Bhagavad Gita Bhashya · Section 4 of 19
atha karma-yogo nāma tṛtīyo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
तद् एवꣳ मुमुक्षुभिः परम-प्राप्यतया वेदान्तोदित-निरस्त-निखिलाविद्यादि-दोष-गन्धानवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-पर-ब्रह्म-पुरुषोत्तम-प्राप्त्य्-उपाय-भूत-वेदनोपासन-ध्यानादि-शब्द-वाच्य-तद्-ऐकान्तिकात्यन्तिक-भक्ति-योगꣳ वक्तुꣳ तद्-अङ्ग-भूतꣳ य आत्मापहृत-पाप्मा [छा।उ। ८।७।१] इत्य् आदि-प्रजापति-वाक्योदितꣳ प्राप्तुर् आत्मनो याथात्म्य-दर्शनꣳ तन्-नित्यता-ज्ञान-पूर्वकासङ्ग-कर्म-निष्पाद्य-ज्ञान-योग-साध्यम् उक्तम्।
Link copiedप्रजापति-वाक्ये हि दहर-वाक्योदित-पर-विद्याशेषतया प्राप्तुर् आत्मनः स्वरूप-दर्शनꣳ यस् तम् आत्मानम् अनुविद्य विजानाति [छा।उ। ८।१२।६] इत्य् उक्त्वा जागरित-स्वप्न-सुषुप्त्य्-अतीतꣳ प्रत्यग्-आत्म-स्वरूपम् अशरीरꣳ प्रतिपाद्य एवम् एवैष सम्प्रसादोऽस्याच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छा।उ। ८।१२।३] इति दहर-विद्या-फलेनोपसꣳहृतम्।
Link copiedअन्यत्रापि अध्यात्म-योगाधिगमेन देवꣳ मत्वा धीरो हर्ष-शोकौ जहाति [क।उ। १।२।१२] इत्य् एवम् आदिषु देवꣳ मत्वेति विधीयमान-पर-विद्याङ्गतया अध्यात्म-योगाधिगमेन इति प्रत्यग्-आत्म-ज्ञानम् अपि विधाय न जायते म्रियते वा विपश्चित् [क।उ। १।२।१८] इत्य् आदिना प्रत्यग्-आत्म-स्वरूपꣳ विशोध्य अणोर् अणीयान् इत्य् आरभ्य महान्तꣳ विभुम् आत्मानꣳ मत्वा धीरो न शोचति [क।उ। १।२।२०-२१],
Link copiedनायम् आत्मा प्रवचनेन लभ्यो
Link copiedन मेधया न बहुना श्रुतेन।
Link copiedयम् एवैष वृणुते तेन लभ्यस्
Link copiedतस्यैष आत्मा विवृणुते तनूꣳ स्वाम्॥ [क।उ। १।२।२३] इत्य्-आदिभिः।
Link copied
पर-स्वरूपꣳ तद्-उपासनम् उपासनस्य च भक्ति-रूपताꣳ प्रतिपाद्य---
Link copiedविज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः।
Link copiedसोऽध्वनः परम् आप्नोति तद् विष्णोः परमꣳ पदम्॥ [क।उ। १।३।९]
Link copiedइति पर-विद्या-फलेनोपसꣳहृतम्। अतः परम् अध्याय-चतुष्टयेनेदम् एव प्राप्तुः प्रत्य-आत्मनो दर्शनꣳ स-साधनꣳ प्रपञ्चयति---
Link copiedअर्जुन उवाच
Link copiedज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन।
Link copiedतत् किꣳ कर्मणि घोरे माꣳ नियोजयसि केशव॥१॥
Link copiedयदि कर्मणो बुद्धिर् एव ज्यायसी इति ते मता, किम् अर्थꣳ तर्हि घोरे कर्मणि माꣳ नियोजयसि? एतद् उक्तꣳ भवति--- ज्ञान-निष्ठा एव आत्मावलोकन-साधनम्। कर्म-निष्ठा तु तस्याः निष्पादिका, आत्मावलोकन-साधन-भूता च ज्ञान-निष्ठा सकलेन्द्रिय-मनसाꣳ शब्दादि-विषय-व्यापारोपरति-निष्पाद्या इत्य् अभिहिता। इन्द्रिय-व्यापारोपरति-निष्पाद्यम् आत्मावलोकनꣳ चेद् सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञान-निष्ठायाम् एव अहꣳ नियोजयितव्यः। किम् अर्थꣳ घोरे कर्मणि सर्वेन्द्रिय-व्यापार-रूपे आत्मावलोकन-विरोधिनि कर्मणि माꣳ नियोजयसि इति॥३।१॥
Link copiedव्यामिश्रेणेव वाक्येन बुद्धिꣳ मोहयसीव मे।
Link copiedतद् एकꣳ वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम्॥२॥
Link copiedअतो व्यामिश्र-वाक्येन माꣳ मोहयसि इव इति मे प्रतिभाति। तथा हि आत्मावलोकन-साधन-भूतायाः सर्वेन्द्रिय-व्यापारोपरति-रूपाया ज्ञान-निष्ठायाः तद्-विपर्यय-रूपꣳ कर्म साधनꣳ तद् एव कुरु इति वाक्यꣳ विरुद्धꣳ व्यामिश्रम् एव। तस्माद् एकम् अमिश्र-रूपꣳ वाक्यꣳ वद। येन वाक्येन अहम् अनुष्ठेय-रूपꣳ निश्चित्य आत्मनः श्रेयः प्राप्नुयाम्॥३।२॥
Link copiedश्री-भगवान् उवाच
Link copiedलोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
Link copiedज्ञान-योगेन साङ्ख्यानाꣳ कर्म-योगेन योगिनाम्॥३॥
Link copiedपूर्वोक्तꣳ च सम्यग् अवधृतꣳ त्वया। पुरा ह्य् अस्मिन् लोके विचित्राधिकारि-सम्पूर्णे द्विविधा निष्ठा ज्ञान-कर्म-विषया यथाधिकारम् असङ्कीर्णा एव मया उक्ता। न हि सर्वो लौकिकः पुरुषः सञ्जात-मोक्षाभिलाषः तदानीम् एव ज्ञान-योगाधिकारे प्रभवति, अपि तु अनभिसꣳहित-फलेन केवल-परम-पुरुषाराधन-रूपेण अनुष्ठितेन कर्मणा विध्वस्त-मनो-मलोऽव्याकुलेन्द्रियो ज्ञान-निष्ठायाम् अधिकरोति---
Link copiedयतः प्रवृत्तिर् भूतानाꣳ येन सर्वम् इदꣳ ततम्।
Link copiedस्व-कर्मणा तम् अभ्यच्र्य सिद्धिꣳ विन्दति मानवः॥ [गीता १८।४६]
Link copied
इति परम-पुरुषाराधनैकवेषता कर्मणाꣳ वक्ष्यते। इहापि कर्मण्य् एवाधिकारस् ते [गीता २।४७] इत्य् आदिना अनभिसꣳहित-फलꣳ कर्म अनुष्ठेयꣳ विधाय तेन विषय-व्याकुलता-रूप-मोहाद् उत्तीर्णबुद्धेः प्रजहाति यदा कामान् [गीता २।५५] इत्य् आदिना ज्ञान-योग उदितः। अतः साङ्ख्यानाम् एव ज्ञान-योगेन स्थितिः उक्ता, योगिनाꣳ तु कर्म-योगेन। सङ्ख्या बुद्धिः, तद्-युक्ताः साङ्ख्याः। आत्मैक-विषयया बुद्ध्या युक्ताः साङ्ख्याः। अतद्-अर्हाः कर्म-योगाधिकारिणो योगिनः। विषय-व्याकुल-बुद्धि-युक्तानाꣳ कर्म-योगे अधिकारः, अव्याकुल-बुद्धीनाꣳ तु ज्ञान-योगे अधिकार उक्तः, सति न किञ्चिद् इह विरुद्धम्, नापि व्यामिश्रम् अभिहितम्॥३।३॥
Link copiedसर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायाꣳ सञ्जातायाꣳ सहसा एव ज्ञान-योगो दुष्कर इत्य् आह---
Link copiedन कर्मणाम् अनारम्भान् नैष्कर्म्यꣳ पुरुषोऽश्नुते।
Link copiedन च सन्न्यसनाद् एव सिद्धिꣳ समधिगच्छति॥४॥
Link copiedन शास्त्रीयाणाꣳ कर्मणाम् अनारम्भाद् एव पुरुषः नैष्कर्म्यꣳ ज्ञान-निष्ठाम् आप्नोति। सर्वेन्द्रिय-व्यापाराख्य-कर्मोपरति-पूर्विकाꣳ ज्ञान-निष्ठाꣳ न प्राप्नोति इत्य् अर्थः। न च आरब्धस्य शास्त्रीयस्य कर्मणस् त्यागात्। यतोऽनभिसꣳहित-फलस्य परम-पुरुषाराधन-विषयस्य कर्मणः सिद्धिः आत्म-निष्ठा स्यात्। आत्म-निष्ठा स्यात्। अतस् तेन विना ताꣳ न प्राप्नोति। अनभिसꣳहित-फलैः कर्मभिर् अनाराधित-गोविन्दैर् अविनष्टानादि-काल-प्रवृत्तानन्त-पाप-सञ्चयैर् अव्याकुलेन्द्रियता-पूर्विका आत्म-निष्ठा दुःसम्पाद्या॥३।४॥
Link copiedएतद् एव उपपादयति---
Link copiedन हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत्।
Link copiedकार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः॥५॥
Link copiedन ह्य् अस्मिन् लोके वर्तमानः पुरुषः कश्चित् कदाचित् अपि कर्म अकुर्वाणः तिष्ठति। न किञ्चित् करोमीति व्यवसितोऽपि सर्वः पुरुषः प्रकृति-समुद्भवैः सत्त्व-रजस्-तमोभिः प्राक्तन-कर्मानुगुणꣳ प्रवृद्धैर् गुणैः स्वोचितꣳ कर्म प्रत्य् अवशः कार्यते प्रवर्त्यते। अत उक्त-लक्षणेन कर्म-योगेन प्राचीनꣳ पाप-सञ्चयꣳ नाशयित्वा गुणाꣳश् च सत्त्वादीन् वशे कृत्वा निर्मलान्तः-करणेन सम्पाद्यो ज्ञान-योगः॥३।५॥
Link copiedअन्यथा ज्ञान-योगाय प्रवृत्तोऽपि मिथ्याचारो भवति इति आह---
Link copiedकर्मेन्द्रियाणि सꣳयम्य य आस्ते मनसा स्मरन्।
Link copiedइन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥६॥
Link copiedअविनष्ट-पापतया अजित-बाह्यान्तःकरण आत्म-ज्ञानाय प्रवृत्तो विषय-प्रवणतया आत्मनि विमुखीकृत-मनाः विषयान् एव स्मरन् य आस्ते। अन्यथा सङ्कल्प्य अन्यथा चरति इति स मिथ्याचारः उच्यते। आत्म-ज्ञानाय उद्युक्तो विपरीतो विनष्टो भवति इत्य् अर्थः॥३।६॥
Link copiedयस् त्व् इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।
Link copiedकर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते॥७॥
Link copiedअतः पूर्वाभ्यस्त-विषय-सजातीये शास्त्रीये कर्मणि इन्द्रियाणि आत्मावलोकन-प्रवृत्तेन मनसा नियम्य तैः स्वतएव कर्म-प्रवणैः इन्द्रियैः असङ्ग-पूर्वकꣳ यः कर्म-योगम् आरभते, सोऽसम्भाव्यमान-प्रमादत्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्यते॥३।७॥
Link copiedनियतꣳ कुरु कर्म त्वꣳ कर्म ज्यायो ह्य् अकर्मणः।
Link copiedशरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः॥८॥
Link copiedनियतꣳ व्याप्तꣳ प्रकृति-सꣳसृष्टेन हि व्याप्तꣳ कर्म। प्रकृति-सꣳसृष्टत्वम् अनादि-वासनया। नियतत्वेन सुशकत्वाद् असम्भावित-प्रमादत्वाच् च कर्मणः, कर्मैव कुरु। अकर्मणः ज्ञान-निष्ठाया अपि कर्मैव ज्यायः। नैष्कर्म्यꣳ पुरुषोऽश्नुते [गीता ३।४] इति प्रक्रमात्। अकर्म-शब्देन ज्ञान-निष्ठैवोच्यते। ज्ञान-निष्ठाधिकारिणोऽप्य् अनभ्यस्त-पूर्वतया ह्य् अनियतत्वेन दुःशकत्वात् स-प्रमादत्वाच् च ज्ञान-निष्ठायाः कर्म-निष्ठैव ज्यायसी।
Link copiedकर्मणि क्रियमाणे चात्म-याथात्म्य-ज्ञानेन आत्मनोऽकर्तृत्वानुसन्धानम् अनन्तरम् एव वक्ष्यते। अत आत्म-ज्ञानस्यापि कर्म-योगान्तर्गतत्वात् सैव ज्यायन् इत्य् अर्थः। कर्मणो ज्ञान-निष्ठाया ज्यायस्त्व-वचनꣳ ज्ञान-निष्ठायाम् अधिकारे सत्य् एवोपपद्यते।
Link copiedयदि सर्वꣳ कर्म परित्यज्य केवलꣳ ज्ञान-निष्ठायाम् अधिकरोषि, तर्ह्य् अकर्मणस् ते ज्ञान-निष्ठस्य ज्ञान-निष्ठोपकारिणी शरीर-यात्रापि न सेत्स्यति। यावत्-साधन-समाप्ति शरीर-धारणꣳ चावश्यꣳ कार्यम्। न्यायार्जित-धनेन महा-यज्ञादिकꣳ कृत्वा तच्-छिष्टाशनेनैव शरीर-धारणꣳ कार्यम्। आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः [छा।उ। ७।२६।२] इत्य् आदि-श्रुतेः। भुञ्जते ते त्व् अघꣳ पापा ये पचन्त्य् आत्म-कारणात् [गीता ३।१३] इति च वक्ष्यते। अतो ज्ञान-निष्ठस्यापि कर्माकुर्वतो देह-यात्रा न सेत्स्यति। यतो ज्ञान-निष्ठस्यापि ध्रियमाण-शरीरस्य यावत्-साधन-समाप्ति महा-यज्ञादि-नित्य-नैमित्तिकꣳ कर्म अवश्यꣳ कार्यम्। यतश् च कर्म-योगेऽप्य् आत्मनोऽकर्तृत्व-भावनया आत्म-याथात्म्यानुसन्धानम् अन्तर्भूतम्। यतश् च प्रकृति-सꣳसृष्टस्य कर्म-योगः सुशकोऽप्रमादश् च। अतो ज्ञान-निष्ठा-योग्यस्यापि ज्ञान-योगात् कर्म-योगो ज्यायान्। तस्मात् त्वꣳ कर्म-योगम् एव कुर्व् इत्य् अभिप्रायः॥३।८॥
Link copiedएव तर्हि द्रव्यार्जनादेः कर्मणोऽहङ्कार-ममकारादि-सर्वेन्द्रिय-व्याकुलता-गर्भत्वेनास्य पुरुषस्य कर्म-वासनया बन्धनꣳ भविष्यतीत्य् अत्राह---
Link copiedयज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयꣳ कर्म-बन्धनः।
Link copiedतद् अर्थꣳ कर्म कौन्तेय मुक्तसङ्गः समाचर॥९॥
Link copiedयज्ञादि-शास्त्रीय-कर्म-शेष-भूताद् द्रव्यार्जनादेः कर्मणोऽन्यत्रात्मीय-प्रयोजन-शेष-भूते कर्मणि क्रियमाणेऽयꣳ लोकः कर्म-बन्धनो भवति। अतस् त्वꣳ यज्ञाद्य्-अर्थꣳ द्रव्यार्जनादिकꣳ कर्म समाचर। तत्रात्म-प्रयोजन-साधनतया यः सङ्गस् तस्मात् सङ्गात् मुक्तः सन् समाचर। एवꣳ मुक्त-सङ्गेन यज्ञाद्य्-अर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिर् आराधितः परम-पुरुषोऽस्य अनादि-काल-प्रवृत्त-कर्म-वासनाꣳ समुच्छिद्य अव्याकुलात्मावलोकनꣳ ददातीत्य् अर्थः॥३।९॥
Link copiedयज्ञ-शिष्टेनैव सर्व-पुरुषार्थ-साधन-निष्ठानाꣳ शरीर-धारण-कर्तव्यताम् अयज्ञ-शिष्टेन शरीर-धारणꣳ कुर्वताꣳ दोषꣳ चाह--- पतिꣳ विश्वरस्य आत्मेश्वरम् [तै।ना। ११।३] इत्य् आदि श्रुतेः निरुपाधिकः प्रजापति-शब्दः सर्वेश्वरꣳ विश्व-स्राष्टारꣳ विश्वात्मानꣳ परायणꣳ नारायणम् आह। पुरा सर्ग-काले स भगवान् प्रजापतिः अनादि-काल-प्रवृत्ताचित्-सꣳसर्ग-विवशा उपसꣳहृत-नाम-रूप-विभागाः स्वस्मिन् प्रलीनाः सकल-पुरुषार्थानर्हाश् चेतनेतर-कल्पाः प्रजाः समीक्ष्य परम-कारुणिकस् तद्-उज्जिजीवविषया स्वाराधन-भूत-यज्ञ-निर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवम् उवाच---
Link copiedसह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।
Link copiedअनेन प्रसविष्यध्वम् एष वोऽस्त्व् इष्ट-काम-धुक्॥१०॥
Link copiedअनेन यज्ञेन प्रसविष्यध्वम् आत्मनो वृद्धिꣳ कुरुध्वम्। एष वो यज्ञः परम-पुरुषार्थ-लक्षण-मोक्षाख्यस्य कामस्य तद्-अनुगुणानाꣳ च कामानाꣳ प्रपूरयिता भवतु॥३।१०॥
Link copiedकथम्।
Link copiedदेवान् भावयतानेन ते देवा भावयन्तु वः।
Link copiedपरस्परꣳ भावयन्तः श्रेयः परम् अवाप्स्यथ॥११॥
Link copiedअनेन देवताराधन-भूतेन देवान् मच्-छरीर-भूतान् मद्-आत्मकान् आराधयत। अहꣳ हि सव-यज्ञानाꣳ भोक्ता च प्रभुर् एव च [गीता ९।२४] इति वक्ष्यते। यज्ञेनाराधितास् ते देवा मद्-आत्मकाः स्वाराधनापेक्षितान्न-पानादिकैर् युष्मान् पुष्णन्तु। एवꣳ परस्परꣳ भावयन्तः परꣳ श्रेयो मोक्षाख्यम् अवाप्स्यथ॥३।११॥
Link copiedइष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः।
Link copiedतैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥१२॥
Link copiedयज्ञ-भाविता यज्ञेनाराधिता मद्-आत्मका देवा इष्टान् भोगान् वो दास्यन्ते परम-पुरुषार्थ-लक्षणꣳ मोक्षꣳ साधयताꣳ ये इष्टा भोगास् तान् पूर्व-पूर्व-यज्ञ-भाविता देवा दास्यन्ते। उत्तरोत्तराराधनापेक्षितान् सर्वान् भोगान् वो दास्यन्तीत्य् अर्थः। स्वाराधनार्थतया तैर् दत्तान् भोगाꣳस् तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव सः। चौर्यꣳ हि नाम अन्यदीये तत्-प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयता-बुद्धिꣳ कृत्वा तेन स्वात्म-पोषणम्। अतोऽस्य न परम-पुरुषार्थानर्हता-मात्रम्, अपि तु निरय-गामित्वꣳ च भविष्यतीत्य् अभिप्रायः॥३।१२॥
Link copiedतद् एव विवृणोति---
Link copiedयज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः।
Link copiedभुञ्जते ते त्व् अघꣳ पापा ये पचन्त्य् आत्म-कारणात्॥१३॥
Link copiedइन्द्राद्य्-आत्मनावस्थित-परम-पुरुषाराधनार्थतयैव द्रव्याण्य् उपादाय विपच्य तैर् यथावस्थितꣳ परम-पुरुषम् आराध्य तच्-छिष्टाशनेन ये शरीर-यात्राꣳ कुर्वते, ते त्व् अनादि-कालोपार्जितैः किल्बिषैर् आत्म-याथात्म्यावलोकन-विरोधिभिः सर्वैर् विमुच्यन्ते। ये तु परम-पुरुषेण इन्द्राद्य्-आत्मना स्वाराधनाय दत्तानाम् आत्मार्थतयोपादाय विपच्याश्नन्ति ते पापात्मानोऽघम् एव भुञ्जते। अघ-परिणामित्वाद् अघम् इत्य् उच्यते। आत्मावलोकन-विमुखा नरकायैव पच्यन्ते॥३।१३॥
Link copiedपुनर् अपि लोक-दृष्ट्या शास्त्र-दृष्ट्या च सर्वस्य यज्ञ-मूलत्वꣳ दर्शयित्वा यज्ञानुवर्तनस्य अवश्य-कार्यताम् अननुवर्तने दोषꣳ चाह---
Link copiedअन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-सम्भवः।
Link copiedयज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः॥१४॥
Link copiedअन्नात् सर्वाणि भूतानि भवन्ति पर्जन्याद् अन्न-सम्भवः इति सर्व-लोक-साक्षिकम्। यज्ञात् पर्जन्यो भवतीति च शास्त्रेणावगम्यते---
Link copiedअग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते।
Link copiedआदित्याज् जायते वृष्टिर् वृष्टेर् अन्नꣳ ततः प्रजाः॥ [मनु ३।७६] इत्य्-आदिना।
Link copied
यज्ञः च द्रव्यार्जनादि-कर्तृ-पुरुष-व्यापार-रूप-कर्म-समुद्भवः॥३।१४॥
Link copiedकर्म ब्रह्मोद्भवꣳ विद्धि ब्रह्माक्षर-समुद्भवम्।
Link copiedतस्मात् सर्व-गतꣳ ब्रह्म नित्यꣳ यज्ञे प्रतिष्ठितम्॥१५॥
Link copiedकर्म च ब्रह्मोद्भवम्। अत्र च ब्रह्म-शब्द-निर्दिष्टाꣳ प्रकृति-परिणाम-रूप-शरीरम्। तस्माद् एतद् ब्रह्म नाम रूपम् अन्नꣳ च जायते [मु।उ। १।१।९] इति ब्रह्म-शब्देन प्रकृतिर् निर्दिष्टा। इहापि मम योनिर् महद् ब्रह्म [गीता १४।३] इति वक्ष्यते। अतः कर्म ब्रह्मोद्भवम् इति प्रकृति-परिणाम-रूप-शरीरोद्भवꣳ कर्म इत्य् उक्तꣳ भवति। ब्रह्माक्षर-समुद्भवम् इत्य् अत्र अक्षर-शब्द-निर्दिष्टो जीवात्मा। अन्न-पानादिना तृप्ताक्षराधिष्ठितꣳ शरीरꣳ कर्मणे प्रभवतीति कर्म-साधन-भूतꣳ शरीरम् अक्षर-समुद्भवम्। तस्मात् सर्व-गतꣳ ब्रह्म सर्वाधिकारि-गतꣳ शरीरꣳ नित्यꣳ यज्ञे प्रतिष्ठितꣳ यज्ञ-मूलम् इत्य् अर्थः॥३।१५॥
Link copiedएवꣳ प्रवर्तितꣳ चक्रꣳ नानुवर्तयतीह यः।
Link copiedअघायुर् इन्द्रियारामो मोघꣳ पार्थ स जीवति॥१६॥
Link copiedएवꣳ परम-पुरुषेण प्रवर्तितम् इदꣳ चक्रम् अन्नाद् भवन्ति भूतानि इत्य् अत्र भूत-शब्द-निर्दिष्टानि स-जीवानि शरीराणि। पर्जन्याद् अन्नम्, यज्ञात् पर्जन्यः। यज्ञश् च कर्तृ-व्यापारानुरूपात् कर्मणः। कर्म च स-जीवात् शरीरात्, स-जीवꣳ शरीरꣳ च पुनर् अन्नाद् इति अन्योन्य-कार्य-कारण-भावेन चक्रवत् परिवर्तमानम्। इह साधने वर्तमानो यः कर्म-योगाधिकारी ज्ञान-योगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञ-शिष्टेन देह-धारणम् अकुर्वन् सोऽघायुर् भवति। अघारम्भायैव यस्यायुर् अघ-परिणतꣳ वोभय-रूपꣳ वा सोऽघायुः। अतएव इन्द्रियारामो भवति, नात्मारामः। इन्द्रियाण्य् एवास्योद्यानानि भवन्ति। अयज्ञ-शिष्ट-वर्धित-देह-मनस्त्वेन उद्रिक्त-रजस्-तमस्क आत्मावलोकन-विमुखतया विषय-भोगैक-रतिर् भवति, अतो ज्ञान-योगादौ यतमानोऽपि निष्फल-प्रयत्नतया मोघꣳ पार्थ स जीवति॥३।१६॥
Link copiedअसाधनायत्तात्म-दर्शनस्य मुक्तस्यैव महा-यज्ञादि-वर्णाश्रमोचित-कर्मानारम्भ इत्य् आह---
Link copiedयस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः।
Link copiedआत्मन्य् एव च सन्तुष्टस् तस्य कार्यꣳ न विद्यते॥१७॥
Link copiedयस् तु ज्ञान-योग-कर्म-योग-साधन-निरपेक्षः स्वत एव आत्म-रतिर् आत्माभिमुख आत्मना एव तृप्तः, न अन्न-पानादिभिर् आत्म-व्यतिरिक्तैः, आत्मन्य् एव च सन्तुष्टाः। न उद्यान-स्राक्-चन्दन-गीत-वादित्र-नृत्यादौ, धारण-पोषण-भोग्यादिकꣳ सर्वम् आत्मैव यस्य तस्य आत्म-दर्शनाय कर्तव्यꣳ न विद्यते। स्वत एव सर्वदा दृष्टात्म-स्वरूपत्वात्॥३।१७॥
Link copiedनैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।
Link copiedन चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः॥१८॥
Link copiedअतएव तस्यात्म-दर्शनाय कृतेन तत्-साधनेन नार्थः--- न किञ्चित् प्रयोजनम्, अकृतेन आत्म-दर्शन-साधनेन न कश्चिद् अनर्थः--- असाधनायत्तात्म-दर्शनत्वात्। स्वत एवात्म-व्यतिरिक्त-सकलाचिद्-वस्तु-विमुखस्यास्य सर्वेषु प्रकृति-परिणाम-विशेषेष्व् आकाशादिषु भूतेषु स-कार्येषु न कश्चित् प्रयोजनतया साधनतया वा व्यपाश्रयः, यतः तद्-विमुखीकरणाय साधनारम्भः। स हि मुक्तैव॥३।१८॥
Link copiedयस्माद् असाधनायत्तात्म-दर्शनस्यैव साधनाप्रवृत्तिः, यस्माच् च साधने प्रवृत्तस्यापि सुशकत्वाद् अप्रमादत्वात् तद्-अन्तर्गतात्मयाथात्म्यानुसन्धानत्वाद् च ज्ञान-योगिनोऽपि देह-यात्रायाः कर्मानुवृत्त्य्-अपेक्षत्वात् च कर्म-योगैव आत्म-दर्शन-निवृत्तौ श्रेयान्---
Link copiedतस्माद् असक्तः सततꣳ कार्यꣳ कर्म समाचर।
Link copiedअसक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः॥१९॥
Link copiedतस्माद् असङ्गपूर्वकꣳ कार्यम् इत्येव सततꣳ यावदात्मप्राप्ति कर्मैव समाचर। असक्तः कार्यम् इति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकꣳ च कर्म अनुचरन् पूरूषः कर्म-योगेनैव परम् आप्नोति आत्मानꣳ प्राप्नोति इत्य् अर्थः॥३।१९॥
Link copiedकर्मणैव हि सꣳसिद्धिम् आस्थिता जनकादयः।
Link copiedलोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि॥२०॥
Link copiedयतो ज्ञान-योगाधिकारिणोऽपि कर्म-योगैव आत्मदर्श ने श्रेयान्, अत एव हि जनकादयो राजर्वायो ज्ञानिनाम् अग्रेसराः कर्म-योगेनैव सꣳसिद्धिम् आस्थिताः, आत्मानꣳ प्राप्तवन्तः।
Link copiedएवꣳ प्रथमꣳ मुमुक्षोः ज्ञान-योगानर्हतया कर्म-योगाधिकारिणः कर्म-योगैव कार्यः, इत्युक्त्वा ज्ञान-योगाधिकारिणोऽपि ज्ञान-योगात् कर्म-योगैव श्रेयान् इति सहेतुकम् उक्तम्। इदानीꣳ शिष्टातया व्यपदेश्यस्य सर्वथा कर्म-योगैव कार्य इति उच्यते--- लोकसङ्ग्रहꣳ पश्यन् अपि कर्मैव कर्तुम् अर्हसि॥३।२०॥
Link copiedयद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः।
Link copiedस यत् प्रमाणꣳ कुरुते लोकस् तद् अनुवर्तते॥२१॥
Link copiedश्रेष्ठः कृत्स्न-शास्त्र-ज्ञातृतया अनुष्ठातृतया च प्रथितो यद् यद् आचरति तत् तद् एव अकृत्स्नविद् जनोऽपि आचरति। अनुष्ठीयमानम् अपि कर्म श्रेष्ठो यत्-प्रमाणꣳ यद्-अङ्ग-युक्तम् अनुतिष्ठति, तद्-अङ्ग-युक्तम् एव अकृत्स्न-विद् लोकोऽपि अनुतिष्ठति। अतो लोक-रक्षार्थꣳ शिष्टातया प्रथितेन श्रेष्ठेन स्व-वर्णाश्रमोचितꣳ कर्म सकलꣳ सर्वदा अनुष्ठेयम्। अन्यथा लोक-नाश-जनितꣳ पापꣳ ज्ञान-योगाद् अप्य् एनꣳ प्रच्यावयेत्॥३।२१॥
Link copiedन मे पार्थास्ति कर्तव्यꣳ त्रिषु लोकेषु किञ्चन।
Link copiedनानवाप्तम् अवाप्तव्यꣳ वर्तैव च कर्मणि॥२२॥
Link copiedन मे सर्वेश्वरस्य अवाप्त-समस्त-कामस्य सर्वज्ञस्य सत्य-सङ्कल्पस्य त्रिषु लोकेषु देव-मनुष्यादि-रूपेण स्वच्छन्दतो वर्तमानस्य किञ्चिद् अपि कर्तव्यम् अस्ति, यतोऽनवाप्तꣳ कर्मणावाप्तव्यꣳ न किञ्चिद् अप्य् अस्ति, अथापि लोक-रक्षायै कर्मण्य् एव वर्ते॥३।२२॥
Link copiedयदि ह्य् अहꣳ न वर्तेयꣳ जातु कर्मण्य् अतन्द्रितः।
Link copiedमम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥२३॥
Link copiedअह सर्वेश्वरः सत्य-सङ्कल्पः स्व-सङ्कल्प-कृत-जगद्-उदय-विभवलय-लीलः स्वच्छन्दतो जगद्-उपकृतये मर्त्यो जातोऽपि मनुष्येषु शिष्टाजनाग्रेसर-वसुदेव-गृहेऽवतीर्णस् तत्-कुलोचिते कर्मण्य् अतन्द्रितः सर्वदा यदि न वर्तेयम्, मम शिष्टाजनाग्रेसर-वसुदेव-सूनोर् वर्त्म अकृत्स्न-विदः शिष्टाश् च सर्व-प्रकारेणायम् एव धर्म इत्य् अनुवर्तन्ते ते च स्व-कर्तव्याननु-ष्ठानेनाकरणे प्रत्यवायेन चात्मानम् अनुपलभ्य निरय-गामिनो भवेयुः॥३।२३॥
Link copiedउत्सीदेयुर् इमे लोका न कुर्याꣳ कर्म चेद् अहम्।
Link copiedसङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः॥२४॥
Link copiedअहꣳ कुलोचितꣳ कर्म न चेत् कुर्याम् एवम् एव सर्वे शिष्टालोका मद्-आचारायत्त-धर्म-निश्चया अकरणाद् एव उत्सीदेयुः--- नष्टा भवेयुः, शास्त्रीयाचाराणाम् अपालनात् सर्वेषाꣳ शिष्टाकुलानाꣳ सङ्करस्य च कर्ता स्याम्, अतएव इमाः प्रजा उपहन्याम्। एवम् एव त्वम् अपि शिष्ट-जनाग्रेसर-पाण्डु-तनयो युधिष्ठिरानुजोऽर्जुनः सन् शिष्टतया यदि ज्ञान-निष्ठायाम् अधिकरोषि। ततस् त्वद्-आचारानुवर्तिनोऽकृत्स्न-विदः शिष्टाश् च मुमुक्षवः स्वाधिकारम् अजानन्तः कर्म-निष्ठायाम् अनधिकुर्वन्तो विनश्येयुः। अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम्॥३।२४॥
Link copiedसक्ताः कर्मण्य् अविद्वाꣳसो यथा कुर्वन्ति भारत।
Link copiedकुर्याद् विद्वाꣳस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम्॥२५॥
Link copiedअविद्वाꣳस आत्मन्य् अकृत्स्न-विदः कर्मणि सक्ताः कर्मण्य् अवर्जनीय-सम्बन्धाः, आत्मन्य् अकृतस्न-वित्तया तद्-अभ्यास-रूप-ज्ञान-योगेऽनधिकृताः, कर्म-योगाधिकारणिः कर्म-योगम् एव यथात्म-दर्शनाय कुर्वते, तथात्मनि कृत्स्न-वित्तया कर्मण्य् असक्तो ज्ञान-योगाधिकार-योग्योऽपि व्यपदेश्यः शिष्टाः, लोक-रक्षणार्थꣳ स्वाचारेण शिष्ट-लोकानाꣳ धर्म-निश्चयꣳ चिकीर्षुः कर्म-योगम् एव कुर्यात्॥३।२५॥
Link copiedन बुद्धि-भेदꣳ जनयेद् अज्ञानाꣳ कर्म-सङ्गिनाम्।
Link copiedजोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन्॥२६॥
Link copiedअज्ञानाम् आत्मन्य् अकृत्स्न-वित्तया ज्ञान-योगोपादानाशक्तानाꣳ मुमुक्षूणाꣳ कर्म-सङ्गिनाम् अनादि-कर्म-वासनया कर्मणि एव नियतत्वेन कर्म-योगाधिकारिणाꣳ कर्म-योगाद् अन्यथात्मावलोकनम् अस्तीति न बुद्धि-भेदꣳ जनयेत्। किꣳ तर्हि? आत्मनि कृत्स्न-वित्तया ज्ञान-योग-शक्तोऽपि पूर्वोक्त-रीत्या कर्म-योगैव ज्ञान-योग-निरपेक्ष आत्मावलोकन-साधनम् इति बुद्ध्या युक्तः कर्मैवाचरन् सर्व-कर्मसु अकृत्स्न-विदाꣳ प्रीतिꣳ जनयेत्॥३।२६॥
Link copiedअथ कर्म-योगम् अनुतिष्ठतो विदुषोऽविदुषश् च विशेषꣳ प्रदर्शयन् कर्म-योगापेक्षितम् आत्मनोऽकर्तृत्वानुसन्धान-प्रकारम् उपदिशति---
Link copiedप्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
Link copiedअहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते॥२७॥
Link copiedप्रकृतेः गुणैः सत्त्वादिभिः स्वानुरूपꣳ क्रियमाणानि कर्माणि प्रत्य् अहङ्कार-विमूढात्मा अहꣳ कर्तेति मन्यते। अहङ्कारेण विमूढ आत्मा यस्यासाव् अहङ्कार-विमूढात्मा। अहङ्कारो नाम अनहम्-अर्थे प्रकृताव् अहम् इति अभिमानः। तेन अज्ञातात्म-स्वरूपो गुण-कर्मस्व् अहꣳ कर्तेति मन्यते इत्य् अर्थः॥३।२७॥
Link copiedतत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः।
Link copiedगुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥२८॥
Link copiedगुण-कर्म-विभागयोः सत्त्वादि-गुण-विभागे तत्-तत्-कर्म-विभागे च तत्त्ववित्, गुणाः सत्त्वादयः स्व-गुणेषु स्वेषु कार्येषु वर्तन्ते इति मत्वा गुण-कर्मस्व् अहꣳ कर्तेति न सज्जते॥३।२८॥
Link copiedप्रकृतेर् गुण-सꣳमूढाः सज्जन्ते गुण-कर्मसु।
Link copiedतान् अकृत्स्न-विदो मन्दान् कृत्स्नविन् न विचालयेत्॥२९॥
Link copiedअकृत्स्न-विदस् तु आत्म-दर्शनाय प्रवृत्ताः प्रकृति-सꣳसृष्टतया प्रकृतेः गुणैर् यथावस्थितात्मनि सꣳमूढा गुण-कर्मसु क्रियास्व् एव सज्जन्ते, न तद्-विविक्तात्म-स्वरूपे। अतस् ते ज्ञान-योगाय न प्रभवन्तीति कर्म-योग एव तेषाम् अधिकारः। एवम्भूतान् तान् मन्दान् अकृत्स्न-विदः कृत्स्न-वित् स्वयꣳ ज्ञान-योगावस्थानेन न विचालयेत्। ते किल मन्दाः श्रेष्ठ-जनाचारानुवर्तिनः कर्म-योगाद् उत्थितम् एनꣳ दृष्ट्वा कर्म-योगात् प्रचलित-मनसो भवेयुः। अतः श्रेष्ठः स्वयम् अपि कर्म-योगे तिष्ठन् आत्म-याथात्म्य-ज्ञानेन आत्मनोऽकर्तृत्वम् अनसन्दधानः। कर्म-योग एवात्मावलोकने निरपेक्ष-साधनम् इति दर्शयित्वा तान् अकृत्स्न-विदो मन्दान् जोषयेद् इत्य् अर्थः।
Link copiedज्ञान-योगाधिकारिणोऽपि ज्ञान-योगाद् अस्यैव कर्म-योगस्य ज्यायस्त्वꣳ पूर्वम् एवोक्तम्। अतो व्यपदेश्यो लोक-सङ्ग्रहाय कर्मैव कुर्यात्। प्रकृति-विविक्तात्म-स्वभाव-निरूपणेन गुणेषु कर्तृत्वम् आरोप्य कर्मानुष्ठान-प्रकार उक्तः। गुणेषु कर्तृत्वानुसन्धानꣳ चेदम् एवात्मनो न स्वरूप-प्रयुक्तम् इदꣳ कर्तृत्वम्, अपि तु गुण-सम्बन्ध-कृतम् इति प्राप्ताप्राप्त-विवेकेन गुण-कृतम् इत्य् अनुसन्धानम्॥३।२९॥
Link copiedइदानीम् आत्मनाꣳ परम-पुरुष-शरीरतया तन्-नियाम्यत्व-स्वरूप-निरूपणेन भगवति पुरुषोत्तमे सर्वात्म-भूते गुण-कृतꣳ च कर्तृत्वम् आरोप्य कर्म-कर्तव्यतयोच्यते---
Link copiedमयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म-चेतसा।
Link copiedनिराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः॥३०॥
Link copiedमयि सर्वेश्वरे सर्व-भूतान्तरात्म-भूते सर्वाणि कर्माणि अध्यात्म-चेतसा सन्न्यस्य निराशीर् निर्ममश् च विगत-ज्वरो युद्धादिकꣳ सर्वꣳ चोदितꣳ कर्म कुरुष्व। आत्मनि यच् चेतस् तद् अध्यात्म-चेतः, आत्म-स्वरूप-विषयेण श्रुति-शत-सिद्धेन ज्ञानेनेत्य् अर्थः।
Link copiedअन्तः प्रविष्टाः शास्ता जनानाꣳ सर्वात्मा \॥। अन्तः प्रविष्टाꣳ कर्तारमेतम् [तै।आ। ३।११] य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद। यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृ। ५।७ मा।दि।] इत्य् एवम् आद्याः श्रुतयः परम-पुरुष-प्रवर्त्यꣳ तच्-छरीर-भूतम् एनम् आत्मानꣳ परम-पुरुषꣳ च प्रवर्तयितारम् आचक्षते। स्मृतयश् च--- प्रशासितारꣳ सर्वेषाम् [मनु १२।१२२] इत्य् आद्याः। सर्वस्य चाहꣳ हृदि सन्निविष्टाः [गीता १५।१५],
Link copiedईश्वरः सर्वभूतानाꣳ हृद्देशोऽर्जुन तिष्ठति।
Link copiedभ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया॥ [गीता १८।६१] इति वक्ष्यते।
Link copied
अतो मच्-छरीरतया मत्-प्रवर्त्यात्म-स्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परम-पुरुषे सन्न्यस्य तानि च केवलꣳ मद्-आराधनानीति कृत्वा तत्-फले निराशीस् तत एव तत्र कर्मणि ममता-रहितो भूत्वा विगत-ज्वरो युद्धादिकꣳ कुरुष्व।
Link copiedस्वकीयेनात्मना कर्त्रा स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषः सर्वेश्वरः सर्व-शेषी स्वयम् एव स्व-कर्माणि कारयति। इत्य् अनुसन्धाय कर्मसु ममता-रहितः प्राचीनेनानादि-काल-प्रवृत्तानन्त-पाप-सचयेन कथम् अहꣳ भविष्यामि इत्य् एवꣳ भूतान्तर्-ज्वर-विनिर्मुक्तः परम-पुरुष एव कर्मभिर् आराधितो बन्धान् मोचयिष्यतीति स्मरन् सुखेन कर्म-योगम् एव कुरुष्वेत्य् अर्थः।
Link copiedतम् ईश्वराणाꣳ परमꣳ महेश्वरꣳ तꣳ देवतानाꣳ परमꣳ च दैवतम् [श्वे।उ। ३।७], पतिꣳ विश्वस्य [म।ना।उ। ३।१], पतिꣳ पतीनाम् [श्वे।उ। ६।७], इत्य् आदि-श्रुति-सिद्धꣳ हि सर्वेश्वरत्वꣳ सर्व-शेषित्वꣳ च। ईश्वरत्वꣳ नियन्तृत्वम्, शेषित्वꣳ पतित्वम्॥३।३०॥
Link copiedअयम् एव साक्षाद्-उपनिषत्-सार-भूतोऽर्थ इत्य् आह---
Link copiedये मे मतम् इदꣳ नित्यम् अनुतिष्ठन्ति मानवाः।
Link copiedश्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥३१॥
Link copiedये मानवा आत्म-निष्ठ-शास्त्राधिकारिणोऽयम् एव शास्त्रार्थ इत्य् एतन् मे मतꣳ निश्चित्य तथानुतिष्ठन्ति। ये चाननुतिष्टान्तोऽप्य् अस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये च अश्रद्दधाना अपि एवꣳ शास्त्रार्थे न सम्भवतीति नाभ्यसूयन्ति। अस्मिन् महा-गुणे शास्त्रार्थे दोष-दर्शिनो न भवन्तीत्य् अर्थः। ते सर्वे बन्ध-हेतुभिर् अनादि-काल-प्रारब्धैः कर्मभिर् मुच्यन्ते। तेऽपि कर्मभिर् इति अपि-शब्दाद् एषाꣳ पृथक्-करणम्। इदानीम् अननुतिष्ठन्तोऽपि अस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश् च श्रद्धया चानसूयया च क्षीण-पापा अचिरेणेमम् एव शास्त्रार्थम् अनुष्ठाय मुच्यन्त इत्य् अर्थः॥३।३१॥
Link copiedभगवद्-अभिमतम् औपनिषदम् अर्थम् अननुतिष्ठताम् अश्रद्दधानानाम् अभ्यसूयताꣳ च दोषम् आह---
Link copiedये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
Link copiedसर्व-ज्ञान-विमूढाꣳस् तान् विद्धि नष्टान् अचेतसः॥३२॥
Link copiedये तु एतत् सर्वम् आत्मवस्तु मच्छरीरतया मदाधारꣳ मच्छेषभूतꣳ मदेकप्रवत्त्र्यम् इति मे मतꣳ न अनुतिष्ठन्ति नैवम् अनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये च अभ्यसूयन्तो वर्तन्ते, तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् ततएव नष्टाअन् अचेतसो विद्धि। चेतःकार्यꣳ हि वस्तुयाथात्म्यनिश्चयः, तदभावाद् अचेतसः विपरीतज्ञानाः सर्वत्र विमूढाश् च॥३।३२॥
Link copiedएवꣳ प्रकृति-सꣳसर्गिणस् तद्-गुणोद्रेक-कृतꣳ तच् च कर्तृत्वꣳ परम-पुरुषायत्तम् इति अनुसन्धाय कर्म-योग-योग्येन ज्ञान-योग-योग्येन च कर्म-योगस्य सुशकत्वाद् अप्रमादत्वाद् अन्तर्गतात्म-ज्ञानतया निरपेक्षत्वाद् इतरस्य दुःशकत्वात् सप्रमादत्वात् शरीर-धारणाद्य्-अर्थतया कर्मापेक्षत्वात् कर्म-योग एव कर्तव्यः। व्यपदेश्यस्य तु विशेषतः स एव कर्तव्य इति चोक्तम्। अतः परम् अध्याय-शेषेण ज्ञान-योगस्य दुःशकतया स-प्रमादतोच्यते---
Link copiedसदृशꣳ चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि।
Link copiedप्रकृतिꣳ यान्ति भूतानि निग्रहः किꣳ करिष्यति॥३३॥
Link copiedप्रकृति-विविक्तम् ईदृशम् आत्म-स्वरूपम्, तद् एव सर्वदानुसन्धेयम्, इति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवान् अपि स्वस्याः प्रकृतेः प्राचीन-वासनायाः सदृशꣳ प्राकृत-विषयेष्व् एव चेष्टाते। कुतः। प्रकृतिꣳ यान्ति भूतानि अचित्-सꣳसृष्टा जन्तवोऽनादि-काल-प्रवृत्त-वासनाम् एव यान्ति, तानि वासनानुयायीनि भूतानि शास्त्र-कृतो निग्रहः किꣳ करिष्यति॥।३।३३॥
Link copiedप्रकृत्य्-अनुयायित्व-प्रकारम् आह---
Link copiedइन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ।
Link copiedतयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ॥३४॥
Link copiedश्रोत्रदि-ज्ञानेन्द्रियस्यार्थे शब्दादौ वाग्-आदि-कर्मेन्द्रियस्य चार्थे वचनादौ प्राचीन-वासना-जनित-तत्-तद्-अनुबुभूषा-रूपो रागोऽवर्जनीयो व्यवस्थितः। तद्-अनुभवे प्रतिहते चावर्जनीयो द्वेषो व्यवस्थितः। ताव् एवꣳ ज्ञान-योगाय यतमानꣳ नियमित-सर्वेन्द्रियꣳ स्व-वशे कृत्वा प्रसह्य स्व-कार्येषु सꣳयोजयतः। ततश् चायम् आत्म-स्वरूपानुभव-विमुखो विनष्टो भवति। तयोर् न वशम् आगच्छेत्। ज्ञान-योगारम्भेण राग-द्वेष-वशम् आगम्य न विनश्येत्। तौ हि रग-द्वेषौ ह्य् अस्य दुर्जयौ शत्रू आत्म-ज्ञानाभ्यासꣳ वारयतः॥३।३४॥
Link copiedश्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात्।
Link copiedस्व-धर्मे निधनꣳ श्रेयः पर-धर्मो भयावहः॥३५॥
Link copiedअतः सुशकतया स्वधर्म-भूतः कर्म-योगो विगुणोऽप्य् अप्रमाद-गर्भः प्रकृति-सꣳसृष्टस्य दुःशकतया पर-धर्म-भूताज् ज्ञान-योगात् सगुणाद् अपि किञ्चित् कालम् अनुष्ठितात् स-प्रमादात् श्रेयान्। स्वेनैवोपादातुꣳ योग्यतया स्वधर्म-भूते कर्म-योगे वर्तमानस्य एकस्मिन् जन्मनि अप्राप्त-फलतया निधनम् अपि श्रेयः। अनन्तराय-हततया अनन्तर-जन्मन्य् अप्य् अव्याकुल-कर्म-योगारम्भ-सम्भवात्। प्रकृति-सꣳसृष्टस्य स्वेनैव उपादातुम् अशक्यतया पर-धर्म-भूतो ज्ञान-योगः प्रमाद-गर्भतया भयावहः॥३।३५॥
Link copiedअर्जुन उवाच
Link copiedअथ केन प्रयुक्तोऽयꣳ पापꣳ चरति पूरुषः।
Link copiedअनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः॥३६॥
Link copiedअथायꣳ ज्ञान-योगाय प्रवृत्तः पूरुषः स्वयꣳ विषयान् अनुभवितुम् अनिच्छन्न् अपि केन प्रयुक्तो विषयानुभव-रूपꣳ पापꣳ बलान् नियोजित इव चरति॥३।३६॥
Link copiedश्री-भगवान् उवाच
Link copiedकाम एष क्रोध एष रजो-गुण-समुद्भवः।
Link copiedमहाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम्॥३७॥
Link copiedअस्योद्भवाभिभव-रूपेण वर्तमान-गुण-मय-प्रकृति-सꣳसृष्टस्य प्रारब्ध-ज्ञान-योगस्य रजो-गुण-समुद्भवः प्राचीन-वासना-जनितः शब्दादि-विषयोऽयꣳ कामो महाशनः शत्रुः। सर्व-विषयेष्व् एनम् आकर्षति। एष एव प्रतिहत-गतिः प्रतिहनन-हेतु-भूत-चेतनान् प्रति क्रोध-रूपेण परिणतो महा-पाप्मा पर-हिꣳसादिषु प्रवर्तयति। एनꣳ रजो-गुण-समुद्भवꣳ सहजꣳ ज्ञान-योग-विरोधिनꣳ वैरिणꣳ विद्धि॥३।३७॥
Link copiedधूमेनाव्रियते वह्निर् यथादर्शो मलेन च।
Link copiedयथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्॥३८॥
Link copiedयथा धूमेन वह्निर् आव्रियते, यथा चादर्शो मलेन, यथा चोल्बेनावृतो गर्भस् तथा तेन कामेनेदꣳ जन्तु-जातम् आवृतम्॥३।३८॥
Link copiedआवरण-प्रकारम् आह---
Link copiedआवृतꣳ ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा।
Link copiedकाम-रूपेण कौन्तेय दुष्पूरेणानलेन च॥३९॥
Link copiedअस्य जन्तोर् ज्ञानिनो ज्ञान-स्वभावस्यात्म-विषयꣳ ज्ञानम् एतेन काम-कारेण विषय-व्यामोह-जननेन नित्य-वैरिणावृतꣳ दुष्पूरेण पूर्त्य्-अनर्ह-विषयेणानलेन च पर्याप्ति-रहितेन॥३।३९॥
Link copiedकैर् उपकरणैर् अयꣳ काम आत्मानम् अधितिष्ठतीत्य् अत्राह---
Link copiedइन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते।
Link copiedएतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्॥४०॥
Link copiedअधितिष्ठत्य् एभिर् अयꣳ काम आत्मानम् इतीन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम्। एतैर् इन्द्रिय-मनो-बुद्धिभिः कामाधिष्ठान-भूतैर् विषय-प्रवणैर् देहिनꣳ प्रकृति-सꣳसृष्टाꣳ ज्ञानम् आवृत्य विमोहयति। विविधꣳ मोहयत्य् आत्म-ज्ञान-विमुखꣳ
Link copiedविषयानुभव-परꣳ करोतीत्य् अर्थः॥४।४०॥
Link copiedतस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ।
Link copiedपाप्मानꣳ प्रजहि ह्य् एनꣳ ज्ञान-विज्ञान-नाशनम्॥४१॥
Link copiedयस्मात् सर्वेन्द्रिय-व्यापारोपरति-रूपे ज्ञान-योगे प्रवृत्तस्यायꣳ काम-रूपः शत्रुर् विषयाभिमुख्य-करणेनात्मनि वैमुख्यꣳ करोति। तस्मात् प्रकृति-सꣳसृष्टतयेन्द्रिय-व्यापार-प्रवणस् त्वम् आदौ मोक्षोपायारम्भ-समय एवेन्द्रिय-व्यापार-रूपे कर्म-योगे इन्द्रियाणि नियम्यैनꣳ ज्ञान-विज्ञान-नाशनम् आत्म-स्वरूप-विषयस्य ज्ञानस्य तद्-विवेक-विषयस्य च नाशनꣳ पाप्मानꣳ काम-रूपꣳ वैरिणꣳ प्रजहि नाशय॥३।४१॥
Link copiedज्ञान-विरोधिषु प्रधानम् आह---
Link copiedइन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परꣳ मनः।
Link copiedमनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः॥४२॥
Link copiedज्ञान-विरोधे प्रधानानीन्द्रियाण्य् आहुः। यत इन्द्रियेषु विषय-व्यापृतेष्व् आत्मनि ज्ञानꣳ न प्रवर्तते, इन्द्रियेभ्यः परꣳ मनः, इन्द्रियेषूपरतेष्व् अपि मनसि विषय-प्रवणे आत्म-ज्ञानꣳ न सम्भवति। मनसस् तु परा बुद्धिः। मनसि विषयान्तर-विमुखेऽपि विपरीताध्यवसाय-प्रवृत्तायाꣳ बुद्धौ नात्म-ज्ञानꣳ प्रवर्तते। सर्वेषु बुद्धि-पर्यन्तेषु उपरतेष्व् अपीच्छा-पर्यायः कामो रजः-समुद्भवो वर्तते चेत्, सैव एतानीन्द्रियादीन्य् अपि स्व-विषयेषु वर्तयित्वात्म-ज्ञानꣳ निरुणद्धि। तद् इदम् उच्यते यो बुद्धेः परतस् तु स इति बुद्धेर् अपि यः परः स काम इत्य् अर्थः॥३।४२॥
Link copiedएवꣳ बुद्धेः परꣳ बुद्ध्वा सꣳस्तभ्यात्मानम् आत्मना।
Link copiedजहि शत्रुꣳ महाबाहो कामरूपꣳ दुरासदम्॥४३॥
Link copiedएवꣳ बुद्धेर् अपि परꣳ कामꣳ ज्ञान-विरोधिनꣳ वैरिणꣳ बुद्ध्वात्मानꣳ मन आत्मना बुद्ध्या कर्म-योगेऽवस्थाप्यैनꣳ काम-रूपꣳ दुरासदꣳ शत्रुꣳ जहि नाशयेति॥३।४३॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये तृतीयोऽध्यायः॥३॥
Link copied**
Link copiedతద్ ఏవṁ ముముక్షుభిః పరమ-ప్రాప్యతయా వేదాన్తోదిత-నిరస్త-నిఖిలావిద్యాది-దోష-గన్ధానవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-పర-బ్రహ్మ-పురుషోత్తమ-ప్రాప్త్య్-ఉపాయ-భూత-వేదనోపాసన-ధ్యానాది-శబ్ద-వాచ్య-తద్-ఐకాన్తికాత్యన్తిక-భక్తి-యోగṁ వక్తుṁ తద్-అఙ్గ-భూతṁ య ఆత్మాపహృత-పాప్మా [ఛా।ఉ। ౮।౭।౧] ఇత్య్ ఆది-ప్రజాపతి-వాక్యోదితṁ ప్రాప్తుర్ ఆత్మనో యాథాత్మ్య-దర్శనṁ తన్-నిత్యతా-జ్ఞాన-పూర్వకాసఙ్గ-కర్మ-నిష్పాద్య-జ్ఞాన-యోగ-సాధ్యమ్ ఉక్తమ్।
Link copiedప్రజాపతి-వాక్యే హి దహర-వాక్యోదిత-పర-విద్యాశేషతయా ప్రాప్తుర్ ఆత్మనః స్వరూప-దర్శనṁ యస్ తమ్ ఆత్మానమ్ అనువిద్య విజానాతి [ఛా।ఉ। ౮।౧౨।౬] ఇత్య్ ఉక్త్వా జాగరిత-స్వప్న-సుషుప్త్య్-అతీతṁ ప్రత్యగ్-ఆత్మ-స్వరూపమ్ అశరీరṁ ప్రతిపాద్య ఏవమ్ ఏవైష సమ్ప్రసాదోఽస్యాచ్ ఛరీరాత్ సముత్థాయ పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే [ఛా।ఉ। ౮।౧౨।౩] ఇతి దహర-విద్యా-ఫలేనోపసṁహృతమ్।
Link copiedఅన్యత్రాపి అధ్యాత్మ-యోగాధిగమేన దేవṁ మత్వా ధీరో హర్ష-శోకౌ జహాతి [క।ఉ। ౧।౨।౧౨] ఇత్య్ ఏవమ్ ఆదిషు దేవṁ మత్వేతి విధీయమాన-పర-విద్యాఙ్గతయా అధ్యాత్మ-యోగాధిగమేన ఇతి ప్రత్యగ్-ఆత్మ-జ్ఞానమ్ అపి విధాయ న జాయతే మ్రియతే వా విపశ్చిత్ [క।ఉ। ౧।౨।౧౮] ఇత్య్ ఆదినా ప్రత్యగ్-ఆత్మ-స్వరూపṁ విశోధ్య అణోర్ అణీయాన్ ఇత్య్ ఆరభ్య మహాన్తṁ విభుమ్ ఆత్మానṁ మత్వా ధీరో న శోచతి [క।ఉ। ౧।౨।౨౦-౨౧],
Link copiedనాయమ్ ఆత్మా ప్రవచనేన లభ్యో
Link copiedన మేధయా న బహునా శ్రుతేన।
Link copiedయమ్ ఏవైష వృణుతే తేన లభ్యస్
Link copiedతస్యైష ఆత్మా వివృణుతే తనూṁ స్వామ్॥ [క।ఉ। ౧।౨।౨౩] ఇత్య్-ఆదిభిః।
Link copied
పర-స్వరూపṁ తద్-ఉపాసనమ్ ఉపాసనస్య చ భక్తి-రూపతాṁ ప్రతిపాద్య---
Link copiedవిజ్ఞాన-సారథిర్ యస్ తు మనః-ప్రగ్రహవాన్ నరః।
Link copiedసోఽధ్వనః పరమ్ ఆప్నోతి తద్ విష్ణోః పరమṁ పదమ్॥ [క।ఉ। ౧।౩।౯]
Link copiedఇతి పర-విద్యా-ఫలేనోపసṁహృతమ్। అతః పరమ్ అధ్యాయ-చతుష్టయేనేదమ్ ఏవ ప్రాప్తుః ప్రత్య-ఆత్మనో దర్శనṁ స-సాధనṁ ప్రపఞ్చయతి---
Link copiedఅర్జున ఉవాచ
Link copiedజ్యాయసీ చేత్ కర్మణస్ తే మతా బుద్ధిర్ జనార్దన।
Link copiedతత్ కిṁ కర్మణి ఘోరే మాṁ నియోజయసి కేశవ॥౧॥
Link copiedయది కర్మణో బుద్ధిర్ ఏవ జ్యాయసీ ఇతి తే మతా, కిమ్ అర్థṁ తర్హి ఘోరే కర్మణి మాṁ నియోజయసి? ఏతద్ ఉక్తṁ భవతి--- జ్ఞాన-నిష్ఠా ఏవ ఆత్మావలోకన-సాధనమ్। కర్మ-నిష్ఠా తు తస్యాః నిష్పాదికా, ఆత్మావలోకన-సాధన-భూతా చ జ్ఞాన-నిష్ఠా సకలేన్ద్రియ-మనసాṁ శబ్దాది-విషయ-వ్యాపారోపరతి-నిష్పాద్యా ఇత్య్ అభిహితా। ఇన్ద్రియ-వ్యాపారోపరతి-నిష్పాద్యమ్ ఆత్మావలోకనṁ చేద్ సిషాధయిషితమ్, సకలకర్మనివృత్తిపూర్వకజ్ఞాన-నిష్ఠాయామ్ ఏవ అహṁ నియోజయితవ్యః। కిమ్ అర్థṁ ఘోరే కర్మణి సర్వేన్ద్రియ-వ్యాపార-రూపే ఆత్మావలోకన-విరోధిని కర్మణి మాṁ నియోజయసి ఇతి॥౩।౧॥
Link copiedవ్యామిశ్రేణేవ వాక్యేన బుద్ధిṁ మోహయసీవ మే।
Link copiedతద్ ఏకṁ వద నిశ్చిత్య యేన శ్రేయోఽహమ్ ఆప్నుయామ్॥౨॥
Link copiedఅతో వ్యామిశ్ర-వాక్యేన మాṁ మోహయసి ఇవ ఇతి మే ప్రతిభాతి। తథా హి ఆత్మావలోకన-సాధన-భూతాయాః సర్వేన్ద్రియ-వ్యాపారోపరతి-రూపాయా జ్ఞాన-నిష్ఠాయాః తద్-విపర్యయ-రూపṁ కర్మ సాధనṁ తద్ ఏవ కురు ఇతి వాక్యṁ విరుద్ధṁ వ్యామిశ్రమ్ ఏవ। తస్మాద్ ఏకమ్ అమిశ్ర-రూపṁ వాక్యṁ వద। యేన వాక్యేన అహమ్ అనుష్ఠేయ-రూపṁ నిశ్చిత్య ఆత్మనః శ్రేయః ప్రాప్నుయామ్॥౩।౨॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedలోకేఽస్మిన్ ద్వివిధా నిష్ఠా పురా ప్రోక్తా మయానఘ।
Link copiedజ్ఞాన-యోగేన సాఙ్ఖ్యానాṁ కర్మ-యోగేన యోగినామ్॥౩॥
Link copiedపూర్వోక్తṁ చ సమ్యగ్ అవధృతṁ త్వయా। పురా హ్య్ అస్మిన్ లోకే విచిత్రాధికారి-సమ్పూర్ణే ద్వివిధా నిష్ఠా జ్ఞాన-కర్మ-విషయా యథాధికారమ్ అసఙ్కీర్ణా ఏవ మయా ఉక్తా। న హి సర్వో లౌకికః పురుషః సఞ్జాత-మోక్షాభిలాషః తదానీమ్ ఏవ జ్ఞాన-యోగాధికారే ప్రభవతి, అపి తు అనభిసṁహిత-ఫలేన కేవల-పరమ-పురుషారాధన-రూపేణ అనుష్ఠితేన కర్మణా విధ్వస్త-మనో-మలోఽవ్యాకులేన్ద్రియో జ్ఞాన-నిష్ఠాయామ్ అధికరోతి---
Link copiedయతః ప్రవృత్తిర్ భూతానాṁ యేన సర్వమ్ ఇదṁ తతమ్।
Link copiedస్వ-కర్మణా తమ్ అభ్యచ్ర్య సిద్ధిṁ విన్దతి మానవః॥ [గీతా ౧౮।౪౬]
Link copied
ఇతి పరమ-పురుషారాధనైకవేషతా కర్మణాṁ వక్ష్యతే। ఇహాపి కర్మణ్య్ ఏవాధికారస్ తే [గీతా ౨।౪౭] ఇత్య్ ఆదినా అనభిసṁహిత-ఫలṁ కర్మ అనుష్ఠేయṁ విధాయ తేన విషయ-వ్యాకులతా-రూప-మోహాద్ ఉత్తీర్ణబుద్ధేః ప్రజహాతి యదా కామాన్ [గీతా ౨।౫౫] ఇత్య్ ఆదినా జ్ఞాన-యోగ ఉదితః। అతః సాఙ్ఖ్యానామ్ ఏవ జ్ఞాన-యోగేన స్థితిః ఉక్తా, యోగినాṁ తు కర్మ-యోగేన। సఙ్ఖ్యా బుద్ధిః, తద్-యుక్తాః సాఙ్ఖ్యాః। ఆత్మైక-విషయయా బుద్ధ్యా యుక్తాః సాఙ్ఖ్యాః। అతద్-అర్హాః కర్మ-యోగాధికారిణో యోగినః। విషయ-వ్యాకుల-బుద్ధి-యుక్తానాṁ కర్మ-యోగే అధికారః, అవ్యాకుల-బుద్ధీనాṁ తు జ్ఞాన-యోగే అధికార ఉక్తః, సతి న కిఞ్చిద్ ఇహ విరుద్ధమ్, నాపి వ్యామిశ్రమ్ అభిహితమ్॥౩।౩॥
Link copiedసర్వస్య లౌకికస్య పురుషస్య మోక్షేచ్ఛాయాṁ సఞ్జాతాయాṁ సహసా ఏవ జ్ఞాన-యోగో దుష్కర ఇత్య్ ఆహ---
Link copiedన కర్మణామ్ అనారమ్భాన్ నైష్కర్మ్యṁ పురుషోఽశ్నుతే।
Link copiedన చ సన్న్యసనాద్ ఏవ సిద్ధిṁ సమధిగచ్ఛతి॥౪॥
Link copiedన శాస్త్రీయాణాṁ కర్మణామ్ అనారమ్భాద్ ఏవ పురుషః నైష్కర్మ్యṁ జ్ఞాన-నిష్ఠామ్ ఆప్నోతి। సర్వేన్ద్రియ-వ్యాపారాఖ్య-కర్మోపరతి-పూర్వికాṁ జ్ఞాన-నిష్ఠాṁ న ప్రాప్నోతి ఇత్య్ అర్థః। న చ ఆరబ్ధస్య శాస్త్రీయస్య కర్మణస్ త్యాగాత్। యతోఽనభిసṁహిత-ఫలస్య పరమ-పురుషారాధన-విషయస్య కర్మణః సిద్ధిః ఆత్మ-నిష్ఠా స్యాత్। ఆత్మ-నిష్ఠా స్యాత్। అతస్ తేన వినా తాṁ న ప్రాప్నోతి। అనభిసṁహిత-ఫలైః కర్మభిర్ అనారాధిత-గోవిన్దైర్ అవినష్టానాది-కాల-ప్రవృత్తానన్త-పాప-సఞ్చయైర్ అవ్యాకులేన్ద్రియతా-పూర్వికా ఆత్మ-నిష్ఠా దుఃసమ్పాద్యా॥౩।౪॥
Link copiedఏతద్ ఏవ ఉపపాదయతి---
Link copiedన హి కశ్చిత్ క్షణమ్ అపి జాతు తిష్ఠత్య్ అకర్మకృత్।
Link copiedకార్యతే హ్య్ అవశః కర్మ సర్వః ప్రకృతిజైర్ గుణైః॥౫॥
Link copiedన హ్య్ అస్మిన్ లోకే వర్తమానః పురుషః కశ్చిత్ కదాచిత్ అపి కర్మ అకుర్వాణః తిష్ఠతి। న కిఞ్చిత్ కరోమీతి వ్యవసితోఽపి సర్వః పురుషః ప్రకృతి-సముద్భవైః సత్త్వ-రజస్-తమోభిః ప్రాక్తన-కర్మానుగుణṁ ప్రవృద్ధైర్ గుణైః స్వోచితṁ కర్మ ప్రత్య్ అవశః కార్యతే ప్రవర్త్యతే। అత ఉక్త-లక్షణేన కర్మ-యోగేన ప్రాచీనṁ పాప-సఞ్చయṁ నాశయిత్వా గుణాṁశ్ చ సత్త్వాదీన్ వశే కృత్వా నిర్మలాన్తః-కరణేన సమ్పాద్యో జ్ఞాన-యోగః॥౩।౫॥
Link copiedఅన్యథా జ్ఞాన-యోగాయ ప్రవృత్తోఽపి మిథ్యాచారో భవతి ఇతి ఆహ---
Link copiedకర్మేన్ద్రియాణి సṁయమ్య య ఆస్తే మనసా స్మరన్।
Link copiedఇన్ద్రియార్థాన్ విమూఢాత్మా మిథ్యాచారః స ఉచ్యతే॥౬॥
Link copiedఅవినష్ట-పాపతయా అజిత-బాహ్యాన్తఃకరణ ఆత్మ-జ్ఞానాయ ప్రవృత్తో విషయ-ప్రవణతయా ఆత్మని విముఖీకృత-మనాః విషయాన్ ఏవ స్మరన్ య ఆస్తే। అన్యథా సఙ్కల్ప్య అన్యథా చరతి ఇతి స మిథ్యాచారః ఉచ్యతే। ఆత్మ-జ్ఞానాయ ఉద్యుక్తో విపరీతో వినష్టో భవతి ఇత్య్ అర్థః॥౩।౬॥
Link copiedయస్ త్వ్ ఇన్ద్రియాణి మనసా నియమ్యారభతేఽర్జున।
Link copiedకర్మేన్ద్రియైః కర్మ-యోగమ్ అసక్తః స విశిష్యతే॥౭॥
Link copiedఅతః పూర్వాభ్యస్త-విషయ-సజాతీయే శాస్త్రీయే కర్మణి ఇన్ద్రియాణి ఆత్మావలోకన-ప్రవృత్తేన మనసా నియమ్య తైః స్వతఏవ కర్మ-ప్రవణైః ఇన్ద్రియైః అసఙ్గ-పూర్వకṁ యః కర్మ-యోగమ్ ఆరభతే, సోఽసమ్భావ్యమాన-ప్రమాదత్వేన జ్ఞాన-నిష్ఠాద్ అపి పురుషాద్ విశిష్యతే॥౩।౭॥
Link copiedనియతṁ కురు కర్మ త్వṁ కర్మ జ్యాయో హ్య్ అకర్మణః।
Link copiedశరీరయాత్రాపి చ తే న ప్రసిధ్యేద్ అకర్మణః॥౮॥
Link copiedనియతṁ వ్యాప్తṁ ప్రకృతి-సṁసృష్టేన హి వ్యాప్తṁ కర్మ। ప్రకృతి-సṁసృష్టత్వమ్ అనాది-వాసనయా। నియతత్వేన సుశకత్వాద్ అసమ్భావిత-ప్రమాదత్వాచ్ చ కర్మణః, కర్మైవ కురు। అకర్మణః జ్ఞాన-నిష్ఠాయా అపి కర్మైవ జ్యాయః। నైష్కర్మ్యṁ పురుషోఽశ్నుతే [గీతా ౩।౪] ఇతి ప్రక్రమాత్। అకర్మ-శబ్దేన జ్ఞాన-నిష్ఠైవోచ్యతే। జ్ఞాన-నిష్ఠాధికారిణోఽప్య్ అనభ్యస్త-పూర్వతయా హ్య్ అనియతత్వేన దుఃశకత్వాత్ స-ప్రమాదత్వాచ్ చ జ్ఞాన-నిష్ఠాయాః కర్మ-నిష్ఠైవ జ్యాయసీ।
Link copiedకర్మణి క్రియమాణే చాత్మ-యాథాత్మ్య-జ్ఞానేన ఆత్మనోఽకర్తృత్వానుసన్ధానమ్ అనన్తరమ్ ఏవ వక్ష్యతే। అత ఆత్మ-జ్ఞానస్యాపి కర్మ-యోగాన్తర్గతత్వాత్ సైవ జ్యాయన్ ఇత్య్ అర్థః। కర్మణో జ్ఞాన-నిష్ఠాయా జ్యాయస్త్వ-వచనṁ జ్ఞాన-నిష్ఠాయామ్ అధికారే సత్య్ ఏవోపపద్యతే।
Link copiedయది సర్వṁ కర్మ పరిత్యజ్య కేవలṁ జ్ఞాన-నిష్ఠాయామ్ అధికరోషి, తర్హ్య్ అకర్మణస్ తే జ్ఞాన-నిష్ఠస్య జ్ఞాన-నిష్ఠోపకారిణీ శరీర-యాత్రాపి న సేత్స్యతి। యావత్-సాధన-సమాప్తి శరీర-ధారణṁ చావశ్యṁ కార్యమ్। న్యాయార్జిత-ధనేన మహా-యజ్ఞాదికṁ కృత్వా తచ్-ఛిష్టాశనేనైవ శరీర-ధారణṁ కార్యమ్। ఆహార-శుద్ధౌ సత్త్వ-శుద్ధిః సత్త్వ-శుద్ధౌ ధ్రువా స్మృతిః [ఛా।ఉ। ౭।౨౬।౨] ఇత్య్ ఆది-శ్రుతేః। భుఞ్జతే తే త్వ్ అఘṁ పాపా యే పచన్త్య్ ఆత్మ-కారణాత్ [గీతా ౩।౧౩] ఇతి చ వక్ష్యతే। అతో జ్ఞాన-నిష్ఠస్యాపి కర్మాకుర్వతో దేహ-యాత్రా న సేత్స్యతి। యతో జ్ఞాన-నిష్ఠస్యాపి ధ్రియమాణ-శరీరస్య యావత్-సాధన-సమాప్తి మహా-యజ్ఞాది-నిత్య-నైమిత్తికṁ కర్మ అవశ్యṁ కార్యమ్। యతశ్ చ కర్మ-యోగేఽప్య్ ఆత్మనోఽకర్తృత్వ-భావనయా ఆత్మ-యాథాత్మ్యానుసన్ధానమ్ అన్తర్భూతమ్। యతశ్ చ ప్రకృతి-సṁసృష్టస్య కర్మ-యోగః సుశకోఽప్రమాదశ్ చ। అతో జ్ఞాన-నిష్ఠా-యోగ్యస్యాపి జ్ఞాన-యోగాత్ కర్మ-యోగో జ్యాయాన్। తస్మాత్ త్వṁ కర్మ-యోగమ్ ఏవ కుర్వ్ ఇత్య్ అభిప్రాయః॥౩।౮॥
Link copiedఏవ తర్హి ద్రవ్యార్జనాదేః కర్మణోఽహఙ్కార-మమకారాది-సర్వేన్ద్రియ-వ్యాకులతా-గర్భత్వేనాస్య పురుషస్య కర్మ-వాసనయా బన్ధనṁ భవిష్యతీత్య్ అత్రాహ---
Link copiedయజ్ఞార్థాత్ కర్మణోఽన్యత్ర లోకోఽయṁ కర్మ-బన్ధనః।
Link copiedతద్ అర్థṁ కర్మ కౌన్తేయ ముక్తసఙ్గః సమాచర॥౯॥
Link copiedయజ్ఞాది-శాస్త్రీయ-కర్మ-శేష-భూతాద్ ద్రవ్యార్జనాదేః కర్మణోఽన్యత్రాత్మీయ-ప్రయోజన-శేష-భూతే కర్మణి క్రియమాణేఽయṁ లోకః కర్మ-బన్ధనో భవతి। అతస్ త్వṁ యజ్ఞాద్య్-అర్థṁ ద్రవ్యార్జనాదికṁ కర్మ సమాచర। తత్రాత్మ-ప్రయోజన-సాధనతయా యః సఙ్గస్ తస్మాత్ సఙ్గాత్ ముక్తః సన్ సమాచర। ఏవṁ ముక్త-సఙ్గేన యజ్ఞాద్య్-అర్థతయా కర్మణి క్రియమాణే యజ్ఞాదిభిః కర్మభిర్ ఆరాధితః పరమ-పురుషోఽస్య అనాది-కాల-ప్రవృత్త-కర్మ-వాసనాṁ సముచ్ఛిద్య అవ్యాకులాత్మావలోకనṁ దదాతీత్య్ అర్థః॥౩।౯॥
Link copiedయజ్ఞ-శిష్టేనైవ సర్వ-పురుషార్థ-సాధన-నిష్ఠానాṁ శరీర-ధారణ-కర్తవ్యతామ్ అయజ్ఞ-శిష్టేన శరీర-ధారణṁ కుర్వతాṁ దోషṁ చాహ--- పతిṁ విశ్వరస్య ఆత్మేశ్వరమ్ [తై।నా। ౧౧।౩] ఇత్య్ ఆది శ్రుతేః నిరుపాధికః ప్రజాపతి-శబ్దః సర్వేశ్వరṁ విశ్వ-స్రాష్టారṁ విశ్వాత్మానṁ పరాయణṁ నారాయణమ్ ఆహ। పురా సర్గ-కాలే స భగవాన్ ప్రజాపతిః అనాది-కాల-ప్రవృత్తాచిత్-సṁసర్గ-వివశా ఉపసṁహృత-నామ-రూప-విభాగాః స్వస్మిన్ ప్రలీనాః సకల-పురుషార్థానర్హాశ్ చేతనేతర-కల్పాః ప్రజాః సమీక్ష్య పరమ-కారుణికస్ తద్-ఉజ్జిజీవవిషయా స్వారాధన-భూత-యజ్ఞ-నిర్వృత్తయే యజ్ఞైః సహ తాః సృష్ట్వైవమ్ ఉవాచ---
Link copiedసహ-యజ్ఞాః ప్రజాః సృష్ట్వా పురోవాచ ప్రజాపతిః।
Link copiedఅనేన ప్రసవిష్యధ్వమ్ ఏష వోఽస్త్వ్ ఇష్ట-కామ-ధుక్॥౧౦॥
Link copiedఅనేన యజ్ఞేన ప్రసవిష్యధ్వమ్ ఆత్మనో వృద్ధిṁ కురుధ్వమ్। ఏష వో యజ్ఞః పరమ-పురుషార్థ-లక్షణ-మోక్షాఖ్యస్య కామస్య తద్-అనుగుణానాṁ చ కామానాṁ ప్రపూరయితా భవతు॥౩।౧౦॥
Link copiedకథమ్।
Link copiedదేవాన్ భావయతానేన తే దేవా భావయన్తు వః।
Link copiedపరస్పరṁ భావయన్తః శ్రేయః పరమ్ అవాప్స్యథ॥౧౧॥
Link copiedఅనేన దేవతారాధన-భూతేన దేవాన్ మచ్-ఛరీర-భూతాన్ మద్-ఆత్మకాన్ ఆరాధయత। అహṁ హి సవ-యజ్ఞానాṁ భోక్తా చ ప్రభుర్ ఏవ చ [గీతా ౯।౨౪] ఇతి వక్ష్యతే। యజ్ఞేనారాధితాస్ తే దేవా మద్-ఆత్మకాః స్వారాధనాపేక్షితాన్న-పానాదికైర్ యుష్మాన్ పుష్ణన్తు। ఏవṁ పరస్పరṁ భావయన్తః పరṁ శ్రేయో మోక్షాఖ్యమ్ అవాప్స్యథ॥౩।౧౧॥
Link copiedఇష్టాన్ భోగాన్ హి వో దేవా దాస్యన్తే యజ్ఞ-భావితాః।
Link copiedతైర్ దత్తాన్ అప్రదాయైభ్యో యో భుఙ్క్తే స్తేన ఏవ సః॥౧౨॥
Link copiedయజ్ఞ-భావితా యజ్ఞేనారాధితా మద్-ఆత్మకా దేవా ఇష్టాన్ భోగాన్ వో దాస్యన్తే పరమ-పురుషార్థ-లక్షణṁ మోక్షṁ సాధయతాṁ యే ఇష్టా భోగాస్ తాన్ పూర్వ-పూర్వ-యజ్ఞ-భావితా దేవా దాస్యన్తే। ఉత్తరోత్తరారాధనాపేక్షితాన్ సర్వాన్ భోగాన్ వో దాస్యన్తీత్య్ అర్థః। స్వారాధనార్థతయా తైర్ దత్తాన్ భోగాṁస్ తేభ్యోఽప్రదాయ యో భుఙ్క్తే చోర ఏవ సః। చౌర్యṁ హి నామ అన్యదీయే తత్-ప్రయోజనాయైవ పరికౢప్తే వస్తుని స్వకీయతా-బుద్ధిṁ కృత్వా తేన స్వాత్మ-పోషణమ్। అతోఽస్య న పరమ-పురుషార్థానర్హతా-మాత్రమ్, అపి తు నిరయ-గామిత్వṁ చ భవిష్యతీత్య్ అభిప్రాయః॥౩।౧౨॥
Link copiedతద్ ఏవ వివృణోతి---
Link copiedయజ్ఞ-శిష్టాశినః సన్తో ముచ్యన్తే సర్వ-కిల్బిషైః।
Link copiedభుఞ్జతే తే త్వ్ అఘṁ పాపా యే పచన్త్య్ ఆత్మ-కారణాత్॥౧౩॥
Link copiedఇన్ద్రాద్య్-ఆత్మనావస్థిత-పరమ-పురుషారాధనార్థతయైవ ద్రవ్యాణ్య్ ఉపాదాయ విపచ్య తైర్ యథావస్థితṁ పరమ-పురుషమ్ ఆరాధ్య తచ్-ఛిష్టాశనేన యే శరీర-యాత్రాṁ కుర్వతే, తే త్వ్ అనాది-కాలోపార్జితైః కిల్బిషైర్ ఆత్మ-యాథాత్మ్యావలోకన-విరోధిభిః సర్వైర్ విముచ్యన్తే। యే తు పరమ-పురుషేణ ఇన్ద్రాద్య్-ఆత్మనా స్వారాధనాయ దత్తానామ్ ఆత్మార్థతయోపాదాయ విపచ్యాశ్నన్తి తే పాపాత్మానోఽఘమ్ ఏవ భుఞ్జతే। అఘ-పరిణామిత్వాద్ అఘమ్ ఇత్య్ ఉచ్యతే। ఆత్మావలోకన-విముఖా నరకాయైవ పచ్యన్తే॥౩।౧౩॥
Link copiedపునర్ అపి లోక-దృష్ట్యా శాస్త్ర-దృష్ట్యా చ సర్వస్య యజ్ఞ-మూలత్వṁ దర్శయిత్వా యజ్ఞానువర్తనస్య అవశ్య-కార్యతామ్ అననువర్తనే దోషṁ చాహ---
Link copiedఅన్నాద్ భవన్తి భూతాని పర్జన్యాద్ అన్న-సమ్భవః।
Link copiedయజ్ఞాద్ భవతి పర్జన్యో యజ్ఞః కర్మ-సముద్భవః॥౧౪॥
Link copiedఅన్నాత్ సర్వాణి భూతాని భవన్తి పర్జన్యాద్ అన్న-సమ్భవః ఇతి సర్వ-లోక-సాక్షికమ్। యజ్ఞాత్ పర్జన్యో భవతీతి చ శాస్త్రేణావగమ్యతే---
Link copiedఅగ్నౌ ప్రాస్తాహుతిః సమ్యగ్ ఆదిత్యమ్ ఉపతిష్ఠతే।
Link copiedఆదిత్యాజ్ జాయతే వృష్టిర్ వృష్టేర్ అన్నṁ తతః ప్రజాః॥ [మను ౩।౭౬] ఇత్య్-ఆదినా।
Link copied
యజ్ఞః చ ద్రవ్యార్జనాది-కర్తృ-పురుష-వ్యాపార-రూప-కర్మ-సముద్భవః॥౩।౧౪॥
Link copiedకర్మ బ్రహ్మోద్భవṁ విద్ధి బ్రహ్మాక్షర-సముద్భవమ్।
Link copiedతస్మాత్ సర్వ-గతṁ బ్రహ్మ నిత్యṁ యజ్ఞే ప్రతిష్ఠితమ్॥౧౫॥
Link copiedకర్మ చ బ్రహ్మోద్భవమ్। అత్ర చ బ్రహ్మ-శబ్ద-నిర్దిష్టాṁ ప్రకృతి-పరిణామ-రూప-శరీరమ్। తస్మాద్ ఏతద్ బ్రహ్మ నామ రూపమ్ అన్నṁ చ జాయతే [ము।ఉ। ౧।౧।౯] ఇతి బ్రహ్మ-శబ్దేన ప్రకృతిర్ నిర్దిష్టా। ఇహాపి మమ యోనిర్ మహద్ బ్రహ్మ [గీతా ౧౪।౩] ఇతి వక్ష్యతే। అతః కర్మ బ్రహ్మోద్భవమ్ ఇతి ప్రకృతి-పరిణామ-రూప-శరీరోద్భవṁ కర్మ ఇత్య్ ఉక్తṁ భవతి। బ్రహ్మాక్షర-సముద్భవమ్ ఇత్య్ అత్ర అక్షర-శబ్ద-నిర్దిష్టో జీవాత్మా। అన్న-పానాదినా తృప్తాక్షరాధిష్ఠితṁ శరీరṁ కర్మణే ప్రభవతీతి కర్మ-సాధన-భూతṁ శరీరమ్ అక్షర-సముద్భవమ్। తస్మాత్ సర్వ-గతṁ బ్రహ్మ సర్వాధికారి-గతṁ శరీరṁ నిత్యṁ యజ్ఞే ప్రతిష్ఠితṁ యజ్ఞ-మూలమ్ ఇత్య్ అర్థః॥౩।౧౫॥
Link copiedఏవṁ ప్రవర్తితṁ చక్రṁ నానువర్తయతీహ యః।
Link copiedఅఘాయుర్ ఇన్ద్రియారామో మోఘṁ పార్థ స జీవతి॥౧౬॥
Link copiedఏవṁ పరమ-పురుషేణ ప్రవర్తితమ్ ఇదṁ చక్రమ్ అన్నాద్ భవన్తి భూతాని ఇత్య్ అత్ర భూత-శబ్ద-నిర్దిష్టాని స-జీవాని శరీరాణి। పర్జన్యాద్ అన్నమ్, యజ్ఞాత్ పర్జన్యః। యజ్ఞశ్ చ కర్తృ-వ్యాపారానురూపాత్ కర్మణః। కర్మ చ స-జీవాత్ శరీరాత్, స-జీవṁ శరీరṁ చ పునర్ అన్నాద్ ఇతి అన్యోన్య-కార్య-కారణ-భావేన చక్రవత్ పరివర్తమానమ్। ఇహ సాధనే వర్తమానో యః కర్మ-యోగాధికారీ జ్ఞాన-యోగాధికారీ వా నానువర్తయతి న ప్రవర్తయతి, యజ్ఞ-శిష్టేన దేహ-ధారణమ్ అకుర్వన్ సోఽఘాయుర్ భవతి। అఘారమ్భాయైవ యస్యాయుర్ అఘ-పరిణతṁ వోభయ-రూపṁ వా సోఽఘాయుః। అతఏవ ఇన్ద్రియారామో భవతి, నాత్మారామః। ఇన్ద్రియాణ్య్ ఏవాస్యోద్యానాని భవన్తి। అయజ్ఞ-శిష్ట-వర్ధిత-దేహ-మనస్త్వేన ఉద్రిక్త-రజస్-తమస్క ఆత్మావలోకన-విముఖతయా విషయ-భోగైక-రతిర్ భవతి, అతో జ్ఞాన-యోగాదౌ యతమానోఽపి నిష్ఫల-ప్రయత్నతయా మోఘṁ పార్థ స జీవతి॥౩।౧౬॥
Link copiedఅసాధనాయత్తాత్మ-దర్శనస్య ముక్తస్యైవ మహా-యజ్ఞాది-వర్ణాశ్రమోచిత-కర్మానారమ్భ ఇత్య్ ఆహ---
Link copiedయస్ త్వ్ ఆత్మ-రతిర్ ఏవ స్యాద్ ఆత్మ-తృప్తశ్ చ మానవః।
Link copiedఆత్మన్య్ ఏవ చ సన్తుష్టస్ తస్య కార్యṁ న విద్యతే॥౧౭॥
Link copiedయస్ తు జ్ఞాన-యోగ-కర్మ-యోగ-సాధన-నిరపేక్షః స్వత ఏవ ఆత్మ-రతిర్ ఆత్మాభిముఖ ఆత్మనా ఏవ తృప్తః, న అన్న-పానాదిభిర్ ఆత్మ-వ్యతిరిక్తైః, ఆత్మన్య్ ఏవ చ సన్తుష్టాః। న ఉద్యాన-స్రాక్-చన్దన-గీత-వాదిత్ర-నృత్యాదౌ, ధారణ-పోషణ-భోగ్యాదికṁ సర్వమ్ ఆత్మైవ యస్య తస్య ఆత్మ-దర్శనాయ కర్తవ్యṁ న విద్యతే। స్వత ఏవ సర్వదా దృష్టాత్మ-స్వరూపత్వాత్॥౩।౧౭॥
Link copiedనైవ తస్య కృతేనార్థో నాకృతేనేహ కశ్చన।
Link copiedన చాస్య సర్వభూతేషు కశ్ చిద్ అర్థవ్యపాశ్రయః॥౧౮॥
Link copiedఅతఏవ తస్యాత్మ-దర్శనాయ కృతేన తత్-సాధనేన నార్థః--- న కిఞ్చిత్ ప్రయోజనమ్, అకృతేన ఆత్మ-దర్శన-సాధనేన న కశ్చిద్ అనర్థః--- అసాధనాయత్తాత్మ-దర్శనత్వాత్। స్వత ఏవాత్మ-వ్యతిరిక్త-సకలాచిద్-వస్తు-విముఖస్యాస్య సర్వేషు ప్రకృతి-పరిణామ-విశేషేష్వ్ ఆకాశాదిషు భూతేషు స-కార్యేషు న కశ్చిత్ ప్రయోజనతయా సాధనతయా వా వ్యపాశ్రయః, యతః తద్-విముఖీకరణాయ సాధనారమ్భః। స హి ముక్తైవ॥౩।౧౮॥
Link copiedయస్మాద్ అసాధనాయత్తాత్మ-దర్శనస్యైవ సాధనాప్రవృత్తిః, యస్మాచ్ చ సాధనే ప్రవృత్తస్యాపి సుశకత్వాద్ అప్రమాదత్వాత్ తద్-అన్తర్గతాత్మయాథాత్మ్యానుసన్ధానత్వాద్ చ జ్ఞాన-యోగినోఽపి దేహ-యాత్రాయాః కర్మానువృత్త్య్-అపేక్షత్వాత్ చ కర్మ-యోగైవ ఆత్మ-దర్శన-నివృత్తౌ శ్రేయాన్---
Link copiedతస్మాద్ అసక్తః సతతṁ కార్యṁ కర్మ సమాచర।
Link copiedఅసక్తో హ్య్ ఆచరన్ కర్మ పరమ్ ఆప్నోతి పూరుషః॥౧౯॥
Link copiedతస్మాద్ అసఙ్గపూర్వకṁ కార్యమ్ ఇత్యేవ సతతṁ యావదాత్మప్రాప్తి కర్మైవ సమాచర। అసక్తః కార్యమ్ ఇతి వక్ష్యమాణాకర్తృత్వానుసన్ధానపూర్వకṁ చ కర్మ అనుచరన్ పూరూషః కర్మ-యోగేనైవ పరమ్ ఆప్నోతి ఆత్మానṁ ప్రాప్నోతి ఇత్య్ అర్థః॥౩।౧౯॥
Link copiedకర్మణైవ హి సṁసిద్ధిమ్ ఆస్థితా జనకాదయః।
Link copiedలోక-సఙ్గ్రహమ్ ఏవాపి సమ్పశ్యన్ కర్తుమ్ అర్హసి॥౨౦॥
Link copiedయతో జ్ఞాన-యోగాధికారిణోఽపి కర్మ-యోగైవ ఆత్మదర్శ నే శ్రేయాన్, అత ఏవ హి జనకాదయో రాజర్వాయో జ్ఞానినామ్ అగ్రేసరాః కర్మ-యోగేనైవ సṁసిద్ధిమ్ ఆస్థితాః, ఆత్మానṁ ప్రాప్తవన్తః।
Link copiedఏవṁ ప్రథమṁ ముముక్షోః జ్ఞాన-యోగానర్హతయా కర్మ-యోగాధికారిణః కర్మ-యోగైవ కార్యః, ఇత్యుక్త్వా జ్ఞాన-యోగాధికారిణోఽపి జ్ఞాన-యోగాత్ కర్మ-యోగైవ శ్రేయాన్ ఇతి సహేతుకమ్ ఉక్తమ్। ఇదానీṁ శిష్టాతయా వ్యపదేశ్యస్య సర్వథా కర్మ-యోగైవ కార్య ఇతి ఉచ్యతే--- లోకసఙ్గ్రహṁ పశ్యన్ అపి కర్మైవ కర్తుమ్ అర్హసి॥౩।౨౦॥
Link copiedయద్ యద్ ఆచరతి శ్రేష్ఠస్ తత్ తద్ ఏవేతరో జనః।
Link copiedస యత్ ప్రమాణṁ కురుతే లోకస్ తద్ అనువర్తతే॥౨౧॥
Link copiedశ్రేష్ఠః కృత్స్న-శాస్త్ర-జ్ఞాతృతయా అనుష్ఠాతృతయా చ ప్రథితో యద్ యద్ ఆచరతి తత్ తద్ ఏవ అకృత్స్నవిద్ జనోఽపి ఆచరతి। అనుష్ఠీయమానమ్ అపి కర్మ శ్రేష్ఠో యత్-ప్రమాణṁ యద్-అఙ్గ-యుక్తమ్ అనుతిష్ఠతి, తద్-అఙ్గ-యుక్తమ్ ఏవ అకృత్స్న-విద్ లోకోఽపి అనుతిష్ఠతి। అతో లోక-రక్షార్థṁ శిష్టాతయా ప్రథితేన శ్రేష్ఠేన స్వ-వర్ణాశ్రమోచితṁ కర్మ సకలṁ సర్వదా అనుష్ఠేయమ్। అన్యథా లోక-నాశ-జనితṁ పాపṁ జ్ఞాన-యోగాద్ అప్య్ ఏనṁ ప్రచ్యావయేత్॥౩।౨౧॥
Link copiedన మే పార్థాస్తి కర్తవ్యṁ త్రిషు లోకేషు కిఞ్చన।
Link copiedనానవాప్తమ్ అవాప్తవ్యṁ వర్తైవ చ కర్మణి॥౨౨॥
Link copiedన మే సర్వేశ్వరస్య అవాప్త-సమస్త-కామస్య సర్వజ్ఞస్య సత్య-సఙ్కల్పస్య త్రిషు లోకేషు దేవ-మనుష్యాది-రూపేణ స్వచ్ఛన్దతో వర్తమానస్య కిఞ్చిద్ అపి కర్తవ్యమ్ అస్తి, యతోఽనవాప్తṁ కర్మణావాప్తవ్యṁ న కిఞ్చిద్ అప్య్ అస్తి, అథాపి లోక-రక్షాయై కర్మణ్య్ ఏవ వర్తే॥౩।౨౨॥
Link copiedయది హ్య్ అహṁ న వర్తేయṁ జాతు కర్మణ్య్ అతన్ద్రితః।
Link copiedమమ వర్త్మానువర్తన్తే మనుష్యాః పార్థ సర్వశః॥౨౩॥
Link copiedఅహ సర్వేశ్వరః సత్య-సఙ్కల్పః స్వ-సఙ్కల్ప-కృత-జగద్-ఉదయ-విభవలయ-లీలః స్వచ్ఛన్దతో జగద్-ఉపకృతయే మర్త్యో జాతోఽపి మనుష్యేషు శిష్టాజనాగ్రేసర-వసుదేవ-గృహేఽవతీర్ణస్ తత్-కులోచితే కర్మణ్య్ అతన్ద్రితః సర్వదా యది న వర్తేయమ్, మమ శిష్టాజనాగ్రేసర-వసుదేవ-సూనోర్ వర్త్మ అకృత్స్న-విదః శిష్టాశ్ చ సర్వ-ప్రకారేణాయమ్ ఏవ ధర్మ ఇత్య్ అనువర్తన్తే తే చ స్వ-కర్తవ్యానను-ష్ఠానేనాకరణే ప్రత్యవాయేన చాత్మానమ్ అనుపలభ్య నిరయ-గామినో భవేయుః॥౩।౨౩॥
Link copiedఉత్సీదేయుర్ ఇమే లోకా న కుర్యాṁ కర్మ చేద్ అహమ్।
Link copiedసఙ్కరస్య చ కర్తా స్యామ్ ఉపహన్యామ్ ఇమాః ప్రజాః॥౨౪॥
Link copiedఅహṁ కులోచితṁ కర్మ న చేత్ కుర్యామ్ ఏవమ్ ఏవ సర్వే శిష్టాలోకా మద్-ఆచారాయత్త-ధర్మ-నిశ్చయా అకరణాద్ ఏవ ఉత్సీదేయుః--- నష్టా భవేయుః, శాస్త్రీయాచారాణామ్ అపాలనాత్ సర్వేషాṁ శిష్టాకులానాṁ సఙ్కరస్య చ కర్తా స్యామ్, అతఏవ ఇమాః ప్రజా ఉపహన్యామ్। ఏవమ్ ఏవ త్వమ్ అపి శిష్ట-జనాగ్రేసర-పాణ్డు-తనయో యుధిష్ఠిరానుజోఽర్జునః సన్ శిష్టతయా యది జ్ఞాన-నిష్ఠాయామ్ అధికరోషి। తతస్ త్వద్-ఆచారానువర్తినోఽకృత్స్న-విదః శిష్టాశ్ చ ముముక్షవః స్వాధికారమ్ అజానన్తః కర్మ-నిష్ఠాయామ్ అనధికుర్వన్తో వినశ్యేయుః। అతో వ్యపదేశ్యేన విదుషా కర్మైవ కర్తవ్యమ్॥౩।౨౪॥
Link copiedసక్తాః కర్మణ్య్ అవిద్వాṁసో యథా కుర్వన్తి భారత।
Link copiedకుర్యాద్ విద్వాṁస్ తథాసక్తశ్ చికీర్షుర్ లోక-సఙ్గ్రహమ్॥౨౫॥
Link copiedఅవిద్వాṁస ఆత్మన్య్ అకృత్స్న-విదః కర్మణి సక్తాః కర్మణ్య్ అవర్జనీయ-సమ్బన్ధాః, ఆత్మన్య్ అకృతస్న-విత్తయా తద్-అభ్యాస-రూప-జ్ఞాన-యోగేఽనధికృతాః, కర్మ-యోగాధికారణిః కర్మ-యోగమ్ ఏవ యథాత్మ-దర్శనాయ కుర్వతే, తథాత్మని కృత్స్న-విత్తయా కర్మణ్య్ అసక్తో జ్ఞాన-యోగాధికార-యోగ్యోఽపి వ్యపదేశ్యః శిష్టాః, లోక-రక్షణార్థṁ స్వాచారేణ శిష్ట-లోకానాṁ ధర్మ-నిశ్చయṁ చికీర్షుః కర్మ-యోగమ్ ఏవ కుర్యాత్॥౩।౨౫॥
Link copiedన బుద్ధి-భేదṁ జనయేద్ అజ్ఞానాṁ కర్మ-సఙ్గినామ్।
Link copiedజోషయేత్ సర్వ-కర్మాణి విద్వాన్ యుక్తః సమాచరన్॥౨౬॥
Link copiedఅజ్ఞానామ్ ఆత్మన్య్ అకృత్స్న-విత్తయా జ్ఞాన-యోగోపాదానాశక్తానాṁ ముముక్షూణాṁ కర్మ-సఙ్గినామ్ అనాది-కర్మ-వాసనయా కర్మణి ఏవ నియతత్వేన కర్మ-యోగాధికారిణాṁ కర్మ-యోగాద్ అన్యథాత్మావలోకనమ్ అస్తీతి న బుద్ధి-భేదṁ జనయేత్। కిṁ తర్హి? ఆత్మని కృత్స్న-విత్తయా జ్ఞాన-యోగ-శక్తోఽపి పూర్వోక్త-రీత్యా కర్మ-యోగైవ జ్ఞాన-యోగ-నిరపేక్ష ఆత్మావలోకన-సాధనమ్ ఇతి బుద్ధ్యా యుక్తః కర్మైవాచరన్ సర్వ-కర్మసు అకృత్స్న-విదాṁ ప్రీతిṁ జనయేత్॥౩।౨౬॥
Link copiedఅథ కర్మ-యోగమ్ అనుతిష్ఠతో విదుషోఽవిదుషశ్ చ విశేషṁ ప్రదర్శయన్ కర్మ-యోగాపేక్షితమ్ ఆత్మనోఽకర్తృత్వానుసన్ధాన-ప్రకారమ్ ఉపదిశతి---
Link copiedప్రకృతేః క్రియమాణాని గుణైః కర్మాణి సర్వశః।
Link copiedఅహఙ్కార-విమూఢాత్మా కర్తాహమ్ ఇతి మన్యతే॥౨౭॥
Link copiedప్రకృతేః గుణైః సత్త్వాదిభిః స్వానురూపṁ క్రియమాణాని కర్మాణి ప్రత్య్ అహఙ్కార-విమూఢాత్మా అహṁ కర్తేతి మన్యతే। అహఙ్కారేణ విమూఢ ఆత్మా యస్యాసావ్ అహఙ్కార-విమూఢాత్మా। అహఙ్కారో నామ అనహమ్-అర్థే ప్రకృతావ్ అహమ్ ఇతి అభిమానః। తేన అజ్ఞాతాత్మ-స్వరూపో గుణ-కర్మస్వ్ అహṁ కర్తేతి మన్యతే ఇత్య్ అర్థః॥౩।౨౭॥
Link copiedతత్త్వవిత్ తు మహాబాహో గుణ-కర్మ-విభాగయోః।
Link copiedగుణా గుణేషు వర్తన్త ఇతి మత్వా న సజ్జతే॥౨౮॥
Link copiedగుణ-కర్మ-విభాగయోః సత్త్వాది-గుణ-విభాగే తత్-తత్-కర్మ-విభాగే చ తత్త్వవిత్, గుణాః సత్త్వాదయః స్వ-గుణేషు స్వేషు కార్యేషు వర్తన్తే ఇతి మత్వా గుణ-కర్మస్వ్ అహṁ కర్తేతి న సజ్జతే॥౩।౨౮॥
Link copiedప్రకృతేర్ గుణ-సṁమూఢాః సజ్జన్తే గుణ-కర్మసు।
Link copiedతాన్ అకృత్స్న-విదో మన్దాన్ కృత్స్నవిన్ న విచాలయేత్॥౨౯॥
Link copiedఅకృత్స్న-విదస్ తు ఆత్మ-దర్శనాయ ప్రవృత్తాః ప్రకృతి-సṁసృష్టతయా ప్రకృతేః గుణైర్ యథావస్థితాత్మని సṁమూఢా గుణ-కర్మసు క్రియాస్వ్ ఏవ సజ్జన్తే, న తద్-వివిక్తాత్మ-స్వరూపే। అతస్ తే జ్ఞాన-యోగాయ న ప్రభవన్తీతి కర్మ-యోగ ఏవ తేషామ్ అధికారః। ఏవమ్భూతాన్ తాన్ మన్దాన్ అకృత్స్న-విదః కృత్స్న-విత్ స్వయṁ జ్ఞాన-యోగావస్థానేన న విచాలయేత్। తే కిల మన్దాః శ్రేష్ఠ-జనాచారానువర్తినః కర్మ-యోగాద్ ఉత్థితమ్ ఏనṁ దృష్ట్వా కర్మ-యోగాత్ ప్రచలిత-మనసో భవేయుః। అతః శ్రేష్ఠః స్వయమ్ అపి కర్మ-యోగే తిష్ఠన్ ఆత్మ-యాథాత్మ్య-జ్ఞానేన ఆత్మనోఽకర్తృత్వమ్ అనసన్దధానః। కర్మ-యోగ ఏవాత్మావలోకనే నిరపేక్ష-సాధనమ్ ఇతి దర్శయిత్వా తాన్ అకృత్స్న-విదో మన్దాన్ జోషయేద్ ఇత్య్ అర్థః।
Link copiedజ్ఞాన-యోగాధికారిణోఽపి జ్ఞాన-యోగాద్ అస్యైవ కర్మ-యోగస్య జ్యాయస్త్వṁ పూర్వమ్ ఏవోక్తమ్। అతో వ్యపదేశ్యో లోక-సఙ్గ్రహాయ కర్మైవ కుర్యాత్। ప్రకృతి-వివిక్తాత్మ-స్వభావ-నిరూపణేన గుణేషు కర్తృత్వమ్ ఆరోప్య కర్మానుష్ఠాన-ప్రకార ఉక్తః। గుణేషు కర్తృత్వానుసన్ధానṁ చేదమ్ ఏవాత్మనో న స్వరూప-ప్రయుక్తమ్ ఇదṁ కర్తృత్వమ్, అపి తు గుణ-సమ్బన్ధ-కృతమ్ ఇతి ప్రాప్తాప్రాప్త-వివేకేన గుణ-కృతమ్ ఇత్య్ అనుసన్ధానమ్॥౩।౨౯॥
Link copiedఇదానీమ్ ఆత్మనాṁ పరమ-పురుష-శరీరతయా తన్-నియామ్యత్వ-స్వరూప-నిరూపణేన భగవతి పురుషోత్తమే సర్వాత్మ-భూతే గుణ-కృతṁ చ కర్తృత్వమ్ ఆరోప్య కర్మ-కర్తవ్యతయోచ్యతే---
Link copiedమయి సర్వాణి కర్మాణి సన్న్యస్యాధ్యాత్మ-చేతసా।
Link copiedనిరాశీర్ నిర్మమో భూత్వా యుధ్యస్వ విగత-జ్వరః॥౩౦॥
Link copiedమయి సర్వేశ్వరే సర్వ-భూతాన్తరాత్మ-భూతే సర్వాణి కర్మాణి అధ్యాత్మ-చేతసా సన్న్యస్య నిరాశీర్ నిర్మమశ్ చ విగత-జ్వరో యుద్ధాదికṁ సర్వṁ చోదితṁ కర్మ కురుష్వ। ఆత్మని యచ్ చేతస్ తద్ అధ్యాత్మ-చేతః, ఆత్మ-స్వరూప-విషయేణ శ్రుతి-శత-సిద్ధేన జ్ఞానేనేత్య్ అర్థః।
Link copiedఅన్తః ప్రవిష్టాః శాస్తా జనానాṁ సర్వాత్మా \॥। అన్తః ప్రవిష్టాṁ కర్తారమేతమ్ [తై।ఆ। ౩।౧౧] య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద। యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [బృ। ౫।౭ మా।ది।] ఇత్య్ ఏవమ్ ఆద్యాః శ్రుతయః పరమ-పురుష-ప్రవర్త్యṁ తచ్-ఛరీర-భూతమ్ ఏనమ్ ఆత్మానṁ పరమ-పురుషṁ చ ప్రవర్తయితారమ్ ఆచక్షతే। స్మృతయశ్ చ--- ప్రశాసితారṁ సర్వేషామ్ [మను ౧౨।౧౨౨] ఇత్య్ ఆద్యాః। సర్వస్య చాహṁ హృది సన్నివిష్టాః [గీతా ౧౫।౧౫],
Link copiedఈశ్వరః సర్వభూతానాṁ హృద్దేశోఽర్జున తిష్ఠతి।
Link copiedభ్రామయన్ సర్వ-భూతాని యన్త్రారూఢాని మాయయా॥ [గీతా ౧౮।౬౧] ఇతి వక్ష్యతే।
Link copied
అతో మచ్-ఛరీరతయా మత్-ప్రవర్త్యాత్మ-స్వరూపానుసన్ధానేన సర్వాణి కర్మాణి మయైవ క్రియమాణానీతి మయి పరమ-పురుషే సన్న్యస్య తాని చ కేవలṁ మద్-ఆరాధనానీతి కృత్వా తత్-ఫలే నిరాశీస్ తత ఏవ తత్ర కర్మణి మమతా-రహితో భూత్వా విగత-జ్వరో యుద్ధాదికṁ కురుష్వ।
Link copiedస్వకీయేనాత్మనా కర్త్రా స్వకీయైశ్ చోపకరణైః స్వారాధనైక-ప్రయోజనాయ పరమ-పురుషః సర్వేశ్వరః సర్వ-శేషీ స్వయమ్ ఏవ స్వ-కర్మాణి కారయతి। ఇత్య్ అనుసన్ధాయ కర్మసు మమతా-రహితః ప్రాచీనేనానాది-కాల-ప్రవృత్తానన్త-పాప-సచయేన కథమ్ అహṁ భవిష్యామి ఇత్య్ ఏవṁ భూతాన్తర్-జ్వర-వినిర్ముక్తః పరమ-పురుష ఏవ కర్మభిర్ ఆరాధితో బన్ధాన్ మోచయిష్యతీతి స్మరన్ సుఖేన కర్మ-యోగమ్ ఏవ కురుష్వేత్య్ అర్థః।
Link copiedతమ్ ఈశ్వరాణాṁ పరమṁ మహేశ్వరṁ తṁ దేవతానాṁ పరమṁ చ దైవతమ్ [శ్వే।ఉ। ౩।౭], పతిṁ విశ్వస్య [మ।నా।ఉ। ౩।౧], పతిṁ పతీనామ్ [శ్వే।ఉ। ౬।౭], ఇత్య్ ఆది-శ్రుతి-సిద్ధṁ హి సర్వేశ్వరత్వṁ సర్వ-శేషిత్వṁ చ। ఈశ్వరత్వṁ నియన్తృత్వమ్, శేషిత్వṁ పతిత్వమ్॥౩।౩౦॥
Link copiedఅయమ్ ఏవ సాక్షాద్-ఉపనిషత్-సార-భూతోఽర్థ ఇత్య్ ఆహ---
Link copiedయే మే మతమ్ ఇదṁ నిత్యమ్ అనుతిష్ఠన్తి మానవాః।
Link copiedశ్రద్ధావన్తోఽనసూయన్తో ముచ్యన్తే తేఽపి కర్మభిః॥౩౧॥
Link copiedయే మానవా ఆత్మ-నిష్ఠ-శాస్త్రాధికారిణోఽయమ్ ఏవ శాస్త్రార్థ ఇత్య్ ఏతన్ మే మతṁ నిశ్చిత్య తథానుతిష్ఠన్తి। యే చాననుతిష్టాన్తోఽప్య్ అస్మిన్ శాస్త్రార్థే శ్రద్దధానా భవన్తి, యే చ అశ్రద్దధానా అపి ఏవṁ శాస్త్రార్థే న సమ్భవతీతి నాభ్యసూయన్తి। అస్మిన్ మహా-గుణే శాస్త్రార్థే దోష-దర్శినో న భవన్తీత్య్ అర్థః। తే సర్వే బన్ధ-హేతుభిర్ అనాది-కాల-ప్రారబ్ధైః కర్మభిర్ ముచ్యన్తే। తేఽపి కర్మభిర్ ఇతి అపి-శబ్దాద్ ఏషాṁ పృథక్-కరణమ్। ఇదానీమ్ అననుతిష్ఠన్తోఽపి అస్మిన్ శాస్త్రార్థే శ్రద్దధానా అనభ్యసూయవశ్ చ శ్రద్ధయా చానసూయయా చ క్షీణ-పాపా అచిరేణేమమ్ ఏవ శాస్త్రార్థమ్ అనుష్ఠాయ ముచ్యన్త ఇత్య్ అర్థః॥౩।౩౧॥
Link copiedభగవద్-అభిమతమ్ ఔపనిషదమ్ అర్థమ్ అననుతిష్ఠతామ్ అశ్రద్దధానానామ్ అభ్యసూయతాṁ చ దోషమ్ ఆహ---
Link copiedయే త్వ్ ఏతద్ అభ్యసూయన్తో నానుతిష్ఠన్తి మే మతమ్।
Link copiedసర్వ-జ్ఞాన-విమూఢాṁస్ తాన్ విద్ధి నష్టాన్ అచేతసః॥౩౨॥
Link copiedయే తు ఏతత్ సర్వమ్ ఆత్మవస్తు మచ్ఛరీరతయా మదాధారṁ మచ్ఛేషభూతṁ మదేకప్రవత్త్ర్యమ్ ఇతి మే మతṁ న అనుతిష్ఠన్తి నైవమ్ అనుసన్ధాయ సర్వాణి కర్మాణి కుర్వతే, యే చ న శ్రద్దధతే, యే చ అభ్యసూయన్తో వర్తన్తే, తాన్ సర్వేషు జ్ఞానేషు విశేషేణ మూఢాన్ తతఏవ నష్టాఅన్ అచేతసో విద్ధి। చేతఃకార్యṁ హి వస్తుయాథాత్మ్యనిశ్చయః, తదభావాద్ అచేతసః విపరీతజ్ఞానాః సర్వత్ర విమూఢాశ్ చ॥౩।౩౨॥
Link copiedఏవṁ ప్రకృతి-సṁసర్గిణస్ తద్-గుణోద్రేక-కృతṁ తచ్ చ కర్తృత్వṁ పరమ-పురుషాయత్తమ్ ఇతి అనుసన్ధాయ కర్మ-యోగ-యోగ్యేన జ్ఞాన-యోగ-యోగ్యేన చ కర్మ-యోగస్య సుశకత్వాద్ అప్రమాదత్వాద్ అన్తర్గతాత్మ-జ్ఞానతయా నిరపేక్షత్వాద్ ఇతరస్య దుఃశకత్వాత్ సప్రమాదత్వాత్ శరీర-ధారణాద్య్-అర్థతయా కర్మాపేక్షత్వాత్ కర్మ-యోగ ఏవ కర్తవ్యః। వ్యపదేశ్యస్య తు విశేషతః స ఏవ కర్తవ్య ఇతి చోక్తమ్। అతః పరమ్ అధ్యాయ-శేషేణ జ్ఞాన-యోగస్య దుఃశకతయా స-ప్రమాదతోచ్యతే---
Link copiedసదృశṁ చేష్టతే స్వస్యాః ప్రకృతేర్ జ్ఞానవాన్ అపి।
Link copiedప్రకృతిṁ యాన్తి భూతాని నిగ్రహః కిṁ కరిష్యతి॥౩౩॥
Link copiedప్రకృతి-వివిక్తమ్ ఈదృశమ్ ఆత్మ-స్వరూపమ్, తద్ ఏవ సర్వదానుసన్ధేయమ్, ఇతి చ శాస్త్రాణి ప్రతిపాదయన్తీతి జ్ఞానవాన్ అపి స్వస్యాః ప్రకృతేః ప్రాచీన-వాసనాయాః సదృశṁ ప్రాకృత-విషయేష్వ్ ఏవ చేష్టాతే। కుతః। ప్రకృతిṁ యాన్తి భూతాని అచిత్-సṁసృష్టా జన్తవోఽనాది-కాల-ప్రవృత్త-వాసనామ్ ఏవ యాన్తి, తాని వాసనానుయాయీని భూతాని శాస్త్ర-కృతో నిగ్రహః కిṁ కరిష్యతి॥।౩।౩౩॥
Link copiedప్రకృత్య్-అనుయాయిత్వ-ప్రకారమ్ ఆహ---
Link copiedఇన్ద్రియస్యేన్ద్రియస్యార్థే రాగ-ద్వేషౌ వ్యవస్థితౌ।
Link copiedతయోర్ న వశమ్ ఆగచ్ఛేత్ తౌ హ్య్ అస్య పరిపన్థినౌ॥౩౪॥
Link copiedశ్రోత్రది-జ్ఞానేన్ద్రియస్యార్థే శబ్దాదౌ వాగ్-ఆది-కర్మేన్ద్రియస్య చార్థే వచనాదౌ ప్రాచీన-వాసనా-జనిత-తత్-తద్-అనుబుభూషా-రూపో రాగోఽవర్జనీయో వ్యవస్థితః। తద్-అనుభవే ప్రతిహతే చావర్జనీయో ద్వేషో వ్యవస్థితః। తావ్ ఏవṁ జ్ఞాన-యోగాయ యతమానṁ నియమిత-సర్వేన్ద్రియṁ స్వ-వశే కృత్వా ప్రసహ్య స్వ-కార్యేషు సṁయోజయతః। తతశ్ చాయమ్ ఆత్మ-స్వరూపానుభవ-విముఖో వినష్టో భవతి। తయోర్ న వశమ్ ఆగచ్ఛేత్। జ్ఞాన-యోగారమ్భేణ రాగ-ద్వేష-వశమ్ ఆగమ్య న వినశ్యేత్। తౌ హి రగ-ద్వేషౌ హ్య్ అస్య దుర్జయౌ శత్రూ ఆత్మ-జ్ఞానాభ్యాసṁ వారయతః॥౩।౩౪॥
Link copiedశ్రేయాన్ స్వ-ధర్మో విగుణః పర-ధర్మాత్ స్వనుష్ఠితాత్।
Link copiedస్వ-ధర్మే నిధనṁ శ్రేయః పర-ధర్మో భయావహః॥౩౫॥
Link copiedఅతః సుశకతయా స్వధర్మ-భూతః కర్మ-యోగో విగుణోఽప్య్ అప్రమాద-గర్భః ప్రకృతి-సṁసృష్టస్య దుఃశకతయా పర-ధర్మ-భూతాజ్ జ్ఞాన-యోగాత్ సగుణాద్ అపి కిఞ్చిత్ కాలమ్ అనుష్ఠితాత్ స-ప్రమాదాత్ శ్రేయాన్। స్వేనైవోపాదాతుṁ యోగ్యతయా స్వధర్మ-భూతే కర్మ-యోగే వర్తమానస్య ఏకస్మిన్ జన్మని అప్రాప్త-ఫలతయా నిధనమ్ అపి శ్రేయః। అనన్తరాయ-హతతయా అనన్తర-జన్మన్య్ అప్య్ అవ్యాకుల-కర్మ-యోగారమ్భ-సమ్భవాత్। ప్రకృతి-సṁసృష్టస్య స్వేనైవ ఉపాదాతుమ్ అశక్యతయా పర-ధర్మ-భూతో జ్ఞాన-యోగః ప్రమాద-గర్భతయా భయావహః॥౩।౩౫॥
Link copiedఅర్జున ఉవాచ
Link copiedఅథ కేన ప్రయుక్తోఽయṁ పాపṁ చరతి పూరుషః।
Link copiedఅనిచ్ఛన్న్ అపి వార్ష్ణేయ బలాద్ ఇవ నియోజితః॥౩౬॥
Link copiedఅథాయṁ జ్ఞాన-యోగాయ ప్రవృత్తః పూరుషః స్వయṁ విషయాన్ అనుభవితుమ్ అనిచ్ఛన్న్ అపి కేన ప్రయుక్తో విషయానుభవ-రూపṁ పాపṁ బలాన్ నియోజిత ఇవ చరతి॥౩।౩౬॥
Link copiedశ్రీ-భగవాన్ ఉవాచ
Link copiedకామ ఏష క్రోధ ఏష రజో-గుణ-సముద్భవః।
Link copiedమహాశనో మహా-పాప్మా విద్ధ్య్ ఏనమ్ ఇహ వైరిణమ్॥౩౭॥
Link copiedఅస్యోద్భవాభిభవ-రూపేణ వర్తమాన-గుణ-మయ-ప్రకృతి-సṁసృష్టస్య ప్రారబ్ధ-జ్ఞాన-యోగస్య రజో-గుణ-సముద్భవః ప్రాచీన-వాసనా-జనితః శబ్దాది-విషయోఽయṁ కామో మహాశనః శత్రుః। సర్వ-విషయేష్వ్ ఏనమ్ ఆకర్షతి। ఏష ఏవ ప్రతిహత-గతిః ప్రతిహనన-హేతు-భూత-చేతనాన్ ప్రతి క్రోధ-రూపేణ పరిణతో మహా-పాప్మా పర-హిṁసాదిషు ప్రవర్తయతి। ఏనṁ రజో-గుణ-సముద్భవṁ సహజṁ జ్ఞాన-యోగ-విరోధినṁ వైరిణṁ విద్ధి॥౩।౩౭॥
Link copiedధూమేనావ్రియతే వహ్నిర్ యథాదర్శో మలేన చ।
Link copiedయథోల్బేనావృతో గర్భస్ తథా తేనేదమ్ ఆవృతమ్॥౩౮॥
Link copiedయథా ధూమేన వహ్నిర్ ఆవ్రియతే, యథా చాదర్శో మలేన, యథా చోల్బేనావృతో గర్భస్ తథా తేన కామేనేదṁ జన్తు-జాతమ్ ఆవృతమ్॥౩।౩౮॥
Link copiedఆవరణ-ప్రకారమ్ ఆహ---
Link copiedఆవృతṁ జ్ఞానమ్ ఏతేన జ్ఞానినో నిత్య-వైరిణా।
Link copiedకామ-రూపేణ కౌన్తేయ దుష్పూరేణానలేన చ॥౩౯॥
Link copiedఅస్య జన్తోర్ జ్ఞానినో జ్ఞాన-స్వభావస్యాత్మ-విషయṁ జ్ఞానమ్ ఏతేన కామ-కారేణ విషయ-వ్యామోహ-జననేన నిత్య-వైరిణావృతṁ దుష్పూరేణ పూర్త్య్-అనర్హ-విషయేణానలేన చ పర్యాప్తి-రహితేన॥౩।౩౯॥
Link copiedకైర్ ఉపకరణైర్ అయṁ కామ ఆత్మానమ్ అధితిష్ఠతీత్య్ అత్రాహ---
Link copiedఇన్ద్రియాణి మనో బుద్ధిర్ అస్యాధిష్ఠానమ్ ఉచ్యతే।
Link copiedఏతైర్ విమోహయత్య్ ఏష జ్ఞానమ్ ఆవృత్య దేహినమ్॥౪౦॥
Link copiedఅధితిష్ఠత్య్ ఏభిర్ అయṁ కామ ఆత్మానమ్ ఇతీన్ద్రియాణి మనో బుద్ధిర్ అస్యాధిష్ఠానమ్। ఏతైర్ ఇన్ద్రియ-మనో-బుద్ధిభిః కామాధిష్ఠాన-భూతైర్ విషయ-ప్రవణైర్ దేహినṁ ప్రకృతి-సṁసృష్టాṁ జ్ఞానమ్ ఆవృత్య విమోహయతి। వివిధṁ మోహయత్య్ ఆత్మ-జ్ఞాన-విముఖṁ
Link copiedవిషయానుభవ-పరṁ కరోతీత్య్ అర్థః॥౪।౪౦॥
Link copiedతస్మాత్ త్వమ్ ఇన్ద్రియాణ్య్ ఆదౌ నియమ్య భరతర్షభ।
Link copiedపాప్మానṁ ప్రజహి హ్య్ ఏనṁ జ్ఞాన-విజ్ఞాన-నాశనమ్॥౪౧॥
Link copiedయస్మాత్ సర్వేన్ద్రియ-వ్యాపారోపరతి-రూపే జ్ఞాన-యోగే ప్రవృత్తస్యాయṁ కామ-రూపః శత్రుర్ విషయాభిముఖ్య-కరణేనాత్మని వైముఖ్యṁ కరోతి। తస్మాత్ ప్రకృతి-సṁసృష్టతయేన్ద్రియ-వ్యాపార-ప్రవణస్ త్వమ్ ఆదౌ మోక్షోపాయారమ్భ-సమయ ఏవేన్ద్రియ-వ్యాపార-రూపే కర్మ-యోగే ఇన్ద్రియాణి నియమ్యైనṁ జ్ఞాన-విజ్ఞాన-నాశనమ్ ఆత్మ-స్వరూప-విషయస్య జ్ఞానస్య తద్-వివేక-విషయస్య చ నాశనṁ పాప్మానṁ కామ-రూపṁ వైరిణṁ ప్రజహి నాశయ॥౩।౪౧॥
Link copiedజ్ఞాన-విరోధిషు ప్రధానమ్ ఆహ---
Link copiedఇన్ద్రియాణి పరాణ్య్ ఆహుర్ ఇన్ద్రియేభ్యః పరṁ మనః।
Link copiedమనసస్ తు పరా బుద్ధిర్ యో బుద్ధేః పరతస్ తు సః॥౪౨॥
Link copiedజ్ఞాన-విరోధే ప్రధానానీన్ద్రియాణ్య్ ఆహుః। యత ఇన్ద్రియేషు విషయ-వ్యాపృతేష్వ్ ఆత్మని జ్ఞానṁ న ప్రవర్తతే, ఇన్ద్రియేభ్యః పరṁ మనః, ఇన్ద్రియేషూపరతేష్వ్ అపి మనసి విషయ-ప్రవణే ఆత్మ-జ్ఞానṁ న సమ్భవతి। మనసస్ తు పరా బుద్ధిః। మనసి విషయాన్తర-విముఖేఽపి విపరీతాధ్యవసాయ-ప్రవృత్తాయాṁ బుద్ధౌ నాత్మ-జ్ఞానṁ ప్రవర్తతే। సర్వేషు బుద్ధి-పర్యన్తేషు ఉపరతేష్వ్ అపీచ్ఛా-పర్యాయః కామో రజః-సముద్భవో వర్తతే చేత్, సైవ ఏతానీన్ద్రియాదీన్య్ అపి స్వ-విషయేషు వర్తయిత్వాత్మ-జ్ఞానṁ నిరుణద్ధి। తద్ ఇదమ్ ఉచ్యతే యో బుద్ధేః పరతస్ తు స ఇతి బుద్ధేర్ అపి యః పరః స కామ ఇత్య్ అర్థః॥౩।౪౨॥
Link copiedఏవṁ బుద్ధేః పరṁ బుద్ధ్వా సṁస్తభ్యాత్మానమ్ ఆత్మనా।
Link copiedజహి శత్రుṁ మహాబాహో కామరూపṁ దురాసదమ్॥౪౩॥
Link copiedఏవṁ బుద్ధేర్ అపి పరṁ కామṁ జ్ఞాన-విరోధినṁ వైరిణṁ బుద్ధ్వాత్మానṁ మన ఆత్మనా బుద్ధ్యా కర్మ-యోగేఽవస్థాప్యైనṁ కామ-రూపṁ దురాసదṁ శత్రుṁ జహి నాశయేతి॥౩।౪౩॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే తృతీయోఽధ్యాయః॥౩॥
Link copied**
Link copiedtad evaṁ mumukṣubhiḥ parama-prāpyatayā vedāntodita-nirasta-nikhilāvidyādi-doṣa-gandhānavadhikātiśayāsaṅkhyeya-kalyāṇa-guṇa-gaṇa-para-brahma-puruṣottama-prāpty-upāya-bhūta-vedanopāsana-dhyānādi-śabda-vācya-tad-aikāntikātyantika-bhakti-yogaṁ vaktuṁ tad-aṅga-bhūtaṁ ya ātmāpahṛta-pāpmā [chā.u. 8.7.1] ity ādi-prajāpati-vākyoditaṁ prāptur ātmano yāthātmya-darśanaṁ tan-nityatā-jñāna-pūrvakāsaṅga-karma-niṣpādya-jñāna-yoga-sādhyam uktam|
Link copiedprajāpati-vākye hi dahara-vākyodita-para-vidyāśeṣatayā prāptur ātmanaḥ svarūpa-darśanaṁ yas tam ātmānam anuvidya vijānāti [chā.u. 8.12.6] ity uktvā jāgarita-svapna-suṣupty-atītaṁ pratyag-ātma-svarūpam aśarīraṁ pratipādya evam evaiṣa samprasādo'syāc charīrāt samutthāya paraṁ jyotir upasampadya svena rūpeṇābhiniṣpadyate [chā.u. 8.12.3] iti dahara-vidyā-phalenopasaṁhṛtam|
Link copiedanyatrāpi adhyātma-yogādhigamena devaṁ matvā dhīro harṣa-śokau jahāti [ka.u. 1.2.12] ity evam ādiṣu devaṁ matveti vidhīyamāna-para-vidyāṅgatayā adhyātma-yogādhigamena iti pratyag-ātma-jñānam api vidhāya na jāyate mriyate vā vipaścit [ka.u. 1.2.18] ity ādinā pratyag-ātma-svarūpaṁ viśodhya aṇor aṇīyān ity ārabhya mahāntaṁ vibhum ātmānaṁ matvā dhīro na śocati [ka.u. 1.2.20-21],
Link copiednāyam ātmā pravacanena labhyo
Link copiedna medhayā na bahunā śrutena|
Link copiedyam evaiṣa vṛṇute tena labhyas
Link copiedtasyaiṣa ātmā vivṛṇute tanūṁ svām|| [ka.u. 1.2.23] ity-ādibhiḥ|
Link copied
para-svarūpaṁ tad-upāsanam upāsanasya ca bhakti-rūpatāṁ pratipādya---
Link copiedvijñāna-sārathir yas tu manaḥ-pragrahavān naraḥ|
Link copiedso'dhvanaḥ param āpnoti tad viṣṇoḥ paramaṁ padam|| [ka.u. 1.3.9]
Link copiediti para-vidyā-phalenopasaṁhṛtam| ataḥ param adhyāya-catuṣṭayenedam eva prāptuḥ pratya-ātmano darśanaṁ sa-sādhanaṁ prapañcayati---
Link copiedarjuna uvāca
Link copiedjyāyasī cet karmaṇas te matā buddhir janārdana|
Link copiedtat kiṁ karmaṇi ghore māṁ niyojayasi keśava||1||
Link copiedyadi karmaṇo buddhir eva jyāyasī iti te matā, kim arthaṁ tarhi ghore karmaṇi māṁ niyojayasi? etad uktaṁ bhavati--- jñāna-niṣṭhā eva ātmāvalokana-sādhanam| karma-niṣṭhā tu tasyāḥ niṣpādikā, ātmāvalokana-sādhana-bhūtā ca jñāna-niṣṭhā sakalendriya-manasāṁ śabdādi-viṣaya-vyāpāroparati-niṣpādyā ity abhihitā| indriya-vyāpāroparati-niṣpādyam ātmāvalokanaṁ ced siṣādhayiṣitam, sakalakarmanivṛttipūrvakajñāna-niṣṭhāyām eva ahaṁ niyojayitavyaḥ| kim arthaṁ ghore karmaṇi sarvendriya-vyāpāra-rūpe ātmāvalokana-virodhini karmaṇi māṁ niyojayasi iti||3.1||
Link copiedvyāmiśreṇeva vākyena buddhiṁ mohayasīva me|
Link copiedtad ekaṁ vada niścitya yena śreyo'ham āpnuyām||2||
Link copiedato vyāmiśra-vākyena māṁ mohayasi iva iti me pratibhāti| tathā hi ātmāvalokana-sādhana-bhūtāyāḥ sarvendriya-vyāpāroparati-rūpāyā jñāna-niṣṭhāyāḥ tad-viparyaya-rūpaṁ karma sādhanaṁ tad eva kuru iti vākyaṁ viruddhaṁ vyāmiśram eva| tasmād ekam amiśra-rūpaṁ vākyaṁ vada| yena vākyena aham anuṣṭheya-rūpaṁ niścitya ātmanaḥ śreyaḥ prāpnuyām||3.2||
Link copiedśrī-bhagavān uvāca
Link copiedloke'smin dvividhā niṣṭhā purā proktā mayānagha|
Link copiedjñāna-yogena sāṅkhyānāṁ karma-yogena yoginām||3||
Link copiedpūrvoktaṁ ca samyag avadhṛtaṁ tvayā| purā hy asmin loke vicitrādhikāri-sampūrṇe dvividhā niṣṭhā jñāna-karma-viṣayā yathādhikāram asaṅkīrṇā eva mayā uktā| na hi sarvo laukikaḥ puruṣaḥ sañjāta-mokṣābhilāṣaḥ tadānīm eva jñāna-yogādhikāre prabhavati, api tu anabhisaṁhita-phalena kevala-parama-puruṣārādhana-rūpeṇa anuṣṭhitena karmaṇā vidhvasta-mano-malo'vyākulendriyo jñāna-niṣṭhāyām adhikaroti---
Link copiedyataḥ pravṛttir bhūtānāṁ yena sarvam idaṁ tatam|
Link copiedsva-karmaṇā tam abhyacrya siddhiṁ vindati mānavaḥ|| [gītā 18.46]
Link copied
iti parama-puruṣārādhanaikaveṣatā karmaṇāṁ vakṣyate| ihāpi karmaṇy evādhikāras te [gītā 2.47] ity ādinā anabhisaṁhita-phalaṁ karma anuṣṭheyaṁ vidhāya tena viṣaya-vyākulatā-rūpa-mohād uttīrṇabuddheḥ prajahāti yadā kāmān [gītā 2.55] ity ādinā jñāna-yoga uditaḥ| ataḥ sāṅkhyānām eva jñāna-yogena sthitiḥ uktā, yogināṁ tu karma-yogena| saṅkhyā buddhiḥ, tad-yuktāḥ sāṅkhyāḥ| ātmaika-viṣayayā buddhyā yuktāḥ sāṅkhyāḥ| atad-arhāḥ karma-yogādhikāriṇo yoginaḥ| viṣaya-vyākula-buddhi-yuktānāṁ karma-yoge adhikāraḥ, avyākula-buddhīnāṁ tu jñāna-yoge adhikāra uktaḥ, sati na kiñcid iha viruddham, nāpi vyāmiśram abhihitam||3.3||
Link copiedsarvasya laukikasya puruṣasya mokṣecchāyāṁ sañjātāyāṁ sahasā eva jñāna-yogo duṣkara ity āha---
Link copiedna karmaṇām anārambhān naiṣkarmyaṁ puruṣo'śnute|
Link copiedna ca sannyasanād eva siddhiṁ samadhigacchati||4||
Link copiedna śāstrīyāṇāṁ karmaṇām anārambhād eva puruṣaḥ naiṣkarmyaṁ jñāna-niṣṭhām āpnoti| sarvendriya-vyāpārākhya-karmoparati-pūrvikāṁ jñāna-niṣṭhāṁ na prāpnoti ity arthaḥ| na ca ārabdhasya śāstrīyasya karmaṇas tyāgāt| yato'nabhisaṁhita-phalasya parama-puruṣārādhana-viṣayasya karmaṇaḥ siddhiḥ ātma-niṣṭhā syāt| ātma-niṣṭhā syāt| atas tena vinā tāṁ na prāpnoti| anabhisaṁhita-phalaiḥ karmabhir anārādhita-govindair avinaṣṭānādi-kāla-pravṛttānanta-pāpa-sañcayair avyākulendriyatā-pūrvikā ātma-niṣṭhā duḥsampādyā||3.4||
Link copiedetad eva upapādayati---
Link copiedna hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt|
Link copiedkāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ||5||
Link copiedna hy asmin loke vartamānaḥ puruṣaḥ kaścit kadācit api karma akurvāṇaḥ tiṣṭhati| na kiñcit karomīti vyavasito'pi sarvaḥ puruṣaḥ prakṛti-samudbhavaiḥ sattva-rajas-tamobhiḥ prāktana-karmānuguṇaṁ pravṛddhair guṇaiḥ svocitaṁ karma praty avaśaḥ kāryate pravartyate| ata ukta-lakṣaṇena karma-yogena prācīnaṁ pāpa-sañcayaṁ nāśayitvā guṇāṁś ca sattvādīn vaśe kṛtvā nirmalāntaḥ-karaṇena sampādyo jñāna-yogaḥ||3.5||
Link copiedanyathā jñāna-yogāya pravṛtto'pi mithyācāro bhavati iti āha---
Link copiedkarmendriyāṇi saṁyamya ya āste manasā smaran|
Link copiedindriyārthān vimūḍhātmā mithyācāraḥ sa ucyate||6||
Link copiedavinaṣṭa-pāpatayā ajita-bāhyāntaḥkaraṇa ātma-jñānāya pravṛtto viṣaya-pravaṇatayā ātmani vimukhīkṛta-manāḥ viṣayān eva smaran ya āste| anyathā saṅkalpya anyathā carati iti sa mithyācāraḥ ucyate| ātma-jñānāya udyukto viparīto vinaṣṭo bhavati ity arthaḥ||3.6||
Link copiedyas tv indriyāṇi manasā niyamyārabhate'rjuna|
Link copiedkarmendriyaiḥ karma-yogam asaktaḥ sa viśiṣyate||7||
Link copiedataḥ pūrvābhyasta-viṣaya-sajātīye śāstrīye karmaṇi indriyāṇi ātmāvalokana-pravṛttena manasā niyamya taiḥ svataeva karma-pravaṇaiḥ indriyaiḥ asaṅga-pūrvakaṁ yaḥ karma-yogam ārabhate, so'sambhāvyamāna-pramādatvena jñāna-niṣṭhād api puruṣād viśiṣyate||3.7||
Link copiedniyataṁ kuru karma tvaṁ karma jyāyo hy akarmaṇaḥ|
Link copiedśarīrayātrāpi ca te na prasidhyed akarmaṇaḥ||8||
Link copiedniyataṁ vyāptaṁ prakṛti-saṁsṛṣṭena hi vyāptaṁ karma| prakṛti-saṁsṛṣṭatvam anādi-vāsanayā| niyatatvena suśakatvād asambhāvita-pramādatvāc ca karmaṇaḥ, karmaiva kuru| akarmaṇaḥ jñāna-niṣṭhāyā api karmaiva jyāyaḥ| naiṣkarmyaṁ puruṣo'śnute [gītā 3.4] iti prakramāt| akarma-śabdena jñāna-niṣṭhaivocyate| jñāna-niṣṭhādhikāriṇo'py anabhyasta-pūrvatayā hy aniyatatvena duḥśakatvāt sa-pramādatvāc ca jñāna-niṣṭhāyāḥ karma-niṣṭhaiva jyāyasī|
Link copiedkarmaṇi kriyamāṇe cātma-yāthātmya-jñānena ātmano'kartṛtvānusandhānam anantaram eva vakṣyate| ata ātma-jñānasyāpi karma-yogāntargatatvāt saiva jyāyan ity arthaḥ| karmaṇo jñāna-niṣṭhāyā jyāyastva-vacanaṁ jñāna-niṣṭhāyām adhikāre saty evopapadyate|
Link copiedyadi sarvaṁ karma parityajya kevalaṁ jñāna-niṣṭhāyām adhikaroṣi, tarhy akarmaṇas te jñāna-niṣṭhasya jñāna-niṣṭhopakāriṇī śarīra-yātrāpi na setsyati| yāvat-sādhana-samāpti śarīra-dhāraṇaṁ cāvaśyaṁ kāryam| nyāyārjita-dhanena mahā-yajñādikaṁ kṛtvā tac-chiṣṭāśanenaiva śarīra-dhāraṇaṁ kāryam| āhāra-śuddhau sattva-śuddhiḥ sattva-śuddhau dhruvā smṛtiḥ [chā.u. 7.26.2] ity ādi-śruteḥ| bhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt [gītā 3.13] iti ca vakṣyate| ato jñāna-niṣṭhasyāpi karmākurvato deha-yātrā na setsyati| yato jñāna-niṣṭhasyāpi dhriyamāṇa-śarīrasya yāvat-sādhana-samāpti mahā-yajñādi-nitya-naimittikaṁ karma avaśyaṁ kāryam| yataś ca karma-yoge'py ātmano'kartṛtva-bhāvanayā ātma-yāthātmyānusandhānam antarbhūtam| yataś ca prakṛti-saṁsṛṣṭasya karma-yogaḥ suśako'pramādaś ca| ato jñāna-niṣṭhā-yogyasyāpi jñāna-yogāt karma-yogo jyāyān| tasmāt tvaṁ karma-yogam eva kurv ity abhiprāyaḥ||3.8||
Link copiedeva tarhi dravyārjanādeḥ karmaṇo'haṅkāra-mamakārādi-sarvendriya-vyākulatā-garbhatvenāsya puruṣasya karma-vāsanayā bandhanaṁ bhaviṣyatīty atrāha---
Link copiedyajñārthāt karmaṇo'nyatra loko'yaṁ karma-bandhanaḥ|
Link copiedtad arthaṁ karma kaunteya muktasaṅgaḥ samācara||9||
Link copiedyajñādi-śāstrīya-karma-śeṣa-bhūtād dravyārjanādeḥ karmaṇo'nyatrātmīya-prayojana-śeṣa-bhūte karmaṇi kriyamāṇe'yaṁ lokaḥ karma-bandhano bhavati| atas tvaṁ yajñādy-arthaṁ dravyārjanādikaṁ karma samācara| tatrātma-prayojana-sādhanatayā yaḥ saṅgas tasmāt saṅgāt muktaḥ san samācara| evaṁ mukta-saṅgena yajñādy-arthatayā karmaṇi kriyamāṇe yajñādibhiḥ karmabhir ārādhitaḥ parama-puruṣo'sya anādi-kāla-pravṛtta-karma-vāsanāṁ samucchidya avyākulātmāvalokanaṁ dadātīty arthaḥ||3.9||
Link copiedyajña-śiṣṭenaiva sarva-puruṣārtha-sādhana-niṣṭhānāṁ śarīra-dhāraṇa-kartavyatām ayajña-śiṣṭena śarīra-dhāraṇaṁ kurvatāṁ doṣaṁ cāha--- patiṁ viśvarasya ātmeśvaram [tai.nā. 11.3] ity ādi śruteḥ nirupādhikaḥ prajāpati-śabdaḥ sarveśvaraṁ viśva-srāṣṭāraṁ viśvātmānaṁ parāyaṇaṁ nārāyaṇam āha| purā sarga-kāle sa bhagavān prajāpatiḥ anādi-kāla-pravṛttācit-saṁsarga-vivaśā upasaṁhṛta-nāma-rūpa-vibhāgāḥ svasmin pralīnāḥ sakala-puruṣārthānarhāś cetanetara-kalpāḥ prajāḥ samīkṣya parama-kāruṇikas tad-ujjijīvaviṣayā svārādhana-bhūta-yajña-nirvṛttaye yajñaiḥ saha tāḥ sṛṣṭvaivam uvāca---
Link copiedsaha-yajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ|
Link copiedanena prasaviṣyadhvam eṣa vo'stv iṣṭa-kāma-dhuk||10||
Link copiedanena yajñena prasaviṣyadhvam ātmano vṛddhiṁ kurudhvam| eṣa vo yajñaḥ parama-puruṣārtha-lakṣaṇa-mokṣākhyasya kāmasya tad-anuguṇānāṁ ca kāmānāṁ prapūrayitā bhavatu||3.10||
Link copiedkatham|
Link copieddevān bhāvayatānena te devā bhāvayantu vaḥ|
Link copiedparasparaṁ bhāvayantaḥ śreyaḥ param avāpsyatha||11||
Link copiedanena devatārādhana-bhūtena devān mac-charīra-bhūtān mad-ātmakān ārādhayata| ahaṁ hi sava-yajñānāṁ bhoktā ca prabhur eva ca [gītā 9.24] iti vakṣyate| yajñenārādhitās te devā mad-ātmakāḥ svārādhanāpekṣitānna-pānādikair yuṣmān puṣṇantu| evaṁ parasparaṁ bhāvayantaḥ paraṁ śreyo mokṣākhyam avāpsyatha||3.11||
Link copiediṣṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ|
Link copiedtair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ||12||
Link copiedyajña-bhāvitā yajñenārādhitā mad-ātmakā devā iṣṭān bhogān vo dāsyante parama-puruṣārtha-lakṣaṇaṁ mokṣaṁ sādhayatāṁ ye iṣṭā bhogās tān pūrva-pūrva-yajña-bhāvitā devā dāsyante| uttarottarārādhanāpekṣitān sarvān bhogān vo dāsyantīty arthaḥ| svārādhanārthatayā tair dattān bhogāṁs tebhyo'pradāya yo bhuṅkte cora eva saḥ| cauryaṁ hi nāma anyadīye tat-prayojanāyaiva parikḷpte vastuni svakīyatā-buddhiṁ kṛtvā tena svātma-poṣaṇam| ato'sya na parama-puruṣārthānarhatā-mātram, api tu niraya-gāmitvaṁ ca bhaviṣyatīty abhiprāyaḥ||3.12||
Link copiedtad eva vivṛṇoti---
Link copiedyajña-śiṣṭāśinaḥ santo mucyante sarva-kilbiṣaiḥ|
Link copiedbhuñjate te tv aghaṁ pāpā ye pacanty ātma-kāraṇāt||13||
Link copiedindrādy-ātmanāvasthita-parama-puruṣārādhanārthatayaiva dravyāṇy upādāya vipacya tair yathāvasthitaṁ parama-puruṣam ārādhya tac-chiṣṭāśanena ye śarīra-yātrāṁ kurvate, te tv anādi-kālopārjitaiḥ kilbiṣair ātma-yāthātmyāvalokana-virodhibhiḥ sarvair vimucyante| ye tu parama-puruṣeṇa indrādy-ātmanā svārādhanāya dattānām ātmārthatayopādāya vipacyāśnanti te pāpātmāno'gham eva bhuñjate| agha-pariṇāmitvād agham ity ucyate| ātmāvalokana-vimukhā narakāyaiva pacyante||3.13||
Link copiedpunar api loka-dṛṣṭyā śāstra-dṛṣṭyā ca sarvasya yajña-mūlatvaṁ darśayitvā yajñānuvartanasya avaśya-kāryatām ananuvartane doṣaṁ cāha---
Link copiedannād bhavanti bhūtāni parjanyād anna-sambhavaḥ|
Link copiedyajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ||14||
Link copiedannāt sarvāṇi bhūtāni bhavanti parjanyād anna-sambhavaḥ iti sarva-loka-sākṣikam| yajñāt parjanyo bhavatīti ca śāstreṇāvagamyate---
Link copiedagnau prāstāhutiḥ samyag ādityam upatiṣṭhate|
Link copiedādityāj jāyate vṛṣṭir vṛṣṭer annaṁ tataḥ prajāḥ|| [manu 3.76] ity-ādinā|
Link copied
yajñaḥ ca dravyārjanādi-kartṛ-puruṣa-vyāpāra-rūpa-karma-samudbhavaḥ||3.14||
Link copiedkarma brahmodbhavaṁ viddhi brahmākṣara-samudbhavam|
Link copiedtasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣṭhitam||15||
Link copiedkarma ca brahmodbhavam| atra ca brahma-śabda-nirdiṣṭāṁ prakṛti-pariṇāma-rūpa-śarīram| tasmād etad brahma nāma rūpam annaṁ ca jāyate [mu.u. 1.1.9] iti brahma-śabdena prakṛtir nirdiṣṭā| ihāpi mama yonir mahad brahma [gītā 14.3] iti vakṣyate| ataḥ karma brahmodbhavam iti prakṛti-pariṇāma-rūpa-śarīrodbhavaṁ karma ity uktaṁ bhavati| brahmākṣara-samudbhavam ity atra akṣara-śabda-nirdiṣṭo jīvātmā| anna-pānādinā tṛptākṣarādhiṣṭhitaṁ śarīraṁ karmaṇe prabhavatīti karma-sādhana-bhūtaṁ śarīram akṣara-samudbhavam| tasmāt sarva-gataṁ brahma sarvādhikāri-gataṁ śarīraṁ nityaṁ yajñe pratiṣṭhitaṁ yajña-mūlam ity arthaḥ||3.15||
Link copiedevaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ|
Link copiedaghāyur indriyārāmo moghaṁ pārtha sa jīvati||16||
Link copiedevaṁ parama-puruṣeṇa pravartitam idaṁ cakram annād bhavanti bhūtāni ity atra bhūta-śabda-nirdiṣṭāni sa-jīvāni śarīrāṇi| parjanyād annam, yajñāt parjanyaḥ| yajñaś ca kartṛ-vyāpārānurūpāt karmaṇaḥ| karma ca sa-jīvāt śarīrāt, sa-jīvaṁ śarīraṁ ca punar annād iti anyonya-kārya-kāraṇa-bhāvena cakravat parivartamānam| iha sādhane vartamāno yaḥ karma-yogādhikārī jñāna-yogādhikārī vā nānuvartayati na pravartayati, yajña-śiṣṭena deha-dhāraṇam akurvan so'ghāyur bhavati| aghārambhāyaiva yasyāyur agha-pariṇataṁ vobhaya-rūpaṁ vā so'ghāyuḥ| ataeva indriyārāmo bhavati, nātmārāmaḥ| indriyāṇy evāsyodyānāni bhavanti| ayajña-śiṣṭa-vardhita-deha-manastvena udrikta-rajas-tamaska ātmāvalokana-vimukhatayā viṣaya-bhogaika-ratir bhavati, ato jñāna-yogādau yatamāno'pi niṣphala-prayatnatayā moghaṁ pārtha sa jīvati||3.16||
Link copiedasādhanāyattātma-darśanasya muktasyaiva mahā-yajñādi-varṇāśramocita-karmānārambha ity āha---
Link copiedyas tv ātma-ratir eva syād ātma-tṛptaś ca mānavaḥ|
Link copiedātmany eva ca santuṣṭas tasya kāryaṁ na vidyate||17||
Link copiedyas tu jñāna-yoga-karma-yoga-sādhana-nirapekṣaḥ svata eva ātma-ratir ātmābhimukha ātmanā eva tṛptaḥ, na anna-pānādibhir ātma-vyatiriktaiḥ, ātmany eva ca santuṣṭāḥ| na udyāna-srāk-candana-gīta-vāditra-nṛtyādau, dhāraṇa-poṣaṇa-bhogyādikaṁ sarvam ātmaiva yasya tasya ātma-darśanāya kartavyaṁ na vidyate| svata eva sarvadā dṛṣṭātma-svarūpatvāt||3.17||
Link copiednaiva tasya kṛtenārtho nākṛteneha kaścana|
Link copiedna cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ||18||
Link copiedataeva tasyātma-darśanāya kṛtena tat-sādhanena nārthaḥ--- na kiñcit prayojanam, akṛtena ātma-darśana-sādhanena na kaścid anarthaḥ--- asādhanāyattātma-darśanatvāt| svata evātma-vyatirikta-sakalācid-vastu-vimukhasyāsya sarveṣu prakṛti-pariṇāma-viśeṣeṣv ākāśādiṣu bhūteṣu sa-kāryeṣu na kaścit prayojanatayā sādhanatayā vā vyapāśrayaḥ, yataḥ tad-vimukhīkaraṇāya sādhanārambhaḥ| sa hi muktaiva||3.18||
Link copiedyasmād asādhanāyattātma-darśanasyaiva sādhanāpravṛttiḥ, yasmāc ca sādhane pravṛttasyāpi suśakatvād apramādatvāt tad-antargatātmayāthātmyānusandhānatvād ca jñāna-yogino'pi deha-yātrāyāḥ karmānuvṛtty-apekṣatvāt ca karma-yogaiva ātma-darśana-nivṛttau śreyān---
Link copiedtasmād asaktaḥ satataṁ kāryaṁ karma samācara|
Link copiedasakto hy ācaran karma param āpnoti pūruṣaḥ||19||
Link copiedtasmād asaṅgapūrvakaṁ kāryam ityeva satataṁ yāvadātmaprāpti karmaiva samācara| asaktaḥ kāryam iti vakṣyamāṇākartṛtvānusandhānapūrvakaṁ ca karma anucaran pūrūṣaḥ karma-yogenaiva param āpnoti ātmānaṁ prāpnoti ity arthaḥ||3.19||
Link copiedkarmaṇaiva hi saṁsiddhim āsthitā janakādayaḥ|
Link copiedloka-saṅgraham evāpi sampaśyan kartum arhasi||20||
Link copiedyato jñāna-yogādhikāriṇo'pi karma-yogaiva ātmadarśa ne śreyān, ata eva hi janakādayo rājarvāyo jñāninām agresarāḥ karma-yogenaiva saṁsiddhim āsthitāḥ, ātmānaṁ prāptavantaḥ|
Link copiedevaṁ prathamaṁ mumukṣoḥ jñāna-yogānarhatayā karma-yogādhikāriṇaḥ karma-yogaiva kāryaḥ, ityuktvā jñāna-yogādhikāriṇo'pi jñāna-yogāt karma-yogaiva śreyān iti sahetukam uktam| idānīṁ śiṣṭātayā vyapadeśyasya sarvathā karma-yogaiva kārya iti ucyate--- lokasaṅgrahaṁ paśyan api karmaiva kartum arhasi||3.20||
Link copiedyad yad ācarati śreṣṭhas tat tad evetaro janaḥ|
Link copiedsa yat pramāṇaṁ kurute lokas tad anuvartate||21||
Link copiedśreṣṭhaḥ kṛtsna-śāstra-jñātṛtayā anuṣṭhātṛtayā ca prathito yad yad ācarati tat tad eva akṛtsnavid jano'pi ācarati| anuṣṭhīyamānam api karma śreṣṭho yat-pramāṇaṁ yad-aṅga-yuktam anutiṣṭhati, tad-aṅga-yuktam eva akṛtsna-vid loko'pi anutiṣṭhati| ato loka-rakṣārthaṁ śiṣṭātayā prathitena śreṣṭhena sva-varṇāśramocitaṁ karma sakalaṁ sarvadā anuṣṭheyam| anyathā loka-nāśa-janitaṁ pāpaṁ jñāna-yogād apy enaṁ pracyāvayet||3.21||
Link copiedna me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana|
Link copiednānavāptam avāptavyaṁ vartaiva ca karmaṇi||22||
Link copiedna me sarveśvarasya avāpta-samasta-kāmasya sarvajñasya satya-saṅkalpasya triṣu lokeṣu deva-manuṣyādi-rūpeṇa svacchandato vartamānasya kiñcid api kartavyam asti, yato'navāptaṁ karmaṇāvāptavyaṁ na kiñcid apy asti, athāpi loka-rakṣāyai karmaṇy eva varte||3.22||
Link copiedyadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ|
Link copiedmama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ||23||
Link copiedaha sarveśvaraḥ satya-saṅkalpaḥ sva-saṅkalpa-kṛta-jagad-udaya-vibhavalaya-līlaḥ svacchandato jagad-upakṛtaye martyo jāto'pi manuṣyeṣu śiṣṭājanāgresara-vasudeva-gṛhe'vatīrṇas tat-kulocite karmaṇy atandritaḥ sarvadā yadi na varteyam, mama śiṣṭājanāgresara-vasudeva-sūnor vartma akṛtsna-vidaḥ śiṣṭāś ca sarva-prakāreṇāyam eva dharma ity anuvartante te ca sva-kartavyānanu-ṣṭhānenākaraṇe pratyavāyena cātmānam anupalabhya niraya-gāmino bhaveyuḥ||3.23||
Link copiedutsīdeyur ime lokā na kuryāṁ karma ced aham|
Link copiedsaṅkarasya ca kartā syām upahanyām imāḥ prajāḥ||24||
Link copiedahaṁ kulocitaṁ karma na cet kuryām evam eva sarve śiṣṭālokā mad-ācārāyatta-dharma-niścayā akaraṇād eva utsīdeyuḥ--- naṣṭā bhaveyuḥ, śāstrīyācārāṇām apālanāt sarveṣāṁ śiṣṭākulānāṁ saṅkarasya ca kartā syām, ataeva imāḥ prajā upahanyām| evam eva tvam api śiṣṭa-janāgresara-pāṇḍu-tanayo yudhiṣṭhirānujo'rjunaḥ san śiṣṭatayā yadi jñāna-niṣṭhāyām adhikaroṣi| tatas tvad-ācārānuvartino'kṛtsna-vidaḥ śiṣṭāś ca mumukṣavaḥ svādhikāram ajānantaḥ karma-niṣṭhāyām anadhikurvanto vinaśyeyuḥ| ato vyapadeśyena viduṣā karmaiva kartavyam||3.24||
Link copiedsaktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata|
Link copiedkuryād vidvāṁs tathāsaktaś cikīrṣur loka-saṅgraham||25||
Link copiedavidvāṁsa ātmany akṛtsna-vidaḥ karmaṇi saktāḥ karmaṇy avarjanīya-sambandhāḥ, ātmany akṛtasna-vittayā tad-abhyāsa-rūpa-jñāna-yoge'nadhikṛtāḥ, karma-yogādhikāraṇiḥ karma-yogam eva yathātma-darśanāya kurvate, tathātmani kṛtsna-vittayā karmaṇy asakto jñāna-yogādhikāra-yogyo'pi vyapadeśyaḥ śiṣṭāḥ, loka-rakṣaṇārthaṁ svācāreṇa śiṣṭa-lokānāṁ dharma-niścayaṁ cikīrṣuḥ karma-yogam eva kuryāt||3.25||
Link copiedna buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām|
Link copiedjoṣayet sarva-karmāṇi vidvān yuktaḥ samācaran||26||
Link copiedajñānām ātmany akṛtsna-vittayā jñāna-yogopādānāśaktānāṁ mumukṣūṇāṁ karma-saṅginām anādi-karma-vāsanayā karmaṇi eva niyatatvena karma-yogādhikāriṇāṁ karma-yogād anyathātmāvalokanam astīti na buddhi-bhedaṁ janayet| kiṁ tarhi? ātmani kṛtsna-vittayā jñāna-yoga-śakto'pi pūrvokta-rītyā karma-yogaiva jñāna-yoga-nirapekṣa ātmāvalokana-sādhanam iti buddhyā yuktaḥ karmaivācaran sarva-karmasu akṛtsna-vidāṁ prītiṁ janayet||3.26||
Link copiedatha karma-yogam anutiṣṭhato viduṣo'viduṣaś ca viśeṣaṁ pradarśayan karma-yogāpekṣitam ātmano'kartṛtvānusandhāna-prakāram upadiśati---
Link copiedprakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ|
Link copiedahaṅkāra-vimūḍhātmā kartāham iti manyate||27||
Link copiedprakṛteḥ guṇaiḥ sattvādibhiḥ svānurūpaṁ kriyamāṇāni karmāṇi praty ahaṅkāra-vimūḍhātmā ahaṁ karteti manyate| ahaṅkāreṇa vimūḍha ātmā yasyāsāv ahaṅkāra-vimūḍhātmā| ahaṅkāro nāma anaham-arthe prakṛtāv aham iti abhimānaḥ| tena ajñātātma-svarūpo guṇa-karmasv ahaṁ karteti manyate ity arthaḥ||3.27||
Link copiedtattvavit tu mahābāho guṇa-karma-vibhāgayoḥ|
Link copiedguṇā guṇeṣu vartanta iti matvā na sajjate||28||
Link copiedguṇa-karma-vibhāgayoḥ sattvādi-guṇa-vibhāge tat-tat-karma-vibhāge ca tattvavit, guṇāḥ sattvādayaḥ sva-guṇeṣu sveṣu kāryeṣu vartante iti matvā guṇa-karmasv ahaṁ karteti na sajjate||3.28||
Link copiedprakṛter guṇa-saṁmūḍhāḥ sajjante guṇa-karmasu|
Link copiedtān akṛtsna-vido mandān kṛtsnavin na vicālayet||29||
Link copiedakṛtsna-vidas tu ātma-darśanāya pravṛttāḥ prakṛti-saṁsṛṣṭatayā prakṛteḥ guṇair yathāvasthitātmani saṁmūḍhā guṇa-karmasu kriyāsv eva sajjante, na tad-viviktātma-svarūpe| atas te jñāna-yogāya na prabhavantīti karma-yoga eva teṣām adhikāraḥ| evambhūtān tān mandān akṛtsna-vidaḥ kṛtsna-vit svayaṁ jñāna-yogāvasthānena na vicālayet| te kila mandāḥ śreṣṭha-janācārānuvartinaḥ karma-yogād utthitam enaṁ dṛṣṭvā karma-yogāt pracalita-manaso bhaveyuḥ| ataḥ śreṣṭhaḥ svayam api karma-yoge tiṣṭhan ātma-yāthātmya-jñānena ātmano'kartṛtvam anasandadhānaḥ| karma-yoga evātmāvalokane nirapekṣa-sādhanam iti darśayitvā tān akṛtsna-vido mandān joṣayed ity arthaḥ|
Link copiedjñāna-yogādhikāriṇo'pi jñāna-yogād asyaiva karma-yogasya jyāyastvaṁ pūrvam evoktam| ato vyapadeśyo loka-saṅgrahāya karmaiva kuryāt| prakṛti-viviktātma-svabhāva-nirūpaṇena guṇeṣu kartṛtvam āropya karmānuṣṭhāna-prakāra uktaḥ| guṇeṣu kartṛtvānusandhānaṁ cedam evātmano na svarūpa-prayuktam idaṁ kartṛtvam, api tu guṇa-sambandha-kṛtam iti prāptāprāpta-vivekena guṇa-kṛtam ity anusandhānam||3.29||
Link copiedidānīm ātmanāṁ parama-puruṣa-śarīratayā tan-niyāmyatva-svarūpa-nirūpaṇena bhagavati puruṣottame sarvātma-bhūte guṇa-kṛtaṁ ca kartṛtvam āropya karma-kartavyatayocyate---
Link copiedmayi sarvāṇi karmāṇi sannyasyādhyātma-cetasā|
Link copiednirāśīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ||30||
Link copiedmayi sarveśvare sarva-bhūtāntarātma-bhūte sarvāṇi karmāṇi adhyātma-cetasā sannyasya nirāśīr nirmamaś ca vigata-jvaro yuddhādikaṁ sarvaṁ coditaṁ karma kuruṣva| ātmani yac cetas tad adhyātma-cetaḥ, ātma-svarūpa-viṣayeṇa śruti-śata-siddhena jñānenety arthaḥ|
Link copiedantaḥ praviṣṭāḥ śāstā janānāṁ sarvātmā ... antaḥ praviṣṭāṁ kartārametam [tai.ā. 3.11] ya ātmani tiṣṭhann ātmano'ntaro yam ātmā na veda| yasyātmā śarīraṁ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ [bṛ. 5.7 mā.di.] ity evam ādyāḥ śrutayaḥ parama-puruṣa-pravartyaṁ tac-charīra-bhūtam enam ātmānaṁ parama-puruṣaṁ ca pravartayitāram ācakṣate| smṛtayaś ca--- praśāsitāraṁ sarveṣām [manu 12.122] ity ādyāḥ| sarvasya cāhaṁ hṛdi sanniviṣṭāḥ [gītā 15.15],
Link copiedīśvaraḥ sarvabhūtānāṁ hṛddeśo'rjuna tiṣṭhati|
Link copiedbhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā|| [gītā 18.61] iti vakṣyate|
Link copied
ato mac-charīratayā mat-pravartyātma-svarūpānusandhānena sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi parama-puruṣe sannyasya tāni ca kevalaṁ mad-ārādhanānīti kṛtvā tat-phale nirāśīs tata eva tatra karmaṇi mamatā-rahito bhūtvā vigata-jvaro yuddhādikaṁ kuruṣva|
Link copiedsvakīyenātmanā kartrā svakīyaiś copakaraṇaiḥ svārādhanaika-prayojanāya parama-puruṣaḥ sarveśvaraḥ sarva-śeṣī svayam eva sva-karmāṇi kārayati| ity anusandhāya karmasu mamatā-rahitaḥ prācīnenānādi-kāla-pravṛttānanta-pāpa-sacayena katham ahaṁ bhaviṣyāmi ity evaṁ bhūtāntar-jvara-vinirmuktaḥ parama-puruṣa eva karmabhir ārādhito bandhān mocayiṣyatīti smaran sukhena karma-yogam eva kuruṣvety arthaḥ|
Link copiedtam īśvarāṇāṁ paramaṁ maheśvaraṁ taṁ devatānāṁ paramaṁ ca daivatam [śve.u. 3.7], patiṁ viśvasya [ma.nā.u. 3.1], patiṁ patīnām [śve.u. 6.7], ity ādi-śruti-siddhaṁ hi sarveśvaratvaṁ sarva-śeṣitvaṁ ca| īśvaratvaṁ niyantṛtvam, śeṣitvaṁ patitvam||3.30||
Link copiedayam eva sākṣād-upaniṣat-sāra-bhūto'rtha ity āha---
Link copiedye me matam idaṁ nityam anutiṣṭhanti mānavāḥ|
Link copiedśraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ||31||
Link copiedye mānavā ātma-niṣṭha-śāstrādhikāriṇo'yam eva śāstrārtha ity etan me mataṁ niścitya tathānutiṣṭhanti| ye cānanutiṣṭānto'py asmin śāstrārthe śraddadhānā bhavanti, ye ca aśraddadhānā api evaṁ śāstrārthe na sambhavatīti nābhyasūyanti| asmin mahā-guṇe śāstrārthe doṣa-darśino na bhavantīty arthaḥ| te sarve bandha-hetubhir anādi-kāla-prārabdhaiḥ karmabhir mucyante| te'pi karmabhir iti api-śabdād eṣāṁ pṛthak-karaṇam| idānīm ananutiṣṭhanto'pi asmin śāstrārthe śraddadhānā anabhyasūyavaś ca śraddhayā cānasūyayā ca kṣīṇa-pāpā acireṇemam eva śāstrārtham anuṣṭhāya mucyanta ity arthaḥ||3.31||
Link copiedbhagavad-abhimatam aupaniṣadam artham ananutiṣṭhatām aśraddadhānānām abhyasūyatāṁ ca doṣam āha---
Link copiedye tv etad abhyasūyanto nānutiṣṭhanti me matam|
Link copiedsarva-jñāna-vimūḍhāṁs tān viddhi naṣṭān acetasaḥ||32||
Link copiedye tu etat sarvam ātmavastu maccharīratayā madādhāraṁ maccheṣabhūtaṁ madekapravattryam iti me mataṁ na anutiṣṭhanti naivam anusandhāya sarvāṇi karmāṇi kurvate, ye ca na śraddadhate, ye ca abhyasūyanto vartante, tān sarveṣu jñāneṣu viśeṣeṇa mūḍhān tataeva naṣṭāan acetaso viddhi| cetaḥkāryaṁ hi vastuyāthātmyaniścayaḥ, tadabhāvād acetasaḥ viparītajñānāḥ sarvatra vimūḍhāś ca||3.32||
Link copiedevaṁ prakṛti-saṁsargiṇas tad-guṇodreka-kṛtaṁ tac ca kartṛtvaṁ parama-puruṣāyattam iti anusandhāya karma-yoga-yogyena jñāna-yoga-yogyena ca karma-yogasya suśakatvād apramādatvād antargatātma-jñānatayā nirapekṣatvād itarasya duḥśakatvāt sapramādatvāt śarīra-dhāraṇādy-arthatayā karmāpekṣatvāt karma-yoga eva kartavyaḥ| vyapadeśyasya tu viśeṣataḥ sa eva kartavya iti coktam| ataḥ param adhyāya-śeṣeṇa jñāna-yogasya duḥśakatayā sa-pramādatocyate---
Link copiedsadṛśaṁ ceṣṭate svasyāḥ prakṛter jñānavān api|
Link copiedprakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati||33||
Link copiedprakṛti-viviktam īdṛśam ātma-svarūpam, tad eva sarvadānusandheyam, iti ca śāstrāṇi pratipādayantīti jñānavān api svasyāḥ prakṛteḥ prācīna-vāsanāyāḥ sadṛśaṁ prākṛta-viṣayeṣv eva ceṣṭāte| kutaḥ| prakṛtiṁ yānti bhūtāni acit-saṁsṛṣṭā jantavo'nādi-kāla-pravṛtta-vāsanām eva yānti, tāni vāsanānuyāyīni bhūtāni śāstra-kṛto nigrahaḥ kiṁ kariṣyati|||3.33||
Link copiedprakṛty-anuyāyitva-prakāram āha---
Link copiedindriyasyendriyasyārthe rāga-dveṣau vyavasthitau|
Link copiedtayor na vaśam āgacchet tau hy asya paripanthinau||34||
Link copiedśrotradi-jñānendriyasyārthe śabdādau vāg-ādi-karmendriyasya cārthe vacanādau prācīna-vāsanā-janita-tat-tad-anububhūṣā-rūpo rāgo'varjanīyo vyavasthitaḥ| tad-anubhave pratihate cāvarjanīyo dveṣo vyavasthitaḥ| tāv evaṁ jñāna-yogāya yatamānaṁ niyamita-sarvendriyaṁ sva-vaśe kṛtvā prasahya sva-kāryeṣu saṁyojayataḥ| tataś cāyam ātma-svarūpānubhava-vimukho vinaṣṭo bhavati| tayor na vaśam āgacchet| jñāna-yogārambheṇa rāga-dveṣa-vaśam āgamya na vinaśyet| tau hi raga-dveṣau hy asya durjayau śatrū ātma-jñānābhyāsaṁ vārayataḥ||3.34||
Link copiedśreyān sva-dharmo viguṇaḥ para-dharmāt svanuṣṭhitāt|
Link copiedsva-dharme nidhanaṁ śreyaḥ para-dharmo bhayāvahaḥ||35||
Link copiedataḥ suśakatayā svadharma-bhūtaḥ karma-yogo viguṇo'py apramāda-garbhaḥ prakṛti-saṁsṛṣṭasya duḥśakatayā para-dharma-bhūtāj jñāna-yogāt saguṇād api kiñcit kālam anuṣṭhitāt sa-pramādāt śreyān| svenaivopādātuṁ yogyatayā svadharma-bhūte karma-yoge vartamānasya ekasmin janmani aprāpta-phalatayā nidhanam api śreyaḥ| anantarāya-hatatayā anantara-janmany apy avyākula-karma-yogārambha-sambhavāt| prakṛti-saṁsṛṣṭasya svenaiva upādātum aśakyatayā para-dharma-bhūto jñāna-yogaḥ pramāda-garbhatayā bhayāvahaḥ||3.35||
Link copiedarjuna uvāca
Link copiedatha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ|
Link copiedanicchann api vārṣṇeya balād iva niyojitaḥ||36||
Link copiedathāyaṁ jñāna-yogāya pravṛttaḥ pūruṣaḥ svayaṁ viṣayān anubhavitum anicchann api kena prayukto viṣayānubhava-rūpaṁ pāpaṁ balān niyojita iva carati||3.36||
Link copiedśrī-bhagavān uvāca
Link copiedkāma eṣa krodha eṣa rajo-guṇa-samudbhavaḥ|
Link copiedmahāśano mahā-pāpmā viddhy enam iha vairiṇam||37||
Link copiedasyodbhavābhibhava-rūpeṇa vartamāna-guṇa-maya-prakṛti-saṁsṛṣṭasya prārabdha-jñāna-yogasya rajo-guṇa-samudbhavaḥ prācīna-vāsanā-janitaḥ śabdādi-viṣayo'yaṁ kāmo mahāśanaḥ śatruḥ| sarva-viṣayeṣv enam ākarṣati| eṣa eva pratihata-gatiḥ pratihanana-hetu-bhūta-cetanān prati krodha-rūpeṇa pariṇato mahā-pāpmā para-hiṁsādiṣu pravartayati| enaṁ rajo-guṇa-samudbhavaṁ sahajaṁ jñāna-yoga-virodhinaṁ vairiṇaṁ viddhi||3.37||
Link copieddhūmenāvriyate vahnir yathādarśo malena ca|
Link copiedyatholbenāvṛto garbhas tathā tenedam āvṛtam||38||
Link copiedyathā dhūmena vahnir āvriyate, yathā cādarśo malena, yathā colbenāvṛto garbhas tathā tena kāmenedaṁ jantu-jātam āvṛtam||3.38||
Link copiedāvaraṇa-prakāram āha---
Link copiedāvṛtaṁ jñānam etena jñānino nitya-vairiṇā|
Link copiedkāma-rūpeṇa kaunteya duṣpūreṇānalena ca||39||
Link copiedasya jantor jñānino jñāna-svabhāvasyātma-viṣayaṁ jñānam etena kāma-kāreṇa viṣaya-vyāmoha-jananena nitya-vairiṇāvṛtaṁ duṣpūreṇa pūrty-anarha-viṣayeṇānalena ca paryāpti-rahitena||3.39||
Link copiedkair upakaraṇair ayaṁ kāma ātmānam adhitiṣṭhatīty atrāha---
Link copiedindriyāṇi mano buddhir asyādhiṣṭhānam ucyate|
Link copiedetair vimohayaty eṣa jñānam āvṛtya dehinam||40||
Link copiedadhitiṣṭhaty ebhir ayaṁ kāma ātmānam itīndriyāṇi mano buddhir asyādhiṣṭhānam| etair indriya-mano-buddhibhiḥ kāmādhiṣṭhāna-bhūtair viṣaya-pravaṇair dehinaṁ prakṛti-saṁsṛṣṭāṁ jñānam āvṛtya vimohayati| vividhaṁ mohayaty ātma-jñāna-vimukhaṁ
Link copiedviṣayānubhava-paraṁ karotīty arthaḥ||4.40||
Link copiedtasmāt tvam indriyāṇy ādau niyamya bharatarṣabha|
Link copiedpāpmānaṁ prajahi hy enaṁ jñāna-vijñāna-nāśanam||41||
Link copiedyasmāt sarvendriya-vyāpāroparati-rūpe jñāna-yoge pravṛttasyāyaṁ kāma-rūpaḥ śatrur viṣayābhimukhya-karaṇenātmani vaimukhyaṁ karoti| tasmāt prakṛti-saṁsṛṣṭatayendriya-vyāpāra-pravaṇas tvam ādau mokṣopāyārambha-samaya evendriya-vyāpāra-rūpe karma-yoge indriyāṇi niyamyainaṁ jñāna-vijñāna-nāśanam ātma-svarūpa-viṣayasya jñānasya tad-viveka-viṣayasya ca nāśanaṁ pāpmānaṁ kāma-rūpaṁ vairiṇaṁ prajahi nāśaya||3.41||
Link copiedjñāna-virodhiṣu pradhānam āha---
Link copiedindriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ|
Link copiedmanasas tu parā buddhir yo buddheḥ paratas tu saḥ||42||
Link copiedjñāna-virodhe pradhānānīndriyāṇy āhuḥ| yata indriyeṣu viṣaya-vyāpṛteṣv ātmani jñānaṁ na pravartate, indriyebhyaḥ paraṁ manaḥ, indriyeṣūparateṣv api manasi viṣaya-pravaṇe ātma-jñānaṁ na sambhavati| manasas tu parā buddhiḥ| manasi viṣayāntara-vimukhe'pi viparītādhyavasāya-pravṛttāyāṁ buddhau nātma-jñānaṁ pravartate| sarveṣu buddhi-paryanteṣu uparateṣv apīcchā-paryāyaḥ kāmo rajaḥ-samudbhavo vartate cet, saiva etānīndriyādīny api sva-viṣayeṣu vartayitvātma-jñānaṁ niruṇaddhi| tad idam ucyate yo buddheḥ paratas tu sa iti buddher api yaḥ paraḥ sa kāma ity arthaḥ||3.42||
Link copiedevaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānam ātmanā|
Link copiedjahi śatruṁ mahābāho kāmarūpaṁ durāsadam||43||
Link copiedevaṁ buddher api paraṁ kāmaṁ jñāna-virodhinaṁ vairiṇaṁ buddhvātmānaṁ mana ātmanā buddhyā karma-yoge'vasthāpyainaṁ kāma-rūpaṁ durāsadaṁ śatruṁ jahi nāśayeti||3.43||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye tṛtīyo'dhyāyaḥ||3||
Link copied**
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 3 — The Path of Works (in Sanskrit: Karma-yoga)
The Third Lecture addresses Sri Arjuna's confusion about the relation of knowledge (jñāna) and action (karma). Sri Krishna explains that the matter-bound aspirant is not yet competent for pure jñāna-yoga, and that karma-yoga — action offered without attachment and as worship of the Supreme — is both the easier path and, for those of distinction, an imperious duty. The lecture closes with a searching analysis of the real inner enemy: kāma, desire, and its seat in the senses, mind, and intellect. Yamunacharya summarises: Unselfish works, to save the worlds, ascribed to the three guṇas or to the Sovereign Lord-God — this is the teaching of Lecture Three.
Link copiedProem — The purpose of the Gita
Ramanuja opens the lecture with a sweeping statement of the Gita's purpose. Its aim is to expound that one-pointed and perfect bhakti — loving devotion — to Parabrahma and Purushottama, the Lord proclaimed in the Vedantas as the goal of the mokṣa-aspirant. This Lord is without the defiling taints of avidyā (nescience) and possesses boundless glorious attributes. Bhakti — the Means leading to Divinity — is variously known as vedana, upāsana, dhyāna. To achieve bhakti, the realisation of one's own ātman's nature is a necessary preliminary step.
Link copiedIn the great Para-vidyā (the divine art of reaching the Divine), particularly in the Dahara-vidyā revealed in the utterances of Prajapati in the Chhandogya Upanishad ("That ātman, who is devoid of sin..."), ātman-realisation is the first ancillary to God-realisation. The next four lectures (Third to Sixth) therefore deal with the aspirant pratyag-ātman's cognition and the means of attaining it.
Link copiedVerses 1–9 (Works are not optional; karma-yoga is the first step)
Verse 3.1–2. Sri Arjuna asks: "If Thy view is that knowledge is superior to work, why then dost Thou urge me to these terrible deeds? Thou seemest to confuse my understanding with ambiguous speech. Tell me decisively one thing by which I may attain supreme blessedness."
Link copiedThe puzzle: if jñāna-yoga requires withdrawal of the senses and mind from their objects, how can the Lord command action — which requires their full engagement?
Link copiedVerse 3.3. The Lord replies: "Two kinds of paths for this world were proclaimed by Me already, O Sinless one — jñāna-yoga for the Sankhyas, karma-yoga for the yogis."
Link copiedNot every soul is born ready for the path of knowledge. One must first perform works without desire for reward, as acts of divine worship. So done, the heart's impurities are extirpated, the senses cease to be turbulent, and one becomes able to enter the path of knowledge. Sāṅkhyas are those whose wisdom concerning the ātman is already possessed; yogis are those fit to follow karma-yoga.
Link copiedVerse 3.4–5. "None attains the actionless state (naiṣkarmya) by mere cessation from action; not by renunciation alone does one attain perfection. None can remain even for a moment without acting. By the matter-born guṇas, one is forced against his will to work."
Link copiedAction alone, interpreted as worshipping the Supreme Spirit (Paramapurusha), performed with no expectation of reward, brings perfection. Without this, jñāna-fitness is not attainable. No denizen of this world remains even for a moment quiet; the guṇas — sattva, rajas, tamas — compel action.
Link copiedVerse 3.6–7. "He who, inhibiting the functions of the senses, yet in mind broods over sense-objects — he is a pretender. But he who, curbing the senses by the mind, disinterestedly practises karma-yoga with his organs of action, is great."
Link copiedWithout purification through karma-yoga, the attempt at jñāna-yoga becomes pretence. The person who tries to meditate while inwardly craving the objects of sense is the hypocrite the verse condemns.
Link copiedVerse 3.8. "Action is inherent (niyatam). Do it. Action is verily superior to non-action. Without action, thou shalt not be able even to sustain bodily existence."
Link copiedAction is inherent because it is a product of ātman's conjunction with matter; it comes easily and without the risks of the jñāna-path. Even the jñāna-yogi must work to support the body in which the yoga is practised. Hence work is superior.
Link copiedVerse 3.9. "Outside yajña-intended work, the world becomes work-bound. Work, Kaunteya, for that purpose — free from attachment."
Link copiedAll labour spent in the service of yajña becomes consecrated — worship done to please Paramapurusha. He then effaces the deeds of the immemorial past that bind the soul, and points out the way to ātman-cognition.
Link copiedVerses 10–16 (The wheel of sacrifice)
Verse 3.10–11. "In the beginning, Prajapati created beings along with yajñas, saying: 'By this, multiply; let it be the giver of all desires. By yajña serve the devas; let the devas serve you. Mutually reciprocating, you shall attain the highest good.'"
Link copiedRamanuja notes: Prajapati here is no other than Narayana, Lord of all. Out of infinite mercy, looking on souls entangled in matter from time immemorial, He projected them into manifestation with the institution of yajña so that they might worship Him thereby and attain mokṣa. The devas serve the Lord; by worshipping them through yajña, the worshipper attains their favours — food, water, prosperity — and ultimately mokṣa. The Lord Himself is the soul of all devas; so all worship ultimately reaches Him.
Link copiedVerse 3.12–13. "The devas, propitiated by yajña, will grant you wished-for enjoyments. He is verily a thief who eats without offering to them. The partakers of yajña-consecrated food are delivered from all evils; but those who cook for self-enjoyment — sinners — eat sin."
Link copiedVerse 3.14–16. "From food come all beings; by rain is produced food; yajña causes rain; karma (action) is the result of which yajña is the fruit. Know that action springs from the body (brahma); from akṣara (the ātman) comes the body. Thus is the wheel made to revolve. Whoso here does not follow it lives a life of sin — a reveller in the senses' garden, a vain life, O Partha."
Link copiedRamanuja carefully interprets brahma here as the body — a compound of matter — and akṣara as the individual jīvātman who informs the body. Food, body, karma, yajña, rain, food — this is the wheel set in motion by the Supreme Spirit. Whoever does not follow it, whether karma-yogī or jñāna-yogī, nourishes himself on unconsecrated food, and his body and mind become inflamed with rajas and tamas, hostile to ātman-illumination.
Link copiedVerses 17–19 (The liberated exception)
Verse 3.17–19. "But he has nothing to do whose delight is in the ātman, whose satisfaction is in the ātman, whose contentment is in the ātman. For him, neither work nor no-work serves any purpose; he depends on nothing in creation. Therefore, unconcerned, work as if it were a duty. The person so unconcerned reaches the Transcendent."
Link copiedThe liberated man (mukta) whose ātman-cognition is already fait accompli has no need of any means. But for all others, the injunction stands: always work, disinterestedly, as a duty, until ātman is realised.
Link copiedVerse 3.20. "By action alone did Janaka and others reach supreme perfection."
Link copiedEven the great royal sages (mahā-ṛṣis) who were leaders of the jñānīs reached ātman-realisation by the path of works alone.
Link copiedVerses 21–29 (The example of the wise; authorship of works; the guṇas)
Verse 3.21–22. "Whatever the wise man does, others do likewise; whatever law he sets, the world follows." For the man of distinction, karma-yoga becomes an inevitable duty — to show the world the example.
Link copiedVerse 3.23–25. "In all the three worlds, Partha, there is nothing binding for Me to do, nothing unattained or to gain. Yet I am in work. If I did not act, out of indolence even for a moment, all mankind would copy My ways. I would cause disorder (saṅkara) and work the downfall of all creatures."
Link copiedRamanuja's meditation here is rich: the Lord — of infallible will, in whose command lies the whole phenomenal cosmos — takes birth as if it were a common event, in the pedigree of Vasudeva, and conducts Himself in all seriousness in the ways and manners adapted to that lineage. If He did not observe the customs of the country or respect the Sastra, the very peoples whose salvation He came to secure would be put out of the way of realising the ātman. So too Sri Arjuna, descended of Pandu, brother of Yudhishthira — if he should prematurely retire to jñāna-yoga (for which he is not yet qualified), all the moksha-aspirants would follow him and meet ruin.
Link copiedVerse 3.26. "Let the wise man act like the unwise work-attached, in the interests of the world, encouraging them."
Link copiedThe wise one, though himself fit for jñāna-yoga, should take the lead in the karma-path so that those behind him may be inspired to love good works and, eventually, become competent for higher steps.
Link copiedVerse 3.27–29. "All kinds of activities are born of the guṇas of matter. The deluded, egoistic (ahaṅkāra) one thinks, 'I am the doer.' But the truth-knower (tattva-vit) of guṇas and their work — knowing that guṇas rest in guṇas — gives up attachment. Deluded by the guṇas, men find employment in the workings of the guṇas. The all-informed wise man shall not disturb the ill-informed ignorant."
Link copiedThe fundamental distinction: the deluded mistakes the doings of the body and guṇas for ātman's own. The truth-knower sees in all manifestation of guṇas the guṇas themselves working. Yet the wise man, knowing the ignorant cannot yet tread jñāna-yoga, does not confuse them by preaching other methods; he himself stays in karma-yoga as beneficent example.
Link copiedVerses 30–35 (Surrender of all works to the Lord)
Verse 3.30. "With mind ātman-absorbed, rest all works in Me. Rid of desire and 'my-ness,' and of mental fever, fight."
Link copiedRamanuja makes this the climactic verse of the lecture. The ātman is the body of the Supreme, deriving all its impulses from Him. Srutis declare it: "Penetrating the interior, the Ruler of all creatures, the All-Soul" (Taittiriya Aranyaka); "He who dwells in the ātman, interior to the ātman, to whom the ātman is body, who rules in the interior of the ātman — He is thy Indwelling Governor, and Immortality" (Brihadaranyaka V.7). Gita itself: "In the heart of all, I am enthroned; from Me are memory and reason" (XV.15); "Īśvara, Arjuna, dwells in the heart-region of all creatures, whirling them by His māyā as if mounted on a machine" (XVIII.61).
Link copiedTherefore: "My soul is the Supreme Spirit; He is the Author. The Lord of all causes acts to be done by me, who am His body and His instrument. I can entertain no notion of 'my-ness' or ownership of acts." Thus the mental fever — the trouble of wondering how one will escape from the enormous mass of past sins — is cured. Work becomes worship of the Supreme, and He delivers from bondage.
Link copiedVerse 3.31. "Whoso men will follow this eternal behest of Mine, filled with faith or at least void of ill-will, shall be released from all deeds."
Link copiedThree classes are released: those who actually put the doctrine into practice; those who believe though unable to practise; and those who, though not earnest, do not blaspheme. Even the negative attitude of absence of ill-will is enough, says Ramanuja, to gradually lead to actual practice and then mokṣa.
Link copiedVerse 3.32. "But those who blaspheme and carry not out this My edict — know them to be blind to all knowledge; bereft of understanding, they are lost."
Link copiedVerses 33–43 (The inner enemy: kāma)
Verse 3.33–35. "Even the jñānī follows the bent of his nature; all creatures follow nature; what can restriction avail? Loves and hates are rooted in the objects of every sense. None shall get under their power; they are verily his enemies. Though wanting in merit, one's own dharma is better than another's well performed. In one's own dharma, death is noble; another's is fraught with danger."
Link copiedSri Arjuna asks: "What is it that prompts a man to wallow in sin, as if forced against his will?"
Link copiedVerse 3.37. The Lord answers: "Kāma it is, krodha it is, begotten of rajo-guṇa. This foe here, know, is all-consuming, all-polluting."
Link copiedKāma — desire, appetite, longing for sense-objects — is sharpened by past habits and the rise and fall of the guṇas. When hampered in its course, it turns into wrath (krodha), hurled against whoever blocks gratification.
Link copiedVerse 3.38–39. "Like fire enveloped by smoke, the mirror by stain, the embryo by the amnion, so is this world wrapped in desire. The understanding of even the wise, Kaunteya, is enwrapped by this eternal foe in the guise of lust — insatiable (duṣpūra) and inexhaustible (anala) as fire."
Link copiedVerse 3.40–42. "The senses, manas, and buddhi are its seats. By beclouding the understanding, it bewitches the embodied soul. By first constraining the senses, therefore, Bharatarshabha, vanquish this sinner, the destroyer of jñāna and vijñāna. The senses are said to be superior to the body; manas to the senses; buddhi to manas; but that (sa = kāma) is even more powerful than buddhi."
Link copiedRamanuja distinguishes here: jñāna is knowledge relating to ātman-nature; vijñāna is the deeper, discriminative knowledge of the same. Kāma destroys both. The inner enemy is more subtle than the senses, more subtle than manas, more subtle even than buddhi — it is the deeply rooted craving in the heart that asserts mastery even when all other instruments are quiet. Ramanuja notes pointedly that here the pronoun sa refers to kāma — not, as some commentators read, to ātman or Brahman.
Link copiedVerse 3.43. "O strong-armed one, thus knowing that which surpasses buddhi, steadying manas with thy buddhi, destroy the irrepressible lust-shaped foe."
Link copiedSummary
The Third Lecture establishes that karma-yoga — action offered to the Lord without attachment to fruit — is the necessary path for the matter-bound aspirant, and remains preferable even for the jñāna-qualified, both because it is easier and safer, and because those of distinction must show the way. The lecture identifies kāma as the root enemy and points toward its conquest by firm will and by turning the mind to the Lord as the Holy Subject for contemplation.
Link copiedThus closes Lecture Three, Karma-yoga, or the Path of Works, with the commentary of Bhagavad Ramanuja, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.
Link copied