Bhagavad Gita Bhashya · Section 2 of 19
arjuna-viṣāda-yogo nāma prathamo'dhyāyaḥ
Sanskrit (IAST) · click to toggle
उपोद्घाटः
Link copiedयत्-पदाम्भोरुह-ध्यान-विध्वस्ताशेष-कल्मषः।
Link copiedवस्तुताम् उपयातोऽहꣳ यामुनेयꣳ नमामि तम्॥
Link copiedश्रियः पतिर् निखिल-हेय-प्रत्यनीक-कल्याणैक-तानः स्वेतर-समस्त-वस्तु-विलक्षणानन्त-ज्ञानानन्दैक-स्वरूपः, स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गण-महोदधिः, स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशय्ज्ज्वल्य-सौगन्ध्य-सौन्दर्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधिर् दिव्य-रूपः, स्वोचित-विविध-विचित्रानन्ताश्चर्य-नित्य-निरवद्यापरिमित-दिव्य-भूषणः, स्वानुरूपासङ्ख्येयाचिन्त्य-शक्ति-नित्य-निरवद्य-निरतिशय-कल्याण-दिव्यायुधः, स्वाभिमतानुरूप-नित्य-निरवद्य-स्वरूप-रूप-गुण-विभवैश्वर्य-शीलाद्य्-अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गण-श्री-वल्लभः, स्व-सङ्कल्पानुविधायि-स्वरूप-स्थिति-प्रवृत्ति-भेदाशेष-शेषतैक-रति-रूप-नित्य-निरवद्य-निरतिशय-ज्ञान-क्रियैश्वर्याद्य्-अनन्त-गुण-गणापरिमित-सूरिभिर् अनवरताभिष्टुत-चरण-युगलः, वाङ्-मनसापरिच्छेद्य-स्वरूप-स्वभावः, स्वोचित-विविध-विचित्रानन्त-भोग्य-भोगोपकरण-भोग-स्थान-समृद्धानन्ताश्चर्यानन्त-महा-विभवानन्त-परिमाण- नित्य-निरवद्याक्षर-परम-व्योम-निलयः, विविध-विचित्रानन्त-भोग्य-भोक्तृ-वर्ग-परिपूर्ण-निखिल-जगद्-उदय-विभव-लय-लीलः, परꣳ ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादि-स्थावरान्तꣳ निखिलꣳ जगत् सृष्ट्वा स्वेन रूपेणावस्थितः, ब्रह्मादि-देव-मनुष्याणाꣳ ध्यानाराधनाद्य्-अगोचरोऽपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-महोदधिः, स्वयम् एव रूपꣳ तत्-तत्-सजातीय-सꣳस्थानꣳ स्व-स्वभावम् अजहद् एव कुर्वꣳस् तेषु तेषु लोकेष्व् अवतीर्यावतीर्य तैस् तैर् आराधितः, तत्-तद्-इष्टानुरूपꣳ धर्मार्थ-काम-मोक्षाख्यꣳ फलꣳ प्रयच्छन्, भू-भारावतारणापदेशेनास्मद्-आदीनाम् अपि सꣳसार-दुःख-शमनाय समाश्रयणीयत्वायावतीर्योर्व्याꣳ सकल-मनुज-नयन-विषयताꣳ गतः, परावर-निखिल-जन-मनो-नयन-हारि-दिव्य-चेष्टितानि कुर्वन्, पूतना-शकट-यमलार्जुनारिष्ट-प्रलम्ब-धेनुक-कालिय-केशि-कुवलयापीड-चाणूर-मुष्टिक-तोसल-कꣳसादीन् निहत्य अनवधिक-दया-सौहार्दानुराग-गर्भावलोकनालापामृतैर् विश्वम् आप्याययन्, निरतिशय-सौन्दर्य-सौशील्यादि-गुणाविष्कारेणाक्रूर-मालाकारादीन् परम-भागवतान् कृत्वा, पाण्डु-तनय-युद्ध-प्रोत्साहन-व्याजेन परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया वेदान्तोदितꣳ स्व-विषयꣳ ज्ञान-कर्मानुगृहीतꣳ भक्ति-योगम् अवतारयामास।
Link copiedतत्र पाण्डवानाꣳ करुणाꣳ च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगद्-उपकृति-मर्त्य आश्रितवात्स्यल-विवशः पार्थꣳ रथिनम् आत्मानꣳ च सारथिꣳ सर्व-लोक-साक्षिकꣳ चकार। एवम् अर्जुनस्योत्कर्षꣳ ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधन-विजय-बुभुत्सया सञ्जयꣳ पप्रच्छ---
Link copiedधर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः।
Link copiedमामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय॥१॥
Link copiedसञ्जय उवाच
Link copiedदृष्ट्वा तु पाण्डवानीकꣳ व्यूढꣳ दुर्योधनस् तदा।
Link copiedआचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत्॥२॥
Link copiedपश्यैताꣳ पाण्डु-पुत्राणाम् आचार्य महतीꣳ चमूम्।
Link copiedव्यूढाꣳ द्रुपद-पुत्रेण तव शिष्येण धीमता॥३॥
Link copiedअत्र शूरा महेष्वासा भीमार्जुन-समा युधि।
Link copiedयुयुधानो विराटश् च द्रुपदश् च महारथः॥४॥
Link copiedधृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान्।
Link copiedपुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुङ्गवः॥५॥
Link copiedयुधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान्।
Link copiedसौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः॥६॥
Link copiedअस्माकꣳ तु विशिष्टा ये तान् निबोध द्विजोत्तम।
Link copiedनायका मम सैन्यस्य सꣳज्ञार्थꣳ तान् ब्रवीमि ते॥७॥
Link copiedभवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः।
Link copiedअश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः॥८॥
Link copiedअन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः।
Link copiedनाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः॥९॥
Link copiedअपर्याप्तꣳ तद् अस्माकꣳ बलꣳ भीष्माभिरक्षितम्।
Link copiedपर्याप्तꣳ त्व् इदम् एतेषाꣳ बलꣳ भीमाभिरक्षितम्॥१०॥
Link copiedअयनेषु च सर्वेषु यथा-भागम् अवस्थिताः।
Link copiedभीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि॥११॥
Link copiedदुर्योधनः स्वयम् एव भीमाभिरक्षितꣳ पाण्डवानाꣳ बलम्, आत्मीयꣳ च भीष्माभिरक्षितꣳ बलम् अवलोक्य आत्म-विजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्-विजये चापर्याप्तताम् आचार्याय निवेद्य, अन्तर् विषण्णोऽभवत्॥१।२-११॥
Link copiedतस्य सञ्जनयन् हर्षꣳ कुरु-वृद्धः पितामहः।
Link copiedसिꣳह-नादꣳ विनद्योच्चैः शङ्खꣳ दध्मौ प्रतापवान्॥१२॥
Link copiedततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः।
Link copiedसहसैवाभ्यहन्यन्त स शब्दस् तुमुलोऽभवत्॥१३॥
Link copiedतस्य विषादम् आलोक्य भीष्मस् तस्य हर्षꣳ जनयितुꣳ सिꣳह-नादꣳ शङ्खाध्मानꣳ च कृत्वा शङ्ख-भेरी-निनादैश् च विजयाभिशꣳसिनꣳ घोषꣳ चाकरयत्॥१।१२-१३॥
Link copiedततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ।
Link copiedमाधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः॥१४॥
Link copiedततस् तꣳ घोषम् आकर्ण्य सर्वेश्वरेश्वरः पार्थ-सारथी रथी च पाण्डु-तनयस् त्रैलोक्य-विजयोपकरण-भूते महति स्यन्दने स्थितौ त्रैलोक्यꣳ कम्पयन्तौ श्रीमत्-पाञ्चजन्य-देवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः॥१।१४॥
Link copiedपाञ्चजन्यꣳ हृषीकेशो देवदत्तꣳ धनञ्जयः।
Link copiedपौण्ड्रꣳ दध्मौ महा-शङ्खꣳ भीम-कर्मा वृकोदरः॥१५॥
Link copiedअनन्त-विजयꣳ राजा कुन्ती-पुत्रो युधिष्ठिरः।
Link copiedनकुलः सहदेवश् च सुघोष-मणिपुष्पकौ॥१६॥
Link copiedकाश्यश् च परमेष्वासः शिखण्डी च महा-रथः।
Link copiedधृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः॥१७॥
Link copiedद्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते।
Link copiedसौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्॥१८॥
Link copiedस घोषो धार्तराष्ट्राणाꣳ हृदयानि व्यदारयत्।
Link copiedनभश् च पृथिवीꣳ चैव तुमुलो व्यनुनादयन्॥१९॥
Link copiedततो युधिष्ठिरो वृकोदरादयश् च स्वकीयान् शङ्खान् पृथक् पृथक् प्रदध्मौः। स घोषो दुर्योधन-प्रमौखानाꣳ सर्वेषाम् एव भवत्-पुत्राणाꣳ हृदयानि बिभेद। अदयैव नष्टꣳ कुरूणाꣳ बलम् इति धार्तराष्ट्रा मेनिरे। एवꣳ तद्-विजयाभिकङ्क्षिणे धृतराष्ट्राय सञ्जयोऽकथयत्॥१।१५-१।१९॥
Link copiedअथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः।
Link copiedप्रवृत्ते शस्त्र-सम्पाते धनुर् उद्यम्य पाण्डवः॥२०॥
Link copiedहृषीकेशꣳ तदा वाक्यम् इदम् आह मही-पते।
Link copiedसेनयोर् उभयोर् मध्ये रथꣳ स्थापय मेऽच्युत॥२१॥
Link copiedयावद् एतान् निरीक्षेऽहꣳ योद्धु-कामान् अवस्थितान्।
Link copiedकैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे॥२२॥
Link copiedयोत्स्यमानान् अवेक्षेऽहꣳ य एतेऽत्र समागताः।
Link copiedधार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः॥२३॥
Link copiedएवम् उक्तो हृषीकेशो गुडाकेशेन भारत।
Link copiedसेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम्॥२४॥
Link copiedभीष्म-द्रोण-प्रमुखतः सर्वेषाꣳ च महीक्षिताम्।
Link copiedउवाच पार्थ पश्यैतान् समवेतान् कुरून् इति॥२५॥
Link copiedस च तेन चोदितस् तत्-क्षणाद् एव भीष्म-द्रोणादीनाꣳ सर्वेषाम् एव महीक्षिताꣳ पश्यताꣳ यथा चोदितम् अकरोत्। ईदृशी भवदीयानाꣳ विजय-स्थितिर् इति चावोचत्॥१।२५॥
Link copiedतत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान्।
Link copiedआचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीꣳस् तथा॥२६॥
Link copiedस तु पार्थो महा-मनाः परम-कारुणिको दीर्घ-बन्धुः परम-धार्मिकः स-भ्रातृको भवद्भिः अतिघोरैर् मारणैर् जतु-गृह-दाहादिभिर् असकृद्-वञ्चितोऽपि परम-पुरुष-सहायोऽपि हनिष्यमाणान् भवदीयान् विलोक्य बन्धु-स्नेहेन परया कृपया धर्माधर्म-भयेन चातिमात्र-स्विन्न-सर्व-गात्रः॥१।२६॥
Link copiedश्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि।
Link copiedतान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्॥२७॥
Link copiedकृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत्।
Link copiedदृष्ट्वेमꣳ स्वजनꣳ कृष्ण युयुत्सुꣳ समुपस्थितम्॥२८॥
Link copiedसीदन्ति मम गात्राणि मुखꣳ च परिशुष्यति।
Link copiedवेपथुश् च शरीरे मे रोमहर्षश् च जायते॥२९॥
Link copiedगाण्डीवꣳ स्रꣳसते हस्तात् त्वक् चैव परिदह्यते।
Link copiedन च शक्नोम्य् अवस्थातुꣳ भ्रमतीव च मे मनः॥३०॥
Link copiedनिमित्तानि च पश्यामि विपरीतानि केशव।
Link copiedन च श्रेयोऽनुपश्यामि हत्वा स्वजनम् आहवे॥३१॥
Link copiedन काङ्क्षे विजयꣳ कृष्ण न च राज्यꣳ सुखानि च।
Link copiedकिꣳ नो राज्येन गोविन्द किꣳ भोगैर् जीवितेन वा॥३२॥
Link copiedयेषाम् अर्थे काङ्क्षितꣳ नो राज्यꣳ भोगाः सुखानि च।
Link copiedत इमेऽवस्थिता युद्धे प्राणाꣳस् त्यक्त्वा धनानि च॥३३॥
Link copiedआचार्याः पितरः पुत्रास् तथैव च पितामहाः।
Link copiedमातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस् तथा॥३४॥
Link copiedएतान् न हन्तुम् इच्छामि घ्नतोऽपि मधुसूदन।
Link copiedअपि त्रैलोक्य-राज्यस्य हेतोः किꣳ नु मही-कृते॥३५॥
Link copiedनिहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन।
Link copiedपापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः॥३६॥
Link copiedतस्मान् नार्हा वयꣳ हन्तुꣳ धार्तराष्ट्रान् स्व-बान्धवान्।
Link copiedस्वजनꣳ हि कथꣳ हत्वा सुखिनः स्याम माधव॥३७॥
Link copiedयद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः।
Link copiedकुल-क्षय-कृतꣳ दोषꣳ मित्र-द्रोहे च पातकम्॥३८॥
Link copiedकथꣳ न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम्।
Link copiedकुल-क्षय-कृतꣳ दोषꣳ प्रपश्यद्भिर् जनार्दन॥३९॥
Link copiedकुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः।
Link copiedधर्मे नष्टे कुलꣳ कृत्स्नम् अधर्मोऽभिभवत्य् उत॥४०॥
Link copiedअधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः।
Link copiedस्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः॥४१॥
Link copiedसङ्करो नरकायैव कुल-घ्नानाꣳ कुलस्य च।
Link copiedपतन्ति पितरो ह्य् एषाꣳ लुप्त-पिण्डोदक-क्रियाः॥४२॥
Link copiedदोषैर् एतैः कुल-घ्नानाꣳ वर्ण-सङ्कर-कारकैः।
Link copiedउत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः॥४३॥
Link copiedउत्सन्न-कुल-धर्माणाꣳ मनुष्याणाꣳ जनार्दन।
Link copiedनरके नियतꣳ वासो भवतीत्य् अनुशुश्रुम॥४४॥
Link copiedअहो बत महत् पापꣳ कर्तुꣳ व्यवसिता वयम्।
Link copiedयद् राज्य-सुख-लोभेन हन्तुꣳ स्वजनम् उद्यताः॥४५॥
Link copiedयदि माम् अप्रतीकारम् अशस्त्रꣳ शस्त्र-पाणयः।
Link copiedधार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरꣳ भवेत्॥४६॥
Link copiedएवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्।
Link copiedविसृज्य सशरꣳ चापꣳ शोक-सꣳविग्न-मानसः॥४७॥
Link copiedसर्वथाहꣳ न योत्स्यामीत्य् उक्त्वा बन्धु-विश्लेष-जनित-शोक-सꣳविग्न-मानसः पार्थः स-शरꣳ चापꣳ विसृज्य रथोपस्थ उपाविशत्॥१।४७॥
Link copiedइति श्रीमद्-रामानुजाचार्य-विरचिते गीता-भाष्ये प्रथमोऽध्यायः॥१॥
Link copiedఉపోద్ఘాటః
Link copiedయత్-పదామ్భోరుహ-ధ్యాన-విధ్వస్తాశేష-కల్మషః।
Link copiedవస్తుతామ్ ఉపయాతోఽహṁ యామునేయṁ నమామి తమ్॥
Link copiedశ్రియః పతిర్ నిఖిల-హేయ-ప్రత్యనీక-కల్యాణైక-తానః స్వేతర-సమస్త-వస్తు-విలక్షణానన్త-జ్ఞానానన్దైక-స్వరూపః, స్వాభావికానవధికాతిశయ-జ్ఞాన-బలైశ్వర్య-వీర్య-శక్తి-తేజః-ప్రభృత్య్-అసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-మహోదధిః, స్వాభిమతానురూపైక-రూపాచిన్త్య-దివ్యాద్భుత-నిత్య-నిరవద్య-నిరతిశయ్జ్జ్వల్య-సౌగన్ధ్య-సౌన్దర్య-సౌకుమార్య-లావణ్య-యౌవనాద్య్-అనన్త-గుణ-నిధిర్ దివ్య-రూపః, స్వోచిత-వివిధ-విచిత్రానన్తాశ్చర్య-నిత్య-నిరవద్యాపరిమిత-దివ్య-భూషణః, స్వానురూపాసఙ్ఖ్యేయాచిన్త్య-శక్తి-నిత్య-నిరవద్య-నిరతిశయ-కల్యాణ-దివ్యాయుధః, స్వాభిమతానురూప-నిత్య-నిరవద్య-స్వరూప-రూప-గుణ-విభవైశ్వర్య-శీలాద్య్-అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణ-శ్రీ-వల్లభః, స్వ-సఙ్కల్పానువిధాయి-స్వరూప-స్థితి-ప్రవృత్తి-భేదాశేష-శేషతైక-రతి-రూప-నిత్య-నిరవద్య-నిరతిశయ-జ్ఞాన-క్రియైశ్వర్యాద్య్-అనన్త-గుణ-గణాపరిమిత-సూరిభిర్ అనవరతాభిష్టుత-చరణ-యుగలః, వాఙ్-మనసాపరిచ్ఛేద్య-స్వరూప-స్వభావః, స్వోచిత-వివిధ-విచిత్రానన్త-భోగ్య-భోగోపకరణ-భోగ-స్థాన-సమృద్ధానన్తాశ్చర్యానన్త-మహా-విభవానన్త-పరిమాణ- నిత్య-నిరవద్యాక్షర-పరమ-వ్యోమ-నిలయః, వివిధ-విచిత్రానన్త-భోగ్య-భోక్తృ-వర్గ-పరిపూర్ణ-నిఖిల-జగద్-ఉదయ-విభవ-లయ-లీలః, పరṁ బ్రహ్మ పురుషోత్తఓ నారాయణో బ్రహ్మాది-స్థావరాన్తṁ నిఖిలṁ జగత్ సృష్ట్వా స్వేన రూపేణావస్థితః, బ్రహ్మాది-దేవ-మనుష్యాణాṁ ధ్యానారాధనాద్య్-అగోచరోఽపార-కారుణ్య-సౌశీల్య-వాత్సల్యౌదార్య-మహోదధిః, స్వయమ్ ఏవ రూపṁ తత్-తత్-సజాతీయ-సṁస్థానṁ స్వ-స్వభావమ్ అజహద్ ఏవ కుర్వṁస్ తేషు తేషు లోకేష్వ్ అవతీర్యావతీర్య తైస్ తైర్ ఆరాధితః, తత్-తద్-ఇష్టానురూపṁ ధర్మార్థ-కామ-మోక్షాఖ్యṁ ఫలṁ ప్రయచ్ఛన్, భూ-భారావతారణాపదేశేనాస్మద్-ఆదీనామ్ అపి సṁసార-దుఃఖ-శమనాయ సమాశ్రయణీయత్వాయావతీర్యోర్వ్యాṁ సకల-మనుజ-నయన-విషయతాṁ గతః, పరావర-నిఖిల-జన-మనో-నయన-హారి-దివ్య-చేష్టితాని కుర్వన్, పూతనా-శకట-యమలార్జునారిష్ట-ప్రలమ్బ-ధేనుక-కాలియ-కేశి-కువలయాపీడ-చాణూర-ముష్టిక-తోసల-కṁసాదీన్ నిహత్య అనవధిక-దయా-సౌహార్దానురాగ-గర్భావలోకనాలాపామృతైర్ విశ్వమ్ ఆప్యాయయన్, నిరతిశయ-సౌన్దర్య-సౌశీల్యాది-గుణావిష్కారేణాక్రూర-మాలాకారాదీన్ పరమ-భాగవతాన్ కృత్వా, పాణ్డు-తనయ-యుద్ధ-ప్రోత్సాహన-వ్యాజేన పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనతయా వేదాన్తోదితṁ స్వ-విషయṁ జ్ఞాన-కర్మానుగృహీతṁ భక్తి-యోగమ్ అవతారయామాస।
Link copiedతత్ర పాణ్డవానాṁ కరుణాṁ చ యుద్ధే ప్రారబ్ధే స భగవాన్ పురుషోత్తమః సర్వేశ్వరేశ్వరో జగద్-ఉపకృతి-మర్త్య ఆశ్రితవాత్స్యల-వివశః పార్థṁ రథినమ్ ఆత్మానṁ చ సారథిṁ సర్వ-లోక-సాక్షికṁ చకార। ఏవమ్ అర్జునస్యోత్కర్షṁ జ్ఞాత్వాపి సర్వాత్మనాన్ధో ధృతరాష్ట్రః సుయోధన-విజయ-బుభుత్సయా సఞ్జయṁ పప్రచ్ఛ---
Link copiedధర్మ-క్షేత్రే కురు-క్షేత్రే సమవేతా యుయుత్సవః।
Link copiedమామకాః పాణ్డవాశ్ చైవ కిమ్ అకుర్వత సఞ్జయ॥౧॥
Link copiedసఞ్జయ ఉవాచ
Link copiedదృష్ట్వా తు పాణ్డవానీకṁ వ్యూఢṁ దుర్యోధనస్ తదా।
Link copiedఆచార్యమ్ ఉపసఙ్గమ్య రాజా వచనమ్ అబ్రవీత్॥౨॥
Link copiedపశ్యైతాṁ పాణ్డు-పుత్రాణామ్ ఆచార్య మహతీṁ చమూమ్।
Link copiedవ్యూఢాṁ ద్రుపద-పుత్రేణ తవ శిష్యేణ ధీమతా॥౩॥
Link copiedఅత్ర శూరా మహేష్వాసా భీమార్జున-సమా యుధి।
Link copiedయుయుధానో విరాటశ్ చ ద్రుపదశ్ చ మహారథః॥౪॥
Link copiedధృష్టకేతుశ్ చేకితానః కాశిరాజశ్ చ వీర్యవాన్।
Link copiedపురుజిత్ కున్తిభోజశ్ చ శైబ్యశ్ చ నర-పుఙ్గవః॥౫॥
Link copiedయుధామన్యుశ్ చ విక్రాన్త ఉత్తమౌజాశ్ చ వీర్యవాన్।
Link copiedసౌభద్రో ద్రౌపదేయాశ్ చ సర్వ ఏవ మహా-రథాః॥౬॥
Link copiedఅస్మాకṁ తు విశిష్టా యే తాన్ నిబోధ ద్విజోత్తమ।
Link copiedనాయకా మమ సైన్యస్య సṁజ్ఞార్థṁ తాన్ బ్రవీమి తే॥౭॥
Link copiedభవాన్ భీష్మశ్ చ కర్ణశ్ చ కృపశ్ చ సమితిఞ్జయః।
Link copiedఅశ్వత్థామా వికర్ణశ్ చ సౌమదత్తిర్ జయద్రథః॥౮॥
Link copiedఅన్యే చ బహవః శూరా మద్-అర్థే త్యక్త-జీవితాః।
Link copiedనానా-శస్త్ర-ప్రహరణాః సర్వే యుద్ధ-విశారదాః॥౯॥
Link copiedఅపర్యాప్తṁ తద్ అస్మాకṁ బలṁ భీష్మాభిరక్షితమ్।
Link copiedపర్యాప్తṁ త్వ్ ఇదమ్ ఏతేషాṁ బలṁ భీమాభిరక్షితమ్॥౧౦॥
Link copiedఅయనేషు చ సర్వేషు యథా-భాగమ్ అవస్థితాః।
Link copiedభీష్మమ్ ఏవాభిరక్షన్తు భవన్తః సర్వ ఏవ హి॥౧౧॥
Link copiedదుర్యోధనః స్వయమ్ ఏవ భీమాభిరక్షితṁ పాణ్డవానాṁ బలమ్, ఆత్మీయṁ చ భీష్మాభిరక్షితṁ బలమ్ అవలోక్య ఆత్మ-విజయే తస్య బలస్య పర్యాప్తతామ్ ఆత్మీయస్య బలస్య తద్-విజయే చాపర్యాప్తతామ్ ఆచార్యాయ నివేద్య, అన్తర్ విషణ్ణోఽభవత్॥౧।౨-౧౧॥
Link copiedతస్య సఞ్జనయన్ హర్షṁ కురు-వృద్ధః పితామహః।
Link copiedసిṁహ-నాదṁ వినద్యోచ్చైః శఙ్ఖṁ దధ్మౌ ప్రతాపవాన్॥౧౨॥
Link copiedతతః శఙ్ఖాశ్ చ భేర్యశ్ చ పణవానక-గోముఖాః।
Link copiedసహసైవాభ్యహన్యన్త స శబ్దస్ తుములోఽభవత్॥౧౩॥
Link copiedతస్య విషాదమ్ ఆలోక్య భీష్మస్ తస్య హర్షṁ జనయితుṁ సిṁహ-నాదṁ శఙ్ఖాధ్మానṁ చ కృత్వా శఙ్ఖ-భేరీ-నినాదైశ్ చ విజయాభిశṁసినṁ ఘోషṁ చాకరయత్॥౧।౧౨-౧౩॥
Link copiedతతః శ్వేతైర్ హయైర్ యుక్తే మహతి స్యన్దనే స్థితౌ।
Link copiedమాధవః పాణ్డవశ్ చైవ దివ్యౌ శఙ్ఖౌ ప్రదధ్మతుః॥౧౪॥
Link copiedతతస్ తṁ ఘోషమ్ ఆకర్ణ్య సర్వేశ్వరేశ్వరః పార్థ-సారథీ రథీ చ పాణ్డు-తనయస్ త్రైలోక్య-విజయోపకరణ-భూతే మహతి స్యన్దనే స్థితౌ త్రైలోక్యṁ కమ్పయన్తౌ శ్రీమత్-పాఞ్చజన్య-దేవదత్తౌ దివ్యౌ శఙ్ఖౌ ప్రదధ్మతుః॥౧।౧౪॥
Link copiedపాఞ్చజన్యṁ హృషీకేశో దేవదత్తṁ ధనఞ్జయః।
Link copiedపౌణ్డ్రṁ దధ్మౌ మహా-శఙ్ఖṁ భీమ-కర్మా వృకోదరః॥౧౫॥
Link copiedఅనన్త-విజయṁ రాజా కున్తీ-పుత్రో యుధిష్ఠిరః।
Link copiedనకులః సహదేవశ్ చ సుఘోష-మణిపుష్పకౌ॥౧౬॥
Link copiedకాశ్యశ్ చ పరమేష్వాసః శిఖణ్డీ చ మహా-రథః।
Link copiedధృష్టద్యుమ్నో విరాటశ్ చ సాత్యకిశ్ చాపరాజితః॥౧౭॥
Link copiedద్రుపదో ద్రౌపదేయాశ్ చ సర్వశః పృథివీ-పతే।
Link copiedసౌభద్రశ్ చ మహాబాహుః శఙ్ఖాన్ దధ్ముః పృథక్ పృథక్॥౧౮॥
Link copiedస ఘోషో ధార్తరాష్ట్రాణాṁ హృదయాని వ్యదారయత్।
Link copiedనభశ్ చ పృథివీṁ చైవ తుములో వ్యనునాదయన్॥౧౯॥
Link copiedతతో యుధిష్ఠిరో వృకోదరాదయశ్ చ స్వకీయాన్ శఙ్ఖాన్ పృథక్ పృథక్ ప్రదధ్మౌః। స ఘోషో దుర్యోధన-ప్రమౌఖానాṁ సర్వేషామ్ ఏవ భవత్-పుత్రాణాṁ హృదయాని బిభేద। అదయైవ నష్టṁ కురూణాṁ బలమ్ ఇతి ధార్తరాష్ట్రా మేనిరే। ఏవṁ తద్-విజయాభికఙ్క్షిణే ధృతరాష్ట్రాయ సఞ్జయోఽకథయత్॥౧।౧౫-౧।౧౯॥
Link copiedఅథ వ్యవస్థితాన్ దృష్ట్వా ధార్తరాష్ట్రాన్ కపి-ధ్వజః।
Link copiedప్రవృత్తే శస్త్ర-సమ్పాతే ధనుర్ ఉద్యమ్య పాణ్డవః॥౨౦॥
Link copiedహృషీకేశṁ తదా వాక్యమ్ ఇదమ్ ఆహ మహీ-పతే।
Link copiedసేనయోర్ ఉభయోర్ మధ్యే రథṁ స్థాపయ మేఽచ్యుత॥౨౧॥
Link copiedయావద్ ఏతాన్ నిరీక్షేఽహṁ యోద్ధు-కామాన్ అవస్థితాన్।
Link copiedకైర్ మయా సహ యోద్ధవ్యమ్ అస్మిన్ రణ-సముద్యమే॥౨౨॥
Link copiedయోత్స్యమానాన్ అవేక్షేఽహṁ య ఏతేఽత్ర సమాగతాః।
Link copiedధార్తరాష్ట్రస్య దుర్బుద్ధేర్ యుద్ధే ప్రియ-చికీర్షవః॥౨౩॥
Link copiedఏవమ్ ఉక్తో హృషీకేశో గుడాకేశేన భారత।
Link copiedసేనయోర్ ఉభయోర్ మధ్యే స్థాపయిత్వా రథోత్తమమ్॥౨౪॥
Link copiedభీష్మ-ద్రోణ-ప్రముఖతః సర్వేషాṁ చ మహీక్షితామ్।
Link copiedఉవాచ పార్థ పశ్యైతాన్ సమవేతాన్ కురూన్ ఇతి॥౨౫॥
Link copiedస చ తేన చోదితస్ తత్-క్షణాద్ ఏవ భీష్మ-ద్రోణాదీనాṁ సర్వేషామ్ ఏవ మహీక్షితాṁ పశ్యతాṁ యథా చోదితమ్ అకరోత్। ఈదృశీ భవదీయానాṁ విజయ-స్థితిర్ ఇతి చావోచత్॥౧।౨౫॥
Link copiedతత్రాపశ్యత్ స్థితాన్ పార్థః పితౄన్ అథ పితామహాన్।
Link copiedఆచార్యాన్ మాతులాన్ భ్రాతౄన్ పుత్రాన్ పౌత్రాన్ సఖీṁస్ తథా॥౨౬॥
Link copiedస తు పార్థో మహా-మనాః పరమ-కారుణికో దీర్ఘ-బన్ధుః పరమ-ధార్మికః స-భ్రాతృకో భవద్భిః అతిఘోరైర్ మారణైర్ జతు-గృహ-దాహాదిభిర్ అసకృద్-వఞ్చితోఽపి పరమ-పురుష-సహాయోఽపి హనిష్యమాణాన్ భవదీయాన్ విలోక్య బన్ధు-స్నేహేన పరయా కృపయా ధర్మాధర్మ-భయేన చాతిమాత్ర-స్విన్న-సర్వ-గాత్రః॥౧।౨౬॥
Link copiedశ్వశురాన్ సుహృదశ్ చైవ సేనయోర్ ఉభయోర్ అపి।
Link copiedతాన్ సమీక్ష్య స కౌన్తేయః సర్వాన్ బన్ధూన్ అవస్థితాన్॥౨౭॥
Link copiedకృపయా పరయావిష్టో విషీదన్న్ ఇదమ్ అబ్రవీత్।
Link copiedదృష్ట్వేమṁ స్వజనṁ కృష్ణ యుయుత్సుṁ సముపస్థితమ్॥౨౮॥
Link copiedసీదన్తి మమ గాత్రాణి ముఖṁ చ పరిశుష్యతి।
Link copiedవేపథుశ్ చ శరీరే మే రోమహర్షశ్ చ జాయతే॥౨౯॥
Link copiedగాణ్డీవṁ స్రṁసతే హస్తాత్ త్వక్ చైవ పరిదహ్యతే।
Link copiedన చ శక్నోమ్య్ అవస్థాతుṁ భ్రమతీవ చ మే మనః॥౩౦॥
Link copiedనిమిత్తాని చ పశ్యామి విపరీతాని కేశవ।
Link copiedన చ శ్రేయోఽనుపశ్యామి హత్వా స్వజనమ్ ఆహవే॥౩౧॥
Link copiedన కాఙ్క్షే విజయṁ కృష్ణ న చ రాజ్యṁ సుఖాని చ।
Link copiedకిṁ నో రాజ్యేన గోవిన్ద కిṁ భోగైర్ జీవితేన వా॥౩౨॥
Link copiedయేషామ్ అర్థే కాఙ్క్షితṁ నో రాజ్యṁ భోగాః సుఖాని చ।
Link copiedత ఇమేఽవస్థితా యుద్ధే ప్రాణాṁస్ త్యక్త్వా ధనాని చ॥౩౩॥
Link copiedఆచార్యాః పితరః పుత్రాస్ తథైవ చ పితామహాః।
Link copiedమాతులాః శ్వశురాః పౌత్రాః శ్యాలాః సమ్బన్ధినస్ తథా॥౩౪॥
Link copiedఏతాన్ న హన్తుమ్ ఇచ్ఛామి ఘ్నతోఽపి మధుసూదన।
Link copiedఅపి త్రైలోక్య-రాజ్యస్య హేతోః కిṁ ను మహీ-కృతే॥౩౫॥
Link copiedనిహత్య ధార్తరాష్ట్రాన్ నః కా ప్రీతిః స్యాజ్ జనార్దన।
Link copiedపాపమ్ ఏవాశ్రయేద్ అస్మాన్ హత్వైతాన్ ఆతతాయినః॥౩౬॥
Link copiedతస్మాన్ నార్హా వయṁ హన్తుṁ ధార్తరాష్ట్రాన్ స్వ-బాన్ధవాన్।
Link copiedస్వజనṁ హి కథṁ హత్వా సుఖినః స్యామ మాధవ॥౩౭॥
Link copiedయద్య్ అప్య్ ఏతే న పశ్యన్తి లోభోపహత-చేతసః।
Link copiedకుల-క్షయ-కృతṁ దోషṁ మిత్ర-ద్రోహే చ పాతకమ్॥౩౮॥
Link copiedకథṁ న జ్ఞేయమ్ అస్మాభిః పాపాద్ అస్మాన్ నివర్తితుమ్।
Link copiedకుల-క్షయ-కృతṁ దోషṁ ప్రపశ్యద్భిర్ జనార్దన॥౩౯॥
Link copiedకుల-క్షయే ప్రణశ్యన్తి కుల-ధర్మాః సనాతనాః।
Link copiedధర్మే నష్టే కులṁ కృత్స్నమ్ అధర్మోఽభిభవత్య్ ఉత॥౪౦॥
Link copiedఅధర్మాభిభవాత్ కృష్ణ ప్రదుష్యన్తి కుల-స్త్రియః।
Link copiedస్త్రీషు దుష్టాసు వార్ష్ణేయ జాయతే వర్ణ-సఙ్కరః॥౪౧॥
Link copiedసఙ్కరో నరకాయైవ కుల-ఘ్నానాṁ కులస్య చ।
Link copiedపతన్తి పితరో హ్య్ ఏషాṁ లుప్త-పిణ్డోదక-క్రియాః॥౪౨॥
Link copiedదోషైర్ ఏతైః కుల-ఘ్నానాṁ వర్ణ-సఙ్కర-కారకైః।
Link copiedఉత్సాద్యన్తే జాతి-ధర్మాః కుల-ధర్మాశ్ చ శాశ్వతాః॥౪౩॥
Link copiedఉత్సన్న-కుల-ధర్మాణాṁ మనుష్యాణాṁ జనార్దన।
Link copiedనరకే నియతṁ వాసో భవతీత్య్ అనుశుశ్రుమ॥౪౪॥
Link copiedఅహో బత మహత్ పాపṁ కర్తుṁ వ్యవసితా వయమ్।
Link copiedయద్ రాజ్య-సుఖ-లోభేన హన్తుṁ స్వజనమ్ ఉద్యతాః॥౪౫॥
Link copiedయది మామ్ అప్రతీకారమ్ అశస్త్రṁ శస్త్ర-పాణయః।
Link copiedధార్తరాష్ట్రా రణే హన్యుస్ తన్ మే క్షేమతరṁ భవేత్॥౪౬॥
Link copiedఏవమ్ ఉక్త్వార్జునః సఙ్ఖ్యే రథోపస్థ ఉపావిశత్।
Link copiedవిసృజ్య సశరṁ చాపṁ శోక-సṁవిగ్న-మానసః॥౪౭॥
Link copiedసర్వథాహṁ న యోత్స్యామీత్య్ ఉక్త్వా బన్ధు-విశ్లేష-జనిత-శోక-సṁవిగ్న-మానసః పార్థః స-శరṁ చాపṁ విసృజ్య రథోపస్థ ఉపావిశత్॥౧।౪౭॥
Link copiedఇతి శ్రీమద్-రామానుజాచార్య-విరచితే గీతా-భాష్యే ప్రథమోఽధ్యాయః॥౧॥
Link copiedupodghāṭaḥ
Link copiedyat-padāmbhoruha-dhyāna-vidhvastāśeṣa-kalmaṣaḥ|
Link copiedvastutām upayāto'haṁ yāmuneyaṁ namāmi tam||
Link copiedśriyaḥ patir nikhila-heya-pratyanīka-kalyāṇaika-tānaḥ svetara-samasta-vastu-vilakṣaṇānanta-jñānānandaika-svarūpaḥ, svābhāvikānavadhikātiśaya-jñāna-balaiśvarya-vīrya-śakti-tejaḥ-prabhṛty-asaṅkhyeya-kalyāṇa-guṇa-gaṇa-mahodadhiḥ, svābhimatānurūpaika-rūpācintya-divyādbhuta-nitya-niravadya-niratiśayjjvalya-saugandhya-saundarya-saukumārya-lāvaṇya-yauvanādy-ananta-guṇa-nidhir divya-rūpaḥ, svocita-vividha-vicitrānantāścarya-nitya-niravadyāparimita-divya-bhūṣaṇaḥ, svānurūpāsaṅkhyeyācintya-śakti-nitya-niravadya-niratiśaya-kalyāṇa-divyāyudhaḥ, svābhimatānurūpa-nitya-niravadya-svarūpa-rūpa-guṇa-vibhavaiśvarya-śīlādy-anavadhikātiśayāsaṅkhyeya-kalyāṇa-guṇa-gaṇa-śrī-vallabhaḥ, sva-saṅkalpānuvidhāyi-svarūpa-sthiti-pravṛtti-bhedāśeṣa-śeṣataika-rati-rūpa-nitya-niravadya-niratiśaya-jñāna-kriyaiśvaryādy-ananta-guṇa-gaṇāparimita-sūribhir anavaratābhiṣṭuta-caraṇa-yugalaḥ, vāṅ-manasāparicchedya-svarūpa-svabhāvaḥ, svocita-vividha-vicitrānanta-bhogya-bhogopakaraṇa-bhoga-sthāna-samṛddhānantāścaryānanta-mahā-vibhavānanta-parimāṇa- nitya-niravadyākṣara-parama-vyoma-nilayaḥ, vividha-vicitrānanta-bhogya-bhoktṛ-varga-paripūrṇa-nikhila-jagad-udaya-vibhava-laya-līlaḥ, paraṁ brahma puruṣottao nārāyaṇo brahmādi-sthāvarāntaṁ nikhilaṁ jagat sṛṣṭvā svena rūpeṇāvasthitaḥ, brahmādi-deva-manuṣyāṇāṁ dhyānārādhanādy-agocaro'pāra-kāruṇya-sauśīlya-vātsalyaudārya-mahodadhiḥ, svayam eva rūpaṁ tat-tat-sajātīya-saṁsthānaṁ sva-svabhāvam ajahad eva kurvaṁs teṣu teṣu lokeṣv avatīryāvatīrya tais tair ārādhitaḥ, tat-tad-iṣṭānurūpaṁ dharmārtha-kāma-mokṣākhyaṁ phalaṁ prayacchan, bhū-bhārāvatāraṇāpadeśenāsmad-ādīnām api saṁsāra-duḥkha-śamanāya samāśrayaṇīyatvāyāvatīryorvyāṁ sakala-manuja-nayana-viṣayatāṁ gataḥ, parāvara-nikhila-jana-mano-nayana-hāri-divya-ceṣṭitāni kurvan, pūtanā-śakaṭa-yamalārjunāriṣṭa-pralamba-dhenuka-kāliya-keśi-kuvalayāpīḍa-cāṇūra-muṣṭika-tosala-kaṁsādīn nihatya anavadhika-dayā-sauhārdānurāga-garbhāvalokanālāpāmṛtair viśvam āpyāyayan, niratiśaya-saundarya-sauśīlyādi-guṇāviṣkāreṇākrūra-mālākārādīn parama-bhāgavatān kṛtvā, pāṇḍu-tanaya-yuddha-protsāhana-vyājena parama-puruṣārtha-lakṣaṇa-mokṣa-sādhanatayā vedāntoditaṁ sva-viṣayaṁ jñāna-karmānugṛhītaṁ bhakti-yogam avatārayāmāsa|
Link copiedtatra pāṇḍavānāṁ karuṇāṁ ca yuddhe prārabdhe sa bhagavān puruṣottamaḥ sarveśvareśvaro jagad-upakṛti-martya āśritavātsyala-vivaśaḥ pārthaṁ rathinam ātmānaṁ ca sārathiṁ sarva-loka-sākṣikaṁ cakāra| evam arjunasyotkarṣaṁ jñātvāpi sarvātmanāndho dhṛtarāṣṭraḥ suyodhana-vijaya-bubhutsayā sañjayaṁ papraccha---
Link copieddharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ|
Link copiedmāmakāḥ pāṇḍavāś caiva kim akurvata sañjaya||1||
Link copiedsañjaya uvāca
Link copieddṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā|
Link copiedācāryam upasaṅgamya rājā vacanam abravīt||2||
Link copiedpaśyaitāṁ pāṇḍu-putrāṇām ācārya mahatīṁ camūm|
Link copiedvyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatā||3||
Link copiedatra śūrā maheṣvāsā bhīmārjuna-samā yudhi|
Link copiedyuyudhāno virāṭaś ca drupadaś ca mahārathaḥ||4||
Link copieddhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān|
Link copiedpurujit kuntibhojaś ca śaibyaś ca nara-puṅgavaḥ||5||
Link copiedyudhāmanyuś ca vikrānta uttamaujāś ca vīryavān|
Link copiedsaubhadro draupadeyāś ca sarva eva mahā-rathāḥ||6||
Link copiedasmākaṁ tu viśiṣṭā ye tān nibodha dvijottama|
Link copiednāyakā mama sainyasya saṁjñārthaṁ tān bravīmi te||7||
Link copiedbhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ|
Link copiedaśvatthāmā vikarṇaś ca saumadattir jayadrathaḥ||8||
Link copiedanye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ|
Link copiednānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ||9||
Link copiedaparyāptaṁ tad asmākaṁ balaṁ bhīṣmābhirakṣitam|
Link copiedparyāptaṁ tv idam eteṣāṁ balaṁ bhīmābhirakṣitam||10||
Link copiedayaneṣu ca sarveṣu yathā-bhāgam avasthitāḥ|
Link copiedbhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi||11||
Link copiedduryodhanaḥ svayam eva bhīmābhirakṣitaṁ pāṇḍavānāṁ balam, ātmīyaṁ ca bhīṣmābhirakṣitaṁ balam avalokya ātma-vijaye tasya balasya paryāptatām ātmīyasya balasya tad-vijaye cāparyāptatām ācāryāya nivedya, antar viṣaṇṇo'bhavat||1.2-11||
Link copiedtasya sañjanayan harṣaṁ kuru-vṛddhaḥ pitāmahaḥ|
Link copiedsiṁha-nādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān||12||
Link copiedtataḥ śaṅkhāś ca bheryaś ca paṇavānaka-gomukhāḥ|
Link copiedsahasaivābhyahanyanta sa śabdas tumulo'bhavat||13||
Link copiedtasya viṣādam ālokya bhīṣmas tasya harṣaṁ janayituṁ siṁha-nādaṁ śaṅkhādhmānaṁ ca kṛtvā śaṅkha-bherī-ninādaiś ca vijayābhiśaṁsinaṁ ghoṣaṁ cākarayat||1.12-13||
Link copiedtataḥ śvetair hayair yukte mahati syandane sthitau|
Link copiedmādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ||14||
Link copiedtatas taṁ ghoṣam ākarṇya sarveśvareśvaraḥ pārtha-sārathī rathī ca pāṇḍu-tanayas trailokya-vijayopakaraṇa-bhūte mahati syandane sthitau trailokyaṁ kampayantau śrīmat-pāñcajanya-devadattau divyau śaṅkhau pradadhmatuḥ||1.14||
Link copiedpāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ|
Link copiedpauṇḍraṁ dadhmau mahā-śaṅkhaṁ bhīma-karmā vṛkodaraḥ||15||
Link copiedananta-vijayaṁ rājā kuntī-putro yudhiṣṭhiraḥ|
Link copiednakulaḥ sahadevaś ca sughoṣa-maṇipuṣpakau||16||
Link copiedkāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahā-rathaḥ|
Link copieddhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ||17||
Link copieddrupado draupadeyāś ca sarvaśaḥ pṛthivī-pate|
Link copiedsaubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak||18||
Link copiedsa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat|
Link copiednabhaś ca pṛthivīṁ caiva tumulo vyanunādayan||19||
Link copiedtato yudhiṣṭhiro vṛkodarādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmauḥ| sa ghoṣo duryodhana-pramaukhānāṁ sarveṣām eva bhavat-putrāṇāṁ hṛdayāni bibheda| adayaiva naṣṭaṁ kurūṇāṁ balam iti dhārtarāṣṭrā menire| evaṁ tad-vijayābhikaṅkṣiṇe dhṛtarāṣṭrāya sañjayo'kathayat||1.15-1.19||
Link copiedatha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ|
Link copiedpravṛtte śastra-sampāte dhanur udyamya pāṇḍavaḥ||20||
Link copiedhṛṣīkeśaṁ tadā vākyam idam āha mahī-pate|
Link copiedsenayor ubhayor madhye rathaṁ sthāpaya me'cyuta||21||
Link copiedyāvad etān nirīkṣe'haṁ yoddhu-kāmān avasthitān|
Link copiedkair mayā saha yoddhavyam asmin raṇa-samudyame||22||
Link copiedyotsyamānān avekṣe'haṁ ya ete'tra samāgatāḥ|
Link copieddhārtarāṣṭrasya durbuddher yuddhe priya-cikīrṣavaḥ||23||
Link copiedevam ukto hṛṣīkeśo guḍākeśena bhārata|
Link copiedsenayor ubhayor madhye sthāpayitvā rathottamam||24||
Link copiedbhīṣma-droṇa-pramukhataḥ sarveṣāṁ ca mahīkṣitām|
Link copieduvāca pārtha paśyaitān samavetān kurūn iti||25||
Link copiedsa ca tena coditas tat-kṣaṇād eva bhīṣma-droṇādīnāṁ sarveṣām eva mahīkṣitāṁ paśyatāṁ yathā coditam akarot| īdṛśī bhavadīyānāṁ vijaya-sthitir iti cāvocat||1.25||
Link copiedtatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān|
Link copiedācāryān mātulān bhrātṝn putrān pautrān sakhīṁs tathā||26||
Link copiedsa tu pārtho mahā-manāḥ parama-kāruṇiko dīrgha-bandhuḥ parama-dhārmikaḥ sa-bhrātṛko bhavadbhiḥ atighorair māraṇair jatu-gṛha-dāhādibhir asakṛd-vañcito'pi parama-puruṣa-sahāyo'pi haniṣyamāṇān bhavadīyān vilokya bandhu-snehena parayā kṛpayā dharmādharma-bhayena cātimātra-svinna-sarva-gātraḥ||1.26||
Link copiedśvaśurān suhṛdaś caiva senayor ubhayor api|
Link copiedtān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān||27||
Link copiedkṛpayā parayāviṣṭo viṣīdann idam abravīt|
Link copieddṛṣṭvemaṁ svajanaṁ kṛṣṇa yuyutsuṁ samupasthitam||28||
Link copiedsīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati|
Link copiedvepathuś ca śarīre me romaharṣaś ca jāyate||29||
Link copiedgāṇḍīvaṁ sraṁsate hastāt tvak caiva paridahyate|
Link copiedna ca śaknomy avasthātuṁ bhramatīva ca me manaḥ||30||
Link copiednimittāni ca paśyāmi viparītāni keśava|
Link copiedna ca śreyo'nupaśyāmi hatvā svajanam āhave||31||
Link copiedna kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca|
Link copiedkiṁ no rājyena govinda kiṁ bhogair jīvitena vā||32||
Link copiedyeṣām arthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca|
Link copiedta ime'vasthitā yuddhe prāṇāṁs tyaktvā dhanāni ca||33||
Link copiedācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ|
Link copiedmātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā||34||
Link copiedetān na hantum icchāmi ghnato'pi madhusūdana|
Link copiedapi trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛte||35||
Link copiednihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana|
Link copiedpāpam evāśrayed asmān hatvaitān ātatāyinaḥ||36||
Link copiedtasmān nārhā vayaṁ hantuṁ dhārtarāṣṭrān sva-bāndhavān|
Link copiedsvajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava||37||
Link copiedyady apy ete na paśyanti lobhopahata-cetasaḥ|
Link copiedkula-kṣaya-kṛtaṁ doṣaṁ mitra-drohe ca pātakam||38||
Link copiedkathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum|
Link copiedkula-kṣaya-kṛtaṁ doṣaṁ prapaśyadbhir janārdana||39||
Link copiedkula-kṣaye praṇaśyanti kula-dharmāḥ sanātanāḥ|
Link copieddharme naṣṭe kulaṁ kṛtsnam adharmo'bhibhavaty uta||40||
Link copiedadharmābhibhavāt kṛṣṇa praduṣyanti kula-striyaḥ|
Link copiedstrīṣu duṣṭāsu vārṣṇeya jāyate varṇa-saṅkaraḥ||41||
Link copiedsaṅkaro narakāyaiva kula-ghnānāṁ kulasya ca|
Link copiedpatanti pitaro hy eṣāṁ lupta-piṇḍodaka-kriyāḥ||42||
Link copieddoṣair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ|
Link copiedutsādyante jāti-dharmāḥ kula-dharmāś ca śāśvatāḥ||43||
Link copiedutsanna-kula-dharmāṇāṁ manuṣyāṇāṁ janārdana|
Link copiednarake niyataṁ vāso bhavatīty anuśuśruma||44||
Link copiedaho bata mahat pāpaṁ kartuṁ vyavasitā vayam|
Link copiedyad rājya-sukha-lobhena hantuṁ svajanam udyatāḥ||45||
Link copiedyadi mām apratīkāram aśastraṁ śastra-pāṇayaḥ|
Link copieddhārtarāṣṭrā raṇe hanyus tan me kṣemataraṁ bhavet||46||
Link copiedevam uktvārjunaḥ saṅkhye rathopastha upāviśat|
Link copiedvisṛjya saśaraṁ cāpaṁ śoka-saṁvigna-mānasaḥ||47||
Link copiedsarvathāhaṁ na yotsyāmīty uktvā bandhu-viśleṣa-janita-śoka-saṁvigna-mānasaḥ pārthaḥ sa-śaraṁ cāpaṁ visṛjya rathopastha upāviśat||1.47||
Link copiediti śrīmad-rāmānujācārya-viracite gītā-bhāṣye prathamo'dhyāyaḥ||1||
Link copiedEnglish · simplified from Thibaut (1904)
Lecture 1 — The Theme of Arjuna's Melancholy (in Sanskrit: Arjuna-viṣāda-yoga)
The Bhagavad Gita opens not with a teaching but with a collapse. On the field of Kurukshetra, between two armies drawn up for battle, the warrior Sri Arjuna lets fall his bow and sits down in sorrow. His grief — triggered by the sight of kinsmen, teachers, and elders arrayed as enemies — is the occasion that calls forth the whole Gita. Bhagavad Ramanuja treats this collapse as a spiritual crisis: Arjuna mistakes the body for the self, he confuses rightful duty with unrighteousness, and he takes refuge in a pity that looks noble but is in truth rooted in delusion.
Link copiedProem — Salutations and the purpose of the Gita
Bhagavad Ramanuja opens his commentary by bowing at the feet of his own preceptor-lineage, beginning with the great Yamunacharya, whose summary verse gives the keynote of the entire chapter: "The Gita was introduced to Partha who sought refuge, fearing right's wrong, by misplaced love and pity caught."
Link copiedThe invocatory verse placed at the head of the commentary addresses the devotee's heart directly: "To the feet of Blessed Ramanuja, do I resort as my Refuge — Bhagavad Ramanuja, Mercy's Ocean, who, from his love of the lotus-feet of Achyuta, regarded everything else as trivial." Achyuta — "He who does not abandon those who trust Him" — is itself a theological pledge: the Lord is the One who never forsakes the soul that has taken refuge.
Link copiedRamanuja then lays down a sublime meditation on the Lord of Sri. Sriman Narayana, consort of Sri Lakshmi, is described as the sole Reservoir of all illustrious attributes and the antithesis of all evil (heya). He possesses jñāna (wisdom), ānanda (bliss), bala (strength), aiśvarya (sovereignty), vīrya (constancy), śakti (power), and tejas (lustre) — the six chief qualities. His divine form is a mine of effulgence, beauty, and eternal youth. He is adorned with transcendental ornaments and accoutred with divine weapons, ever attended by the Nitya-sūris — the eternally free souls who sing His praise. He dwells in the imperishable firmament (akṣara), and the whole universe is but His līlā (sovereign play) in its three modes of projection, sustentation, and dissolution.
Link copiedThough the Lord, having created the cosmos from Brahma down to the immovable mineral kingdom, retired into His own Self — so that even to the meditations of Brahma and the devas He became incognizant — yet, moved by infinite mercy, He willed to assume bodies resembling those of His creatures. These are His avatāras, His descents. Never abandoning His essential divine nature, He enters our world to grant the four aspirations: dharma, artha, kāma, and mokṣa. The object of every incarnation is to relieve the earth of sin's burden and to make Himself accessible to people even of our sinful description.
Link copiedAs Sri Krishna, He destroyed the demonic oppressors of society — Putana, Sakata, Yamala and Arjuna (the twin trees), Arishta, Pralamba, Dhenuka, Kaliya, Kesi, Kuvalayapida, Chanura, Mushtika, Thosala, Kamsa — and delighted the worlds with looks and language overflowing with the nectar of amity and love. Saints such as Akrura and Malakara became most godly — very saints — simply enraptured by His condescending deportment and presence.
Link copiedRamanuja's language here is deliberately theologically dense. The Lord has five aspects: para (transcendent), vyūha (emanatory), vibhava (incarnational), antaryāmin (indweller), and arcāvatāra (the icon-presence at consecrated shrines). Incarnations as Sri Rama and Sri Krishna belong to the vibhava aspect. The sūris who ever sing His praise correspond to what the Gnostic Christian tradition called the "Eternal Inheritances." His beloved Sri — Sri Lakshmi — is śraddhā herself: the mediatrix by whom the soul approaches the Lord.
Link copiedUnder the pretext of persuading Sri Arjuna to fight, Sri Krishna now promulgates the doctrine of bhakti-yoga — the path of loving devotion which is the burden of all Vedanta teaching, led up to by jñāna (wisdom) and karma (works). Through bhakti, the Lord is revealed as the sole Object of love and also the Means by which devotees attain the climax of their ambition: mokṣa, final liberation from all conditioned existence. This is why, when Kauravas and Pandavas faced each other in war, Bhagavan — God of gods — appeared as the Charioteer of Sri Arjuna, allowing Himself to be overpowered by love for His faithful dependent, so that the whole universe might witness His condescension.
Link copiedVerses 1–11 (The armies assemble; the conches sound)
Verse 1.1. Dhritarashtra said: "O Sanjaya! What did my people and the Pandavas do, assembled on the plains of Kurukshetra, the land of dharma, to carry on war?"
Link copiedThough blind both physically and spiritually, Dhritarashtra inquires anxiously about the fortunes of his son Duryodhana.
Link copiedVerse 1.2–11. Sanjaya narrates how Duryodhana, surveying the Pandava forces marshalled by Dhrishtadyumna, approaches his teacher Drona and points out the great heroes: Yuyudhana, Virata, Drupada, Dhrishtaketu, Chekitana, the king of Kasi, Purujit, Kunti-bhoja, Saibya, Uttamaujas, the son of Subhadra, and the sons of Draupadi. He then names his own commanders: Bhishma, Karna, Kripa, Asvatthama, Vikarna, and Saumadatti, asking them all to fortify Bhishma.
Link copiedDuryodhana's anxiety is visible. Perceiving this, Bhishma lets out a lion's roar and blows his conch, setting off a tumult of drums, trumpets, and cowhorns.
Link copiedVerses 12–19 (The divine conches answer)
Verse 1.14–19. Thereupon Sri Krishna (Madhava) and Sri Arjuna (Pandava), seated in their great war-chariot drawn by white horses, blow their divine conches. Hrishikesa sounds the Pāñcajanya — made from the bones of the giant Pancajana of the ocean; Dhananjaya sounds the Devadatta; Bhima the Paundra; Yudhishthira the Anantavijaya; Nakula and Sahadeva the Sughosha and Manipushpaka. Kasya, Sikhandi, Dhrishtadyumna, Virata, Satyaki, Drupada, the Draupadeyas, and the son of Subhadra each blew their conches. The din rent the hearts of Dhritarashtra's men and filled earth and sky.
Link copiedRamanuja notes the theological weight: the Charioteer is no ordinary man but the Lord of all lords, the Treasury of wisdom, strength, lordliness, constancy, power, and lustre; Him, to whom the triple cosmos is but sport; Him, the Supreme Governor — who, out of condescending love for His faithful, took the role of Charioteer and stationed the car between the two armies at Sri Arjuna's bidding.
Link copiedVerses 20–30 (Arjuna's request and his weakening)
Verse 1.20–25. Sri Arjuna asks Hrishikesa to draw up the chariot between the two armies so that he may see those who stand ready to fight. Krishna complies and says: "See then, Partha, these Kurus assembled here."
Link copiedVerse 1.26–27. Sri Arjuna sees there his fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, comrades, fathers-in-law, friends, and kinsmen arrayed in both armies.
Link copiedRamanuja pauses here on the full weight of this survey. Sri Arjuna is no ordinary warrior observing a strange enemy; he is the intimate of every man on both sides. Every face he sees is the face of a relation. The Charioteer who has stationed the car between the armies has done so precisely that this recognition might dawn — and, with it, the crisis that will call forth the entire teaching of the Gita.
Link copiedVerse 1.28–30. Overcome by compassion, Sri Arjuna speaks in sorrow: "Beholding my own people standing to fight, O Krishna, my limbs quake, my mouth dries up, my frame quivers, my hair stands on end. The Gandiva bow slips from my hand; my skin burns; my legs totter; my head swims."
Link copiedVerses 31–46 (The lament: caste, ancestors, the web of consequence)
Verse 1.31–35. "Kesava, I perceive inauspicious omens; what good can come from slaughtering my own people? I desire no victory, no empire, no delights. What use, Govinda, is rule or enjoyment, or even life, when those for whom we would enjoy them stand risking their lives for this contest — teachers, sires, sons, grandsons, uncles, brothers-in-law, cousins? Madhusudana, I would rather be killed by them than kill them, even if the three worlds were my reward."
Link copiedVerse 1.36–38. "Janardana, what satisfaction comes from slaying the hosts of Dhritarashtra? To slay them would only bring sin upon us. Though their hearts, overrun with greed, fail to see the ruin of their race and the treachery of betraying friends, how should we — who can see the danger of the extinction of a clan — not know to avoid this sin?"
Link copiedVerse 1.40–44. Sri Arjuna develops the elaborate social argument: when a race declines, so does its dharma; when dharma declines, unrighteousness (adharma) spreads; when unrighteousness holds sway, family women become corrupted; from corruption of women comes the intermingling of castes (varṇa-saṅkara); such intermingling is damnation to both the caste-breakers and the castes themselves. Deprived of the offerings of food, water, and rites, the manes (pitaraḥ) of these men fall. By such faults, the ancient dharmas of race and caste are disregarded and broken. For those from whom clan-laws have departed, the scripture teaches that naraka (hell) is the inevitable residence.
Link copiedVerse 1.45–47. "Alas! Coveting possessions and enjoyments, how strange that we were about to commit an atrocious sin by massacring our kinsmen. It would be a far greater benefit if, unresisting and unarmed, I were killed on the battlefield by the armed hosts of Dhritarashtra." So saying, agitated with grief, Sri Arjuna let go his arrowed bow and sat down in his chariot between the two armies.
Link copiedRamanuja observes the subtle inversion of wisdom inside this lament. Sri Arjuna speaks of ancestors falling from their spiritual stations, of the collapse of clan-dharma, of the intermingling of castes, of hell — language that seems to presuppose a clear spiritual vision. He speaks, in fact, as if he knew the difference between body and soul. Yet his whole action — the dropping of the bow, the refusal of rightful kṣatriya duty, the flight from his own ordained svadharma — belongs to a man who does not know this distinction. He is confusing body with ātman; he imagines that bodies dying means souls perishing; he imagines that withholding his bow is itself a virtue when it is in truth the abdication of a righteous duty. This is why the Lord, in the next lecture, will begin precisely at this point — the nature of the ātman — rather than with any immediate advice about the battle.
Link copiedRamanuja's summation
Sanjaya reports Partha's condition to Dhritarashtra. Bhagavad Ramanuja's commentary crystallises the spiritual picture here: Sri Arjuna is the most noble-minded, the most compassionate, the eternal kinsman, the most virtuous — and yet, though he knows that with Paramapurusha Himself present beside him the destruction of Dhritarashtra's people is certain, he still looks on them with feelings of friendship, overcome by pity and by fear that righteousness may suffer. Shrinking within himself, he declares: "In no case whatsoever shall I fight." He then becomes most dejected, grieved at the thought of separation from kin, letting go his arrowed bow, and sits down in his chariot.
Link copiedThis is the crisis that Sri Krishna will meet. Sri Arjuna's pity is not the compassion of a sage but the confusion of a man who does not yet know the distinction between body and ātman, nor the scope of lawful kṣatriya duty, nor the proper orientation of action towards mokṣa. His lament sounds wise — he speaks of ancestors, castes, clan-law, hell — but it is spoken out of delusion. Sri Krishna's smile in the next lecture will answer it.
Link copiedThus closes the First Lecture, the Book of Sri Arjuna's Mood of Melancholy, in the colloquy between Sri Krishna and Sri Arjuna, in the Science of Yoga, in the Divine Knowledge of the Upanishads — the Bhagavad Gita — with the commentary of Bhagavad Ramanuja.
Link copied