Skip to content

Bhagavad Gita Bhashya · Section 3 of 19

atha sāṅkhya-yogo nāma dvitīyo'dhyāyaḥ

Sanskrit (IAST) · click to toggle

सञ्जय उवाच

Link copied

तꣳ तथा कृपयाविष्टम् अश्रु-पूर्णाकुलेक्षणम्

Link copied

विषीदन्तम् इदꣳ वाक्यम् उवाच मधुसूदनः

Link copied

श्री-भगवान् उवाच

Link copied

कुतस् त्वा कश्मलम् इदꣳ विषमे समुपस्थितम्

Link copied

अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन

Link copied

क्लैब्यꣳ मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते

Link copied

क्षुद्रꣳ हृदय-दौर्बल्यꣳ त्यक्त्वोत्तिष्ठ परन्तप

Link copied

एवम् उपविष्टे पार्थे कुतोऽयम् अस्थाने समुपस्थितः शोकः। इत्य् आक्षिप्य तम् इमꣳ विषम-स्थꣳ शोकम् अविद्वत्-सेवितꣳ पर-लोक-विरोधिनम् अकीर्ति-करम् अतिक्षुद्रꣳ हृदय-दौर्बल्य-कृतꣳ परित्यज्य युद्धायोत्तिष्ठेति श्री-भगवान् उवाच॥२।१-३॥

Link copied

अर्जुन उवाच

Link copied

कथꣳ भीष्मम् अहꣳ सङ्ख्ये द्रोणꣳ च मधुसूदन

Link copied

इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन

Link copied

गुरून् अहत्वा हि महानुभावाञ्

Link copied

श्रेयो भोक्तुꣳ भैक्ष्यम् अपीह लोके

Link copied

हत्वार्थ-कामाꣳस् तु गुरून् इहैव

Link copied

भुञ्जीय भोगान् रुधिर-प्रदिग्धान्

Link copied

पुनर् अपि पार्थः स्नेह-कारुण्य-धर्माधर्म-भयाकुलो भगवद्-उक्तꣳ हिततमम् अजानन् इदम् उवाच। भीष्म-द्रोणादिकान् बहु-मन्तव्यान् गुरून् कथम् अहꣳ हनिष्यामि। कथन्तराꣳ भोगेष्व् अतिमात्र-प्रसक्तान् तान् हत्वा तैर् भुज्यमानान् तान् एव भोगाꣳस् तद्-रुधिरेण उपसिच्य तेष्व् आसनेषूपविश्य भुञ्जीय॥२।४-५॥

Link copied

न चैतद् विद्मः कतरन् नो गरीयो

Link copied

यद् वा जयेम यदि वा नो जयेयुः

Link copied

यान् एव हत्वा न जिजीविषामस्

Link copied

तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः

Link copied

कार्पण्य-दोषोपहत-स्वभावः

Link copied

पृच्छामि त्वाꣳ धर्म-सꣳमूढ-चेताः

Link copied

यच् छ्रेयः स्यान् निश्चितꣳ ब्रूहि तन् मे

Link copied

शिष्यस् तेऽहꣳ शाधि माꣳ त्वाꣳ प्रपन्नम्

Link copied

न हि प्रपश्यामि ममापनुद्याद्

Link copied

यच् छोकम् उच्छोषणम् इन्द्रियाणाम्

Link copied

अवाप्य भूमाव् असपत्नम् ऋद्धꣳ

Link copied

राज्यꣳ सुराणाम् अपि चाधिपत्यम्

Link copied

एवꣳ युद्धम् आरभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युर् इति चेत्, अस्तु, तद्-वध-लब्ध-विजयाद् अधर्म्याद् अस्माकꣳ धर्माधर्माव् अजानद्भिस् तैर् हननम् एव गरीय इति मे प्रतिभातीत्य् उक्त्वा, यन् मह्यꣳ श्रेय इति निश्चितꣳ तत् शर्णागताय तव शिष्याय मे ब्रूहीत्य् अतिमात्र-कृपणो भगवत्-पादाम्बुजम् उपससार॥२।६-८॥

Link copied

सञ्जय उवाच

Link copied

एवम् उक्त्वा हृषीकेशꣳ गुडाकेशः परन्तपः

Link copied

न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीꣳ बभूव ह

Link copied

एवम् अस्थाने समुपस्थित-स्नेह-कारुण्याभ्याम् अप्रकृतिङ्गतꣳ क्षत्रियाणाꣳ युद्धꣳ परम-धर्मम् अप्य् अधर्मꣳ मन्वानꣳ धर्म-बुभुत्सया च शरणागतꣳ पार्थम् उद्दिश्य आत्म-याथात्म्य-ज्ञानेन युद्धस्य फलाभिसन्धि-रहितस्य स्वधर्मस्य आत्म-याथार्थ्य-प्राप्त्य्-उपायता-ज्ञानेन च विना अस्य मोहो न शाम्यतीति मत्वा भगवता परम-पुर्षेण अध्यात्म-शास्त्रावतरणꣳ कृतम्। तद् उक्तम्---

Link copied

अस्थान-स्नेह-कारुण्य-धर्माधर्म-धियाकुलम्।

Link copied

पार्थ प्रपन्नम् उद्दिश्य शास्त्रावतरणꣳ कृतम्॥ [गीतार्थ-सङ्ग्रह ५] इति॥२।९॥

Link copied

तम् उवाच हृषीकेशः प्रहसन्न् इव भारत

Link copied

सेनयोर् उभयोर् मध्ये विषीदन्तम् इदꣳ वचः१०

Link copied

तम् एवꣳ देहात्मनोर् याथात्म्य-ज्ञान-निमित्त-शोकाविष्टꣳ देहातिरिक्तात्म-ज्ञान-निमित्तꣳ च धर्माधर्मौ भाषमाणꣳ परस्परꣳ विरुद्ध-गुणान्वितम् उभयोः सेनयोर् युद्धाय उद्युक्तयोर् मध्ये अकस्मान् निरुद्योगꣳ पार्थम् आलोक्य परम-पुरुषः प्रहसन्न् इवेदम् उवाच। पार्थꣳ प्रहसन्न् इव परिहास-वाक्यꣳ वदन्न् इव आत्म-परमात्म-याथात्म्य-तत्-प्राप्त्य्-उपाय-भूत-कर्म-योग-ज्ञान-योग-भक्ति-योग-गोचरम्। न त्व् एवाहꣳ जातु नासम् [गीता २।१२] इत्य् आरभ्य अहꣳ त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः [गीता १८।६६] इत्य् एतद्-अन्तम् उवाच इत्य् अर्थः॥२।१०॥

Link copied

श्री-भगवान् उवाच

Link copied

अशोच्यान् अन्वशोचस् त्वꣳ प्रज्ञा-वादाꣳश् च भाषसे

Link copied

गतासून् अगतासूꣳश् च नानुशोचन्ति पण्डिताः११

Link copied

अशोच्यान् प्रति अनुशोचसि पतन्ति पितरो ह्य् एषाꣳ लुप्त-पिण्डोदक-क्रियाः [गीता १।४१] इत्य् आदिकान् देहात्म-स्वभाव-प्रज्ञा-निमित्त-वादाꣳश् च भाषसे। देहात्म-स्वभाव-ज्ञानवताꣳ नात्र किञ्चित् शोक-निमित्तम् अस्ति। गतासून् देहान् अगतासून् आत्मनश् च प्रति तयोः स्वभाव-याथात्म्य-विदो न शोचन्ति। अतस् त्वयि विप्रतिषिद्धम् इदम् उपलभ्यते। यद् एतान् हनिष्यामीत्य् अनुशोचनम्, यच् च देहातिरिक्तात्म-ज्ञान-कृतꣳ धर्माधर्म-भाषणम्। अतो देह-स्वभावꣳ च न जानासि, तद्-अतिरिक्तम् आत्मानꣳ च नित्यम्, तत्-प्राप्त्य्-उपाय-भूतꣳ युद्धादिकꣳ धर्मꣳ च। इदꣳ च युद्धꣳ फलाभिसन्धि-रहितम्। आत्म-याथात्म्यावाप्त्य्-उपाय-भूतम्। आत्मा हि न जन्माधीन-सद्-भावो न मरणाधीन-विनाशश् च; तस्य जन्म-मरणयोः अभावात्; अतः स न शोक-स्थानम्। देहस् त्व् अचेतनः परिणाम-स्वभावः, तस्य उत्पत्ति-विनाश-योगः स्वाभाविकः, इति सोऽपि न शोक-स्थानम् इत्य् अभिप्रायः॥२।११॥

Link copied

न त्व् एवाहꣳ जातु नासꣳ न त्वꣳ नेमे जनाधिपाः

Link copied

न चैव न भविष्यामः सर्वे वयम् अतः परम्१२

Link copied

प्रथमꣳ तावद् आत्मनाꣳ स्वभावꣳ शृणु। अहꣳ सर्वेश्वरस् तावद् अतो वर्तमानात् पूर्वस्मिन् अनादौ काले न नासम् अपि तु आसम्। त्वन्-मुखाश् चैते ईशितव्याः क्षेत्रज्ञा न नासन् अपि त्व् आसन्। अहꣳ च यूयꣳ च सर्वे वयम् अतः परम् अस्माद् अनन्तरे काले न चैव न भविष्यामः, अपि तु भविष्याम एव। यथा अहꣳ सर्वेश्वरः परमात्मा नित्य इति नात्र सꣳशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्याः। एवꣳ भगवतः सर्वेश्वरद् आत्मनाꣳ परस्परꣳ च भेदः पारमार्थकः, इति भगवता एवोक्तम् इति प्रतीयते।

Link copied

अज्ञान-मोहितꣳ प्रति तन्-निवृत्तये पारमार्थिक-नित्यत्वोपदेश-समये अहम् \ऽत्वम् \ऽइमे\ऽ सर्वे \ऽवयम् इति व्यपदेशात्। औपाधिकात्म-भेद-वादे ह्य् आत्म-भेदस्यातात्त्विकत्वेन तत्त्वोपदेश-समये भेद-निर्देशो न सङ्गच्छते। भगवद्-उक्तात्म-भेदः स्वाभाविक इति। श्रुतिर् अप्य् आह--- नित्यो नित्यानाꣳ चेतनश् चेतनानाम् एको बहूनाꣳ यो विदधाति कामान् [श्वे।उ। ६।१३] इति। नित्यानाꣳ बहूनाꣳ चेतनानाꣳ य एकश् चेतनो नित्यः स कामान् विदधातीत्य् अर्थः।

Link copied

अज्ञान-कृत-भेद-दृष्टि-वादे तु परम-पुरुषस्य परमार्थ-दृष्टेर् निर्विशेष-कूटस्थ-नित्य-चैतन्यात्म-याथात्म्य-साक्षात्-कारत् निवृत्ताज्ञान-तत्-कार्यतया अज्ञान-कृत-भेद-दर्शनꣳ तन्-मूलोपदेशादि-व्यवहारश् च न सङ्गच्छन्ते। [परम-पुरुषोऽप्य् अज्ञ इति पक्षेऽर्जुन-वाक्यात् परम-पुरुष-वाक्यस्याज्ञान-मूल-मिथ्यार्थत्वे विशेषाभावान् न तस्योपदेश-रूपत्वात्।]

Link copied

अथ परम-पुरुषस्याधिगताद् द्वैत-ज्ञानस्य बाधितानुवृत्ति-रूपम् इदꣳ भेद-ज्ञानꣳ दग्ध-पटादिवन् न बन्धकम् इति उच्यते, नैतद् उपपद्यते। मरीचिका-जल-ज्ञानादिकꣳ हि बाधितम् अनुवर्तमानम् अपि न जलाहरणादि-प्रवृत्ति-हेतुः। एवम् अत्राप्य् अद्वैत-ज्ञानेन बाधितꣳ भेद-ज्ञानम् अनुवर्तमानम् अपि मिथ्यार्थ-विषयत्व-निश्चयात् नोपदेशादि-प्रवृत्ति-हेतुः भवति। न चेश्वर्स्य पूर्वम् अज्ञस्य शास्त्राधिगत-तत्त्व-ज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्। यः सर्वज्ञः सर्ववित् [मु।उ। २।१।९] परस्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६।८]

Link copied

वेदाहꣳ समतीतानि

Link copied

वर्तमानानि चार्जुन।

Link copied

भविष्याणि च भूतानि

Link copied

माꣳ तु वेद न कश्चन [गीता ७।२६] इति श्रुति-स्मृति-विरोधात्।

Link copied

किꣳ च, परम-पुरुषश् चेदानीन्तन-गुरु-परम्परा चाद्वितीयात्म-स्वरूप-निश्चये सति अनुवर्तमानेऽपि भेद-ज्ञाने स्व-निश्चयानुरूपम् अद्वितीयम् आत्म-ज्ञानꣳ कस्मा उपदिशतीति वक्तव्यम्। प्रतिबिम्बवत् प्रतीयमानेभ्यः अर्जुनादिभ्य इति चेत्, नैतद् उपपद्यते; न ह्य् अनुन्मत्तः कोऽपि मणि-कृपाण-दर्पणादिषु प्रतीयमानेषु स्वात्म-प्रतिबिम्बेषु तेषाꣳ स्वात्मनोऽनन्यत्वꣳ जानन् तेभ्यः कम् अप्य् अर्थम् उपदिशति।

Link copied

बाधितानुवृत्तिर् अपि तैर् न शक्यते वक्तुम्। बाधकेनाद्वितीयात्म-ज्ञानेन आत्म-व्यतिरिक्त-भेद-ज्ञन-कारणस्यानादेर् विनष्टत्वात्। द्वि-चन्द्र-ज्ञानादौ तु चन्द्रैकत्व-ज्ञानेन पार्मार्थिक-तिमिरादि-दोषस्य द्वि-चन्द्र-ज्ञान-हेतोः अविनष्टत्वाद् बाधितानुवृत्तिः युक्ता। अनुवर्तमानम् अपि प्रबल-प्रमाण-बाधित्वेनाकिञ्चित्करम्। इह तु भेद-ज्ञानस्य स-विषयस्य स-कारणस्य अपारमार्थिकत्वेन वस्तु-याथात्म्य-ज्ञान-विनष्टत्वात् न कथञ्चिद् अपि बाधितानुवृत्तिः सम्भवति। अतः सर्वेश्वरस्य इदानीन्तन-गुरु-परम्परायाश् च तत्त्व-ज्ञानम् अस्ति चेद् भेद-दर्शन-तत्-कार्योपदेशाद्य-सम्भवः। भेद-दर्श्नम् अस्तीति चेद्, अज्ञानस्य तद्-धेतोः स्थितत्वेनाज्ञत्वाद् एव सुतराम् उपदेशो न सम्भवति।

Link copied

किꣳ च, गुरोर् अद्वितीयात्म-विज्ञानाद् एव ब्रह्म-ज्ञानस्य सकार्यस्य विनष्टत्वात् शिष्यꣳ प्रति उपदेशो निष्प्रयोजनः। गुरुस् तज्-ज्ञानꣳ च कल्पितम् इति चेत्, शिष्य-तज्-ज्ञानयोर् अपि कल्पितत्वात् तद् अप्य् अनिवर्तकम्। कल्पितत्वेऽपि पूर्व-विरोधित्वेन निवर्तकम् इति चेत्, तद् आचार्य-ज्ञानेऽपि समानम् इति तद् एक निवर्तकꣳ भवतीत्य् उपदेशानर्थक्यम् एव। इति कृतम् असमीचीन-वादैर् निरस्तैः॥२।१२॥

Link copied

देहिनोऽस्मिन् यथा देहे कौमारꣳ यौवनꣳ जरा

Link copied

तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति१३

Link copied

एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थाꣳ विहाय यौवनाद्य्-अवस्था-प्राप्तौ आत्मनः स्थिर-बुद्ध्या यथात्मा नष्ट इति न शोचति, देहाद् देहान्तर-प्राप्ताव् अपि तथैव स्थिर आत्मेति बुद्धिमान् न शोचति। अत आत्मनाꣳ नित्यत्वाद् आत्मानो न शोक-स्थानम्। एतावद् अत्र कर्तव्यम्--- आत्मनाꣳ नित्यानाम् एव अनादि-कर्म-वश्यतया तत्-तत्-कर्मोचित-देह-सꣳसृष्टानाꣳ तैर् एव देहैर् बन्ध-निवृत्तये शास्त्रीयꣳ स्व-वर्णोचितꣳ युद्धादिकम् अनभिसꣳहित-फलꣳ कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैः इन्द्रियार्थ-स्पर्शाः शीतोष्णादि-प्रयुक्त-सुख-दुःख-दा भवन्ति। ते तु यावच्-छास्त्रीय-कर्म-समाप्ति क्षन्तव्या इति॥२।१३॥

Link copied

मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःख-दाः

Link copied

आगमापायिनोऽनित्यास् ताꣳस् तितिक्षस्व भारत१४

Link copied

इमम् अर्थम् अनन्तरम् एव आह मात्रा-श्पर्शास् त्व् इति। शब्द-स्पर्श-रूप-रस-गन्धाः साश्रयाः तन्-मात्रा-कार्यत्वात् मात्रा इति उच्यन्ते। श्रोत्रादिभिस् तेषाꣳ स्पर्शाः शीतोष्ण-मृदु-परुषादि-रूप-सुख-दुःखदा भवन्ति। शीतोष्ण-शब्दः प्रदर्शनार्थः। तान् धैर्येण यावद्-युद्धादि-शास्त्रीय-कर्म-समाप्ति तितिक्षस्व। ते चागमापायित्वाद् धर्यवताꣳ क्षन्तुꣳ योग्याः। अनित्याश् चैते बन्ध-हेतु-भूत-कर्म-नाशे सति, आगमापायित्वेनापि निवर्तन्त इत्य् अर्थः॥२।१४॥

Link copied

यꣳ हि न व्यथयन्त्य् एते पुरुषꣳ पुरुषर्षभ

Link copied

सम-दुःख-सुखꣳ धीरꣳ सोऽमृतत्वाय कल्पते१५

Link copied

तत्-क्षान्तिः किम् अर्था। इत्य् अत आह--- यꣳ हि इति। यꣳ पुरुषꣳ धैर्य-युक्तम् अवर्जनीय-दुःखꣳ सुखवन् मन्यमानम् अमृतत्व-साधनतया स्व-वर्णोचितꣳ युद्धादि-कर्म अनभिसꣳहित-फलꣳ कुर्वाणꣳ तद्-अन्तर्गताः शस्त्र-पातादि-मृदु-क्रूर-स्पर्शा न व्यथयन्ति स एव अमृतत्वꣳ साधयति। न त्वादृशो दुःखासहिष्णुर् इत्य् अर्थः। अत आत्मनाꣳ नित्यत्वाद् एतावद् अत्र कर्तव्यम् इत्य् अर्थः॥२।१५॥

Link copied

नासतो विद्यते भावो नाभावो विद्यते सतः

Link copied

उभयोर् अपि दृष्टोऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः१६

Link copied

यत् त्व् आत्मनाꣳ नित्यत्वꣳ देहानाꣳ स्वाभाविकꣳ नाशित्वꣳ च शोकानिमित्तिम् उक्तꣳ गतासून् अगतासूꣳश् च नानुशोचन्ति पण्डिताः [गीता २।११] इति तद् उपपादयितुम् आरभते। तत्-क्षान्तिः किम् अर्था? इत्य् अत आह--- नासत इति।

Link copied

असतो देहस्य सद्-भावो न विद्यते। सतश् चात्मनो नासद्भावः। उभयोर् देहात्मनोर् उपलभ्यमानयोः यथोपलब्धि तत्त्व-दर्शिभिर् अन्तो दृष्टः। निर्णयान्तत्वान् निरूपणस्य निर्णय इह अन्त-शब्देनोच्यते। देहस्याचिद्-वस्तुनोऽसत्त्वम् एव स्वरूपम्। आत्मनश् चेतनस्य सत्त्वम् एव स्वरूपम् इति निणयो दृष्ट इत्य् अर्थः।

Link copied

विनाश-स्वभावो ह्य् असत्त्वम्। अविनाश-स्वभावश् च सत्त्वम्। यथोक्तꣳ भगवता परशरेण तस्मान् न विज्ञानम् ऋतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज वस्तु-जातम् [वि।पु। २।१२।४३] सद्-भाव एवꣳ भवतो मयोक्तो ज्ञानꣳ यथा सत्यम् असत्यम् अन्यत् [वि।पु। २।१२।४५]

Link copied

अनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते।

Link copied

तत् तु नाशि न सन्देहो नाशि-द्रव्योपपादितम्॥ [वि।पु। २।१४।२४]

Link copied

यत् तु कालान्तरेणापि नान्याꣳ सꣳज्ञाम् उपैति वै।

Link copied

परिणामादि-सम्भूता तद् वस्तु नृप तच् च किम्॥ [वि।पु। २।१३।१००] इति।

Link copied

अत्रापि अन्तवन्त इमे देहाः [गीता २।१८] अविनाशि तु तद् विद्धि [गीता २।१७] इत्य् उच्यते। तद् एव सत्त्वासत्त्व-व्यपदेश-हेतुः इति गम्यते।

Link copied

अत्र तु सत्-कार्य-वादस्यासङ्गत्वान् न तत्-परोऽयꣳ श्लोकः। देहात्म-स्वभावाज्ञान-मोहितस्य तन्-मोह-शान्तये ह्य् उभयोर् नाशित्वानाशित्व-स्वरूप-स्वभाव-विवेक एव वक्तव्यः। स एव गतासून् अगतासूꣳश् च नानुशोचन्ति [गीता २।११] इति प्रस्तुतः। स एव च अविनाशि तु तद् विद्धि [गीता २।१७] अन्तवन्त इमे देहाः [गीता २।१८] इत्य् अनन्तरम् उपपाद्यते। अतो यथोक्त एवार्थः॥२।१६॥

Link copied

अविनाशि तु तद् विद्धि येन सर्वम् इदꣳ ततम्

Link copied

विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति१७

Link copied

तद् आत्म-तत्त्वम् अविनाशि इति विद्धि, येन आत्म-तत्त्वेन चेतनेन तद्-व्यतिरिक्तम् इदम् अचेतन-तत्त्वꣳ सर्वꣳ ततꣳ व्याप्तम्। व्यापकत्वेन निरतिशय-सूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्-व्यतिरिक्तो न कश्चित् पदार्थो विनाशꣳ कर्तुम् अर्हति, तद्-व्याप्यतया तस्मात् स्थूलत्वात्। नाशकꣳ हि शस्त्र-जलाग्नि-वाय्व्-आदिकꣳ नाश्यꣳ व्याप्य शिथिलीकरोति। मुद्गरादयोऽपि हि वेगवत्-सꣳयोगेन वायुम् उत्पाद्य तद्-द्वारेण नाशयन्ति। अत आत्म-तत्त्वम् अविनाशि॥२।१७॥

Link copied

देहानाꣳ तु विनाशित्वम् एव स्वभाव इत्य् आह---

Link copied

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः

Link copied

अनाशिनोऽप्रमेयस्य तस्माद् युध्यस्व भारत१८

Link copied

य एनꣳ वेत्ति हन्तारꣳ यश् चैनꣳ मन्यते हतम्

Link copied

उभौ तौ न विजानीतो नायꣳ हन्ति न हन्यते१९

Link copied

दिह उपचये इत्य् उपचय-रूपा इमे देहा अन्तवन्तः विनाश-स्वभावाः। उपचयात्माका हि घटादयोऽन्तवन्तो दृष्टाः। नित्यस्य शरीरिणः कर्म-फल-भोगार्थतया भूत-सङ्घात-रूपा देहाः पुण्यः पुण्येन [बृ।आ।उ। ४।४।५] इत्य् आदि-शास्त्रैर् उक्ताः कर्मावसान-विनाशिनः।

Link copied

आत्मा त्व् अविनाशी। कुतः। अप्रमेयत्वात्। न ह्य् आत्मा प्रमेयतया उपलभ्यते, अपि तु प्रमातृतया। तथा च वक्ष्यते--- एतद् यो वेत्ति तꣳ प्राहुः क्षेत्रज्ञ इति तद् विदुः [गीता १३।१] इति। न चानेकोपचयात्मक आत्मोपलभ्यते। सर्वत्र देहे अहम् इदꣳ जानामीति देहस्य चान्यस्य च प्रमातृतयैक-रूपेणोपलब्धेः।

Link copied

न च देहादेर् इव प्रदेश-भेदे प्रमातुर् आकारभेद उपलभ्यते। अत एक-रूपत्वेन अनुपचयात्मकत्वात् प्रमातृत्वाद् व्यापकत्वाच् च आत्मा नित्यः। देहस् तु उपचयात्मकत्वात् शरीरिणः कर्म-फल-भोगार्थत्वाद् अनेक-रूपत्वाद् व्याप्यत्वाच् च विनाशी।

Link copied

तस्माद् देहस्य विनाश-स्वभावत्वाद् आत्मनो नित्य-स्वभावत्वाच् च उभाव् अपि न शोक-स्थानम् इति शस्त्र-पातादि-परुष-स्पर्शाद् अवर्जनीयान् स्वगतान् अन्य-गताꣳश् च धैर्येण सोढ्वा अमृतत्व-प्राप्तये अनभिसꣳहित-फलꣳ युद्धाख्यꣳ कर्मारभस्व॥२।१८॥

Link copied

य एनꣳ वेत्ति हन्तारꣳ यश् चैनꣳ मन्यते हतम्

Link copied

उभौ तौ न विजानीतो नायꣳ हन्ति न हन्यते१९

Link copied

य एनम् उक्त-स्वभावम् आत्मानꣳ प्रतिहन्तारꣳ हनन-हेतुꣳ कम् अपि मन्यते। यश् चैनꣳ केनापि हेतुना हतꣳ मन्यते। उभाव् ताव् न विजानीतः। उक्तैर् हेतुभिर् अस्य नित्यत्वाद् एवायꣳ हनन-हेतुर् न भवति। अतएव चायम् आत्मा न हन्यते। हन्ति-धातुर् अप्य् आत्म-कर्मकः शरीर्-वियोग-करण-वाची। न हिꣳस्यात् सर्वा भूतानि, ब्राह्मणो न हन्तव्यः [क।सꣳ। ८।२] इत्य् आदीनि अपि शास्त्राणि अविहित-शरीर-वियोग-करण-विषयाणि॥२।१९॥

Link copied

न जायते म्रियते वा कदाचिन्

Link copied

नायꣳ भूत्वा भविता वा न भूयः

Link copied

अजो नित्यः शाश्वतोऽयꣳ पुराणो

Link copied

न हन्यते हन्यमाने शरीरे२०

Link copied

उक्तैः एव हेतुभिः नित्यत्वाद् अपरिणामित्वाद् आत्मनो जन्म-मरणाद्यः सर्व एवाचेतन-देह-धर्मा न सन्ति, इत्य् उच्यते। तत्र न जायते म्रियत इति वर्तमानतया सर्वेषु देहेषु सर्वैः अनुभूयमाने जन्म-मरणे कदाचिद् अप्य् आत्मानꣳ न स्पृशतः। नायꣳ भूत्वा भवति वा न भूयोऽयꣳ कल्पान्ते भूत्वा भूयः कल्पान्ते च न भविता इति न। केषुचित् प्रजापति-प्रभृति-देहेष्व् आगमेनोपलभ्यमानꣳ कल्पादौ जननꣳ कल्पान्ते च मरणम् आत्मानꣳ न स्पृशति इत्य् अर्थः। अतः सर्व-देह-गत आत्मा अजः। अतएव नित्यः शाश्वतः प्रकृतिवद् विशद-सतत-परिणामैर् अपि नान्वीयते। अतः पुराणः पुरातनोऽपि नवः। सर्वदापूर्ववद् अनुभाव्य इत्य् अर्थः। अतः शरीरे हन्यमानेऽपि न हन्यतेऽयम् आत्मा॥२।२०॥

Link copied

वेदाविनाशिनꣳ नित्यꣳ य एनम् अजम् अव्ययम्

Link copied

कथꣳ स पुरुषः पार्थ कꣳ घातयति हन्ति कम्२१

Link copied

एवम् अविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यम् एनम् आत्मानꣳ यः पुरुषो वेद, स पुरुषो देव-मनुष्य-तिर्यक्-स्थावर-शरीरावस्थितेषु आत्मसु कम् अप्य् आत्मानꣳ कथꣳ घातयति। कꣳ वा कथꣳ हन्ति। कथꣳ नाशयति। कथꣳ वा तत्-प्रयोजको भवतीत्य् अर्थः। एतान् आत्मनो घातयामि हन्मि इत्य् अनुशोचनम् आत्म-स्वरूप-याथात्म्याज्ञान-मूलम् एवेत्य् अभिप्रायः॥२।२१॥

Link copied

वासाꣳसि जीर्णानि यथा विहाय

Link copied

नवानि गृह्णाति नरोऽपराणि

Link copied

तथा शरीराणि विहाय जीर्णानि

Link copied

अन्यानि सꣳयाति नवानि देही२२

Link copied

यद्यपि नित्यानाम् आत्मनाꣳ शरीर-विश्लेष-मात्रꣳ क्रियते, तथापि रमणीय-भोग-साधनेषु शरीरेषु नश्यत्सु तद्-वियोग-रूपꣳ शोक-निमित्तम् अस्त्य् एव, इति अत आह वासाꣳसीति। धर्म-युद्धे शरीरꣳ त्यजताꣳ त्यक्त-शरीराद् अधिकतर-कल्याण-शरीर-ग्रहणꣳ शास्त्राद् अवगम्यते इति। जीर्णानि वासाꣳसि विहाय नवानि कल्याणानि वासाꣳसि गृह्णताम् इव हर्ष-निमित्तम् एवात्रोपलभ्यते॥२।२२॥

Link copied

नैनꣳ छिन्दन्ति शस्त्राणि नैनꣳ दहति पावकः

Link copied

न चैनꣳ क्लेदयन्त्य् आपो न शोषयति मारुतः२३

Link copied

अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च

Link copied

नित्यः सर्व-गतः स्थाणुर् अचलोऽयꣳ सनातनः२४

Link copied

पुनर् अपि अविनाशि तु तद् विद्धि येन सर्वम् इदꣳ ततम् [गीता २।१७] इति पूर्वोक्तम् अविनाशित्वꣳ सुख-ग्रहणाय व्यजयन् द्रढयति--- नैनम् इति। शस्त्राग्न्य्-अम्बु-वायवः छेदन-दहन-क्लेदन-शोषणानि आत्मानꣳ प्रति कर्तुꣳ न शक्नुवन्ति। सर्व-गतत्वाद् आत्मनः सर्व-तत्त्व-व्यापक-स्वभावतया सर्वेभ्यस् तत्त्वेभ्यः सूक्ष्मत्वाद् अस्य तैर् व्याप्त्य्-अनर्हत्वाद् व्याप्य-कर्तव्यत्वाच् च छेदन-दहन-क्लेदन-शोषणानाम्। अत आत्मा नित्यः स्थाणुः अचलोऽयꣳ सनातनः स्थिर-स्वभावोऽप्रकम्प्यः पुरातनश् च॥२।२३-२४॥

Link copied

अव्यक्तोऽयम् अचिन्त्योऽयम् अविकार्योऽयम् उच्यते

Link copied

तस्माद् एवꣳ विदित्वैनꣳ नानुशोचितुम् अर्हसि२५

Link copied

छेदनादि-योग्यानि वस्तूनि यैः प्रमाणैर् व्यज्यन्ते, तैर् अयम् आत्मा न व्यज्यत इत्य् अव्यक्तः। अतश् छेद्यादि-विजातीयः। अचिन्त्यश् च सर्व-वस्तु-विजातीयत्वेन तत्-तत्-स्वभाव-युक्ततया चिन्तयितुम् अपि नार्हः। अतश् चाविकार्यः विकारानर्हः। तस्माद् उक्त-लक्षणम् एनम् आत्मानꣳ विदित्वा तत्-कृते नानुशोचितुम् अर्हसि॥२।२५॥

Link copied

अथ चैनꣳ नित्य-जातꣳ नित्यꣳ वा मन्यसे मृतम्

Link copied

तथापि त्वꣳ महा-बाहो नैवꣳ शोचितुम् अर्हसि२६

Link copied

अथ नित्य-जातꣳ नित्य-मृतꣳ देहम् एवैनम् आत्मानꣳ मनुषे, न देहातिरिक्तम् उक्त-लक्षणꣳ तथाप्य् एवम् अतिमात्रꣳ शोचितुꣳ नार्हसि। परिणाम-स्वभावस्य देहस्योत्पत्ति-विनाशयोर् अवर्जनीयत्वात्॥२।२६॥

Link copied

आतस्य हि ध्रुवो मृत्युर् ध्रुवꣳ जन्म मृतस्य च

Link copied

तस्माद् अपरिहार्येऽर्थे न त्वꣳ शोचितुम् अर्हसि२७

Link copied

उत्पन्नस्य विनाशो ध्रुवोऽवर्जनीयोपलभ्यते। तथा विनष्टस्यापि जन्मावर्जनीयम्। कथम् इदम् उपलभ्यते विनष्टस्योत्पत्तिर् इति। सत एवोत्पत्त्य्-उपलब्धेः, असतश् चानुपलब्धेः। उत्पत्ति-विनाशादयः सतो द्रव्यस्यावस्था-विशेषाः। तन्तु-प्रभृतीनि द्रव्याणि सन्त्य् एव। सत्यम्। उच्यते--- रचना-विशेष-युक्तानि पटादीन्य् उच्यन्ते। असत्-कार्य-वादिनाप्य् एतावद् एवोपलभ्यते। न हि तत्र तन्तु-सꣳस्थान-विशेषातिरेकेण द्रव्यान्तरꣳ प्रतीयते। कारक-व्यापार-नामान्तर-भजन-व्यवहार-विशेषाणाम् एतावता एवोपपत्तेः, न च द्रव्यान्तर-कल्पना युक्ता। अत उत्पत्ति-विनाशादयः सतो द्रव्यस्यावस्था-विशेषाः।

Link copied

उत्पत्त्य्-आख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्-विरोध्य्-अवस्थान्तर-प्राप्तिर् विनाश इत्य् उच्यते। मृद्-द्रव्यस्य पिण्डत्व-घटत्व-कपालत्व-चूर्णत्वादिवत् परिणामि-द्रव्यस्य परिणाम-परम्परा अवर्जनीया। तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्था-प्राप्तिर् विनाशः। सैव तद्-अवस्थस्य चोत्पत्तिः। एवम् उत्पत्ति-विनाशाख्य-परिणाम-परम्परा परिणामित्नो द्रव्यस्यापरिहार्येति न तत्र शोचितुम् अर्हसि॥२।२७॥

Link copied

अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत

Link copied

अव्यक्त-निधनान्य् एव तत्र का परिदेवना२८

Link copied

सतो द्रव्यस्य पूर्वावस्था-विरोध्य्-अवस्थान्तर-प्राप्ति-दर्शनेन योऽपीयान् शोकः। सोऽपि मनुष्यादि-भूतेषु न सम्भवतीत्य् आह अव्यक्तादीनीति। मनुष्यादि-भूतानि सन्त्य् एव द्रव्याण्य् अनुपलब्ध-पूर्वावस्थान्य् उपलब्ध-मनुष्यत्वादि-मध्यमावस्थान्य् अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवना-निमित्तिम् अस्ति॥२।२८॥

Link copied

आश्चर्य-वत् पश्यति कश्चिद् एनम्

Link copied

आश्चर्य-वद् वदति तथैव चान्यः

Link copied

आश्चर्य-वच् चैनम् अन्यः शृणोति

Link copied

श्रुत्वाप्य् एनꣳ वेद न चैव कश्चित्२९

Link copied

एवꣳ शरीरात्म-वादेऽपि नास्ति शोक-निमित्तम् इत्य् उक्त्वा शरीरातिरिक्त आश्चर्य-स्वरूप आत्मनि द्रष्टा वक्ता श्रोता श्रवणायत्तात्म-निश्चयश् च दुर्लभ इत्य् आह--- आश्चर्यवद् इति। एवम् उक्त-स्वभावꣳ स्वेतर-समस्त-वस्तु-विसजातीयतया आश्चर्यवद् अवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीण-पापोपचित-पुण्यः कश्चित् पश्यति। तथा-विधः कश्चित् परस्मै वदति। एवꣳ कश्चिद् एव शृणोति। श्रुत्वाप्य् एनꣳ यथावद् अवस्थितꣳ तत्त्वतो न कश्चिद् वेद। च-काराद् द्रष्टृ-वक्तृ-श्रोतृष्व् अपि तत्त्वतो दर्शनꣳ तत्त्वतो वचनꣳ तत्त्वतः श्रवणꣳ दुर्लभम् इत्य् उक्तꣳ भवति॥२।२९॥

Link copied

देही नित्यम् अवध्योऽयꣳ देहे सर्वस्य भारत

Link copied

तस्मात् सर्वाणि भूतानि न त्वꣳ शोचितुम् अर्हसि३०

Link copied

सर्वस्य देवादि-देहिनो देहे वध्यमानेऽप्य् अयꣳ देही नित्यम् अवध्य इति मन्तव्यः। तस्मात् सर्वाणि देवादि-स्थावरन्तानि भूतानि विषमाकाराण्य् अप्य् उक्तेन स्वभावेन स्वरूपतः समानानि नित्यानि च। देह-गतꣳ तु वैषम्यम् अनित्यत्वꣳ च। ततो देवादीनि सर्वाणि भूतान्य् उद्दिश्य न शोचितुम् अर्हसि न केवलꣳ भीष्मादीन् प्रति॥२।३०॥

Link copied

स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि

Link copied

धर्म्याद् धि युद्धाच् छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते३१

Link copied

अपि चेदꣳ प्रारब्धꣳ युद्धꣳ प्राणि-मारणम् अपि अग्नीषोमीयादिवत् स्वधर्मम् अवेक्ष्य न विकम्पितुम् अर्हसि धर्म्यात् न्यायतः प्रवृत्तात् युद्धाद् अन्यन् न हि क्षत्रियस्य श्रेयो विद्यते।

Link copied

शौर्यꣳ तेजो धृति-दाक्ष्यꣳ युद्धे चाप्य् अपलायनम्।

Link copied

दानम् ईश्वर-भावश् च क्षात्रꣳ कर्म स्वभावजम्॥ [गीता १८।४३] इति हि वक्ष्यते।

Link copied

अग्नीषोमीयादिषु च न हिꣳसा पशोः। निहीन-तरच्छागादि-देह-परित्याग-पूर्वक-कल्याण-देह-स्वर्गादि-प्रापकत्व-श्रुतेः सꣳज्ञपनस्य।

Link copied

न वा उ वेतन् म्रियसे न रिष्यसि

Link copied

देवाम् इदेषि पथिभिः सुगेभिः।

Link copied

यत्र यतन्ति सुकृतो नापि दुष्कृतस्

Link copied

तत्र त्वा देवः सविता दधातु [यजुर्वेद ४।६।९।४३] इति हि श्रूयते।

Link copied

इह च युद्धे मृतानाꣳ कल्याणतर-देहादि-प्राप्तिर् उक्ता वासाꣳसि जीर्णानि [गीता २।२२] इत्य् आदिना। अतश् चिकित्सक-शल्यादि-कर्म आतुरस्येवास्य रक्षणम् एवाग्नीषोमीयादिषु सꣳज्ञपनम्॥२।३१॥

Link copied

यदृच्छया चोपपन्नꣳ स्वर्गद्वारम् अपावृतम्

Link copied

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्३२

Link copied

अयत्नोपनतम् इदꣳ निरतिशय-सुखोपाय-भूतꣳ निर्विघ्नम् ईदृशꣳ युद्धꣳ सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते॥२।३२॥

Link copied

अथ चेत् त्वम् इमꣳ धर्म्यꣳ सङ्ग्रामꣳ न करिष्यसि

Link copied

ततः स्व-धर्मꣳ कीर्तिꣳ च हित्वा पापम् अवाप्स्यसि३३

Link copied

अथ क्षत्रियस्य स्वधर्म-भूतम् इमम् आरब्धꣳ सङ्ग्रामꣳ मोहाद् अज्ञानात् न करिष्यसि चेत् ततः प्रारब्धस्य-धर्मस्याकरणात् स्वधर्म-फलꣳ निरतिशय-सुखꣳ विजयेन निरतिशयाꣳ कीर्तिꣳ च हित्वा पापꣳ निरतिशयम् अवाप्स्यसि॥२।३३॥

Link copied

अकीर्तिꣳ चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्

Link copied

सम्भावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते३४

Link copied

न केवलꣳ निरतिशय-सुख-कीर्ति-हानि-मात्रम्। अपि तु पार्थो युद्धे प्रारब्धे पलायित इत्य् अव्ययाꣳ सर्व-देश-काल-व्यापिनीम् अकीर्तिꣳ च समर्थानि असमर्थानि सर्वाणि भूतानि कथयिष्यन्ति ततः किम् इति चेत्, शौर्य-वीर्य-पराक्रमादिभिः सर्व-सम्भावितस्य तद् इव पर्यायजा हि अकीर्तिर् मरणाद् अतिरिच्यते। एवꣳ-विधाया अकीर्तेः मरणम् एव तव श्रेय इत्य् अर्थः॥२।३४॥

Link copied

भयाद् रणाद् उपरतꣳ मꣳस्यन्ते त्वाꣳ महा-रथाः

Link copied

येषाꣳ च त्वꣳ बहु-मतो भूत्वा यास्यसि लाघवम्३५

Link copied

बन्धु-स्नेहात् कारुण्याच् च युद्धान् निवृत्तस्य शूरस्य ममाकीर्तिः कथम् आगामिष्यतित्य् अत्राह--- भयाद् इति। येषाꣳ कर्ण-दुर्योधनादीनाꣳ महारथानाम् इतः पूर्वꣳ त्वꣳ शूरे वैरी इति बहुमतो भूत्वा इदानीꣳ युद्धे समुपस्थिते निवृत्तव्यापार्तया लाघवꣳ सुग्रहताꣳ यास्यसि। ते महार्थाः त्वाꣳ भयाद् युद्धाद् उपर्तꣳ मꣳस्यन्ते। शूरणाꣳ हि विरिणाꣳ शत्रुभयाद् ऋते बन्धुस्नेहादिना युद्धाद् उपर्तिः नोपपद्यते॥२।३५॥

Link copied

अवाच्य-वादाꣳश् च बहून् वदिष्यन्ति तवाहिताः

Link copied

निन्दन्तस् तव सामर्थ्यꣳ ततो दुःखतरꣳ नु किम्३६

Link copied

किꣳ च--- अवाच्य इति। शूराणाम् अस्माकꣳ सन्निधौ कथम् अयꣳ पार्थः क्षणम् अपि स्थातुꣳ शक्नुयाद् अस्मत्-सन्निधानाद् अन्यत्र हि अस्य सामर्थ्यम् इति तव सामर्थ्यꣳ निन्दन्तः शूरणाम् अग्रे अवाच्य-वादन् च बहून् वदिष्यन्ति तव शत्रवो धार्तरष्ट्राः। ततोऽधिकतरꣳ दुःखꣳ किꣳ तव? एवꣳ-विधावाच्य-श्रवणात् मरणम् एव श्रेयः, इति त्वम् एव मन्यसे॥२।३६॥

Link copied

हतो वा प्राप्स्यसि स्वर्गꣳ जित्वा वा भोक्ष्यसे महीम्

Link copied

तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः३७

Link copied

अतः शूरस्यात्मना परेषाꣳ हननम् आत्मनो वा परैर् हननम् उभयम् अपि श्रेयसे भवति इत्य् आह--- हतो वा इति। धर्म-युद्धे परैर् हतश् चेत् तत एव परम-निःश्रेयसꣳ प्राप्स्यसि। परान् वा हत्वा अकण्टकꣳ रज्यꣳ भोक्ष्यसे। अनभिसꣳहित-फलस्य युद्धाख्यस्य धर्मस्य परम-निःश्रेयसोपायत्वात्, तच् च परम-निःश्रेयसꣳ प्राप्स्यसि। तस्माद् युद्धायोद्योगः परम-पुरुषार्थ-लक्षण-मोक्ष-साधनम् इति निश्चित्य तद्-अर्थम् उत्तिष्ठ। कुन्ती-पुत्रस्य तवैतद् एव युक्तम् इत्य् अभिप्रायः॥२।३७॥

Link copied

सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ

Link copied

ततो युद्धाय युज्यस्व नैवꣳ पापम् अवाप्स्यसि३८

Link copied

मुमुक्षोर् युद्धानुष्ठन-प्रकारम् आह--- सुख इति। एवꣳ देहातिरिक्तम् अस्पृष्ट-समस्त-देह-स्वभावꣳ नित्यम् आत्मानꣳ ज्ञात्वा युद्धे चावर्जनीय-शस्त्र-पातादि-निमित्त-सुख-दुःखार्थ-लाभालाभ-जय-परजयेषु अविकृत-बुद्धिः स्वर्गादि-फलाभिसन्धि-रहितः केवल-कार्य-बुद्ध्या युद्धम् आरभस्व। एवꣳ कुर्वाणो न पापम् अवाप्स्यसि पापꣳ दुःख-रूपꣳ सꣳसारꣳ नावाप्स्यसि। सꣳसार-बन्धान् मोक्ष्यसे इत्य् अर्थः॥२।३८॥

Link copied

एषा तेऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमाꣳ शृणु

Link copied

बुद्ध्या युक्तो यया पार्थ कर्म-बन्धꣳ प्रहास्यसि३९

Link copied

एवम् आत्म-याथात्म्य-ज्ञानम् उपदिश्य तत्-पूर्वकꣳ मोक्ष-साधन-भूतꣳ कर्म-योगꣳ वक्तुम् आरभते--- एषा इति। सङ्ख्या बुद्धिः। बुद्ध्यावधारणीयम् आत्म-तत्त्वꣳ साङ्ख्यम्। ज्ञातव्ये आत्म-तत्त्वे तज्-ज्ञानाय या बुद्धिः अभिधेया न त्व् एवाहम् [गीता २।१२] इत्य् आरभ्य तस्मात् सर्वाणि भूतानि [गीता २।३०] इत्य् अन्तेन, सा एषा अभिहिता।

Link copied

आत्म-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्मानुष्ठाने यो बुद्धि-योगो वक्तव्यः, स इह योग-शब्देनोच्यते। दूरेण ह्य् अवरꣳ कर्म बुद्धि-योगात् [गीता २।४९] इति हि वक्ष्यते। तत्र योगे या बुद्धिः वक्तव्या ताम् इमाम् अभिधीयमानाꣳ शृणु, यया बुद्ध्या युक्तः कर्म-बन्धꣳ प्रहास्यसि। कर्मणा बन्धः कर्म-बन्धः, सꣳसार-बन्ध इत्य् अर्थः॥२।३९॥

Link copied

नेहाभिक्रम-नाशोऽस्ति प्रत्यवायो न विद्यते

Link copied

स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात्४०

Link copied

वक्ष्यमाण-बुद्धि-युक्तस्य कर्मणो माहात्म्यम् आह--- नेह इति। इह कर्म-योगे नाभिक्रम-नाशोऽस्ति। अभिक्रम आरम्भः। नाशः फल-साधन-भाव-नाशः। आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम्। आरब्धस्य विच्छेदे प्रत्यवायोऽपि न विद्यते। अस्य कर्म-योगाख्यस्य स्व-धर्मस्य स्वल्पाꣳशोऽपि महतो भयात् सꣳसार-भयात् त्रायते। अयम् अर्थः--- पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते [गीता ६।४०] इत्य् उत्तरत्र प्रपञ्चयिष्यते। अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न हि फल-प्रसवाय भवन्ति प्रत्यवायाय च भवन्ति॥२।४०॥

Link copied

व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन

Link copied

बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनाम्४१

Link copied

काम्य-कर्म-विषयाया बुद्धेः मोक्ष-साधन-भूत-कर्म-विषयाꣳ बुद्धिꣳ विशिनष्टि--- व्यवसायात्मिक इति। इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिर् एका। मुमुक्षुणा अनुष्ठेये कर्मणि बुद्धिर् व्यवसायात्मिका बुद्धिः। व्यवसायो निश्चयः, सा हि बुद्धिः आत्म-याथात्म्य-निश्चय-पूर्विका। काम्य-कर्म-विषया तु बुद्धिर् अव्यवसायात्मिका। तत्र हि कामाधिकारे देहाद् अतिरिक्तात्मस्तित्व-मात्रम् अपेक्षितम्, नात्म-स्वरूप-याथात्म्य-निश्चयः। स्वरूप-याथात्म्यानिश्चयेऽपि स्वर्गादि-फलार्थित्व-तत्-साधनानुष्ठान-तत्-फलानुभवानाꣳ सम्भवाद् अविरोधाच् च। सेयꣳ व्यवसायात्मिका बुद्धिर् एक-फल-साधन-विषयतयैका। एकस्मै मोक्षाख्य-फलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते। अतः शास्त्रार्थस्य एकत्वात् सर्व-कर्म-विषया बुद्धिर् एका एव। यथैक-फल-साधनतया आग्नेयादीनाꣳ षण्णाꣳ सेतिकर्तव्यताकानाम् एक-शास्त्रार्थतया तद्-विषया बुद्धिर् एका, तद्वद् इत्य् अर्थः।

Link copied

अव्यवसायिनाꣳ तु स्वर्ग-पुत्र-पश्व्-अन्नादि-फल-साधन-कर्माधिकृतानाꣳ बुद्धयः फलानन्त्याद् अनन्ताः। तत्रापि बहु-शाखाः। एकस्मै फलाय चोदितेऽपि दर्श-पूर्णमासादौ कर्मणि आयुर् अशास्ते सुप्रजस्त्वम् आशास्ते इत्य् आद्य् अवगतावान्तर-फल-भेदेन बहु-शाखात्वꣳ च विद्यते। अतोऽव्यवसायिनाꣳ बुद्धयोऽनन्ता बहु-शाखाश् च।

Link copied

एतद् उक्तꣳ भवति--- नित्येषु नैमित्तिकेषु कर्मसु प्रधान-फलानि अवान्तर-फलानि च यानि श्रूयमाणानि तानि सर्वाणि परित्यज्य मोक्षैक-फलतया सर्वाणि कर्माणि एक-शास्त्रार्थतया अनुष्ठेयानि। काम्यानि च स्व-वर्णाश्रमोचितानि तत्-तत्-फलानि परित्यज्य मोक्ष-फल-साधनतया नित्य-नैमित्तिकैर् एकीकृत्य यथा-बलम् अनुष्ठेयानीति॥२।४१॥

Link copied

याम् इमाꣳ पुष्पिताꣳ वाचꣳ प्रवदन्त्य् अविपश्चितः

Link copied

वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः४२

Link copied

कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम्

Link copied

क्रिया-विशेष-बहुलाꣳ भोगैश्वर्य-गतिꣳ प्रति४३

Link copied

अथ काम्य-कर्माधिकृतान् निन्दति--- याम् इमाम् इति। याम् इमाꣳ पुष्पिताꣳ पुष्प-मात्र-फलाम् आपात-रमणीयाꣳ वाचम् अविपश्चितोऽल्पज्ञा भोगैश्वर्य-गतिꣳ प्रति वर्तमानाꣳ प्रवदन्ति। वेद-वाद-रताः वेदेषु ये स्वर्गादि-फल-वादास् तेषु सक्ताः, नान्यद् अस्तिति वादिनः तत्-सङ्गातिरेकेण स्वर्गादेर् अधिकꣳ फलꣳ नान्यद् अस्ति इति वदन्तः। कामात्मानः काम-प्रवण-मनसः स्वर्ग-परः स्वर्ग-परायणाः स्वर्गादि-फलावसाने पुनर्-जन्म-कर्माख्य-फल-प्रदꣳ क्रिया-विशेष-बहुलाꣳ तत्त्व-ज्ञानर्हिततया क्रियाविशेषप्रचुरꣳ तेषाꣳ भोगैश्वर्य-गतिꣳ प्रति वर्तमानाꣳ याम् इमाꣳ वाचꣳ ये प्रवदन्ति इति सम्बन्धः॥२।४२-४३॥

Link copied

भोगैश्वर्य-प्रसक्तानाꣳ तयापहृत-चेतसाम्

Link copied

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते४४

Link copied

तेषाꣳ भोगैश्वर्य-प्रसक्तानाꣳ तया वाचा भोगैश्वर्य-विषयया अपहृतात्म-ज्ञानानाꣳ यथोदिता व्यवसायात्मिका बुद्धिः समाधौ मनसि न विधीयते, नोत्पद्यते। समाधीयतेऽस्मिन् आत्म-ज्ञानम् इति समाधिर् मनः। तेषाꣳ मनस्य् आत्म-याथात्म्य-निश्चय-ज्ञान-पूर्वक-मोक्ष-साधन-भूत-कर्म-विषया बुद्धिः कदाचिद् अपि नोत्पद्यते इत्य् अर्थः। अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः॥२।४४॥

Link copied

त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन

Link copied

निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान्४५

Link copied

एवम् अत्यन्ताल्प-फलानि पुनर्-जन्म-प्रसवानि कर्माणि माता-पितृ-सहस्रेभ्योऽपि वत्सलतर्तया आत्मोपजीवने प्रवृत्ता वेदः किमर्थꣳ वदन्ति। कथꣳ वा वेदोदितानि त्याज्यतया उच्यन्ते इति अत्र आह--- त्रैगुण्य इति। त्रयो गुणाः त्रिगुण्यꣳ सत्त्व-रजस्-तमाꣳसि। सत्त्व-रज्स्-तमः-प्रचुराः पुरुषाः त्रैगुण्य-शब्देनोच्यन्ते। तद्-विषया वेदः। तमः-प्रचुराणाꣳ रजः-प्रचुराणाꣳ सत्त्व-प्रचुराणाꣳ च वत्सलतरतयैव हितम् अवबोधयन्ति वेदः। यद्य् एषाꣳ स्व-गुणानुगुण्येन स्वर्गादि-साधनम् एव हितꣳ नावबोधयन्ति, तदैव ते रजस्-तमः-प्रचुरतया सात्त्विक-फल-मोक्ष-विमुखाः स्वापेक्षित-फल-साधनम् अजानन्तः काम-प्रावण्य-विवशा अनुपायेषु उपाय-भ्रान्त्या प्रविष्टाः प्रणष्टा भवेयुः।

Link copied

अतस् त्रैगुण्य-विषया वेदः। त्वꣳ तु निस्त्रैगुण्यो भव। इदानीꣳ सत्त्व-प्रचुरस् त्वꣳ तद् एव वर्धय। नान्योन्य-सङ्कीर्ण-गुण-त्रय-प्रचुरो भव। न तत् प्राचुर्यꣳ वर्धय इत्य् अर्थः। निर्द्वन्द्वः निर्गत-सकल-साꣳसारिक-स्वभावः। नित्य-सत्त्व-स्थः गुण-द्वय-रहित-नित्य-प्रवृद्ध-सत्त्व-स्थो भव। कथम् इति चेत्, निर्योग-क्षेम आत्म-स्वरूप-तत्-प्राप्त्य्-उपाय-बहिर्-भूतानाम् अर्थानाꣳ योगꣳ प्राप्तानाꣳ च क्षेमꣳ परिपालनꣳ परित्यज्य आत्मवान् भव। आत्म-स्वरूपान्वेषण-परो भव। अप्राप्तस्य प्राप्तिर् योगः। प्राप्तस्य परिरक्षणꣳ क्षेमः। एवꣳ वर्तमानस्य ते रजस्-तमः प्रचुरता नश्यति सत्त्वꣳ च वर्धते॥२।४५॥

Link copied

यावान् अर्थ उदपाने सर्वतः सम्प्लुतोदके

Link copied

तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः४६

Link copied

न च वेदोदितꣳ सर्वꣳ सर्वस्योपादेयम्। यथा सर्वार्थ-परिकल्पिते सर्वतः सम्प्लुतोदके उदपाने पिपासोर् यावान् अर्थः यावद् एव प्रयोजनꣳ पानीयꣳ तावद् एव तेनोपादीयते, न सर्वम्। एवम् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोर् यद् एव मोक्ष-साधनꣳ तद् एवोपादेयम्, नान्यत्॥२।४६॥

Link copied

कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन

Link copied

मा कर्म-फल-हेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि४७

Link copied

अतः सत्त्व-स्थस्य मुमुक्षोर् एतावद् एवोपादेयम् इत्य् आह--- कर्मणि इति। नित्ये नैमित्तिके काम्ये च केनचित् फल-विशेषेण सम्बन्धितया श्रूयमाणे कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् ते कर्म-मात्रे अधिकारः। तत्-सम्बन्धितया अवगतेषु फलेषु न कदाचिद् अपि अधिकारः। सफलस्य बन्ध-रूपत्वात् फल-रहितस्य केवलस्य मद्-आराधन-रूपस्य मोक्ष-हेतुत्वाच् च।

Link copied

मा च कर्म-फलयोर् हेतुर् भूः। त्वया अनुष्ठीयमानेऽपि कर्मणि नित्य-सत्त्व-स्थस्य मुमुक्षोस् तवाकर्तृत्वम् अपि अनुसन्धेयम्। फलस्यापि क्षुन्-निवृत्त्य्-आदेः न त्वꣳ हेतुर् इत्य् अनुसन्धेयम्। तद् उभयꣳ गुणेषु वा सर्वेश्वरे मयि वा अनुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते। एवम् अनुसन्धाय कर्म कुरु। अकर्मणि अननुष्ठाने न योत्स्यामि इति यत् त्वया अभिहितꣳ न तत्र ते सङ्गोऽस्तु। उक्तेन प्रकारेण युद्धादि-कर्मण्य् एव सङ्गोऽस्तु इत्य् अर्थः॥२।४७॥

Link copied

योग-स्थः कुरु कर्माणि सङ्गꣳ त्यक्त्वा धनञ्जय

Link copied

सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वꣳ योग उच्यते४८

Link copied

एतद् एव स्पष्टीकरोति--- योगस्थः इति। राज्य-बन्धु-प्रभृतिषु सङ्गꣳ त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु। तद्-अन्तर्भूत-विजयादि-सिद्ध्य्-असिद्ध्योः समो भूत्वा कुरु। तद् इदꣳ सिद्ध्य्-असिद्ध्योः समत्वम्, योगस्थ इत्य् अत्र योग-शब्देनोच्यते। योगः सिद्ध्य्-असिद्ध्योः समत्व-रूपꣳ चित्त-समाधानम्॥२।४८॥

Link copied

दूरेण ह्य् अवरꣳ कर्म बुद्धि-योगाद् धनञ्जय

Link copied

बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः४९

Link copied

किम् अर्थम् इदम् असकृद् उच्यते? इत्य् अत आह--- दूरेण इति। योऽयꣳ प्रधान-फल-त्याग-विषयोऽवान्तर-फल-सिद्ध्य्-असिद्ध्योः समत्व-विषयश् च बुद्धि-योगः। तद्-युक्तात् कर्मणः इतरत्-कर्म दूरेणावरम्। महद् एतद् द्वयोर् उत्कर्षापकर्ष-रूपꣳ वैरूप्यम्। उक्त-बुद्धि-योग-युक्तꣳ कर्म निखिलꣳ साꣳसारिकꣳ दुःखꣳ विनिवर्त्य परम-पुरुषार्थ-लक्षणꣳ च मोक्षꣳ प्रापयति। इतरद् अपरिमित-दुःख-रूपꣳ सꣳसारम् इति अतः कर्मणि क्रियमाणे उक्तायाꣳ बुद्धौ शरणम् अन्विच्छ। शरणꣳ वास-स्थानम्। तस्याम् एव बुद्धौ वर्तस्व इत्य् अर्थः। कृपणाः फल-हेतवः फल-सङ्गादिना कर्म कुर्वाणाः कृपणाः सꣳसारिणो भवेयुः॥२।४९॥

Link copied

बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते

Link copied

तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्५०

Link copied

बुद्धि-योग-युक्तः तु कर्म कुर्वाण उभे सुकृत-दुष्कृते अनादि-काल-सञ्चितेऽनन्ते बन्ध-हेतु-भूते जहाति। तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व। योगः कर्मसु कौशलꣳ कर्मसु क्रियमाणेष्व् अयꣳ बुद्धि-योगः कौशलम्, अतिसामर्थ्यम्। अतिसामर्थ्य-साध्यः इत्य् अर्थः॥२।५०॥

Link copied

कर्मजꣳ बुद्धि-युक्ता हि फलꣳ त्यक्त्वा मनीषिणः

Link copied

जन्म-बन्ध-विनिर्मुक्ताः पदꣳ गच्छन्त्य् अनामयम्५१

Link copied

बुद्धि-योग-युक्ताः कर्मजꣳ फलꣳ त्यक्त्वा कर्म कुर्वन्तः, तस्माद् जन्म-बन्ध-विनिर्मुक्ताः अनामयꣳ पदꣳ गच्छन्ति। हि प्रसिद्धम् एतत् सर्वासु उपनिषत्सु इत्य् अर्थः॥२।५१॥

Link copied

यदा ते मोह-कलिलꣳ बुद्धिर् व्यतितरिष्यति

Link copied

तदा गन्तासि निर्वेदꣳ श्रोतव्यस्य श्रुतस्य च५२

Link copied

उक्त-प्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूत-कल्मषस्य ये बुद्धिर् यदा मोह-कलिलम् अत्यल्प-फल-सङ्ग-हेतु-भूतꣳ मोह-रूपꣳ कलुषꣳ व्यतितरिष्यति। तदास्मत्त इतः पूर्वꣳ त्याज्यतया श्रुतस्य फलादेर् इतः पश्चात् श्रोतव्यस्य च कृते स्वयम् एव निर्वेदꣳ गन्तासि गमिष्यसि॥२।५२॥

Link copied

श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला

Link copied

समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि५३

Link copied

योगे त्व् इमाꣳ शृणु [गीता २।३९] इत्य् आदिना उक्तस्य आत्म-याथात्म्य-ज्ञान-पूर्वकस्य बुद्धि-विशेष-सꣳस्कृत-कर्मानुष्ठानस्य लक्षण-भूतꣳ योगाख्यꣳ फलम् आह--- श्रुति इति। श्रुतिः श्रवणम्। अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतर-विसजातीय-नित्य-निरतिशय-सूक्ष्म-तत्त्व-विषया स्वयम् अचला एक-रूपा बुद्धिः असङ्ग-कर्मानुष्ठानेन विमलीकृते मनसि यदा निश्चला स्थास्यति तद योगम् आत्मावलोकनम् अवाप्स्यसि। एतद् उक्तꣳ भवति--- शास्त्र-जन्यात्म-ज्ञान-पूर्वक-कर्म-योगः स्थित-प्रज्ञताख्य-ज्ञान-निष्ठाम् आपाद्यति, ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता तु योगाख्यम् आत्मावलोकनꣳ साधयति इति॥२।५३॥

Link copied

अर्जुन उवाच

Link copied

स्थित-प्रज्ञस्य का भाषा समाधिस्थस्य केशव

Link copied

स्थित-धीः किꣳ प्रभाषेत किम् आसीत व्रजेत किम्५४

Link copied

एवम् उक्तः पार्थो निःसङ्ग-कर्मानुष्ठान-रूप-कर्म-योग-साध्य-स्थित-प्रज्ञतया योग-साधन-भूतायाः स्वरूपꣳ स्थित-प्रज्ञस्यानुष्ठान-प्रकारꣳ च पृच्छति--- समाधि-स्थस्य स्थित-प्रज्ञस्य का भाषा को वाचकः शब्दः। तस्य स्वरूपꣳ कीदृशम् इत्य् अर्थः। स्थित-प्रज्ञः किꣳ च भाषणादिकꣳ करोति॥२।५४॥

Link copied

श्री-भगवान् उवाच

Link copied

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्

Link copied

आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते५५

Link copied

वृत्ति-विशेष-कथनेन स्वरूपम् अप्य् उक्तꣳ भवति इति वृत्ति-विशेषोच्यते प्रजहातीति। आत्मन्य् एवात्मना मनसा आत्मैकावलम्बनेन तुष्टस् तेन तोषेण तद्-व्यतिरिक्तान् सर्वान् मनो-गतान् कामान् यदा प्रकर्षेण जहाति, तदायꣳ स्थित-प्रज्ञ इत्य् उच्यते। ज्ञान-निष्ठा-काष्ठेयम्॥२।५५॥

Link copied

दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः

Link copied

वीत-राग-भय-क्रोधः स्थितधीर् मुनिर् उच्यते५६

Link copied

अनन्तरꣳ ज्ञान-निष्ठस्य ततोऽर्वाचीना अदूर-विप्रकृष्टावस्थोच्यते। प्रिय-विश्लेषादि दुःख-निमित्तेषु उपस्थितेषु अनुद्विग्न-मनाः न दुःखी भवति, सुखेषु विगत-स्पृहः प्रियेषु सन्निहितेषु अपि निःस्पृहः वीत-राग-भय-क्रोधोऽनागतेषु स्पृहा रगस् तद्-रहितः। प्रिय-विश्लेषाप्रियागमन-हेतु-दर्शन-निमित्तꣳ दुःखꣳ भयम्, तद्-रहितः। प्रिय-विश्लेषाप्रियागमन-हेतु-भूत-चेतनान्तर्गो दुःख-हेतुः स्वमनो-विकारः क्रोधः, तद्-रहितः। एवꣳ-भूतो मुनिर् आत्म-मनन-शीलः स्थित-धीर् इत्य् उच्यते॥२।५६॥

Link copied

यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम्

Link copied

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता५७

Link copied

ततोऽर्वाचीन-दशा प्रोच्यते--- इति। यः सर्वत्र प्रियेष्व् अनभिस्नेह उदासीनः प्रिय-सꣳश्लेष-विश्लेष-रूपꣳ शुभाशुभꣳ प्राप्याभिनन्दन्-द्वेष-रहितः। सोऽपि स्थित-प्रज्ञः॥२।५७॥

Link copied

यदा सꣳहरते चायꣳ कूर्मोऽङ्गानीव सर्वशः

Link copied

इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता५८

Link copied

ततोऽर्वाचीन-दशा प्रोच्यते--- यद् इति। यदेन्द्रियाणि इन्द्रियार्थान् स्प्रष्टुम् उद्युक्तानि, तदैव कूर्मोऽङ्गानीव इन्द्रियार्थेभ्यः सर्वशः प्रतिसꣳहृत्य मन आत्मन्य् एव स्थापयति, सोऽपि स्थित-प्रज्ञः॥२।५८॥

Link copied

विषया विनिवर्तन्ते निराहारस्य देहिनः

Link copied

रस-वर्जꣳ रसोऽप्य् अस्य परꣳ दृष्ट्वा निवर्तते५९

Link copied

एवꣳ चतुर्-विधा ज्ञान-निष्ठा पूर्व-पूर्वोत्तरोत्तर-निष्पाद्येति प्रतिपादितम्। इदानीꣳ ज्ञान-निष्ठाया दुष्प्रापताꣳ तत्-प्राप्त्य्-उपायꣳ चाह--- विषया इति। इन्द्रियाणाम् आहारा विषयाः। निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषयाः विनिवर्तमाना रस-वर्जꣳ विनिवर्तन्ते। रसो रगः, विषय-रागो न निवर्तते इत्य् अर्थः। रागोऽप्य् आत्म-स्वरूपꣳ विषयेभ्यः परꣳ सुखतरꣳ दृष्ट्वा विनिवर्तते॥२।५९॥

Link copied

यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः

Link copied

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभꣳ मनः६०

Link copied

आत्म-दर्शनेन विना विषय-रागो न निवर्तते, अनिवृत्ते विषय-रागे विपश्चितो यतमानस्यापि पुरुषस्य इन्द्रियाणि प्रमाथीनि बलवन्ति मनः प्रसह्य हरन्ति। एवम् इन्द्रिय-जय आत्म-दर्शनाधीन आत्म-दर्शनम् इन्द्रिय-जयाधीनम् इति ज्ञान-निष्ठा दुष्प्रापा॥२।६०॥

Link copied

तानि सर्वाणि सꣳयम्य युक्त आसीत मत्-परः

Link copied

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता६१

Link copied

अस्य सर्वस्य दोषस्य परिजिहीर्षया विषयानुराग-युक्ततया दुर्जयानि इन्द्रियाणि सꣳयम्य चेतसः शुभाश्रय-भूते मयि मनोऽवस्थाप्य समाहित आसीत। मनसि मद्-विषये सति निर्दग्धाशेष-कल्मषतया निर्मलीकृतꣳ विषयानुराग-रहितꣳ मन इन्द्रियाणि स्व-वशानि करोति। ततो वश्येन्द्रियꣳ मन आत्म-दर्शनाय प्रभवति। उक्तꣳ च---

Link copied

यथाग्निर् उद्धत-शिखः कक्षꣳ दहति सानिलः।

Link copied

तथा चित्त-स्थितो विष्णुर् योगिनाꣳ सर्व-किल्बिषम्॥ [वि।पु। ६।७।७४] इति।

Link copied

तद् आह--- वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता इति॥२।६१॥

Link copied

ध्यायतो विषयान् पुꣳसः सङ्गस् तेषूपजायते

Link copied

सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते६२

Link copied

क्रोधाद् भवति सꣳमोहः सꣳमोहात् स्मृति-विभ्रमः

Link copied

स्मृति-भ्रꣳशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति६३

Link copied

एवꣳ मय्य् अनिवेश्य मनः स्व-यत्न-गौरवेण इन्द्रिय-जये प्रवृत्तो विनष्टो भवतीत्य् आह--- ध्यायत इति। अनिरस्त-विषयानुरागस्य हि मयि अनिवेशित-मनस इन्द्रियाणि सꣳयम्यावस्थितस्यापि अनादि-पाप-वासनया विषय-ध्यानम् अवर्जनीयꣳ स्यात्। ध्यायतो विषयान् पुꣳसः पुनर् अपि सङ्गोऽतिप्रवृद्धो जायते। सङ्गात् सञ्जायते कामः। कामो नाम सङ्गस्य विपाक-दशा। पुरुषो याꣳ दशाम् आपन्नो विषयान् अभुक्त्वा स्थातुꣳ न शक्नोति स कामः। कामात् क्रोधोऽभिजायते। कामे वर्तमाने विषये चासन्निहिते सन्निहितान् पुरुषान् प्रति एभिः अस्मद्-इष्टꣳ विहितम् इति क्रोधो भवति।

Link copied

क्रोधाद् भवति सꣳमोहः। सꣳमोहः कृत्याकृत्य-विवेक-शून्यता तया सर्वꣳ करोति। ततश् च प्रारब्धे इन्द्रिय-जयादिके प्रयत्ने स्मृति-ध्वꣳशो भवति। स्मृति-ध्वꣳशाद् बुद्धि-नाशः, आत्म-ज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात्। बुद्धि-नाशाद् पुनर् अपि सꣳसारे निमग्नो विनष्टो भवति॥२।६२-६३॥

Link copied

राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन्

Link copied

आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति६४

Link copied

उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसः शुभाश्रय-भूते न्यस्त-मन निर्दग्धाशेष-कल्मषतया राग-द्वेष-वियुक्तैः आत्म-वश्यैः इन्द्रियैर् विषयान् चरन् विषयान् तिरस्कृत्य वर्तमानो विधेयात्मा विधेय-मनाः प्रसादम् अधिगच्छति। निर्मलान्तः-करणो भवति इत्य् अर्थः॥२।६४॥

Link copied

प्रसादे सर्व-दुःखानाꣳ हानिर् अस्योपजायते

Link copied

प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते६५

Link copied

अस्य पुरुषस्य मनसः प्रसादे सति प्रकृति-सꣳसर्ग-प्रयुक्त-सर्व-दुःखानाꣳ हानिर् उपजायते। प्रसन्न-चेतस आत्मावलोकन-विरोधि-दोष-रहित-मनसः तदानीम् एव हि विविक्तात्म-विषया बुद्धिर् मयि पर्यवतिष्ठते। अतो मनः-प्रसादे सर्व-दुःखानाꣳ हानिर् भवति एव॥२।६५॥

Link copied

नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना

Link copied

न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम्६६

Link copied

मयि सन्न्यस्त-मनो-रहितस्य स्व-यत्नेन इन्द्रिय-दमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्म-विषया बुद्धिर् न सेत्स्यति। अतएव तस्य तद्-भावना च न सम्भवति। विविक्तात्मानम् अभावयतो विषय-स्पृहा-शान्तिर् न भवति। अशान्तस्य विषय-स्पृहा-युक्तस्य कुतो नित्य-निरतिशय-सुख-प्राप्तिः॥२।६६॥

Link copied

इन्द्रियाणाꣳ हि चरताꣳ यन् मनोऽनुविधीयते

Link copied

तद् अस्य हरति प्रज्ञाꣳ वायुर् नावम् इवाम्भसि६७

Link copied

पुनर् अप्य् उक्तेन प्रकारेण इन्द्रियनियमनम् अकौर्वतोऽनर्थम् आह--- इन्द्रियाणाम् इति। इन्द्रियाणाꣳ विषयेषु चरताꣳ वर्तमानानाꣳ वर्तनम् अनु यन् मनोऽनुविधीयते पुरुषेणानुवर्त्यते तन् मनोऽस्य विविक्तात्म-प्रवणाꣳ प्रज्ञाꣳ हरति विषय-प्रवणताꣳ करोतीत्य् अर्थः। यथाम्भसि नीयमानाꣳ नावꣳ प्रतिकूलो वायुः प्रसह्य हरति॥२।६७॥

Link copied

तस्माद् यस्य महा-बाहो निगृहीतानि सर्वशः

Link copied

इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता६८

Link copied

तस्माद् उक्तेन प्रकारेण शुभाश्रये मयि निविष्ट-मनसो यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति॥२।६८॥

Link copied

या निशा सर्व-भूतानाꣳ तस्याꣳ जागर्ति सꣳयमी

Link copied

यस्याꣳ जाग्रति भूतानि सा निशा पश्यतो मुनेः६९

Link copied

एवꣳ नियतेन्द्रियस्य प्रसन्न-मनसः सिद्धिम् आह--- या निशा इति। या आत्म-विषया बुद्धिः सर्व-भूतानाꣳ निशा। निशेवाप्रकाशा। तस्याम् आत्म-विषयायाꣳ बुद्धाव् इन्द्रिय-सꣳयमी प्रसन्न-मना जागर्ति। आत्मानम् अवलोकयन्न् आस्त इत्य् अर्थः। यस्याꣳ शब्दादि-विषयायाꣳ बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति। सा शब्दादि-विषया बुद्धिर् आत्मानꣳ पश्यतो मुनेर् निशेवाप्रकाशा भवति॥२।६९॥

Link copied

आपूर्यमाणम् अचल-प्रतिष्ठꣳ

Link copied

समुद्रम् आपः प्रविशन्ति यद्वत्

Link copied

तद्वत् कामा यꣳ प्रविशन्ति सर्वे

Link copied

स शान्तिम् आप्नोति न काम-कामी७०

Link copied

यथा आत्मना एव आपूर्यमाणम् एक-रूपꣳ समुद्रꣳ नादेया आपः प्रविशन्ति, आसाम् अपाꣳ प्रवेशे अपि अप्रवेशे वा समुद्रो न कञ्चन विशेषम् आपद्यते। एवꣳ सर्वे कामाः शब्दादयो विषया यꣳ सꣳयमिनꣳ प्रविशन्ति। इन्द्रिय-गोचरताꣳ यान्ति स शान्तिम् आप्नोति। शब्ददिषु इन्द्रिय-गोचरताम् आपन्नेष्व् अनापन्नेषु च स्वात्मावलोकन-तृप्त्या एव यो न विकारम् आप्नोति स एव शान्तिम् आप्नोति इत्य् अर्थः। न काम-कामी, यः शब्दादिभिर् विक्रियते स कदाचिद् अपि न शान्तिम् आप्नोति॥२।७०॥

Link copied

विहाय कामान् यः सर्वान् पुमाꣳश् चरति निःस्पृहः

Link copied

निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति७१

Link copied

काम्यन्त इति कामाः शब्ददयो विषयाः। यः पुमान् शब्ददीन् सर्वान् विषयान् विहाय तत्र निःस्पृहः ममता-रहितश् चानात्मनि देहे आत्माभिमान-रहितश् चरति, स आत्मानꣳ दृष्ट्वा शान्तिम् अधिगच्छति॥२।७१॥

Link copied

एषा ब्राह्मी स्थितिः पार्थ नैनाꣳ प्राप्य विमुह्यति

Link copied

स्थित्वास्याम् अन्त-कालेऽपि ब्रह्म-निर्वाणम् ऋच्छति७२

Link copied

एषा नित्यात्म-ज्ञान-पूर्विका असङ्ग-कर्मणि स्थितिः स्थित-धी-लक्षणा ब्राह्मी ब्रह्म-प्रापिका, ईदृशीꣳ कर्मणि स्थितिꣳ प्राप्य न विमुह्यति न पुनः सꣳसारम् आप्नोति। अस्याꣳ स्थित्याम् अन्तिमेऽपि वयसि स्थित्वा ब्रह्म-निर्वाणम् ऋच्छति निर्वाणम् अयꣳ ब्रह्म गच्छति, सुखैकतानम् आत्मानम् आप्नोति इत्य् अर्थः।

Link copied

एवम् आत्म-याथात्म्यꣳ युद्धाख्यस्य च कर्मणस् तत्-प्राप्ति-साधनताम् अजानतः शरीरात्म-ज्ञानेन मोहितस्य तेन च मोहेन युद्धात् निवृत्तस्य तन्-मोह-शान्तये नित्यात्म-विषया या साङ्ख्य-बुद्धिः, तत्-पूर्विका चासङ्ग-कर्मानुष्ठान-रूप-कर्म-योग-विषया बुद्धिः स्थित-प्रज्ञता-योग-साधन-भूता द्वितीयेऽध्याये प्रोक्ता। तद् उक्तम्---

Link copied

नित्यात्मा-सङ्गक-मोहागोचर साङ्ख्य-योग-धीः।

Link copied

द्वितीये स्थित-धीलक्ष्या प्रोक्ता तन्-मोह-शान्तये॥ [गीतार्थ-सङ्ग्रहे ६] इति॥२।७२॥

Link copied

इति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये द्वितीयोऽध्यायः॥२॥

Link copied

English · simplified from Thibaut (1904)

Lecture 2 — The Yoga of Knowledge of the Self (in Sanskrit: Sāṅkhya-yoga)

This is the great foundational teaching of the Gita. Sri Krishna, responding to Sri Arjuna's collapse, does not merely console him — He delivers a compressed exposition of the entire spiritual path: the eternality of the ātman, the nature of karma-yoga (action done without attachment to fruit), and the character of the sthita-prajña — the person of ripened wisdom. Yamunacharya summarises the chapter: Wisdom of the soul's eternity, work of unselfishness, and mind-calm — these three Lecture Two taught, to cure Sri Arjuna's foolishness.

Link copied

Verses 1–10 (Arjuna's final plea for guidance)

Verse 2.1–3. Sanjaya continues: "Madhusudana, seeing Sri Arjuna so deeply moved by compassion, with eyes suffused with tears, addressed him: 'What causes thee this ill-timed melancholy, hateful to the wise, a block to higher worlds, disgraceful? Get thou not unnerved, Partha; weakness of heart is undignified. Shake it off and rouse thyself, Parantapa.'"

Link copied

Sri Bhagavan first deprecates Sri Arjuna's despondency. It is a sadness felt out of place, uncountenanced by wise men, antagonistic to higher-world interests, inglorious, and born only of a faint heart.

Link copied

Verse 2.4–8. Still agitated, Sri Arjuna replies: "How can I, with arrows, fight against Bhishma and Drona — men fit to be worshipped? Better to live by begging than by tasting the blood-tainted happiness of riches bought by slaying such teachers. Moreover, I do not know whether we shall conquer them, or they us; nor which of the two is better. My disposition is troubled; I ask Thee. Tell me decisively what is best. For am I not Thy disciple? Command Thou me, Thy servant (prapanna). Though I obtain unrivalled sway over this prosperous earth, or sovereignty over the Suras, I fail to see that which could assuage my grief."

Link copied

Here Sri Arjuna for the first time speaks as prapanna — one who has taken refuge. Ramanuja marks this: he has reverently placed himself at the feet of Bhagavan, mistaking a lawful kṣatriya war for unrighteousness. Bhagavan Paramapurusha thereupon resolves to impart the knowledge that the prosecution of a lawful war, preceded by knowledge of the ātman and carried on without desire for fruit, itself constitutes the means to self-realisation (ātma-prāpti).

Link copied

Verse 2.9–10. Gudakesha, the harasser of foes, having said "I will not fight," kept silent. With a smile, Hrishikesa regarded him, as he stood sad between the two armies, and began to speak.

Link copied

Ramanuja observes that the smile indicates how Sri Krishna treated these most abstruse subjects of philosophy and religion as if they were but pleasant recreation. The teaching that follows, from "Never at all was that I was not" (II.12) up to "I shall deliver thee from all sins" (XVIII.66), embodies the threefold doctrine of karma-yoga, jñāna-yoga, and bhakti-yoga — the Means for acquiring true knowledge of ātman and Paramatman, and for attaining Him.

Link copied

Verses 11–13 (The distinction between body and self)

Verse 2.11. "Thou dost mourn for those thou shouldst not mourn for. Yet dost thou speak words of wisdom. The wise grieve neither for bodies nor for souls (ātmans)."

Link copied

Ramanuja glosses the contradiction in Sri Arjuna's lament. On the one hand, Sri Arjuna speaks as if he knew the distinction between body and soul — for his invocation of the fall of ancestors (I.42) presupposes such a distinction. On the other hand, his grief applies precisely to that distinction's denial. Body as body is a lifeless thing; soul as soul is life itself. Neither can be a cause for regret to those who understand their natures. Grief is a contradiction in Sri Arjuna's own mouth.

Link copied

Verse 2.12. "Never at all was, that I was not, or thou, or these rulers of men. Never shall we cease to be hereafter."

Link copied

This is the cardinal verse for Ramanuja. He reads it as an explicit statement of the plurality of souls and their distinctness from God. "As for Me, Sarvesvara, there is never 'nay' to My having been in all the eternity anterior. I always was. So too thyself, and all these in front — all souls under My control (śeṣatva) and informers of bodies (kṣetrajñas). Nor shall any of us — Myself, thyself, and all — cease to be in the future."

Link copied

Pūrvapakṣa and siddhānta. Here Ramanuja engages the two great monistic views.

Link copied

First objection — the Aupādhika-bheda-vāda (that all duality is caused by upādhi, limiting condition). If Krishna were really teaching monism, why does He, at the very moment of imparting this supreme wisdom, still maintain the upādhi-attitude — that He is distinct from Sri Arjuna, and souls are many? An attitude that warrants the dualistic position at precisely the moment when it should dissolve is a clear proof that the dualistic position is itself the truth. Scripture confirms this: "That Eternal among the eternals, that Intelligent among the intelligents, that One among many" (Katha and Svetasvatara Upanishads).

Link copied

Second objection — the Ajñāna-krita-bheda-drishti-vāda (that perception of duality is caused by ignorance, ajñāna). Ramanuja's refutation is surgical. If Paramapurusha already possesses definite monistic knowledge, He cannot simultaneously be deceived by ignorance; still less can He teach the dualistic position to others. The analogy of a burnt cloth retaining its shape is invalid — for even though one may see a mirage as water, no one pursues it to fetch water. Teaching demands, at the outset, the recognition of a real duality between teacher and pupil. If monistic knowledge is truly eternal, then it cannot be said to have come at a point in time, so the persistence of dualistic cognition cannot be explained. The "duplicated moon" analogy fails because the cause of the duplicated appearance (the diseased eye) actually exists, whereas the opponent's ajñāna is itself a fiction. In short, whichever way you argue, the giving and taking of instruction collapses under strict monism. Enough, then, with such exploded sophistic controversies.

Link copied

Ramanuja's siddhānta: this verse establishes clearly that ātman is real and distinct from Bhagavan Sarvesvara, and that ātmans are many.

Link copied

Verse 2.13. "As childhood, youth, and old age pass in this body, so is translation to another body. No wise man is deluded by that."

Link copied

Just as the dweller in the body does not grieve over the transition from infancy to youth, no wise man grieves at the passage from one body to another. Ātman endures.

Link copied

Verses 14–25 (Why the self cannot be killed)

Verse 2.14–15. "The sense-contacts, Kaunteya, produce pleasures and pains through 'cold-heat' experiences. They come and go, and are inconstant. Bear them, Bharata. That bold man whom these cannot molest — he is verily made for immortality."

Link copied

Tolerance of the pairs of opposites is a necessary sign of the eternality of ātmans. Courageous endurance through the performance of Sastra-enjoined work is itself the way to mokṣa.

Link copied

Verse 2.16. "To the non-constant (asat = matter) fixity is not; to the constant (sat = spirit) non-fixity is not. To Truth-seers are known the essential natures of both."

Link copied

Ramanuja is careful to note that this verse is not the Sankhya satkārya-vāda. Rather, it teaches the inconvertibility of one category (mutable matter) into another (immutable soul). Body's nature is perishable; ātman's nature is imperishable.

Link copied

Verse 2.17–18. "Know that that is indestructible by which all this is pervaded. No one can destroy this Exhaustless. These bodies are declared terminable with respect to the eternal, indestructible, and undemonstrable ātmans indwelling them. Therefore fight, Bharata."

Link copied

Ātman is subtler than any substance; no substance can penetrate it. Weapons, water, fire, wind can destroy only what is of the grosser, pervaded kind. Ātman is aprameya — not an object of demonstration, but the subject, the prover.

Link copied

Verse 2.19–25. "Both lack understanding — he who thinks this slays, and he who thinks it slain. It neither kills nor is killable. At no time is it born nor does it die. Having been, it cannot be that it is not going to be. It is unborn (aja), eternal (nitya), constant (śāśvata), and ancient (purāṇa), not destroyed when the body is destroyed. Knowing this ātman to be indestructible, birthless, eternal, which person, Partha, can kill or cause to be killed? As a man casts off worn-out garments and puts on new ones, so does the dweller of the body leave worn-out bodies for new ones. Weapons cut it not, fire burns it not, water wets it not, wind withers it not. Invulnerable, incombustible, undried, unmoistened, eternal, all-pervading, fixed, motionless, ancient. Indiscrete (avyakta), inconceivable (acintya), unchangeable (avikārya) — knowing it so, thou hast no cause for regret."

Link copied

Verses 26–30 (Even if birth and death do apply)

Verse 2.26–28. "Even if thou wouldst think this ātman to be repeatedly born and repeatedly dying, even then thou hast no reason to grieve. To what is born, death is certain; and birth is certain to what dies. Over the unavoidable thou shouldst not lament. All creatures have an unmanifest origin, a manifest middle, and an unmanifest end. Where is cause for sorrow?"

Link copied

Verse 2.29–30. "One looks on this ātman as wonderful; another speaks of it in wonderment; another hears of it as wonderful; but no one at all knows it. The embodied in every body is invulnerable, Bharata. Therefore thou hast no cause to grieve for any creature."

Link copied

Rare is the soul whose sins have been expunged by austerities, who realises ātman as distinct from all other things. That no one definitely comprehends ātman is the stanza's poignant witness.

Link copied

Verses 31–38 (The kṣatriya's duty and the beginning of karma-yoga)

Verse 2.31–33. "The considerations of one's own dharma do not warrant thy grief, for nothing is more meritorious for a kṣatriya than a virtuous war. Fortunate kṣatriyas meet unsolicited with such a war, opening unhindered to the door of Svarga. If thou wouldst not engage, thou shalt sacrifice thy duty and fame, incurring sin."

Link copied

A righteous war, like the Agnishomiya sacrifice, falls within lawful duty. Ramanuja notes the scriptural view that the killed in war obtain illustrious bodies; just as in Vedic sacrifice the immolated animal is said to gain Svarga, so the war is not cruelty but a beneficent measure, like a physician's art.

Link copied

Verse 2.34–37. "People will narrate thy eternal disgrace; to a man of honour, disgrace is worse than death. The great-carred warriors will think thou hast retired from fear. Thy antagonists will use language unspeakable and deride thee. Killed, thou wilt attain Svarga; conquering, thou wilt enjoy earth. Arise, Kaunteya, resolved to fight."

Link copied

Verse 2.38. "Making joy and grief equal, gain and loss, victory and defeat, engage in war. Thus shalt thou incur no sin."

Link copied

This is the pivot — knowing the ātman to be distinct from body and uncontaminated by bodily qualities, keeping the mind imperturbable, destitute of any wish for reward, fight as if it were a duty to be discharged. Thus will saṁsāra-bondage be escaped.

Link copied

Verses 39–53 (The turn to karma-yoga)

Verse 2.39. "This knowledge in sāṅkhya has been told thee; now hear it in yoga, united with which thou shalt cast off karma-bondage."

Link copied

Sāṅkhya here means the understanding — specifically, the knowledge of the ātman category discernible by the rational faculty. Yoga is the understanding with regard to the practice of works, founded on that ātman-knowledge, which is the path to emancipation. This is karma-yoga: the performance of works without attachment, as worship rendered to the Supreme.

Link copied

Verse 2.40. "In this, no loss of effort, nor harm accrues. Even an iota of this dharma saves from great fear."

Link copied

Unlike ritual works that miscarry if interrupted, even a little effort in karma-yoga is not wasted. Even a fraction saves from the fear of saṁsāra.

Link copied

Verse 2.41–44. "To the cultured, there is one certain conviction in this. To the uncultured, minds are many-branched and endless." The mokṣa-aspirant performs every work — daily, occasional, and even fruit-bearing — with the single aim of liberation. Those whose hearts are captivated by wealth and power, engrossed in Vedic descriptions of Svarga, crave endless fruits and never gain the settled conviction (vyavasāyātmikā buddhi).

Link copied

Verse 2.45–46. "The Vedas treat of the three guṇas; be thou free of them, Arjuna. Rise above the pairs; be ever wedded to sattva; be unconcerned with acquisitions and their care; be ātma-concerned. As from an overflowing reservoir one takes only what one needs, so the wise brāhmaṇa takes from the Vedas only what leads to mokṣa."

Link copied

Verse 2.47. "Thy right is to work only, not to its fruits. Become not the cause of works' fruit, nor have interest in desisting from work."

Link copied

This is the cardinal karma-yoga verse. Desire for fruit binds; without it, works performed as worship paid to the Lord become means to mokṣa. Though one is the actor, because one is fixed in sattva and aspires for mokṣa, one may regard oneself as no actor. The cause of gratification and agent of gratification will later be attributed to the guṇas or to the Lord Himself.

Link copied

Verse 2.48. "Yogasthaḥ — poised in yoga — do works, Dhananjaya, renouncing attachment. Equal-mindedness in success or failure is called yoga."

Link copied

Verse 2.49–51. "Fruit-breeding works are far inferior to wisdom-yoga (buddhi-yoga). Seek refuge in wisdom. Poor are the fruit-seeking. Even here, the wisdom-united casts off both good and bad deeds. Strive for that mode. Wisdom-mode in works is true cleverness. The wisdom-united, forsaking work-born fruit, released from the bondage of birth, reach the state free of ill."

Link copied

Verse 2.52–53. "When thy understanding soars beyond the maze of bewilderment, then from what has been heard and what shall be heard, thou shalt arrive at indifference to the world. When thy reason, enlightened by hearing, can unshakably rest in thy mind, then shalt thou attain yoga."

Link copied

This is the culminating pivot — karma-yoga, preceded by knowledge of the ātman gathered from Sastra, develops into sthita-prajñatā — sustained effort of consciousness — and this matures into yoga, ātman-illumination.

Link copied

Verses 54–72 (The sthita-prajña — the person of ripened wisdom)

Sri Arjuna asks: "What is the nature, Kesava, of the mind-fixed man's concentrated consciousness? What does he speak? How does he sit? How does he move?"

Link copied

Ramanuja presents Sri Krishna's reply as describing four progressively ripening stages of wisdom-culture.

Link copied

Verse 2.55 (the highest stage — vaśīkāra-saṁjñā). "Then is he called sthita-prajña, Partha, when he has fully discarded all desires rooted in the heart, and when his mind is solely ātman-satisfied."

Link copied

Verse 2.56 (indriyajaya-saṁjñā). "He is called steady-willed whose mind is unagitated by pain, unelated by happiness, free from love, fear, and anger." The muni of profound contemplation on ātman.

Link copied

Verse 2.57 (vyatireka-saṁjñā). "His will is established who forms no attachments anywhere, neither exulting at the auspicious nor abhorring the inauspicious."

Link copied

Verse 2.58 (yatamāna-saṁjñā). "His will is installed who, like the tortoise indrawing its limbs, withdraws the senses from their objects."

Link copied

Verse 2.59–61. "From the embodied who starves the senses, sense-pleasures depart, save the craving. Even that departs when the Transcendent is seen. The turbulent senses forcibly seduce even the sedulous sage. Restraining them all and mind-collected, let him remain absorbed in Me. His wisdom is confirmed whose senses are under control."

Link copied

Ramanuja stresses the interdependence: without ātman-perception, craving does not cease; without sense-conquest, ātman-perception does not arise. The solution is to make the Lord the Holy Subject for the mind's occupation. "In the same way that blazing fire, fanned by wind, burns dry wood, so does Vishnu enthroned in the hearts of yogis burn up all sin" (Vishnu Purana).

Link copied

Verse 2.62–63. "To one who dotes on sense-objects, union with them is generated; from union, lust; from lust, wrath; from wrath, folly; from folly, dementation; from dementation, wreck of the will; from wreck of will, he perishes."

Link copied

The cascade of fall is inevitable for those who attempt sense-conquest without making the Lord the object of the mind.

Link copied

Verse 2.64–65. "With senses bereft of longings and loathings, under control, who rejects delights, his mind in his bidding, attains pellucidness of mind. Peace attained, all afflictions end. To the pure-minded, soon comes wisdom."

Link copied

Verse 2.66–68. "To the unconcentrated there is no illumination; to the un-illumined, no contemplation; to the uncontemplating, no tranquillity; to the untranquil, where is bliss? The mind that follows the roving senses steals away wisdom like wind a ship on water. Therefore, mighty-armed, whose senses have been withdrawn from their objects, his wisdom is established."

Link copied

Verse 2.69. "What is night to all creatures, then is the saṁyamī awake; when all creatures are awake, that is night to the seeing muni."

Link copied

Verse 2.70–71. "Like the waters entering a full and motionless ocean, when all desires enter the like-minded man, he attains peace — not the lust-craving man. Whoever, abandoning all desires, is free from longing, void of 'my-ness' and 'I-ness,' well attains to peace."

Link copied

Verse 2.72. "This is the Brāhmī-state, Partha; attaining it, one will not be deluded. Remaining in it, even in old age, he will attain Brahma-nirvāṇa."

Link copied

This is the work-performance based on knowledge of the eternal ātman, aimed at sthita-dhī — true wisdom. It is Brāhmī — it leads to Brahman. One who adopts this method, even in his declining years, will attain ātman, the seat of exclusive beatitude.

Link copied

Summary

To Sri Arjuna — ignorant of the nature of the ātman, mistaken that body is ātman, labouring under misconception, retired from battle — was declared the sāṅkhya-knowledge of the eternal ātman and the yoga-producing sthita-prajñatā, teaching karma-yoga: the philosophy of performing work disinterestedly, based on the sāṅkhya-knowledge. Yamunacharya's summary: "Ātman is eternal, and work is to be void of interest; the one is sāṅkhya-wisdom, the other yoga-wisdom; also the aim of the sthita-dhī — these are declared in the Second Lecture to cure Sri Arjuna's folly."

Link copied

Thus closes the Second Lecture, Sāṅkhya-yoga, with the commentary of Bhagavad Ramanuja, in the discourse between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita.

Link copied
Join our community