भूतꣳ सर्व-यज्ञानाꣳ भोक्तारꣳ माꣳ यजते। कुत एतत्। यतः क्षिप्रम् अस्मिन् एव मानुषे लोके कर्मजा पुत्र-पश्व्-अन्नाद्या सिद्धिर् भवति। मनुष्य-लोक-शब्दः स्वर्गादि-लोक-प्रदर्शनार्थः।

Link copied

सर्व एव हि लौकिकाः पुरुषा आक्षीणानादि-काल-प्रवृत्तानन्त-पाप-सञ्चयतया अविवेकिनः क्षिप्र-फलाभिकाङ्क्षिणः पुत्र-पश्व्-अन्नादि-स्वर्गाद्य्-अर्थतया सर्वाणि कर्माणि, इन्द्रादि-देवताराधन-मात्राणि कुर्वते। न तु कश्चित् सꣳसारोद्विग्न-हृदयो मुमुक्षुर् उक्त-लक्षणꣳ कर्म-योगꣳ मद्-आराधन-भूतम् आरभते इत्य् अर्थः॥४।१२॥

Link copied

यथोक्त-कर्म-योगारम्भ-विरोधि-पाप-क्षय-हेतुम् आह---

Link copied

चातुर्-वर्ण्यꣳ मया सृष्टꣳ गुण-कर्म-विभागशः

Link copied

तस्य कर्तारम् अपि माꣳ विद्ध्य् अकर्तारम् अव्ययम्१३

Link copied

चातुर्वर्ण्य-प्रमुखꣳ ब्रह्मादि-स्तम्ब-पर्यन्तꣳ कृत्स्नꣳ जगत् सत्त्वादि-गुण-विभागेन तद्-अनुगुण-शमादि-कर्म-विभागेन च प्रविभक्तꣳ मया सृष्टम्। सृष्टि-ग्रहणꣳ प्रदर्शनार्थम्। मयैव रक्ष्यते, मयैव च उपसꣳह्रियते। तस्य विचित्र-सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारꣳ माꣳ विद्धि॥४।१३॥

Link copied

कथम् इत्य् अत्र आह---

Link copied

न माꣳ कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा

Link copied

इति माꣳ योऽभिजानाति कर्मभिर् न स बध्यते१४

Link copied

यत इमानि विचित्र-सृष्ट्य्-आदीनि न माꣳ कर्माणि लिम्पन्ति न माꣳ सम्बध्नन्ति। न मत्-प्रयुक्तानीमानि देव-मनुष्यादि-वैचित्र्याणि सृज्यानाꣳ पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानीत्य् अर्थः। अतः प्राप्ताप्राप्त-विवेकन विचित्र-सृष्टय्-आदेः नाहꣳ कर्ता। यतश् च सृष्टः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेवराः सृष्टि-लब्धꣳ भोग्य-जातꣳ फल-सङ्गादि-हेतु-स्व-कर्मानुगुणꣳ भुञ्जते, सृष्ट्य्-आदि-कर्म-फले च तेषाम् एव स्पृहेति न मे स्पृहा।

Link copied

तथा सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] इति। तथाह भगवान् पराशरः---

Link copied

निमित्त-मात्रम् एवायꣳ सृज्यानाꣳ सर्ग-कर्माणि।

Link copied

प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः॥

Link copied

निमित्त-मात्रꣳ मुक्त्वेदꣳ नान्यत् किञ्चिद् अपेक्ष्यते।

Link copied

नीयते तपताꣳ श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम्॥ [वि।पु। १।४।५१-५२] इति।

Link copied

सृज्यानाꣳ देवादीनाꣳ क्षेत्र-ज्ञानाꣳ सृष्टेः कारण-मात्रम् एवायꣳ परम-पुरुषः, देवादि-वैचित्र्ये तु प्रधान-कारणꣳ सृज्य-भूत-क्षेत्र-ज्ञानाꣳ प्राचीन-कर्म-शक्तय एव। अतो निमित्त-मात्रꣳ मुक्त्वा सृष्टेः कर्तारꣳ परम-पूरुषꣳ मुक्त्वेदꣳ क्षेत्र-ज्ञ-वस्तु देवादि-विचित्र-भावे न अन्यद् अपेक्षते। स्वगत-प्राचीन-कर्म-शक्त्या एव हि देवादि-वस्तु-भावꣳ नीयत इत्य् अर्थः।

Link copied

एवम् उक्तेन प्रकारेण सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारꣳ सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितꣳ च यो माम् अभिजानाति स कर्म-योगारम्भ-विरोधिभिः फल-सङ्गादि-हेतुभिः प्राचीन-कर्मभिः न सम्बध्यते। मुच्यत इत्य् अर्थः॥४।१४॥

Link copied

एवꣳ ज्ञात्वा कृतꣳ कर्म पूर्वैर् अपि मुमुक्षुभिः

Link copied

कुरु कर्मैव तस्मात् त्वꣳ पूर्वैः पूर्वतरꣳ कृतम्१५

Link copied

एवꣳ माꣳ ज्ञात्वा अपि विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणꣳ कर्म कृतम्। तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतꣳ पूर्वतरꣳ पुरातनꣳ तदानीम् एव मयोक्तꣳ वक्ष्यमाणाकारꣳ कर्मैव कुरु॥४।१५॥

Link copied

वक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह---

Link copied

किꣳ कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः

Link copied

तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात्१६

Link copied

मुमुक्षुणानुष्ठेयꣳ कर्म किꣳ-स्वरूपम्। अकर्म च किम्। फलाभिसन्धि-रहितꣳ भगवद्-आराधन-रूपꣳ कर्म। अकर्म इति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते। अनुष्ठेयꣳ कर्म तद्-अन्तर्गतꣳ ज्ञानꣳ च किꣳ-स्वरूपम्। इत्य् उभयत्र कवयो विद्वाꣳसोऽपि मोहिताः, यथार्थतया न जानन्ति। एवम् अन्तर्गत-ज्ञानꣳ यत् कर्म तत् ते प्रवक्ष्यामि। यद् ज्ञात्वा अनुष्ठाय अशुभात् सꣳसार-बन्धान् मोक्ष्यसे। कर्तव्य-कर्म-ज्ञानꣳ हि अनुष्ठान-फलम्॥४।१६॥

Link copied

कुतोऽस्य दुर्ज्ञानता। इत्य् अत्र आह---

Link copied

कर्मणो ह्य् अपि बोद्धव्यꣳ बोद्धव्यꣳ च विकर्मणः

Link copied

अकर्मणश् च बोद्धव्यꣳ गहना कर्मणो गतिः१७

Link copied

यस्मात् मोक्ष-साधन-भूते कर्मणः स्वरूपे बोद्धव्यम् अस्ति। विकर्मणि च नित्य-नैमित्तिक-काम्य-कर्म-रूपेण तत्-साधन-द्रव्यार्जनाद्य्-आकारेण च, विविधताम् आपन्नꣳ कर्म विकर्म। अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति। गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः। विकर्मणि च बोद्धव्यम्--- नित्य-नैमित्तिक-काम्य-द्रव्यार्जनादौ कर्मणि फल-भेद-कृतꣳ वैविध्यꣳ परित्यज्य मोक्षैक-फलतया एक-शास्त्रार्थत्वानुसन्धानम्। तद् एतद् व्यवसायात्मिका बुद्धिर् एका [२।४१] इत्य् अत्रैवोक्तम् इति नेह प्रपञ्च्यते॥४।१७॥

Link copied

कर्माकर्मणोर् बोद्धव्यम् आह---

Link copied

कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः

Link copied

स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत्१८

Link copied

अकर्म-शब्देनात्र कर्मेतरत् प्रस्तुतम् आत्म-ज्ञानम् उच्यते। कर्मणि क्रियमाणे एव आत्म-ज्ञानꣳ यत् पश्येद् अकर्मणि चात्म-ज्ञाने वर्तमानैव यः कर्म पश्येत्। किम् उक्तꣳ भवति। क्रियमाणम् एव कर्मात्म-याथात्म्यानुसन्धानेन ज्ञानाकारꣳ यः पश्येत्, तच् च ज्ञानꣳ कर्मणि अन्तर्गततया कर्माकारꣳ यः पश्येद् इति उक्तꣳ भवति। क्रियमाणे हि कर्मणि कर्तृ-भूतात्म-याथात्म्यानुसन्धानेन तद् उभयꣳ सम्पन्नꣳ भवति।

Link copied

एवम् आत्म-याथात्म्यानुसन्धान-गर्भꣳ कर्म यः पश्येत् स बुद्धिमान् कृत्स्न-शास्त्रार्थ-वित्, मनुष्येषु स युक्तो मोक्षार्हः स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रार्थ-कृत्॥४।१८॥

Link copied

प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञानाकारता कथम् उपपद्यते। इत्य् अत्राह---

Link copied

यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः

Link copied

ज्ञानाग्नि-दग्ध-कर्माणꣳ तम् आहुः पण्डितꣳ बुधाः१९

Link copied

यस्य मुमुक्षोः सर्वे द्रव्यार्जनादि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः काम-वर्जिताः फल-सङ्ग-रहिताः सङ्कल्प-वर्जिताश् च।

Link copied

प्रकृत्या तद्-गुणैश् चात्मानम् एकीकृत्य अनुसन्धानाꣳ सङ्कल्पः। प्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया तद्-रहिताः। तम् एवꣳ कर्म कुर्वाणꣳ पण्डितꣳ कर्मान्तर्गतात्म-याथात्म्य-ज्ञानाग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः॥४।१९॥

Link copied

अतः कर्मणो ज्ञानाकारत्वम् उपपद्यते। एतद् एव विवृणोति---

Link copied

त्यक्त्वा कर्म-फलासङ्गꣳ नित्य-तृप्तो निराश्रयः

Link copied

कर्मण्य् अभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः२०

Link copied

कर्म-फलासङ्गꣳ त्यक्त्वा नित्य-तृप्तो नित्ये स्वात्मन्य् एव तृप्तो निराश्रयोऽस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तोऽपि नैव किञ्चित् कर्म करोति, कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्य् अर्थः॥४।२०॥

Link copied

पुनर् अपि कर्मणा ज्ञानाकारता एव विशोध्यते---

Link copied

निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः

Link copied

शारीरꣳ केवलꣳ कर्म कुर्वन् नाप्नोति किल्बिषम्२१

Link copied

निराशीर् निर्गत-फलाभिसन्धिः, यत-चित्तात्मा यत-चित्तमनाः, त्यक्त-सर्व-परिग्रह आत्मैक-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितो यावज्-जीवꣳ केवलꣳ शारीरम् एव कर्म कुर्वन् किल्बिषꣳ सꣳसारꣳ नाप्नोति। ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेन एवꣳ-रूपेणात्मानꣳ पश्यतीत्य् अर्थः॥४।२१॥

Link copied

यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः

Link copied

समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते२२

Link copied

यदृच्छोपनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः द्वन्द्वातीतो यावत्-साधन-समाप्त्य्-अवर्जनीय-शीतोष्णादि-सहः। विमत्सरोऽनिष्टोपनिपात-हेतु-भूत-स्वकर्म-निरूपेण परेषु विगत-मत्सरः समः सिद्धौ असिद्धौ च युद्धादि-कर्मसु जयादि-सिद्ध्य्-असिद्ध्योः सम-चित्तः कर्मैव कृत्वापि ज्ञान-निष्ठाꣳ विनापि न निबध्यते, न सꣳसारꣳ प्रतिपद्यते॥४।२२॥

Link copied

गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः

Link copied

यज्ञायाचरतः कर्म समग्रꣳ प्रविलीयते२३

Link copied

आत्म-विषय-ज्ञानावस्थित-मनस्त्वेन विगत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्योक्त-लक्षण-यज्ञादि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतꣳ प्राचीनꣳ कर्म समग्रꣳ प्रविलीयते निःशेषꣳ क्षीयते॥४।२३॥

Link copied

प्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्। इदानीꣳ सर्वस्य स-परिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषात्मकत्वानुसन्धाना-युक्ततया ज्ञानाकारत्वम् आह---

Link copied

ब्रह्मार्पणꣳ ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम्

Link copied

ब्रह्मैव तेन गन्तव्यꣳ ब्रह्म-कर्म-समाधिना२४

Link copied

हविर् विशेष्यते। अर्प्यतेऽनेनेत्य् अर्पणꣳ स्रुग्-आदि। तद् ब्रह्म-कार्यत्वाद् ब्रह्म, ब्रह्म यस्य हविषोऽर्पणꣳ तद् ब्रह्मार्पणम्। ब्रह्म हविः स्वयꣳ च ब्रह्म-भूतꣳ ब्रह्माग्नौ ब्रह्म-भूतेऽग्नौ ब्रह्मणा कर्त्रा हुतम्। इति सर्वꣳ कर्म ब्रह्मात्मकत्वाद् ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः। तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम्। ब्रह्मात्मकतया ब्रह्म-भूतम् आत्म-स्वरूपꣳ गन्तव्यम्। मुमुक्षूणाꣳ क्रियमाणꣳ कर्म पर-ब्रह्मात्मकम् एव इत्य् अनुसन्धान-युक्ततया ज्ञानाकारꣳ साक्षाद् आत्मावलोकन-साधनम्, न ज्ञान-निष्ठा-व्यवधानेनेत्य् अर्थः॥४।२४॥

Link copied

एवꣳ कर्मणो ज्ञानाकारताꣳ प्रतिपाद्य कर्म-योग-भेदान् आह---

Link copied

दैवम् एवापरे यज्ञꣳ योगिनः पर्युपासते

Link copied

ब्रह्माग्नाव् अपरे यज्ञꣳ यज्ञेनैवोपजुह्वति२५

Link copied

दैवꣳ दैवार्चन-रूपꣳ यज्ञम् अपरे कर्म-योगिनः पर्युपासते सेवन्ते। तत्रैव निष्ठाꣳ कुर्वन्तीत्य् अर्थः। अपरे ब्रह्माग्नौ यज्ञꣳ यज्ञेनैव उपजुह्वति। यज्ञꣳ यज्ञ-रूपꣳ ब्रह्मात्मकम् आज्यादि-द्रव्यꣳ यज्ञेन यज्ञ-साधन-भूतेन स्रुग्-आदिना जुह्वति। अत्र यज्ञ-शब्दो हविः-स्रुग्-आदि-यज्ञ-साधने वर्तते। ब्रह्मार्पणꣳ ब्रह्म हविः इति न्यायेन याग-होमयोर् निष्ठाꣳ कुर्वन्ति॥४।२५॥

Link copied

श्रोत्रादीनीन्द्रियाण्य् अन्ये सꣳयमाग्निषु जुह्वति

Link copied

शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति२६

Link copied

अन्ये श्रोत्रादीनाम् इन्द्रियाणाꣳ सꣳयमने प्रयन्ते। शब्दादीन् विषयान् अन्ये योगिन इन्द्रियाणाꣳ शब्दादि-विषय-प्रवणता-निवारणे प्रयतन्ते॥४।२६॥

Link copied

सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे

Link copied

आत्म-सꣳयम-योगाग्नौ जुह्वति ज्ञान-दीपिते२७

Link copied

अन्ये ज्ञान-दीपिते मनः-सꣳयम-योगाग्नौ सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति। मनस इन्द्रिय-प्राणानाꣳ कर्म-प्रवणता-निवारणे प्रयतन्त इत्य् अर्थः॥४।२७॥

Link copied

द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे

Link copied

स्वाध्याय-ज्ञान-यज्ञाश् च यतयः सꣳशित-व्रताः२८

Link copied

केचित् कर्म-योगिनो द्रव्य-यज्ञाः, न्यायतो द्रव्याण्य् आदाय देवार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु, एते सर्वे द्रव्य-यज्ञाः। केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणोपवासादिषु निष्ठाꣳ कुर्वन्ति। योग-यज्ञाश् चापरे पुण्य-तीर्थ- पुण्य-स्थान-प्राप्तिषु निष्ठाꣳ कुर्वन्ति। इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः। केचित् स्वाध्याय-पराः स्वाध्यायाभ्यास-पराः। केचित् तद्-अर्थ-ज्ञानाभ्यास-परा यतयो यतन-शीलाः। शꣳसित-व्रताः दृढ-सङ्कल्पाः॥४।२८॥

Link copied

अपाने जुह्वति प्राणꣳ प्राणेऽपानꣳ तथापरे

Link copied

प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः२९

Link copied

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति

Link copied

सर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः३०

Link copied

अपरे कर्म-योगिनः प्राणायामेषु निष्ठाꣳ कुर्वन्ति। ते च त्रि-विधाः--- पूरक-रेचक-कुम्भक-भेदेन। अपाने जुह्वति प्राणम् इति पूरकः। प्राणेऽपानम् इति रेचकः। प्राणापान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वतीति कुम्भकः। प्राणायाम-परेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति। द्रव्य-यज्ञ-प्रभृति-प्राणायाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे सह-यज्ञैः प्रजाः सृष्ट्वा [३।१०] इति अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः, तन्-निष्ठाः, तत एव क्षपित-कल्मषाः॥४।२९-।३०॥

Link copied

यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम्

Link copied

नायꣳ लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरुसत्तम३१

Link copied

यज्ञ-शिष्टामृतेन शरीर-धारणꣳ कुर्वन्त एव कर्म-योगे व्यापृताः सनातनꣳ च ब्रह्म यान्ति। अयज्ञस्य महा-यज्ञादि-पूर्वक-नित्य-नैमित्तिक-कर्म-रहितस्य नायꣳ लोको न प्राकृत-लोकः प्राकृत-लोक-सम्बन्धि-धर्मार्थ-कामाख्यः पुरुषार्थो न सिध्यति। कुत

Link copied

 इतोऽन्यो मोक्षाख्यः पुरुषार्थः। परम-पुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुषार्थोऽयꣳ लोक इति निर्दिश्यते स हि प्राकृतः॥४।३१॥

Link copied

एवꣳ बहु-विधा यज्ञा वितता ब्रह्मणो मुखे

Link copied

कर्मजान् विद्धि तान् सर्वान् एवꣳ ज्ञात्वा विमोक्ष्यसे३२

Link copied

एवꣳ हि बहु-प्रकाराः कर्म-योगा ब्रह्मणो मुखे वितताः। आत्म-याथात्म्यावाप्ति-साधनतया स्थिताः। तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्मजान् विद्धि। अहरहर् अनुष्ठीयमान-नित्य-नैमित्तिक-कर्मानुष्ठान-जान् विद्धि। एवꣳ ज्ञात्वा यथोक्त-प्रकारेण अनुष्ठाय विमोक्ष्यसे॥४।३२॥

Link copied

अन्तर्गत-ज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्। तत्रान्तर्गत-ज्ञाने कर्मणि ज्ञानाꣳशस्य एव प्राधान्यम् आह---

Link copied

श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप

Link copied

सर्वꣳ कर्माखिलꣳ पार्थ ज्ञाने परिसमाप्यते३३

Link copied

उभयाकारे कर्मणि द्रव्य-मयाद् अꣳशाद् ज्ञान-मयोऽꣳशः श्रेयान्। सर्वस्य कर्मणस् तद्-इतरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः। तद् एवꣳ सर्वैः साधनैः प्राप्य-भूतꣳ ज्ञानꣳ कर्मान्तर्गतत्वेन अभ्यस्यते। तद् एव हि अभ्यस्यमानꣳ क्रमेण प्राप्य-दशाꣳ प्रतिपद्यते॥४।३३॥

Link copied

तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया

Link copied

उपदेक्ष्यन्ति ते ज्ञानꣳ ज्ञानिनस् तत्त्व-दर्शिनः३४

Link copied

तद् आत्म-विषयꣳ ज्ञानम् अविनाशि तद् विद्धि [२।१७] इत्य् आरभ्य एषा तेऽभिहिता [२।३९] इत्य् अन्तेन मयोपदिष्टम् मद्-उक्त-कर्मणि वर्तमानस् त्वꣳ विपाकानुगुणꣳ काले काले प्रणिपात-परिप्रश्न-सेवादिभिर् विशदाकारꣳ ज्ञानिभ्यो विद्धि। साक्षात्-कृतात्म-स्वरूपास् तु ज्ञानिनः प्रणिपातादिभिः सेविता ज्ञान-बुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति॥४।३४॥

Link copied

आत्म-याथात्म्य-विषय-साक्षात्कार-रूपस्य लक्षणम् आह---

Link copied

यज् ज्ञात्वा न पुनर् मोहम् एवꣳ यास्यसि पाण्डव

Link copied

येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि३५

Link copied

यज् ज्ञानꣳ ज्ञात्वा पुनर् एवꣳ देहाद्य्-आत्माभिमान-रूपꣳ तत्-कृतꣳ ममताद्य्-आस्पदꣳ च मोहꣳ न यास्यसि, येन देव-मनुष्याद्य्-आकारेणानुसꣳहितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि। यतस् तवान्येषाꣳ च भूतानाꣳ प्रकृति-वियुक्तानाꣳ ज्ञानैकाकारतया साम्यम्। प्रकृति-सꣳसर्ग-दोष-विनिर्मुक्तम् आत्म-स्वरूपꣳ सर्वꣳ समम् इति च वक्ष्यते निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति।

Link copied

अथो मयि सर्वाणि भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्वरूप-साम्याच् च परिशुद्धस्य सर्वस्य आत्म-वस्तुनः। इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः [गीता १४।२] इति हि वक्ष्यते तथा विद्वान् पुण्य-पापे विधूय, निरञ्जनः परमꣳ साम्यम् उपैति [मु।उ। ३।१।३] इत्य् एवम् आदिषु नाम-रूप-विनिर्मुक्तस्य आत्म-वस्तुनः परꣳ स्वरूप-साम्यम् अवगम्यते। अतः प्रकृति-विनिर्मुक्तꣳ सर्वम् आत्म-वस्तु परस्परꣳ समꣳ सर्वेश्वरेण च समम्॥४।३५॥

Link copied

अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः

Link copied

सर्वꣳ ज्ञान-प्लवेनैव वृजिनꣳ सन्तरिष्यसि३६

Link copied

यद्यपि सर्वेभ्यः पाप-कृत्तमोऽसि सर्वꣳ पूर्वार्जितꣳ वृजिन-रूपꣳ समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनैव सन्तरिष्यसि॥४।३६॥

Link copied

यथैधाꣳसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन

Link copied

ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा३७

Link copied

सम्यक् प्रवृद्धोऽग्निर् इन्धन-समुच्चयम् इवात्म-याथात्म्य-ज्ञान-रूपोऽग्निर् जीवात्म-गतम् अनादि-काल-प्रवृत्तानन्त-कर्म-सञ्चयꣳ भस्मीकरोति॥४।३७॥

Link copied

न हि ज्ञानेन सदृशꣳ पवित्रम् इह विद्यते

Link copied

तत् स्वयꣳ योग-सꣳसिद्धः कालेनात्मनि विन्दति३८

Link copied

यस्माद् आत्म-ज्ञानेन सदृशꣳ पवित्रꣳ शुद्धि-करम् इह जगति वस्त्व्-अन्तरꣳ न विद्यते, तस्माद् आत्म-ज्ञानꣳ सर्वꣳ पापꣳ नाशयतीत्य् अर्थः। तत् तथा-विधꣳ ज्ञानꣳ यथोपदेशम् अहरहर् अनुष्ठीयमानꣳ ज्ञानाकार-कर्म-योगेन सꣳसिद्धः कालेन स्वात्मनि स्वयम् एव लभते॥४।३८॥

Link copied

तद् एव स्पष्टम् आह---

Link copied

श्रद्धावाꣳल् लभते ज्ञानꣳ तत्-परः सꣳयतेन्द्रियः

Link copied

ज्ञानꣳ लब्ध्वा पराꣳ शान्तिम् अचिरेणाधिगच्छति३९

Link copied

एवम् उपदेशाज् ज्ञानꣳ लब्ध्वा चोपदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परस् तत्रैव नियमित-मनास् तद्-इतर-विषयात् सꣳयतेन्द्रियोऽचिरेण कालेनोक्त-लक्षण-विपाक-दशापन्नꣳ ज्ञानꣳ लभते। तथा-विधꣳ ज्ञानꣳ लब्ध्वा पराꣳ शान्तिम् अचिरेण अधिगच्छति परꣳ निर्वाणꣳ प्राप्नोति॥४।३९॥

Link copied

अज्ञश् चाश्रद्दधानश् च सꣳशयात्मा विनश्यति

Link copied

नायꣳ लोकोऽस्ति न परो न सुखꣳ सꣳशयात्मनः४०

Link copied

अज्ञ एवम् उपदेश-लब्ध-ज्ञान-रहित उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये चाश्रद्दधानोऽत्वरमाण उपदिष्टे च ज्ञाने सꣳशयात्मा सꣳशयित-मना विनश्यति, नष्टो भवति। अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने सꣳशयात्मनोऽयम् अपि प्राकृत-लोको नास्ति, न च परः। धर्मार्थ-कामादि-पुरुषार्थाश् च न सिद्ध्यन्ति, कुतो मोक्ष इत्य् अर्थः।

Link copied

शास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषाꣳ पुरुषार्थानाꣳ शास्त्रीय-कर्म-जन्य-सिराश् च देहातिरिक्तात्म-निश्चय-पूर्वकत्वात्। अतः सुख-लव-भागित्वम् आत्मनि सꣳशयात्मनो न सम्भवति॥४।४०॥

Link copied

योग-सन्न्यस्त-कर्माणꣳ ज्ञान-सञ्छिन्न-सꣳशयम्

Link copied

आत्मवन्तꣳ न कर्माणि निबध्नन्ति धनञ्जय४१

Link copied

यथोपदिष्ट-योगेन सन्न्यस्त-कर्माणꣳ ज्ञानाकारतापन्न-कर्माणꣳ यथोपदिष्टेन चात्म-ज्ञानेनात्मनि सञ्छिन्न-सꣳशयम् आत्मवन्तꣳ मनस्विनम् उपदिष्टार्थो दृढावस्थित-मनसꣳ बन्ध-हेतु-भूत-प्राचीनानन्त-कर्माणि न निबध्नन्ति॥४।४१॥

Link copied

तस्माद् अज्ञान-सम्भूतꣳ हृत्-स्थꣳ ज्ञानासिनात्मनः

Link copied

छित्त्वैनꣳ सꣳशयꣳ योगम् आतिष्ठोत्तिष्ठ भारत४२

Link copied

तस्माद् अनाद्य्-अज्ञान-सम्भूतꣳ हृत्-स्थम् आत्म-विषयꣳ सꣳशयꣳ मयोपदिष्टेनात्म-ज्ञानासिना छित्त्वा मयोपदिष्टꣳ कर्म-योगम् आतिष्ठ तद्-अर्थम् उत्तिष्ठ भारतेति॥४।४२॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये चतुर्थोऽध्यायः ॥४॥

Link copied

English · simplified from Thibaut (1904)

Lecture 4 — The Path of Knowledge Through Action (in Sanskrit: Jñāna-karma-sannyāsa-yoga)

The Fourth Lecture deepens the teaching of the Third. Having established that karma-yoga is the necessary path for the aspirant, Sri Krishna now reveals that this yoga is not new: He Himself taught it at the dawn of creation to Vivasvan, Manu, and Ikshvaku. This opens the treasured digression on avatāras — the divine descents — and closes with the declaration that all sacrifice culminates in jñāna, the wisdom that burns away all the accumulated karma of ages. Yamunacharya summarises: the Self's own nature, how work and knowledge become one, how works vary, and how great is knowledge — these Lecture Four enounces.

Link copied

Verses 1–3 (The ancient, transmitted yoga)

Verse 4.1–3. Sri Bhagavan said: "I taught this eternal yoga to Vivasvan (the Sun); Vivasvan declared it to Manu; Manu imparted it to Ikshvaku. So handed down successively, the royal sages knew it. But by long lapse of time, Parantapa, the yoga declined. This self-same ancient yoga is now propounded by Me to thee — mysterious and best — because thou art My devotee, My friend."

Link copied

Ramanuja stresses: the yoga is real, designed for the salvation of the whole universe, imparted now to Sri Arjuna because he bears the Lord friendship and has in loving devotion sought Him as his sole Asylum. None save the Lord Himself is able to understand or preach this yoga, for it is the sublime wisdom, the mystery of the Vedantas.

Link copied

Verses 4–9 (The nature of Avataras)

Verse 4.4. Sri Arjuna asks: "Thy birth is recent; Vivasvan's is prior. How, then, wert Thou the first Teacher?"

Link copied

Ramanuja explains that Sri Arjuna already knows well — from passages like "Thou art the Supreme Brahman, the sublime glory" (X.12) — that the son of Vasudeva is none other than the Lord. His question is put deliberately, for the world's sake, to draw out from the Lord an authoritative exposition of the meaning of the avatāras: whether they are like the karma-determined births of ordinary beings; whether they are real or illusory (like indrajāla or magic); when and where and why they occur; and what kind of body is assumed.

Link copied

Verse 4.5. The Lord replies: "Many births have passed for Me, for thee also, Arjuna. I remember them all, but thou dost not, Parantapa."

Link copied

This affirms the reality of the Incarnations. The analogy of Sri Arjuna's own birth is no illusion; so too the Lord's past Incarnations are real, not magical appearances.

Link copied

Verse 4.6. "Though birthless, of nature imperishable, and Lord of all beings, yet do I establish Myself in My own prakṛti (nature) and come to be born, by My own māyā (will)."

Link copied

Ramanuja is emphatic: never divesting Himself of His essential attributes — of suzerainty, of being birthless, of being exhaustless, of being Lord of all — the Lord enters birth of His own free choice, planting Himself in His own native nature. His form in incarnation is of the kind described in Sruti passages: "Him who is of sun-colour, beyond tamas" (Svetasvatara III.8); "The Spirit in the interior of the sun, of golden hue" (Chhandogya I.6.6); "He of resplendent form, the firm-resolved, subtle-souled like space" (Chhandogya III.14.2). The word māyā here does not mean illusion; it means His will, knowledge, intelligence — as the Nighantu declares, "māyā vayunaṁ jñānam." So the Lord, by His own free will, is born as if He were of the creatures' nature, without for a moment laying aside His essential (godly) attributes.

Link copied

Verse 4.7–8. "Whensoever and wheresoever virtue wanes and vice waxes, then do I create Myself. For protecting the virtuous and destroying the wicked, and for firmly reinstating dharma, am I born from age to age."

Link copied

The sādhus here are the good and virtuous Vaishnavas who seek Him as their shelter — who feel that without seeing Him they cannot live, for whom a moment's separation from Him is as a kalpa. For their protection, lest they pine away, He grants them the privilege of seeing Him, holding converse with Him, beholding His doings. Dharma is in truth His own modes of worship; and His avatāras are the objects of that worship.

Link copied

Verse 4.9. "Whoso understands in their true nature My divine incarnations and doings — he, Arjuna, does not come to rebirth after quitting the body but goes to Me."

Link copied

Whoever comprehends the divine, immaterial, unique nature of these descents and their acts — as different from the compulsory births of those born through the union of pure ātman with impure threefold prakṛti — becomes rid of all sin that stands as a barrier against reaching the Lord.

Link copied

Verses 10–12 (The devotees and the seekers of lesser fruit)

Verse 4.10. "Weaned from desire, dread, and passion; full of Me, entirely reliant on Me; many are those who, purified by wisdom-meditation (jñāna-tapas), have come to My state (madbhāvam)."

Link copied

Ramanuja marks this verse as a clear declaration of the plurality of souls — many souls have come to the Lord's state, not been absorbed or annihilated.

Link copied

Verse 4.11. "In the way they resort to Me (prapadyante), in that way do I serve to them. All men go after Me in every way, Partha."

Link copied

The Lord adapts Himself to every mode of approach. By whatever conception they choose to seek Him, He manifests Himself to them in that mode. Bhajāmi — "I serve" — here means "I appear to them." Though His nature transcends thought and speech even for yogis, to all who are of His ways He suits Himself so that they may enjoy Him through every sense-faculty and in all diverse ways.

Link copied

Verse 4.12. "Those who wish for the fulfilment of works worship the lesser devatās here. In mortal realms, work-born fruit is speedily realised."

Link copied

Most men, longing for immediate fruit, readily turn to Indra and lesser gods. Rare is the soul who, dreading saṁsāra, aspires for mokṣa and engages in karma-yoga as worship rendered to the Lord.

Link copied

Verses 13–15 (Creation, the fourfold order, and the ancient practice)

Verse 4.13. "The fourfold varṇa was created by Me according to guṇa (disposition) and karma (occupation). Though I am its Creator, know Me to be the imperishable non-creator."

Link copied

The whole universe is divided by Him into four according to the guṇastamas prevailing in the śūdra, rajas in the kṣatriya, sattva in the brāhmaṇa, a blend at each station — and according to corresponding occupations.

Link copied

Verse 4.13½. "Works soil Me not. I have no interest in works' fruit."

Link copied

The created diversity of deva, man, and so on is fashioned by the beings' own karma, by their own merit and demerit. The Lord is only the instrumental cause; He is "no author" in the sense that He is not responsible for the conditions that creatures bring upon themselves. Vyasa's Brahma Sutra confirms: "(The Lord) cannot be reproached with inequality and cruelty, for karma is regarded by Him." Bhagavan Parasara teaches the same in the Vishnu Purana: the Lord is but the directing cause; the creating forces have their roots in pradhāna — the karma-potencies of beings themselves.

Link copied

Verse 4.14–15. "He who truly knows Me thus is not bound by works. So understanding, did the mokṣa-seeking ancients work. Do thou also, like the ancients, in the ancient way."

Link copied

Verses 16–24 (The riddle of action and inaction; work as wisdom)

Verse 4.16–17. "What is action? what is inaction? In this, even the wise get confounded. That action I will explain, knowing which thou shalt be freed from evil. Action (karma) has to be understood; vikarma (variety of actions) has to be understood; and akarma (inaction, which here means knowledge itself) has to be understood. Intricate is the way of karma."

Link copied

Ramanuja explains: the moksha-aspirer must understand three things — the action that is the means to liberation; the variety of actions, daily (nitya) and occasional (naimittika), each with its particular fruit, which must nevertheless be performed with the one uniform aim of mokṣa; and akarma, which here signifies jñāna — wisdom concerning the ātman.

Link copied

Verse 4.18. "He who sees akarma (wisdom) in karma (action), and who also sees karma in akarma — he is wise among men; he is yuktaḥ; he has done all work."

Link copied

Two realisations: (1) the wise man, while actually performing work, sees the wisdom-aspect involved in it; (2) the wise man, while stationed in ātman-wisdom, sees even wisdom itself as a kind of act. Both positions together mean: by doing work outwardly and contemplating ātman-nature inwardly, both the objective and subjective poles are held. Such a man is conversant with the ultimate import of all the Sastras.

Link copied

Verse 4.19. "He whose all-acts are devoid of desire (kāma) and delusion (saṅkalpa) — the wise say he is the enlightened one, whose works are burnt up in the fire of wisdom."

Link copied

Saṅkalpa here is the fanciful identification of the ātman with prakṛti and its guṇas. The moksha-aspirant performs all his works free from both desire for fruit and this false identification.

Link copied

Verse 4.20–22. "Dissociated from works' fruit, ever self-contented, self-reliant, though he acts he does nothing. Bereft of expectancy, restraining the mind's anxiety, forsaking all possessions, whoso performs work as a mere bodily function incurs no evil. Content with whatever chance brings, above the pairs, free from malice, equal in success or failure — though he acts, he is not bound."

Link copied

Verse 4.23. "For him who has ceased from attachment, who has renounced all, whose mind is wisdom-absorbed, who works for yajña — all karma entirely ceases."

Link copied

Verse 4.24. "Brahmārpaṇam brahma haviḥ brahmāgnau brahmaṇā hutam / brahmaiva tena gantavyaṁ brahma-karma-samādhinā" — "By the Brahma-apparatus, the Brahma-oblation is, by Brahma, offered in Brahma-fire. He who so contemplates karma to be Brahma-full goes to Brahma itself."

Link copied

This is the highest contemplation of Spiritual Philosophy. Ramanuja calls it brahma-karma-samādhi — seeing that in every act the Soul of the act is the Paramount Spirit, and seeing God everywhere, in all acts by oneself and in all acts external. This is the spiritual height, he notes, that only saints like Prahlada and Nammalvar have scaled. Work in this view becomes itself wisdom, itself the means to ātman-vision, without a separate jñāna-course.

Link copied

Verses 25–32 (The varieties of yajña)

Having shown the wisdom-aspect of work, Sri Krishna now enumerates the varieties of karma-yoga:

Link copied

Verse 4.25. "Some yogis devoutly practise the daiva-yajña alone" — sacrifices to the Divinity itself.

Link copied

Verse 4.26. "Others pour yajña into Brahma-fire with yajña" — performing the prescribed yāgas and homas in the ideal framework of "by the Brahma-apparatus, the Brahma-oblation."

Link copied

Verse 4.26½. "Others sacrifice the senses — hearing and the rest — into the saṁyama-fires" — striving to control the senses.

Link copied

Verse 4.27. "Others sacrifice the objects of the senses — sound and the rest — into the sense-fires" — endeavouring to quiet the appetites.

Link copied

Verse 4.28. "Others sacrifice all sense-activities and prāṇa-activities in the wisdom-fanned ātma-saṁyama-yoga-fire" — directing their effort to disciplining the mind to retire from sense-and-life activities.

Link copied

Verse 4.29. "Some do wealth-sacrifices; some tapas-sacrifices; some yoga-sacrifices (pilgrimages to holy places); some svādhyāya-sacrifices (study of Vedas); some of fixed resolve, jñāna-sacrifices (inquiry into the import of the Vedas)."

Link copied

Verse 4.30–31. "Others, practisers of prāṇāyāma, with restricted food, sacrifice prāṇa in apāna, apāna in prāṇa, and, restraining both currents, prāṇa in prāṇa." The three phases — pūraka (inhalation), recaka (exhalation), and kumbhaka (retention) — are here named.

Link copied

Verse 4.32. "All these are yajña-knowers, their sins effaced by the yajña. The eaters of the nectar-like remnants of yajña-food reach the eternal Brahman. To the non-sacrificer, this world is not; whence the other world, Kuru-best?"

Link copied

All the aspirations of man — dharma, artha, kāma — rest on these rites. While even these are unattainable without yajña, how shall the highest aspiration, mokṣa, be gained by one who neglects them?

Link copied

Verses 33–42 (The culmination in jñāna)

Verse 4.33. "Such are the varieties of yajña, all means leading to Brahman. Know them all as springing from action. Knowing thus, thou shalt be emancipated."

Link copied

Verse 4.34. "The wisdom-element, Parantapa, is superior in yajñas requiring much material. All complete action, Partha, ends in wisdom."

Link copied

Action has two aspects — the unintelligent act itself, with its materials and instruments, and the wisdom that directs it. The wisdom-aspect is superior. All work is ultimately performed so that wisdom may be cultivated; wisdom is the end to which every means points.

Link copied

Verse 4.35. "By prostrations, by fair questionings, and by service, know this. The truth-seeing saints shall instruct thee in wisdom."

Link copied

Ramanuja reads this verse as direct guidance on how to acquire spiritual knowledge while yet engaged in prescribed work. The wise — the tattva-darśins to whom ātman is a demonstrated verity — pleased by the aspirant's reverent demeanour and service, will divine his heart and impart the wisdom.

Link copied

Verse 4.36. "Knowing which, thou wilt not again be deluded — that wisdom by which thou wilt see the sum of all beings in thyself, then in Me."

Link copied

The wisdom by which one recognises that all ātmans, when viewed apart from their material environments, are one in their essential nature of being conscious entities. "Embracing this knowledge, they have attained to My equality" (XIV.2). Sruti confirms: "Then the enlightened man, casting off merit and demerit, becomes cleansed and attains the highest equality" (Mundaka III.1.3). Stripped of name and form, the ātman-essence is equal in all beings and equal with the nature of Para.

Link copied

Verse 4.37. "Wert thou the worst of sinners, thou shouldst yet with this wisdom-bark swim across all evil."

Link copied

Verse 4.38. "As kindled fire, Arjuna, consumes a heap of sticks, so the fire of wisdom reduces all action to ashes."

Link copied

Verse 4.39. "No purifier like wisdom exists here. He who is karma-yoga-perfect realises it in himself in time."

Link copied

Verse 4.40. "Whoso is full of faith, intent thereon, of subdued senses, attains wisdom. Wisdom attained, he soon attains Supreme Peace."

Link copied

Verse 4.41. "The ignorant, the non-earnest, the sceptic-minded perishes. To the sceptic-minded, this world is not, nor the other, nor happiness."

Link copied

Ignorance, faithlessness, and doubt are three distinct obstacles. Whoever doubts the very existence of the ātman cannot share in the smallest fraction of spiritual bliss.

Link copied

Verse 4.42. "No deeds bind him, Dhananjaya, whose works are yoga-dedicated, whose doubts are wisdom-cut, whose mind is firmly fixed. With the sword of wisdom, then, Bharata, cleaving all this ignorance-born doubt settling in thy heart, arise, and practise karma-yoga."

Link copied

Thus closes Lecture Four, the Path of Knowledge (jñāna-karma-sannyāsa-yoga), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.

Link copied
Join our community