Bhagavad Gita Bhashya · Section 5 of 19
atha jñāna-karma-sannyāsa-yogo nāma caturtho'dhyāyaḥ
Sanskrit (IAST) · click to toggle
तृतीयेऽध्याये प्रकृति-सꣳसृष्टस्य मुमुक्षोः सहसा ज्ञान-योगेऽनधिकारात् कर्म-योग एव कार्यः। ज्ञान-योगाधिकारिणोऽप्य् अकर्तृत्वानुसन्धान-पूर्वकꣳ कर्म-योग एव श्रेयान् इति सहेतुकम् उक्तम्। इव्शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्म-योग एव कार्य इति चोक्तम्। चतुर्थेनेदानीम् अस्यैव कर्म-योगस्य निखिल-जगद्-उद्धरणाय मन्वन्तरादाव् एवोपदिष्टतया कर्तव्यताꣳ द्रढयित्वा अन्तर्गत-ज्ञानतत्याऽस्यैव ज्ञान-योगाकारताꣳ प्रदर्श्य, कर्म-योग-स्वरूपꣳ तद्-भेदाः कर्म-योगे ज्ञानाꣳशस्यैव प्राधान्यꣳ चोच्यते। प्रसङ्गाच् च भगवद्-अवतार-याथात्म्यम् उच्यते---
Link copiedश्री-भगवान् उवाच
Link copiedइमꣳ विवस्वते योगꣳ प्रोक्तवान् अहम् अव्ययम्।
Link copiedविवस्वान् मनवे प्राह मनुर् इक्ष्वाकवेऽब्रवीत्॥१॥
Link copiedएवꣳ परम्परा-प्राप्तम् इमꣳ राजर्षयो विदुः।
Link copiedस कालेनेह महता योगो नष्टः परन्तप॥२॥
Link copiedयोऽयꣳ तवोदितो योगः स केवलꣳ युद्ध-प्रोत्साहनायेदानीम् उदित इति न मन्तव्यम्। मन्वन्तरादाव् एव निखिल-जगद्-उद्धरणाय परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया इमꣳ योगम् अहम् एव विवस्वते प्रोक्तवान्। विवस्वान् च मनवे मनुर् इक्ष्वाकव इत्य् एवꣳ सम्प्रदाय-परम्परया प्राप्तम् इमꣳ योगꣳ पूर्वे राजर्षायो विदुः। स महता कालेन तत्-तच्-छ्रोतृ-बुद्धि-मान्द्याद् विनष्ट-प्रायोऽभूत्॥४।१-२॥
Link copiedस एवायꣳ मया तेऽद्य योगः प्रोक्तः पुरातनः।
Link copiedभक्तोऽसि मे सखा चेति रहस्यꣳ ह्य् एतद् उत्तमम्॥३॥
Link copiedस एवायम् अस्खलित-स्वरूपः पुरातनः योगः सख्येनातिमात्र-भक्त्या च माम् एव प्रपन्नाय ते मया प्रोक्तः। स-परिकरः स-विस्तरम् उक्त इत्य् अर्थः। मद्-अन्येन केनापि ज्ञातुꣳ वक्तुꣳ वा न शक्यम्, यत इदꣳ वेदान्तोदितम् उत्तमꣳ रहस्यꣳ ज्ञानम्॥४।३॥
Link copiedअस्मिन् प्रसङ्गे भगवद्-अवतार-याथात्म्यꣳ यथावद् ज्ञातुम् अर्जुन उवाच---
Link copiedअपरꣳ भवतो जन्म परꣳ जन्म विवस्वतः।
Link copiedकथम् एतद् विजानीयाꣳ त्वम् आदौ प्रोक्तवान् इति॥४॥
Link copiedकाल-सङ्ख्यया अपरम् अस्मज्-जन्म-सम-कालꣳ हि भवतो जन्म। विवस्वतश् च काल-सङ्ख्यया परम् अष्ट-विꣳशति-चतुर्युग-सङ्ख्या-सङ्ख्यातम्। त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयꣳ विशेषेण यथार्थꣳ जानीयाम्।
Link copiedननु जन्मान्तरेणापि वक्तुꣳ शक्यम्। जन्मान्तर-कृतस्य महताꣳ स्मृतिश् च युज्यत इति नात्र कश्चिद् विरोधः। न चासौ वक्तारम् एनꣳ वसुदेव-तनयꣳ सर्वेश्वरꣳ न जानाति। यत एवꣳ वक्ष्यति---
Link copiedपरꣳ ब्रह्म परꣳ धाम पवित्रꣳ परमꣳ भवान्।
Link copiedपुरुषꣳ शाश्वतꣳ दिव्यम् आदि-देवम् अजꣳ विभुम्॥
Link copiedआहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा।
Link copiedअसितो देवलो व्यासः स्वयꣳ चैव ब्रवीषि मे॥ [गीता १०।१२-१३] इति।
Link copied
युधिष्ठिर-राजसूयादिषु भीष्मादिभ्यश् चासकृत् श्रुतम्---
Link copiedकृष्ण एव हि लोकानाम् उत्पत्तिर् अपि चाप्य् अयः।
Link copiedकृष्णस्य हि कृते भूतम् इदꣳ विश्वꣳ चराचरम्॥ [म।भा। २।३८।२३]
Link copiedइत्य् एवम् आदिषु। कृष्णस्य हि कृते इति कृष्णस्य शेष-भूतम् इदꣳ कृत्स्नꣳ जगद् इत्य् अर्थः।
Link copiedअत्रोच्यते--- जानात्य् एवायꣳ भगवन्तꣳ वसुदेव-तनयꣳ पार्थः। जानतोऽप्य् अजानत इव पृच्छतोऽयम् आशयः--- निखिल-हेय-प्रत्यनीक-कल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्य-सङ्कल्पस्य चावाप्त-समस्त-कामस्य कर्म-परवश-देव-मनुष्यादि-सजातीयꣳ जन्म किम् इन्द्रजालादिवन् मिथ्या उत सत्यम्। सत्यत्वे च कथꣳ जन्म-प्रकारः। किम्-आत्मकोऽयꣳ देहः। कश् च जन्म-हेतुः। कदा च जन्म। किम्-अर्थꣳ वा जन्म। इति परिहार-प्रकारेण प्रश्नार्थो विज्ञायते॥४।४॥
Link copiedपरिहरन् श्री-भगवान् उवाच---
Link copiedबहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
Link copiedतान्य् अहꣳ वेद सर्वाणि न त्वꣳ वेत्थ परन्तप॥५॥
Link copiedअनेन जन्मनः सत्यत्वम् उक्तꣳ बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टन्ततया उपादानाच् च॥४।५॥
Link copiedआत्मनोऽवतार-प्रकारꣳ देह-याथात्म्यꣳ जन्म-हेतुꣳ चाह---
Link copiedअजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्।
Link copiedप्रकृतिꣳ स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया॥६॥
Link copiedअजत्वाव्ययत्व-सर्वेश्वरत्वादि-सर्वꣳ पारमेश्वरꣳ प्रकारम् अजहद् एव स्वाꣳ प्रकृतिम् अधिष्ठाय आत्म-मायया सम्भवामि। प्रकृतिः स्वभावः, स्वम् एव स्वभावम् अधिष्ठाय स्वेनैव रूपेण स्वेच्छया सम्भवामीत्य् अर्थः।
Link copiedस्वरूपꣳ हि--- आदित्य-वर्णꣳ तमसः परस्तात् [य।वे। ३१।१८], क्षयन्तम् अस्य रजसः पराके [सा।वे। १७।१।४।२], य एषोऽन्तरादित्ये हिरण्मयः पुरुषः [छा।उ। १।६।६], तस्मिन्न् अयꣳ पुरुषो मनोमयोऽमृतो हिरण्मयः [तै।उ। १।६।१] सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [य।वे। ३२।२], भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः [छा।उ। ३।१४।२], माहारजनꣳ वासः [बृ।आ।उ। २।३।६] इत्य्-आदि-श्रुति-सिद्धम्।
Link copiedआत्म-मायया आत्मीयया मायया। माया वयुनꣳ ज्ञानम् [निघण्टु २२] इति ज्ञान-पर्यायोऽत्र माया-शब्दः। तथा चाभियुक्त-प्रयोगः--- मायया सततꣳ वेत्ति प्राणिनाꣳ च शुभाशुभम् इति। आत्मीयेन ज्ञानेन आत्म-सङ्कल्पेनेत्य् अर्थः।
Link copiedअतोऽपहत-पाप्मत्वादि-समस्त-कल्याण-गुणात्मकत्वꣳ सर्वम् ऐश्वरꣳ स्वभावम् अजहद् एव स्वम् एव रूपꣳ देव-मनुष्यादि-सजातीय-स्थानꣳ कुर्वन् आत्म-सङ्कल्पेन देवादि-रूपः सम्भवामि। तद् इदम् आह--- अजायमानो बहुधा विजायते [य।वे। ३१।१९] इति श्रुतिः। इतर-पुरुष-साधारणꣳ जन्म अकुर्वन् देवादि-रूपेण स्व-सङ्कल्पेन उक्त-प्रक्रियया जायत इत्य् अर्थः। बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्य् अहꣳ वेद सर्वाणि [गीता ४।५] तद् आत्मानꣳ सृजाम्य् अहम् [गीता ४।७], जन्म कर्म च मे दिव्यम् एवꣳ यो वेत्ति तत्त्वतः [गीता ४।९] इति पूर्वापराविरोधाच् च॥४।६॥
Link copiedजन्म-कालम् आह---
Link copiedयदा यदा हि धर्मस्य ग्लानिर् भवति भारत।
Link copiedअभ्युत्थानम् अधर्मस्य तदात्मानꣳ सृजाम्य् अहम्॥७॥
Link copiedन काल-नियमोऽस्मत्-सम्भवस्य। यदा यदा हि धर्मस्य वेदेनोदितस्य चातुर्वर्ण्य-चातुराश्रम्य-व्यवस्थयावस्थितस्य कर्तव्यस्य ग्लानिर् भवति, यदा यदा च तद्-विपर्ययस्याधर्मस्य अभ्युत्थानꣳ, तदाहम् एव स्व-सङ्कल्पेनोक्त-प्रकारेणात्मानꣳ सृजामि॥४।७॥
Link copiedजन्मनः प्रयोजनम् आह---
Link copiedपरित्राणाय साधूनाꣳ विनाशाय च दुष्कृताम्।
Link copiedधर्म-सꣳस्थापनार्थाय सम्भवामि युगे युगे॥८॥
Link copiedसाधव उक्त-लक्षण-धर्म-शीला वैष्णवाग्रेसरा मत्-समाश्रयणे प्रवृत्ता मन्-नाम-कर्म-स्वरूपाणाम् अवाङ्-मनसागोचरतया मद्-दर्शनाद् ऋते स्वात्म-धारण-पोषणादि-सुखम् अलभमाना अणु-मात्र-कालम् अपि कल्प-सहस्राꣳ मन्वानाः प्रशिथिल-सर्व-गात्रा भवेयुर् इति मत्-स्वरूप-चेष्टितावलोकनालापादि-दानेन तेषाꣳ परित्राणाय तद्-विपरीतानाꣳ विनाशाय च क्षीणस्य वैदिक-धर्मस्य मद्-आराधन-रूपस्य आराध्य-स्वरूप-प्रदर्शनेन तस्य स्थापनाय च देव-मनुष्यादि-रूपेण युगे युगे सम्भवामि। कृत-त्रेतादि-युग-विशेष-नियमोऽपि नास्तीत्य् अर्थः॥४।८॥
Link copiedजन्म कर्म च मे दिव्यम् एवꣳ यो वेत्ति तत्त्वतः।
Link copiedत्यक्त्वा देहꣳ पुनर् जन्म नैति माम् एति सोऽर्जुन॥९॥
Link copiedएवꣳ कर्म-मूल-भूत-हेय-त्रिगुण-प्रकृति-सꣳसर्ग-रूप-जन्म-रहितस्य सर्वेश्वरत्व-सर्वज्ञत्व-सत्य-सङ्कल्पत्वादि-समस्त-कल्याण-गुणोपेतस्य साधु-परित्राण-मत्-समाश्रयणैक-प्रयोजनꣳ दिव्यम् अप्राकृतꣳ मद्-असाधारणꣳ मम जन्म चेष्टितꣳ च तत्त्वतो यो वेत्ति स वर्तमानꣳ देहꣳ परित्यज्य पुनर् जन्म नैति माम् एव प्राप्नोति। मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम् आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति॥४।९॥
Link copiedतद् आह---
Link copiedवीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः।
Link copiedबहवो ज्ञान-तपसा पूता मद्-भावम् आगताः॥१०॥
Link copiedमदीय-जन्म-कर्म-तत्त्व-ज्ञानाख्येन तपसा पूता बहव एवꣳ सꣳवृत्ताः। तथा च श्रुतिः--- तस्य धीराः परिजानन्ति योनिम् इति। धीरा धीमताम् अग्रेसरा एव तस्य जन्म-प्रकारꣳ जानन्तीत्य् अर्थः॥४।१०॥
Link copiedन केवलꣳ देव-मनुष्यादि-रूपेणावतीर्य मत्-समाश्रयणापेक्षाणाꣳ परित्राणꣳ करोमि। अपि तु---
Link copiedये यथा माꣳ प्रपद्यन्ते ताꣳस् तथैव भजाम्य् अहम्।
Link copiedमम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥११॥
Link copiedये मत्-समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपꣳ माꣳ सङ्कल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्-मनीषित-प्रकारेण भजामि माꣳ दर्शयामि। किम् अत्र बहुना। सर्वे मनुष्या मद्-अनुवर्तनैक-मनोरथा मम वत्र्म मत्-स्वभावꣳ सर्वꣳ योगिनाꣳ वाङ्-मनसागोचरम् अपि स्वकीयैश् चक्षुरादि-करणैः सर्वशः स्वापेक्षितैः सर्व-प्रकारैर् अनुभूय अनुवर्तन्ते॥४।११॥
Link copiedइदानीꣳ प्रासङ्गिकꣳ परिसमाप्य प्रकृतस्य कर्म-योगस्य ज्ञानाकारता-प्रकारꣳ वक्तुꣳ तथा-विध-कर्म-योगाधिकारिणो दुर्लभत्वम् आह---
Link copiedकाङ्क्षन्तः कर्मणाꣳ सिद्धिꣳ यजन्त इह देवताः।
Link copiedक्षिप्रꣳ हि मानुषे लोके सिद्धिर् भवति कर्मजा॥१२॥
Link copiedसर्व एव पुरुषाः कर्मणाꣳ फलꣳ काङ्क्षमाणा इन्द्रादि-देवता यथा-शास्त्रꣳ यजन्ते आराधयन्ति। न तु कश्चिद् अनभिसꣳहित-फल इन्द्रादि-देवतात्म-भूतꣳ सर्व-यज्ञानाꣳ भोक्तारꣳ माꣳ यजते। कुत एतत्। यतः क्षिप्रम् अस्मिन् एव मानुषे लोके कर्मजा पुत्र-पश्व्-अन्नाद्या सिद्धिर् भवति। मनुष्य-लोक-शब्दः स्वर्गादि-लोक-प्रदर्शनार्थः।
Link copiedसर्व एव हि लौकिकाः पुरुषा आक्षीणानादि-काल-प्रवृत्तानन्त-पाप-सञ्चयतया अविवेकिनः क्षिप्र-फलाभिकाङ्क्षिणः पुत्र-पश्व्-अन्नादि-स्वर्गाद्य्-अर्थतया सर्वाणि कर्माणि, इन्द्रादि-देवताराधन-मात्राणि कुर्वते। न तु कश्चित् सꣳसारोद्विग्न-हृदयो मुमुक्षुर् उक्त-लक्षणꣳ कर्म-योगꣳ मद्-आराधन-भूतम् आरभते इत्य् अर्थः॥४।१२॥
Link copiedयथोक्त-कर्म-योगारम्भ-विरोधि-पाप-क्षय-हेतुम् आह---
Link copiedचातुर्-वर्ण्यꣳ मया सृष्टꣳ गुण-कर्म-विभागशः।
Link copiedतस्य कर्तारम् अपि माꣳ विद्ध्य् अकर्तारम् अव्ययम्॥१३॥
Link copiedचातुर्वर्ण्य-प्रमुखꣳ ब्रह्मादि-स्तम्ब-पर्यन्तꣳ कृत्स्नꣳ जगत् सत्त्वादि-गुण-विभागेन तद्-अनुगुण-शमादि-कर्म-विभागेन च प्रविभक्तꣳ मया सृष्टम्। सृष्टि-ग्रहणꣳ प्रदर्शनार्थम्। मयैव रक्ष्यते, मयैव च उपसꣳह्रियते। तस्य विचित्र-सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारꣳ माꣳ विद्धि॥४।१३॥
Link copiedकथम् इत्य् अत्र आह---
Link copiedन माꣳ कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा।
Link copiedइति माꣳ योऽभिजानाति कर्मभिर् न स बध्यते॥१४॥
Link copiedयत इमानि विचित्र-सृष्ट्य्-आदीनि न माꣳ कर्माणि लिम्पन्ति न माꣳ सम्बध्नन्ति। न मत्-प्रयुक्तानीमानि देव-मनुष्यादि-वैचित्र्याणि सृज्यानाꣳ पुण्य-पाप-रूप-कर्म-विशेष-प्रयुक्तानीत्य् अर्थः। अतः प्राप्ताप्राप्त-विवेकन विचित्र-सृष्टय्-आदेः नाहꣳ कर्ता। यतश् च सृष्टः क्षेत्र-ज्ञाः सृष्टि-लब्ध-करण-कलेवराः सृष्टि-लब्धꣳ भोग्य-जातꣳ फल-सङ्गादि-हेतु-स्व-कर्मानुगुणꣳ भुञ्जते, सृष्ट्य्-आदि-कर्म-फले च तेषाम् एव स्पृहेति न मे स्पृहा।
Link copiedतथा सूत्र-कारः--- वैषम्य-नैर्घृण्ये न सापेक्षत्वात् [वे।सू। २।१।३४] इति। तथाह भगवान् पराशरः---
Link copiedनिमित्त-मात्रम् एवायꣳ सृज्यानाꣳ सर्ग-कर्माणि।
Link copiedप्रधान-कारणीभूता यतो वै सृज्य-शक्तयः॥
Link copiedनिमित्त-मात्रꣳ मुक्त्वेदꣳ नान्यत् किञ्चिद् अपेक्ष्यते।
Link copiedनीयते तपताꣳ श्रेष्ठ स्व-शक्त्या वस्तु वस्तुताम्॥ [वि।पु। १।४।५१-५२] इति।
Link copied
सृज्यानाꣳ देवादीनाꣳ क्षेत्र-ज्ञानाꣳ सृष्टेः कारण-मात्रम् एवायꣳ परम-पुरुषः, देवादि-वैचित्र्ये तु प्रधान-कारणꣳ सृज्य-भूत-क्षेत्र-ज्ञानाꣳ प्राचीन-कर्म-शक्तय एव। अतो निमित्त-मात्रꣳ मुक्त्वा सृष्टेः कर्तारꣳ परम-पूरुषꣳ मुक्त्वेदꣳ क्षेत्र-ज्ञ-वस्तु देवादि-विचित्र-भावे न अन्यद् अपेक्षते। स्वगत-प्राचीन-कर्म-शक्त्या एव हि देवादि-वस्तु-भावꣳ नीयत इत्य् अर्थः।
Link copiedएवम् उक्तेन प्रकारेण सृष्ट्य्-आदेः कर्तारम् अप्य् अकर्तारꣳ सृष्ट्य्-आदि-कर्म-फल-सङ्ग-रहितꣳ च यो माम् अभिजानाति स कर्म-योगारम्भ-विरोधिभिः फल-सङ्गादि-हेतुभिः प्राचीन-कर्मभिः न सम्बध्यते। मुच्यत इत्य् अर्थः॥४।१४॥
Link copiedएवꣳ ज्ञात्वा कृतꣳ कर्म पूर्वैर् अपि मुमुक्षुभिः।
Link copiedकुरु कर्मैव तस्मात् त्वꣳ पूर्वैः पूर्वतरꣳ कृतम्॥१५॥
Link copiedएवꣳ माꣳ ज्ञात्वा अपि विमुक्त-पापैः पूर्वैर् अपि मुमुक्षुभिर् उक्त-लक्षणꣳ कर्म कृतम्। तस्मात् त्वम् उक्त-प्रकार-मद्-विषय-ज्ञान-विधूत-पापः पूर्वैर् विवस्वन्-मन्व्-आदिभिः कृतꣳ पूर्वतरꣳ पुरातनꣳ तदानीम् एव मयोक्तꣳ वक्ष्यमाणाकारꣳ कर्मैव कुरु॥४।१५॥
Link copiedवक्ष्यमाणस्य कर्मणो दुर्ज्ञानताम् आह---
Link copiedकिꣳ कर्म किम् अकर्मेति कवयोऽप्य् अत्र मोहिताः।
Link copiedतत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसेऽशुभात्॥१६॥
Link copiedमुमुक्षुणानुष्ठेयꣳ कर्म किꣳ-स्वरूपम्। अकर्म च किम्। फलाभिसन्धि-रहितꣳ भगवद्-आराधन-रूपꣳ कर्म। अकर्म इति कर्तुर् आत्मनो याथात्म्य-ज्ञानम् उच्यते। अनुष्ठेयꣳ कर्म तद्-अन्तर्गतꣳ ज्ञानꣳ च किꣳ-स्वरूपम्। इत्य् उभयत्र कवयो विद्वाꣳसोऽपि मोहिताः, यथार्थतया न जानन्ति। एवम् अन्तर्गत-ज्ञानꣳ यत् कर्म तत् ते प्रवक्ष्यामि। यद् ज्ञात्वा अनुष्ठाय अशुभात् सꣳसार-बन्धान् मोक्ष्यसे। कर्तव्य-कर्म-ज्ञानꣳ हि अनुष्ठान-फलम्॥४।१६॥
Link copiedकुतोऽस्य दुर्ज्ञानता। इत्य् अत्र आह---
Link copiedकर्मणो ह्य् अपि बोद्धव्यꣳ बोद्धव्यꣳ च विकर्मणः।
Link copiedअकर्मणश् च बोद्धव्यꣳ गहना कर्मणो गतिः॥१७॥
Link copiedयस्मात् मोक्ष-साधन-भूते कर्मणः स्वरूपे बोद्धव्यम् अस्ति। विकर्मणि च नित्य-नैमित्तिक-काम्य-कर्म-रूपेण तत्-साधन-द्रव्यार्जनाद्य्-आकारेण च, विविधताम् आपन्नꣳ कर्म विकर्म। अकर्मणि ज्ञाने च बोद्धव्यम् अस्ति। गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः। विकर्मणि च बोद्धव्यम्--- नित्य-नैमित्तिक-काम्य-द्रव्यार्जनादौ कर्मणि फल-भेद-कृतꣳ वैविध्यꣳ परित्यज्य मोक्षैक-फलतया एक-शास्त्रार्थत्वानुसन्धानम्। तद् एतद् व्यवसायात्मिका बुद्धिर् एका [२।४१] इत्य् अत्रैवोक्तम् इति नेह प्रपञ्च्यते॥४।१७॥
Link copiedकर्माकर्मणोर् बोद्धव्यम् आह---
Link copiedकर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः।
Link copiedस बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत्॥१८॥
Link copiedअकर्म-शब्देनात्र कर्मेतरत् प्रस्तुतम् आत्म-ज्ञानम् उच्यते। कर्मणि क्रियमाणे एव आत्म-ज्ञानꣳ यत् पश्येद् अकर्मणि चात्म-ज्ञाने वर्तमानैव यः कर्म पश्येत्। किम् उक्तꣳ भवति। क्रियमाणम् एव कर्मात्म-याथात्म्यानुसन्धानेन ज्ञानाकारꣳ यः पश्येत्, तच् च ज्ञानꣳ कर्मणि अन्तर्गततया कर्माकारꣳ यः पश्येद् इति उक्तꣳ भवति। क्रियमाणे हि कर्मणि कर्तृ-भूतात्म-याथात्म्यानुसन्धानेन तद् उभयꣳ सम्पन्नꣳ भवति।
Link copiedएवम् आत्म-याथात्म्यानुसन्धान-गर्भꣳ कर्म यः पश्येत् स बुद्धिमान् कृत्स्न-शास्त्रार्थ-वित्, मनुष्येषु स युक्तो मोक्षार्हः स एव कृत्स्न-कर्म-कृत् कृत्स्न-शास्त्रार्थ-कृत्॥४।१८॥
Link copiedप्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञानाकारता कथम् उपपद्यते। इत्य् अत्राह---
Link copiedयस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः।
Link copiedज्ञानाग्नि-दग्ध-कर्माणꣳ तम् आहुः पण्डितꣳ बुधाः॥१९॥
Link copiedयस्य मुमुक्षोः सर्वे द्रव्यार्जनादि-लौकिक-कर्म-पूर्वक-नित्य-नैमित्तिक-काम्य-रूप-कर्म-समारम्भाः काम-वर्जिताः फल-सङ्ग-रहिताः सङ्कल्प-वर्जिताश् च।
Link copiedप्रकृत्या तद्-गुणैश् चात्मानम् एकीकृत्य अनुसन्धानाꣳ सङ्कल्पः। प्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया तद्-रहिताः। तम् एवꣳ कर्म कुर्वाणꣳ पण्डितꣳ कर्मान्तर्गतात्म-याथात्म्य-ज्ञानाग्निना दग्ध-प्राचीन-कर्माणम् आहुस् तत्त्व-ज्ञाः॥४।१९॥
Link copiedअतः कर्मणो ज्ञानाकारत्वम् उपपद्यते। एतद् एव विवृणोति---
Link copiedत्यक्त्वा कर्म-फलासङ्गꣳ नित्य-तृप्तो निराश्रयः।
Link copiedकर्मण्य् अभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥२०॥
Link copiedकर्म-फलासङ्गꣳ त्यक्त्वा नित्य-तृप्तो नित्ये स्वात्मन्य् एव तृप्तो निराश्रयोऽस्थिर-प्रकृतौ आश्रय-बुद्धि-रहितो यः कर्माणि करोति, स कर्मण्य् आभिमुख्येन प्रवृत्तोऽपि नैव किञ्चित् कर्म करोति, कर्मापदेशेन ज्ञानाभ्यासम् एव करोतीत्य् अर्थः॥४।२०॥
Link copiedपुनर् अपि कर्मणा ज्ञानाकारता एव विशोध्यते---
Link copiedनिराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः।
Link copiedशारीरꣳ केवलꣳ कर्म कुर्वन् नाप्नोति किल्बिषम्॥२१॥
Link copiedनिराशीर् निर्गत-फलाभिसन्धिः, यत-चित्तात्मा यत-चित्तमनाः, त्यक्त-सर्व-परिग्रह आत्मैक-प्रयोजनतया प्रकृति-प्राकृत-वस्तुनि ममता-रहितो यावज्-जीवꣳ केवलꣳ शारीरम् एव कर्म कुर्वन् किल्बिषꣳ सꣳसारꣳ नाप्नोति। ज्ञान-निष्ठा-व्यवधान-रहित-केवल-कर्म-योगेन एवꣳ-रूपेणात्मानꣳ पश्यतीत्य् अर्थः॥४।२१॥
Link copiedयदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः।
Link copiedसमः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते॥२२॥
Link copiedयदृच्छोपनत-शरीर-धारण-हेतु-वस्तु-सन्तुष्टः द्वन्द्वातीतो यावत्-साधन-समाप्त्य्-अवर्जनीय-शीतोष्णादि-सहः। विमत्सरोऽनिष्टोपनिपात-हेतु-भूत-स्वकर्म-निरूपेण परेषु विगत-मत्सरः समः सिद्धौ असिद्धौ च युद्धादि-कर्मसु जयादि-सिद्ध्य्-असिद्ध्योः सम-चित्तः कर्मैव कृत्वापि ज्ञान-निष्ठाꣳ विनापि न निबध्यते, न सꣳसारꣳ प्रतिपद्यते॥४।२२॥
Link copiedगत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः।
Link copiedयज्ञायाचरतः कर्म समग्रꣳ प्रविलीयते॥२३॥
Link copiedआत्म-विषय-ज्ञानावस्थित-मनस्त्वेन विगत-तद्-इतर-सङ्गस्य तत एव निखिल-परिग्रह-विनिर्मुक्तस्योक्त-लक्षण-यज्ञादि-कर्म-निर्वृत्तये वर्तमानस्य पुरुषस्य बन्ध-हेतु-भूतꣳ प्राचीनꣳ कर्म समग्रꣳ प्रविलीयते निःशेषꣳ क्षीयते॥४।२३॥
Link copiedप्रकृति-वियुक्तात्म-स्वरूपानुसन्धान-युक्ततया कर्मणो ज्ञानाकारत्वम् उक्तम्। इदानीꣳ सर्वस्य स-परिकरस्य कर्मणः पर-ब्रह्म-भूत-परम-पुरुषात्मकत्वानुसन्धाना-युक्ततया ज्ञानाकारत्वम् आह---
Link copiedब्रह्मार्पणꣳ ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम्।
Link copiedब्रह्मैव तेन गन्तव्यꣳ ब्रह्म-कर्म-समाधिना॥२४॥
Link copiedहविर् विशेष्यते। अर्प्यतेऽनेनेत्य् अर्पणꣳ स्रुग्-आदि। तद् ब्रह्म-कार्यत्वाद् ब्रह्म, ब्रह्म यस्य हविषोऽर्पणꣳ तद् ब्रह्मार्पणम्। ब्रह्म हविः स्वयꣳ च ब्रह्म-भूतꣳ ब्रह्माग्नौ ब्रह्म-भूतेऽग्नौ ब्रह्मणा कर्त्रा हुतम्। इति सर्वꣳ कर्म ब्रह्मात्मकत्वाद् ब्रह्म-मयम् इति यः समाधत्ते, स ब्रह्म-कर्म-समाधिः। तेन ब्रह्म-कर्म-समाधिना ब्रह्मैव गन्तव्यम्। ब्रह्मात्मकतया ब्रह्म-भूतम् आत्म-स्वरूपꣳ गन्तव्यम्। मुमुक्षूणाꣳ क्रियमाणꣳ कर्म पर-ब्रह्मात्मकम् एव इत्य् अनुसन्धान-युक्ततया ज्ञानाकारꣳ साक्षाद् आत्मावलोकन-साधनम्, न ज्ञान-निष्ठा-व्यवधानेनेत्य् अर्थः॥४।२४॥
Link copiedएवꣳ कर्मणो ज्ञानाकारताꣳ प्रतिपाद्य कर्म-योग-भेदान् आह---
Link copiedदैवम् एवापरे यज्ञꣳ योगिनः पर्युपासते।
Link copiedब्रह्माग्नाव् अपरे यज्ञꣳ यज्ञेनैवोपजुह्वति॥२५॥
Link copiedदैवꣳ दैवार्चन-रूपꣳ यज्ञम् अपरे कर्म-योगिनः पर्युपासते सेवन्ते। तत्रैव निष्ठाꣳ कुर्वन्तीत्य् अर्थः। अपरे ब्रह्माग्नौ यज्ञꣳ यज्ञेनैव उपजुह्वति। यज्ञꣳ यज्ञ-रूपꣳ ब्रह्मात्मकम् आज्यादि-द्रव्यꣳ यज्ञेन यज्ञ-साधन-भूतेन स्रुग्-आदिना जुह्वति। अत्र यज्ञ-शब्दो हविः-स्रुग्-आदि-यज्ञ-साधने वर्तते। ब्रह्मार्पणꣳ ब्रह्म हविः इति न्यायेन याग-होमयोर् निष्ठाꣳ कुर्वन्ति॥४।२५॥
Link copiedश्रोत्रादीनीन्द्रियाण्य् अन्ये सꣳयमाग्निषु जुह्वति।
Link copiedशब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति॥२६॥
Link copiedअन्ये श्रोत्रादीनाम् इन्द्रियाणाꣳ सꣳयमने प्रयन्ते। शब्दादीन् विषयान् अन्ये योगिन इन्द्रियाणाꣳ शब्दादि-विषय-प्रवणता-निवारणे प्रयतन्ते॥४।२६॥
Link copiedसर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे।
Link copiedआत्म-सꣳयम-योगाग्नौ जुह्वति ज्ञान-दीपिते॥२७॥
Link copiedअन्ये ज्ञान-दीपिते मनः-सꣳयम-योगाग्नौ सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि च जुह्वति। मनस इन्द्रिय-प्राणानाꣳ कर्म-प्रवणता-निवारणे प्रयतन्त इत्य् अर्थः॥४।२७॥
Link copiedद्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे।
Link copiedस्वाध्याय-ज्ञान-यज्ञाश् च यतयः सꣳशित-व्रताः॥२८॥
Link copiedकेचित् कर्म-योगिनो द्रव्य-यज्ञाः, न्यायतो द्रव्याण्य् आदाय देवार्चने प्रयतन्ते, केचिच् च दानेषु, केचिच् च यागेषु, केचिच् च होमेषु, एते सर्वे द्रव्य-यज्ञाः। केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणोपवासादिषु निष्ठाꣳ कुर्वन्ति। योग-यज्ञाश् चापरे पुण्य-तीर्थ- पुण्य-स्थान-प्राप्तिषु निष्ठाꣳ कुर्वन्ति। इह योग-शब्दः कर्म-निष्ठा-भेद-प्रकरणात् तद्-विषयः। केचित् स्वाध्याय-पराः स्वाध्यायाभ्यास-पराः। केचित् तद्-अर्थ-ज्ञानाभ्यास-परा यतयो यतन-शीलाः। शꣳसित-व्रताः दृढ-सङ्कल्पाः॥४।२८॥
Link copiedअपाने जुह्वति प्राणꣳ प्राणेऽपानꣳ तथापरे।
Link copiedप्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः॥२९॥
Link copiedअपरे नियताहाराः प्राणान् प्राणेषु जुह्वति।
Link copiedसर्वेऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः॥३०॥
Link copiedअपरे कर्म-योगिनः प्राणायामेषु निष्ठाꣳ कुर्वन्ति। ते च त्रि-विधाः--- पूरक-रेचक-कुम्भक-भेदेन। अपाने जुह्वति प्राणम् इति पूरकः। प्राणेऽपानम् इति रेचकः। प्राणापान-गती रुद्ध्वा प्राणान् प्राणेषु जुह्वतीति कुम्भकः। प्राणायाम-परेषु त्रिष्व् अप्य् अनुषज्यते नियताहारा इति। द्रव्य-यज्ञ-प्रभृति-प्राणायाम-पर्यन्तेषु कर्म-योग-भेदेषु स्व-समीहितेषु प्रवृत्ता एते सर्वे सह-यज्ञैः प्रजाः सृष्ट्वा [३।१०] इति अभिहित-महा-यज्ञ-पूर्वक-नित्य-नैमित्तिक-कर्म-रूप-यज्ञ-विदः, तन्-निष्ठाः, तत एव क्षपित-कल्मषाः॥४।२९-।३०॥
Link copiedयज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम्।
Link copiedनायꣳ लोकोऽस्त्य् अयज्ञस्य कुतोऽन्यः कुरुसत्तम॥३१॥
Link copiedयज्ञ-शिष्टामृतेन शरीर-धारणꣳ कुर्वन्त एव कर्म-योगे व्यापृताः सनातनꣳ च ब्रह्म यान्ति। अयज्ञस्य महा-यज्ञादि-पूर्वक-नित्य-नैमित्तिक-कर्म-रहितस्य नायꣳ लोको न प्राकृत-लोकः प्राकृत-लोक-सम्बन्धि-धर्मार्थ-कामाख्यः पुरुषार्थो न सिध्यति। कुत
Link copiedइतोऽन्यो मोक्षाख्यः पुरुषार्थः। परम-पुरुषार्थतया मोक्षस्य प्रस्तुतत्वात् तद्-इतर-पुरुषार्थोऽयꣳ लोक इति निर्दिश्यते स हि प्राकृतः॥४।३१॥
Link copiedएवꣳ बहु-विधा यज्ञा वितता ब्रह्मणो मुखे।
Link copiedकर्मजान् विद्धि तान् सर्वान् एवꣳ ज्ञात्वा विमोक्ष्यसे॥३२॥
Link copiedएवꣳ हि बहु-प्रकाराः कर्म-योगा ब्रह्मणो मुखे वितताः। आत्म-याथात्म्यावाप्ति-साधनतया स्थिताः। तान् उक्त-लक्षणान् उक्त-भेदान् कर्म-योगान् सर्वान् कर्मजान् विद्धि। अहरहर् अनुष्ठीयमान-नित्य-नैमित्तिक-कर्मानुष्ठान-जान् विद्धि। एवꣳ ज्ञात्वा यथोक्त-प्रकारेण अनुष्ठाय विमोक्ष्यसे॥४।३२॥
Link copiedअन्तर्गत-ज्ञानतया कर्मणो ज्ञानाकारत्वम् उक्तम्। तत्रान्तर्गत-ज्ञाने कर्मणि ज्ञानाꣳशस्य एव प्राधान्यम् आह---
Link copiedश्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप।
Link copiedसर्वꣳ कर्माखिलꣳ पार्थ ज्ञाने परिसमाप्यते॥३३॥
Link copiedउभयाकारे कर्मणि द्रव्य-मयाद् अꣳशाद् ज्ञान-मयोऽꣳशः श्रेयान्। सर्वस्य कर्मणस् तद्-इतरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः। तद् एवꣳ सर्वैः साधनैः प्राप्य-भूतꣳ ज्ञानꣳ कर्मान्तर्गतत्वेन अभ्यस्यते। तद् एव हि अभ्यस्यमानꣳ क्रमेण प्राप्य-दशाꣳ प्रतिपद्यते॥४।३३॥
Link copiedतद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
Link copiedउपदेक्ष्यन्ति ते ज्ञानꣳ ज्ञानिनस् तत्त्व-दर्शिनः॥३४॥
Link copiedतद् आत्म-विषयꣳ ज्ञानम् अविनाशि तद् विद्धि [२।१७] इत्य् आरभ्य एषा तेऽभिहिता [२।३९] इत्य् अन्तेन मयोपदिष्टम् मद्-उक्त-कर्मणि वर्तमानस् त्वꣳ विपाकानुगुणꣳ काले काले प्रणिपात-परिप्रश्न-सेवादिभिर् विशदाकारꣳ ज्ञानिभ्यो विद्धि। साक्षात्-कृतात्म-स्वरूपास् तु ज्ञानिनः प्रणिपातादिभिः सेविता ज्ञान-बुभुत्सया परितः पृच्छतस् तवाशयम् आलक्ष्य ज्ञानम् उपदेक्ष्यन्ति॥४।३४॥
Link copiedआत्म-याथात्म्य-विषय-साक्षात्कार-रूपस्य लक्षणम् आह---
Link copiedयज् ज्ञात्वा न पुनर् मोहम् एवꣳ यास्यसि पाण्डव।
Link copiedयेन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि॥३५॥
Link copiedयज् ज्ञानꣳ ज्ञात्वा पुनर् एवꣳ देहाद्य्-आत्माभिमान-रूपꣳ तत्-कृतꣳ ममताद्य्-आस्पदꣳ च मोहꣳ न यास्यसि, येन देव-मनुष्याद्य्-आकारेणानुसꣳहितानि सर्वाणि भूतानि स्वात्मन्य् एव द्रक्ष्यसि। यतस् तवान्येषाꣳ च भूतानाꣳ प्रकृति-वियुक्तानाꣳ ज्ञानैकाकारतया साम्यम्। प्रकृति-सꣳसर्ग-दोष-विनिर्मुक्तम् आत्म-स्वरूपꣳ सर्वꣳ समम् इति च वक्ष्यते निर्दोषꣳ हि समꣳ ब्रह्म [गीता ५।१९] इति।
Link copiedअथो मयि सर्वाणि भूतान्य् अशेषेण द्रक्ष्यसि, मत्-स्वरूप-साम्याच् च परिशुद्धस्य सर्वस्य आत्म-वस्तुनः। इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः [गीता १४।२] इति हि वक्ष्यते तथा विद्वान् पुण्य-पापे विधूय, निरञ्जनः परमꣳ साम्यम् उपैति [मु।उ। ३।१।३] इत्य् एवम् आदिषु नाम-रूप-विनिर्मुक्तस्य आत्म-वस्तुनः परꣳ स्वरूप-साम्यम् अवगम्यते। अतः प्रकृति-विनिर्मुक्तꣳ सर्वम् आत्म-वस्तु परस्परꣳ समꣳ सर्वेश्वरेण च समम्॥४।३५॥
Link copiedअपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः।
Link copiedसर्वꣳ ज्ञान-प्लवेनैव वृजिनꣳ सन्तरिष्यसि॥३६॥
Link copiedयद्यपि सर्वेभ्यः पाप-कृत्तमोऽसि सर्वꣳ पूर्वार्जितꣳ वृजिन-रूपꣳ समुद्रम् आत्म-विषय-ज्ञान-रूप-प्लवेनैव सन्तरिष्यसि॥४।३६॥
Link copiedयथैधाꣳसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन।
Link copiedज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा॥३७॥
Link copiedसम्यक् प्रवृद्धोऽग्निर् इन्धन-समुच्चयम् इवात्म-याथात्म्य-ज्ञान-रूपोऽग्निर् जीवात्म-गतम् अनादि-काल-प्रवृत्तानन्त-कर्म-सञ्चयꣳ भस्मीकरोति॥४।३७॥
Link copiedन हि ज्ञानेन सदृशꣳ पवित्रम् इह विद्यते।
Link copiedतत् स्वयꣳ योग-सꣳसिद्धः कालेनात्मनि विन्दति॥३८॥
Link copiedयस्माद् आत्म-ज्ञानेन सदृशꣳ पवित्रꣳ शुद्धि-करम् इह जगति वस्त्व्-अन्तरꣳ न विद्यते, तस्माद् आत्म-ज्ञानꣳ सर्वꣳ पापꣳ नाशयतीत्य् अर्थः। तत् तथा-विधꣳ ज्ञानꣳ यथोपदेशम् अहरहर् अनुष्ठीयमानꣳ ज्ञानाकार-कर्म-योगेन सꣳसिद्धः कालेन स्वात्मनि स्वयम् एव लभते॥४।३८॥
Link copiedतद् एव स्पष्टम् आह---
Link copiedश्रद्धावाꣳल् लभते ज्ञानꣳ तत्-परः सꣳयतेन्द्रियः।
Link copiedज्ञानꣳ लब्ध्वा पराꣳ शान्तिम् अचिरेणाधिगच्छति॥३९॥
Link copiedएवम् उपदेशाज् ज्ञानꣳ लब्ध्वा चोपदिष्ट-ज्ञान-वृद्धौ श्रद्धावान् तत्-परस् तत्रैव नियमित-मनास् तद्-इतर-विषयात् सꣳयतेन्द्रियोऽचिरेण कालेनोक्त-लक्षण-विपाक-दशापन्नꣳ ज्ञानꣳ लभते। तथा-विधꣳ ज्ञानꣳ लब्ध्वा पराꣳ शान्तिम् अचिरेण अधिगच्छति परꣳ निर्वाणꣳ प्राप्नोति॥४।३९॥
Link copiedअज्ञश् चाश्रद्दधानश् च सꣳशयात्मा विनश्यति।
Link copiedनायꣳ लोकोऽस्ति न परो न सुखꣳ सꣳशयात्मनः॥४०॥
Link copiedअज्ञ एवम् उपदेश-लब्ध-ज्ञान-रहित उपदिष्ट-ज्ञान-वृद्ध्य्-उपाये चाश्रद्दधानोऽत्वरमाण उपदिष्टे च ज्ञाने सꣳशयात्मा सꣳशयित-मना विनश्यति, नष्टो भवति। अस्मिन्न् उपदिष्टे आत्म-याथात्म्य-विषये ज्ञाने सꣳशयात्मनोऽयम् अपि प्राकृत-लोको नास्ति, न च परः। धर्मार्थ-कामादि-पुरुषार्थाश् च न सिद्ध्यन्ति, कुतो मोक्ष इत्य् अर्थः।
Link copiedशास्त्रीय-कर्म-सिद्धि-रूपत्वात् सर्वेषाꣳ पुरुषार्थानाꣳ शास्त्रीय-कर्म-जन्य-सिराश् च देहातिरिक्तात्म-निश्चय-पूर्वकत्वात्। अतः सुख-लव-भागित्वम् आत्मनि सꣳशयात्मनो न सम्भवति॥४।४०॥
Link copiedयोग-सन्न्यस्त-कर्माणꣳ ज्ञान-सञ्छिन्न-सꣳशयम्।
Link copiedआत्मवन्तꣳ न कर्माणि निबध्नन्ति धनञ्जय॥४१॥
Link copiedयथोपदिष्ट-योगेन सन्न्यस्त-कर्माणꣳ ज्ञानाकारतापन्न-कर्माणꣳ यथोपदिष्टेन चात्म-ज्ञानेनात्मनि सञ्छिन्न-सꣳशयम् आत्मवन्तꣳ मनस्विनम् उपदिष्टार्थो दृढावस्थित-मनसꣳ बन्ध-हेतु-भूत-प्राचीनानन्त-कर्माणि न निबध्नन्ति॥४।४१॥
Link copiedतस्माद् अज्ञान-सम्भूतꣳ हृत्-स्थꣳ ज्ञानासिनात्मनः।
Link copiedछित्त्वैनꣳ सꣳशयꣳ योगम् आतिष्ठोत्तिष्ठ भारत॥४२॥
Link copiedतस्माद् अनाद्य्-अज्ञान-सम्भूतꣳ हृत्-स्थम् आत्म-विषयꣳ सꣳशयꣳ मयोपदिष्टेनात्म-ज्ञानासिना छित्त्वा मयोपदिष्टꣳ कर्म-योगम् आतिष्ठ तद्-अर्थम् उत्तिष्ठ भारतेति॥४।४२॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये चतुर्थोऽध्यायः ॥४॥
Link copiedతృతీయేఽధ్యాయే ప్రకృతి-సṁసృష్టస్య ముముక్షోః సహసా జ్ఞాన-యోగేఽనధికారాత్ కర్మ-యోగ ఏవ కార్యః। జ్ఞాన-యోగాధికారిణోఽప్య్ అకర్తృత్వానుసన్ధాన-పూర్వకṁ కర్మ-యోగ ఏవ శ్రేయాన్ ఇతి సహేతుకమ్ ఉక్తమ్। ఇవ్శిష్టతయా వ్యపదేశ్యస్య తు విశేషతః కర్మ-యోగ ఏవ కార్య ఇతి చోక్తమ్। చతుర్థేనేదానీమ్ అస్యైవ కర్మ-యోగస్య నిఖిల-జగద్-ఉద్ధరణాయ మన్వన్తరాదావ్ ఏవోపదిష్టతయా కర్తవ్యతాṁ ద్రఢయిత్వా అన్తర్గత-జ్ఞానతత్యాఽస్యైవ జ్ఞాన-యోగాకారతాṁ ప్రదర్శ్య, కర్మ-యోగ-స్వరూపṁ తద్-భేదాః కర్మ-యోగే జ్ఞానాṁశస్యైవ ప్రాధాన్యṁ చోచ్యతే। ప్రసఙ్గాచ్ చ భగవద్-అవతార-యాథాత్మ్యమ్ ఉచ్యతే---
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedఇమṁ వివస్వతే యోగṁ ప్రోక్తవాన్ అహమ్ అవ్యయమ్।
Link copiedవివస్వాన్ మనవే ప్రాహ మనుర్ ఇక్ష్వాకవేఽబ్రవీత్॥౧॥
Link copiedఏవṁ పరమ్పరా-ప్రాప్తమ్ ఇమṁ రాజర్షయో విదుః।
Link copiedస కాలేనేహ మహతా యోగో నష్టః పరన్తప॥౨॥
Link copiedయోఽయṁ తవోదితో యోగః స కేవలṁ యుద్ధ-ప్రోత్సాహనాయేదానీమ్ ఉదిత ఇతి న మన్తవ్యమ్। మన్వన్తరాదావ్ ఏవ నిఖిల-జగద్-ఉద్ధరణాయ పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనతయా ఇమṁ యోగమ్ అహమ్ ఏవ వివస్వతే ప్రోక్తవాన్। వివస్వాన్ చ మనవే మనుర్ ఇక్ష్వాకవ ఇత్య్ ఏవṁ సమ్ప్రదాయ-పరమ్పరయా ప్రాప్తమ్ ఇమṁ యోగṁ పూర్వే రాజర్షాయో విదుః। స మహతా కాలేన తత్-తచ్-ఛ్రోతృ-బుద్ధి-మాన్ద్యాద్ వినష్ట-ప్రాయోఽభూత్॥౪।౧-౨॥
Link copiedస ఏవాయṁ మయా తేఽద్య యోగః ప్రోక్తః పురాతనః।
Link copiedభక్తోఽసి మే సఖా చేతి రహస్యṁ హ్య్ ఏతద్ ఉత్తమమ్॥౩॥
Link copiedస ఏవాయమ్ అస్ఖలిత-స్వరూపః పురాతనః యోగః సఖ్యేనాతిమాత్ర-భక్త్యా చ మామ్ ఏవ ప్రపన్నాయ తే మయా ప్రోక్తః। స-పరికరః స-విస్తరమ్ ఉక్త ఇత్య్ అర్థః। మద్-అన్యేన కేనాపి జ్ఞాతుṁ వక్తుṁ వా న శక్యమ్, యత ఇదṁ వేదాన్తోదితమ్ ఉత్తమṁ రహస్యṁ జ్ఞానమ్॥౪।౩॥
Link copiedఅస్మిన్ ప్రసఙ్గే భగవద్-అవతార-యాథాత్మ్యṁ యథావద్ జ్ఞాతుమ్ అర్జున ఉవాచ---
Link copiedఅపరṁ భవతో జన్మ పరṁ జన్మ వివస్వతః।
Link copiedకథమ్ ఏతద్ విజానీయాṁ త్వమ్ ఆదౌ ప్రోక్తవాన్ ఇతి॥౪॥
Link copiedకాల-సఙ్ఖ్యయా అపరమ్ అస్మజ్-జన్మ-సమ-కాలṁ హి భవతో జన్మ। వివస్వతశ్ చ కాల-సఙ్ఖ్యయా పరమ్ అష్ట-విṁశతి-చతుర్యుగ-సఙ్ఖ్యా-సఙ్ఖ్యాతమ్। త్వమ్ ఏవ ఆదౌ ప్రోక్తవాన్ ఇతి కథమ్ ఏతద్ అసమ్భావనీయṁ విశేషేణ యథార్థṁ జానీయామ్।
Link copiedనను జన్మాన్తరేణాపి వక్తుṁ శక్యమ్। జన్మాన్తర-కృతస్య మహతాṁ స్మృతిశ్ చ యుజ్యత ఇతి నాత్ర కశ్చిద్ విరోధః। న చాసౌ వక్తారమ్ ఏనṁ వసుదేవ-తనయṁ సర్వేశ్వరṁ న జానాతి। యత ఏవṁ వక్ష్యతి---
Link copiedపరṁ బ్రహ్మ పరṁ ధామ పవిత్రṁ పరమṁ భవాన్।
Link copiedపురుషṁ శాశ్వతṁ దివ్యమ్ ఆది-దేవమ్ అజṁ విభుమ్॥
Link copiedఆహుస్ త్వామ్ ఋషయః సర్వే దేవర్షిర్ నారదస్ తథా।
Link copiedఅసితో దేవలో వ్యాసః స్వయṁ చైవ బ్రవీషి మే॥ [గీతా ౧౦।౧౨-౧౩] ఇతి।
Link copied
యుధిష్ఠిర-రాజసూయాదిషు భీష్మాదిభ్యశ్ చాసకృత్ శ్రుతమ్---
Link copiedకృష్ణ ఏవ హి లోకానామ్ ఉత్పత్తిర్ అపి చాప్య్ అయః।
Link copiedకృష్ణస్య హి కృతే భూతమ్ ఇదṁ విశ్వṁ చరాచరమ్॥ [మ।భా। ౨।౩౮।౨౩]
Link copiedఇత్య్ ఏవమ్ ఆదిషు। కృష్ణస్య హి కృతే ఇతి కృష్ణస్య శేష-భూతమ్ ఇదṁ కృత్స్నṁ జగద్ ఇత్య్ అర్థః।
Link copiedఅత్రోచ్యతే--- జానాత్య్ ఏవాయṁ భగవన్తṁ వసుదేవ-తనయṁ పార్థః। జానతోఽప్య్ అజానత ఇవ పృచ్ఛతోఽయమ్ ఆశయః--- నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైకతానస్య సర్వేశ్వరస్య సర్వజ్ఞస్య సత్య-సఙ్కల్పస్య చావాప్త-సమస్త-కామస్య కర్మ-పరవశ-దేవ-మనుష్యాది-సజాతీయṁ జన్మ కిమ్ ఇన్ద్రజాలాదివన్ మిథ్యా ఉత సత్యమ్। సత్యత్వే చ కథṁ జన్మ-ప్రకారః। కిమ్-ఆత్మకోఽయṁ దేహః। కశ్ చ జన్మ-హేతుః। కదా చ జన్మ। కిమ్-అర్థṁ వా జన్మ। ఇతి పరిహార-ప్రకారేణ ప్రశ్నార్థో విజ్ఞాయతే॥౪।౪॥
Link copiedపరిహరన్ శ్రీ-భగవాన్ ఉవాచ---
Link copiedబహూని మే వ్యతీతాని జన్మాని తవ చార్జున।
Link copiedతాన్య్ అహṁ వేద సర్వాణి న త్వṁ వేత్థ పరన్తప॥౫॥
Link copiedఅనేన జన్మనః సత్యత్వమ్ ఉక్తṁ బహూని మే వ్యతీతాని జన్మానీతి వచనాత్, తవ చేతి దృష్టన్తతయా ఉపాదానాచ్ చ॥౪।౫॥
Link copiedఆత్మనోఽవతార-ప్రకారṁ దేహ-యాథాత్మ్యṁ జన్మ-హేతుṁ చాహ---
Link copiedఅజోఽపి సన్న్ అవ్యయాత్మా భూతానామ్ ఈశ్వరోఽపి సన్।
Link copiedప్రకృతిṁ స్వామ్ అధిష్ఠాయ సమ్భవామ్య్ ఆత్మ-మాయయా॥౬॥
Link copiedఅజత్వావ్యయత్వ-సర్వేశ్వరత్వాది-సర్వṁ పారమేశ్వరṁ ప్రకారమ్ అజహద్ ఏవ స్వాṁ ప్రకృతిమ్ అధిష్ఠాయ ఆత్మ-మాయయా సమ్భవామి। ప్రకృతిః స్వభావః, స్వమ్ ఏవ స్వభావమ్ అధిష్ఠాయ స్వేనైవ రూపేణ స్వేచ్ఛయా సమ్భవామీత్య్ అర్థః।
Link copiedస్వరూపṁ హి--- ఆదిత్య-వర్ణṁ తమసః పరస్తాత్ [య।వే। ౩౧।౧౮], క్షయన్తమ్ అస్య రజసః పరాకే [సా।వే। ౧౭।౧।౪।౨], య ఏషోఽన్తరాదిత్యే హిరణ్మయః పురుషః [ఛా।ఉ। ౧।౬।౬], తస్మిన్న్ అయṁ పురుషో మనోమయోఽమృతో హిరణ్మయః [తై।ఉ। ౧।౬।౧] సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాదధి [య।వే। ౩౨।౨], భా-రూపః సత్య-సఙ్కల్ప ఆకాశాత్మా సర్వ-కర్మా సర్వ-కామః సర్వ-గన్ధః సర్వ-రసః [ఛా।ఉ। ౩।౧౪।౨], మాహారజనṁ వాసః [బృ।ఆ।ఉ। ౨।౩।౬] ఇత్య్-ఆది-శ్రుతి-సిద్ధమ్।
Link copiedఆత్మ-మాయయా ఆత్మీయయా మాయయా। మాయా వయునṁ జ్ఞానమ్ [నిఘణ్టు ౨౨] ఇతి జ్ఞాన-పర్యాయోఽత్ర మాయా-శబ్దః। తథా చాభియుక్త-ప్రయోగః--- మాయయా సతతṁ వేత్తి ప్రాణినాṁ చ శుభాశుభమ్ ఇతి। ఆత్మీయేన జ్ఞానేన ఆత్మ-సఙ్కల్పేనేత్య్ అర్థః।
Link copiedఅతోఽపహత-పాప్మత్వాది-సమస్త-కల్యాణ-గుణాత్మకత్వṁ సర్వమ్ ఐశ్వరṁ స్వభావమ్ అజహద్ ఏవ స్వమ్ ఏవ రూపṁ దేవ-మనుష్యాది-సజాతీయ-స్థానṁ కుర్వన్ ఆత్మ-సఙ్కల్పేన దేవాది-రూపః సమ్భవామి। తద్ ఇదమ్ ఆహ--- అజాయమానో బహుధా విజాయతే [య।వే। ౩౧।౧౯] ఇతి శ్రుతిః। ఇతర-పురుష-సాధారణṁ జన్మ అకుర్వన్ దేవాది-రూపేణ స్వ-సఙ్కల్పేన ఉక్త-ప్రక్రియయా జాయత ఇత్య్ అర్థః। బహూని మే వ్యతీతాని జన్మాని తవ చార్జున। తాన్య్ అహṁ వేద సర్వాణి [గీతా ౪।౫] తద్ ఆత్మానṁ సృజామ్య్ అహమ్ [గీతా ౪।౭], జన్మ కర్మ చ మే దివ్యమ్ ఏవṁ యో వేత్తి తత్త్వతః [గీతా ౪।౯] ఇతి పూర్వాపరావిరోధాచ్ చ॥౪।౬॥
Link copiedజన్మ-కాలమ్ ఆహ---
Link copiedయదా యదా హి ధర్మస్య గ్లానిర్ భవతి భారత।
Link copiedఅభ్యుత్థానమ్ అధర్మస్య తదాత్మానṁ సృజామ్య్ అహమ్॥౭॥
Link copiedన కాల-నియమోఽస్మత్-సమ్భవస్య। యదా యదా హి ధర్మస్య వేదేనోదితస్య చాతుర్వర్ణ్య-చాతురాశ్రమ్య-వ్యవస్థయావస్థితస్య కర్తవ్యస్య గ్లానిర్ భవతి, యదా యదా చ తద్-విపర్యయస్యాధర్మస్య అభ్యుత్థానṁ, తదాహమ్ ఏవ స్వ-సఙ్కల్పేనోక్త-ప్రకారేణాత్మానṁ సృజామి॥౪।౭॥
Link copiedజన్మనః ప్రయోజనమ్ ఆహ---
Link copiedపరిత్రాణాయ సాధూనాṁ వినాశాయ చ దుష్కృతామ్।
Link copiedధర్మ-సṁస్థాపనార్థాయ సమ్భవామి యుగే యుగే॥౮॥
Link copiedసాధవ ఉక్త-లక్షణ-ధర్మ-శీలా వైష్ణవాగ్రేసరా మత్-సమాశ్రయణే ప్రవృత్తా మన్-నామ-కర్మ-స్వరూపాణామ్ అవాఙ్-మనసాగోచరతయా మద్-దర్శనాద్ ఋతే స్వాత్మ-ధారణ-పోషణాది-సుఖమ్ అలభమానా అణు-మాత్ర-కాలమ్ అపి కల్ప-సహస్రాṁ మన్వానాః ప్రశిథిల-సర్వ-గాత్రా భవేయుర్ ఇతి మత్-స్వరూప-చేష్టితావలోకనాలాపాది-దానేన తేషాṁ పరిత్రాణాయ తద్-విపరీతానాṁ వినాశాయ చ క్షీణస్య వైదిక-ధర్మస్య మద్-ఆరాధన-రూపస్య ఆరాధ్య-స్వరూప-ప్రదర్శనేన తస్య స్థాపనాయ చ దేవ-మనుష్యాది-రూపేణ యుగే యుగే సమ్భవామి। కృత-త్రేతాది-యుగ-విశేష-నియమోఽపి నాస్తీత్య్ అర్థః॥౪।౮॥
Link copiedజన్మ కర్మ చ మే దివ్యమ్ ఏవṁ యో వేత్తి తత్త్వతః।
Link copiedత్యక్త్వా దేహṁ పునర్ జన్మ నైతి మామ్ ఏతి సోఽర్జున॥౯॥
Link copiedఏవṁ కర్మ-మూల-భూత-హేయ-త్రిగుణ-ప్రకృతి-సṁసర్గ-రూప-జన్మ-రహితస్య సర్వేశ్వరత్వ-సర్వజ్ఞత్వ-సత్య-సఙ్కల్పత్వాది-సమస్త-కల్యాణ-గుణోపేతస్య సాధు-పరిత్రాణ-మత్-సమాశ్రయణైక-ప్రయోజనṁ దివ్యమ్ అప్రాకృతṁ మద్-అసాధారణṁ మమ జన్మ చేష్టితṁ చ తత్త్వతో యో వేత్తి స వర్తమానṁ దేహṁ పరిత్యజ్య పునర్ జన్మ నైతి మామ్ ఏవ ప్రాప్నోతి। మదీయ-దివ్య-జన్మ-చేష్టిత-యాథాత్మ్య-విజ్ఞానేన విధ్వస్త-సమస్త-మత్-సమాశ్రయణ-విరోధి-పాప్మాస్మిన్న్ ఏవ జన్మని యథోదిత-ప్రకారేణ మామ్ ఆశ్రిత్య మద్-ఏక-ప్రియో మద్-ఏక-చిత్తో మామ్ ఏవ ప్రాప్నోతి॥౪।౯॥
Link copiedతద్ ఆహ---
Link copiedవీత-రాగ-భయ-క్రోధా మన్-మయా మామ్ ఉపాశ్రితాః।
Link copiedబహవో జ్ఞాన-తపసా పూతా మద్-భావమ్ ఆగతాః॥౧౦॥
Link copiedమదీయ-జన్మ-కర్మ-తత్త్వ-జ్ఞానాఖ్యేన తపసా పూతా బహవ ఏవṁ సṁవృత్తాః। తథా చ శ్రుతిః--- తస్య ధీరాః పరిజానన్తి యోనిమ్ ఇతి। ధీరా ధీమతామ్ అగ్రేసరా ఏవ తస్య జన్మ-ప్రకారṁ జానన్తీత్య్ అర్థః॥౪।౧౦॥
Link copiedన కేవలṁ దేవ-మనుష్యాది-రూపేణావతీర్య మత్-సమాశ్రయణాపేక్షాణాṁ పరిత్రాణṁ కరోమి। అపి తు---
Link copiedయే యథా మాṁ ప్రపద్యన్తే తాṁస్ తథైవ భజామ్య్ అహమ్।
Link copiedమమ వర్త్మానువర్తన్తే మనుష్యాః పార్థ సర్వశః॥౧౧॥
Link copiedయే మత్-సమాశ్రయణాపేక్షా యథా యేన ప్రకారేణ స్వాపేక్షానురూపṁ మాṁ సఙ్కల్ప్య ప్రపద్యన్తే సమాశ్రయన్తే తాన్ ప్రతి తథైవ తన్-మనీషిత-ప్రకారేణ భజామి మాṁ దర్శయామి। కిమ్ అత్ర బహునా। సర్వే మనుష్యా మద్-అనువర్తనైక-మనోరథా మమ వత్ర్మ మత్-స్వభావṁ సర్వṁ యోగినాṁ వాఙ్-మనసాగోచరమ్ అపి స్వకీయైశ్ చక్షురాది-కరణైః సర్వశః స్వాపేక్షితైః సర్వ-ప్రకారైర్ అనుభూయ అనువర్తన్తే॥౪।౧౧॥
Link copiedఇదానీṁ ప్రాసఙ్గికṁ పరిసమాప్య ప్రకృతస్య కర్మ-యోగస్య జ్ఞానాకారతా-ప్రకారṁ వక్తుṁ తథా-విధ-కర్మ-యోగాధికారిణో దుర్లభత్వమ్ ఆహ---
Link copiedకాఙ్క్షన్తః కర్మణాṁ సిద్ధిṁ యజన్త ఇహ దేవతాః।
Link copiedక్షిప్రṁ హి మానుషే లోకే సిద్ధిర్ భవతి కర్మజా॥౧౨॥
Link copiedసర్వ ఏవ పురుషాః కర్మణాṁ ఫలṁ కాఙ్క్షమాణా ఇన్ద్రాది-దేవతా యథా-శాస్త్రṁ యజన్తే ఆరాధయన్తి। న తు కశ్చిద్ అనభిసṁహిత-ఫల ఇన్ద్రాది-దేవతాత్మ-భూతṁ సర్వ-యజ్ఞానాṁ భోక్తారṁ మాṁ యజతే। కుత ఏతత్। యతః క్షిప్రమ్ అస్మిన్ ఏవ మానుషే లోకే కర్మజా పుత్ర-పశ్వ్-అన్నాద్యా సిద్ధిర్ భవతి। మనుష్య-లోక-శబ్దః స్వర్గాది-లోక-ప్రదర్శనార్థః।
Link copiedసర్వ ఏవ హి లౌకికాః పురుషా ఆక్షీణానాది-కాల-ప్రవృత్తానన్త-పాప-సఞ్చయతయా అవివేకినః క్షిప్ర-ఫలాభికాఙ్క్షిణః పుత్ర-పశ్వ్-అన్నాది-స్వర్గాద్య్-అర్థతయా సర్వాణి కర్మాణి, ఇన్ద్రాది-దేవతారాధన-మాత్రాణి కుర్వతే। న తు కశ్చిత్ సṁసారోద్విగ్న-హృదయో ముముక్షుర్ ఉక్త-లక్షణṁ కర్మ-యోగṁ మద్-ఆరాధన-భూతమ్ ఆరభతే ఇత్య్ అర్థః॥౪।౧౨॥
Link copiedయథోక్త-కర్మ-యోగారమ్భ-విరోధి-పాప-క్షయ-హేతుమ్ ఆహ---
Link copiedచాతుర్-వర్ణ్యṁ మయా సృష్టṁ గుణ-కర్మ-విభాగశః।
Link copiedతస్య కర్తారమ్ అపి మాṁ విద్ధ్య్ అకర్తారమ్ అవ్యయమ్॥౧౩॥
Link copiedచాతుర్వర్ణ్య-ప్రముఖṁ బ్రహ్మాది-స్తమ్బ-పర్యన్తṁ కృత్స్నṁ జగత్ సత్త్వాది-గుణ-విభాగేన తద్-అనుగుణ-శమాది-కర్మ-విభాగేన చ ప్రవిభక్తṁ మయా సృష్టమ్। సృష్టి-గ్రహణṁ ప్రదర్శనార్థమ్। మయైవ రక్ష్యతే, మయైవ చ ఉపసṁహ్రియతే। తస్య విచిత్ర-సృష్ట్య్-ఆదేః కర్తారమ్ అప్య్ అకర్తారṁ మాṁ విద్ధి॥౪।౧౩॥
Link copiedకథమ్ ఇత్య్ అత్ర ఆహ---
Link copiedన మాṁ కర్మాణి లిమ్పన్తి న మే కర్మ-ఫలే స్పృహా।
Link copiedఇతి మాṁ యోఽభిజానాతి కర్మభిర్ న స బధ్యతే॥౧౪॥
Link copiedయత ఇమాని విచిత్ర-సృష్ట్య్-ఆదీని న మాṁ కర్మాణి లిమ్పన్తి న మాṁ సమ్బధ్నన్తి। న మత్-ప్రయుక్తానీమాని దేవ-మనుష్యాది-వైచిత్ర్యాణి సృజ్యానాṁ పుణ్య-పాప-రూప-కర్మ-విశేష-ప్రయుక్తానీత్య్ అర్థః। అతః ప్రాప్తాప్రాప్త-వివేకన విచిత్ర-సృష్టయ్-ఆదేః నాహṁ కర్తా। యతశ్ చ సృష్టః క్షేత్ర-జ్ఞాః సృష్టి-లబ్ధ-కరణ-కలేవరాః సృష్టి-లబ్ధṁ భోగ్య-జాతṁ ఫల-సఙ్గాది-హేతు-స్వ-కర్మానుగుణṁ భుఞ్జతే, సృష్ట్య్-ఆది-కర్మ-ఫలే చ తేషామ్ ఏవ స్పృహేతి న మే స్పృహా।
Link copiedతథా సూత్ర-కారః--- వైషమ్య-నైర్ఘృణ్యే న సాపేక్షత్వాత్ [వే।సూ। ౨।౧।౩౪] ఇతి। తథాహ భగవాన్ పరాశరః---
Link copiedనిమిత్త-మాత్రమ్ ఏవాయṁ సృజ్యానాṁ సర్గ-కర్మాణి।
Link copiedప్రధాన-కారణీభూతా యతో వై సృజ్య-శక్తయః॥
Link copiedనిమిత్త-మాత్రṁ ముక్త్వేదṁ నాన్యత్ కిఞ్చిద్ అపేక్ష్యతే।
Link copiedనీయతే తపతాṁ శ్రేష్ఠ స్వ-శక్త్యా వస్తు వస్తుతామ్॥ [వి।పు। ౧।౪।౫౧-౫౨] ఇతి।
Link copied
సృజ్యానాṁ దేవాదీనాṁ క్షేత్ర-జ్ఞానాṁ సృష్టేః కారణ-మాత్రమ్ ఏవాయṁ పరమ-పురుషః, దేవాది-వైచిత్ర్యే తు ప్రధాన-కారణṁ సృజ్య-భూత-క్షేత్ర-జ్ఞానాṁ ప్రాచీన-కర్మ-శక్తయ ఏవ। అతో నిమిత్త-మాత్రṁ ముక్త్వా సృష్టేః కర్తారṁ పరమ-పూరుషṁ ముక్త్వేదṁ క్షేత్ర-జ్ఞ-వస్తు దేవాది-విచిత్ర-భావే న అన్యద్ అపేక్షతే। స్వగత-ప్రాచీన-కర్మ-శక్త్యా ఏవ హి దేవాది-వస్తు-భావṁ నీయత ఇత్య్ అర్థః।
Link copiedఏవమ్ ఉక్తేన ప్రకారేణ సృష్ట్య్-ఆదేః కర్తారమ్ అప్య్ అకర్తారṁ సృష్ట్య్-ఆది-కర్మ-ఫల-సఙ్గ-రహితṁ చ యో మామ్ అభిజానాతి స కర్మ-యోగారమ్భ-విరోధిభిః ఫల-సఙ్గాది-హేతుభిః ప్రాచీన-కర్మభిః న సమ్బధ్యతే। ముచ్యత ఇత్య్ అర్థః॥౪।౧౪॥
Link copiedఏవṁ జ్ఞాత్వా కృతṁ కర్మ పూర్వైర్ అపి ముముక్షుభిః।
Link copiedకురు కర్మైవ తస్మాత్ త్వṁ పూర్వైః పూర్వతరṁ కృతమ్॥౧౫॥
Link copiedఏవṁ మాṁ జ్ఞాత్వా అపి విముక్త-పాపైః పూర్వైర్ అపి ముముక్షుభిర్ ఉక్త-లక్షణṁ కర్మ కృతమ్। తస్మాత్ త్వమ్ ఉక్త-ప్రకార-మద్-విషయ-జ్ఞాన-విధూత-పాపః పూర్వైర్ వివస్వన్-మన్వ్-ఆదిభిః కృతṁ పూర్వతరṁ పురాతనṁ తదానీమ్ ఏవ మయోక్తṁ వక్ష్యమాణాకారṁ కర్మైవ కురు॥౪।౧౫॥
Link copiedవక్ష్యమాణస్య కర్మణో దుర్జ్ఞానతామ్ ఆహ---
Link copiedకిṁ కర్మ కిమ్ అకర్మేతి కవయోఽప్య్ అత్ర మోహితాః।
Link copiedతత్ తే కర్మ ప్రవక్ష్యామి యజ్ జ్ఞాత్వా మోక్ష్యసేఽశుభాత్॥౧౬॥
Link copiedముముక్షుణానుష్ఠేయṁ కర్మ కిṁ-స్వరూపమ్। అకర్మ చ కిమ్। ఫలాభిసన్ధి-రహితṁ భగవద్-ఆరాధన-రూపṁ కర్మ। అకర్మ ఇతి కర్తుర్ ఆత్మనో యాథాత్మ్య-జ్ఞానమ్ ఉచ్యతే। అనుష్ఠేయṁ కర్మ తద్-అన్తర్గతṁ జ్ఞానṁ చ కిṁ-స్వరూపమ్। ఇత్య్ ఉభయత్ర కవయో విద్వాṁసోఽపి మోహితాః, యథార్థతయా న జానన్తి। ఏవమ్ అన్తర్గత-జ్ఞానṁ యత్ కర్మ తత్ తే ప్రవక్ష్యామి। యద్ జ్ఞాత్వా అనుష్ఠాయ అశుభాత్ సṁసార-బన్ధాన్ మోక్ష్యసే। కర్తవ్య-కర్మ-జ్ఞానṁ హి అనుష్ఠాన-ఫలమ్॥౪।౧౬॥
Link copiedకుతోఽస్య దుర్జ్ఞానతా। ఇత్య్ అత్ర ఆహ---
Link copiedకర్మణో హ్య్ అపి బోద్ధవ్యṁ బోద్ధవ్యṁ చ వికర్మణః।
Link copiedఅకర్మణశ్ చ బోద్ధవ్యṁ గహనా కర్మణో గతిః॥౧౭॥
Link copiedయస్మాత్ మోక్ష-సాధన-భూతే కర్మణః స్వరూపే బోద్ధవ్యమ్ అస్తి। వికర్మణి చ నిత్య-నైమిత్తిక-కామ్య-కర్మ-రూపేణ తత్-సాధన-ద్రవ్యార్జనాద్య్-ఆకారేణ చ, వివిధతామ్ ఆపన్నṁ కర్మ వికర్మ। అకర్మణి జ్ఞానే చ బోద్ధవ్యమ్ అస్తి। గహనా దుర్విజ్ఞానా ముముక్షోః కర్మణో గతిః। వికర్మణి చ బోద్ధవ్యమ్--- నిత్య-నైమిత్తిక-కామ్య-ద్రవ్యార్జనాదౌ కర్మణి ఫల-భేద-కృతṁ వైవిధ్యṁ పరిత్యజ్య మోక్షైక-ఫలతయా ఏక-శాస్త్రార్థత్వానుసన్ధానమ్। తద్ ఏతద్ వ్యవసాయాత్మికా బుద్ధిర్ ఏకా [౨।౪౧] ఇత్య్ అత్రైవోక్తమ్ ఇతి నేహ ప్రపఞ్చ్యతే॥౪।౧౭॥
Link copiedకర్మాకర్మణోర్ బోద్ధవ్యమ్ ఆహ---
Link copiedకర్మణ్య్ అకర్మ యః పశ్యేద్ అకర్మణి చ కర్మ యః।
Link copiedస బుద్ధిమాన్ మనుష్యేషు స యుక్తః కృత్స్న-కర్మ-కృత్॥౧౮॥
Link copiedఅకర్మ-శబ్దేనాత్ర కర్మేతరత్ ప్రస్తుతమ్ ఆత్మ-జ్ఞానమ్ ఉచ్యతే। కర్మణి క్రియమాణే ఏవ ఆత్మ-జ్ఞానṁ యత్ పశ్యేద్ అకర్మణి చాత్మ-జ్ఞానే వర్తమానైవ యః కర్మ పశ్యేత్। కిమ్ ఉక్తṁ భవతి। క్రియమాణమ్ ఏవ కర్మాత్మ-యాథాత్మ్యానుసన్ధానేన జ్ఞానాకారṁ యః పశ్యేత్, తచ్ చ జ్ఞానṁ కర్మణి అన్తర్గతతయా కర్మాకారṁ యః పశ్యేద్ ఇతి ఉక్తṁ భవతి। క్రియమాణే హి కర్మణి కర్తృ-భూతాత్మ-యాథాత్మ్యానుసన్ధానేన తద్ ఉభయṁ సమ్పన్నṁ భవతి।
Link copiedఏవమ్ ఆత్మ-యాథాత్మ్యానుసన్ధాన-గర్భṁ కర్మ యః పశ్యేత్ స బుద్ధిమాన్ కృత్స్న-శాస్త్రార్థ-విత్, మనుష్యేషు స యుక్తో మోక్షార్హః స ఏవ కృత్స్న-కర్మ-కృత్ కృత్స్న-శాస్త్రార్థ-కృత్॥౪।౧౮॥
Link copiedప్రత్యక్షేణ క్రియమాణస్య కర్మణో జ్ఞానాకారతా కథమ్ ఉపపద్యతే। ఇత్య్ అత్రాహ---
Link copiedయస్య సర్వే సమారమ్భాః కామ-సఙ్కల్ప-వర్జితాః।
Link copiedజ్ఞానాగ్ని-దగ్ధ-కర్మాణṁ తమ్ ఆహుః పణ్డితṁ బుధాః॥౧౯॥
Link copiedయస్య ముముక్షోః సర్వే ద్రవ్యార్జనాది-లౌకిక-కర్మ-పూర్వక-నిత్య-నైమిత్తిక-కామ్య-రూప-కర్మ-సమారమ్భాః కామ-వర్జితాః ఫల-సఙ్గ-రహితాః సఙ్కల్ప-వర్జితాశ్ చ।
Link copiedప్రకృత్యా తద్-గుణైశ్ చాత్మానమ్ ఏకీకృత్య అనుసన్ధానాṁ సఙ్కల్పః। ప్రకృతి-వియుక్తాత్మ-స్వరూపానుసన్ధాన-యుక్తతయా తద్-రహితాః। తమ్ ఏవṁ కర్మ కుర్వాణṁ పణ్డితṁ కర్మాన్తర్గతాత్మ-యాథాత్మ్య-జ్ఞానాగ్నినా దగ్ధ-ప్రాచీన-కర్మాణమ్ ఆహుస్ తత్త్వ-జ్ఞాః॥౪।౧౯॥
Link copiedఅతః కర్మణో జ్ఞానాకారత్వమ్ ఉపపద్యతే। ఏతద్ ఏవ వివృణోతి---
Link copiedత్యక్త్వా కర్మ-ఫలాసఙ్గṁ నిత్య-తృప్తో నిరాశ్రయః।
Link copiedకర్మణ్య్ అభిప్రవృత్తోఽపి నైవ కిఞ్చిత్ కరోతి సః॥౨౦॥
Link copiedకర్మ-ఫలాసఙ్గṁ త్యక్త్వా నిత్య-తృప్తో నిత్యే స్వాత్మన్య్ ఏవ తృప్తో నిరాశ్రయోఽస్థిర-ప్రకృతౌ ఆశ్రయ-బుద్ధి-రహితో యః కర్మాణి కరోతి, స కర్మణ్య్ ఆభిముఖ్యేన ప్రవృత్తోఽపి నైవ కిఞ్చిత్ కర్మ కరోతి, కర్మాపదేశేన జ్ఞానాభ్యాసమ్ ఏవ కరోతీత్య్ అర్థః॥౪।౨౦॥
Link copiedపునర్ అపి కర్మణా జ్ఞానాకారతా ఏవ విశోధ్యతే---
Link copiedనిరాశీర్ యత-చిత్తాత్మా త్యక్త-సర్వ-పరిగ్రహః।
Link copiedశారీరṁ కేవలṁ కర్మ కుర్వన్ నాప్నోతి కిల్బిషమ్॥౨౧॥
Link copiedనిరాశీర్ నిర్గత-ఫలాభిసన్ధిః, యత-చిత్తాత్మా యత-చిత్తమనాః, త్యక్త-సర్వ-పరిగ్రహ ఆత్మైక-ప్రయోజనతయా ప్రకృతి-ప్రాకృత-వస్తుని మమతా-రహితో యావజ్-జీవṁ కేవలṁ శారీరమ్ ఏవ కర్మ కుర్వన్ కిల్బిషṁ సṁసారṁ నాప్నోతి। జ్ఞాన-నిష్ఠా-వ్యవధాన-రహిత-కేవల-కర్మ-యోగేన ఏవṁ-రూపేణాత్మానṁ పశ్యతీత్య్ అర్థః॥౪।౨౧॥
Link copiedయదృచ్ఛా-లాభ-సన్తుష్టో ద్వన్ద్వాతీతో విమత్సరః।
Link copiedసమః సిద్ధావ్ అసిద్ధౌ చ కృత్వాపి న నిబధ్యతే॥౨౨॥
Link copiedయదృచ్ఛోపనత-శరీర-ధారణ-హేతు-వస్తు-సన్తుష్టః ద్వన్ద్వాతీతో యావత్-సాధన-సమాప్త్య్-అవర్జనీయ-శీతోష్ణాది-సహః। విమత్సరోఽనిష్టోపనిపాత-హేతు-భూత-స్వకర్మ-నిరూపేణ పరేషు విగత-మత్సరః సమః సిద్ధౌ అసిద్ధౌ చ యుద్ధాది-కర్మసు జయాది-సిద్ధ్య్-అసిద్ధ్యోః సమ-చిత్తః కర్మైవ కృత్వాపి జ్ఞాన-నిష్ఠాṁ వినాపి న నిబధ్యతే, న సṁసారṁ ప్రతిపద్యతే॥౪।౨౨॥
Link copiedగత-సఙ్గస్య ముక్తస్య జ్ఞానావస్థిత-చేతసః।
Link copiedయజ్ఞాయాచరతః కర్మ సమగ్రṁ ప్రవిలీయతే॥౨౩॥
Link copiedఆత్మ-విషయ-జ్ఞానావస్థిత-మనస్త్వేన విగత-తద్-ఇతర-సఙ్గస్య తత ఏవ నిఖిల-పరిగ్రహ-వినిర్ముక్తస్యోక్త-లక్షణ-యజ్ఞాది-కర్మ-నిర్వృత్తయే వర్తమానస్య పురుషస్య బన్ధ-హేతు-భూతṁ ప్రాచీనṁ కర్మ సమగ్రṁ ప్రవిలీయతే నిఃశేషṁ క్షీయతే॥౪।౨౩॥
Link copiedప్రకృతి-వియుక్తాత్మ-స్వరూపానుసన్ధాన-యుక్తతయా కర్మణో జ్ఞానాకారత్వమ్ ఉక్తమ్। ఇదానీṁ సర్వస్య స-పరికరస్య కర్మణః పర-బ్రహ్మ-భూత-పరమ-పురుషాత్మకత్వానుసన్ధానా-యుక్తతయా జ్ఞానాకారత్వమ్ ఆహ---
Link copiedబ్రహ్మార్పణṁ బ్రహ్మ హవిర్ బ్రహ్మాగ్నౌ బ్రహ్మణా హుతమ్।
Link copiedబ్రహ్మైవ తేన గన్తవ్యṁ బ్రహ్మ-కర్మ-సమాధినా॥౨౪॥
Link copiedహవిర్ విశేష్యతే। అర్ప్యతేఽనేనేత్య్ అర్పణṁ స్రుగ్-ఆది। తద్ బ్రహ్మ-కార్యత్వాద్ బ్రహ్మ, బ్రహ్మ యస్య హవిషోఽర్పణṁ తద్ బ్రహ్మార్పణమ్। బ్రహ్మ హవిః స్వయṁ చ బ్రహ్మ-భూతṁ బ్రహ్మాగ్నౌ బ్రహ్మ-భూతేఽగ్నౌ బ్రహ్మణా కర్త్రా హుతమ్। ఇతి సర్వṁ కర్మ బ్రహ్మాత్మకత్వాద్ బ్రహ్మ-మయమ్ ఇతి యః సమాధత్తే, స బ్రహ్మ-కర్మ-సమాధిః। తేన బ్రహ్మ-కర్మ-సమాధినా బ్రహ్మైవ గన్తవ్యమ్। బ్రహ్మాత్మకతయా బ్రహ్మ-భూతమ్ ఆత్మ-స్వరూపṁ గన్తవ్యమ్। ముముక్షూణాṁ క్రియమాణṁ కర్మ పర-బ్రహ్మాత్మకమ్ ఏవ ఇత్య్ అనుసన్ధాన-యుక్తతయా జ్ఞానాకారṁ సాక్షాద్ ఆత్మావలోకన-సాధనమ్, న జ్ఞాన-నిష్ఠా-వ్యవధానేనేత్య్ అర్థః॥౪।౨౪॥
Link copiedఏవṁ కర్మణో జ్ఞానాకారతాṁ ప్రతిపాద్య కర్మ-యోగ-భేదాన్ ఆహ---
Link copiedదైవమ్ ఏవాపరే యజ్ఞṁ యోగినః పర్యుపాసతే।
Link copiedబ్రహ్మాగ్నావ్ అపరే యజ్ఞṁ యజ్ఞేనైవోపజుహ్వతి॥౨౫॥
Link copiedదైవṁ దైవార్చన-రూపṁ యజ్ఞమ్ అపరే కర్మ-యోగినః పర్యుపాసతే సేవన్తే। తత్రైవ నిష్ఠాṁ కుర్వన్తీత్య్ అర్థః। అపరే బ్రహ్మాగ్నౌ యజ్ఞṁ యజ్ఞేనైవ ఉపజుహ్వతి। యజ్ఞṁ యజ్ఞ-రూపṁ బ్రహ్మాత్మకమ్ ఆజ్యాది-ద్రవ్యṁ యజ్ఞేన యజ్ఞ-సాధన-భూతేన స్రుగ్-ఆదినా జుహ్వతి। అత్ర యజ్ఞ-శబ్దో హవిః-స్రుగ్-ఆది-యజ్ఞ-సాధనే వర్తతే। బ్రహ్మార్పణṁ బ్రహ్మ హవిః ఇతి న్యాయేన యాగ-హోమయోర్ నిష్ఠాṁ కుర్వన్తి॥౪।౨౫॥
Link copiedశ్రోత్రాదీనీన్ద్రియాణ్య్ అన్యే సṁయమాగ్నిషు జుహ్వతి।
Link copiedశబ్దాదీన్ విషయాన్ అన్య ఇన్ద్రియాగ్నిషు జుహ్వతి॥౨౬॥
Link copiedఅన్యే శ్రోత్రాదీనామ్ ఇన్ద్రియాణాṁ సṁయమనే ప్రయన్తే। శబ్దాదీన్ విషయాన్ అన్యే యోగిన ఇన్ద్రియాణాṁ శబ్దాది-విషయ-ప్రవణతా-నివారణే ప్రయతన్తే॥౪।౨౬॥
Link copiedసర్వాణీన్ద్రియ-కర్మాణి ప్రాణ-కర్మాణి చాపరే।
Link copiedఆత్మ-సṁయమ-యోగాగ్నౌ జుహ్వతి జ్ఞాన-దీపితే॥౨౭॥
Link copiedఅన్యే జ్ఞాన-దీపితే మనః-సṁయమ-యోగాగ్నౌ సర్వాణీన్ద్రియ-కర్మాణి ప్రాణ-కర్మాణి చ జుహ్వతి। మనస ఇన్ద్రియ-ప్రాణానాṁ కర్మ-ప్రవణతా-నివారణే ప్రయతన్త ఇత్య్ అర్థః॥౪।౨౭॥
Link copiedద్రవ్య-యజ్ఞాస్ తపో-యజ్ఞా యోగ-యజ్ఞాస్ తథాపరే।
Link copiedస్వాధ్యాయ-జ్ఞాన-యజ్ఞాశ్ చ యతయః సṁశిత-వ్రతాః॥౨౮॥
Link copiedకేచిత్ కర్మ-యోగినో ద్రవ్య-యజ్ఞాః, న్యాయతో ద్రవ్యాణ్య్ ఆదాయ దేవార్చనే ప్రయతన్తే, కేచిచ్ చ దానేషు, కేచిచ్ చ యాగేషు, కేచిచ్ చ హోమేషు, ఏతే సర్వే ద్రవ్య-యజ్ఞాః। కేచిత్ తపో-యజ్ఞాః కృచ్ఛ్ర-చాన్ద్రాయణోపవాసాదిషు నిష్ఠాṁ కుర్వన్తి। యోగ-యజ్ఞాశ్ చాపరే పుణ్య-తీర్థ- పుణ్య-స్థాన-ప్రాప్తిషు నిష్ఠాṁ కుర్వన్తి। ఇహ యోగ-శబ్దః కర్మ-నిష్ఠా-భేద-ప్రకరణాత్ తద్-విషయః। కేచిత్ స్వాధ్యాయ-పరాః స్వాధ్యాయాభ్యాస-పరాః। కేచిత్ తద్-అర్థ-జ్ఞానాభ్యాస-పరా యతయో యతన-శీలాః। శṁసిత-వ్రతాః దృఢ-సఙ్కల్పాః॥౪।౨౮॥
Link copiedఅపానే జుహ్వతి ప్రాణṁ ప్రాణేఽపానṁ తథాపరే।
Link copiedప్రాణాపాన-గతీ రుద్ధ్వా ప్రాణాయామ-పరాయణాః॥౨౯॥
Link copiedఅపరే నియతాహారాః ప్రాణాన్ ప్రాణేషు జుహ్వతి।
Link copiedసర్వేఽప్య్ ఏతే యజ్ఞ-విదో యజ్ఞ-క్షపిత-కల్మషాః॥౩౦॥
Link copiedఅపరే కర్మ-యోగినః ప్రాణాయామేషు నిష్ఠాṁ కుర్వన్తి। తే చ త్రి-విధాః--- పూరక-రేచక-కుమ్భక-భేదేన। అపానే జుహ్వతి ప్రాణమ్ ఇతి పూరకః। ప్రాణేఽపానమ్ ఇతి రేచకః। ప్రాణాపాన-గతీ రుద్ధ్వా ప్రాణాన్ ప్రాణేషు జుహ్వతీతి కుమ్భకః। ప్రాణాయామ-పరేషు త్రిష్వ్ అప్య్ అనుషజ్యతే నియతాహారా ఇతి। ద్రవ్య-యజ్ఞ-ప్రభృతి-ప్రాణాయామ-పర్యన్తేషు కర్మ-యోగ-భేదేషు స్వ-సమీహితేషు ప్రవృత్తా ఏతే సర్వే సహ-యజ్ఞైః ప్రజాః సృష్ట్వా [౩।౧౦] ఇతి అభిహిత-మహా-యజ్ఞ-పూర్వక-నిత్య-నైమిత్తిక-కర్మ-రూప-యజ్ఞ-విదః, తన్-నిష్ఠాః, తత ఏవ క్షపిత-కల్మషాః॥౪।౨౯-।౩౦॥
Link copiedయజ్ఞ-శిష్టామృత-భుజో యాన్తి బ్రహ్మ సనాతనమ్।
Link copiedనాయṁ లోకోఽస్త్య్ అయజ్ఞస్య కుతోఽన్యః కురుసత్తమ॥౩౧॥
Link copiedయజ్ఞ-శిష్టామృతేన శరీర-ధారణṁ కుర్వన్త ఏవ కర్మ-యోగే వ్యాపృతాః సనాతనṁ చ బ్రహ్మ యాన్తి। అయజ్ఞస్య మహా-యజ్ఞాది-పూర్వక-నిత్య-నైమిత్తిక-కర్మ-రహితస్య నాయṁ లోకో న ప్రాకృత-లోకః ప్రాకృత-లోక-సమ్బన్ధి-ధర్మార్థ-కామాఖ్యః పురుషార్థో న సిధ్యతి। కుత
Link copiedఇతోఽన్యో మోక్షాఖ్యః పురుషార్థః। పరమ-పురుషార్థతయా మోక్షస్య ప్రస్తుతత్వాత్ తద్-ఇతర-పురుషార్థోఽయṁ లోక ఇతి నిర్దిశ్యతే స హి ప్రాకృతః॥౪।౩౧॥
Link copiedఏవṁ బహు-విధా యజ్ఞా వితతా బ్రహ్మణో ముఖే।
Link copiedకర్మజాన్ విద్ధి తాన్ సర్వాన్ ఏవṁ జ్ఞాత్వా విమోక్ష్యసే॥౩౨॥
Link copiedఏవṁ హి బహు-ప్రకారాః కర్మ-యోగా బ్రహ్మణో ముఖే వితతాః। ఆత్మ-యాథాత్మ్యావాప్తి-సాధనతయా స్థితాః। తాన్ ఉక్త-లక్షణాన్ ఉక్త-భేదాన్ కర్మ-యోగాన్ సర్వాన్ కర్మజాన్ విద్ధి। అహరహర్ అనుష్ఠీయమాన-నిత్య-నైమిత్తిక-కర్మానుష్ఠాన-జాన్ విద్ధి। ఏవṁ జ్ఞాత్వా యథోక్త-ప్రకారేణ అనుష్ఠాయ విమోక్ష్యసే॥౪।౩౨॥
Link copiedఅన్తర్గత-జ్ఞానతయా కర్మణో జ్ఞానాకారత్వమ్ ఉక్తమ్। తత్రాన్తర్గత-జ్ఞానే కర్మణి జ్ఞానాṁశస్య ఏవ ప్రాధాన్యమ్ ఆహ---
Link copiedశ్రేయాన్ ద్రవ్య-మయాద్ యజ్ఞాజ్ జ్ఞాన-యజ్ఞః పరన్తప।
Link copiedసర్వṁ కర్మాఖిలṁ పార్థ జ్ఞానే పరిసమాప్యతే॥౩౩॥
Link copiedఉభయాకారే కర్మణి ద్రవ్య-మయాద్ అṁశాద్ జ్ఞాన-మయోఽṁశః శ్రేయాన్। సర్వస్య కర్మణస్ తద్-ఇతరస్య చాఖిలస్యోపాదేయస్య జ్ఞానే పరిసమాప్తేః। తద్ ఏవṁ సర్వైః సాధనైః ప్రాప్య-భూతṁ జ్ఞానṁ కర్మాన్తర్గతత్వేన అభ్యస్యతే। తద్ ఏవ హి అభ్యస్యమానṁ క్రమేణ ప్రాప్య-దశాṁ ప్రతిపద్యతే॥౪।౩౩॥
Link copiedతద్ విద్ధి ప్రణిపాతేన పరిప్రశ్నేన సేవయా।
Link copiedఉపదేక్ష్యన్తి తే జ్ఞానṁ జ్ఞానినస్ తత్త్వ-దర్శినః॥౩౪॥
Link copiedతద్ ఆత్మ-విషయṁ జ్ఞానమ్ అవినాశి తద్ విద్ధి [౨।౧౭] ఇత్య్ ఆరభ్య ఏషా తేఽభిహితా [౨।౩౯] ఇత్య్ అన్తేన మయోపదిష్టమ్ మద్-ఉక్త-కర్మణి వర్తమానస్ త్వṁ విపాకానుగుణṁ కాలే కాలే ప్రణిపాత-పరిప్రశ్న-సేవాదిభిర్ విశదాకారṁ జ్ఞానిభ్యో విద్ధి। సాక్షాత్-కృతాత్మ-స్వరూపాస్ తు జ్ఞానినః ప్రణిపాతాదిభిః సేవితా జ్ఞాన-బుభుత్సయా పరితః పృచ్ఛతస్ తవాశయమ్ ఆలక్ష్య జ్ఞానమ్ ఉపదేక్ష్యన్తి॥౪।౩౪॥
Link copiedఆత్మ-యాథాత్మ్య-విషయ-సాక్షాత్కార-రూపస్య లక్షణమ్ ఆహ---
Link copiedయజ్ జ్ఞాత్వా న పునర్ మోహమ్ ఏవṁ యాస్యసి పాణ్డవ।
Link copiedయేన భూతాన్య్ అశేషేణ ద్రక్ష్యస్య్ ఆత్మన్య్ అథో మయి॥౩౫॥
Link copiedయజ్ జ్ఞానṁ జ్ఞాత్వా పునర్ ఏవṁ దేహాద్య్-ఆత్మాభిమాన-రూపṁ తత్-కృతṁ మమతాద్య్-ఆస్పదṁ చ మోహṁ న యాస్యసి, యేన దేవ-మనుష్యాద్య్-ఆకారేణానుసṁహితాని సర్వాణి భూతాని స్వాత్మన్య్ ఏవ ద్రక్ష్యసి। యతస్ తవాన్యేషాṁ చ భూతానాṁ ప్రకృతి-వియుక్తానాṁ జ్ఞానైకాకారతయా సామ్యమ్। ప్రకృతి-సṁసర్గ-దోష-వినిర్ముక్తమ్ ఆత్మ-స్వరూపṁ సర్వṁ సమమ్ ఇతి చ వక్ష్యతే నిర్దోషṁ హి సమṁ బ్రహ్మ [గీతా ౫।౧౯] ఇతి।
Link copiedఅథో మయి సర్వాణి భూతాన్య్ అశేషేణ ద్రక్ష్యసి, మత్-స్వరూప-సామ్యాచ్ చ పరిశుద్ధస్య సర్వస్య ఆత్మ-వస్తునః। ఇదṁ జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్యమ్ ఆగతాః [గీతా ౧౪।౨] ఇతి హి వక్ష్యతే తథా విద్వాన్ పుణ్య-పాపే విధూయ, నిరఞ్జనః పరమṁ సామ్యమ్ ఉపైతి [ము।ఉ। ౩।౧।౩] ఇత్య్ ఏవమ్ ఆదిషు నామ-రూప-వినిర్ముక్తస్య ఆత్మ-వస్తునః పరṁ స్వరూప-సామ్యమ్ అవగమ్యతే। అతః ప్రకృతి-వినిర్ముక్తṁ సర్వమ్ ఆత్మ-వస్తు పరస్పరṁ సమṁ సర్వేశ్వరేణ చ సమమ్॥౪।౩౫॥
Link copiedఅపి చేద్ అసి పాపేభ్యః సర్వేభ్యః పాప-కృత్తమః।
Link copiedసర్వṁ జ్ఞాన-ప్లవేనైవ వృజినṁ సన్తరిష్యసి॥౩౬॥
Link copiedయద్యపి సర్వేభ్యః పాప-కృత్తమోఽసి సర్వṁ పూర్వార్జితṁ వృజిన-రూపṁ సముద్రమ్ ఆత్మ-విషయ-జ్ఞాన-రూప-ప్లవేనైవ సన్తరిష్యసి॥౪।౩౬॥
Link copiedయథైధాṁసి సమిద్ధోఽగ్నిర్ భస్మసాత్ కురుతేఽర్జున।
Link copiedజ్ఞానాగ్నిః సర్వ-కర్మాణి భస్మసాత్ కురుతే తథా॥౩౭॥
Link copiedసమ్యక్ ప్రవృద్ధోఽగ్నిర్ ఇన్ధన-సముచ్చయమ్ ఇవాత్మ-యాథాత్మ్య-జ్ఞాన-రూపోఽగ్నిర్ జీవాత్మ-గతమ్ అనాది-కాల-ప్రవృత్తానన్త-కర్మ-సఞ్చయṁ భస్మీకరోతి॥౪।౩౭॥
Link copiedన హి జ్ఞానేన సదృశṁ పవిత్రమ్ ఇహ విద్యతే।
Link copiedతత్ స్వయṁ యోగ-సṁసిద్ధః కాలేనాత్మని విన్దతి॥౩౮॥
Link copiedయస్మాద్ ఆత్మ-జ్ఞానేన సదృశṁ పవిత్రṁ శుద్ధి-కరమ్ ఇహ జగతి వస్త్వ్-అన్తరṁ న విద్యతే, తస్మాద్ ఆత్మ-జ్ఞానṁ సర్వṁ పాపṁ నాశయతీత్య్ అర్థః। తత్ తథా-విధṁ జ్ఞానṁ యథోపదేశమ్ అహరహర్ అనుష్ఠీయమానṁ జ్ఞానాకార-కర్మ-యోగేన సṁసిద్ధః కాలేన స్వాత్మని స్వయమ్ ఏవ లభతే॥౪।౩౮॥
Link copiedతద్ ఏవ స్పష్టమ్ ఆహ---
Link copiedశ్రద్ధావాṁల్ లభతే జ్ఞానṁ తత్-పరః సṁయతేన్ద్రియః।
Link copiedజ్ఞానṁ లబ్ధ్వా పరాṁ శాన్తిమ్ అచిరేణాధిగచ్ఛతి॥౩౯॥
Link copiedఏవమ్ ఉపదేశాజ్ జ్ఞానṁ లబ్ధ్వా చోపదిష్ట-జ్ఞాన-వృద్ధౌ శ్రద్ధావాన్ తత్-పరస్ తత్రైవ నియమిత-మనాస్ తద్-ఇతర-విషయాత్ సṁయతేన్ద్రియోఽచిరేణ కాలేనోక్త-లక్షణ-విపాక-దశాపన్నṁ జ్ఞానṁ లభతే। తథా-విధṁ జ్ఞానṁ లబ్ధ్వా పరాṁ శాన్తిమ్ అచిరేణ అధిగచ్ఛతి పరṁ నిర్వాణṁ ప్రాప్నోతి॥౪।౩౯॥
Link copiedఅజ్ఞశ్ చాశ్రద్దధానశ్ చ సṁశయాత్మా వినశ్యతి।
Link copiedనాయṁ లోకోఽస్తి న పరో న సుఖṁ సṁశయాత్మనః॥౪౦॥
Link copiedఅజ్ఞ ఏవమ్ ఉపదేశ-లబ్ధ-జ్ఞాన-రహిత ఉపదిష్ట-జ్ఞాన-వృద్ధ్య్-ఉపాయే చాశ్రద్దధానోఽత్వరమాణ ఉపదిష్టే చ జ్ఞానే సṁశయాత్మా సṁశయిత-మనా వినశ్యతి, నష్టో భవతి। అస్మిన్న్ ఉపదిష్టే ఆత్మ-యాథాత్మ్య-విషయే జ్ఞానే సṁశయాత్మనోఽయమ్ అపి ప్రాకృత-లోకో నాస్తి, న చ పరః। ధర్మార్థ-కామాది-పురుషార్థాశ్ చ న సిద్ధ్యన్తి, కుతో మోక్ష ఇత్య్ అర్థః।
Link copiedశాస్త్రీయ-కర్మ-సిద్ధి-రూపత్వాత్ సర్వేషాṁ పురుషార్థానాṁ శాస్త్రీయ-కర్మ-జన్య-సిరాశ్ చ దేహాతిరిక్తాత్మ-నిశ్చయ-పూర్వకత్వాత్। అతః సుఖ-లవ-భాగిత్వమ్ ఆత్మని సṁశయాత్మనో న సమ్భవతి॥౪।౪౦॥
Link copiedయోగ-సన్న్యస్త-కర్మాణṁ జ్ఞాన-సఞ్ఛిన్న-సṁశయమ్।
Link copiedఆత్మవన్తṁ న కర్మాణి నిబధ్నన్తి ధనఞ్జయ॥౪౧॥
Link copiedయథోపదిష్ట-యోగేన సన్న్యస్త-కర్మాణṁ జ్ఞానాకారతాపన్న-కర్మాణṁ యథోపదిష్టేన చాత్మ-జ్ఞానేనాత్మని సఞ్ఛిన్న-సṁశయమ్ ఆత్మవన్తṁ మనస్వినమ్ ఉపదిష్టార్థో దృఢావస్థిత-మనసṁ బన్ధ-హేతు-భూత-ప్రాచీనానన్త-కర్మాణి న నిబధ్నన్తి॥౪।౪౧॥
Link copiedతస్మాద్ అజ్ఞాన-సమ్భూతṁ హృత్-స్థṁ జ్ఞానాసినాత్మనః।
Link copiedఛిత్త్వైనṁ సṁశయṁ యోగమ్ ఆతిష్ఠోత్తిష్ఠ భారత॥౪౨॥
Link copiedతస్మాద్ అనాద్య్-అజ్ఞాన-సమ్భూతṁ హృత్-స్థమ్ ఆత్మ-విషయṁ సṁశయṁ మయోపదిష్టేనాత్మ-జ్ఞానాసినా ఛిత్త్వా మయోపదిష్టṁ కర్మ-యోగమ్ ఆతిష్ఠ తద్-అర్థమ్ ఉత్తిష్ఠ భారతేతి॥౪।౪౨॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే చతుర్థోఽధ్యాయః ॥౪॥
Link copiedtṛtīye'dhyāye prakṛti-saṁsṛṣṭasya mumukṣoḥ sahasā jñāna-yoge'nadhikārāt karma-yoga eva kāryaḥ| jñāna-yogādhikāriṇo'py akartṛtvānusandhāna-pūrvakaṁ karma-yoga eva śreyān iti sahetukam uktam| ivśiṣṭatayā vyapadeśyasya tu viśeṣataḥ karma-yoga eva kārya iti coktam| caturthenedānīm asyaiva karma-yogasya nikhila-jagad-uddharaṇāya manvantarādāv evopadiṣṭatayā kartavyatāṁ draḍhayitvā antargata-jñānatatyā'syaiva jñāna-yogākāratāṁ pradarśya, karma-yoga-svarūpaṁ tad-bhedāḥ karma-yoge jñānāṁśasyaiva prādhānyaṁ cocyate| prasaṅgāc ca bhagavad-avatāra-yāthātmyam ucyate---
Link copiedśrī-bhagavān uvāca
Link copiedimaṁ vivasvate yogaṁ proktavān aham avyayam|
Link copiedvivasvān manave prāha manur ikṣvākave'bravīt||1||
Link copiedevaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ|
Link copiedsa kāleneha mahatā yogo naṣṭaḥ parantapa||2||
Link copiedyo'yaṁ tavodito yogaḥ sa kevalaṁ yuddha-protsāhanāyedānīm udita iti na mantavyam| manvantarādāv eva nikhila-jagad-uddharaṇāya parama-puruṣārtha-lakṣaṇa-mokṣa-sādhanatayā imaṁ yogam aham eva vivasvate proktavān| vivasvān ca manave manur ikṣvākava ity evaṁ sampradāya-paramparayā prāptam imaṁ yogaṁ pūrve rājarṣāyo viduḥ| sa mahatā kālena tat-tac-chrotṛ-buddhi-māndyād vinaṣṭa-prāyo'bhūt||4.1-2||
Link copiedsa evāyaṁ mayā te'dya yogaḥ proktaḥ purātanaḥ|
Link copiedbhakto'si me sakhā ceti rahasyaṁ hy etad uttamam||3||
Link copiedsa evāyam askhalita-svarūpaḥ purātanaḥ yogaḥ sakhyenātimātra-bhaktyā ca mām eva prapannāya te mayā proktaḥ| sa-parikaraḥ sa-vistaram ukta ity arthaḥ| mad-anyena kenāpi jñātuṁ vaktuṁ vā na śakyam, yata idaṁ vedāntoditam uttamaṁ rahasyaṁ jñānam||4.3||
Link copiedasmin prasaṅge bhagavad-avatāra-yāthātmyaṁ yathāvad jñātum arjuna uvāca---
Link copiedaparaṁ bhavato janma paraṁ janma vivasvataḥ|
Link copiedkatham etad vijānīyāṁ tvam ādau proktavān iti||4||
Link copiedkāla-saṅkhyayā aparam asmaj-janma-sama-kālaṁ hi bhavato janma| vivasvataś ca kāla-saṅkhyayā param aṣṭa-viṁśati-caturyuga-saṅkhyā-saṅkhyātam| tvam eva ādau proktavān iti katham etad asambhāvanīyaṁ viśeṣeṇa yathārthaṁ jānīyām|
Link copiednanu janmāntareṇāpi vaktuṁ śakyam| janmāntara-kṛtasya mahatāṁ smṛtiś ca yujyata iti nātra kaścid virodhaḥ| na cāsau vaktāram enaṁ vasudeva-tanayaṁ sarveśvaraṁ na jānāti| yata evaṁ vakṣyati---
Link copiedparaṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān|
Link copiedpuruṣaṁ śāśvataṁ divyam ādi-devam ajaṁ vibhum||
Link copiedāhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā|
Link copiedasito devalo vyāsaḥ svayaṁ caiva bravīṣi me|| [gītā 10.12-13] iti|
Link copied
yudhiṣṭhira-rājasūyādiṣu bhīṣmādibhyaś cāsakṛt śrutam---
Link copiedkṛṣṇa eva hi lokānām utpattir api cāpy ayaḥ|
Link copiedkṛṣṇasya hi kṛte bhūtam idaṁ viśvaṁ carācaram|| [ma.bhā. 2.38.23]
Link copiedity evam ādiṣu| kṛṣṇasya hi kṛte iti kṛṣṇasya śeṣa-bhūtam idaṁ kṛtsnaṁ jagad ity arthaḥ|
Link copiedatrocyate--- jānāty evāyaṁ bhagavantaṁ vasudeva-tanayaṁ pārthaḥ| jānato'py ajānata iva pṛcchato'yam āśayaḥ--- nikhila-heya-pratyanīka-kalyāṇaikatānasya sarveśvarasya sarvajñasya satya-saṅkalpasya cāvāpta-samasta-kāmasya karma-paravaśa-deva-manuṣyādi-sajātīyaṁ janma kim indrajālādivan mithyā uta satyam| satyatve ca kathaṁ janma-prakāraḥ| kim-ātmako'yaṁ dehaḥ| kaś ca janma-hetuḥ| kadā ca janma| kim-arthaṁ vā janma| iti parihāra-prakāreṇa praśnārtho vijñāyate||4.4||
Link copiedpariharan śrī-bhagavān uvāca---
Link copiedbahūni me vyatītāni janmāni tava cārjuna|
Link copiedtāny ahaṁ veda sarvāṇi na tvaṁ vettha parantapa||5||
Link copiedanena janmanaḥ satyatvam uktaṁ bahūni me vyatītāni janmānīti vacanāt, tava ceti dṛṣṭantatayā upādānāc ca||4.5||
Link copiedātmano'vatāra-prakāraṁ deha-yāthātmyaṁ janma-hetuṁ cāha---
Link copiedajo'pi sann avyayātmā bhūtānām īśvaro'pi san|
Link copiedprakṛtiṁ svām adhiṣṭhāya sambhavāmy ātma-māyayā||6||
Link copiedajatvāvyayatva-sarveśvaratvādi-sarvaṁ pārameśvaraṁ prakāram ajahad eva svāṁ prakṛtim adhiṣṭhāya ātma-māyayā sambhavāmi| prakṛtiḥ svabhāvaḥ, svam eva svabhāvam adhiṣṭhāya svenaiva rūpeṇa svecchayā sambhavāmīty arthaḥ|
Link copiedsvarūpaṁ hi--- āditya-varṇaṁ tamasaḥ parastāt [ya.ve. 31.18], kṣayantam asya rajasaḥ parāke [sā.ve. 17.1.4.2], ya eṣo'ntarāditye hiraṇmayaḥ puruṣaḥ [chā.u. 1.6.6], tasminn ayaṁ puruṣo manomayo'mṛto hiraṇmayaḥ [tai.u. 1.6.1] sarve nimeṣā jajñire vidyutaḥ puruṣādadhi [ya.ve. 32.2], bhā-rūpaḥ satya-saṅkalpa ākāśātmā sarva-karmā sarva-kāmaḥ sarva-gandhaḥ sarva-rasaḥ [chā.u. 3.14.2], māhārajanaṁ vāsaḥ [bṛ.ā.u. 2.3.6] ity-ādi-śruti-siddham|
Link copiedātma-māyayā ātmīyayā māyayā| māyā vayunaṁ jñānam [nighaṇṭu 22] iti jñāna-paryāyo'tra māyā-śabdaḥ| tathā cābhiyukta-prayogaḥ--- māyayā satataṁ vetti prāṇināṁ ca śubhāśubham iti| ātmīyena jñānena ātma-saṅkalpenety arthaḥ|
Link copiedato'pahata-pāpmatvādi-samasta-kalyāṇa-guṇātmakatvaṁ sarvam aiśvaraṁ svabhāvam ajahad eva svam eva rūpaṁ deva-manuṣyādi-sajātīya-sthānaṁ kurvan ātma-saṅkalpena devādi-rūpaḥ sambhavāmi| tad idam āha--- ajāyamāno bahudhā vijāyate [ya.ve. 31.19] iti śrutiḥ| itara-puruṣa-sādhāraṇaṁ janma akurvan devādi-rūpeṇa sva-saṅkalpena ukta-prakriyayā jāyata ity arthaḥ| bahūni me vyatītāni janmāni tava cārjuna| tāny ahaṁ veda sarvāṇi [gītā 4.5] tad ātmānaṁ sṛjāmy aham [gītā 4.7], janma karma ca me divyam evaṁ yo vetti tattvataḥ [gītā 4.9] iti pūrvāparāvirodhāc ca||4.6||
Link copiedjanma-kālam āha---
Link copiedyadā yadā hi dharmasya glānir bhavati bhārata|
Link copiedabhyutthānam adharmasya tadātmānaṁ sṛjāmy aham||7||
Link copiedna kāla-niyamo'smat-sambhavasya| yadā yadā hi dharmasya vedenoditasya cāturvarṇya-cāturāśramya-vyavasthayāvasthitasya kartavyasya glānir bhavati, yadā yadā ca tad-viparyayasyādharmasya abhyutthānaṁ, tadāham eva sva-saṅkalpenokta-prakāreṇātmānaṁ sṛjāmi||4.7||
Link copiedjanmanaḥ prayojanam āha---
Link copiedparitrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām|
Link copieddharma-saṁsthāpanārthāya sambhavāmi yuge yuge||8||
Link copiedsādhava ukta-lakṣaṇa-dharma-śīlā vaiṣṇavāgresarā mat-samāśrayaṇe pravṛttā man-nāma-karma-svarūpāṇām avāṅ-manasāgocaratayā mad-darśanād ṛte svātma-dhāraṇa-poṣaṇādi-sukham alabhamānā aṇu-mātra-kālam api kalpa-sahasrāṁ manvānāḥ praśithila-sarva-gātrā bhaveyur iti mat-svarūpa-ceṣṭitāvalokanālāpādi-dānena teṣāṁ paritrāṇāya tad-viparītānāṁ vināśāya ca kṣīṇasya vaidika-dharmasya mad-ārādhana-rūpasya ārādhya-svarūpa-pradarśanena tasya sthāpanāya ca deva-manuṣyādi-rūpeṇa yuge yuge sambhavāmi| kṛta-tretādi-yuga-viśeṣa-niyamo'pi nāstīty arthaḥ||4.8||
Link copiedjanma karma ca me divyam evaṁ yo vetti tattvataḥ|
Link copiedtyaktvā dehaṁ punar janma naiti mām eti so'rjuna||9||
Link copiedevaṁ karma-mūla-bhūta-heya-triguṇa-prakṛti-saṁsarga-rūpa-janma-rahitasya sarveśvaratva-sarvajñatva-satya-saṅkalpatvādi-samasta-kalyāṇa-guṇopetasya sādhu-paritrāṇa-mat-samāśrayaṇaika-prayojanaṁ divyam aprākṛtaṁ mad-asādhāraṇaṁ mama janma ceṣṭitaṁ ca tattvato yo vetti sa vartamānaṁ dehaṁ parityajya punar janma naiti mām eva prāpnoti| madīya-divya-janma-ceṣṭita-yāthātmya-vijñānena vidhvasta-samasta-mat-samāśrayaṇa-virodhi-pāpmāsminn eva janmani yathodita-prakāreṇa mām āśritya mad-eka-priyo mad-eka-citto mām eva prāpnoti||4.9||
Link copiedtad āha---
Link copiedvīta-rāga-bhaya-krodhā man-mayā mām upāśritāḥ|
Link copiedbahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ||10||
Link copiedmadīya-janma-karma-tattva-jñānākhyena tapasā pūtā bahava evaṁ saṁvṛttāḥ| tathā ca śrutiḥ--- tasya dhīrāḥ parijānanti yonim iti| dhīrā dhīmatām agresarā eva tasya janma-prakāraṁ jānantīty arthaḥ||4.10||
Link copiedna kevalaṁ deva-manuṣyādi-rūpeṇāvatīrya mat-samāśrayaṇāpekṣāṇāṁ paritrāṇaṁ karomi| api tu---
Link copiedye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham|
Link copiedmama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ||11||
Link copiedye mat-samāśrayaṇāpekṣā yathā yena prakāreṇa svāpekṣānurūpaṁ māṁ saṅkalpya prapadyante samāśrayante tān prati tathaiva tan-manīṣita-prakāreṇa bhajāmi māṁ darśayāmi| kim atra bahunā| sarve manuṣyā mad-anuvartanaika-manorathā mama vatrma mat-svabhāvaṁ sarvaṁ yogināṁ vāṅ-manasāgocaram api svakīyaiś cakṣurādi-karaṇaiḥ sarvaśaḥ svāpekṣitaiḥ sarva-prakārair anubhūya anuvartante||4.11||
Link copiedidānīṁ prāsaṅgikaṁ parisamāpya prakṛtasya karma-yogasya jñānākāratā-prakāraṁ vaktuṁ tathā-vidha-karma-yogādhikāriṇo durlabhatvam āha---
Link copiedkāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ|
Link copiedkṣipraṁ hi mānuṣe loke siddhir bhavati karmajā||12||
Link copiedsarva eva puruṣāḥ karmaṇāṁ phalaṁ kāṅkṣamāṇā indrādi-devatā yathā-śāstraṁ yajante ārādhayanti| na tu kaścid anabhisaṁhita-phala indrādi-devatātma-bhūtaṁ sarva-yajñānāṁ bhoktāraṁ māṁ yajate| kuta etat| yataḥ kṣipram asmin eva mānuṣe loke karmajā putra-paśv-annādyā siddhir bhavati| manuṣya-loka-śabdaḥ svargādi-loka-pradarśanārthaḥ|
Link copiedsarva eva hi laukikāḥ puruṣā ākṣīṇānādi-kāla-pravṛttānanta-pāpa-sañcayatayā avivekinaḥ kṣipra-phalābhikāṅkṣiṇaḥ putra-paśv-annādi-svargādy-arthatayā sarvāṇi karmāṇi, indrādi-devatārādhana-mātrāṇi kurvate| na tu kaścit saṁsārodvigna-hṛdayo mumukṣur ukta-lakṣaṇaṁ karma-yogaṁ mad-ārādhana-bhūtam ārabhate ity arthaḥ||4.12||
Link copiedyathokta-karma-yogārambha-virodhi-pāpa-kṣaya-hetum āha---
Link copiedcātur-varṇyaṁ mayā sṛṣṭaṁ guṇa-karma-vibhāgaśaḥ|
Link copiedtasya kartāram api māṁ viddhy akartāram avyayam||13||
Link copiedcāturvarṇya-pramukhaṁ brahmādi-stamba-paryantaṁ kṛtsnaṁ jagat sattvādi-guṇa-vibhāgena tad-anuguṇa-śamādi-karma-vibhāgena ca pravibhaktaṁ mayā sṛṣṭam| sṛṣṭi-grahaṇaṁ pradarśanārtham| mayaiva rakṣyate, mayaiva ca upasaṁhriyate| tasya vicitra-sṛṣṭy-ādeḥ kartāram apy akartāraṁ māṁ viddhi||4.13||
Link copiedkatham ity atra āha---
Link copiedna māṁ karmāṇi limpanti na me karma-phale spṛhā|
Link copiediti māṁ yo'bhijānāti karmabhir na sa badhyate||14||
Link copiedyata imāni vicitra-sṛṣṭy-ādīni na māṁ karmāṇi limpanti na māṁ sambadhnanti| na mat-prayuktānīmāni deva-manuṣyādi-vaicitryāṇi sṛjyānāṁ puṇya-pāpa-rūpa-karma-viśeṣa-prayuktānīty arthaḥ| ataḥ prāptāprāpta-vivekana vicitra-sṛṣṭay-ādeḥ nāhaṁ kartā| yataś ca sṛṣṭaḥ kṣetra-jñāḥ sṛṣṭi-labdha-karaṇa-kalevarāḥ sṛṣṭi-labdhaṁ bhogya-jātaṁ phala-saṅgādi-hetu-sva-karmānuguṇaṁ bhuñjate, sṛṣṭy-ādi-karma-phale ca teṣām eva spṛheti na me spṛhā|
Link copiedtathā sūtra-kāraḥ--- vaiṣamya-nairghṛṇye na sāpekṣatvāt [ve.sū. 2.1.34] iti| tathāha bhagavān parāśaraḥ---
Link copiednimitta-mātram evāyaṁ sṛjyānāṁ sarga-karmāṇi|
Link copiedpradhāna-kāraṇībhūtā yato vai sṛjya-śaktayaḥ||
Link copiednimitta-mātraṁ muktvedaṁ nānyat kiñcid apekṣyate|
Link copiednīyate tapatāṁ śreṣṭha sva-śaktyā vastu vastutām|| [vi.pu. 1.4.51-52] iti|
Link copied
sṛjyānāṁ devādīnāṁ kṣetra-jñānāṁ sṛṣṭeḥ kāraṇa-mātram evāyaṁ parama-puruṣaḥ, devādi-vaicitrye tu pradhāna-kāraṇaṁ sṛjya-bhūta-kṣetra-jñānāṁ prācīna-karma-śaktaya eva| ato nimitta-mātraṁ muktvā sṛṣṭeḥ kartāraṁ parama-pūruṣaṁ muktvedaṁ kṣetra-jña-vastu devādi-vicitra-bhāve na anyad apekṣate| svagata-prācīna-karma-śaktyā eva hi devādi-vastu-bhāvaṁ nīyata ity arthaḥ|
Link copiedevam uktena prakāreṇa sṛṣṭy-ādeḥ kartāram apy akartāraṁ sṛṣṭy-ādi-karma-phala-saṅga-rahitaṁ ca yo mām abhijānāti sa karma-yogārambha-virodhibhiḥ phala-saṅgādi-hetubhiḥ prācīna-karmabhiḥ na sambadhyate| mucyata ity arthaḥ||4.14||
Link copiedevaṁ jñātvā kṛtaṁ karma pūrvair api mumukṣubhiḥ|
Link copiedkuru karmaiva tasmāt tvaṁ pūrvaiḥ pūrvataraṁ kṛtam||15||
Link copiedevaṁ māṁ jñātvā api vimukta-pāpaiḥ pūrvair api mumukṣubhir ukta-lakṣaṇaṁ karma kṛtam| tasmāt tvam ukta-prakāra-mad-viṣaya-jñāna-vidhūta-pāpaḥ pūrvair vivasvan-manv-ādibhiḥ kṛtaṁ pūrvataraṁ purātanaṁ tadānīm eva mayoktaṁ vakṣyamāṇākāraṁ karmaiva kuru||4.15||
Link copiedvakṣyamāṇasya karmaṇo durjñānatām āha---
Link copiedkiṁ karma kim akarmeti kavayo'py atra mohitāḥ|
Link copiedtat te karma pravakṣyāmi yaj jñātvā mokṣyase'śubhāt||16||
Link copiedmumukṣuṇānuṣṭheyaṁ karma kiṁ-svarūpam| akarma ca kim| phalābhisandhi-rahitaṁ bhagavad-ārādhana-rūpaṁ karma| akarma iti kartur ātmano yāthātmya-jñānam ucyate| anuṣṭheyaṁ karma tad-antargataṁ jñānaṁ ca kiṁ-svarūpam| ity ubhayatra kavayo vidvāṁso'pi mohitāḥ, yathārthatayā na jānanti| evam antargata-jñānaṁ yat karma tat te pravakṣyāmi| yad jñātvā anuṣṭhāya aśubhāt saṁsāra-bandhān mokṣyase| kartavya-karma-jñānaṁ hi anuṣṭhāna-phalam||4.16||
Link copiedkuto'sya durjñānatā| ity atra āha---
Link copiedkarmaṇo hy api boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ|
Link copiedakarmaṇaś ca boddhavyaṁ gahanā karmaṇo gatiḥ||17||
Link copiedyasmāt mokṣa-sādhana-bhūte karmaṇaḥ svarūpe boddhavyam asti| vikarmaṇi ca nitya-naimittika-kāmya-karma-rūpeṇa tat-sādhana-dravyārjanādy-ākāreṇa ca, vividhatām āpannaṁ karma vikarma| akarmaṇi jñāne ca boddhavyam asti| gahanā durvijñānā mumukṣoḥ karmaṇo gatiḥ| vikarmaṇi ca boddhavyam--- nitya-naimittika-kāmya-dravyārjanādau karmaṇi phala-bheda-kṛtaṁ vaividhyaṁ parityajya mokṣaika-phalatayā eka-śāstrārthatvānusandhānam| tad etad vyavasāyātmikā buddhir ekā [2.41] ity atraivoktam iti neha prapañcyate||4.17||
Link copiedkarmākarmaṇor boddhavyam āha---
Link copiedkarmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ|
Link copiedsa buddhimān manuṣyeṣu sa yuktaḥ kṛtsna-karma-kṛt||18||
Link copiedakarma-śabdenātra karmetarat prastutam ātma-jñānam ucyate| karmaṇi kriyamāṇe eva ātma-jñānaṁ yat paśyed akarmaṇi cātma-jñāne vartamānaiva yaḥ karma paśyet| kim uktaṁ bhavati| kriyamāṇam eva karmātma-yāthātmyānusandhānena jñānākāraṁ yaḥ paśyet, tac ca jñānaṁ karmaṇi antargatatayā karmākāraṁ yaḥ paśyed iti uktaṁ bhavati| kriyamāṇe hi karmaṇi kartṛ-bhūtātma-yāthātmyānusandhānena tad ubhayaṁ sampannaṁ bhavati|
Link copiedevam ātma-yāthātmyānusandhāna-garbhaṁ karma yaḥ paśyet sa buddhimān kṛtsna-śāstrārtha-vit, manuṣyeṣu sa yukto mokṣārhaḥ sa eva kṛtsna-karma-kṛt kṛtsna-śāstrārtha-kṛt||4.18||
Link copiedpratyakṣeṇa kriyamāṇasya karmaṇo jñānākāratā katham upapadyate| ity atrāha---
Link copiedyasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ|
Link copiedjñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ||19||
Link copiedyasya mumukṣoḥ sarve dravyārjanādi-laukika-karma-pūrvaka-nitya-naimittika-kāmya-rūpa-karma-samārambhāḥ kāma-varjitāḥ phala-saṅga-rahitāḥ saṅkalpa-varjitāś ca|
Link copiedprakṛtyā tad-guṇaiś cātmānam ekīkṛtya anusandhānāṁ saṅkalpaḥ| prakṛti-viyuktātma-svarūpānusandhāna-yuktatayā tad-rahitāḥ| tam evaṁ karma kurvāṇaṁ paṇḍitaṁ karmāntargatātma-yāthātmya-jñānāgninā dagdha-prācīna-karmāṇam āhus tattva-jñāḥ||4.19||
Link copiedataḥ karmaṇo jñānākāratvam upapadyate| etad eva vivṛṇoti---
Link copiedtyaktvā karma-phalāsaṅgaṁ nitya-tṛpto nirāśrayaḥ|
Link copiedkarmaṇy abhipravṛtto'pi naiva kiñcit karoti saḥ||20||
Link copiedkarma-phalāsaṅgaṁ tyaktvā nitya-tṛpto nitye svātmany eva tṛpto nirāśrayo'sthira-prakṛtau āśraya-buddhi-rahito yaḥ karmāṇi karoti, sa karmaṇy ābhimukhyena pravṛtto'pi naiva kiñcit karma karoti, karmāpadeśena jñānābhyāsam eva karotīty arthaḥ||4.20||
Link copiedpunar api karmaṇā jñānākāratā eva viśodhyate---
Link copiednirāśīr yata-cittātmā tyakta-sarva-parigrahaḥ|
Link copiedśārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣam||21||
Link copiednirāśīr nirgata-phalābhisandhiḥ, yata-cittātmā yata-cittamanāḥ, tyakta-sarva-parigraha ātmaika-prayojanatayā prakṛti-prākṛta-vastuni mamatā-rahito yāvaj-jīvaṁ kevalaṁ śārīram eva karma kurvan kilbiṣaṁ saṁsāraṁ nāpnoti| jñāna-niṣṭhā-vyavadhāna-rahita-kevala-karma-yogena evaṁ-rūpeṇātmānaṁ paśyatīty arthaḥ||4.21||
Link copiedyadṛcchā-lābha-santuṣṭo dvandvātīto vimatsaraḥ|
Link copiedsamaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate||22||
Link copiedyadṛcchopanata-śarīra-dhāraṇa-hetu-vastu-santuṣṭaḥ dvandvātīto yāvat-sādhana-samāpty-avarjanīya-śītoṣṇādi-sahaḥ| vimatsaro'niṣṭopanipāta-hetu-bhūta-svakarma-nirūpeṇa pareṣu vigata-matsaraḥ samaḥ siddhau asiddhau ca yuddhādi-karmasu jayādi-siddhy-asiddhyoḥ sama-cittaḥ karmaiva kṛtvāpi jñāna-niṣṭhāṁ vināpi na nibadhyate, na saṁsāraṁ pratipadyate||4.22||
Link copiedgata-saṅgasya muktasya jñānāvasthita-cetasaḥ|
Link copiedyajñāyācarataḥ karma samagraṁ pravilīyate||23||
Link copiedātma-viṣaya-jñānāvasthita-manastvena vigata-tad-itara-saṅgasya tata eva nikhila-parigraha-vinirmuktasyokta-lakṣaṇa-yajñādi-karma-nirvṛttaye vartamānasya puruṣasya bandha-hetu-bhūtaṁ prācīnaṁ karma samagraṁ pravilīyate niḥśeṣaṁ kṣīyate||4.23||
Link copiedprakṛti-viyuktātma-svarūpānusandhāna-yuktatayā karmaṇo jñānākāratvam uktam| idānīṁ sarvasya sa-parikarasya karmaṇaḥ para-brahma-bhūta-parama-puruṣātmakatvānusandhānā-yuktatayā jñānākāratvam āha---
Link copiedbrahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam|
Link copiedbrahmaiva tena gantavyaṁ brahma-karma-samādhinā||24||
Link copiedhavir viśeṣyate| arpyate'nenety arpaṇaṁ srug-ādi| tad brahma-kāryatvād brahma, brahma yasya haviṣo'rpaṇaṁ tad brahmārpaṇam| brahma haviḥ svayaṁ ca brahma-bhūtaṁ brahmāgnau brahma-bhūte'gnau brahmaṇā kartrā hutam| iti sarvaṁ karma brahmātmakatvād brahma-mayam iti yaḥ samādhatte, sa brahma-karma-samādhiḥ| tena brahma-karma-samādhinā brahmaiva gantavyam| brahmātmakatayā brahma-bhūtam ātma-svarūpaṁ gantavyam| mumukṣūṇāṁ kriyamāṇaṁ karma para-brahmātmakam eva ity anusandhāna-yuktatayā jñānākāraṁ sākṣād ātmāvalokana-sādhanam, na jñāna-niṣṭhā-vyavadhānenety arthaḥ||4.24||
Link copiedevaṁ karmaṇo jñānākāratāṁ pratipādya karma-yoga-bhedān āha---
Link copieddaivam evāpare yajñaṁ yoginaḥ paryupāsate|
Link copiedbrahmāgnāv apare yajñaṁ yajñenaivopajuhvati||25||
Link copieddaivaṁ daivārcana-rūpaṁ yajñam apare karma-yoginaḥ paryupāsate sevante| tatraiva niṣṭhāṁ kurvantīty arthaḥ| apare brahmāgnau yajñaṁ yajñenaiva upajuhvati| yajñaṁ yajña-rūpaṁ brahmātmakam ājyādi-dravyaṁ yajñena yajña-sādhana-bhūtena srug-ādinā juhvati| atra yajña-śabdo haviḥ-srug-ādi-yajña-sādhane vartate| brahmārpaṇaṁ brahma haviḥ iti nyāyena yāga-homayor niṣṭhāṁ kurvanti||4.25||
Link copiedśrotrādīnīndriyāṇy anye saṁyamāgniṣu juhvati|
Link copiedśabdādīn viṣayān anya indriyāgniṣu juhvati||26||
Link copiedanye śrotrādīnām indriyāṇāṁ saṁyamane prayante| śabdādīn viṣayān anye yogina indriyāṇāṁ śabdādi-viṣaya-pravaṇatā-nivāraṇe prayatante||4.26||
Link copiedsarvāṇīndriya-karmāṇi prāṇa-karmāṇi cāpare|
Link copiedātma-saṁyama-yogāgnau juhvati jñāna-dīpite||27||
Link copiedanye jñāna-dīpite manaḥ-saṁyama-yogāgnau sarvāṇīndriya-karmāṇi prāṇa-karmāṇi ca juhvati| manasa indriya-prāṇānāṁ karma-pravaṇatā-nivāraṇe prayatanta ity arthaḥ||4.27||
Link copieddravya-yajñās tapo-yajñā yoga-yajñās tathāpare|
Link copiedsvādhyāya-jñāna-yajñāś ca yatayaḥ saṁśita-vratāḥ||28||
Link copiedkecit karma-yogino dravya-yajñāḥ, nyāyato dravyāṇy ādāya devārcane prayatante, kecic ca dāneṣu, kecic ca yāgeṣu, kecic ca homeṣu, ete sarve dravya-yajñāḥ| kecit tapo-yajñāḥ kṛcchra-cāndrāyaṇopavāsādiṣu niṣṭhāṁ kurvanti| yoga-yajñāś cāpare puṇya-tīrtha- puṇya-sthāna-prāptiṣu niṣṭhāṁ kurvanti| iha yoga-śabdaḥ karma-niṣṭhā-bheda-prakaraṇāt tad-viṣayaḥ| kecit svādhyāya-parāḥ svādhyāyābhyāsa-parāḥ| kecit tad-artha-jñānābhyāsa-parā yatayo yatana-śīlāḥ| śaṁsita-vratāḥ dṛḍha-saṅkalpāḥ||4.28||
Link copiedapāne juhvati prāṇaṁ prāṇe'pānaṁ tathāpare|
Link copiedprāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ||29||
Link copiedapare niyatāhārāḥ prāṇān prāṇeṣu juhvati|
Link copiedsarve'py ete yajña-vido yajña-kṣapita-kalmaṣāḥ||30||
Link copiedapare karma-yoginaḥ prāṇāyāmeṣu niṣṭhāṁ kurvanti| te ca tri-vidhāḥ--- pūraka-recaka-kumbhaka-bhedena| apāne juhvati prāṇam iti pūrakaḥ| prāṇe'pānam iti recakaḥ| prāṇāpāna-gatī ruddhvā prāṇān prāṇeṣu juhvatīti kumbhakaḥ| prāṇāyāma-pareṣu triṣv apy anuṣajyate niyatāhārā iti| dravya-yajña-prabhṛti-prāṇāyāma-paryanteṣu karma-yoga-bhedeṣu sva-samīhiteṣu pravṛttā ete sarve saha-yajñaiḥ prajāḥ sṛṣṭvā [3.10] iti abhihita-mahā-yajña-pūrvaka-nitya-naimittika-karma-rūpa-yajña-vidaḥ, tan-niṣṭhāḥ, tata eva kṣapita-kalmaṣāḥ||4.29-.30||
Link copiedyajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam|
Link copiednāyaṁ loko'sty ayajñasya kuto'nyaḥ kurusattama||31||
Link copiedyajña-śiṣṭāmṛtena śarīra-dhāraṇaṁ kurvanta eva karma-yoge vyāpṛtāḥ sanātanaṁ ca brahma yānti| ayajñasya mahā-yajñādi-pūrvaka-nitya-naimittika-karma-rahitasya nāyaṁ loko na prākṛta-lokaḥ prākṛta-loka-sambandhi-dharmārtha-kāmākhyaḥ puruṣārtho na sidhyati| kuta
Link copiedito'nyo mokṣākhyaḥ puruṣārthaḥ| parama-puruṣārthatayā mokṣasya prastutatvāt tad-itara-puruṣārtho'yaṁ loka iti nirdiśyate sa hi prākṛtaḥ||4.31||
Link copiedevaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe|
Link copiedkarmajān viddhi tān sarvān evaṁ jñātvā vimokṣyase||32||
Link copiedevaṁ hi bahu-prakārāḥ karma-yogā brahmaṇo mukhe vitatāḥ| ātma-yāthātmyāvāpti-sādhanatayā sthitāḥ| tān ukta-lakṣaṇān ukta-bhedān karma-yogān sarvān karmajān viddhi| aharahar anuṣṭhīyamāna-nitya-naimittika-karmānuṣṭhāna-jān viddhi| evaṁ jñātvā yathokta-prakāreṇa anuṣṭhāya vimokṣyase||4.32||
Link copiedantargata-jñānatayā karmaṇo jñānākāratvam uktam| tatrāntargata-jñāne karmaṇi jñānāṁśasya eva prādhānyam āha---
Link copiedśreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa|
Link copiedsarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate||33||
Link copiedubhayākāre karmaṇi dravya-mayād aṁśād jñāna-mayo'ṁśaḥ śreyān| sarvasya karmaṇas tad-itarasya cākhilasyopādeyasya jñāne parisamāpteḥ| tad evaṁ sarvaiḥ sādhanaiḥ prāpya-bhūtaṁ jñānaṁ karmāntargatatvena abhyasyate| tad eva hi abhyasyamānaṁ krameṇa prāpya-daśāṁ pratipadyate||4.33||
Link copiedtad viddhi praṇipātena paripraśnena sevayā|
Link copiedupadekṣyanti te jñānaṁ jñāninas tattva-darśinaḥ||34||
Link copiedtad ātma-viṣayaṁ jñānam avināśi tad viddhi [2.17] ity ārabhya eṣā te'bhihitā [2.39] ity antena mayopadiṣṭam mad-ukta-karmaṇi vartamānas tvaṁ vipākānuguṇaṁ kāle kāle praṇipāta-paripraśna-sevādibhir viśadākāraṁ jñānibhyo viddhi| sākṣāt-kṛtātma-svarūpās tu jñāninaḥ praṇipātādibhiḥ sevitā jñāna-bubhutsayā paritaḥ pṛcchatas tavāśayam ālakṣya jñānam upadekṣyanti||4.34||
Link copiedātma-yāthātmya-viṣaya-sākṣātkāra-rūpasya lakṣaṇam āha---
Link copiedyaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava|
Link copiedyena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi||35||
Link copiedyaj jñānaṁ jñātvā punar evaṁ dehādy-ātmābhimāna-rūpaṁ tat-kṛtaṁ mamatādy-āspadaṁ ca mohaṁ na yāsyasi, yena deva-manuṣyādy-ākāreṇānusaṁhitāni sarvāṇi bhūtāni svātmany eva drakṣyasi| yatas tavānyeṣāṁ ca bhūtānāṁ prakṛti-viyuktānāṁ jñānaikākāratayā sāmyam| prakṛti-saṁsarga-doṣa-vinirmuktam ātma-svarūpaṁ sarvaṁ samam iti ca vakṣyate nirdoṣaṁ hi samaṁ brahma [gītā 5.19] iti|
Link copiedatho mayi sarvāṇi bhūtāny aśeṣeṇa drakṣyasi, mat-svarūpa-sāmyāc ca pariśuddhasya sarvasya ātma-vastunaḥ| idaṁ jñānam upāśritya mama sādharmyam āgatāḥ [gītā 14.2] iti hi vakṣyate tathā vidvān puṇya-pāpe vidhūya, nirañjanaḥ paramaṁ sāmyam upaiti [mu.u. 3.1.3] ity evam ādiṣu nāma-rūpa-vinirmuktasya ātma-vastunaḥ paraṁ svarūpa-sāmyam avagamyate| ataḥ prakṛti-vinirmuktaṁ sarvam ātma-vastu parasparaṁ samaṁ sarveśvareṇa ca samam||4.35||
Link copiedapi ced asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛttamaḥ|
Link copiedsarvaṁ jñāna-plavenaiva vṛjinaṁ santariṣyasi||36||
Link copiedyadyapi sarvebhyaḥ pāpa-kṛttamo'si sarvaṁ pūrvārjitaṁ vṛjina-rūpaṁ samudram ātma-viṣaya-jñāna-rūpa-plavenaiva santariṣyasi||4.36||
Link copiedyathaidhāṁsi samiddho'gnir bhasmasāt kurute'rjuna|
Link copiedjñānāgniḥ sarva-karmāṇi bhasmasāt kurute tathā||37||
Link copiedsamyak pravṛddho'gnir indhana-samuccayam ivātma-yāthātmya-jñāna-rūpo'gnir jīvātma-gatam anādi-kāla-pravṛttānanta-karma-sañcayaṁ bhasmīkaroti||4.37||
Link copiedna hi jñānena sadṛśaṁ pavitram iha vidyate|
Link copiedtat svayaṁ yoga-saṁsiddhaḥ kālenātmani vindati||38||
Link copiedyasmād ātma-jñānena sadṛśaṁ pavitraṁ śuddhi-karam iha jagati vastv-antaraṁ na vidyate, tasmād ātma-jñānaṁ sarvaṁ pāpaṁ nāśayatīty arthaḥ| tat tathā-vidhaṁ jñānaṁ yathopadeśam aharahar anuṣṭhīyamānaṁ jñānākāra-karma-yogena saṁsiddhaḥ kālena svātmani svayam eva labhate||4.38||
Link copiedtad eva spaṣṭam āha---
Link copiedśraddhāvāṁl labhate jñānaṁ tat-paraḥ saṁyatendriyaḥ|
Link copiedjñānaṁ labdhvā parāṁ śāntim acireṇādhigacchati||39||
Link copiedevam upadeśāj jñānaṁ labdhvā copadiṣṭa-jñāna-vṛddhau śraddhāvān tat-paras tatraiva niyamita-manās tad-itara-viṣayāt saṁyatendriyo'cireṇa kālenokta-lakṣaṇa-vipāka-daśāpannaṁ jñānaṁ labhate| tathā-vidhaṁ jñānaṁ labdhvā parāṁ śāntim acireṇa adhigacchati paraṁ nirvāṇaṁ prāpnoti||4.39||
Link copiedajñaś cāśraddadhānaś ca saṁśayātmā vinaśyati|
Link copiednāyaṁ loko'sti na paro na sukhaṁ saṁśayātmanaḥ||40||
Link copiedajña evam upadeśa-labdha-jñāna-rahita upadiṣṭa-jñāna-vṛddhy-upāye cāśraddadhāno'tvaramāṇa upadiṣṭe ca jñāne saṁśayātmā saṁśayita-manā vinaśyati, naṣṭo bhavati| asminn upadiṣṭe ātma-yāthātmya-viṣaye jñāne saṁśayātmano'yam api prākṛta-loko nāsti, na ca paraḥ| dharmārtha-kāmādi-puruṣārthāś ca na siddhyanti, kuto mokṣa ity arthaḥ|
Link copiedśāstrīya-karma-siddhi-rūpatvāt sarveṣāṁ puruṣārthānāṁ śāstrīya-karma-janya-sirāś ca dehātiriktātma-niścaya-pūrvakatvāt| ataḥ sukha-lava-bhāgitvam ātmani saṁśayātmano na sambhavati||4.40||
Link copiedyoga-sannyasta-karmāṇaṁ jñāna-sañchinna-saṁśayam|
Link copiedātmavantaṁ na karmāṇi nibadhnanti dhanañjaya||41||
Link copiedyathopadiṣṭa-yogena sannyasta-karmāṇaṁ jñānākāratāpanna-karmāṇaṁ yathopadiṣṭena cātma-jñānenātmani sañchinna-saṁśayam ātmavantaṁ manasvinam upadiṣṭārtho dṛḍhāvasthita-manasaṁ bandha-hetu-bhūta-prācīnānanta-karmāṇi na nibadhnanti||4.41||
Link copiedtasmād ajñāna-sambhūtaṁ hṛt-sthaṁ jñānāsinātmanaḥ|
Link copiedchittvainaṁ saṁśayaṁ yogam ātiṣṭhottiṣṭha bhārata||42||
Link copiedtasmād anādy-ajñāna-sambhūtaṁ hṛt-stham ātma-viṣayaṁ saṁśayaṁ mayopadiṣṭenātma-jñānāsinā chittvā mayopadiṣṭaṁ karma-yogam ātiṣṭha tad-artham uttiṣṭha bhārateti||4.42||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye caturtho'dhyāyaḥ ||4||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 4 — The Path of Knowledge Through Action (in Sanskrit: Jñāna-karma-sannyāsa-yoga)
The Fourth Lecture deepens the teaching of the Third. Having established that karma-yoga is the necessary path for the aspirant, Sri Krishna now reveals that this yoga is not new: He Himself taught it at the dawn of creation to Vivasvan, Manu, and Ikshvaku. This opens the treasured digression on avatāras — the divine descents — and closes with the declaration that all sacrifice culminates in jñāna, the wisdom that burns away all the accumulated karma of ages. Yamunacharya summarises: the Self's own nature, how work and knowledge become one, how works vary, and how great is knowledge — these Lecture Four enounces.
Link copiedVerses 1–3 (The ancient, transmitted yoga)
Verse 4.1–3. Sri Bhagavan said: "I taught this eternal yoga to Vivasvan (the Sun); Vivasvan declared it to Manu; Manu imparted it to Ikshvaku. So handed down successively, the royal sages knew it. But by long lapse of time, Parantapa, the yoga declined. This self-same ancient yoga is now propounded by Me to thee — mysterious and best — because thou art My devotee, My friend."
Link copiedRamanuja stresses: the yoga is real, designed for the salvation of the whole universe, imparted now to Sri Arjuna because he bears the Lord friendship and has in loving devotion sought Him as his sole Asylum. None save the Lord Himself is able to understand or preach this yoga, for it is the sublime wisdom, the mystery of the Vedantas.
Link copiedVerses 4–9 (The nature of Avataras)
Verse 4.4. Sri Arjuna asks: "Thy birth is recent; Vivasvan's is prior. How, then, wert Thou the first Teacher?"
Link copiedRamanuja explains that Sri Arjuna already knows well — from passages like "Thou art the Supreme Brahman, the sublime glory" (X.12) — that the son of Vasudeva is none other than the Lord. His question is put deliberately, for the world's sake, to draw out from the Lord an authoritative exposition of the meaning of the avatāras: whether they are like the karma-determined births of ordinary beings; whether they are real or illusory (like indrajāla or magic); when and where and why they occur; and what kind of body is assumed.
Link copiedVerse 4.5. The Lord replies: "Many births have passed for Me, for thee also, Arjuna. I remember them all, but thou dost not, Parantapa."
Link copiedThis affirms the reality of the Incarnations. The analogy of Sri Arjuna's own birth is no illusion; so too the Lord's past Incarnations are real, not magical appearances.
Link copiedVerse 4.6. "Though birthless, of nature imperishable, and Lord of all beings, yet do I establish Myself in My own prakṛti (nature) and come to be born, by My own māyā (will)."
Link copiedRamanuja is emphatic: never divesting Himself of His essential attributes — of suzerainty, of being birthless, of being exhaustless, of being Lord of all — the Lord enters birth of His own free choice, planting Himself in His own native nature. His form in incarnation is of the kind described in Sruti passages: "Him who is of sun-colour, beyond tamas" (Svetasvatara III.8); "The Spirit in the interior of the sun, of golden hue" (Chhandogya I.6.6); "He of resplendent form, the firm-resolved, subtle-souled like space" (Chhandogya III.14.2). The word māyā here does not mean illusion; it means His will, knowledge, intelligence — as the Nighantu declares, "māyā vayunaṁ jñānam." So the Lord, by His own free will, is born as if He were of the creatures' nature, without for a moment laying aside His essential (godly) attributes.
Link copiedVerse 4.7–8. "Whensoever and wheresoever virtue wanes and vice waxes, then do I create Myself. For protecting the virtuous and destroying the wicked, and for firmly reinstating dharma, am I born from age to age."
Link copiedThe sādhus here are the good and virtuous Vaishnavas who seek Him as their shelter — who feel that without seeing Him they cannot live, for whom a moment's separation from Him is as a kalpa. For their protection, lest they pine away, He grants them the privilege of seeing Him, holding converse with Him, beholding His doings. Dharma is in truth His own modes of worship; and His avatāras are the objects of that worship.
Link copiedVerse 4.9. "Whoso understands in their true nature My divine incarnations and doings — he, Arjuna, does not come to rebirth after quitting the body but goes to Me."
Link copiedWhoever comprehends the divine, immaterial, unique nature of these descents and their acts — as different from the compulsory births of those born through the union of pure ātman with impure threefold prakṛti — becomes rid of all sin that stands as a barrier against reaching the Lord.
Link copiedVerses 10–12 (The devotees and the seekers of lesser fruit)
Verse 4.10. "Weaned from desire, dread, and passion; full of Me, entirely reliant on Me; many are those who, purified by wisdom-meditation (jñāna-tapas), have come to My state (madbhāvam)."
Link copiedRamanuja marks this verse as a clear declaration of the plurality of souls — many souls have come to the Lord's state, not been absorbed or annihilated.
Link copiedVerse 4.11. "In the way they resort to Me (prapadyante), in that way do I serve to them. All men go after Me in every way, Partha."
Link copiedThe Lord adapts Himself to every mode of approach. By whatever conception they choose to seek Him, He manifests Himself to them in that mode. Bhajāmi — "I serve" — here means "I appear to them." Though His nature transcends thought and speech even for yogis, to all who are of His ways He suits Himself so that they may enjoy Him through every sense-faculty and in all diverse ways.
Link copiedVerse 4.12. "Those who wish for the fulfilment of works worship the lesser devatās here. In mortal realms, work-born fruit is speedily realised."
Link copiedMost men, longing for immediate fruit, readily turn to Indra and lesser gods. Rare is the soul who, dreading saṁsāra, aspires for mokṣa and engages in karma-yoga as worship rendered to the Lord.
Link copiedVerses 13–15 (Creation, the fourfold order, and the ancient practice)
Verse 4.13. "The fourfold varṇa was created by Me according to guṇa (disposition) and karma (occupation). Though I am its Creator, know Me to be the imperishable non-creator."
Link copiedThe whole universe is divided by Him into four according to the guṇas — tamas prevailing in the śūdra, rajas in the kṣatriya, sattva in the brāhmaṇa, a blend at each station — and according to corresponding occupations.
Link copiedVerse 4.13½. "Works soil Me not. I have no interest in works' fruit."
Link copiedThe created diversity of deva, man, and so on is fashioned by the beings' own karma, by their own merit and demerit. The Lord is only the instrumental cause; He is "no author" in the sense that He is not responsible for the conditions that creatures bring upon themselves. Vyasa's Brahma Sutra confirms: "(The Lord) cannot be reproached with inequality and cruelty, for karma is regarded by Him." Bhagavan Parasara teaches the same in the Vishnu Purana: the Lord is but the directing cause; the creating forces have their roots in pradhāna — the karma-potencies of beings themselves.
Link copiedVerse 4.14–15. "He who truly knows Me thus is not bound by works. So understanding, did the mokṣa-seeking ancients work. Do thou also, like the ancients, in the ancient way."
Link copiedVerses 16–24 (The riddle of action and inaction; work as wisdom)
Verse 4.16–17. "What is action? what is inaction? In this, even the wise get confounded. That action I will explain, knowing which thou shalt be freed from evil. Action (karma) has to be understood; vikarma (variety of actions) has to be understood; and akarma (inaction, which here means knowledge itself) has to be understood. Intricate is the way of karma."
Link copiedRamanuja explains: the moksha-aspirer must understand three things — the action that is the means to liberation; the variety of actions, daily (nitya) and occasional (naimittika), each with its particular fruit, which must nevertheless be performed with the one uniform aim of mokṣa; and akarma, which here signifies jñāna — wisdom concerning the ātman.
Link copiedVerse 4.18. "He who sees akarma (wisdom) in karma (action), and who also sees karma in akarma — he is wise among men; he is yuktaḥ; he has done all work."
Link copiedTwo realisations: (1) the wise man, while actually performing work, sees the wisdom-aspect involved in it; (2) the wise man, while stationed in ātman-wisdom, sees even wisdom itself as a kind of act. Both positions together mean: by doing work outwardly and contemplating ātman-nature inwardly, both the objective and subjective poles are held. Such a man is conversant with the ultimate import of all the Sastras.
Link copiedVerse 4.19. "He whose all-acts are devoid of desire (kāma) and delusion (saṅkalpa) — the wise say he is the enlightened one, whose works are burnt up in the fire of wisdom."
Link copiedSaṅkalpa here is the fanciful identification of the ātman with prakṛti and its guṇas. The moksha-aspirant performs all his works free from both desire for fruit and this false identification.
Link copiedVerse 4.20–22. "Dissociated from works' fruit, ever self-contented, self-reliant, though he acts he does nothing. Bereft of expectancy, restraining the mind's anxiety, forsaking all possessions, whoso performs work as a mere bodily function incurs no evil. Content with whatever chance brings, above the pairs, free from malice, equal in success or failure — though he acts, he is not bound."
Link copiedVerse 4.23. "For him who has ceased from attachment, who has renounced all, whose mind is wisdom-absorbed, who works for yajña — all karma entirely ceases."
Link copiedVerse 4.24. "Brahmārpaṇam brahma haviḥ brahmāgnau brahmaṇā hutam / brahmaiva tena gantavyaṁ brahma-karma-samādhinā" — "By the Brahma-apparatus, the Brahma-oblation is, by Brahma, offered in Brahma-fire. He who so contemplates karma to be Brahma-full goes to Brahma itself."
Link copiedThis is the highest contemplation of Spiritual Philosophy. Ramanuja calls it brahma-karma-samādhi — seeing that in every act the Soul of the act is the Paramount Spirit, and seeing God everywhere, in all acts by oneself and in all acts external. This is the spiritual height, he notes, that only saints like Prahlada and Nammalvar have scaled. Work in this view becomes itself wisdom, itself the means to ātman-vision, without a separate jñāna-course.
Link copiedVerses 25–32 (The varieties of yajña)
Having shown the wisdom-aspect of work, Sri Krishna now enumerates the varieties of karma-yoga:
Link copiedVerse 4.25. "Some yogis devoutly practise the daiva-yajña alone" — sacrifices to the Divinity itself.
Link copiedVerse 4.26. "Others pour yajña into Brahma-fire with yajña" — performing the prescribed yāgas and homas in the ideal framework of "by the Brahma-apparatus, the Brahma-oblation."
Link copiedVerse 4.26½. "Others sacrifice the senses — hearing and the rest — into the saṁyama-fires" — striving to control the senses.
Link copiedVerse 4.27. "Others sacrifice the objects of the senses — sound and the rest — into the sense-fires" — endeavouring to quiet the appetites.
Link copiedVerse 4.28. "Others sacrifice all sense-activities and prāṇa-activities in the wisdom-fanned ātma-saṁyama-yoga-fire" — directing their effort to disciplining the mind to retire from sense-and-life activities.
Link copiedVerse 4.29. "Some do wealth-sacrifices; some tapas-sacrifices; some yoga-sacrifices (pilgrimages to holy places); some svādhyāya-sacrifices (study of Vedas); some of fixed resolve, jñāna-sacrifices (inquiry into the import of the Vedas)."
Link copiedVerse 4.30–31. "Others, practisers of prāṇāyāma, with restricted food, sacrifice prāṇa in apāna, apāna in prāṇa, and, restraining both currents, prāṇa in prāṇa." The three phases — pūraka (inhalation), recaka (exhalation), and kumbhaka (retention) — are here named.
Link copiedVerse 4.32. "All these are yajña-knowers, their sins effaced by the yajña. The eaters of the nectar-like remnants of yajña-food reach the eternal Brahman. To the non-sacrificer, this world is not; whence the other world, Kuru-best?"
Link copiedAll the aspirations of man — dharma, artha, kāma — rest on these rites. While even these are unattainable without yajña, how shall the highest aspiration, mokṣa, be gained by one who neglects them?
Link copiedVerses 33–42 (The culmination in jñāna)
Verse 4.33. "Such are the varieties of yajña, all means leading to Brahman. Know them all as springing from action. Knowing thus, thou shalt be emancipated."
Link copiedVerse 4.34. "The wisdom-element, Parantapa, is superior in yajñas requiring much material. All complete action, Partha, ends in wisdom."
Link copiedAction has two aspects — the unintelligent act itself, with its materials and instruments, and the wisdom that directs it. The wisdom-aspect is superior. All work is ultimately performed so that wisdom may be cultivated; wisdom is the end to which every means points.
Link copiedVerse 4.35. "By prostrations, by fair questionings, and by service, know this. The truth-seeing saints shall instruct thee in wisdom."
Link copiedRamanuja reads this verse as direct guidance on how to acquire spiritual knowledge while yet engaged in prescribed work. The wise — the tattva-darśins to whom ātman is a demonstrated verity — pleased by the aspirant's reverent demeanour and service, will divine his heart and impart the wisdom.
Link copiedVerse 4.36. "Knowing which, thou wilt not again be deluded — that wisdom by which thou wilt see the sum of all beings in thyself, then in Me."
Link copiedThe wisdom by which one recognises that all ātmans, when viewed apart from their material environments, are one in their essential nature of being conscious entities. "Embracing this knowledge, they have attained to My equality" (XIV.2). Sruti confirms: "Then the enlightened man, casting off merit and demerit, becomes cleansed and attains the highest equality" (Mundaka III.1.3). Stripped of name and form, the ātman-essence is equal in all beings and equal with the nature of Para.
Link copiedVerse 4.37. "Wert thou the worst of sinners, thou shouldst yet with this wisdom-bark swim across all evil."
Link copiedVerse 4.38. "As kindled fire, Arjuna, consumes a heap of sticks, so the fire of wisdom reduces all action to ashes."
Link copiedVerse 4.39. "No purifier like wisdom exists here. He who is karma-yoga-perfect realises it in himself in time."
Link copiedVerse 4.40. "Whoso is full of faith, intent thereon, of subdued senses, attains wisdom. Wisdom attained, he soon attains Supreme Peace."
Link copiedVerse 4.41. "The ignorant, the non-earnest, the sceptic-minded perishes. To the sceptic-minded, this world is not, nor the other, nor happiness."
Link copiedIgnorance, faithlessness, and doubt are three distinct obstacles. Whoever doubts the very existence of the ātman cannot share in the smallest fraction of spiritual bliss.
Link copiedVerse 4.42. "No deeds bind him, Dhananjaya, whose works are yoga-dedicated, whose doubts are wisdom-cut, whose mind is firmly fixed. With the sword of wisdom, then, Bharata, cleaving all this ignorance-born doubt settling in thy heart, arise, and practise karma-yoga."
Link copiedThus closes Lecture Four, the Path of Knowledge (jñāna-karma-sannyāsa-yoga), with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.
Link copied