Sri Bhashya · Section 2 of 5
prathamādhyāye
Sanskrit (IAST) · click to toggle
प्रथमः पादः
अखिल-भुवन-जन्म-स्थेम-भङ्गादि-लीले
Link copiedविनत-विविध-भूत-व्रात-रक्षैक-दीक्षे।
Link copiedश्रुति-शिरसि विदीप्ते ब्रह्मणि श्रीनिवासे
Link copiedभवतु मम परस्मिन् शेमुषी भक्ति-रूपा॥१॥
Link copiedपाराशर्य-वचः-सुधाम् उपनिषद्-दुग्धाब्धि-मध्योद्धृताꣳ
Link copiedसꣳसाराग्नि-विदीपन-व्यपगत-प्राणात्म-सञ्जीवनीम्।
Link copiedपूर्वाचार्य-सुरक्षिताꣳ बहु-मति-व्याघात-दूर-स्थिताम्
Link copiedआनीताꣳ तु निजाक्षरैः सुमनसो भौमाः पिबन्त्व् अन्व् अहम्॥२॥
Link copiedभगवद्-बोधायन-कृताꣳ विस्तीर्णाꣳ ब्रह्मसूत्र-वृत्तिꣳ पूर्वाचार्याः सञ्चिक्षिपुः, तन्-मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते---
Link copied[प्रथमꣳ समन्वयाध्याये, आद्ये अयोग-व्यवच्छेद-पादे सिद्धे व्युत्पत्ति-समर्थन-परम्]
Link copiedअथ जिज्ञासाधिकरणम्॥१॥
Link copied[ब्रह्मैव जिज्ञास्यम्]
Link copied१ अथातो ब्रह्म-जिज्ञासा॥१।१।१॥
Link copiedअत्रायम् अथ-शब्द आनन्तर्ये भवति। अतः-शब्दो वृत्तस्य हेतु-भावे। अधीत-साङ्ग-सशिरस्क-वेदस्याधिगताल्पास्थिर-फल-केवल-कर्म-ज्ञानतया सञ्जात-मोक्षाभिलाषस्यानन्त-स्थिर-फल-ब्रह्म-जिज्ञासा ह्य् अनन्तर-भाविनी। ब्रह्मणो जिज्ञासा ब्रह्म-जिज्ञासा। ब्रह्मण इति कर्मणि षष्ठी। कर्तृ कर्मणोः कृति [अष्टा, २।२।६५] इति विशेष-विधानात्। यद्य् अपि सम्बन्ध-सामान्य-परिग्रहेऽपि जिज्ञासायाः कर्मापेक्षत्वेन कर्मार्थत्व-सिद्धिः, तथाप्याक्षेपतः प्राप्ताद् आभिधानिकस्यैव ग्राह्यत्वात् कर्मणि षष्ठी गृह्यते। न च प्रतिपद-विधाना षष्ठी न समस्यते [अष्टा, २।२।१०, सू।वा।] इति कर्मणि षष्ठ्याः समास-निषेधः शङ्कनीयः, कृद्-योगा च षष्ठी समस्यत, [अष्टा, २।२।५, सू।वा।] इति प्रतिप्रसव-सद्-भावात्। ब्रह्म-शब्देन च स्वभावतो निरस्त-निखिलदोषोऽनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणः पुरुषोत्तमोऽभिधीयते। सर्वत्र बृहत्त्व-गुण-योगेन हि ब्रह्म-शब्दः। बृहत्त्वꣳ च स्वरूपेण गुणैश् च यत्रानवधिकातिशयꣳ सोऽस्य मुख्योऽर्थः; स च सर्वेश्वर एव। अतो ब्रह्म-शब्दस् तत्रैव मुख्य-वृत्तः। तस्माद् अन्यत्र तद्-गुण-लेश-योगाद् औपचारिकः, अनेकार्थ-कल्पनायोगात्, भगवच्-छब्दवत्। ताप-त्रयातुरैर् अमृतत्वाय स एव जिज्ञास्यः। अतः सर्वेश्वर एव जिज्ञासा-कर्म-भूतꣳ ब्रह्म। ज्ञातुम् इच्छा जिज्ञासा। इच्छाया इष्यमाण-प्रधानत्वाद् इष्यमाणꣳ ज्ञानम् इह विधीयते॥
Link copiedमीमाꣳसा-पूर्व-भाग-ज्ञातस्य कर्मणोऽल्पास्थिर-फलत्वाद् उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्यानन्ताक्षय-फलत्वाच् च पूर्व-वृत्तात् कर्म-ज्ञानाद् अनन्तरꣳ तत एव हेतोर् ब्रह्म ज्ञातव्यम् इत्य् उक्तꣳ भवति। तद् आह वृत्ति-कारः-- वृत्तात् कर्माधिगमाद् अनन्तरꣳ ब्रह्म-विविदिषा इति। वक्ष्यति च कर्म-ब्रह्म-मीमाꣳसयोर् ऐकशास्त्र्यम्--
Link copied[पूर्वोत्तर-मीमाꣳसयोः एक-शास्त्रता]
Link copiedसꣳहितम् एतच् छारीरकꣳ जैमिनीयेन षोडश-लक्षणेनेति शास्त्रैकत्व-सिद्धिः इति। अतः प्रतिपिपादयिषतार्थ-भेदेन षट्क-भेदवद् अध्याय-भेदवच् च पूर्वोत्तर-मीमाꣳसयोर् भेदः। मीमाꣳसा-शास्त्रम्-- अथातो धर्म-जिज्ञासा [पूर्व। मी। १।१।१] इत्य् आरभ्य, अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् [ब्र। सू। ४।४।२२] इत्य् एवम् अन्तꣳ सङ्गति-विशेषेण विशिष्ट-क्रमम्। तथा हि प्रथमꣳ तावत् स्वाध्यायोऽध्येतव्यः [यजुरारण्यके, २, प्र। १५] इत्य् अध्ययनेनैव स्वाध्याय-शब्द-वाच्य-वेदाख्याक्षर-राशेर् ग्रहणꣳ विधीयते॥
Link copied[अध्ययन-स्वरूप-प्रकारौ]
Link copiedतच् चाध्ययनꣳ किꣳ-रूपꣳ कथꣳ च कर्तव्यम् इत्य् अपेक्षायाम् अष्ट-वर्षꣳ ब्राह्मणम् उपनयीत तम् अध्यापयेत् [शतपथ-ब्राह्मणम्] इत्य् अनेन,
Link copiedश्रावण्याꣳ प्रौष्ठ-पद्याꣳ वा उपाकृत्य यथाविधि।
Link copiedयुक्तश् छन्दाꣳस्य् अधीयीत मासान् विप्रोऽर्ध-पञ्चमान्॥ [मनु, ४।६५]
Link copiedइत्य् आदि व्रत-नियम-विशेषोपदेशैश् चापेक्षितानि विधीयन्ते॥
Link copiedएवꣳ सत्-सन्तान-प्रसूत-सदाचार-निष्ठात्म-गुणोपेत-वेदविद्-आचार्योपनीतस्य व्रत-नियम-विशेष-युक्तस्याचार्योच्चारणानूच्चारण-रूपम् अक्षर-राशि-ग्रहण-फलम् अध्ययनम् इत्य् अवगम्यते॥
Link copied[अध्ययन-विधिः नियम-विधिः]
Link copiedअध्ययनꣳ च स्वाध्याय-सꣳस्कारः, स्वाध्यायोऽध्येतव्यः [यजुरारण्यकम्, २। प्र।१५] इति स्वाध्यायस्य कर्मत्वावगमात्। सꣳस्कारो हि नाम कार्यान्तर-योग्यता-करणम्। सꣳस्कार्यत्वꣳ च स्वाध्यायस्य युक्तम्, धर्मार्थ-काम-मोक्ष-रूप-पुरुषार्थ-चतुष्टय-तत्-साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्-साधनत्वाच् च। एवम् अध्ययन-विधिर् मन्त्रवन् नियमवद् अक्षर-राशि-ग्रहण-मात्रे पर्यवस्यति।
Link copied[वेदार्थ-ज्ञाने स्वतः प्रवृत्तिः]
Link copiedअध्ययन-गृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवद्-अर्थावबोधित्व-दर्शनात्, गृहीतात्स्वाध्यायाद् अवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्-स्वरूप-प्रकार-विशेष-निर्णय-फल-वेद-वाक्य-विचार-रूप-मीमाꣳसाश्रवणे अधीत-वेदः पुरषः स्वयम् एव प्रवर्तते। तत्र कर्म-विधि-स्वरूपे निरूपिते कर्मणाम् अल्पास्थिर-फलत्वꣳ दृष्ट्वा अध्ययन-गृहीत-स्वाध्यायैकदेशोपनिषद्-वाक्येषु चामृतत्व-रूपानन्त-स्थिर-फलापात-प्रतीतेस् तन्-निर्णय-फल-वेदान्त-वाक्य-विचार-रूप-शारीरक-मीमाꣳसायाम् अधिकरोति।
Link copied[उक्तार्थस्य श्रुति-सिद्धता]
Link copiedतथा च वेदान्त-वाक्यानि केवल-कर्म-फलस्य क्षयित्वꣳ ब्रह्म-ज्ञानस्य चाक्षय-फलत्वꣳ च दर्शयन्ति--- तद् यथेह कर्म-चितो लोकः क्षीयते, एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छान्, ८।१।६] अन्तवद् एवास्य तद् भवति [बृहद्।, ५।८।१०] न ह्य् अध्रुवैः प्राप्यते [कठ।, २।१०] प्लवा ह्य् एते अदृढा यज्ञ-रूपाः [मुण्ड्।, १।२।७] परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेद-मायात् नास्त्य् अकृतः कृतेन तद्-विज्ञानार्थꣳ स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियꣳ ब्रह्म-निष्ठम्। तस्मै स विद्वान् उपसन्नाय सम्यक्-प्रशान्त-चित्ताय शमान्विताय। येनाक्षरꣳ पुरुषꣳ वेद सत्यꣳ प्रोवाच ताꣳ तत्त्वतो ब्रह्म-विद्याम्। [मुण्ड्।, १।२।१२।१३] ब्रह्मविद् आप्नोति परम् [तै।, २।१] न पुनर् मृत्यवे तद् एकꣳ पश्यति न पश्यो मृत्युꣳ पश्यति [बृहद्।, ७।२६।२] स स्वराड् भवति [छान्।, ७।२५।२] तम् एवꣳ विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते [पु। सू।, १७] पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [श्वे।, १।६] इत्य् आदीनि॥
Link copied[कर्म-विचारनैरपेक्ष्य-शङ्का-समाधाने]
Link copiedननु च साङ्ग-वेदाध्ययनाद् एव कर्मणाꣳ स्वर्गादि-फलत्वम्, स्वर्गादीनाꣳ च क्षयित्वꣳ, ब्रह्मोपासनस्यामृतत्व-फलत्वꣳ च ज्ञायत एव। अनन्तरꣳ मुमुक्षुर् ब्रह्म-जिज्ञासायाम् एव प्रवर्तताम्; किम्-अर्था धर्म-विचारापेक्षा एवꣳ तर्हि शारीरक-मीमाꣳसायाम् अपि न प्रवर्तताम्, साङ्गाध्ययनाद् एव कृत्स्नस्य ज्ञातत्वात्। सत्यम्। आपात-प्रतीतिर् विद्यत एव, तथापि न्यायानुगृहीतस्य वाक्यस्य अर्थ-निश्चायकत्वाद् आपात-प्रतीतोऽप्य् अर्थः सꣳशय-विपर्ययौ नातिवर्तते; अतस् तन्-निर्णयाय वेदान्त-वाक्य-विचारः कर्तव्य इति चेत्; तथैव धर्म-विचारोऽपि कर्तव्य इति पश्यतु भवान्॥
Link copiedलघु-पूर्व-पक्षः
Link copied[साधन-चतुष्टय-पूर्व-वृत्तत्व-प्रतिपादनाय भूमिका]
Link copiedननु च ब्रह्म-जिज्ञासा यद् एव नियमेनापेक्षते, तद् एव पूर्व-वृत्तꣳ वक्तव्यम्। न धर्म-विचारापेक्षा ब्रह्म-जिज्ञासायाः, अधीत-वेदान्तस्यानधिगत-कर्मणोऽपि वेदान्त-वाक्यार्थ-विचारोपपत्तेः। कर्माङ्गाश्रयाण्य् उगीथाद्य्-उपासनान्य् अत्रैव चिन्त्यन्ते; तद्-अनधिगत-कर्मणो न शक्यꣳ कर्तुम् इति चेत्--
Link copied[कर्मणो ज्ञानानङ्गत्वम्]
Link copiedअनभिज्ञो भवान् शारीरक-शास्त्र-विज्ञानस्य। अस्मिञ् शास्त्रेऽनाद्य्-अविद्या-कृत-विविध-भेद-दर्शन-निमित्त-जन्म-जरा-मरणादि-साꣳसारिक-दुःख-सागर-निमग्नस्य निखिल-दुःख-मूल-मिथ्याज्ञान-निबर्हाणाय आत्मैकत्व-विज्ञानꣳ प्रतिपिपादयिषितम्। अस्य हि भेदावलम्बि कर्म-ज्ञानꣳ क्वोपयुज्यते प्रत्युत विरुद्धम् एव। उद्गीथादि-विचारस् तु कर्म-शेष-भूत एव ज्ञान-रूपत्वाविशेषाद् इहैव क्रियते। स तु न साक्षात् सङ्गतः। अतो यत् प्रधानꣳ शास्त्रꣳ, तद्-अपेक्षितम् एव पूर्व-वृत्तꣳ किम् अपि वक्तव्यम्॥
Link copiedबाढम्। तद्-अपेक्षितꣳ च कर्म-विज्ञानम् एव, कर्म-समुच्चितात् ज्ञानाद् अपवर्ग-श्रुतेः। वक्ष्यति च-- सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [ब्र। सू।, ३।४।२६] इति। अपेक्षिते च कर्मण्य् अज्ञाते केन समुच्चयः केन नेति विभागो न शक्यते ज्ञातुम्। अतस् तद् एव पूर्व-वृत्तम्॥
Link copied[कर्मणो मोक्ष-विरोधित्वम्]
Link copiedनैतद् युक्तम्। सकल-विशेष-प्रत्यनीक-चिन्-मात्र-ब्रह्म-विज्ञानाद् एवाविद्या-निवृत्तेः। अविद्या-निवृत्तिर् एव हि मोक्षः। वर्णाश्रम-विशेषसाध्य-साधनेतिकर्तव्यताद्य्-अनन्त-विकल्पास्पदꣳ कर्म सकल-भेद-दर्शन-निवृत्ति-रूपाज्ञान-निवृत्तेः कथम् इव साधनꣳ भवेत्। श्रुतयश् च कर्मणाम् अनित्य-फलत्वेन मोक्ष-विरोधित्वꣳ, ज्ञानस्यैव मोक्ष-साधनत्वꣳ च दर्शयन्ति-- अन्तवद् एवास्य तद् भवति [बृहद्।, ५।८।१०], तद् यथेह कर्म-चितो लोकः क्षीयते। एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते [छान्।, ८।१।६], ब्रह्मविद् आप्नोति परम् [तै।, २।१।१], ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९], तम् एव विदत्वातिमृत्युम् एति [श्वे।, ३।८]-- इत्य् आद्याः॥
Link copied[ज्ञान-कर्म-समुच्चय-वाद-निरासः]
Link copiedयद् अपि चेद् अमुक्तꣳ यज्ञादि-कर्मापेक्षा विद्येति, तद्-वस्तु-विरोधात् श्रुत्य्-अक्षर-पर्यालोचनया चान्तःकरण-नैर्मल्य-द्वारेण विविदषोत्पत्ताव् उपयुज्यते, न फलोत्पत्तौ, विविदिषन्ति इति श्रवणात्। विविदिषायाꣳ जातायाꣳ ज्ञानोत्पत्तौ शमादीनाम् एवान्तरङ्गोपायताꣳ श्रुतिर् एवाह-- शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानꣳ पश्येत्-- [बृहद्।, ६।४।२३] इति॥
Link copied[वाक्य-जन्य-ज्ञानाद् अविद्या-निवृत्तिः]
Link copiedतद् एवꣳ जन्मान्तर-शतानुष्ठितानभिसꣳहित-फल-विशेष-कर्म-मृदित-कषायस्य विविदिषोत्पत्तौ सत्याꣳ सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छान्।, ६।२।१] सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] अयम् आत्मा ब्रह्म [बृहद्।, ६।४।५] तत्त्वम् असि [छान्।, ६।८।७] इत्य् आदि वाक्य-जन्य-ज्ञानाद् अविद्या निवर्तते।
Link copied[अविद्या-निवर्तक-ज्ञान-सहकारीणि]
Link copiedवाक्यार्थ-ज्ञानोपयोगीनि च श्रवण-मनन-निदिध्यासनानि। श्रवणꣳ नाम वेदान्त-वाक्यान्य् आत्मैकत्व-विद्या-प्रतिपादकानीति तत्त्व-दर्शिन आचार्यात् न्याय-युक्तार्थग्रहणम्। एवम् आचार्योपदिष्टस्यार्थस्य स्वात्मन्य् एवम् एव युक्तम् इति हेतुतः प्रतिष्ठापनꣳ मननम्। एतद्-विरोध्य् अनादि-भेद-वासना-निरसनायास्यैवार्थस्यानवरत-भावना निदिध्यासनम्।
Link copied[शारीरक-पूर्व-वृत्त-निगमनम्]
Link copiedश्रवणादिभिर् निरस्त-समस्त-भेद-वासनस्य वाक्यार्थ-ज्ञानम् अविद्याꣳ निवर्तयतीत्य् एवꣳ-रूपस्य श्रवणस्यावश्यापेक्षितम् एव पूर्व-वृत्तꣳ वक्तव्यम्।
Link copiedतच् च-- नित्यानित्य-वस्तु-विवेकः, शम-दमादि-साधन-सम्पत्, इहामुत्र-फल-भोग-विरागः, मुमुक्षुत्वꣳ चेत्य् एतत् साधन-चतुष्टयम्। अनेन विना जिज्ञासानुपपत्तेः, अर्थ-स्वभावाद् एवेदम् एव पूर्व-वृत्तम् इति ज्ञायते॥
Link copied[बन्ध-तत्-कारण-तन्-निवर्तकानाꣳ निगमनम्]
Link copiedएतद् उक्तꣳ भवति-- ब्रह्म-स्वरूपाच्छादिकाविद्या-मूलम् अपारमार्थिकꣳ भेद-दर्शनम् एव बन्ध-मूलम्। बन्धश् चापारमार्थिकः। स च समूलोऽपारमार्थिकत्वाद् एव ज्ञानेनैव निवर्त्यते। निवर्तकꣳ च ज्ञानꣳ तत् त्वम् अस्यादि वाक्य-जन्यम्। तस्यैतस्य वाक्य-जन्यस्य ज्ञानस्य स्वरूपोत्पत्तौ कार्ये वा कर्मणाꣳ नोपयोगः। विविदिषायाम् एव तु कर्मणाम् उपयोगः। स च पाप-मूल-रजस्-तमो-निबर्हाण-द्वारेण सत्त्व-विवृद्ध्या भवतीतीमम् उपयोगम् अभिप्रेत्य ब्राह्मणा विविदिषन्ति इत्य् उक्तम् इति॥
Link copiedअतः कर्म-ज्ञानस्यानुपयोगाद् उक्तम् एव साधन-चतुष्टयꣳ पूर्व-वृत्तम् इति वक्तव्यम्।
Link copied[इति लघु-पूर्वपक्षः]
Link copiedलघु-सिद्धान्तः
Link copied[वाक्यार्थ-ज्ञानस्य मोक्ष-हेतुत्वम् शास्त्र-प्रत्यक्ष-विरुद्धम्]
Link copiedअत्रोच्यते-- यद् उक्तम् अविद्या-निवृत्तिर् एव मोक्षः; सा च ब्रह्म-विज्ञानाद् एव भवति इति तद् अभ्युपगम्यते। अविद्या-निवृत्तये वेदान्त-वाक्यैर् विधित्सितꣳ ज्ञानꣳ किꣳ-रूपम् इति विवेचनीयम्-- किꣳ वाक्याद् वाक्यार्थ-ज्ञान-मात्रम्, उत तन्-मूलम् उपासनात्मकꣳ ज्ञानम् इति; न तावद् वाक्य-जन्यꣳ ज्ञानꣳ, तस्य विधानम् अन्तरेणापि वाक्याद् एव सिद्धेः; तावन् मात्रेणाविद्या-निवृत्त्य्-अनुपलब्धेश् च।
Link copiedन च वाच्यम्-- भेद-वासनायाम् अनिरस्तायाꣳ वाक्यम् अविद्या-निवर्तकꣳ ज्ञानꣳ न जनयति, जातेऽपि सर्वस्य सहसैव भेद-ज्ञानानिवृत्तिर् न दोषाय, चन्द्रैकत्वे ज्ञातेऽपि द्वि-चन्द्र-ज्ञानानिवृत्तिवत्। अनिवृत्तम् अपि छिन्न-मूलत्वेन न बन्धाय भवति, इति। सत्याꣳ सामग्र्याꣳ ज्ञानानुत्पत्त्य्-अनुपपत्तेः; सत्याम् अपि विपरीत-वासनायाम् आप्तोपदेश-लिङ्गादिभिर् बाधक-ज्ञानोत्पत्ति-दर्शनात्।
Link copiedसत्य् अपि वाक्यार्थ-ज्ञानेऽनादि-वासनया मात्रया भेद-ज्ञानम् अनुवर्तत इति भवता न शक्यते वक्तुम्; भेद-ज्ञान-सामग्र्या अपि वासनाया मिथ्या-रूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात्। ज्ञानोत्पत्ताव् अपि मिथ्या-रूपायास् तस्या अनिवृत्तौ निवर्तकान्तराभावात् कदाचिद् अपि नास्या वासनाया निवृत्तिः।
Link copiedवासना-कार्यꣳ भेद-ज्ञानꣳ छिन्न-मूलम् अथ चानुवर्तत इति बालिश-भाषितम्। द्वि-चन्द्र-ज्ञानादौ तु बाधक-सन्निधाव् अपि मिथ्या-ज्ञान-हेतोः परमार्थ-तिमिरादि-दोषस्य ज्ञान-बाध्यत्वाभावेन अविनष्टत्वात् मिथ्या-ज्ञानानिवृत्तिर् अविरुद्धा। प्रबल-प्रमाण-बाधितत्वेन भयादि-कार्यꣳ तु निवर्तते।
Link copied[अद्वैत-रीत्या ज्ञानोत्पत्त्य्-अनुपपत्तिः]
Link copiedअपि च भेद-वासना-निरसन-द्वारेण ज्ञानोत्पत्तिम् अभ्युपगच्छताꣳ कदाचिद् अपि ज्ञानोत्पत्तिर् न सेत्स्यति; भेद-वासनाया अनादिकालोपचितत्वेनापरिमितत्वात्, तद्-विरोधि-भावनायाश् चाल्पत्वाद् अनया तन्-निरसनानुपपत्तेः।
Link copied[अपवर्ग-साधनीभूत-ज्ञान-स्वरूपम्]
Link copiedअतो वाक्यार्थ-ज्ञानाद् अन्यद् एव ध्यानोपासनादि-शब्द-वाच्यꣳ ज्ञानꣳ वेदान्त-वाक्यैर् विधित्सितम्। तथा च श्रुतयः-- विज्ञाय प्रज्ञाꣳ कुर्वीत [बृहद्।, ६।४।२१] अनुविद्य विजानाति [छान्।, ८।१२।६] ओम् इत्य् एवात्मानꣳ ध्यायथ [मुण्ड्।, २।२।६] निचाय्य तꣳ मृत्यु-मुखात् प्रमुच्यते [कठ, १।३।१५] आत्मानम् एव लोकम् उपासीत [बृहद्।, ३।४।१४] आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृहद्।, ६।४।६] सोऽन्वेष्टव्यः स विजिज्ञासतिव्यः [छान्।, ८।७।१] इत्य् एवम् आद्याः॥
Link copied[अपवर्ग-साधनꣳ च ज्ञानꣳ ध्यान-रूपम्]
Link copiedअत्र निदिध्यासितव्यः इत्य् आदिनैकार्थ्याद् अनुविद्य विजानाति, विज्ञाय प्रज्ञाꣳ कुर्वीत इत्य् एवम् आदिभिर् वाक्यार्थ-ज्ञानꣳ ध्यानोपकारकत्वाद् अनुविद्य, विज्ञाय इत्य् अनूद्य प्रज्ञाꣳ कुर्वीत, विजानाति इति ध्यानꣳ विधीयते। श्रोतव्यः इति चानुवादः स्वाध्यायस्यार्थ-परत्वेनाधीत-वेदः पुरुषः प्रयोजनवद्-अर्थावबोधित्व-दर्शनात् तन्-निर्णयाय स्वयम् एव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात्। श्रवण-प्रतिष्ठार्थत्वान् मननस्य मन्तव्यः इति चानुवादः। तस्माद् ध्यानम् एव विधीयते। वक्ष्यति चावृत्तिर् असकृद् उपदेशात् [ब्र। सू। ४।१।१] इति।
Link copied[ध्यानस्य वेदनोपासनात्मकत्वम्]
Link copiedतद् इदम् अपवर्गोपायतया विधित्सितꣳ वेदनम् उपासनम् इत्य् अवगम्यते विद्योपास्योर् व्यतिकरेण उपक्रमोपसꣳहार-दर्शनान् मनो ब्रह्मेत्य् उपासीत [छान्।, ३।१८।१] इत्य् अत्र भाति च तपति च कीर्त्या यशसा ब्रह्म-वर्चसेन य एवꣳ वेद, [छान्।, ३।१८।५] न स वेद अकृत्स्नो ह्य् एषः आत्मेत्य् एवोपासीत, [बृहद्।, ३।४।७] यस् तद् वेद यत् स वेद स मयैतद् उक्तः [छान्।, ४।१।४] इत्य् अत्र अनु म एताꣳ भगवो देवताꣳ शाधि याꣳ देवताम् उपास्से [छान्।, ४।२।२] इति॥
Link copied[ध्यानस्य ध्रुवानुस्मृति-दर्शन-रूपता]
Link copiedध्यानꣳ च तैल-धारावद्-अविच्छिन्न-स्मृति-सन्तान-रूपꣳ ध्रुवा स्मृतिः। स्मृति-लम्भे सर्व-ग्रन्थीनाꣳ विप्रमोक्षः [छान्।, ७।२६।२] इति ध्रुवायाः स्मृतेर् अपवर्गोपायत्व-श्रवणात्। सा च स्मृतिर् दर्शन-समानाकाराभिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-सꣳशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे [मुण्ड्।, २।१।८] इत्य् अनेनैकार्थ्यात्। एवꣳ च सत्य् आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।४।६] इत्य् अनेन निदिध्यासनस्य दर्शन-समानाकारता विधीयते। भवति च स्मृतेर् भावना-प्रकर्षाद् दर्शन-रूपता। वाक्य-कारेण एतत् सर्वꣳ प्रपञ्चितम्-- वेदनम् उपासनꣳ स्यात् तद्-विषये श्रवणाद् इति। सर्वासूपनिषत्सु मोक्ष-साधनतया विहितꣳ वेदनम् उपासनम् इत्य् उक्तम्। सकृत्-प्रत्ययꣳ कुर्याच् छब्दार्थस्य कृतत्वात् प्रयाजादिवत् इति पूर्वपक्षꣳ कृत्वा सिद्धꣳ तूपासन-शब्दात् इति वेदनम् असकृद् आवृत्तꣳ मोक्ष-साधनम् इति निर्णीतम्। उपासनꣳ स्याद् ध्रुवानुस्मृतेर् दर्शनान् निर्वचनाच् च इति तस्यैव वेदनस्योपासन-रूपस्यासकृद् आवृत्तस्य ध्रुवानुस्मृतित्वम् उपवर्णितम्॥
Link copiedसेयꣳ स्मृतिर् दर्शन-रूपा प्रतिपादिता। दर्शन-रूपता च प्रत्यक्षतापत्तिः।
Link copied[अपवर्ग-साधनीभूत-स्मृति-गतꣳ वैशिष्ट्यम्]
Link copiedएवꣳ प्रत्यक्षतापन्नाम् अपवर्ग-साधन-भूताꣳ स्मृतिꣳ विशिनष्टि-- नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् [मुण्ड्।, ३।२।३] इति। अनेन केवल-श्रवण-मनन-निदिध्यासनानाम् आत्म-प्राप्त्य्-अनुपायत्वम् उक्त्वा यम् एवैष आत्मा वृणुते तेनैव लभ्य इत्य् उक्तम्। प्रियतम एव हि वरणीयो भवति। यस्यायꣳ निरतिशय-प्रियः स एवास्य प्रियतमो भवति। यथायꣳ प्रियतम आत्मानꣳ प्राप्नोति, तथा स्वयम् एव भगवान् प्रयतत इति भगवतैवोक्तम्। तेषाꣳ सततयुक्तानाꣳ भजताꣳ प्रीति-पूर्वकम्। ददामि बुद्धि-योगꣳ तꣳ येन माम् उपयान्ति ते [भ। गी।, १०।१०] इति। प्रियो हि ज्ञानिनोऽत्यर्थम् अहꣳ स च मम प्रियः [भ। गी। ७।१७] इति च॥
Link copiedअतः साक्षात्कार-रूपा स्मृतिः स्मर्यमाणात्यर्थ-प्रियत्वेन स्वयम् अप्य् अत्यर्थ-प्रिया यस्य, स एव परेणात्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्य् उक्तꣳ भवति।
Link copied[दर्शन-समानाकारायाः स्मृतेर् भक्ति-शब्दाभिधेयता]
Link copiedएवꣳ-रूपा ध्रुवानुस्मृतिर् एव भक्ति-शब्देनाभिधीयते, उपासन-पर्यायत्वाद् भक्ति-शब्दस्य। अत एव श्रुति-स्मृतिभिर् एवम् अभिधीयते--
Link copiedतम् एव विदत्वातिमृत्युम् एति [श्वे।, ३।८] तम् एवꣳ विद्वान् अमृत इह भवति। नान्यः पन्था अयनाय विद्यते [पु। सू।, १७]
Link copiedनाहꣳ वेदैर् न तपसा न दानेन न चेज्यया। शक्य एवꣳ-विधो द्रष्टुꣳ दृष्टवान् असि माꣳ यथा॥ भक्त्या त्व् अनन्यया शक्य अहम् एवꣳ-विधोऽर्जुन। ज्ञातुꣳ द्रष्टुꣳ च तत्त्वेन प्रवेष्टुꣳ च परन्तप॥[भ। गी।, ११।५३।५४] पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [भ। गी।, ८।२२] इति॥
Link copied[भक्तेः कर्माङ्गकत्वम्]
Link copiedएवꣳरूपाया ध्रुवानुस्मृतेः साधनानि यज्ञादीनि कर्माणीति यज्ञादि-श्रुतेर् अश्ववत् [ब्र। सू। ३।४।२६] इत्य् अभिधास्यते। यद्य् अपि विविदषन्तीति यज्ञादयो विविदषोत्पत्तौ विनियुज्यन्ते तथापि तस्यैव वेदनस्य ध्यान-रूपस्याहर्-अहर्-अनुष्ठीयमानस्य अभ्यासाधेयातिशयस्य आप्रयाणाद् अनुवर्तमानस्य ब्रह्म-प्राप्ति-साधनत्वात् तद्-उत्पत्तये सर्वाण्य् आश्रम-कर्माणि यावज्-जीवम् अनुष्ठेयानि। वक्ष्यति च-- आप्रयाणात् तत्रापि हि दृष्टम् [ब्र। सू। ४।१।१२] अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात् [ब्र। सू। ४।१।१६] सहकारित्वेन च [ब्र। सू। ३।४।३३] इत्यादिषु।
Link copied[ध्रुवानुस्मृतेः साधन-सप्तक-निष्पाद्यत्वम्]
Link copiedवाक्यकारश् च ध्रुवानुस्मृतेर् विवेकादिभ्य एव निष्पत्तिम् आह-- तल्-लब्धिर् विवेक-विमोकाभ्यास-क्रिया-कल्याणानवसादानुद्धर्षेभ्यः सम्भवान् निर्वचनाच् च[^१] इति। विवेकादीनाꣳ स्वरूपꣳ चाह-- जात्य्-आश्रय-निमित्तादुष्टाद् अन्नात् काय-शुद्धिर् विवेकः[^२] इति। अत्र निर्वचनम्-- आहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः [छान्।, ७।२६।२] इति। विमोकः कामानभिष्वङ्गः[^३] इति। शान्त उपासीत [छान्।, ३।१४।१] इति निर्वचनम्। आरम्भण-सꣳशीलनꣳ पुनः पुनर् अभ्यासः[^४] इति। निर्वचनꣳ च स्मार्तम् उदाहृतꣳ भाष्य-कारेण-- सदा तद्-भाव-भावितः [भ। गी।, ८।६] इति। पञ्चम-हायज्ञाद्य्-अनुष्ठानꣳ शक्तितः क्रिया[^५]। निर्वचनꣳ क्रियावान् एष ब्रह्म-विदाꣳ वरिष्ठः [मुण्ड्।, ३।१।४] तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बृहद्।, ६।४।२२] इति च। सत्यार्जव-दया-दाना-हिꣳसानभिध्याः कल्याणानि[^६] इति। निर्वचनꣳ सत्येन लभ्यः [मुण्ड्।, ३।१।५] तेषाम् एवैष विरजो ब्रह्म-लोकः [प्रश्।, १।१५।१६] इत्य् आदि। देश-कालवैगुण्यात् शोक-वस्त्व्-आद्य्-अनुस्मृतेश् च तज्-जꣳ दैन्यम् अभास्वरत्वꣳ मनसोऽवसादः[^७] इति, तद्-विपर्ययो अनवसादः[^८]। निर्वचनꣳ नायम् आत्मा बल-हीनेन लभ्यः [मुण्ड्।, ३।४] इति। तद्-विपर्य-यजा तुष्टिर् उद्धर्षः[^९] इति। तद्-विपर्ययोऽनुद्धर्षः[^१०]। अतिसन्तोषश् च विरोधीत्य् अर्थः। निर्वर्चनम् अपि-- शान्तो दान्तः [बृहद्।, ६।४।२३] इति।
Link copied[विद्या-निष्पत्तेर् आश्रम-कर्माविनाभाविता]
Link copiedएवꣳ नियम-युक्तस्याश्रम-विहित-कर्मानुष्ठानेनैव विद्या-निष्पत्तिर् इत्य् उक्तꣳ भवति। तथा च श्रुत्य्-अन्तरम्-- विद्याꣳ चाविद्याꣳ च यस् तद् वेदोभयꣳ सह। अविद्यया मृत्युꣳ तीर्त्वा विद्ययामृतम् अश्नुते॥ [ईश, ११] अत्राविद्या-शब्दाभिहितꣳ वर्णाश्रम-विहितꣳ कर्म। अविद्यया-- कर्मणा, मृत्युꣳ-- ज्ञानोत्पत्ति-विरोधि प्राचीनꣳ कर्म, तीर्त्वा-- अपोह्य, विद्यया-- ज्ञानेन, अमृतम्-- ब्रह्म। अश्नुते-- प्राप्नोतीत्य् अर्थः। मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरद्-विहितꣳ कर्मैव, यथोक्तम्-- इयाज सोऽपि सुबहून् यज्ञान् ज्ञान-व्यपाश्रयः। ब्रह्म-विद्याम् अधिष्ठाय तर्तुꣳ मृत्युम् अविद्यया॥ इति॥ [वि। पु।, ६।६।१२]
Link copiedज्ञान-विरोधि च कर्म पुण्य-पाप-रूपम्। ब्रह्म-ज्ञानोत्पत्ति-विरोधित्वेनानिष्ट-फलतया उभयोर् अपि पाप-शब्दाभिधेयत्वम्। अस्य च ज्ञान-विरोधित्वꣳ ज्ञानोत्पत्ति-हेतु-भूत-शुद्ध-सत्त्व-विरोधि-रजस्-तमो-विवृद्धि-द्वारेण। पापस्य च ज्ञानोदय-विरोधित्वम्-- एष एवासाधु कर्म कारयति तꣳ यम् अधो निनीषति [कौ।, ३।६] इति श्रुत्यावगम्यते।
Link copied[यथार्थ-ज्ञान-तद्-आवरणयोः सत्त्वादि-गुणायत्तता]
Link copiedरजस्-तमसोर् यथार्थ-ज्ञानावरणत्वꣳ सत्त्वस्य च यथार्थ-ज्ञान-हेतुत्वꣳ भगवतैव प्रतिपादितꣳ-- सत्त्वात् सञ्जायते ज्ञानम् [भ। गी।, १४।१७] इत्य् आदिना। अतश् च ज्ञानोत्पत्तये पापꣳ कर्म निरसनीयम्। तन्-निरसनꣳ चानभिसꣳहित-फलेनानुष्ठितेन धर्मेण। तथा च श्रुतिः-- धर्मेण पापम् अपनुदति [बृहद्।, १।५] इति।
Link copied[कर्म-मीमाꣳसाया ब्रह्म-मीमाꣳसा-पूर्व-वृत्तत्व-निगमनम्]
Link copiedतद् एवꣳ ब्रह्म-प्राप्ति-साधनꣳ ज्ञानꣳ सर्वाश्रम-कर्मापेक्षम्। अतोऽपेक्षित-कर्म-स्वरूप-ज्ञानꣳ, केवल-कर्मणाम् अल्पास्थिर-फलत्व-ज्ञानꣳ च कर्म-मीमाꣳसावसेयम् इति, सैवापेक्षिता ब्रह्म-जिज्ञासायाः पूर्व-वृत्ता वक्तव्या॥
Link copied[साधन-चतुष्टय-सम्पत्तेर् मीमाꣳसा-द्वय-श्रवण-पश्चाद्-भावित्वम्]
Link copiedअपि च नित्यानित्य-वस्तु-विवेकादयश् च, मीमाꣳसा-श्रवणम् अन्तरेण न सम्पत्स्यन्ते, फल-करण-इतिकर्तव्यताधिकारि-विशेष-निश्चयाद् ऋते, कर्म-स्वरूप-तत्-फल-स्थिरत्वात्म-नित्यत्वादीनाꣳ दुरवबोधत्वात्। एषाꣳ साधनत्वꣳ च विनियोगावसेयम्। विनियोगश् च श्रुति-लिङ्गादिभ्यः। स च तार्तीयः। उद्गीथाद्य्-उपासनानि कर्म-समृद्ध्य्-अर्थान्य् अपि ब्रह्म-दृष्टि-रूपाणि, ब्रह्म-ज्ञानापेक्षाणीति, इहैव चिन्तनीयानि। तान्य् अपि कर्माण्य् अनभिसꣳहित-फलानि ब्रह्म-विद्योत्पादकानीति तत्-साद्गुण्यापादनान्य् एतानि सुतराम् इहैव सङ्गतानि। तेषाꣳ च कर्म-स्वरूपाधिगमापेक्षा सर्व-सम्मता॥
Link copied॥ इति लघु-सिद्धान्तः॥
Link copiedअथ महा-पूर्व-पक्षः
Link copied[ब्रह्मण एव सत्यत्वम्, तद्-अतिरिक्त-सर्व-मिथ्यात्वꣳ च]
Link copiedयद् अप्य् आहुः-- अशेष-विशेष-प्रत्यनीक-चिन्-मात्रꣳ ब्रह्मैव परमार्थस् तद्-अतिरेकि नाना-विध-ज्ञातृ-ज्ञेय-तत्-कृत-ज्ञान-भेदादि-सर्वꣳ तस्मिन्न् एव परिकल्पितꣳ मिथ्या-भूतꣳ--
Link copied[निर्विशेष-वस्तुनः श्रौतता]
Link copiedसद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छान्।, ६।२।१] अथ परा यया तद्-अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः श्रोत्रꣳ तद् अपाणि-पादꣳ नित्यꣳ विभुꣳ सर्व-गतꣳ सुसूक्ष्मꣳ तद् अव्ययꣳ यद् भूत-योनिꣳ परिपश्यन्ति धीराः [मुण्ड्।, १।१।६] सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, १।१] निष्कलꣳ निष्क्रियꣳ शान्तꣳ निरवद्यꣳ निरञ्जनम् [श्वे।, ६।१९] यस्यामतꣳ तस्य मतꣳ मतꣳ यस्य न वेद सः। अविज्ञातꣳ विजानताꣳ विज्ञातम् अविजानताम् [केन, २।३] न दृष्टेर् द्रष्टारꣳ पश्येः न मतेर्मन्तारꣳ मन्वीथाः [बृहद्।, ५।४।२] आनन्दो ब्रह्म [तै।, ३।६] इदꣳ सर्वꣳ यद् अयम् आत्मा [बृहद्।, ४।४।६] नेह नानास्ति किञ्चन। मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति [बृहद्।, ६।४।१९] यत्र हि द्वैतम् इव भवति तद् इतर इतरꣳ पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कꣳ पश्येत् तत् केन कꣳ विजानीयात् [बृहद्।, ४।४।१४] वाचारम्भणꣳ विकारो नामधेयꣳ मृत्तिकेत्य् एव सत्यम् [छान्।, ६।१।४] यदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरꣳ कुरुते अथ तस्य भयꣳ भवति [तै।, २।७।२] न स्थानतोऽपि परस्योभय-लिङ्गꣳ सर्वत्र हि [ब्र। सू। ३।२।११] माया-मात्रꣳ तु कार्त्स्न्येन अनभिव्यक्त-स्वरूपत्वात् [ब्र। सू। ३।२।३],
Link copied[निर्विशेषवस्तुनि पराशरसम्मतिः]
Link copiedप्रत्यस्तमित-भेदꣳ यत् सत्ता-मात्रम् अगोचरम्। वचसाम् आत्म-सꣳवेद्यꣳ तज् ज्ञानꣳ ब्रह्म सꣳज्ञितम्॥ [वि। पु।, ६।७।४३] ज्ञान-स्वरूपम् अत्यन्त-निर्मलꣳ परमार्थतः। तम् एवार्थ-स्वरूपेण भ्रान्ति-दर्शनतः स्थितम्॥ [वि। पु।, १।२।६] परमार्थस् त्वम् एवैको नान्योऽस्ति जगतः पते॥ [वि। पु।, १।४।३८] यद् एतद् दृश्यते मूर्तम् एतज् ज्ञानात्मनस् तव। भ्रान्ति-ज्ञानेन पश्यन्ति जगद्-रूपम् अयोगिनः॥ ज्ञान-स्वरूपम् अखिलꣳ जगद्-एतद्-अबुद्धयः। अर्थ-स्वरूपꣳ पश्यन्तो भ्राम्यन्ते मोह-सम्प्लवे॥ ये तु ज्ञानविदः शुद्ध-चेतसस् तेऽखिलꣳ जगत्। ज्ञानात्मकꣳ प्रपश्यन्ति त्वद्-रूपꣳ परमेश्वर॥ [वि। पु।, १।४।३९-४१] तस्यात्म-पर-देहेषु सतोऽप्य् एकम् अयꣳ हि यत्। विज्ञानꣳ परमार्थो हि द्वैतिनोऽतथ्य-दर्शिनः॥ [वि। पु।, २।१४।३१] यद्य् अन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम। तदैषोऽहम् अयꣳ चान्यो वक्तुम् एवम् अपीष्यते॥ [वि। पु।, २।१३।९०] वेणु-रन्ध्र-विभेदेन भेदः षड्जादि-सꣳज्ञितः। अभेद-व्यापिनो वायोस् तथासौ परमात्मनः॥ [वि। पु।, २।१४।३२] सोऽहꣳ स च त्वꣳ स च सर्वम् एतद् आत्म-स्वरूपꣳ त्यज भेद-मोहम्। इतीरितस् तेन स राज-वर्यस् तत्याज भेदꣳ परमार्थ-दृष्टिः॥ [वि। पु।, २।१६।२३] विभेद-जनकेऽज्ञाने नाशम् आत्यन्तिकꣳ गते। आत्मनो ब्रह्मणो भेदम् असन्तꣳ कः करिष्यति॥ [वि। पु।, ६।७।९६] अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः। [भ। गी।, १०।२०] क्षेत्रज्ञꣳ चापि माꣳ विद्धि सर्व-क्षेत्रेषु भारत। [भ। गी।, १३।३] न तद् अस्ति विना यत् स्यान् मया भूतꣳ चराचरम्॥ [भ। गी।, १०।९३] इत्य् आदिभिर् वस्तु-स्वरूपोपदेश-परैः शास्त्रैः निर्विशेष-चिन्-मात्रꣳ ब्रह्मैव सत्यम् अन्यत् सर्वꣳ मिथ्या इत्य् अभिधानात्।
Link copied[मिथ्यात्व-स्वरूपम्, लक्ष्ये तद्-अन्वयश् च]
Link copiedमिथ्यात्वꣳ नाम प्रतीयमानत्व-पूर्वक-यथावस्थित-वस्तु-ज्ञान-निवर्त्यत्वम्, यथा रज्ज्व्-आद्य्-अधिष्ठान-सर्पादेः। दोष-वशाद् धि तत्र तत्-कल्पनम्। एवꣳ चिन्-मात्र-वपुषि परे ब्रह्मणि दोष-परिकल्पितम् इदꣳ देव-तिर्यङ्-मनुष्य-स्थावरादि-भेदꣳ सर्वꣳ जगद् यथावस्थित-ब्रह्म-स्वरूपावबोध-बाध्यꣳ मिथ्या-रूपम्।
Link copied[अविद्यायाः स्वरूपम्, तत्र श्रुतयश् च]
Link copiedदोषश् च स्वरूप-तिरोधान-विविध-विचित्र-विक्षेप-करी सद्-असद्-अनिर्वचनीयानाद्य्-अविद्या। अनृतेन हि प्रत्यूढाः [छान्।, ८।३।२] तेषाꣳ सत्यानाꣳ सताम् अनृतम् अपिधानम् [छान्।, ८।३।१] नासद् आसीन् नो सद् आसीत् तदानीꣳ तम आसीत् तमसा गूढम् अग्रे प्रकेतम् [यजुर्, २।८।९] मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।, ४।१०] इन्द्रो मायाभिः पुरु-रूप ईयते [बृहद्।, ४।५।१९] मम माया दुरत्यया [भ। गी।, ७।१४] अनादि-मायया सुप्तो यदा जीवः प्रबुध्यते [माण्ड्।, २।२१] इत्य् आदिभिः निर्विशेष-चिन्-मात्रꣳ ब्रह्मैवानाद्य्-अविद्यया सद्-असद्-अनिर्वाच्यया तिरोहित-स्वरूपꣳ स्वगत-नानात्वꣳ पश्यतीत्य् अवगम्यते। यथोक्तम्--
Link copied[ब्रह्मातिरिक्तस्य आविद्यकत्वे पौराणिकानि प्रमाणानि]
Link copiedज्ञान-स्वरूपो भगवान् यतोऽसाव् अशेष-मूर्तिर्न तु वस्तु-भूतः। ततो हि शैलाब्धि-धरादि-भेदाञ् जानीहि विज्ञान-विजृम्भितानि॥ यदा तु शुद्धꣳ निज-रूपि सर्व-कर्म-क्षये ज्ञानम् अपास्त-दोषम्। तदा हि सङ्कल्प-तरोः फलानि भवन्ति नो वस्तुषु वस्तु-भेदाः॥ [वि। पु।, २।१२।३९-४०] तस्मान् न विज्ञानम् ऋतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज वस्तु-जातम्। विज्ञानम् एकꣳ निज-कर्म-भेद-विभिन्न-चित्तैर् बहुधाभ्युपेतम्॥ ज्ञानꣳ विशुद्धꣳ विमलꣳ विशोकम् अशेष-लोभादि-निरस्त-सङ्गम्। एकꣳ सद् ऐकꣳ परमः परेशः स वासुदेवो न यतोऽन्यद् अस्ति॥ [वि। पु।, २।१२।४३।४४] सद्-भाव एवꣳ भवतो मयोक्तो ज्ञानꣳ यथा सत्यम् असत्यम् अन्यत्। एतत् तु यत् सꣳव्यवहार-भूतꣳ तत्रापि चोक्तꣳ भुवनाश्रितꣳ ते॥ [वि। पु।, १।१२।४५]
Link copied[अविद्या-निवृत्तिः तद् धेतुश् च]
Link copiedअस्याश् चाविद्याया निर्विशेष-चिन्-मात्र-ब्रह्मात्मैकत्व-विज्ञानेन निवृत्तिꣳ वदन्ति-- न पुनर् मृत्यवे तद् एकꣳ पश्यति, न पश्यो मृत्युꣳ पश्यति [बृहद्।, ७।२६।२] यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयꣳ प्रतिष्ठाꣳ विन्दते। अथ सोऽभयꣳ गतो भवति [तै।, १।७।२] भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-सꣳशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे [मुण्ड्।, २।२।८] ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९] तम् एव विदित्वातिमृत्युम् एति नान्यः पन्थाः [श्वे।, ३।८]-- इत्य् आद्याः श्रुतयः। अत्र मृत्यु-शब्देनाविद्याभिधीयते। यथा सनत्सुजात-वचनम्-- प्रमादꣳ वै मृत्युम् अहꣳ ब्रवीमि सदाप्रमादम् अमृतत्वꣳ ब्रवीमि [महाभारत, उद्यो-पर्व, ४१।४] इति।
Link copied[निर्विशेष-ब्रह्मात्मैकत्व-विज्ञानꣳ प्रमाण-सिद्धम्]
Link copiedसत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] विज्ञानम् आनन्दꣳ ब्रह्म [बृहद्।, ५।९।२८] इत्य् आदि शोधक-वाक्यावसेय-निर्विशेष-स्वरूप-ब्रह्मात्मैकत्व-विज्ञानꣳ च-- अथ योऽन्याꣳ देवताम् उपास्ते-अन्योऽसावन्योऽहम् अस्मीति न स वेद [बृहद्।, ३।४।१०] अकृत्स्नो ह्य् एषः [बृहद्।, ३।४।७] आत्मेत्य् एवोपासीत [बृहद्।, ३।४।७] तत् त्वम् असि [छान्।, ६।८।७] त्वꣳ वा अहम् अस्मि भगवो देवते अहꣳ वै त्वम् असि भगवो देवते तद् योऽहꣳ सोऽसौ योऽसौ सोऽहम् अस्मि [ऐ।आ।, ४।२] इत्य् आदि वाक्य-सिद्धम्। वक्ष्यति चैतद् एव-- आत्मेति तूपगच्छन्ति ग्राहयन्ति च [ब्र। सू। ४।१।३] इति। तथा च वाक्य-कारः- आत्मेत्य् एव तु गृह्णीयात् सर्वस्य तन्-निष्पत्तेः इति। अनेन च ब्रह्मात्मैकत्व-विज्ञानेन मिथ्या-रूपस्य सकारणस्य बन्धस्य निवृत्तिर् युक्ता॥
Link copied[निवर्त्य-निवर्तक-भावः सदृष्टान्तः]
Link copiedननु च सकल-भेद-निवृत्तिः प्रत्यक्ष-विरुद्धा कथम् इव शास्त्र-जन्य-विज्ञानेन क्रियते कथꣳ वा रज्जुर् एषा न सर्पः इति ज्ञानेन प्रत्यक्ष-विरुद्धा सर्प-निवृत्तिः क्रियते तत्र द्वयोः प्रत्यक्षयोर् विरोधः; इह तु प्रत्यक्ष-मूलस्य शास्त्रस्य प्रत्यक्षस्य चेति चेत्; तुल्ययोर् विरोधे वा कथꣳ बाध्य-बाधक-भावः पूर्वोत्तरयोर् दुष्ट-कारण-जन्यत्व-तद्-अभावाभ्याम्-- इति चेत्, शास्त्र-प्रत्यक्षयोर् अपि समानम् एतत्।
Link copiedएतद् उक्तꣳ भवति-- बाध्य-बाधक-भावे तुल्यत्व-सापेक्षत्व-निरपेक्षत्वादि न कारणम्; ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात्। तत्र हि ज्वालैक्यꣳ प्रत्यक्षेणावगम्यते। एवꣳ च सति द्वयोः प्रमाणयोर् विरोधे यत् सम्भाव्यमानान्यथासिद्धि, तद्-बाध्यम्; अनन्यथासिद्धम् अनवकाशम् इतरद् बाधकम्-- इति सर्वत्र बाध्य-बाधक-भाव-निर्णयः-- इति॥
Link copied[सयुक्तिकम् शास्त्र-प्राबल्यम्]
Link copiedतस्माद् अनादि-निधनाविच्छिन्न-सम्प्रदायासम्भाव्यमान-दोष-गन्धानवकाश-शास्त्र-जन्य-निर्विशेष-नित्य-शुद्ध-मुक्त-बुद्ध-स्व-प्रकाश-चिन्-मात्र-ब्रह्मात्म-भावावबोधेन सम्भाव्यमान-दोष-सावकाश-प्रत्यक्षादि-सिद्ध-विविध-विकल्प-रूप-बन्ध-निवृत्तिर् युक्तैव। सम्भाव्यते च विविध-विकल्प-भेद-प्रपञ्च-ग्राहि-प्रत्यक्षस्यानादि-भेद-वासनादि-रूपाविद्याख्यो दोषः।
Link copied[शास्त्रेषु मोक्ष-शास्त्रस्य प्राबल्यम्]
Link copiedनन्व् अनादि-निधनाविच्छिन्न-सम्प्रदायतया निर्दोषस्यापि शास्त्रस्य ज्योतिष्टोमेन स्वर्ग-कामो यजेत इत्य् एवम् आदेर् भेदावलम्बिनो बाध्यत्वꣳ प्रसज्येत। सत्यम्। पूर्वापरापच्छेदे पूर्व-शास्त्रवन् मोक्ष-शास्त्रस्य निरवकाशत्वात् तेन बाध्यत एव। वेदान्त-वाक्येष्व् अपि सगुण-ब्रह्मोपासन-पराणाꣳ शास्त्रणाम् अयम् एव न्यायः, निर्गुणत्वात् परस्य ब्रह्मणः।
Link copied[स्वरूप-परेषु सगुण-निर्गुण-वाक्येषु बाध्य-बाधक-भाव-चिन्ता]
Link copiedननु च-- यः सर्वज्ञः सर्ववित् [मुण्ड्।, २।२।७] परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।, ६।८] सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।१।५] इत्य् आदि ब्रह्म-स्वरूप-प्रतिपादन-पराणाꣳ शास्त्राणाꣳ कथꣳ बाध्यत्वꣳ निर्गुण-वाक्य-सामर्थ्यात् इति ब्रूमः।
Link copiedएतद् उक्तꣳ भवति-- अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् [बृहद्।, ५।८।८] सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] निर्गुणम् [आत्मोपनिषत्] निरञ्जनम् [श्वे।, ६।१९]-- इत्य् आदि वाक्यानि निरस्त-समस्त-विशेष-कूटस्थ-नित्य-चैतन्यꣳ ब्रह्म-- इति प्रतिपादयन्ति इतराणि च सगुणम्। उभय-विध-वाक्यानाꣳ विरोधे तेनैवापच्छेद-न्यायेन निगुर्ण-वाक्यानाꣳ गुणापेक्षत्वेन परत्वाद् बलीयस्त्वम् इति न किञ्चिद् अपहीनम्॥
Link copied[सत्यादि-वाक्य-विचारः, सामानाधिकरण्यꣳ च]
Link copiedननु च-- सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इत्य् अत्र सत्य-ज्ञानादयो गुणाः प्रतीयन्ते॥ नेत्य् उच्यते, सामानाधिकरण्येनैकार्थत्व-प्रतीतेः। अनेक-गुण-विशिष्टाभिधानेऽप्य् एकार्थत्वम् अविरुद्धम्-- इति चेत्, अनभिधानज्ञो देवानाꣳ प्रियः। एकार्थत्वꣳ नाम सर्व-पदानाम् अर्थैक्यम्; विशिष्ट-पदार्थाभिधाने विशेषण-भेदेन पदानाम् अर्थ-भेदोऽवर्जनीयः; ततश् चैकार्थत्वꣳ न सिध्यति। एवꣳ तर्हि सर्व-पदानाꣳ पर्यायता स्यात्, अविशिष्टार्थ अभिधायित्वात्। एकार्थाभिधायित्वेऽप्य् अपर्यायत्वम् अवहितमनाः शृणु; एकत्व-तात्पर्य-निश्चयाद् एकस्यैवार्थस्य तत्-तत्-पदार्थ-विरोधि-प्रत्यनीकत्व-परत्वेन सर्व-पदानाम् अर्थवत्वम् एकार्थत्वम् अपर्यायता च॥
Link copied[सत्यादि-वाक्यार्थस्य परिष्कृतꣳ निगमनम्]
Link copiedएतद् उक्तꣳ भवति। लक्षणतः प्रतिपत्तव्यꣳ ब्रह्म सकलेतर-पदार्थ-विरोधि-रूपम्। तद्-विरोधि-रूपꣳ सर्वम् अनेन पद-त्रयेण फलतो व्युदस्यते। तत्र सत्य-पदꣳ विकारास्पदत्वेनासत्याद् वस्तुनो व्यावृत्त-ब्रह्म-परम्। ज्ञान-पदꣳ चान्याधीन-प्रकाश-जड-रूपाद् वस्तुनो व्यावृत्त-परम्। अनन्त-पदꣳ च देशतः कालतो वस्तुतश् च परिच्छिन्नात् व्यावृत्त-परम्। न च व्यावृत्तिर् भाव-रूपोऽभाव-रूपो वा धर्मः। अपि तु सकलेतर-विरोधि ब्रह्मैव। यथा शौक्ल्यादेः कार्ष्ण्यादि-व्यावृत्तिस् तत्-पदार्थ-स्वरूपम् एव, न धर्मान्तरम्। एवम् एकस्यैव वस्तुनः सकलेतर-विरोध्य्-आकारताम् अवगमयद् अर्थवत्तरम् एकार्थम् अपर्यायꣳ च पद-त्रयम्॥
Link copied[ब्रह्मणः निर्विशेषत्व-स्थापनम्, कारण-वाक्यैकार्थ्य-वर्णनꣳ च]
Link copiedतस्माद् एकम् एव ब्रह्म स्वयञ्ज्योतिर्-निर्धूत-निखिल-विशेषम् इत्य् उक्तꣳ भवति। एवꣳ वाक्यार्थ-प्रतिपादने सत्य् एव सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छान्।, ६।२।१]-- इत्य् आदिभिर् ऐकार्थ्यम्।
Link copied[ब्रह्म-लक्षण-वाक्यस्य अखण्डैक-रस-वस्तु-प्रतिपादकत्वम्]
Link copiedयतो वा इमानि भूतानि जायन्ते [तै।, ३।१] सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] आत्मा वा इदम् एक एवाग्र आसीत् [ऐ।, १।१।१] इत्य् आदिभिर् जगत्-कारणतयोपलक्षितस्य ब्रह्मणः स्वरूपम् इदम् उच्यते-- सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] इति। तत्र सर्व-शाखा-प्रत्यय-न्यायेन कारण-वाक्येषु सर्वेषु सजातीय-विजातीय-व्यावृत्तम् अद्वितीयꣳ ब्रह्मावगतम्। जगत्-कारणतयोपलक्षितस्य ब्रह्मणोऽद्वितीयस्य प्रतिपादयिषितꣳ स्वरूपꣳ तद्-अविरोधेन वक्तव्यम्। अद्वितीयत्व-श्रुतिर् गुणतोऽपि सद्वितीयताꣳ न सहते। अन्यथा निरञ्जनम् [श्वे।, ६।१९] निर्गुणम् [आत्मोपनिषत्] इत्य् आदिभिश् च विरोधः। अतश् चैतल्-लक्षण-वाक्यम् अखण्डैकरसम् एव प्रतिपादयति।
Link copied[लक्षणाया दोषत्वादोषत्व-विचारः]
Link copiedननु च सत्य-ज्ञानादि-पदानाꣳ स्वार्थ-प्रहाणेन स्वार्थ-विरोधि-व्यावृत्त-वस्तु-स्वरूपोपस्थापन-परत्वे लक्षणा स्यात्। नैष दोषः, अभिधान-वृत्तेर् अपि तात्पर्य-वृत्तेर् बलीयस्त्वात्। सामानाधिकरण्यस्य ह्य् ऐक्य एव तात्पर्यम् इति सर्व-सम्मतम्।
Link copiedननु च-- सर्व-पदानाꣳ लक्षणा न दृष्ट-चरी। ततः किꣳ वाक्य-तात्पर्याविरोधे सत्य् एकस्यापि न दृष्टा। समभिव्याहृत-पद-समुदायस्यैतत्-तात्पर्यम् इति निश्चिते सति द्वयोस् त्रयाणाꣳ सर्वेषाꣳ वा तद्-अविरोधाय एकस्येव लक्षणा न दोषाय। तथा च शास्त्र-स्थैर् अभ्युपगम्यते॥
Link copied[सर्व-पद-लक्षणाया अप्य् अदोषत्व-वर्णनꣳ प्राभाकरैः]
Link copiedकार्य-वाक्यार्थवादिभिः लौकिक-वाक्येषु सर्वेषाꣳ पदानाꣳ लक्षणा समाश्रीयते। अपूर्व-कार्य एव लिङ्-आदेर् मुख्यवृत्तत्वात् लिङ्-आदिभिः क्रिया-कार्यꣳ लक्षणया प्रतिपाद्यते। कार्यान्वित-स्वार्थाभिधायिनाꣳ चेतरेषाꣳ पदानाम् अपूर्व-कार्यान्वित एव मुख्यार्थ इति क्रिया-कार्यान्वित-प्रतिपादनꣳ लाक्षणिकम् एव। अतो वाक्य-तात्पर्याविरोधाय सर्व-पदानाꣳ लक्षणापि न दोषः। अत इदम् एवार्थ-जातꣳ प्रतिपादयन्तो वेदान्ताः प्रमाणम्॥
Link copied[शास्त्र-प्रत्यक्षयोर् अविरोधः]
Link copiedप्रत्यक्षादि-विरोधे च शास्त्रस्य बलीयस्त्वम् उक्तम्। सति च विरोधे बलीयस्त्वꣳ वक्तव्यम्। विरोध एव न दृश्यते, निर्विशेष-सन्-मात्र-ब्रह्म-ग्राहित्वात् प्रत्यक्षस्य। ननु च-- घटोऽस्ति पटोऽस्ति इति नानाकार-वस्तु-विषयꣳ प्रत्यक्षꣳ कथम् इव सन्-मात्र-ग्राहीत्य् उच्यते। विलक्षण-ग्रहणाभावे सति सर्वेषाꣳ ज्ञानानाम् एक-विषयत्वेन धारावाहिक-विज्ञानवद् एक-व्यवहार-हेतुतैव स्यात्। सत्यम्। तथैवात्र विविच्यते। कथꣳ
Link copied[प्रत्यक्षस्य सन्-मात्र-ग्राहित्व-समर्थनम्]
Link copiedघटोऽस्तीत्य् अत्रास्तित्वꣳ तद्-भेदश् च व्यवह्रियते। न च द्वयोर् अपि व्यवहारयोः प्रत्यक्ष-मूलत्वꣳ सम्भवति, तयोर् भिन्न-काल-ज्ञान-फलत्वात्, प्रत्यक्ष-ज्ञानस्य चैक-क्षण-वर्तित्वात्। तत्र स्वरूपꣳ वा भेदो वा प्रत्यक्षस्य विषय इति विवेचनीयम्। भेद-ग्रहणस्य स्वरूप-ग्रहण-तत्-प्रतियोगि-स्मरण-सव्यपेक्षत्वाद् एव स्वरूप-विषयत्वम् अवश्याश्रयणीयम् इति न भेदः प्रत्यक्षेण गृह्यते। अतो भ्रान्ति-मूल एव भेद-व्यवहारः॥
Link copied[भेदस्य दुर्निरूपत्वम्]
Link copiedकिꣳ च भेदो नाम कश्चित् पदार्थो न्याय-विद्भिर् निरूपयितुꣳ न शक्यते। भेदस् तावन् न वस्तु-स्वरूपम्, वस्तु-स्वरूपे गृहीते स्वरूप-व्यहारवत् सर्वस्माद् भेद-व्यवहार-प्रसक्तेः। न च वाच्यꣳ-- स्वरूपे गृहीतेऽपि भिन्न इति व्यवहारस्य प्रतियोगि-स्मरण-सव्यपेक्षत्वात्, तत्-स्मरणाभावेन तदानीम् एव न भेद-व्यवहारः-- इति। स्वरूप-मात्र-भेद-वादिनो हि प्रतियोग्य्-अपेक्षा च नोत्प्रेक्षितुꣳ क्षमा, स्वरूप-भेदयोः स्वरूपत्वाविशेषात्। यथा स्वरूप-व्यवहारो न प्रतियोग्य्-अपेक्षः, भेद-व्यवहारोऽपि तथैव स्यात्। हस्तः करः इतिवत् घटो भिन्न इति पर्यायत्वꣳ च स्यात्। नापि धर्मः। धर्मत्वे सति तस्य स्वरूपाद्भेदोऽवश्याश्रयणीयः, अन्यथा स्वरूपम् एव स्यात्। भेदे च तस्यापि भेदस् तद्-धर्मस् तस्यापीत्य् अनवस्था। किꣳ च जात्य्-आदि-विशिष्ट-वस्तु-ग्रहणे सति भेद-ग्रहणम्, भेद-ग्रहणे सति जात्य्-आदि-विशिष्ट-वस्तु-ग्रहणम् इत्य् अन्योन्याश्रयणम्। अतो भेदस्य दुर्निरूपत्वात् सन्-मात्रस्यैव प्रकाशकꣳ प्रत्यक्षम्॥
Link copied[अनुवर्तमानꣳ सन्-मात्रꣳ परमार्थः]
Link copiedकिꣳ च घटोऽस्ति पटोऽस्ति घटोऽनुभूयते पटोऽनुभूयते इति सर्वे पदार्थाः सत्तानुभूति-घटिता एव दृश्यन्ते। अत्र सर्वासु प्रतिपत्तिषु सन्-मात्रम् अनुवर्तमानꣳ दृश्यत इति तद् एव परमार्थः।
Link copied[आश्रम-कर्माविनाभाविता]
Link copiedविशेषास् तु व्यावर्तमानतया अपरमार्थाः, रज्जु-सर्पादिवत्। यथा रज्जुर् अधिष्ठानतयानुवर्तमाना परमार्था सती; व्यावर्तमानाः सर्प-भू-दलनाम्बु-धारादयोऽपरमार्थाः।
Link copied[अबाधितत्व-बाधितत्वयोः प्रयोजकोपाधिता]
Link copiedननु च रज्जु-सर्पादौ रज्जुर् इयꣳ न सर्पः इत्य् आदि रज्ज्व्-आद्य्-अधिष्ठान-याथार्थ्य-ज्ञानेन बाधितत्वात् सर्पादेर् अपारमार्थ्यम्, न व्यावर्तमानत्वात्। रज्ज्व्-आदेर् अपि पारमार्थ्यꣳ नानुवर्तमानतया, किन्त्व् अबाधितत्वात्। अत्र तु घटादीनाम् अबाधितानाꣳ कथम् अपारमार्थ्यम् उच्यते, घटादौ दृष्टा व्यावृत्तिः सा किꣳरूपेति विवेचनीयम्। किꣳ घटोऽस्तीत्य् अत्र पटाद्य्-अभावः सिद्धꣳ तर्हि घटोऽस्तीत्य् अनेन पटादीनाꣳ बाधितत्वम्। अतो बाध-फल-भूता विषय-निवृत्तिर् व्यावृत्तिः। सा व्यावर्तमानानाम् अपारमार्थ्यꣳ साधयति। रज्जुवत् सन्-मात्रम् अबाधितम् अनुवर्तते। तस्मात् सन्-मात्रातिरेकि सर्वम् अपरमार्थः। प्रयोगश् च भवति-- सत्-परमार्थः, अनुवर्तमानत्वात्, रज्जु-सर्पादौ रज्ज्-वादिवत्। घटादयोऽपरमार्थाः, व्यावर्तमानत्वात्, रज्ज्व्-आद्य्-अधिष्ठान-सर्पादिवद् इति।
Link copied[सद्-अनुभूत्योर् ऐक्यम्, अनुभूतेः स्वतः सिद्धता च]
Link copiedएवꣳ सत्य् अनुवर्तमानानुभूतिर् एव परमार्थः, सैव सती॥
Link copiedननु च सन्-मात्रम् अनुभूतेर् विषयतया ततो भिन्नम्। नैवम्, भेदो हि प्रत्यक्षाविषयत्वाद् दुर्निरूपत्वाच् च पुरस्ताद् एव निरस्तः। अत एव सतोऽनुभूति-विषय-भावोऽपि न प्रमाण-पदवीम् अनुसरति। तस्मात् सद् अनुभूतिर् एव।
Link copiedसा च स्वतः सिद्धा, अनुभूतित्वात्। अन्यतः सिद्धौ घटादिवद् अननुभूतित्व-प्रसङ्गः।
Link copied[अनुभूतेर् अनुभूत्य्-अन्तरानपेक्षा]
Link copiedकिꣳ च, अनुभवापेक्षा चानुभूतेर् न शक्या कल्पयितुꣳ, सत्तयैव प्रकाशमानत्वात्। न ह्य् अनुभूतिर् वर्तमाना घटादिवद् अप्रकाशा दृश्यते, येन परायत्त-प्रकाशाभ्युपगम्येत॥
Link copied[अनुभूतेर् ज्ञाततानुमेयत्ववादः]
Link copiedअथैवꣳ मनुषे-- उत्पन्नायाम् अप्य् अनुभूतौ विषय-मात्रम् अवभासते घटोऽनुभूयते इति। न हि कश्चिद् घटोऽयम् इति जानन् तदानीम् एवाविषयभूताम् अनिदम्-भावाम् अनुभूतिम् अप्य् अनुभवति। तस्माद् घटादि-प्रकाश-निष्पत्तौ चक्षुर्-आदि-करण-सन्निकर्षवद् अनुभूतेः सद्-भाव एव हेतुः। तद्-अनन्तरम् अर्थ-गत-कादाचित्क-प्रकाशातिशय-लिङ्गेनानुभूतिर् अनुमीयते।
Link copied[अनुभूतेर् जडत्व-शङ्कापरिहारौ]
Link copiedएवꣳ तर्ह्य् अनुभूतेर् अजडाया अर्थवज् जडत्वम् आपद्यत इति चेत्, किम् इदम् अजडत्वꣳ नाम न तावत् स्व-सत्तायाः प्रकाशाव्यभिचारः, सुखादिष्व् अपि तत्-सम्भवात्। न हि कदाचिद् अपि सुखादयः सन्तो नोपलभ्यन्ते। अतोऽनुभूतिः स्वयम् एव नानुभूयते, अर्थान्तरꣳ स्पृशतोऽङ्गुल्य्-अग्रस्य स्वात्म-स्पर्शवद् अशक्यत्वाद् इति॥
Link copied[अनुभूतेर् ज्ञाततानुमेयत्व-निरासः]
Link copiedतद् इदम् अनाकिलतानुभव-विभवस्य स्व-मति-विजृम्भितम्, अनुभूति-व्यतिरेकिणो विषय-धर्मस्य प्रकाशस्य रूपादिवद् अनुपलब्धेः; उभयाभ्युपेतानुभूत्यैवाशेष-व्यवहारोपपत्तौ प्रकाशाख्य-धर्म-कल्पनानुपपत्तेश् च। अतो नानुभूतिर् अनुमीयते। नापि ज्ञानान्तर-सिद्धा। अपि तु सर्वꣳ साधयन्त्य् अनुभूतिः स्वयम् एव सिद्ध्यति। प्रयोगश् च-- अनुभूतिर् अनन्याधीन-स्व-धर्म-व्यवहारा स्व-सम्बन्धाद् अर्थान्तरे तद्-धर्म-व्यवहार-हेतुत्वात्; यः स्व-सम्बन्धाद् अर्थान्तरे यद्-धर्म-व्यवहार-हेतुः स तयोः स्वस्मिन्न् अनन्याधीनो दृष्टः; यथा रूपादिश् चाक्षुषत्वादौ। रूपादिर् हि पृथिव्यादौ स्व-सम्बन्धाच् चाक्षुषत्वादि जनयन् स्वस्मिन् न रूपादि-सम्बन्धाधीनश् चाक्षुषत्वादौ। अतोऽनुभूतिर् आत्मनः प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयम् एव हेतुः॥
Link copied[अनुभूतेर् नित्यता, तत्-प्राग्-अभावासिद्धिश् च]
Link copiedसेयꣳ स्वयम्प्रकाशानुभूतिर् नित्या च, प्राग्-अभावाद्य्-अभावात्। तद्-अभावश् च स्वतः सिद्धत्वाद् एव। न ह्य् अनुभूतेः स्वतः सिद्धायाः प्राग्-अभावः स्वतोऽन्यतो वावगन्तुꣳ शक्यते। अनुभूतिः स्वाभावम् अवगमयन्ती, सती तावन् नावगमयति। तस्याः सत्त्वे विरोधाद् एव तद्-अभावो नास्तीति कथꣳ सा स्वाभावम् अवगमयति एवम् असत्य् अपि नावगमयति; अनुभूतिः स्वयम् असती स्वाभावे कथꣳ प्रमाणꣳ भवेत्, नाप्यन्यतोऽवगन्तुꣳ शक्यते, अनुभूतेर् अनन्य-गोचरत्वात्। अस्याः प्राग्-अभावꣳ साधयत् प्रमाणम् अनुभूतिर् इयम् इति विषयीकृत्य तद्-अभावꣳ साधयेत्; स्वतः सिद्धत्वेन इयम् इति विषयीकारानर्हात्वात्, न तत्-प्राग्-अभावोऽन्यतः शक्यावगमः।
Link copied[अनुभूतौ भाव-विकाराणाम् असम्बन्धः]
Link copiedअतोऽस्याः प्राग्-अभावाभावाद् उत्पत्तिर् न शक्यते वक्तुम् इत्य् उत्पत्ति-प्रतिसम्बद्धाश् चान्येऽपि भाव-विकारास् तस्या न सन्ति॥
Link copied[अनुभूतिर् न नाना]
Link copiedअनुत्पन्नेयम् अनुभूतिर् आत्मनि नानात्वम् अपि न सहते, व्यापक-विरुद्धोपलब्धेः॥ न ह्य् अनुत्पन्नꣳ नाना-भूतꣳ दृष्टम्। भेदादीनाम् अनुभाव्यत्वेन च रूपादेर् इवानुभूति-धर्मत्वꣳ न सम्भवति। अतोऽनुभूतेर् अनुभव-स्वरूपत्वाद् एवान्योऽपि कश्चिद् अनुभाव्यो नास्या धर्मः॥
Link copied[सꣳविद् एवात्मा]
Link copiedयतो निर्धूत-निखिल-भेदा सꣳवित्, अत एव नास्याः स्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिद् अस्तीति स्व-प्रकाश-रूपा सैवात्मा, अजडत्वाच् च। अनात्मत्व-व्याप्तꣳ जडत्वꣳ सꣳविदि व्यावर्तमानम् अनात्मत्वम् अपि हि सꣳविदो व्यावर्तयति।
Link copied[ज्ञातृत्वꣳ नात्मार्थः]
Link copiedननु च-- अहꣳ जानामीति ज्ञातृता प्रतीति-सिद्धा। नैवम्, सा भ्रान्ति-सिद्धा, रजततेव शुक्ति-शकलस्य, अनुभूतेः स्वात्मनि कर्तृत्वायोगात्। अतो मनुष्योऽहम् इत्य् अत्यन्त-बहिर्-भूत-मनुष्यत्वादि-विशष्ट-पिण्डात्माभिमानवज् ज्ञातृत्वम् अप्य् अध्यस्तम्। ज्ञातृत्वꣳ हि ज्ञान-क्रिया-कर्तृत्वम्। तच् च विक्रियात्मकꣳ जडꣳ विकारि-द्रव्याहङ्कार-ग्रन्थिस्थम् अविक्रिये साक्षिणि चिन्-मात्रात्मनि कथम् इव सम्भवति। दृश्य्-अधीन-सिद्धित्वाद् एव रूपादेर् इव कर्तृत्वादेर् नात्म-धर्मत्वम्।
Link copied[आत्मनोऽहम्-प्रत्ययागोचरता]
Link copiedसुषुप्ति-मूर्च्छादाव् अहम्-प्रत्ययापायेऽप्य् आत्मानुभव-दर्शनेन नात्मनोऽहम्-प्रत्यय-गोचरत्वम्। कर्तृत्वेऽहम्-प्रत्यय-गोचरत्वे चात्मनोऽभ्युपगम्यमाने देहस्येव जडत्व-पराक्त्वानात्मत्वादि-प्रसङ्गो दुष्परिहरः। अहम्-प्रत्यय-गोचरात् कर्तृतया प्रसिद्धाद् देहात् तत्-क्रिया-फल-स्वर्गादेर् भोक्तुर् आत्मनोऽन्यत्वꣳ प्रामाणिकानाꣳ प्रसिद्धम् एव। तथाहम्-अर्थात् ज्ञातुर् अपि विलक्षणः साक्षी प्रत्याग्-आत्मेति प्रतिपत्तव्यम्।
Link copied[अनुभूतिर् अहङ्काराभिव्यङ्ग्या]
Link copiedएवम् अविक्रियानुभव-स्वरूपस्यैवाभिव्यञ्जको जडोऽप्य् अहङ्कारः स्वाश्रयतया तम् अभिव्यनक्ति। आत्म-स्थतयाभिव्यङ्ग्याभिव्यञ्जनम् अभिव्यञ्जकानाꣳ स्वभावः। दर्पण-जल-खण्डादिर् हि मुख-चन्द्र-बिम्ब-गोत्वादि-कमात्म-स्थतयाभिव्यनक्ति। तत्-कृतोऽयꣳ जानाम्य् अहम् इति भ्रमः।
Link copied[अभिव्यङ्ग्येनापि स्वाभिव्यङ्गयस्य अभिव्यञ्जनम्]
Link copiedस्व-प्रकाशायाः अनुभूतेः कथम् इव तद्-अभिव्यङ्ग्य-जड-रूपाहङ्कारेणाभिव्यङ्ग्यत्वम् इति मा वोचः, रवि-करनिकराभिव्यङ्ग्य-कर-तलस्य तद्-अभिव्यञ्जकत्व-दर्शनात्; जाल-करन्धर-निष्क्रान्त-द्युमणि-किरणानाꣳ तद्-अभिव्यङ्ग्येनापि कर-तलेन स्फुटतर-प्रकाशो हि दृष्ट-चरः॥
Link copied[आत्मनोऽनुभव-मात्रता, नानुभाव्यता]
Link copiedयतोऽहꣳ जानामीति ज्ञातायम् अहम्-अर्थः चिन्-मात्रात्मनो न पारमार्थिको धर्मः, अत एव सुषुप्ति-मुक्त्योर् नान्वेति। तत्र ह्य् अहम्-अर्थोल्लेख-विगमेन स्वाभाविकानुभव-मात्र-रूपेणात्मावभासते। अत एव सुप्तोत्थितः कदाचिन् माम् अप्य् अहꣳ न ज्ञातवान् इति परामृशति। तस्मात् परमार्थतो निरस्त-समस्त-भेद-विकल्प-निर्विशेष-चिन्-मात्रैकरस-कूटस्थ-नित्य-सꣳविद् एव भ्रान्त्या ज्ञातृ-ज्ञेय-ज्ञान-रूप-विविध-विचित्र-भेदा विवर्तत इति तन्-मूल-भूताविद्यानिबर्हाणाय नित्य-शुद्ध-बुद्ध-मुक्त-स्व-भाव-ब्रह्मात्मैकत्व-विद्या-प्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते इति॥
Link copied[इति महा-पूर्व-पक्षः]
Link copied[महा-सिद्धान्तः]
Link copied[परोक्तानाम् उपायोपेय-निवर्त्यानाꣳ प्रमाण-तर्काभास-मूलत्वम् अनादरणीयता च]
Link copiedतद् इदम् औपनिषद् अपरम् अपुरुष-वरणीयता-हेतु-गुण-विशेष-विरहिणाम् अनादि पाप-वासना-दूषिताशेष-शेमुषी-काणाम् अनधिगत-पद-वाक्य-स्वरूप-तद्-अर्थ-याथात्म्य-प्रत्यक्षादि-सकल-प्रमाण-वृत्त-तद्-इतिकर्तव्यता-रूप-समीचीन-न्याय-मार्गाणाꣳ विकल्पासह-विविध-कुतर्क-कल्क-कल्पितम् इति न्यायानुगृहीत-प्रत्यक्षादि-सकल-प्रमाण-वृत्त-याथात्म्यविद्भिर् अनादरणीयम्॥
Link copied[निर्विशेषस्य वस्तुनः प्रमाणतोऽसिद्धिः]
Link copiedतथा हि निर्विशेष-वस्तु-वादिभिर् निर्विशेषे वस्तुनीदꣳ प्रमाणम् इति न शक्यते वक्तुम्, सविशेष-वस्तु-विषयत्वात् सर्व-प्रमाणानाम्। यस् तु स्वानुभव-सिद्धम् इति स्व-गोष्ठी-निष्ठः समयः, सोऽप्य् आत्म-साक्षिक-सविशेषानुभवाद् एव निरस्तः। इदम् अहम् अदर्शम् इति केनचिद् विशेषेण विशिष्ट-विषयत्वात् सर्वेषाम् अनुभवानाम्॥
Link copied[निर्विशेषत्व-व्यवस्थापकत्वाभिमत-युक्तैर् आभासता]
Link copiedसविशेषोऽप्य् अनुभूयमानोऽनुभवः केनचिद् युक्त्याभासेन निर्विशेष इति निष्कृष्यमाणः सत्तातिरेकिभिः स्वासाधारणैः स्वभाव-विशेषैर् निष्क्रष्टव्य इति निष्कर्ष-हेतु-भूतैः सत्तातिरेकिभिः स्वासाधारणैः स्वभाव-विशेषैः सविशेष एवावतिष्ठते। अतः कैश्चिद् विशेषैर् विशष्टस्यैव वस्तुनोऽन्ये विशेषा निरस्यन्त इति, न क्वचिन् निर्विशेष-वस्तु-सिद्धिः।
Link copied[निर्विशेषत्वानुमानस्य बाधित्वम्]
Link copiedधियो हि धीत्वꣳ स्व-प्रकाशता च ज्ञातुर् विषय-प्रकाशन-स्वभावतयोपलब्धेः। स्वापमद-मूर्च्छासु च सविशेष एवानुभव इति स्वावसरे निपुणतरम् उपपादयिष्यामः।
Link copiedस्वाभ्युपगताश् च नित्यत्वादयो ह्य् अनेके विशेषाः सन्त्य् एव। ते च न वस्तु-मात्रम् इति शक्योपपादनाः, वस्तु-मात्राभ्युपगमे सत्य् अपि विधाभेद-विवाद-दर्शनात् स्वाभिमत-तद्-विधाभेदैश् च स्व-मतोपपादनात्। अतः प्रामाणिक-विशेषैर् विशिष्टम् एव वस्त्व् इति वक्तव्यम्॥
Link copied[निर्विशेषत्वꣳ वस्तुनि न शब्द-गम्यम्]
Link copiedशब्दस्य तु विशेषेण सविशेष एव वस्तुन्य् अभिधान-सामर्थ्यम्, पद-वाक्य-रूपेण प्रवृत्तेः। प्रकृति-प्रत्यय-योगेन हि पदत्वम्। प्रकृति-प्रत्ययोर् अर्थ-भेदेन पदस्यैव विशिष्टार्थ-प्रतिपादनम् अवर्जनीयम्। पद-भेदश् चार्थ-भेद-निबन्धनः। पद-सङ्घात-रूपस्य वाक्यस्यानेक-पदार्थ-सꣳसर्ग-विशेषाभिधायित्वेन निर्विशेष-वस्तु-प्रतिपादनासामर्थ्यात्, न निर्विशेष-वस्तुनि शब्दः प्रमाणम्।
Link copied[निर्विशेषत्वꣳ न प्रत्यक्षगम्यम्]
Link copiedप्रत्यक्षस्य निर्विकल्पक-सविकल्पक-भेद-भिन्नस्य न निर्विशेष-वस्तुनि प्रमाण-भावः। सविकल्पकꣳ जात्य्-आद्य्-अनेक-पदार्थ-विशिष्ट-विषयत्वाद् एव सविशेष-विषयम्। निर्विकल्पकम् अपि सविशेष-विषयम् एव, सविकल्पके स्वस्मिन्न् अनुभूत-पदार्थ-विशिष्ट-प्रतिसन्धान-हेतुत्वात्।
Link copied[निर्विकल्पक-सविकल्पकयोर् निष्कृष्टꣳ स्वरूपम्]
Link copiedनिर्विकल्पकꣳ नाम केनचिद् विशेषेण वियुक्तस्य ग्रहणम्, न सर्व-विशेष-रहितस्य, तथाभूतस्य कदाचिद् अपि ग्रहणादर्शनाद् अनुपपत्तेश् च।
Link copiedकेनचिद् विशेषेण इदम् इत्थम् इति हि सर्वा प्रतीतिर् उपजायते, त्रिकोण-सास्नादि-सꣳस्थान-विशेषेण विना कस्यचिद् अपि पदार्थस्य ग्रहणायोगात्। अतो निर्विकल्पकम् एकजातीय-द्रव्येषु प्रथम-पिण्ड-ग्रहणम्। द्वितीयादि-पिण्ड-ग्रहणꣳ सविकल्पकम् इत्य् उच्यते॥
Link copied[उक्त-विविक्ताकारस्य समर्थनम्]
Link copiedतत्र प्रथम-पिण्ड-ग्रहणे गोत्वादेर् अनुवृत्ताकारता न प्रतीयते। द्वितीयादि-पिण्ड-ग्रहणेषु एवानुवृत्ति-प्रतीतिः। प्रथम-प्रतीत्य्-अनुसꣳहित-वस्तु-सꣳस्थान-रूप-गोत्वादेर् अनुवृत्ति-धर्म-विशिष्टत्वꣳ द्वितीयादि-पिण्ड-ग्रहणावसेयम् इति, द्वितीयादि-ग्रहणस्य सविकल्पकत्वम्। सास्नादि-वस्तु-सꣳस्थान-रूप-गोत्वादेर् अनुवृत्तिर् न प्रथम-पिण्ड-ग्रहणे गृह्यत इति, प्रथम-पिण्ड-ग्रहणस्य निर्विकल्पकत्वम्, न पुनः सꣳस्थान-रूप-जात्य्-आदेर् अग्रहणात्। सꣳस्थान-रूप-जात्य्-आदेर् अप्य् ऐन्द्रियिकत्वाविशेषात्, सꣳस्थानेन विना सꣳस्थानिनः प्रतीत्य्-अनुपपत्तेश् च प्रथम-पिण्ड-ग्रहणेऽपि ससꣳस्थानम् एव वस्त्व् इत्थम् इति गृह्यते।
Link copiedअतो द्वितीयादि-पिण्ड-ग्रहणेषु गोत्वादेर् अनुवृत्ति-धर्म-विशिष्टता सꣳस्थानिवत् सꣳस्थानवच् च सर्वदैव गृह्यत इति तेषु सविकल्पकत्वम् एव। अतः प्रत्यक्षस्य कदाचिद् अपि न निर्विशेष-विषयत्वम्॥
Link copied[भेदाभेद-वादि-निरासः]
Link copiedअत एव सर्वत्र भिन्नाभिन्नत्वम् अपि निरस्तम्। इदम् इत्थम् इति प्रतीताव् इदम् इत्थम्भावयोर् ऐक्यꣳ कथम् इव प्रत्येतुꣳ शक्यते। तत्रेत्थम्भावः सास्नादि-सꣳस्थान-विशेषः, तद्-विशेष्यꣳ द्रव्यम् इदम् अꣳश इत्य् अनयोर् ऐक्यꣳ प्रतीति-पराहतम् एव। तथाहि-- प्रथमम् एव वस्तु प्रतीयमानꣳ सकलेतर-व्यावृत्तम् एव प्रतीयते। व्यावृत्तिश् च गोत्वादि-सꣳस्थान-विशेष-विशिष्टतयेत्थम् इति प्रतीतेः। सर्वत्र विशेषण-विशेष्य-भाव-प्रतिपत्तौ तयोर् अत्यन्त-भेदः प्रतीत्यैव सुव्यक्तः। तत्र दण्ड-कुण्डलादयः पृथक्-सꣳस्थान-सꣳस्थिताः स्वनिष्ठाश् च कदाचित् क्वचिद् द्रव्यान्तर-विशेषणतयावतिष्ठन्ते। गोत्वादयस् तु द्रव्य-सꣳस्थानतयैव पदार्थ-भूताः सन्तो द्रव्य-विशेषणतया अवस्थिताः। उभयत्र विशेषण-विशेष्य-भावः समानः। तत एव तयोर् भेद-प्रतिपत्तिश् च। इयाꣳस् तु विशेषः पृथक् स्थिति-प्रतिपत्ति-योग्या दण्डादयः, गोत्वादयस् तु नियमेन तद्-अनर्हा इति। अतो वस्तु-विरोधः प्रतीति-पराहत इति प्रतीति-प्रकार-निह्नवाद् एवोच्यते। प्रतीति-प्रकारो हि इदम् इत्थमित्य् एव सर्व-सम्मतः। तद् एतत् सूत्र-कारेण नैकस्मिन्न् असम्भवात् [ब्र। सू। २।२।३१] इति सुव्यक्तम् उपपादितम्॥
Link copied[निर्विशेषस्य प्रमाणाविषयत्व-निगमनम्]
Link copiedअतः प्रत्यक्षस्य सविशेष-विषयत्वेन प्रत्यक्षादि-दृष्ट-सम्बन्ध-विशिष्ट-विषयत्वाद् अनुमानम् अपि सविशेष-विषयम् एव। प्रमाण-सङ्ख्या-विवादेऽपि सर्वाभ्युपगत-प्रमाणानाम् अयम् एव विषय इति न केनापि प्रमाणेन निर्विशेष-वस्तु-सिद्धिः। वस्तु-गत-स्वभाव-विशेषैस् तद् एव वस्तु निर्विशेषम् इति वदन् जननी-बन्ध्यात्व-प्रतिज्ञायाम् इव स्व-वाग्-विरोधम् अपि न जानाति।
Link copied[प्रत्यक्षस्य सन्-मात्र-ग्राहिता निर्युक्तिकी]
Link copiedयत् तु प्रत्यक्षꣳ सन्-मात्र-ग्राहित्वेन न भेदि-विषयम्, भेदश् च विकल्पासहत्वाद् दुर्निरूपः-- इत्य् उक्तम्, तद् अपि जात्य्-आदि-विशिष्टस्यैव वस्तुनः प्रत्यक्ष-विषयत्वाज् जात्य्-आदेर् एव प्रतियोग्य्-अपेक्षया वस्तुनः स्वस्य च भेद-व्यवहार-हेतुत्वाच् च दूरोत्सारितम्। सꣳवेदनवद् रूपादिवच् च परत्र व्यवहार-विशेष-हेतोः स्वस्मिन्न् अपि तद्-व्यवहार-हेतुत्वꣳ युष्माभिर् अभ्युपेतꣳ भेदस्यापि सम्भवत्य् एव।
Link copiedअत एव च नानवस्थान्योन्याश्रयणꣳ च। एक-क्षण-वर्तित्वेऽपि प्रत्यक्ष-ज्ञानस्य तस्मिन्न् एव क्षणे वस्तु-भेद-रूप-तत्-सꣳस्थान-रूप-गोत्वादेर् गृहीतत्वात् क्षणान्तर-ग्राह्यꣳ न किञ्चिद् इह तिष्ठति॥
Link copied[प्रत्यक्षस्य सन्-मात्र-ग्राहितायाꣳ प्रतिपत्ति-व्यवहार-शब्द-विरोधाः]
Link copiedअपि च सन्-मात्र-ग्राहित्वे घटोऽस्ति, पटोऽस्ति इति विशिष्ट-विषया प्रतीतिर् विरुध्यते। यदि च सन्-मात्रातिरेकि-वस्तु-सꣳस्थान-रूप-जात्य्-आदि-लक्षणो भेदः प्रत्यक्षेण न गृहीतः किम् इत्य् अश्वार्थी महिष-दर्शने निवर्तते। सर्वासु प्रतिपत्तिषु सन्-मात्रम् एव विषयश् चेत्, तत्-तत्-प्रतिपत्ति-विषय-सहचारिणः सर्वे शब्दा एकैक-प्रतिपत्तिषु किम् इति न स्मर्यन्ते।
Link copied[सन्मात्रग्रहणे प्रतीत्यवान्तरजातिविरोधः]
Link copiedकिꣳ च, अश्वे हस्तिनि च सꣳवेदनयोर् एक-विषयत्वेन उपरितनस्य गृहीत-ग्राहित्वाद् विशेषाभावाच् च स्मृति-वैलक्षण्यꣳ न स्यात्। प्रतिसꣳवेदनꣳ विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थ-विषयत्वम् एवाभ्युपगतꣳ भवति। सर्वेषाꣳ सꣳवेदनानाम् एक-विषयतायाम् एकेनैव सꣳवेदनेन अशेष-ग्रहणाद् अन्ध-बधिराद्य्-अभावश् च प्रसज्येत।
Link copied[करण-व्यवस्थार्थꣳ विषय-भेदोपपादनम्]
Link copiedन च चक्षुषा सन्-मात्रꣳ गृह्यते, तस्य रूप-रूपि-रूपैकार्थ-समवेत-पदार्थ-ग्राहित्वात्। नापि त्वचा स्पर्शवद् वस्तु-विषयत्वात्। श्रोत्रादीन्य् अपि न सन्-मात्र-विषयाणि किन्तु शब्द-रस-गन्ध-लक्षण-विशेष-विषयाण्य् एव। अतः सन्-मात्रस्य ग्राहकꣳ न किञ्चिद् इह दृश्यते॥
Link copied[सन्-मात्र-ग्राहित्वे शास्त्रानुत्थानम्]
Link copiedनिर्विशेष-सन्-मात्रस्य च प्रत्यक्षेणैव ग्रहणे तद्-विषयागमस्य प्राप्त-विषयत्वेनानुवादकत्वम् एव स्यात्। सन्-मात्र-ब्रह्मणः प्रमेय-भावश् च। ततो जडत्वनाशित्वादयस् त्वयैवोक्ताः। अतो वस्तु-सꣳस्थान-रूप-जात्य्-आदि-लक्षण-भेद-विशिष्टम् एव प्रत्यक्षम्॥
Link copied[सꣳस्थानम् एव जातिर् भेदश् च]
Link copiedसꣳस्थानातिरेकिणोऽनेकेष्व् एकाकार-बुद्धि-बोध्यस्यादर्शनात्, तावतैव गोत्वादि-जाति-व्यवहारोपपत्तेः। अतिरेक-वादेऽपि सꣳस्थानस्य सम्प्रतिपन्नत्वाच् च सꣳस्थानम् एव जातिः। सꣳस्थानꣳ नाम स्वासाधारणꣳ रूपम् इति यथावस्तु सꣳस्थानम् अनुसन्धेयम्। जाति-ग्रहणेनैव भिन्न इति व्यवहार-सम्भवात्, पदार्थान्तरादर्शनात्, अर्थान्तर-वादिनाप्य् अभ्युपगतत्वाच् च गोत्वादिर् एव भेदः।
Link copied[भेद-व्यवहारस्य प्रतियोगि-सापेक्षत्वोपपत्तिः]
Link copiedननु च जात्य्-आदिर् एव भेदश् चेत् तस्मिन् गृहीते तद्-व्यवहारवद् भेद-व्यहारोऽपि स्यात्। सत्यम्। भेदश् च व्यवह्रियत एव, गोत्वादि-व्यवहारात्। गोत्वादिर् एव हि सकलेतर-व्यावृत्तिः, गोत्वादौ गृहीते सकलेतर-सजातीय-बुद्धि-व्यवहारयोर् निवृत्तेः। भेद-ग्रहणेनैव ह्य् अभेद-निवृत्तिः। अयम् अस्माद् भिन्नः इति तु व्यवहारे प्रतियोगि-निर्देशस्य तद्-अपेक्षत्वात् प्रतियोग्य्-अपेक्षया भिन्न इति व्यवहार इत्य् उक्तम्।
Link copied[पारमार्थ्यापारमार्थ्य-साधकानुमान-दूषणम्]
Link copiedयत् पुनर् घटादीनाꣳ विशेषाणाꣳ व्यावर्तमानत्वेनापारमार्थ्यम् उक्तꣳ तद् अनालोचित-बाध्य-बाधक-भाव-व्यावृत्त्य्-अनुवृत्ति-विशेषस्य भ्रान्ति-परिकल्पितम्। द्वयोर् ज्ञानयोर् विरोधे हि बाध्य-बाधक-भावः। बाधितस्यैव व्यावृत्तिः। अत्र घट-पटादिषु देश-काल-भेदेन विरोध एव नास्ति। यस्मिन् देशे यस्मिन् काले यस्य सद्-भावः प्रतिपन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश् चेत् तत्र विरोधात् बलवतो बाधकत्वꣳ बाधितस्य च निवृत्तिः। देशान्तर-कालान्तर-सम्बन्धितयानुभूतस्यान्य-देश-कालयोर् अभाव-प्रतिपत्तौ न विरोध इति कथम् अत्र बाध्य-बाधक-भावः। अन्यत्र निवृत्तस्यान्यत्र निवृत्तिर् वा कथम् उच्यते। रज्जु-सर्पादिषु तु तद्-देश-काल-सम्बन्धितयैवाभावप्रतीतेः, विरोधो बाधकत्वꣳ व्यावृत्तिश् चेति देश-कालान्तर-दृष्टस्य देशान्तर-कालान्तर-व्यावर्तमानत्वꣳ मिथ्यात्व-व्याप्तꣳ न दृष्टम् इति न व्यावर्तमानत्व-मात्रम् अपारमार्थ्य-हेतुः।
Link copiedयत् त्व् अनुवर्तमानत्वात् सत्-परमार्थ इति, तत् सिद्धम् एवेति न साधनम् अर्हति। अतो न सन्-मात्रम् एव वस्तु॥
Link copied[सद्-अनुभूत्योर् नानात्वम्]
Link copiedअनुभूति-सद्-विशेषयोश् च विषय-विषयि-भावेन भेदस्य प्रत्यक्ष-सिद्धत्वाद् अबाधितत्वाच् च अनुभूतिर् एव सतीत्य् एतद् अपि निरस्तम्॥
Link copied[अनुभूतेः स्वयम्प्रकाशत्व-परिमितिः]
Link copiedयत् त्व् अनुभूतेः स्वयम्प्रकाशत्वम् उक्तम्, तद्-विषय-प्रकाशन-वेलायाꣳ ज्ञातु रात्मनस् तथैव। न तु सर्वेषाꣳ सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादि-लिङ्गकानुमान-ज्ञान-विषयत्वात्, स्वानुभवस्याप्य् अतीतस्य अज्ञासिषम् इति ज्ञान-विषयत्व-दर्शनाच् च। अतोऽनुभूतिश् चेत् स्वतः सिद्धेति वक्तुꣳ न शक्यते॥
Link copied[अनुभूतित्वानुभाव्यत्वयोर् अविरोधः]
Link copiedअनुभूतेर् अनुभाव्यत्वे, अननुभूतित्वम् इत्य् अपि दुरुक्तम्, स्वगतातीतानुभवानाꣳ परगतानुभवानाꣳ चानुभाव्यत्वेनाननुभूतित्व-प्रसङ्गात्। परानुभवानुमानानभ्युपगमे च शब्दार्थ-सम्बन्ध-ग्रहणाभावेन समस्त-शब्द-व्यवहारोच्छेद-प्रसङ्गः। आचार्यस्य ज्ञानवत्त्वम् अनुमाय तद्-उपसत्तिश् च क्रियते। सा च नोपपद्यते।
Link copied[वेद्यत्वानुभूतित्वयोर् न व्याप्तिः]
Link copiedन चान्य-विषयत्वेऽननुभूतित्वम्। अनुभूतित्वꣳ नाम वर्तमान-दशायाꣳ स्व-सत्तयैव स्वाश्रयꣳ प्रति प्रकाशमानत्वम्, स्व-सत्तयैव स्व-विषय-साधनत्वꣳ वा। ते चानुभवान्तरानुभाव्यत्वेऽपि स्वानुभव-सिद्धे नापगच्छत इति नानुभूतित्वम् अपगच्छेत्। घटादेस् त्व् अननुभूतित्वम् एतत् स्वभाव-विरहात्, नानुभाव्यत्वात्। तथानुभूतेर् अननुभाव्यत्वेऽप्य् अननुभूतित्व-प्रसङ्गो दुर्वारः, गगन-कुसुमादेर् अननुभाव्यस्य अननुभूतित्वात्॥
Link copiedगगन-कुसुमादेर् अननुभूतितत्वम् असत्त्व-प्रयुक्तम्, नाननुभाव्यत्व-प्रयुक्तम् इति चेद् एवꣳ तर्हि घटादेर् अप्य् अज्ञानाविरोधित्वम् एवाननुभूतित्व-निबन्धनम्, नानुभाव्यत्वम् इत्य् आस्थीयताम्॥
Link copiedअनुभूतेर् अनुभाव्यत्वे, अज्ञानाविरोधित्वम् अपि तस्या घटादेर् इव प्रसज्यत इति चेद् अननुभाव्यत्वेऽपि गगन-कुसुमादेर् इवाज्ञानाविरोधित्वम् अपि प्रसज्यत एव। अतोऽनुभाव्यत्वे अननुभूतित्वम् इत्य् उपहास्यम्॥
Link copied[सꣳविदः पराभिमत-नित्यत्व-निरासः]
Link copiedयत् तु सꣳविदः स्वतः सिद्धायाः प्राग्-अभावाद्य्-अभावाद् उत्पत्तिर् निरस्यते। तद्-अन्धस्य जात्य्-अन्धेन यष्टिः प्रदीयते। प्राग्-अभावस्य ग्राहकाभावाद् अभावो न शक्यते वक्तुम्, अनुभूत्यैव ग्रहणात्।
Link copiedकथम् अनुभूतिः सती तदानीम् एव स्वाभावꣳ विरुद्धम् अवगमयतीति चेन् न ह्य् अनुभूतिः स्व-सम-काल-वर्तिनम् एव विषयीकरोतीत्य् अस्ति नियमः, अतीतानागतयोर् अविषयत्व-प्रसङ्गात्॥
Link copied[ग्राह्य-विशेषस्याप्य् अनुभूति-यौगपद्यानियमः]
Link copiedअथ मन्यसे अनुभूति-प्राग्-अभावादेः सिद्ध्यतस् तत्-सम-काल-भाव-नियमोऽस्तीति। किꣳ त्वया क्वचिद् एवꣳ दृष्टꣳ येन नियमꣳ ब्रवीषि। हन्त तर्हि तत एव दर्शनात् प्राग्-अभावादिः सिद्ध इति न तद्-अपह्नवः। तत्-प्राग्-अभावꣳ च तत्-सम-काल-वर्तिनम् अनुन्मत्तः को ब्रवीति। इन्द्रिय-जन्मनः प्रत्यक्षस्य ह्य् एष स्वभाव-नियमो यत् स्व-सम-काल-वर्तिनः पदार्थस्य ग्राहकत्वम्। न सर्वेषाꣳ ज्ञानानाꣳ प्रमाणानाꣳ च, स्मरणानुमानागम-योगि-प्रत्यक्षादिषु कालान्तर-वर्तिनोऽपि ग्रहण-दर्शनात्।
Link copied[प्रमाणाप्रमाण-ज्ञानयोर् वैषम्यम्]
Link copiedअत एव च प्रमाणस्य प्रमेयाविनाभावः। न हि प्रमाणस्य स्व-सम-काल-वर्तिना अविनाभावोऽर्थ-सम्बन्धः, अपि तु यद्-देश-कालादि-सम्बन्धितया योऽर्थोऽवभासते तस्य तथाविधाकार-मिथ्यात्व-प्रत्यनीकता। अत इदम् अपि निरस्तꣳ स्मृतिर् न बाह्य-विषया नष्टेऽप्य् अर्थे स्मृति-दर्शनाद् इति॥
Link copied[सꣳवित्-प्राग्-अभावे प्रमाणाभाव-निरसनम्]
Link copiedअथोच्येत-- न तावत् सꣳवित्-प्राग्-अभावः प्रस्यक्षावसेयः, अवर्तमानत्वात्। न च प्रमाणान्तरावसेयो लिङ्गाद्य्-अभावात्। न हि सꣳवित्-प्राग्-अभाव-व्याप्तम् इह लिङ्गम् उपलभ्यते। न चागमस् तावत् तद्-विषयो दृष्ट-चरः। अतस् तत्-प्राग्-अभावः प्रमाणाभावाद् एव न सेत्स्यति-- इति। यद्य् एवꣳ स्वतः सिद्धत्व-विभवꣳ परित्यज्य प्रमाणाभावेऽवरूढश् चेत्, योग्यानुपलध्यैवाभावः समर्थित इत्य् उपशाम्यतु भवान्॥
Link copied[ज्ञान-नित्यत्व-साधनम्]
Link copiedकिꣳ च प्रत्यक्ष-ज्ञानꣳ स्व-विषयꣳ घटादिकꣳ स्व-सत्ता-काले सन्तꣳ साधयत् तस्य न सर्वदा सत्ताम् अवगमयद् दृश्यत इति घटादेः पूर्वोत्तर-काल-सत्ता न प्रतीयते। तद्-अप्रतीतिश् च सꣳवेदनस्य काल-परिच्छिन्नतया प्रतीतेः। घटादि-विषयम् एव सꣳवेदनꣳ स्वयꣳ कालानवच्छिन्नꣳ प्रतीतꣳ चेत्, सꣳवेदन-विषयो घटादिर् अपि कालानवच्छिन्नः प्रतीयेतेति नित्यः स्यात्। नित्यꣳ चेत् सꣳवेदनꣳ स्वतः सिद्धꣳ नित्यम् इत्य् एव प्रतीयेत। न च तथा प्रतीयते।
Link copiedएवम् अनुमानादि-सꣳविदोऽपि कालानवच्छिन्नाः प्रतीताश् चेत् स्व-विषयान् अपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालानवच्छिन्ना नित्याः स्युः, सꣳविद्-अनुरूपत्वाद् विषयाणाम्।
Link copied[निर्विषयानुभव-नित्यत्व-पक्ष-दूषणम्]
Link copiedन च निर्विषया काचित् सꣳविद् अस्ति, अनुपलब्धेः। विषय-प्रकाशनतयैवोपलब्धेर् एव हि सꣳविदः स्वयम्प्रकाशता समर्थिता, सꣳविदो विषय-प्रकाशनता-स्वभाव-विरहे सति स्वयम्प्रकाशत्वासिद्धेः, अनुभूतेर् अनुभवान्तराननुभाव्यत्वाच् च सꣳविदस् तुच्छतैव स्यात्॥
Link copied[स्वापादिष्व् अनुभूतेर् अस्फुरणम्]
Link copiedन च स्वाप-मद-मूर्च्छादिषु सर्व-विषय-शून्या केवलैव सꣳवित्-परिस्फुरतीति वाच्यम्, योग्यानुपलब्धि-पराहतत्वात्। तास्व् अपि दशास्व् अनुभूतिर् अनुभूता चेत् तस्याः प्रबोध-समयेऽनुसन्धानꣳ स्यात्। न च तद् अस्ति॥
Link copied[अस्मरण-नियमोऽनुभवाभाव-साधकः]
Link copiedनन्व् अभूतस्य पदार्थस्य स्मरण-नियमो न दृष्ट-चरः। अतः स्मरणाभावः कथम् अनुभवाभावꣳ साधयेत्। उच्यते--- निखिल-सꣳस्कार-तिरस्कृति-कर-देह-विगमादि-प्रबल-हेतु-विरहेऽप्य् अस्मरण-नियमोऽनुभवाभावम् एव साधयति॥
Link copiedन केवलम् अस्मरण-नियमाद् अनुभवाभावः, सुप्तोत्थितस्य इयन्तꣳ कालꣳ न किञ्चद् अहम् अज्ञासिषम् इति प्रत्यवमर्शेनैव सिद्धेः। न च सत्य् अप्य् अनुभवे तद्-अस्मरण-नियमो विषयावच्छेद-विरहाद् अहङ्कार-विगमाद् वा इति शक्यते वक्तुम्, अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरण-हेतुत्वाभावात्। तास्व् अपि दशास्व् अहम्-अर्थोऽनुवर्तत इति च वक्ष्यते॥
Link copied[पूर्वोक्तार्थ-व्याघात-शङ्कापरिहारौ]
Link copiedननु स्वापादि-दशास्व् अपि सविशेषोऽनुभवोऽस्तीति पूर्वम् उक्तम्। सत्यम् उक्तम्। स त्व् आत्मानुभवः। स च सविशेष एवेति स्थापयिष्यते। इह तु सकल-विषय-विरहिणी निराश्रया च सꣳविन् निषिध्यते। केवलैव सꣳविद् आत्मानुभव इति चेत् सा च साश्रयेति ह्य् उपपादयिष्यते।
Link copied[उक्तार्थ-निगमनम्]
Link copiedअतोऽनुभूतिः सती स्वयꣳ स्व-प्राग्-अभावꣳ न साधयतीति प्राग्-अभावासिद्धिर् न शक्यते वक्तुम्। अनुभूतेर् अनुभाव्यत्व-सम्भवोपपादनेन अन्यतोऽप्य् असिद्धिर् निरस्ता। तस्मान् न प्राग्-अभावाद्य्-असिद्ध्या सꣳविदोऽनुत्पत्तिर् उपपत्तिमती॥
Link copied[सꣳविद उत्पत्तेर् अभावात् तत्-कृत-विकारस्याप्य् अभाव इत्य् एतद् दूषणम्]
Link copiedयद् अप्य् अस्या अनुत्पत्त्या विकारान्तर-निरसनꣳ तद् अप्य् अनुपपन्नम्, प्राग्-अभावे व्यभिचारात्। तस्य हि जन्माभावेऽपि विनाशो दृश्यते। भावेष्व् इति विशेषणे तर्क-कुशलताविष्कृता भवति। तथा च भवद्-अभिमताविद्यानुत्पन्नैव विविध-विकारास्पदꣳ तत्त्व-ज्ञानोदयाद् अन्तवती चेति तस्याम् अनैकान्त्यम्। तद्-विकाराः सर्वे मिथ्या-भूता इति चेत्, किꣳ भवतः परमार्थ-भूतोऽप्य् अस्ति विकारः येनैतद् विशेषणम् अर्थवद् भवति। न ह्य् असाव् अभ्युपगम्यते॥
Link copied[अजत्वस्य नानात्वाभाव-व्याप्यतादूषणम्]
Link copiedयद् अप्य् अनुभूतिर् अजत्वात् स्वस्मिन् विभागꣳ न सहते इति तद् अपि नोपपद्यते, अजस्यैवात्मनो देहेन्द्रियादिभ्यो विभक्तत्वाद् अनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात्। स विभागो मिथ्या-रूप इति चेत्, जन्म-प्रतिबद्धः पारमार्थिक-विभागः किꣳ क्वचिद् दृष्टस् त्वया। अविद्याया आत्मनः परमार्थतो विभागाभावे वस्तुतो ह्य् अविद्यैव स्याद् आत्मा। अबाधित-प्रतिपत्ति-सिद्ध-दृश्य-भेद-समर्थनेन दर्शन-भेदोऽपि समर्थित एव, छेद्य-भेदाच् छेदन-भेदवत्॥
Link copied[दृशित्व-दृश्यत्व-हेतुकानुमान-दूषणम्]
Link copiedयद् अपि नास्या दृशेर् दृशि-स्वरूपाया दृश्यः कश्चिद् अपि धर्मोऽस्ति, दृश्यत्वाद् एव तेषाꣳ न दृशि-धर्मत्वम् इति च। तद् अपि स्वाभ्युपगतैः प्रमाण-सिद्धैर् नित्यत्व-स्वयम्प्रकाशत्वादि-धर्मैर् उभयम् अनैकान्तिकम्। न च ते सꣳवेदन-मात्रम्, स्वरूप-भेदात्। स्व-सत्तयैव स्वाश्रयꣳ प्रति कस्यचिद् विषयस्य प्रकाशनꣳ हि सꣳवेदनम्। स्वयम्प्रकाशता तु स्व-सत्तयैव स्वाश्रयाय प्रकाशमानता। प्रकाशश् च चिद्-अचिद्-अशेष-पदार्थ-साधारणꣳ व्यवहारानुगुण्यम्।
Link copiedसर्व-काल-वर्तमानत्वꣳ हि नित्यत्वम्। एकत्वम् एक-सङ्ख्यावच्छेद इति। तेषाꣳ जडत्वाद्य्-अभाव-रूपतायाम् अपि तथाभूतैर् अपि चैतन्य-धर्म-भूतैस् तैर् अनैकान्त्यम् अपरिहार्यम्। सꣳविदि तु स्वरूपातिरेकेण जडत्वादि-प्रत्यनीकत्वम् इत्य् अभाव-रूपो भाव-रूपो वा धर्मो नाभ्युपेतश् चेत्, तत्-तन्-निषेधोक्त्या किम् अपि नोक्तꣳ भवेत्॥
Link copied[सꣳविद आत्मत्व-निरासोपक्रमः]
Link copiedअपि च सꣳवित् सिद्ध्यति वा न वा। सिद्ध्यति चेत्, सधर्मता स्यात्। न चेत्, तुच्छता, गगन-कुसुमादिवत्। सिद्धिर् एव सꣳविद् इति चेत्, कस्य कꣳ प्रतीति वक्तव्यम्। यदि न कस्यचित् किञ्चित् प्रति सा तर्हि न सिद्धिः। सिद्धिर् हि पुत्रत्वम् इव कस्यचित् किञ्चित् प्रति भवति। आत्मन इति चेत्, कोऽयम् आत्मा ननु सꣳविद् एवेत्य् उक्तम्। सत्यम् उक्तम्। दुरुक्तꣳ तु तत्। तथाहि--- कस्यचित् पुरुषस्य किञ्चिद्-अर्थ-जातꣳ प्रति सिद्धि-रूपा तत्-सम्बन्धिनी सा सꣳवित् स्वयꣳ कथम् इवात्म-भावम् अनुभवेत्॥
Link copied[सꣳविद अनात्मत्व-निष्कर्षणम्]
Link copiedएतद् उक्तꣳ भवति-- अनुभूतिर् इति स्वाश्रयꣳ प्रति स्व-सद्-भावेनैव कस्यचिद् वस्तुनो व्यवहारानुगुण्यापादन-स्वभावो ज्ञानावगति-सꣳविद्-आद्य्-अपर-नामा सकर्मकोऽनुभवितुर् आत्मनो धर्म-विशेषो घटम् अहꣳ जानामीमम् अर्थम् अवगच्छामि पटम् अहꣳ सꣳवेद्मि इति सर्वेषाम् आत्म-साक्षिकः प्रसिद्धः। एतत् स्वभावतया हि तस्याः स्वयम्प्रकाशता भवताप्य् उपपादिता। अस्य सकर्मकस्य कर्तृ-धर्म-विशेषस्य कर्मत्ववत् कर्तृत्वम् अपि दुर्घटम् इति॥
Link copied[स्थिरत्वास्थिरत्वेऽपि सꣳविद् अनात्मत्व-साधके]
Link copiedतथाहि--- अस्य कर्तुः स्थिरत्वꣳ कर्तृ-धर्मस्य सꣳवेदनाख्यस्य सुख-दुःखादेर् इवोत्पत्ति-स्थिति-निरोधाश् च प्रत्यक्षम् ईक्ष्यन्ते। कर्तृ-स्थैर्यꣳ तावत् स एवायम् अर्थः पूर्वꣳ मयानुभूतः इति प्रत्यभिज्ञा-प्रत्यक्ष-सिद्धम्। अहꣳ जानामि, अहम् अज्ञासिषꣳ, ज्ञातुर् एव ममेदानीꣳ ज्ञानꣳ नष्टम् इति च सꣳविद्-उत्पत्त्य्-आदयः प्रत्यक्ष-सिद्धा इति कुतस् तद्-ऐक्यम्। एवꣳ क्षण-भङ्गिन्याः सꣳविद आत्मत्वाभ्युपगमे पूर्वेद्युर् दृष्टम् अपरेद्युर् इदम् अहम् अदर्शम् इति प्रत्यभिज्ञा च न घटते। अन्येनानुभूतस्य न ह्य् अन्येन प्रत्यभिज्ञान-सम्भवः॥
Link copied[सꣳविदः स्थिरत्वेऽप्य् अनात्मता]
Link copiedकिꣳ च--- अनुभूतेर् आत्मत्वाभ्युपगमे तस्या नित्यत्वेऽपि प्रतिसन्धानासम्भवस् तद्-अवस्थः। प्रतिसन्धानꣳ हि पूर्वापर-काल-स्थायिनम् अनुभवितारम् उपस्थापयति, नानुभूति-मात्रम्। अहम् एवेदꣳ पूर्वम् अप्य् अन्वभूवम् इति। भवतोऽप्य् अनुभूतेर् न ह्य् अनुभवितृत्वम् इष्टम्।
Link copied[क्रियाया अकर्तृत्वात् सꣳविद अनात्मत्वम्]
Link copiedअनुभूतिर् अनुभूति-मात्रम् एव। सꣳविन् नाम काचिन् निराश्रया निर्विषया वात्यन्तानुपलब्धेर् न सम्भवतीत्य् उक्तम्। उभयाभ्युपेता सꣳविद् एवात्मेत्य् उपलब्धि-पराहतम्। अनुभूति-मात्रम् एव परमार्थ इति निष्कर्षक-हेत्वाभासाश् च निराकृताः॥
Link copied[आत्मनोऽहम्-अर्थत्वꣳ प्रत्यक्त्वाबाधकम्]
Link copiedननु च, अहꣳ जानामि इत्य् अस्मत्-प्रत्यये योऽनिदम्-अꣳशः प्रकाशैकरसश् चित्-पदार्थः स आत्मा। तस्मिꣳस् तद्-बल-निर्भासिततया युष्मद्-अर्थ-लक्षणोऽहꣳ जानामीति सिध्यन्न् अहम्-अर्थश् चिन्-मात्रातिरेकी युष्मद्-अर्थ एव। नैतद् एवम्। अहꣳ जानामि इति धर्म-धर्मितया प्रत्यक्ष-प्रतीति-विरोधाद् एव॥
Link copied[प्रत्यक्त्वाद् अहम्-अर्थ एवात्मा]
Link copiedकिꣳ च---
Link copiedअहम्-अर्थो न चेद् आत्मा प्रत्यक्त्वꣳ नात्मनो भवेत्।
Link copiedअहꣳ बुद्ध्या परागर्थात् प्रत्यगर्थो हि भिद्यते॥
Link copied[मुमुक्षोर् अभिसन्धिः]
Link copiedनिरस्ताखिल-दुःखोऽहम् अनन्तानन्द-भाक् स्वराट्।
Link copiedभवेयम् इति मोक्षार्थी श्रवणादौ प्रवर्तते॥
Link copied[शास्त्र-प्रामाण्यान्यथानुपपत्त्या अहम्-अर्थ आत्मा]
Link copiedअहम्-अर्थ-विनाशश् चेन् मोक्ष इत्य् अध्यवस्यति।
Link copiedअपसर्पेद् असौ मोक्ष-कथा-प्रस्ताव-गन्धतः॥
Link copiedमयि नष्टेऽपि मत्तोऽन्या काचिज् ज्ञप्तिर् अवस्थिता।
Link copiedइति तत्-प्राप्तये यत्नः कस्यापि न भविष्यति॥
Link copiedस्व-सम्बन्धितया ह्य् अस्याः सत्ता विज्ञप्तितादि च।
Link copiedस्व-सम्बन्ध-वियोगे तु ज्ञप्तिर् एव न सिद्ध्यति॥
Link copiedछेत्तुश् छेद्यस्य चाभावे छेदनादेर् असिद्धिवत्।
Link copiedअतोऽहम्-अर्थो ज्ञातैव प्रत्यग्-आत्मेति निश्चितम्॥
Link copiedविज्ञातारम् अरे [बृहद्।, ४।४।१४] केन जानात्य् एवेति च श्रुतिः।
Link copiedएतद्यो वेत्ति तꣳ प्राहुः क्षेत्रज्ञ [भ। गी।, १३।१] इति च स्मृतिः॥
Link copiedनात्मा श्रुतेः [ब्र। सू। २।३।१८] इत्य् आरभ्य सूत्र-कारोऽपि वक्ष्यति।
Link copiedज्ञोऽत एव [ब्र। सू। २।३।१९] इत्य् अतो नात्मा ज्ञप्ति-मात्रम् इति स्थितम्॥
Link copied[युष्मद्-अस्मद्-अर्थयोर् ऐक्यꣳ व्याहतम्]
Link copiedअहꣳ-प्रत्यय-सिद्धो ह्य् अस्मद्-अर्थः, युष्मत्-प्रत्यय-विषयो युष्मद्-अर्थः। तत्राहꣳ जानामीति सिद्धो ज्ञाता युष्मद्-अर्थ इति वचनꣳ जननी मे बन्ध्येतिवद् व्याहतार्थꣳ च। न चासौ ज्ञाताहम्-अर्थोऽन्याधीन-प्रकाशः स्वयम्प्रकाशत्वात्। चैतन्य-स्वभावता हि स्वयम्प्रकाशता। यः प्रकाश-स्वभावः, सोऽनन्याधीन-प्रकाशः दीपवत्।
Link copied[दीपस्य स्वयम्प्रकाशता-भङ्ग-परिहारौ]
Link copiedन हि दीपादेः स्व-प्रभा-बल-निर्भासितत्वेनाप्रकाशत्वम् अन्याधीन-प्रकाशत्वꣳ च। किꣳ तर्हि दीपः स्वयम्प्रकाश-स्वभावः स्वयम् एव प्रकाशते, अन्यान् अपि प्रकाशयति प्रभया॥
Link copied[धर्म-धर्मिणोर् द्वयोर् अपि ज्ञान-रूपता]
Link copiedएतद् उक्तꣳ भवति-- यथैकम् एव तेजो-द्रव्यꣳ प्रभा-प्रभावद् रूपेणावतिष्ठते। यद्य् अपि प्रभा प्रभावद् द्रव्य-गुण-भूता तथापि तेजो-द्रव्यम् एव, न शौक्ल्यादिवद् गुणः। स्वाश्रयाद् अन्यत्रापि वर्तमानत्वाद् रूपवत्त्वाच् च शौक्ल्यादि-वैधर्म्यात्, प्रकाशवत्त्वाच् च तेजो-द्रव्यम् एव, नार्थान्तरम्। प्रकाशवत्त्वꣳ च स्व-स्वरूपस्यान्येषाꣳ च प्रकाशकत्वात्।
Link copiedअस्यास्तु गुणत्व-व्यवहारो नित्य-तद्-आश्रयत्व-तच्-छेषत्व-निबन्धनः। न चाश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्य् उच्यन्ते, मणि-द्युमणि-प्रभृतीनाꣳ विनाश-प्रसङ्गात्॥
Link copiedदीपेऽप्य् अवयवि-प्रतिपत्तिः कदाचिद् अपि न स्यात्। न हि विशरण-स्वभावावयवा दीपाश् चतुर्-अङ्गुल-मात्रꣳ नियमेन पिण्डीभूता ऊर्ध्वम् उद्गम्य ततः पश्चाद् युगपद् एव तिर्यग् ऊर्ध्वम् अधश् चैकरूपा विशीर्णाः प्रचरन्तीति शक्यꣳ वक्तुम्। अतः सप्रभाका एव दीपाः प्रतिक्षणम् उत्पन्ना विनश्यन्तीति पुष्कल-कारण-क्रमोपनिपातात् तद्-विनाशे विनाशाच् चावगम्यते। प्रभायाः स्वाश्रय-समीपे प्रकाशाधिक्यम् औष्ण्याधिक्यम् इत्य् आद्य् उपलब्धि-व्यवस्थाप्यम् अग्न्य्-आदीनाम् औष्ण्यादिवत्। एवम् आत्मा चिद्-रूप एव चैतन्य-गुण इति।
Link copied[चिद्-रूपता स्वयम्प्रकाशता-रूपा]
Link copiedचिद्-रूपता हि स्वयम्प्रकाशता। तथा हि श्रुतयः-- स यथा सैन्धव-घनोऽनन्तरोऽबाह्यः कृत्स्नो रस-घन एव, एवꣳ वा अरेऽयम् आत्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञान-घन एव [बृहद्।, ६।४।१३], विज्ञान-घन एव [बृहद्।, ४।४।१२], अत्रायꣳ पुरुषः स्वयञ्ज्योतिर् भवति [बृहद्।, ६।३।९], न विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते [बृहद्।, ६।३।१०], अथ यो वेदेदꣳ जिघ्राणीति स आत्मा [बृहद्।, ६।३।३०], कतम आत्मा योऽयꣳ विज्ञान-मयः प्राणेषु हृद्यन्तर्-ज्योतिः पुरुषः [छान्।, ८।१२।४], एष हि द्रष्टा श्रोता रसियता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [बृहद्।, ६।३।७], विज्ञातारम् अरे केन विजानीयात् [प्रश्। ४], जानात्य् एवायꣳ पुरुषः, न पश्यो मृत्युꣳ पश्यति न रोगꣳ नोत दुःखताꣳ स उत्तमः पुरुषः [छान्।, ७।२६।२], नोपजनꣳ स्मरन्न् इदꣳ शरीरम् [छान्।, ८।१२।३], एवम् एवास्य परिद्रष्टुर् इमाः षोडश-कलाः पुरुषायणाः पुरुषꣳ प्राप्यास् तꣳ गच्छन्ति [प्रश्।, ६।५] तस्माद् वा एतस्मान् मनो-मयाद् अन्योऽन्तर आत्मा विज्ञान-मयः [तै।, २।४।१] इत्य् आद्याः। वक्ष्यति च ज्ञोऽत एव [ब्र। सू। २।३।१९] इति। अतः स्वयम्प्रकाशोऽयम् आत्मा ज्ञातैव, न प्रकाश-मात्रम्।
Link copied[सꣳविद अनात्मत्वोपपादकाः तर्काः]
Link copiedप्रकाशत्वाद् एव कस्यचिद् एव भवेत् प्रकाशः, दीपादि-प्रकाशवत्। तस्मान्न् आत्मा भवितुम् अर्हति सꣳवित्। सꣳविद्-अनुभूति-ज्ञानादि-शब्दाः सम्बन्धि-शब्दा इति च शब्दार्थ-विदः। न हि लोक-वेदयोर् जानातीत्य् आदेर् अकर्मकस्याकर्तृकस्य च प्रयोगो दृष्ट-चरः।
Link copied[सꣳविद्-आत्मत्वेऽजडत्वꣳ न हेतुः]
Link copiedयच् चोक्तम् अजडत्वात् सꣳविद् एवात्मेति तत्रेदꣳ प्रष्टव्यम्--- अजडत्वम् इति किम् अभिप्रेतꣳ स्व-सत्ता-प्रयुक्त-प्रकाशत्वम् इति चेत् तथा सति दीपादिष्व् अनैकान्त्यम्। सꣳविद्-अतिरिक्त-प्रकाश-धर्मान् अभ्युपगमेनासिद्धिर् विरोधश् च। अव्यभिचरित-प्रकाश-सत्ताकत्वम् अपि सुखादिषु व्यभिचारान् निरस्तम्।
Link copiedयद्य् उच्येत-- सुखादिर् अव्यभिचरित-प्रकाशोऽप्य् अन्यस्मै प्रकाशमानतया घटादिवज् जडत्वेन अनात्मा-- इति। ज्ञानꣳ न किꣳ स्वस्मै प्रकाशते तद् अपि ह्य् अन्यस्यैवाहम्-अर्थस्य ज्ञातुर् अवभासते, अहꣳ सुखीतिवज् जानाम्य् अहम् इति। अतः स्वस्मै प्रकाशमानत्व-रूपम् अजडत्वꣳ सꣳविद्य् असिद्धम्। तस्मात् स्वात्मानꣳ प्रति स्व-सत्तयैव सिद्ध्यन्न् अजडोऽहम्-अर्थ एवात्मा।
Link copied[ज्ञानस्य प्रकाश-रूपतायाꣳ हेतुः]
Link copiedज्ञानस्यापि प्रकाशता तत्-सम्बन्धायत्ता। तत्-कृतम् एव हि ज्ञानस्य सुखादेर् इव स्वाश्रय-चेतनꣳ प्रति प्रकटत्वम् इतरꣳ प्रत्य् अप्रकटत्वꣳ च। अतो न ज्ञप्ति-मात्रम् आत्मा, अपि तु ज्ञातैवाहम्-अर्थः।
Link copied[अहम्-अर्थो न भ्रान्ति-सिद्धः]
Link copiedअथ यद् उक्तम्-- अनुभूतिः परमार्थतो निर्विषया निराश्रया च सती भ्रान्त्या ज्ञातृतयावभासते, रजततयेव शुक्तिर् निरधिष्ठान-भ्रमानुपपत्तेः इति तद् अयुक्तम्। तथा सत्य् अनुभव-सामानाधिकरण्येनानुभविताहम्-अर्थः प्रतीयेत, अनुभूतिर् अहम् इति पुरोऽवस्थित-भास्वर-द्रव्याकारतया रजतादिर् इव। अत्र तु पृथग् अवभासमानैवेयम् अनुभूतिर् अर्थान्तरम् अहम्-अर्थꣳ विशिनष्टि, दण्ड इव देवदत्तम्। तथा हि--- अनुभवाम्य् अहम् इति प्रतीतिः। तद् एवम् अस्मद्-अर्थम् अनुभूति-विशिष्टꣳ प्रकाशयन्न् अनुभवाम्य् अहम् इति प्रत्ययो दण्ड-मात्रे दण्डी देवदत्तः इति प्रत्ययवद् विशेषण-भूतानुभूति-मात्रावलम्बनः कथम् इव प्रतिज्ञायेत।
Link copied[ज्ञातृत्वꣳ मिथ्येत्य् एतत् निर्युक्तिकम्]
Link copiedयद् अप्य् उक्तꣳ स्थूलोऽहम् इत्य् आदि देहात्माभिमानवत एव ज्ञातृत्व-प्रतिभासनात् ज्ञातृत्वम् अपि मिथ्या-- इति तद् अयुक्तम्। आत्मतया अभिमताया अनुभूतेर् अपि मिथ्यात्वꣳ स्यात्, तद्वत एव प्रतीतेः। सकलेतरोपमर्दि-तत्त्व-ज्ञानाबाधितत्वेनानुभूतेर् न मिथ्यात्वम् इति चेत्, हन्तैवꣳ सति तद्-अबाधाद् एव ज्ञातृत्वम् अपि न मिथ्या।
Link copied[ज्ञातृत्वस्य विक्रियात्मकत्वानुवादः]
Link copiedयद् अप्य् उक्तम्-- अविक्रियस्यात्मनो ज्ञान-क्रिया-कर्तृत्व-रूपꣳ ज्ञातृत्वꣳ न सम्भवति। अतो ज्ञातृत्वꣳ विक्रियात्मकꣳ जडꣳ विकारास्पदाव्यक्त-परिणामाहङ्कार-ग्रन्थि-स्थम् इति न ज्ञातृत्वम् आत्मनः, अपि त्व् अन्तःकरण-रूपस्याहङ्कारस्य। कर्तृत्वादिर् हि रूपादिवद् दृश्य-धर्मः। कर्तृत्वेऽहम्-प्रत्यय-गोचरत्वे चात्मनोऽभ्युपगम्यमाने देहस्येवानात्मत्व-पराक्त्व-जडत्वादि प्रसङ्गश् चेति।
Link copied[अनूदितार्थ-दूषणम्]
Link copiedनैतद् उपपद्यते--- देहस्येवाचेतनत्व-प्रकृति-परिणामत्व-दृश्यत्व-पराक्त्व-परार्थत्वादि-योगात् अन्तःकरण-रूपस्य अहङ्कारस्य, चेतनासाधारण-स्वभावत्वाच् च ज्ञातृत्वस्य।
Link copiedएतद् उक्तꣳ भवति यथा देहादिर् दृश्यत्व-पराक्त्वादिहेतुभिस् तत्-प्रत्यनीक-द्रष्टृत्व-प्रत्यक्त्वादेर् विविच्यते, एवम् अन्तःकरण-रूपाहङ्कारोऽपि तद्-द्रव्यत्वाद् एव तैर् एव हेतुभिस् तस्माद् विविच्यते-- इति।
Link copiedअतो विरोधाद् एव न ज्ञातृत्वम् अहङ्कारस्य, दृशित्ववत्। यथा दृशित्वꣳ तत्-कर्मणोऽहङ्कारस्य नाभ्युपगम्यते, तथा ज्ञातृत्वम् अपि न तत्-कर्मणोऽभ्युगन्तव्यम्।
Link copied[ज्ञातृत्वꣳ न विक्रियात्मकम्]
Link copiedन च ज्ञातृत्वꣳ विक्रियात्मकम्, ज्ञातृत्वꣳ हि ज्ञान-गुणाश्रयत्वम्। ज्ञानꣳ चास्य नित्यस्य स्वाभाविक-धर्मत्वेन नित्यम्। नित्यत्वꣳ चात्मनो नात्मा श्रुतेः [ब्र। सू। २।३।१८] इत्य् आदिषु वक्ष्यति। ज्ञोऽत एव [ब्र। सू। २।३।१९] इत्य् अत्र ज्ञ इति व्यपदेशेन ज्ञानाश्रयत्वꣳ च स्वाभाविकम् इति वक्ष्यति। अस्य ज्ञान-स्वरूपस्यैव मणि-प्रभृतीनाꣳ प्रभाश्रयत्वम् इव ज्ञानाश्रयत्वम् अप्य् अविरुद्धम् इत्य् उक्तम्।
Link copied[स्वभावतो ज्ञानवान् अपि न सर्वज्ञो जीवः]
Link copiedस्वयम् अपरिच्छिन्नम् एव ज्ञानꣳ सङ्कोच-विकासार्हाम् इत्य् उपपादयिष्यामः। अतः क्षेत्रज्ञावस्थायाꣳ कर्मणा सङ्कुचित-स्वरूपꣳ तत्-तत्-कर्मानुगुण-तरतम-भावेन वर्तते। तच् च इन्द्रिय-द्वारेण व्यवस्थितम्। तम् इमम् इन्द्रिय-द्वारा ज्ञान-प्रसरम् अपेक्ष्य उदयास्तमय-व्यपदेशः प्रवर्तते।
Link copied[आत्मनो ज्ञान-सङ्कोच-विकासात्मक-विकारित्व-सम्मतिः]
Link copiedज्ञान-प्रसरे तु कर्तृत्वम् अस्त्य् एव। तच् च न स्वाभाविकम्, अपि तु कर्म-कृतम् इति, अविक्रिय-स्वरूप एव आत्मा। एवꣳ रूप-विक्रियात्मकꣳ ज्ञातृत्वꣳ ज्ञान-स्वरूपस्यात्मन एव इति न कदाचिद् अपि जडस्य अहङ्कारस्य ज्ञातृत्व-सम्भवः।
Link copied[चिच्-छायापत्त्या ज्ञातृत्व-निर्वाह-निरासः]
Link copiedजड-स्वरूपस्याप्य् अहङ्कारस्य चित्-सन्निधानेन तच्-छायापत्त्या तत्-सम्भव इति चेत्; केयꣳ चिच्-छायापत्तिः किम् अहङ्कार-च्छायापत्तिः सꣳविदः, उत सꣳविच्-छायापत्तिर् अहङ्कारस्य। न तावत् सꣳविदः, सꣳविदो ज्ञातृत्वानभ्युपगमात्। नाप्य् अहङ्कारस्य, उक्त-रीत्या तस्य जडस्य ज्ञातृत्वायोगात्, द्वयोर् अप्य् अचाक्षुषत्वाच् च, न ह्य् अचाक्षुषाणाꣳ छाया दृष्टा॥
Link copied[चित्-सम्पर्केण ज्ञातृत्व-निर्वाह-निरासः]
Link copiedअथ-- अग्नि-सम्पर्कादयः पिण्डौष्ण्यवच् चित्-सम्पर्काज् ज्ञातृत्वोपलब्धिः-- इति चेन् नैतत्। सꣳविदि वस्तुतो ज्ञातृत्वानभ्युपगमाद् एव न तत्-सम्पर्काद् अहङ्कारे ज्ञातृत्वꣳ तद्-उपलब्धिर् वा। अहङ्कारस्य त्व् अचेतनस्य ज्ञातृत्वासम्भवाद् एव सुतराꣳ न तत्-सम्पर्कात् सꣳविदि ज्ञातृत्वꣳ तद्-उपलब्धिर् वा।
Link copied[अभिव्यक्ति-पक्षस्य दूषणम्]
Link copiedयद् अप्य् उक्तम्-- उभयत्र न वस्तुतो ज्ञातृत्वम् अस्ति। अहङ्कारस् त्व् अनुभूतेर् अभिव्यञ्जकः स्वात्मस्थाम् एव अनुभूतिम् अभिव्यनक्ति, आदर्शादिवत्, इति तद् अयुक्तम्, आत्मनः स्वयञ्ज्योतिषो जड-स्वरूपाहङ्काराभिव्यङ्ग्यत्वायोगात्। तदुक्तम्-- शान्ताङ्गार इवादित्यम् अहङ्कारो जडात्मकः। स्वयञ्ज्योतिषम् आत्मानꣳ व्यनक्तीति न युक्तिमत्॥[आत्मसिद्धिः] इति
Link copiedस्वयम्प्रकाशानुभवाधीन-सिद्धयो हि सर्वे पदार्थाः। तत्र तदायत्त-प्रकाशोऽचिद्-अहङ्कारोऽनुदितानस्तमित-स्वरूप-प्रकाशम्-अशेषार्थ-सिद्धि-हेतु-भूतम् अनुभवम् अभिव्यनक्तीत्य् आत्म-विदः परिहसन्ति।
Link copied[उक्त-व्यङ्क्तृ-व्यङ्ग्य-भावस् तयोर् मिथोऽनुपपन्नः]
Link copiedकिꣳ च--- अहङ्कारानुभवयोः स्वभाव-विरोधाद् अनुभूतेर् अननुभूतित्व-प्रसङ्गाच् च न व्यङ्क्तृ-व्यङ्ग्य-भावः। यथोक्तम्---
Link copiedव्यङ्क्तृ-व्यङ्ग्यत्वम् अन्योन्यꣳ न च स्यात् प्रातिकूल्यतः।
Link copiedव्यङ्ग्यत्वेऽननुभूतित्वम् आत्मनि स्याद् यथा घटे॥ [आत्मसिद्धिः] इति॥
Link copiedन च रवि-कर-निकराणाꣳ स्वाभिव्यङ्ग्य-कर-तलाभिव्यङ्ग्यत्ववत् सꣳविद्-अभिव्यङ्ग्याहङ्काराभिव्यङ्ग्यत्वꣳ सꣳविदः साधीयः, तत्रापि रवि-कर-निकराणाꣳ कर-तलाभिव्यङ्ग्यत्वाभावात्। कर-तल-प्रतिहत-गतयो हि रश्मयो बहुलाः स्वयम् एव स्फुटतरम् उपलभ्यन्त इति तद्-बाहुल्य-मात्र-हेतुत्वात् कर-तलस्य नाभिव्यञ्जकत्वम्।
Link copied[अभिव्यक्ति-कल्पानाꣳ दूषणम्]
Link copiedकिꣳ चास्य सꣳवित्-स्वरूपस्य आत्मनोऽहङ्कार-निर्वर्त्या अभिव्यक्तिः किꣳ-रूपा। न तावद् उत्पत्तिः, स्वतः सिद्धतयानन्योत्पाद्यत्वाभ्युपगमात्। नापि तत्-प्रकाशनम्, तस्यानुभवान्तराननुभाव्यत्वात्।
Link copiedतत एव च न तद्-अनुभव-साधनानुग्रहः। स हि द्विधा, ज्ञेयस्येन्द्रिय-सम्बन्ध-हेतुत्वेन वा, यथा जातिर् निज-मुखादि-ग्रहणे व्यक्ति-दर्पणादीनाꣳ नयनादीन्द्रिय-सम्बन्ध-हेतुत्वेन; बोद्धृ-गत-कल्मषापनयनेन वा, यथा पर-तत्त्वावबोधन-साधनस्य शास्त्रस्य शम-दमादिना। यथोक्तम्-- करणानाम् अभूतित्वान् न तत्-सम्बन्ध-हेतुता [आत्मसिद्धिः] इति॥
Link copied[अनुभूतेर् अनुभाव्यत्वम् अभ्युपगम्य अनुग्रह-पक्ष-दूषणम्]
Link copiedकिꣳ च--- अनुभूतेर् अनुभाव्यत्वाभ्युपगमेऽप्य् अहम्-अर्थेन न तद्-अनुभव-साधनानुग्रहः सुवचः। स ह्य् अनुभाव्यानुभवोत्पत्ति-प्रतिबन्ध-निरसनेन भवेत्। यथा रूपादि-ग्रहणोत्पत्ति-निरोधि-सन्तमस-निरसनेन चक्षुषो दीपादिना। न चेह तथाविधꣳ निरसनीयꣳ सम्भाव्यते। न तावत् सꣳविद्-आत्म-गतꣳ तज्-ज्ञानोत्पत्ति-निरोधि किञ्चिद् अप्य् अहङ्कारापनेयम् अस्ति। अस्ति ह्य् अज्ञानम् इति चेन् न, अज्ञानस्याहङ्कारापनोद्यत्वानभ्युपगमात्। ज्ञानम् एव ह्य् अज्ञानस्य निवर्तकम्।
Link copied[अज्ञानस्य सꣳविद्-आश्रयत्वाभावः]
Link copiedन च सꣳविद्-आश्रयत्वम् अज्ञानस्य सम्भवति, ज्ञान-समानाश्रयत्वात् तत्-समान-विषयत्वाच् च ज्ञातृ-भाव-विषय-भाव-विरहिते ज्ञान-मात्रे साक्षिणि नाज्ञानꣳ भवितुम् अर्हति। यथा ज्ञानाश्रयत्व-प्रसक्ति-शून्यत्वेन घटादेर् नाज्ञानाश्रयत्वम्। तथा ज्ञान-मात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वꣳ स्यात्॥
Link copied[सꣳविद्-आश्रितत्वम् अभ्युपगम्यापि दूषणम्]
Link copiedसꣳविदोऽज्ञानाश्रयत्वाभ्युपगमेऽप्य् आत्मतयाभ्युपगतायास् तस्या ज्ञान-विषयत्वाभावेन ज्ञानेन न तद्-गताज्ञान-निवृत्तिः। ज्ञानꣳ हि स्व-विषय एवाज्ञानꣳ निवर्तयति, यथा रज्ज्व्-आदौ। अतो न केनापि कदाचित् सꣳविदाश्रयम् अज्ञानम् उच्छिद्येत।
Link copied[अज्ञानꣳ नानिर्वचनीयम्, नापि ज्ञान-प्राग्-अभावः]
Link copiedअस्य च सद्-असद्-अनिर्वचनीयस्याज्ञानस्य स्वरूपम् एव दुर्निरूपम् इत्य् उपरिष्टाद् वक्ष्यते। ज्ञान-प्राग्-अभाव-रूपस्य चाज्ञानस्य ज्ञानोत्पत्ति-विरोधित्वाभावेन न तन्-निरसनेन तज्-ज्ञान-साधनानुग्रहः। अतो न केनापि प्रकारेणाहङ्कारेणानुभूतेर् अभिव्यक्तिः।
Link copied[स्वात्मस्थतया अभिव्यक्तेर् दूषणम्]
Link copiedन च स्वाश्रयतयाभिव्यङ्ग्याभिव्यञ्जनम् अभिव्यञ्जकानाꣳ स्वभावः, प्रदीपादिष्व् अदर्शनात्, यथावस्थित-पदार्थ-प्रतीत्य्-अनुगुण-स्वाभाव्याच् च ज्ञान-तत्-साधनयोर् अनुग्राहकस्य च। तच् च स्वतः प्रामाण्य-न्याय-सिद्धम्। न च दर्पणादिर् मुखादेर् अभिव्यञ्जकः, अपि तु चाक्षुष-तेजः-प्रतिफलन-रूप-दोष-हेतुः। तद्-दोष-कृतश् च तत्रान्यथावभासः। अभिव्यञ्जकस् त्वालोकादिर् एव। न चेह तथाहङ्कारेण सꣳविदि स्व-प्रकाशायाꣳ तादृश-दोषापादनꣳ सम्भवति। व्यक्तेस् तु जातिर् आकार इति तद्-आश्रयतया प्रतीतिर् न तु व्यक्ति-व्यङ्ग्यत्वात्।
Link copiedअतोऽन्तःकरण-भूताहङ्कार-स्थतया सꣳविद्-उपलब्धेर् वस्तुतो दोषतो वा न किञ्चिद् इह कारणम् इति नाहङ्कारस्य ज्ञातृत्वꣳ तथोपलब्धिर् वा। तस्मात् स्वत एव ज्ञातृतया सिद्ध्यन्न् अहम्-अर्थ एव प्रत्यगात्मा, न ज्ञप्ति-मात्रम् अहम्-भाव-विगमे तु ज्ञप्तेर् अपि न प्रत्यक्त्व-सिद्धिर् इत्य् उक्तम्॥
Link copied[सुप्तौ अहम्-अर्थस्याविशद-स्फुरणम्]
Link copiedतमो-गुणाभिभवात् परागर्थानुभवाभावाच् चाहम्-अर्थस्य विविक्त-स्फुट-प्रतिभासाभावेऽप्य् आप्रबोधाद् अहम् इत्य् एकाकारेणात्मनः स्फुरणात्सुषुप्ताव् अपि नाहम्-भाव-विगमः। भवद्-अभिमताया अनुभूतेर् अपि तथैव प्रथेति वक्तव्यम्।
Link copied[स्व-पक्षे प्रमाणानुरोधः, पर-पक्षे तद्-अननुरोधश् च]
Link copiedन हि सुषुप्तोत्थितः कश्चिद् अहम्-भाव-वियुक्तार्थान्तर-प्रत्यनीकाकारा ज्ञप्तिर् अहम् अज्ञान-साक्षितया अवतिष्ठत इत्य् एवꣳविधाꣳ स्वापसमकालामनुभूतिꣳ परामृशति। एवꣳ हि सुप्तोत्थितस्य परामर्शः, सुखम् अहम् अस्वाप्सम् इति। अनेन प्रत्यवमर्शेन तदानीम् अप्य् अहम् अर्थस्यैवात्मनः सुखित्वꣳ ज्ञातृत्वꣳ च ज्ञायते॥
Link copied[उक्ते परामर्शे परोक्ताया अन्यासिद्धेः परिहारः]
Link copiedन च वाच्यꣳ, यथेदानीꣳ सुखꣳ भवति। तथा तदानीम् अस्वाप्सम् इत्य् एषा प्रतिपत्तिर् इति, अतद्रूपत्वात् प्रतिपत्तेः। न चाहमर्थस्यात्मनोऽस्थिरत्वेन तदानीम् अहम्-अर्थस्य सुखित्वानुसन्धानानुपपत्तिः। यतः सुषुप्ति-दशायाः प्राग् अनुभूतꣳ वस्तु सुप्तोत्थितो मयेदꣳ कृतꣳ, मयेदम् अनुभूतम् अहम् एतद् अवोचम् इति परामृशति।
Link copied[अहम्-अर्थाननुभव-साधक-निषेध-सामान्य-विषय-परामर्शमादाय शङ्का-समाधाने]
Link copiedएतावन्तꣳ कालꣳ न किञ्चिद् अहम् अज्ञासिषम् इति च परामृशतीति चेत्, ततः किꣳ न किञ्चिद् इति कृत्स्न-प्रतिषेध इति चेन् न, नाहम् अवेदिषम् इति वेदितुर् अहम्-अर्थस्यैवानुवृत्तेर् वेद्य-विषयो हि स प्रतिषेधः। न किञ्चिद् इति निषेधस्य कृत्स्न-विषयत्वे भवद्-अभिमता अनुभूतिर् अपि प्रतिषिद्धा स्यात्।
Link copied[अनुभूतेर् न निषेधः, किन्तु तद्-अनुवृत्तेः, इत्य् आशङ्का-परिहारौ]
Link copiedसुषुप्ति-समये त्व् अनुसन्धीयमानम् अहम्-अर्थम् आत्मनꣳ ज्ञातारम् अहम् इति परामृश्य न किञ्चिद् अवेदिषम् इति वेदने तस्य प्रतिषिध्यमाने तस्मिन् काले निषिध्यमानाया वित्तेः सिद्धिम् अनुवर्तमानस्य ज्ञातुर् अहम्-अर्थस्य चासिद्धिम् अनेनैव न किञ्चिद् अहम् अवेदिषम् इति परामर्शेन साधयꣳस् तम् इमम् अर्थꣳ देवानाम् एव साधयतु।
Link copied[निषेध-विशेष-विषय-परामर्शम् आदाय शङ्का-समाधाने]
Link copiedमाम् अप्य् अहꣳ न ज्ञातवान् इत्य् अहम्-अर्थस्यापि तदानीम् अननुसन्धानꣳ प्रतीयत इति चेत् स्वानुभव-स्व-वचनयोर् विरोधम् अपि न जानन्ति भवन्तः। अहꣳ माꣳ न ज्ञातवान् इति ह्य् अनुभव-वचने। माम् इति किꣳ निषिध्यत इति चेत् साधु पृष्टꣳ भवता। तद् उच्यते, अहम्-अर्थस्य ज्ञातुर् अनुवृत्तेः न स्वरूपꣳ निषिध्यते, अपि तु प्रबोध-समयेऽनुसन्धीयमानस्याहम्-अर्थस्य वर्णाश्रमादि-विशिष्टता।
Link copied[अहꣳ माम् इति पदयोर् विशिष्ट-विषयता]
Link copiedअहꣳ माꣳ न ज्ञातवान् इत्य् उक्ते विषयो विवेचनीयः। जागरितावस्थानुसꣳहित-जात्य्-आदि-विशिष्टोऽस्मद्-अर्थो माम् इत्य् अꣳशस्य विषयः। स्वाप्ययावस्था-प्रसिद्धाविशद-स्वानुभवैकतानश् च अहम्-अर्थोऽहम् इत्य् अꣳशस्य विषयः। अत्र सुप्तोऽहम् ईदृशोऽहम् इति च माम् अपि न ज्ञातवान् अहम् इत्य् एव खल्व् अनुभव-प्रकारः॥
Link copied[उक्ताꣳशस्य परमतेन उपपादन्]
Link copiedकिꣳ च, सुषुप्ताव् आत्माज्ञान-साक्षित्वेनास्त इति हि भवदीया प्रक्रिया। साक्षित्वꣳ च साक्षाज् ज्ञातृत्वम् एव। न ह्य् अजानतः साक्षित्त्वम्। ज्ञातैव हि लोक-वेदयोः साक्षीति व्यपदिश्यते, न ज्ञान-मात्रम्। स्मरति च भगवान् पाणिनिः साक्षाद् द्रष्टरि सꣳज्ञायाम् [अष्टा, ५।२।९१] इति साक्षाज् ज्ञातर्य् एव साक्षि-शब्दम्। स चायꣳ साक्षी जानामीति प्रतीयमानोऽस्मद्-अर्थ एवेति कुतस् तदानीम् अहम्-अर्थो न प्रतीयेत। आत्मने स्वयम् अवभासमानोऽहम् इत्य् एवावभासत इति स्वापाद्य्-अवस्थास्व् अप्य् आत्मा प्रकाशमानोऽहम् इत्य् एवावभासत इति सिद्धम्॥
Link copied[मुक्ताव् अहम्-अर्थानुवृत्तेर् अनूद्य दूषणम्]
Link copiedयत् तु-- मोक्ष-दशायाम् अहम्-अर्थो नानुवर्तते-- इति तद् अपेशलम्। तथा सत्यात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात्। न चाहम्-अर्थो धर्म-मात्रम्; येन तद्-विगमेऽप्य् अविद्या-निवृत्ताव् इव स्वरूपम् अवतिष्ठते। प्रत्युत स्वरूपम् एवाहम्-अर्थ आत्मनः। ज्ञानꣳ तु तस्य धर्मोऽहꣳ जानामि, ज्ञानꣳ मे जातम् इति चाहम्-अर्थ-धर्मतया ज्ञान-प्रतीतेर् एव॥
Link copied[श्रुत्य्-अर्थापत्त्या उक्तार्थ-समर्थनम्]
Link copiedअपि च यः परमार्थतो भ्रान्त्या वाध्यात्मिकादि-दुःखैर् दुःखितया स्वात्मानम् अनुसन्धत्ते अहꣳ दुःखी इति। सर्वम् एतद् दुःख-जातम् अपुनर् भवम् अपोह्य कथम् अहम् अनाकुलः स्वस्थो भवेयम् इत्य् उत्पन्न-मोक्ष-रागः स एव तत्-साधने प्रवर्तते। स साधनानुष्ठानेन यद्य् अहम् एव न भविष्यामीत्य् अवगच्छेत्; अपसर्पेदेवासौ मोक्ष-कथा-प्रस्तावात्। ततश् चाधिकारि-विरहाद् एव सर्वꣳ मोक्ष-शास्त्रम् अप्रमाणꣳ स्यात्। अहम् उपलक्षितꣳ प्रकाश-मात्रम् अपवर्गेऽवतिष्ठत इति चेत् किम् अनेन मयि नष्टेऽपि किम् अपि प्रकाश-मात्रम् अपवर्गेऽवतिष्ठत इति मत्वा न हि कश्चित् बुद्धि-पूर्व-कारी प्रयतते। अतोऽहम्-अर्थस्यैव ज्ञातृतया सिद्ध्यतः प्रत्यग्-आत्मत्वम्।
Link copied[उक्तार्थे अनुमानम्]
Link copiedस च प्रत्यग्-आत्मा मुक्ताव् अप्य् अहम् इत्य् एव प्रकाशते, स्वस्मै प्रकाशमानत्वात्, यो यः स्वस्मै प्रकाशते स सर्वोऽहम् इत्य् एव प्रकाशते यथा तथावभासमानत्वेनोभयवादि-सम्मतः सꣳसार्यात्मा। यः पुनर् अहम् इति न चकास्ति; नासौ स्वस्मै प्रकाशते, यथा घटादिः। स्वस्मै प्रकाशते चायꣳ मुक्तात्मा। तस्माद् अहम् इत्य् एव प्रकाशते॥
Link copied[उक्तानुमाने हेतोः साध्य-विशेष-विरुद्धत्वाशङ्कापरिहारौ]
Link copiedन चाहम् इति प्रकाशमानत्वेन तस्याज्ञत्व-सꣳसारित्वादि-प्रसङ्गः। मोक्ष-विरोधाद् अज्ञत्वाद्य्-अहेतुत्वाच् चाहम्-प्रत्ययस्य। अज्ञानꣳ नाम स्वरूपाज्ञानम् अन्यथा ज्ञानꣳ विपरीत-ज्ञानꣳ वा। अहम् इत्य् एवात्मनः स्वरूपम् इति स्वरूप-ज्ञान-रूपोऽहम्-प्रत्ययो नाज्ञत्वम् आपादयति। कुतः सꣳसारित्वम् अपि तु त-द्विरोधित्वान् नाशयत्य् एव।
Link copied[निवृत्ताविद्यानाम् अप्य् अहम्-प्रत्ययः]
Link copiedब्रह्मात्म-भावापरोक्ष्य-निर्धूत-निरवशेषाविद्यानाम् अपि वामदेवादीनाम् अहम् इत्य् एव आत्मानुभव-दर्शनाच् च। श्रूयते हि-- तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे अहꣳ मनुर् अभवꣳ सूर्यश् च [बृहद्।, ३।४।१०] इति, अहम् एकः प्रथम-मासꣳ वर्तामि च भविष्यामि च [अथर्वशिरः ९] इत्य् आदि।
Link copied[ब्रह्मणोऽप्य् अहꣳ प्रत्ययः श्रुति-स्मृतिषु]
Link copiedसकलेतराज्ञान-विरोधिनः सच्-छब्द-प्रत्यय-मात्र-भाजः परस्य ब्रह्मणो व्यवहारोऽप्य् एवम् एव हन्ताहम् इमास् तिस्रो देवताः [छान्।, ६।३।२], बहु स्याꣳ प्रजायेय [तै।, २।६।२], स ईक्षत लोकान् नु सृजा इति [ऐत। १।१।१], तथा यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः [भ। गी।, १५।१८], अहम् आत्मा गुडाकेश [भ। गी।, १०।२०], न त्व् एवाहꣳ जातु नासम् [भ। गी।, २।१२], अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा [भ। गी।, ७।६], अहꣳ सर्वस्य प्रभवो मत्तः सर्वꣳ प्रवर्तते [भ। गी।, १०।८], तेषाम् अहꣳ समुद्धर्ता मृत्यु-सꣳसार-सागरात् [भ। गी।, १२।७], अहꣳ बीज-प्रदः पिता [भ। गी।, १४।४], वेदाहꣳ समतीतानि-- [भ। गी।, ७।२६] इत्य् आदिषु॥
Link copied[उक्तार्थे गीतोक्ति-विरोध-शङ्का-परिहारौ]
Link copiedयद्य् अहम् इत्य् एवात्मनः स्वरूपम्, कथꣳ तर्ह्य् अहङ्कारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते। महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च [भ। गीता, १३।५] इति। उच्यते, स्वरूपोपदेशेषु सर्वेष्व् अहम् इत्य् एवोपदेशात् तथैवात्म-स्वरूप-प्रतिपत्तेश् चाहम् इत्य् एव प्रत्यग्-आत्मनः स्वरूपम्। अव्यक्त-परिणाम-भेदस्य अहङ्कारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते। स त्व् अनात्मनि देहेऽहम्-भाव-करण-हेतुत्वेन अहङ्कार इत्य् उच्यते। अस्य त्व् अहङ्कार-शब्दस्य अभूत-तद्-भावेऽर्थे च्वि-प्रत्ययम् उत्पाद्य व्युत्पत्तिर् द्रष्टव्या। अयम् एव त्व् अहङ्कारः उत्कृष्ट-जनावमान-हेतुर् गर्वापर-नामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते। तस्माद् बाधकापेताहम्-बुद्धिः साक्षाद् आत्म-गोचरैव। शरीर-गोचरा त्व् अहꣳ बुद्धिर् अविद्यैव। यथोक्तꣳ भगवता पराशरेण श्रूयताꣳ चाप्य् अविद्यायाः स्वरूपꣳ कुलनन्दन। अनात्मन्य् आत्म-बुद्धिर् या [वि। पु।, ६।७।१०-११]-- इति।
Link copied[अहम्-अर्थात्मत्वोपसꣳहारः]
Link copiedयदि ज्ञप्ति-मात्रम् एवात्मा, तदानात्मन्यात्माभिमाने शरीरे ज्ञप्ति-मात्र-प्रतिभासः स्यात्, न ज्ञातृत्व-प्रतिभासः। तस्माज् ज्ञाताहम् अर्थ एवात्मा तद् उक्तम्--
Link copiedअतः प्रत्यक्ष-सिद्धत्वाद् उक्त-न्यायागमान्वयात्।
Link copiedअविद्या-योगतश् चात्मा ज्ञाताहम् इति भासते॥ इति॥
Link copiedतथा च
Link copiedदेहेन्द्रियमनः प्राणधीभ्योऽन्योऽनन्य-साधनः।
Link copiedनित्यो व्यापी प्रतिक्षेत्रम् आत्मा भिन्नः स्वतः सुखी॥ [आत्मसिद्धौ] इति।
Link copiedअनन्य-साधनः-- स्व-प्रकाशः। व्यापी-- अतिसूक्ष्मतया सर्वाचेतनान्तः-प्रवेशन-स्वभावः॥
Link copied[शास्त्र-प्रत्यक्ष-विरोधे शास्त्र-प्राबल्यस्यानूद्य-निरासः]
Link copiedयद् उक्तम्-- दोष-मूलत्वेनान्यथासिद्धि-सम्भावनया सकल-भेदावलम्बि-प्रत्यक्षस्य शास्त्र-बाध्यत्वम्-- इति॥
Link copiedकोऽयꣳ दोष इति वक्तव्यꣳ यन् मूलतया प्रत्यक्षस्यान्यथासिद्धिः। अनादिभेद-वासनैव हि दोष इति चेद् भेद-वासनायास्तिमिरादिवद् यथावस्थित-वस्तु-विपरीत-ज्ञान-हेतुत्वꣳ किम् अन्यत्र ज्ञात-पूर्वम् अनेनैव शास्त्र-विरोधेन ज्ञास्यत इति चेन् न, अन्योन्याश्रयणात्, शास्त्रस्य निरस्त-निखिल-विशेष-वस्तु-बोधित्व-निश्चये सति भेद-वासनाया दोषत्व-निश्चयः, भेद-वासनाया दोषत्व-निश्चये सति शास्त्रस्य निरस्त-निखिल-विशेष-वस्तु-बोधित्व-निश्चय इति। किꣳ च यदि भेद-वासना-मूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम्, शास्त्रम् अपि तन्-मूलत्वेन तथैव स्यात्।
Link copiedअथोच्येत-- दोष-मूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगत-सकल-भेद-निरसन-ज्ञान-हेतुत्वेन परत्वात् तत्-प्रत्यक्षस्य बाधकम् इति। तन् न, दोषमूलत्वे ज्ञाते सति परत्वम् अकिञ्चित्करम्। रज्जु-सर्प-ज्ञान-निमित्त-भये सति भ्रान्तोऽयम् इति परिज्ञातेन केनचिन् नायꣳ सर्पो मा भैषीः इत्य् उक्तेऽपि भयानिवृत्ति-दर्शनात्। शास्त्रस्य च दोष-मूलत्वꣳ श्रवण-वेलायाम् एव ज्ञातम्। श्रवणावगत-निखिल-भेदोपमर्दि-ब्रह्मात्मैकत्व-विज्ञानाभ्यास-रूपत्वान् मननादेः॥
Link copiedअपि च, इदꣳ शास्त्रम् एतच् चासम्भाव्यमान-दोषम्, प्रत्यक्षꣳ तु सम्भाव्यमान-दोषम् इति केनावगतꣳ त्वया न तावत् स्वतः सिद्धा निर्धूत-निखिल-विशेषानुभूतिर् इमम् अर्थम् अवगमयति, तस्याः सर्व-विषय-विरक्तत्वात्, शास्त्र-पक्षपात-विरहाच् च। नाप्य् ऐन्द्रियकꣳ प्रत्यक्षम्, दोष-मूलत्वेन विपरीतार्थत्वात्। तन्-मूलत्वाद् एव नान्यान्य् अपि प्रमाणानि। अतः स्व-पक्ष-साधन-प्रमाणानभ्युपगमान् न स्वाभिमतार्थ-सिद्धिः॥
Link copiedननु व्यावहारिक-प्रमाण-प्रमेय-व्यवहारोऽस्माकम् अप्य् अस्त्येव, कोऽयꣳ व्यावहारिको नाम आपात-प्रतीति-सिद्धो युक्तिभिर् निरूपितो न तथावस्थित इति चेत्, किꣳ तेन प्रयोजनꣳ प्रमाणतया प्रतिपन्नेऽपि यौक्तिक-बाधाद् एव प्रमाण-कार्याभावात्। अथोच्येत-- शास्त्र-प्रत्यक्षयोर् द्वयोर् अप्य् अविद्या-मूलत्वेऽपि प्रत्यक्षविषयस्य शास्त्रेण बाधो दृश्यते; शास्त्रविषयस्य सदद्वितीयब्रह्मणः पश्चात्तन-बाधादर्शनेन निर्विशेषानुभूति-मात्रꣳ ब्रह्मैव परमार्थः-- इति तद् अयुक्तम्, अबाधितस्यापि दोष-मूलस्यापारमार्थ्य-निश्चयात्।
Link copiedएतद् उक्तꣳ भवति-- यथा सकलेतर-काचादि-दोष-रहित-पुरुषान्तरागोचर-गिरि-गुहासु वसतस् तैमिरिक-जनस्य अज्ञात-स्व-तिमिरस्य सर्वस्य तिमिर-दोषाविशेषेण द्वि-चन्द्र-ज्ञानम् अविशिष्टꣳ जायते। न तत्र बाधक-प्रत्ययोऽस्तीति न तन् मिथ्या न भवतीति तद्-विषय-भूतꣳ द्वि-चन्द्रत्वम् अपि मिथ्यैव। दोषो ह्य् अयथार्थ-ज्ञान-हेतुः। तथा ब्रह्म-ज्ञानम् अविद्या-मूलत्वेन बाधक-ज्ञान-रहितम् अपि स्व-विषयेण ब्रह्मणा सह मिथ्यैव-- इति।
Link copied[शास्त्रस्याविद्या-मूलत्वाभ्युपगमे दोष-प्रसञ्जनम्]
Link copiedभवन्ति चात्र प्रयोगाः, विवादाध्यासितꣳ ब्रह्म मिथ्या, अविद्यावत उत्पन्न-ज्ञान-विषयत्वात्, प्रपञ्चवत्। ब्रह्म मिथ्या, ज्ञान-विषयत्वात्, प्रपञ्चवत्। ब्रह्म मिथ्या, असत्य-हेतु-जन्य-ज्ञान-विषयत्वात्, प्रपञ्चवद् एव।
Link copied[असत्यात् सत्य-प्रतिपत्ति-निदर्शनैः प्रत्यक्षात् शास्त्र-प्राबल्योक्तेः दूषणम्]
Link copiedन च वाच्यꣳ स्वाप्नस्य हस्त्यादि-विज्ञानस्यासत्यस्य परमार्थ-शुभाशुभ-प्रतिपत्ति-हेतु-भाववद् अविद्या-मूलत्वेनासत्यस्यापि शास्त्रस्य परमार्थ-भूत-ब्रह्म-विषय-प्रतिपत्ति-हेतु-भावो न विरुद्धः-- इति, स्वाप्न-ज्ञानस्यासत्यत्वाभावात्। तत्र हि विषयाणाम् एव मिथ्यात्वम्; तेषाम् एव हि बाधो दृश्यते; न ज्ञानस्य, न हि मया स्वप्न-वेलायाम् अनुभूतꣳ ज्ञानम् अपि न विद्यत इति कस्यचिद् अपि प्रत्ययो जायते। दर्शनꣳ तु विद्यते, अर्था न सन्तीति हि बाधक-प्रत्ययः। मायाविनो मन्त्रौषधादि-प्रभवꣳ माया-मयꣳ ज्ञानꣳ सत्यम् एव प्रीतेर् भयस्य च हेतुस् तत्रापि ज्ञानस्याबाधितत्वात्। विषयेन्द्रियादि-दोष-जन्यꣳ रज्ज्व्-आदौ सर्पादि-विज्ञानꣳ सत्यम् एव, भयादि-हेतुः। सत्यैवादष्टेऽपि स्वात्मनि सर्प-सन्निधानाद् दष्ट-बुद्धिः, सत्यैव शङ्का-विष-बुद्धिर् मरण-हेतु-भूता। वस्तु-भूत एव जलादौ मुखादि-प्रतिभासो वस्तु-भूत-मुख-गत-विशेष-निश्चय हेतुः। एषाꣳ सꣳवेदनानाम् उत्पत्तिमत्त्वाद् अर्थ-क्रिया-कारित्वाच् च सत्यत्वम् अवसीयते।
Link copied[ज्ञान-सत्यत्वꣳ विषय-सत्यताव्याप्तम् इति, तन्-निवृत्त्या तन्-निवृत्तिर् इति शङ्का, तत्-परिहारश् च]
Link copiedहस्त्य्-आदीनाम् अभावेऽपि कथꣳ तद्-बुद्धयः सत्या भवन्तीति चेत्न् नैतत्, बुद्धीनाꣳ सालम्बनत्व-मात्र-नियमात्।
Link copiedअर्थस्य प्रतिभासमानत्वम् एव ह्य् आलम्बनत्वेऽपेक्षितम्; प्रतिभासमानता चास्त्य् एव दोष-वशात्। स तु बाधितोऽसत्य इत्य् अवसीयते। अबाधिता हि बुद्धिः सत्यैवेत्य् उक्तम्॥
Link copiedरेखया वर्ण-प्रतिपत्ताव् अपि नासत्यात् सत्य-बुद्धिर् रेखायाः सत्यत्वात्॥
Link copied[असत्यात् सत्य-बुद्धेर् आपाद्य-निरासः]
Link copiedननु वर्णात्मना प्रतिपन्ना रेखा वर्ण-बुद्धि-हेतुः। वर्णात्मता त्व् असत्या। नैवम्, वर्णात्मताया असत्याया उपायत्वायोगात्। असतो निरुपाख्यस्य ह्य् उपायत्वꣳ न दृष्टम् अनुपपन्नꣳ च। अथ तस्याꣳ वर्ण-बुद्धेर् उपायत्वम्। एवꣳ तर्ह्य् असत्यात् सत्य-बुद्धिर् न स्याद् बुद्धेः सत्यत्वाद् एव। उपायोपेययोर् एकत्व-प्रसक्तेश् च, उभयोर् वर्ण-बुद्धित्वाविशेषात्। रेखाया अविद्यमान-वर्णात्मनोपायत्वे चैकस्याम् एव रेखायाम् अविद्यमान-सर्व-वर्णात्मकत्वस्य सुलभत्वाद् एक-रेखा-दर्शनात् सर्व-वर्ण-प्रतिपत्तिः स्यात्। अथ पिण्ड-विशेषे देवदत्तादि-शब्द-सङ्केतवच् चक्षुर्-ग्राह्य-रेखाविशेषे श्रोत्र-ग्राह्य-वर्ण-विशेष-सङ्केत-वशाद् रेखा-विशेषो वर्ण-विशेष-बुद्धि-हेतुर् इति। हन्त तर्हि सत्याद् एव सत्य-प्रतिपत्तिः, रेखायाः सङ्केतस्य च सत्यत्वात्, रेखा-गवयाद् अपि सत्य-गवय-बुद्धिः सादृश्य-निबन्धना, सादृश्यꣳ च सत्यम् एव॥
Link copied[स्फोटवादावलम्ब्य् उदाहरणम् आदाय शङ्का-परिहारौ]
Link copiedन चैक-रूपस्य शब्दस्य नादविशेषेणार्थ-भेद-बुद्धि-हेतुत्वेऽप्य् असत्यात् सत्य-प्रतिपत्तिः, नाना-नादाभिव्यक्तस्यैकस्यैव शब्दस्य तत्-तन्-नादाभिव्यङ्ग्य-स्वरूपेणार्थ-विशेषैः सह सम्बन्ध-ग्रहण-वशाद् अर्थ-भेद-बुद्ध्य्-उत्पत्ति-हेतुत्वात्। शब्दस्यैक-रूपत्वम् अपि न साधीयः, गकारादेर् बोधकस्यैव श्रोत्र-ग्राह्यत्वेन शब्दत्वात्। अतोऽसत्याच् छास्त्रात् सत्य-ब्रह्म-विषय-प्रतिपत्तिर् दुरुपपादा॥
Link copied[शास्त्रेष्व् असत्यता नात्यन्तासत्यत्व-रूपा, किन्तु विलक्षणा इत्य् आशङ्का-परिहारौ]
Link copiedननु न शास्त्रस्य गगन-कुसुमवद् असत्यत्वम्; प्राग् अद्वैत-ज्ञानात् सद्-बुद्धि-बोध्यत्वात्। उत्पन्ने तत्त्व-ज्ञाने ह्य् असत्यत्वꣳ शास्त्रस्य। न तदा शास्त्रꣳ निरस्त-निखिल-भेद-चिन्-मात्र-ब्रह्म-ज्ञानोपायः। यदोपायस् तदा अस्त्य् एव शास्त्रम्, अस्तीति बुद्धेः। नैवम् असति शास्त्रे, अस्ति शास्त्रम् इति बुद्धेर् मिथ्यात्वात्। ततः किम् इदꣳ ततओ मिथ्याभूत-शास्त्र-जन्य-ज्ञानस्य मिथ्यात्वेन तद्-विषयस्यापि ब्रह्मणो मिथ्यात्वम्; यथा धूम-बुद्ध्या गृहीत-बाष्प-जन्याग्नि-ज्ञानस्य मिथ्यात्वेन तद्-विषयस्याग्नेर् अपि मिथ्यात्वम्। पश्चात्तन-बाधादर्शनꣳ चासिद्धम्। शून्यम् एव तत्त्वम् इति वाक्येन तस्यापि बाध-दर्शनात्। तत् तु भ्रान्ति-मूलम् इति चेद् एतद् अपि भ्रान्ति-मूलम् इति त्वयैवोक्तम्। पाश्चत्त्य-बाधादर्शनꣳ तु तस्यैवेत्य् अलम् अप्रतिष्ठित-कुतर्क-परिहसनेन॥
Link copiedश्रुति-घट्टः
Link copied[निर्विशेष-परतया पराभिमतानाꣳ श्रुतीनाम् अपि स्वरसतया सविशेष-परताप्रतिपादनम्]
Link copiedयद् उक्तꣳ वेदान्त-वाक्यानि निर्विशेष-ज्ञानैकरस-वस्तु-मात्र-प्रतिपादन-पराणि, सद् एव सोम्येदम् अग्र आसीत् इत्य् एवम् आदीनि-- इति तद् अयुक्तम्, एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपादन-मुखेन सच्-छब्द-वाच्यस्य परस्य ब्रह्मणो जगद्-उपादानत्वम्, जगिन्-निमत्तत्वम्, सर्वज्ञता, सर्व-शक्ति-योगः, सत्य-सङ्कल्पत्वम्, सर्वान्तरत्वम्, सर्वाधारत्वम्, सर्व-नियमनम् इत्य् आद्य् अनेक-कल्याण-गुण-विशिष्टताम्, कृत्स्नस्य जगतस् तद्-आत्मकताꣳ च प्रतिपाद्य, एवम्भूत-ब्रह्मात्मकस् त्वम् असीति श्वेतकेतुꣳ प्रत्युपदेशाय प्रवृत्तत्वात् प्रकरणस्य। प्रपञ्चितश् चायम् अर्थो वेदार्थसङ्ग्रहे। अत्राप्य् आरम्भणाधिकरणे निपुणतरम् उपपादियष्यते॥
Link copied[पर-विद्यायाः सविशेषत्व-व्यवस्थापनम्]
Link copiedअथ परा यया तद् अक्षरम् [मुण्ड्।, १।१।५] इत्य् अत्रापि प्राकृतान् हेय-गुणान् प्रतिषिध्य नित्यत्व-विभुत्व-सूक्ष्मत्व-सर्व-गतत्वाव्ययत्व-भूत-योनित्व-सार्वज्ञ्यादि-कल्याण-गुण-योगौ परस्य ब्रह्मणः प्रतिपादितः॥
Link copied[शोधक-वाक्यान्तर्गत-सत्यादि-वाक्यानाꣳ सविशेष-परता]
Link copiedसत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] इत्य् अत्रापि सामानाधिकरण्यस्यानेक-विशेषण-विशष्टैकार्थाभिधान-व्युत्पत्त्या न निर्विशेष-वस्तु-सिद्धिः। प्रवृत्ति-निमित्त-भेदेनैकार्थ-वृत्तित्वꣳ हि सामानाधिकरण्यम्। तत्र सत्य-ज्ञानादि-पद-मुख्यार्थैर् गुणैस् तत्-तद्-गुण-विरोध्याकार-प्रत्यनीकाकारैर् वा एकस्मिन्न् एवार्थे पदानाꣳ प्रवृत्तौ निमित्त-भेदोऽवश्याश्रयणीयः। इयाꣳस् तु विशेषः-- एकस्मिन् पक्षे पदानाꣳ मुख्यार्थता; अपरस्मिꣳश् च तेषाꣳ लक्षणा। न चाज्ञानादीनाꣳ प्रत्यनीकता वस्तु-स्वरूपम् एव, एकेनैव पदेन स्वरूपꣳ प्रतिपन्नम् इति पदान्तर-प्रयोग-वैयर्थ्यात्। तथा सति सामानाधिकरण्यासिद्धिश् च, एकस्मिन् वस्तुनि वर्तमानानाꣳ पदानाꣳ निमित्त-भेदानाश्रयणात्। न चैकस्यैवार्थस्य विशेषण-भेदेन विशिष्टताभेदाद् अनेकार्थत्वꣳ पदानाꣳ सामानाधिकरण्य-विरोधि; एकस्यैव वस्तुनोऽनेक-विशेषण-विशिष्टता-प्रतिपादन-परत्वात् सामानाधिकरण्यस्य, भिन्न-प्रवृत्ति-निमित्तानाꣳ शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि शाब्दिकाः।
Link copied[कारण-वाक्यैकार्थ्यात् श्रुतीनाꣳ निर्विशेष-परताया अनूद्य निरासः]
Link copiedयद् उक्तम्, एकम् एवाद्वितीयम् इत्य् अत्राद्वितीय-पदꣳ गुणतोऽपि, सद्वितीयताꣳ न सहते। अतः सर्व-शाखा-प्रत्यय-न्यायेन कारण-वाक्यानाम् अद्वितीय-वस्तु-प्रतिपादन-परत्वम् अभ्युपगमनीयम्; कारणतयोपलिक्षतस्याद्वितीयस्य ब्रह्मणो लक्षणम् इदम् उच्यते सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इति। अतो लिलक्षयिषितꣳ ब्रह्म निर्गुणम् एव। अन्यथा निर्गुणम् [मन्त्रिकोपनिषत्] निरञ्जनम् [श्वे।, ६।१९] इत्य् आदिभिर् विरोधश् च-- इति तद् अनुपपन्नम्। जगद्-उपादानस्य ब्रह्मणः स्व-व्यतिरिक्ताधिष्ठात्रन्तर-निवारणेन विचित्र-शक्ति-योग-प्रतिपादन-परत्वाद् अद्वितीय-पदस्य। तथैव विचित्र-शक्ति-योगम् एवावगमयति-- तद् ऐक्षत बहुस्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।३] इत्य् आदि। अविशेषेणाद्वितीयम् इत्य् उक्ते निमित्तान्तर-मात्र-निषेधः कथꣳ ज्ञायत इति चेत्, सिसृक्षोर् ब्रह्मण उपादान-कारणत्वꣳ सदेव सोम्येदम् अग्र आसीद् एकम् एव इति प्रतिपादितम्। कार्योत्पत्ति-स्वाभाव्येन बुद्धि-स्थꣳ निमित्तान्तरम् इति तद् एवाद्वितीय-पदेन निषिद्ध्यत इत्य् अवगम्यते। सर्व-निषेधे हि स्वाभ्युपगताः सिषाधायिषिता नित्यत्वादयश् च निषिद्धाः स्युः॥
Link copied[सर्व-शाखा-प्रत्यय-न्यायस्य निर्विशेष-वाद-विपरीतत्वम्]
Link copiedसर्व-शाखा-प्रत्ययन्यायश् चात्र भवतो विपरीत-फलः, सर्व-शाखासु कारणान्वयिना सर्वज्ञत्वादीनाꣳ गुणानाम् अत्रोपसꣳहार-हेतुत्वात्। अतः कारण-वाक्य-स्वभावाद् अपि सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इत्य् अनेन सविशेषम् एव प्रतिपाद्यत इति विज्ञायते॥
Link copied[शोधक-वाक्यान्तरैकार्थ्यस्य निर्विशेष-परत्व-ज्ञापकता-निरासः]
Link copiedन च निर्गुण-वाक्य-विरोधः, प्राकृत-हेय-गुण-विषयत्वात् तेषाꣳ निर्गुणꣳ, निरञ्जनꣳ, निष्कलꣳ, निष्क्रियꣳ, शान्तम् इत्य् आदीनाम्। ज्ञान-मात्र-स्वरूप-वादिन्योऽपि श्रुतयो ब्रह्मणो ज्ञान-स्वरूपताम् अभिदधति; न तावता निर्विशेष-ज्ञान-मात्रम् एव तत्त्वम्, ज्ञातुर् एव ज्ञान-स्वरूपत्वात्। ज्ञान-स्वरूपस्यैव तस्य ज्ञानाश्रयत्वꣳ मणि-द्युमणि-दीपादिवद् युक्तम् एवेत्य् उक्तम्। ज्ञातृत्वम् एव हि सर्वाः श्रुतयो वदन्ति यः सर्वज्ञः सर्ववित् [मुण्ड्।, १।१।९] तद् ऐक्षत सेयꣳ देवतैक्षत [छान्।, ६।३।२], स ईक्षत लोकान् नु सृजा इति [ऐ।, १।१।१], नित्यो नित्यानाꣳ चेतनश् चेतनानाम् एको बहूनाꣳ यो विदधाति कामान् [कठ।, २।५।१३], ज्ञाज्ञौ द्वाव् अजाव् ईशानीशौ [श्वे।, १।९], तम् ईश्वराणाꣳ परमꣳ महेश्वरꣳ तꣳ देवतानाꣳ परमꣳ च दैवतम्। पतिꣳ पतीनाꣳ परमꣳ परस्ताद् विदाम देवꣳ भुवनेशम् ईड्यम् [श्वे।, ६।७], न तस्य कार्यꣳ करणꣳ च विद्यते न तत्-समश् चाभ्यिधकश् च दृश्यते। परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।, ६।८], एष आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः-- [छान्।, ८।१।५]-- इत्य् आद्याः श्रुतयो ज्ञातृत्व-प्रमुखान् कल्याण-गुणान् ज्ञान-स्वरूपस्यैव ब्रह्मणः स्वाभाविकान् वदन्ति, समस्त-हेय-रहितताꣳ च॥
Link copied[श्रुत्यैव सगुण-निर्गुण-वाक्ययोर् विषय-विभाग-सिद्धिः]
Link copiedनिर्गुण-वाक्यानाꣳ सगुण-वाक्यानाꣳ च विषयम् अपहत-पाप्मा इत्य् आद्य् अपिपास इत्य् अन्तेन हेय-गुणान् प्रतिषिद्ध्य सत्य-कामः सत्य-सङ्कल्पः इति ब्रह्मणः कल्याण-गुणान् विदधतीयꣳ श्रुतिर् एव विविनक्तीति सगुण-निर्गुण-वाक्ययोर् विरोधाभावाद् अन्यतरस्य मिथ्या-विषयताश्रयणम् अपि नाशङ्कनीयम्॥
Link copied[श्रुत्या ब्रह्मणि वाङ्-मनो-निवृत्ति-ज्ञापनात् निर्विशेष-सिद्धिर् इत्य् अस्य निरासः]
Link copiedभीषास्माद् वातः पवते [तै।, २।८।१] इत्य् आदिना ब्रह्म-गुणान् आरभ्य ते ये शतम् [तै।, २।८।१] इत्य् अनुक्रमेण क्षेत्र-ज्ञानन्दातिशयम् उक्त्वा यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दꣳ ब्रह्मणो विद्वान् [तै।, २।९।१] इति ब्रह्मणः कल्याणगुणानन्त्यमत्यादरेण वदतीयꣳ श्रुतिः॥
Link copied[स्ववाक्यैकदेशेनापि ब्रह्मणः सविशेषता]
Link copiedसोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता [तै।, २।१।२] इति ब्रह्म-वेदन-फलम् अवगमयद् वाक्यꣳ परस्य विपिश्चतो ब्रह्मणो गुणानन्त्यꣳ ब्रवीति। विपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते। काम्यन्त इति कामाः-- कल्याण-गुणाः। ब्रह्मणा सह तद्-गुणान् सर्वान् अश्नुत इत्य् अर्थः। दहर-विद्यायाꣳ तस्मिन् यद्-अन्तस् तद्-अन्वेष्टव्यम् [छान्।, ८।१।१] इतिवद् गुण-प्राधान्यꣳ वक्तुꣳ सहशब्दः। फलोपासनयोः प्रकारैक्यꣳ यथाक्रतुर् अस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति [छान्।, ३।१४।१] इति श्रुत्यैव सिद्धम्॥
Link copied[ज्ञेयत्व-निषेध-पर-श्रुत्या निर्विशेषता-सिद्धिर् इत्य् अस्य निरासः]
Link copiedयस्यामतꣳ तस्य मतम् अविज्ञातꣳ विजानताम् [केन। २।३] इति ब्रह्मणो ज्ञानाविषयत्वम् उक्तꣳ चेद् ब्रह्मविद् आप्नोति परम् [तै।, १।१] ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९] इति ज्ञानान् मोक्षोपदेशो न स्यात्। असन्न् एव स भवति, असद् ब्रह्मेति वेद चेद् अस्ति ब्रह्मेति चेद् वेद, सन्तम् एनꣳ ततो विदुः [तै।, २।६।११] इति ब्रह्म-विषय-ज्ञानासद्भाव-सद्भावाभ्यात्म-नाशम् आत्म-सत्ताꣳ च वदति। अतो ब्रह्म-विषय-वेदनम् एवापवर्गोपायꣳ सर्वाः श्रुतयो विदधति॥
Link copied[उपासनात्मक-ज्ञानाविषयत्व-पक्ष-दूषणम्]
Link copiedज्ञानꣳ चोपासनात्मकम्। उपास्यꣳ च ब्रह्म सगुणम् इत्य् उक्तम्।
Link copiedयतो वाचो निवर्तन्ते। अप्राप्य मनसा सह [तै।, २।९।१] इति ब्रह्मणोऽनन्तस्य अपरिच्छिन्न-गुणस्य वाङ्-मनसयोर् एतावद् इति परिच्छेदायोग्यत्व-श्रवणेन ब्रह्मैतावद् इति ब्रह्म-परिच्छेद-ज्ञानवताꣳ ब्रह्माविज्ञात-ममतम् इत्य् उक्तम्, अपरिच्छिन्नत्वाद् ब्रह्मणः। अन्यथा यस्यामतꣳ तस्य मतम्, विज्ञातम् अविजानताम् इति मतत्व-विज्ञातत्व-वचनꣳ तत्रैव विरुध्यते॥
Link copied[ज्ञातृत्व-निषेध-शङ्का-परिहारः]
Link copiedयत् तु-- न दृष्टेर् द्रष्टारꣳ-- न मतेर् मन्तारम् [बृहद्।, ५।४] इति श्रुतिर् दृष्टेर् मतेर् व्यतिरिक्तꣳ द्रष्टारꣳ मन्तारꣳ च प्रतिषेधति-- इति; तदागन्तुक-चैतन्य-गुण-योगितया ज्ञातुर् अज्ञान-स्वरूपताꣳ कुतर्क-सिद्धाꣳ मत्वा न तथात्मानꣳ पश्येः, न मन्वीथाः; अपि तु द्रष्टारꣳ मन्तारम् अप्य् आत्मानꣳ दृष्टि-मति-रूपम् एव पश्येर् इत्य् अभिदधातीति परिहृतम्। अथवा दृष्टेर् द्रष्टारꣳ मतेर् मन्तारꣳ जीवात्मानꣳ प्रतिषिध्य सर्व-भूतान्तरात्मानꣳ परमात्मानम् एवोपास्वेति वाक्यार्थः; अन्यथा विज्ञातारम् अरे केन विजानीयात् [बृहद्।, ४।४।१४] इत्य् आदिज् ञातृत्व-श्रुति-विरोधश् च॥
Link copiedआनन्दत्वानन्दित्वयोर् अविरोधत्व-भेद-तन्-निषेध-श्रुतीनाम् अविरोधत्व-समर्थनम्
Link copied[आर्थ-गुण-निषेधान्तर-परिहारः]
Link copiedआनन्दो ब्रह्म [तै।, ३।६।१] इत्य् आनन्दमात्रमेव ब्रह्म-स्वरूपꣳ प्रतीयत इति यद् उक्तम्-- तज्-ज्ञानाश्रयस्य ब्रह्मणो ज्ञानꣳ स्वरूपम् इति वदतीति परिहृतम्। ज्ञानम् एव ह्य् अनुकूलम् आनन्द इत्य् उच्यते। विज्ञानम् आनन्दꣳ ब्रह्म [बृहद्।, ५।९।२८] इत्य् आनन्द-रूपम् एव ज्ञानꣳ ब्रह्मेत्य् अर्थः। अत एव भवताम् एकरसता। अस्य ज्ञान-स्वरूपस्यैव ज्ञातृत्वम् अपि श्रुति-शत-समधिगतम् इत्य् उक्तम्। तद्वद् एव स एको ब्रह्मण आनन्दः [तै।, २।८।४], आनन्दꣳ ब्रह्मणो विद्वान् [तै।, २।९।१] इति व्यतिरेक-निर्देशाच् च नानन्द-मात्रꣳ ब्रह्म, अपि त्व् आनन्दि। ज्ञातृत्वम् एव ह्य् आनन्दित्वम्॥
Link copied[भेद-निषेध-परतया शङ्कितानाꣳ श्रुतीनाꣳ समीचीना योजना]
Link copiedयद् इदम् उक्तꣳ यत्र हि द्वैतम् इव भवति [बृहद्।, ४।४।१४], नेह नानास्ति किञ्चन [बृहद्।, ६।४।१९], मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति, यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कꣳ पश्येत् [बृहद्।, ४।४।१४] इति भेद-निषेधो बहुधा दृश्यत इति, तत् कृत्स्नस्य जगतो ब्रह्म-कार्यतया तद्-अन्तर्यामिकतया च तद्-आत्मकत्वेनैक्यात्, तत्-प्रत्यनीक-नानात्वꣳ प्रतिषिद्ध्यते। न पुनर् बहु स्याꣳ प्रजायेय इति बहु-भवन-सङ्कल्प-पूर्वकꣳ ब्रह्मणो नानात्वꣳ श्रुति-सिद्धꣳ प्रतिषिध्यत इति परिहृतम्। नानात्व-निषेधादि-यम-परमार्थ-विषयेति चेन् न, प्रत्यक्षादि-सकल-प्रमाणानवगतꣳ नानात्वꣳ दुरारोहꣳ ब्रह्मणः प्रतिपाद्य तद् एव बाध्यत इत्य् उपहास्यम् इदम्॥
Link copiedयदा ह्य् एवैष एतस्मिन्न् उदरम् अन्तरꣳ कुरुते अथ तस्य भयꣳ भवति [तै।, २।७।२], इति ब्रह्मणि नानात्वꣳ पश्यतो भय-प्राप्तिर् इति यद् उक्तम्; तद् असत् सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति शान्त उपासीत [छान्।, ३।१४।१] इति तन्-नानात्वानुसन्धानस्य शान्ति-हेतुत्वोपदेशात्। तथा हि सर्वस्य जगतस् तद्-उत्पत्ति-स्थिति-लय-कर्मतया तद्-आत्मकत्वानुसन्धानेनात्र शान्तिर् विधीयते। अतो यथावस्थित-देव-तिर्यङ्-मनुष्य-स्थावरादि-भेद-भिन्नꣳ जगद् ब्रह्मात्मकम् इत्य् अनुसन्धानस्य शान्ति-हेतुतया अभय-प्राप्ति-हेतुत्वेन न भय-हेतुत्व-प्रसङ्गः। एवꣳ तर्हि, अथ तस्य भयꣳ भवति इति किम् उच्यते। इदम् उच्यते--- यदा ह्य् एवैष एतस्मिन्न् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयꣳ प्रतिष्ठाꣳ विन्दते। अथ सोऽभयꣳ गतो भवति [तै।, २।७।२] इत्य् उभय-प्राप्ति-हेतुत्वेन ब्रह्मणि या प्रतिष्ठाभिहिता; तस्या विच्छेदे भयꣳ भवतीति। यथोक्तꣳ महर्षिभिः--
Link copiedयन् मुहूर्तꣳ क्षणꣳ वापि वासुदेवो न चिन्त्यते।
Link copiedसा हानिस् तन् महच् छिद्रꣳ सा भ्रान्तिः सा च विक्रिया॥ [ग।पु।पूर्व, २।२२।२२]
Link copiedइत्य् आदि। ब्रह्मणि प्रतिष्ठाया अन्तरम् अवकाशो विच्छेद एव॥
Link copied[गीतोक्ति-विरोध-शङ्का-परिहारौ]
Link copiedयद् उक्तꣳ न स्थानतोऽपि [ब्र। सू। ३।३।११] इति सर्व-विशेष-रहितꣳ ब्रह्मेति च वक्ष्यतीति; तन् न सविशेषꣳ ब्रह्मेत्य् एव हि तत्र वक्ष्यति। माया मात्रꣳ तु [ब्र। सू। ३।३।३] इति च स्वाप्नानाम् अप्य् अर्थानाꣳ जागिरतावस्थानुभूत-पदार्थ-वैधर्म्येण माया-मात्रत्वम् उच्यत इति जागरितावस्थानुभूतानाम् इव पारमार्थिकत्वम् एव वक्ष्यति॥
Link copiedअथ स्मृति-पुराण-घट्टः
Link copied[स्मृति-पुराणयोर् अपि सविशेष-परत्वम्]
Link copiedस्मृति-पुराणयोर् अपि निर्विशेष-ज्ञान-मात्रम् एव परमार्थोऽन्यद् अपारमार्थिकम् इति प्रतीयत इति यद् अभिहितꣳ तद् असत्--
Link copiedयो माम् अजम् अनादिꣳ च वेत्ति लोक-महेश्वरम्॥ [भ। गी।, १०।३ ]
Link copiedमत्-स्थानि सर्व-भूतानि न चाहꣳ तेष्व् अवस्थितः॥
Link copiedन च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम्।
Link copiedभूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः॥ [भ। गी।, ९।४।५]
Link copiedअहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा॥
Link copiedमत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय।
Link copiedमयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणि-गणा इव॥ [भ। गी।, ७।६-७]
Link copiedविष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत्॥ [भ। गी।, १०।४२]
Link copiedउत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः।
Link copiedयो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः॥
Link copiedयस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः।
Link copiedअतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ [भ। गी।, १५।१७-१८]
Link copiedस सर्व-भूत-प्रकृतिꣳ विकारान् गुणादि-दोषाꣳश् च मुने व्यतीतः॥
Link copiedअतीत-सर्वावरणोऽखिलात्मा तेनास्तृतꣳ यद् भुवनान्तराले॥
Link copiedसमस्त-कल्याण-गुणात्मकोऽसौ स्व-शक्ति-लेशोद्धृत-भूत-सर्गः।
Link copiedइच्छा-गृहीताभिमतोरु-देहः सꣳसाधिताशेष-जगद्-धितोऽसौ॥
Link copiedतेजो-बलैश्वर्य-महावबोध-सुवीर्य-शक्त्य्-आदि-गुणैक-राशिः।
Link copiedपरः पराणाꣳ सकला न यत्र क्लेशादयः सन्ति परावरेशे॥
Link copiedस ईश्वरो व्यष्टि-समष्टि-रूपोऽव्यक्त-स्वरूपः प्रकट-स्वरूपः।
Link copiedसर्वेश्वरः सर्व-दृक् सर्व-वेत्ता समस्त-शक्तिः परमेश्वराख्यः॥
Link copiedसꣳज्ञायते येन तद् अस्त-दोषꣳ शुद्धꣳ परꣳ निर्मलम् एक-रूपम्।
Link copiedसन्दृश्यते वाप्य् अधिगम्यते वा तज्-ज्ञानम् अज्ञानम् अतोऽन्यद् उक्तम्। [वि। पु।, ६।५।८३।८७]
Link copiedशुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते।
Link copiedमैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे॥
Link copiedसम्भर्तेति तथा भर्ता भकारोऽर्थ-द्वयान्वितः।
Link copiedनेता गमियता स्रष्टा गकारार्थस् तथा मुने॥
Link copiedऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः।
Link copiedज्ञान-वैराग्ययोश् चैव षण्णाꣳ भग इतीरणा॥
Link copiedवसन्ति तत्र भूतानि भूतात्मन्य् अखिलात्मनि।
Link copiedस च भूतेष्व् अशेषेषु वकारार्थस् ततोऽव्ययः॥ [वि। पु।, ६।५९;७२।,७५]
Link copiedज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजाꣳस्य् अशेषतः।
Link copiedभगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः॥ [वि। पु।, ६।५।७९]
Link copiedएवम् एष महा-शब्दो मैत्रेय भगवान् इति।
Link copiedपरम-ब्रह्म-भूतस्य वासुदेवस्य नान्यगः॥
Link copiedतत्र पूज्य-पदार्थोक्तिः परिभाषा-समन्वितः।
Link copiedशब्दोऽयꣳ नोपचारेण ह्य् अन्यत्र ह्य् उपचारतः॥ [वि। पु।, ६।५।७६-७७]
Link copiedसमस्ताः शक्तायश् चैता नृप यत्र प्रतिष्ठिताः।
Link copiedतद्-विश्व-रूप-वैरूप्यꣳ रूपम् अन्यद् धरेर् महत्।
Link copiedसमस्त-शक्ति-रूपाणि तत् करोति जनेश्वर।
Link copiedदेव-तिर्यङ्-मनुष्याख्याश् चेष्टावन्ति स्व-लीलया।
Link copiedजगताम् उपकाराय न सा कर्म-निमित्त-जा।
Link copiedचेष्टा तस्याप्रमेयस्य व्यापि-न्यव्याहतात्मिका॥ [वि। पु।, ६।७।७०-७२]
Link copiedएवꣳ प्रकारम् अमलꣳ नित्यꣳ व्यापकम् अक्षयम्।
Link copiedसमस्त-हेय-रहितꣳ विष्ण्व्-आख्यꣳ परमꣳ पदम्॥ [वि। पु।, १।२२।५३]
Link copiedपरः पराणाꣳ परमः परमात्मात्म-सꣳस्थितः।
Link copiedरूप-वर्णादि-निर्देश-विशेषण-विवर्जितः॥
Link copiedअपक्ष्य-विनाशाभ्याꣳ परिणामर्द्धि-जन्मभिः।
Link copiedवर्जितः शक्यते वक्तुꣳ यः सदास्तीति केवलम्॥
Link copiedसर्वत्रासौ समस्तꣳ च वसत्य् अत्रेति वै यतः।
Link copiedततः स वासुदेवेति विद्वद्भिः परिपठ्यते॥ [वि। पु।, १।२।१०-१२]
Link copiedतद् ब्रह्म परमꣳ नित्यम् अजम् अक्षरम् अव्ययम्।
Link copiedएक-स्वरूपꣳ च सदा हेयाभावाच् च निर्मलम्॥
Link copiedतद् एव सर्वम् एवैतद् व्यक्ताव्यक्तस्य रूपवत्।
Link copiedतथा पुरुष-रूपेण काल-रूपेण च स्थितम्॥ [वि। पु।१।२।१३।१४]
Link copiedप्रकृतिर् या मयाख्याता व्यक्ताव्यक्त-स्वरूपिणी।
Link copiedपुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि॥
Link copiedपरमात्मा च सर्वेषाम् आधारः परमेश्वरः।
Link copiedविष्णु-नामा स वेदेषु वेदान्तेषु च गीयते॥ [वि। पु।, ६।४।३९-४०]
Link copiedद्वे रूपे ब्रह्मणस् तस्य मूर्तꣳ चामूर्तम् एव च।
Link copiedक्षराक्षर-स्वरूपे ते सर्व-भूतेषु च स्थिते॥
Link copiedअक्षरꣳ तत् परꣳ ब्रह्म क्षरꣳ सर्वम् इदꣳ जगत्।
Link copiedएक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा॥
Link copiedपरस्य ब्रह्मणः शक्तिस् तथेदम् अखिलꣳ जगत्॥ [वि। पु।, १।२२।५५-५७]
Link copiedविष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा।
Link copiedअविद्या कर्म-सꣳज्ञान्या तृतीया शक्तिर् इष्यते॥
Link copiedयया क्षेत्रज्ञ-शक्तिः सा वेष्टिता नृप सर्वगा।
Link copiedसꣳसार-तापान् अखिलान् अवाप्नोत्य् अतिसन्ततान्॥
Link copiedतया तिरोहितत्वाच् च शक्तिः क्षेत्रज्ञ-सꣳज्ञिता।
Link copiedसर्व-भूतेषु भूपाल तारतम्येन वर्तते॥ [वि। पु।, ६।७।६१।६३]
Link copiedप्रधानꣳ च पुमाꣳश् चैव सर्व-भूतात्म-भूतया।
Link copiedविष्णु-शक्त्या महा-बुद्धे वृतौ सꣳश्रय-धर्मिणौ॥
Link copiedतयोः सैव पृथग्-भाव-कारणꣳ सꣳश्रयस्य च॥
Link copiedयथा सक्तꣳ जले वातो बिभर्ति कणिका-शतम्।
Link copiedशक्तिः सापि तथा विष्णोः प्रधान-पुरुषात्मनः॥ [वि। पु। २।७।२९-३१]
Link copiedतद् एतद् अक्षयꣳ नित्यꣳ जगन् मुनि-वराखिलम्।
Link copiedआविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत्॥ [वि। पु।, १।२२।६० ]
Link copiedइत्य् आदिना परꣳ ब्रह्म स्वभावत एव निरस्त-निखिल-दोष-गन्धꣳ समस्त-कल्याण-गुणात्मकꣳ जगद्-उत्पत्ति-स्थिति-सꣳहारान्तः-प्रवेश-नियमनादि-लीलꣳ प्रतिपाद्य कृत्स्नस्य चिद्-अचिद्-वस्तुनः सर्वावस्था-वस्थितस्य, पारमार्थिकस्यैव परस्य ब्रह्मणः शरीरतया रूपत्वम्, शरीर-रूप-तन्व्-अꣳश-शक्ति-विभूत्य्-आदि-शब्दैस् तत्-तच्-छब्द-सामानाधिकरण्येन चाभिधाय तद्-विभूति-भूतस्य चिद्-वस्तुनः स्वरूपेण अवस्थितम् अचिन्-मिश्रतया क्षेत्रज्ञ-रूपेण स्थितिꣳ चोक्त्वा, क्षेत्रज्ञावस्थायाꣳ पुण्य-पापात्मक-कर्म-रूपाविद्या-वेष्टितत्वेन स्वाभाविक-ज्ञान-रूपत्वाननुसन्धानम् अचिद्-रूपार्थाकारतया अनुसन्धानꣳ च प्रतिपादितम् इति, परꣳ ब्रह्म सविशेषम्, तद्-विभूति-भूतꣳ जगद् अपि पारमार्थिकम् एवेति ज्ञायते॥
Link copiedपरोक्त-स्मृति-पुराण-वचनानाꣳ समीचीनार्थ-कथनम्
Link copied[प्रत्यस्तमितेत्य् आदि श्लोकार्थः]
Link copiedप्रत्यस्तमित-भेदम् [वि। पु।, ६।७।५३] इत्य् अत्र देव-मनुष्यादि-प्रकृति-परिणाम-विशेष-सꣳसृष्टस्य अप्य् आत्मनः स्वरूपꣳ तद्-गत-भेद-रहितत्वेन तद्-भेद-वाचि-देवादि-शब्दागोचरꣳ ज्ञान-सत्तैक-लक्षणꣳ स्व-सꣳवेद्यꣳ योग-युङ्-मनसो न गोचर इत्य् उच्यत इति, अनेन न प्रपञ्चापलापः। कथम् इदम् अवगम्यत इति चेत्;
Link copied[प्रकरणाद् उक्तार्थ-निश्चयः]
Link copiedतद् उच्यते-- अस्मिन् प्रकरणे सꣳसारैक-भेष-जतया योगम् अभिधाय योगावयवान् प्रत्याहार-पर्यन्ताꣳश् चोक्त्वा, धारणा-सिद्ध्य्-अर्थꣳ शुभाश्रयꣳ वक्तुꣳ परस्य ब्रह्मणो विष्णोः शक्ति-शब्दाभिधेयꣳ रूप-द्वयꣳ मूर्तामूर्त-विभागेन प्रतिपाद्य, तृतीय-शक्ति-रूप-कर्माख्या-विद्यावेष्टितम् अचिद्-विशिष्टꣳ क्षेत्रज्ञꣳ मूर्ताख्य-विभागꣳ भावना-त्रयान्वयाद् अशुभम् इत्य् उक्त्वा, द्वितीयस्य कर्माख्या-विद्या-विरहिणः अचिद्-वियुक्तस्य ज्ञानैकाकारस्यामूर्ताख्य-विभागस्य निष्पन्न-योगि-ध्येयतया योग-युङ्-मनसोऽनालम्बनतया स्वतः शुद्धि-विरहाच् च शुभाश्रयत्वꣳ प्रतिषिध्य, पर-शक्ति-रूपम् इदम् अमूर्तम् अपर-शक्ति-रूपꣳ क्षेत्रज्ञाख्य-मूर्तꣳ च पर-शक्ति-रूपस्यात्मनः क्षेत्रज्ञतापत्ति-हेतु-भूत-तृतीय-शक्त्याख्य-कर्म-रूपाविद्या चेत्य् एतच्-छक्ति-त्रयाश्रयो भगवद्-असाधारणम् आदित्य-वर्णम् इत्य् आदि वेदान्त-सिद्धꣳ मूर्त-रूपꣳ शुभाश्रय इत्य् उक्तम्। अत्र परिशुद्धात्म-स्वरूपस्य शुभाश्रयतानर्हाताꣳ वक्तुꣳ प्रत्यस्तमित-भेदꣳ यत् इत्य् उच्यते। तथा हि--
Link copiedन तद् योग-युजाꣳ शक्यꣳ नृप चिन्तयितुꣳ यतः। द्वितीयꣳ विष्णु-सꣳज्ञस्य योगि-ध्येयꣳ परꣳ पदम्॥
Link copiedसमस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः। तद् विश्वरूप-वैरूप्यꣳ रूपम् अन्यद् धरेर् महत्॥ [वि। पु। ६।७।५५;६९-७०]
Link copiedइति च वदति।
Link copied[शुभाश्रय-स्वरूप-निष्कर्षः]
Link copiedतथा चतुर्मुख-सनक-सनन्दनादीनाꣳ जगद्-अन्तर्वर्तिनाम् अविद्यावेष्टितत्वेन शुभाश्रयतानर्हाताम् उक्त्वा बद्धानाम् एव पश्चाद् योगेनोद्भूत-बोधानाꣳ स्व-स्वरूपापन्नानाꣳ च स्वतः शुद्धि-विरहाद् भगवता शौनकेन शुभाश्रयता निषिद्धा--
Link copiedआब्रह्म-स्तम्भ-पर्यन्ता जगद्-अन्तर्-व्यवस्थिताः।
Link copiedप्राणिनः कर्म-जनित-सꣳसार-वश-वर्तिनः॥
Link copiedयतस् ततो न ते ध्याने ध्यानिनाम् उपकारकाः।
Link copiedअविद्यान्तर्गताः सर्वे ते हि सꣳसार-गोचराः॥
Link copiedपश्चाद् उद्भूत-बोधाश् च ध्याने नैवोपकारकाः।
Link copiedनैसर्गिको न वै बोधस् तेषाम् अप्य् अन्यतो यतः॥
Link copiedतस्मात् तद् अमलꣳ ब्रह्म निसर्गाद् एव बोधवत्॥ [भविष्य पु। १०४।२३।२६]
Link copiedइत्य् आदिना परस्य ब्रह्मणो विष्णोः स्वरूपꣳ स्वासाधारणम् एव शुभाश्रय इत्य् उक्तम्। अतोऽत्र न भेदापलापः प्रतीयते॥
Link copiedज्ञान-स्वरूपम् [वि। पु।, १।४।४०] इत्य् अत्रापि ज्ञान-व्यतिरिक्तस्यार्थ-जातस्य कृत्स्नस्य न मिथ्यात्वꣳ प्रतिपाद्यते, ज्ञान-स्वरूपस्यात्मनो देव-मनुष्याद्य्-अर्थाकारेणावभासो भ्रान्तिर् इत्य् एतावन् मात्र-वचनात्। न हि शुक्तिकाया रजततयावभासो भ्रान्तिर् इत्य् उक्ते जगति कृत्स्नꣳ रजत-जातꣳ मिथ्या भवति। जगद्-ब्रह्मणोः सामानाधिकरण्येनैक्य-प्रतीतेः, ब्रह्मणो ज्ञान-स्वरूपस्यार्थाकारता भ्रान्तिर् इत्य् उक्ते सत्यर्थ-जातस्य कृत्स्नस्य मिथ्यात्वम् उक्तꣳ स्याद् इति चेत्; तद् असत्; अस्मिञ् शास्त्रे परस्य ब्रह्मणो विष्णोर् निरस्ताज्ञानादि-निखिल-दोष-गन्धस्य समस्त-कल्याण-गुणात्मकस्य महा-विभूतेः प्रतिपन्नतया तस्य भ्रान्ति-दर्शनासम्भवात्। सामानाधिकरण्येनैक्य-प्रतिपादनꣳ च बाधासहम्, अविरुद्धꣳ चेत्य् अनन्तरम् एवोपपादियष्यते। अतोऽयम् अपि श्लोको नार्थ-स्वरूपस्य बाधकः॥
Link copiedउपबृꣳहण-विधि-निरूपणम्
Link copiedतथा हि-- यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत् प्रयन्त्य् अभिसꣳविशन्ति। तद् विजिज्ञासस्व। तद् ब्रह्म [तै।, ३।१] इति जगज्-जन्मादि-कारणꣳ ब्रह्मेत्य् अवसिते सति, इतिहासपुराणाभ्याꣳ वेदꣳ समुपबृꣳहयेत्। बिभेत्य् अल्प-श्रुताद् वेदो मामयꣳ प्रतरिष्यति॥ [भारतम्, १।१।२७३] इति शास्त्रेणार्थस्य इतिहास-पुराणाभ्याम् उपबृꣳहणꣳ कार्यम् इति विज्ञायते। उपबृꣳहणꣳ नाम विदित-सकल-वेद-तद्-अर्थानाꣳ स्वयोग-महिम-साक्षात्-कृत-वेद-तत्त्वार्थानाꣳ वाक्यैः स्वावगत-वेद-वाक्यार्थ-व्यक्ती-करणम्। सकल-शाखागतस्य वाक्यार्थस्याल्प-भागश्रवणाद् दुरवगमत्वेन तेन विना निश्चयायोगाद् उपबृꣳहणꣳ हि कार्यम् एव॥
Link copied[विष्णु-पुराण-प्राशस्त्यम्]
Link copiedतत्र पुलस्त्य-वसिष्ठ-वर-प्रदान-लब्ध-पर-देवता-पारमार्थ्य-ज्ञानवतो भगवतः पराशरात् स्वावगत वेदार्थोपबृꣳहणम् इच्छन् मैत्रेयः परिपप्रच्छ--
Link copiedसोऽहम् इच्छामि धर्म-ज्ञ श्रोतुꣳ त्वत्तो यथा जगत्। बभूव भूयश् च यथा महा-भाग भविष्यति॥
Link copiedयन् मयꣳ च जगद् ब्रह्मन् यतश् चैतच् चराचरम्। लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च॥ [वि। पु।, १।१।४।५] इत्य् आदिना॥
Link copiedअत्र ब्रह्म-स्वरूप-विशेष-तद्-विभूति-भेद-प्रकार-तद्-आराधन-स्वरूप-फल-विशेषाश् च पृष्टाः। ब्रह्म-स्वरूप-विशेष-प्रश्नेषु यतश् चैतच् चराचरम् इति निमित्तोपादानयोः पृष्टत्वाद् यन्-मयम् इत्य् अनेन सृष्टि-स्थिति-लय-कर्म-भूतꣳ जगत् किम्-आत्मकम् इति पृष्टम्। तस्य चोत्तरꣳ जगच् च स इति। इदꣳ च तादात्म्यम् अन्तर्यामि-रूपेणात्मतया व्याप्ति-कृतम्। न तु व्याप्य-व्यापकयोर् वस्त्व् ऐक्य-कृतम्। यन्-मयम् इति प्रश्नस्योत्तरत्वाज् जगच् च स इति सामानाधिकरण्यस्य। यन्-मयम् इति मयड् अत्र न विकारार्थः, पृथक्-प्रश्न-वैयर्थ्यात्। नापि प्राण-मयादिवत् स्वार्थिकः, जगच् च स इत्य् उत्तरानुपपत्तेस् तदा हि विष्णुर् एवेत्य् उत्तरम् अभिवष्यत्। अतः प्राचुर्यार्थ एव। तत्-प्रकृत-वचने मयट् [अष्टा, ५।४।२१] इति मयट्। कृत्स्नꣳ च जगत् तच्-छरीरतया तत्-प्रचुरम् एव। तस्माद् यन्-मयम् इत्य् अस्य प्रतिवचनꣳ जगच् च स इति सामानाधिकरण्यꣳ जगद् ब्रह्मणोः शरीरात्म-भाव-निबन्धनम् इति निश्चीयते। अन्यथा निर्विशेष-वस्तु-प्रतिपादन-परे शास्त्रेऽभ्युपगम्यमाने सर्वाण्य् एतानि प्रश्न-प्रतिवचनानि न सङ्गच्छन्ते। तद्-विवरण-रूपꣳ कृत्स्नꣳ च शास्त्रꣳ न सङ्गच्छते। तथा हि सति प्रपञ्च-भ्रमस्य किम् अधिष्ठानम् इत्य् एवꣳ रूपस्यैकस्य प्रश्नस्य निर्विशेष-ज्ञान-मात्रम् इत्य् एवꣳ रूपम् एकम् एवोत्तरꣳ स्यात्॥
Link copied[सामानाधिकरण्यस्यैक्य-परत्वे विरोधः]
Link copiedजगद् ब्रह्मणोर् एक-द्रव्यत्व-परे च सामानाधिकरण्ये सत्य-सङ्कल्पत्वादि-कल्याण-गुणैकतानता निखिल-हेय-प्रत्यनीकता च बाध्येत। सर्वाशुभास्पदꣳ च ब्रह्म भवेत्। आत्म-शरीर-भाव एवेदꣳ सामानाधिकरण्यꣳ मुख्य-वृत्तम् इति स्थाप्यते॥ अतो विष्णोः सकाशाद् उद्भूतꣳ जगत् तत्रैव च स्थितम्।
Link copiedस्थिति-सꣳयम-कर्तासौ जगतोऽस्य जगच् च सः॥ [वि। पु।, १।१।३१]
Link copiedइति सङ्ग्रहेणोक्तम् अर्थꣳ परः पराणाम् इत्य् आरभ्य विस्तरेण वक्तुꣳ पर-ब्रह्म-भूतꣳ भगवन्तꣳ विष्णुꣳ स्वेनैव स्वरूपेणावस्थितम् अविकाराय इति श्लोकेन प्रथमꣳ प्रणम्य तम् एव हिरण्यगर्भस्वावतार-शङ्कर-रूप-त्रि-मूर्ति-प्रधान-काल-क्षेत्रज्ञ-समष्टि-व्यष्टि-रूपेणावस्थितꣳ च नमस्करोति। तत्र ज्ञान-स्वरूपम् इत्य् अयꣳ श्लोकः क्षेत्रज्ञ-व्यष्ट्य्-आत्मनावस्थितस्य परमात्मनः स्वभावम् आह। तस्मान् नात्र निर्विशेष-वस्तु-प्रतीतिः॥
Link copied[निर्विशेष-ज्ञान-परत्वे पश्चात्तन-प्रश्नोत्तराननुगुणत्वम्]
Link copiedयदि निर्विशेष-ज्ञान-रूप-ब्रह्माधिष्ठान-भ्रम-प्रतिपादन-परꣳ शास्त्रम्; तर्हि---
Link copiedनिर्गुणस्याप्रमेयस्य शुद्धस्याप्य् अमलात्मनः।
Link copiedकथꣳ सर्गादि-कर्तृत्वꣳ ब्रह्मणोऽभ्युपगम्यते॥ इति चोद्यꣳ,
Link copiedशक्तयः सर्व-भवानाम् अचिन्त्य-ज्ञान-गोचराः।
Link copiedयतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भाव-शक्तयः॥
Link copiedभवन्ति तपताꣳ श्रेष्ठ पावकस्य यथोष्णता॥ [वि। पु।, १।३।१।२]
Link copiedइति परिहारश् च न घटते। तथा हि सति-- निर्गुणस्य ब्रह्मणः कथꣳ सर्गादि-कर्तृत्वꣳ न ब्रह्मणः पारमार्थिकः सर्गः; अपि तु भ्रान्ति-परिकल्पितः-- इति चोद्यपरिहारौ स्याताम्॥
Link copied[प्रश्न-तद्-उत्तरयोर् नैज आशयः]
Link copiedउत्पत्त्य्-आदि-कार्यꣳ सत्त्वादि-गुण-युक्तापरिपूर्ण-कर्म-वश्येषु दृष्टम् इति सत्त्वादि-गुण-रहितस्य परिपूर्णस्याकर्म-वश्यस्य कर्म-सम्बन्धानर्हास्य कथꣳ सर्गादि-कर्तृत्वम् अभ्युपगम्यत इति चोद्यम्। दृष्ट-सकल-विसजातीयस्य ब्रह्मणो यथोदित-स्वभावस्यैव जलादि-विसजातीयस्याग्न्यादेर् औष्ण्यादि-शक्ति-योगवत् सर्व-शक्ति-योगो न विरुध्यत इति परिहारः॥
Link copied[वराह-चतुः-श्लोकी-व्याख्यानम्]
Link copiedपरमार्थस् त्वम् एवैकः [वि। पु।, १।४।३८] इत्य् आद्य् अपि न कृत्स्नस्यापारमार्थ्यꣳ वदति। अपि तु कृत्स्नस्य तद्-आत्मकतया तद्-व्यतिरेकेणावस्थितस्यापारमार्थ्यम्। तद् एवोपपादयति-- तवैष महिमा येन व्याप्तम् एतच् चराचरम् [वि। पु।, १।४।३८] इति। येन त्वयेदꣳ चराचरꣳ व्याप्तम्; अतस् त्वद्-आत्मकम् एवेदꣳ सर्वम् इति त्वद्-अन्यः कोऽपि नास्ति। अतः सर्वात्मतया त्वम् एवैकः परमार्थः। अत इदम् उच्यते तवैष महिमा, या सर्व-व्याप्तिः, इति। अन्यथा तवैषा भ्रान्तिर् इति वक्तव्यम्। जगतः पते त्वम् इत्य् आदीनाꣳ पदानाꣳ लक्षणा च स्यात्। लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुति-प्रकरण-विरोधश् च॥
Link copiedयतः कृत्स्नꣳ जगज् ज्ञानात्मना त्वयात्मतया व्याप्तत्वेन तव मूर्तम्। तस्मात् त्वद्-आत्मकत्वानुभव-साधन-योग-विरहिण एतत् केवल-देव-मनुष्यादि-रूपम् इति भ्रान्ति-ज्ञानेन पश्यन्तीत्य् आह यद् एतद् दृश्यते इति॥ न केवलꣳ वस्तुतस् त्वद्-आत्मकꣳ जगद्-देव-मनुष्याद्य्-आत्मकम् इति दर्शनम् एव भ्रमः; ज्ञानाकाराणामात्मनाꣳ देव-मनुष्याद्य्-अर्थाकारत्व-दर्शनम् अपि भ्रम इत्य् आह ज्ञान-स्वरूपम् अखिलम् इति॥
Link copiedये पुनर् बुद्धिमन्तो ज्ञान-स्वरूपात्मविदः सर्वस्य भगवद्-आत्मकत्वानुभव-साधन-योग-योग्य-परिशुद्ध-मनसश् च ते देव-मनुष्यादि-प्रकृति-परिणाम-विशेष-शरीर-रूपम् इदम् अखिलꣳ जगच्-छरीरातिरिक्त-ज्ञान-स्वरूपात्मकꣳ त्वच्-छरीरꣳ च पश्यन्तीत्य् आह ये तु ज्ञान-विदः इति। अन्यथा श्लोकानाꣳ पौनरुक्त्यम्, पदानाꣳ लक्षणा, अर्थ-विरोधः, प्रकरण-विरोधः, शास्त्र-तात्पर्य-विरोधश् च॥
Link copied[प्रकार्य्-अद्वैत-प्रकाराद्वैत-विवेकः]
Link copiedतस्यात्म-पर-देहेषु सतोऽप्य् एक-मयम् [वि। पु।, २।१४।३१] इत्य् अत्र सर्वेष्व् आत्मसु ज्ञानैकाकारतया समानेषु सत्सु देव-मनुष्यादि-प्रकृति-परिणाम-विशेष-रूप-पिण्ड-सꣳसर्ग-कृतम् आत्मसु देवाद्य्-आकारेण द्वैत-दर्शनम् अतथ्यम् इत्य् उच्यते। पिण्ड-गतम् आत्मगतम् अपि द्वैतꣳ न प्रतिषिध्यते। देव-मनुष्यादि-विविध-विचित्र-पिण्डेषु वर्तमानꣳ सर्वम् आत्म-वस्तु समम् इत्य् अर्थः। यथोक्तꣳ भगवता शुनि चैव श्व-पाके च पण्डिताः सम-दर्शिनः [भ। गी।, ५।१८] निर्दोषꣳ हि समꣳ ब्रह्म [भ। गी।, ५।१९] इत्य् आदिषु। तस्यात्म-पर-देहेषु सतोऽपि, इति देहातिरिक्ते वस्तुनि स्व-पर-विभागस्योक्तत्वात्॥
Link copiedयद्य् अन्योऽस्ति परः कोऽपि, इत्य् अत्रापि नात्मैक्यꣳ प्रतीयते। यदि मत्तः परः कोऽप्य् अन्य इत्य् एकस्मिन्न् अर्थे पर-शब्दान्य-शब्दयोः प्रयोगायोगात् तत्र पर-शब्दः स्व-व्यतिरिक्तात्म-वचनः। अन्य-शब्दस् तस्यापि ज्ञानैकाकारत्वाद् अन्याकारत्व-प्रतिषेधार्थः। एतद् उक्तꣳ भवति-- यदि मद्-व्यतिरिक्तः कोऽप्य् आत्मा मद्-आकार-भूत-ज्ञानाकाराद् अन्याकारोऽस्ति, तदाहम् एवमाकारः; अयꣳ चान्यादृशाकार इति शक्यते व्यपदेष्टुम्; न चैवम् अस्ति; सर्वेषाꣳ ज्ञानैकाकारत्वेन समानत्वाद् एवेति॥
Link copiedवेणु-रन्ध्र-विभेदेन इत्य् अत्राप्याकार-वैषम्यम् आत्मनाꣳ न स्वरूप-कृतम्। अपि तु देवादि-पिण्ड-प्रवेश-कृतम् इत्य् उपदिश्यते; नात्मैक्यम्। दृष्टान्ते चानेक-रन्ध्र-वर्तिनाꣳ वाय्वꣳशानाꣳ न स्वरूपैक्यम्; अपित्वाकार-साम्यम् एव। तेषाꣳ वायुत्वेनैकाकाराणाꣳ रन्ध्र-भेद-निष्क्रमण-कृतो हि षड्जादि-सꣳज्ञा-भेदः। एवम् आत्मनाꣳ देवादि-सꣳज्ञा-भेदः यथा तैजसाप्य् अपार्थिव-द्रव्याꣳश-भूतानाꣳ पदार्थानाꣳ तत्-तद्-द्रव्यत्वेनैक्यम् एव; न स्वरूपैक्यम्। तथा वायवीयानाम् अꣳशानाम् अपि स्वरूप-भेदोऽवर्जनीयः॥
Link copied[आदि-भरत-निगमन-श्लोकार्थः]
Link copiedसोऽहꣳ स च त्वम् इति सर्वात्मनाꣳ पूर्वोक्तꣳ ज्ञानाकारत्वꣳ तच्-छब्देन परामृश्य तत्-सामानाधिकरण्येनाहꣳ त्वम् इत्य् आदीनाम् अर्थानाꣳ ज्ञानम् एवाकार इत्य् उपसꣳहरन् देवाद्य्-आकार-भेदेनात्मसु भेद-मोहꣳ परित्यजेत्य् आह। अन्यथा देहातिररिक्तात्मोपदेश्य-स्वरूपे अहꣳ त्वꣳ सर्वम् एतद् आत्म-स्वरूपम् इति भेद-निर्देशो न घटते। अहꣳ त्वम् आदि-शब्दानाम् उपलक्ष्येण सर्वम् एतद् आत्म-स्वरूपम् इत्य् अनेन सामानाधिकरण्याद् उपलक्षणत्वम् अपि न सङ्गच्छते। सोऽपि यथोपदेशम् अकरोद् इत्य् आह तत्याज भेदꣳ परमार्थ-दृष्टिः, इति॥
Link copied[वाक्यानाम् अद्वैत-परत्वाद्य्-अभाव-साधकोपपादनम्]
Link copiedकुतश् चैष निर्णय इति चेद् देहात्म-विवेक-विषयत्वाद् उपदेशस्य। तच् च पिण्डः पृथग् यतः पुꣳसः शिरः पाण्यादि-लक्षणः [वि। पु।, २।१३।८९] इति प्रक्रमात्॥
Link copiedविभेद-जनकेऽज्ञाने [वि। पु।, ६।७।९६] इति च नात्म-स्वरूपैक्य-परम्। नापि जीव-परयोर् आत्म-स्वरूपैक्यम् उक्त-रीत्या निषिद्धम्। जीव-परयोर् अपि स्वरूपैक्यꣳ देहात्मनोर् इव न सम्भवति। तथा च श्रुतिर् द्वा सुपर्णा सयुजा सखाया समानꣳ वृक्षꣳ परिषस्वजाते। तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [मुण्ड्।, ३।१।१], ऋतꣳ पिबन्तौ सुकृतस्य लोके गुहाꣳ प्रविष्टौ परमे परार्ध्ये। छायातपौ ब्रह्म-विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः॥ [कठ।, २।१] अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [यजुर् आरण्यके, ३।२०] इत्य् आद्याः। अस्मिन्न् अपि शास्त्रे स सर्व-भूत-प्रकृतिꣳ विकारान् गुणादि-दोषाꣳश् च मुने व्यतीतः। अतीत-सर्वावरणोऽखिलात्मा तेनास्तृतꣳ यद् भुवनान्तराले, समस्त-कल्याण-गुणात्मकोऽसौ, परः पराणाꣳ सकला न यत्र क्लेशादयः सन्ति परावरेशे [वि। पु।, ६।५।८३।८५] अविद्या कर्म-सꣳज्ञान्या तृतीया शक्तिर् इष्यते। यया क्षेत्रज्ञ-शक्तिः सा वेष्टिता नृप सर्वगा [वि। पु।, ६।७।६१।६२] इति भेद-व्यपदेशात्, उभयेऽपि हि भेदेनैनम् अधीयते [ब्र। सू। १।२।२१], भेद-व्यपदेशाच् चान्यः [ब्र। सू। १।२।२२], अधिकꣳ तु भेद-निर्देशात् [ब्र। सू। २।१।२१] इत्य् आदि-सूत्रेषु च य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तो यमयति [बृहद्।, ५।७।२२], प्राज्ञेनात्मना सम्परिष्वक्तः [बृहद्।, ६।३।२१], प्राज्ञेनात्मनान्वारूढः [बृहद्।, ६।३।३५] इत्य् आदिभिर् उभयोर् अन्योन्य-प्रत्यनीकाकारेण स्वरूप-निर्णयात्।
Link copied[मुक्तौ जीव-ब्रह्मणोः स्वरूपैक्य-निरासः]
Link copiedनापि साधनानुष्ठानेन निर्मुक्ताविद्यस्य परेण स्वरूपैक्य-सम्भवः; अविद्याश्रयत्व-योग्यस्य तद्-अनर्हात्वासम्भवात्। यथोक्तम्--
Link copiedपरमात्मात्मनोर् योगः परमार्थ इतीष्यते।
Link copiedमिथ्यैतद् अन्यद् द्रव्यꣳ हि नैति तद्-द्रव्यताꣳ यतः॥ इति॥ [वि। पु।, २।१४।२७]
Link copied[जीवस्य मुक्ताव् अपि न स्वरूपैक्यꣳ, परेण परम-साम्यम् एव]
Link copiedमुक्तस्य तु तद्-धर्मतापत्तिर् एवेति भगवद्गीतासूक्तम्--
Link copiedइदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्य् अमागताः।
Link copiedसर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥ इति॥ [भ। गी।, १४।२]
Link copiedइहापि
Link copiedआत्म-भावꣳ नयत्य् एनꣳ तद् ब्रह्म ध्यायिनꣳ मुने।
Link copiedविकार्यम् आत्मनः शक्त्या लोहम् आकर्षको यथा॥ इति॥ [वि। पु।, ६।७।३]
Link copiedआत्म-भावम्-- आत्मनः स्वभावम्। नह्य् आकर्षक-स्वरूपापत्तिर् आकृष्यमाणस्य। वक्ष्यति च जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च [ब्र। सू। ४।४।१७], भोग-मात्र-साम्य-लिङ्गाच् च [ब्र। सू ४।४।२१], मुक्तोपसृप्य-व्यपदेशाच् च [ब्र। सू। १।३।२] इति। वृत्तिर् अपि जगद्-व्यापार-वर्जꣳ समानो ज्योतिषा [बोधायनवृत्तिः] इति। द्रमिड-भाष्य-कारश् च देवता-सायुज्याद् अशरीरस्यापि देवतावत् सर्वार्थसिद्धिः स्यात् [ब्रह्मानन्दी] इत्य् आह। श्रुतयश् च य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामाꣳस् तेषाꣳ सर्वेषु लोकेषु काम-चारो भवति [छान्।, ८।१।६], ब्रह्मविद् आप्नोति परꣳ सोऽश्नुते सर्वान् कामान् सह। ब्रह्मणा विपिश्चता [तै।, २।१।२], एतम् आनन्द-मयम् आत्मानम् उपसङ्क्रम्य। इमान् लोकान् कामान्नी काम-रूप्य् अनुसञ्चरन् [तै।, ३।३।५], स तत्र पर्येति [छान्।, ८।१२।३], रसो वै सः। रसꣳ ह्य् एवायꣳ लब्ध्वानन्दी भवति [तै। आ।, ७।१], यथा नद्यः स्यन्दमानाः समुद्रे अस्तꣳ गच्छन्ति नाम-रूपे विहाय। तथा विद्वान् नाम-रूपाद् विमुक्तः परात् परꣳ पुरुषम् उपैति दिव्यम् [मुण्ड्।, ३।२।८], तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपैति [मुण्ड्।, ३।१।३] इत्य् आद्याः।
Link copied[उपासनꣳ सगुण-ब्रह्मण एव]
Link copiedपर-विद्यासु सर्वासु सगुणम् एव ब्रह्मोपास्यम्। फलꣳ चैकरूपम् एव। अतो विद्या-विकल्प इति सूत्र-कारेणैव आनन्दादयः प्रधानस्य [ब्र। सू। ३।३।११], विकल्पोऽविशिष्ट-फलत्वात् [ब्र। सू। ३।३।७५] इत्य् आदिषूक्तम्। वाक्य-कारेण च सगुणस्यैवोपास्यत्वꣳ विद्या-विकल्पश् चोक्तः-- युक्तꣳ तद्-गुणकोपासनात् इति। भाष्य-कृता व्याख्यातꣳ च यद्य् अपि सच्-चित्तः इत्य् आदिना। ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९] इत्य् अत्रापि नाम-रूपाद् विमुक्तः परात्परꣳ पुरुषम् उपैति दिव्यम् [मुण्ड्।, ३।२।८], निरञ्जनः परमꣳ साम्यम् उपैति [मुण्ड्।, ३।१।३], परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छान्।, ८।१२।२] इत्य् आदिभिर् ऐकार्थ्यात् प्राकृत-नाम-रूपाभ्याꣳ विनिर्मुक्तस्य निरस्त-तत्-कृत-भेदस्य ज्ञानैकाकारतया ब्रह्म-प्रकारतोच्यते। प्रकारैक्ये च तत्त्व-व्यवहारो मुख्य एव; यथा सेयꣳ गौर् इति॥
Link copiedअत्रापि विज्ञानꣳ प्रापकꣳ प्राप्ये परे ब्रह्मणि पार्थिव। प्रापणीयस् तथैवात्मा प्रक्षीणाशेष-भावनः॥ [वि। पु।, ६।७।९३] इति॥ पर-ब्रह्म-ध्यानाद् आत्मा पर-ब्रह्मवत् प्रक्षीणाशेष-भावनः-- कर्म-भावना-ब्रह्माभावनोभय-भावनेति भावना-त्रय-रहितः प्रापणीय इत्य् अभिधाय, क्षेत्रज्ञः करणी ज्ञानꣳ करणꣳ तस्य वै द्विज। निष्पाद्य मुक्ति-कार्यꣳ हि कृतकृत्यꣳ निवर्तयेत्॥ [वि। पु।, ६।७।९४] इति करणस्य पर-ब्रह्म-ध्यान-रूपस्य प्रक्षीणाशेष-भावनात्म-स्वरूप-प्राप्त्या कृतकृत्यत्वेन निवृत्ति-वचनाद् यावत्-सिद्ध्य्-अनुष्ठेयम् इत्य् उक्त्वा तद्-भाव-भावम् आपन्नस् तदासौ परमात्मना। भवत्य् अभेदी भेदश् च तस्याज्ञान-कृतो भवेत्॥ [वि। पु।, ६।७।९३।९५] इति मुक्तस्य स्वरूपम् आह। तद्-भावो ब्रह्मणो भावः स्वभावः। न तु स्वरूपैक्यम्, तद्-भाव-भावम् आपन्न इति द्वितीय-भाव-शब्दान् अन्वयात् पूर्वोक्तार्थ-विरोधाच् च। यद् ब्रह्मणः प्रक्षीणाशेष-भावनत्वꣳ तदापत्तिः तद्-भाव-भावापत्तिः। यदैवम् आपन्नस् तदासौ परमात्मना अभेदी भवति भेद-रहितो भवति। ज्ञनैकाकारतया परमात्मनैक-प्रकारस्यास्य तस्माद् भेदो देवादि-रूपः। तद्-अन्वयोऽस्य कर्म-रूपाज्ञान-मूलः। न स्वरूप-कृतः स तु देवादिभेदः पर-ब्रह्म-ध्यानेन मूल-भूताज्ञान-रूपे कर्मणि विनष्टे हेत्व्-अभावान् निवर्तत इत्य् अभेदी भवति। यथोक्तम्-- एक-स्वरूप-भेदस् तु बाह्य-कर्म-वृति-प्रजः। देवादि-भेदेऽपध्वस्ते नास्त्य् एवावरणो हि सः॥ [वि। पु।, २।१४।३३] इति॥
Link copiedएतद् एव विवृणोति विभेद-जनकेऽज्ञाने नाशमात्य् अन्तिकꣳ गते। आत्मानो ब्रह्मणो भेदम् असन्तꣳ कः करिष्यति, इति। विभेदः-- विविधो भेदः-- देव-तिर्यङ्-मनुष्य-स्थावरात्मकः। यथोक्तꣳ शौनकेनापि चतुर्-विधोऽपि भेदोऽयꣳ मिथ्या-ज्ञान-निबन्धनः [विष्णु-धर्म,१००।२१] इति। आत्मनि ज्ञान-रूपे देवादि-रूप-विविध-भेद-हेतु-भूत-कर्माख्या-ज्ञाने पर-ब्रह्म-ध्यानेनात्यन्तिक-नाशꣳ गते सति हेत्व्-अभावाद् असन्तꣳ परस्माद् ब्रह्मण आत्मनो देवादि-रूप-भेदꣳ कः करिष्यतीत्य् अर्थः। अविद्या कर्म-सꣳज्ञान्या इति ह्य् अत्रैवोक्तम्॥
Link copied[अद्वैत-परत्वेन पराभिमत-गीतोक्ति-विवरणम्]
Link copiedक्षेत्रज्ञꣳ चापि माꣳ विद्धि [भ। गी।, १३।२] इत्य् आदिनान्तर्यामि-रूपेण सर्वस्यात्मतया ऐक्याभिधानम्। अन्यथा-- क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तमः पुरुषस् त्व् अन्यः, इत्य् आदिभिर् विरोधः। अन्तर्यामि-रूपेण सर्वेषाम् आत्मत्वꣳ तत्रैव भगवताभिहितम् ईश्वरः सर्व-भूतानाꣳ हृद्-देशेऽर्जुन तिष्ठति [भ। गी।, १८।६१], सर्वस्य चाहꣳ हृदि सन्निविष्टः [भ। गी।, १५।१५] इति च। अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः, इति च तद् एवोच्यते। भूत-शब्दो ह्य् आत्म-पर्यन्त-देह-वचनः। यतः सर्वेषाम् अयम् आत्मा तत एव सर्वेषाꣳ तच्-छरीरतया पृथग्-अवस्थानꣳ प्रतिषिध्यते न तद् अस्ति विना यत् स्यात् इति; भगवद्-विभूत्य् उपसꣳहारश् चायम् इति तथैवाभ्युपगन्तव्यम्। तत इदम् उच्यते-- यद् यद् विभूतिमत् सत्त्वꣳ श्रीमद् ऊर्जितम् एव वा। तत् तद् एवावगच्छ त्वꣳ मम तेजोꣳऽश-सम्भवम्। विष्टभ्याहम् इदꣳ कृत्स्नम् एकाꣳशेन स्थितो जगत्॥ [भ। गी।, १०।४१।४२] इति॥
Link copiedअतः शास्त्रेषु न निर्विशेष-वस्तु-प्रतिपादनम् अस्ति। नाप्य् अर्थ-जातस्य भ्रान्तत्व-प्रतिपादनम्। नापि चिद्-अचिद्-ईश्वराणाꣳ स्वरूप-भेद-निषेधः॥
Link copied[अविद्यायाꣳ सप्त-विधा अनुपपत्तयः]
Link copied[अविद्या-दूषणार्थꣳ परोक्तार्थानुवादः]
Link copiedयद् अप्य् उच्यते निर्विशेषे स्वयम्-प्रकाशे वस्तुनि दोष-परिकल्पितम् ईशेशितव्याद्य्-अनन्त-विकल्पꣳ सर्वꣳ जगत्। दोषश् च स्वरूप-तिरोधान-विविध-विचित्र-विक्षेपकरी सद्-असद्-अनिर्वचनीयानाद्य्-अविद्या। सा चावश्याभ्युपगमनीया; अनृतेन हि प्रत्यूढाः [छान्।, ८।३।२] इत्य् आदिभिः श्रुतिभिः, ब्रह्मणस् तत् त्वम् अस्य् आदि वाक्य-सामानाधिकरण्यावगत-जीवैक्यानुपपत्त्या च। सा तु न सती, भ्रान्ति-बाधयोर् अयोगात्। नाप्य् असती, ख्याति-बाधयोश् चायोगात्। अतः कोटि-द्वय-विनिर्मुक्तेयम् अविद्येति तत्त्व-विदः-- इति।
Link copied[तत्राश्रयानुपपत्तिः]
Link copiedतद् अयुक्तम्। सा हि किम् आश्रित्य भ्रमꣳ जनयति न तावज् जीवम् आश्रित्य, अविद्या-परिकल्पितत्वाज् जीव-भावस्य। नापि ब्रह्माश्रित्य, तस्य स्वयम्-प्रकाश-ज्ञान-स्वरूपत्वेनाविद्याविरोधित्वात्। सा हि ज्ञान-बाध्याभिमता॥
Link copiedज्ञान-रूपꣳ परꣳ ब्रह्म तन् निवर्त्यꣳ मृषात्मकम्।
Link copiedअज्ञानꣳ चेत् तिरस्कुर्यात्कः प्रभुस् तन्-निवर्तने॥
Link copiedज्ञानꣳ ब्रह्मेति चेज् ज्ञानम् अज्ञानस्य निवर्तकम्।
Link copiedब्रह्मवत् तत्-प्रकाशत्वात् तद् अपि ह्य् अनिवर्तकम्॥
Link copiedज्ञानꣳ ब्रह्मेति विज्ञानम् अस्ति चेत् स्यात् प्रमेयता।
Link copiedब्रह्मणोऽननुभूतित्वꣳ त्वद्-उक्त्यैव प्रसज्यते॥ [श्री-नाथमुनिः]
Link copiedज्ञान-स्वरूपꣳ ब्रह्मेति ज्ञानꣳ तस्या अविद्याया बाधकम्, न स्वरूप-भूतꣳ ज्ञानम् इति चेन् न, उभयोर् अपि ब्रह्म-स्वरूप-प्रकाशत्वे सत्य् अन्यतरस्याविद्या-विरोधित्वम् अन्यतरस्य नेति विशेषानवगमात्।
Link copiedएतद् उक्तꣳ भवति-- ज्ञान-स्वरूपꣳ ब्रह्मेत्य् अनेन ज्ञानेन ब्रह्मणि यः स्वभावोऽवगम्यते; स ब्रह्मणः स्वयम्-प्रकाशत्वेन स्वयम् एव प्रकाशत इत्य् अविद्या-विरोधित्वे न कश्चिद् विशेषः स्वरूप-तद्-विषय-ज्ञानयोः-- इति।
Link copied[ब्रह्म-विषय-प्रमाण-ज्ञानꣳ भ्रम-निवर्तकम् इति कल्पस्यय दूषणम्]
Link copiedकिꣳ च, अनुभव-स्वरूपस्य ब्रह्मणोऽनुभवान्तराननुभाव्यत्वेन भवतो न तद्-विषयꣳ ज्ञानम् अस्ति। अतो ज्ञानम् अज्ञान-विरोधि चेत् स्वयम् एव विरोधि भवतीति नास्या ब्रह्माश्रयत्व-सम्भवः। शुक्त्य्-आदयस् तु स्वयाथात्म्य-प्रकाशे स्वयम् असमर्थाः स्वाज्ञानाविरोधिनस् तन्-निवर्तने च ज्ञानान्तरम् अपेक्षन्ते। ब्रह्म तु स्वानुभव-सिद्ध-स्वयाथात्म्यम् इति स्वाज्ञान-विरोध्य् एव। तत एव निवर्तकान्तरꣳ च नापेक्षते॥
Link copied[प्रपञ्च-मिथ्यात्व-विषयकꣳ ज्ञानꣳ भ्रम-निवर्तकम् इति पक्षस्य दूषणम्]
Link copiedअथोच्येत-- ब्रह्म-व्यतिरिक्तस्य मिथ्यात्व-ज्ञानम् अज्ञान-विरोधि-- इति। न, इदꣳ ब्रह्म-व्यतिरिक्त-मिथ्यात्व-ज्ञानꣳ किꣳ ब्रह्म याथात्म्याज्ञान-विरोध्य् उत प्रपञ्च-सत्यत्व-रूपाज्ञान-विरोधीति विवेचनीयम्। न तावद् ब्रह्म-याथात्म्याज्ञान-विरोधि, अतद्-विषयत्वाज् ज्ञानाज्ञानयोर् एक-विषयत्वेन हि विरोधः। प्रपञ्च-मिथ्यात्व-ज्ञानꣳ तत्-सत्यत्व-रूपाज्ञानेन विरुध्यते। तेन प्रपञ्च-सत्यत्व-रूपाज्ञानम् एव बाधितम् इति ब्रह्म-स्वरूपाज्ञानꣳ तिष्ठत्य् एव। ब्रह्म-स्वरूपाज्ञानꣳ नाम तस्य सद्वितीयत्वम् एव। तत् तु तद्-व्यतिरिक्तस्य मिथ्यात्व-ज्ञानेन निवृत्तम्। स्वरूपꣳ तु स्वानुभव-सिद्धम् इति चेन् न। ब्रह्मणोऽद्वितीयत्वꣳ स्वरूपꣳ स्वानुभव-सिद्धम् इति तद्-विरोधि सद्वितीयत्व-रूपाज्ञानꣳ तद्-बाधश् च न स्याताम्। अद्वितीयत्वꣳ धर्म इति चेन् न, अनुभव-स्वरूपस्य ब्रह्मणोऽनुभाव्य-धर्म-विरहस्य भवतैव प्रतिपादितत्वात्। अतो ज्ञान-स्वरूपस्य ब्रह्मणो विरोधाद् एव नाज्ञानाश्रयत्वम्॥
Link copied[अविद्यया ब्रह्मणस् तिरोधानानुपपत्तिः]
Link copiedकिꣳ च, अविद्यया प्रकाशैक-स्वरूपꣳ ब्रह्म तिरोहितम् अति वदता स्वरूप-नाश एवोक्तः स्यात्। प्रकाश-तिरोधानꣳ नाम प्रकाशोत्पत्ति-प्रतिबन्धो विद्यमानस्य विनाशो वा। प्रकाशस्यानुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधानꣳ प्रकाशनाश एव॥
Link copied[अविद्या-स्वरूपानुपपत्तिः]
Link copiedअपि च निर्विषया निराश्रया स्व-प्रकाशेयम् अनुभूतिः स्वाश्रय-दोष-वशाद् अनन्ताश्रयम् अनन्त- विषयम् आत्मानम् अनुभवतीत्य् अत्र किम् अयꣳ स्वाश्रय-दोषः परमार्थ-भूतः उतापरमार्थ-भूत इति विवेचनीयम्। न तावत् परमार्थः, अनभ्युपगमात्। नाप्य् अपरमार्थः, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन वा दृशित्वेन वाभ्युपगमनीयः। न तावद् दृशिः, दृशि-स्वरूप-भेदानभ्युपगमात्। भ्रमाधिष्ठान-भूतायास् तु साक्षाद् दृशेर् माध्यमिक-पक्ष-प्रसङ्गेनापारमार्थ्यानभ्युपगमाच् च। द्रष्टृ-दृश्ययोस् तद्-अवच्छिन्नाया दृशेश् च काल्पनिकत्वेन मूल-दोषान्तरापेक्षयानवस्था स्यात्। अथैतत्-परिजिहीर्षया परमार्थसत्य् अनुभूतिर् एव ब्रह्म-रूपो दोष इति चेद् ब्रह्मैव चेद् दोषः, प्रपञ्च-दर्शनस्यैव तन्-मूलꣳ स्यात्। किꣳ प्रपञ्च-तुल्याविद्यान्तर-परिकल्पनेन ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश् च स्यात्। अतो यावद् ब्रह्म-व्यतिरिक्त-पारमार्थिक-दोषानभ्युपगमः, न तावद् भ्रान्तिर् उपपादिता भवति।
Link copied[अनिर्वचनीयत्वानुपपत्तिः]
Link copiedअनिर्वचनीयत्वꣳ च किम् अभिप्रेतम्। सद्-असद्-विलक्षणत्वम् इति चेत्, तथाविधस्य वस्तुनः प्रमाण-शून्यत्वेनानिर्वचनीयतैव स्यात्। एतद् उक्तꣳ भवति-- सर्वꣳ हि वस्तु-जातꣳ प्रतीति-व्यवस्थाप्यम्। सर्वा च प्रतीतिः सद्-असद्-आकारा। सद्-असद्-आकारायास् तु प्रतीतेः सद्-असद्-विलणꣳ विषय इत्य् अभ्युपगम्यमाने सर्वꣳ सर्व-प्रतीतेर् विषयः स्यात्-- इति॥
Link copied[अविद्यायाꣳ प्रमाणानुपपत्ति-प्रदर्शनार्थꣳ पूर्व-पक्षोपन्यासः]
Link copiedअथ स्यात्-- वस्तु-स्वरूप-तिरोधान-करम् आन्तर-बाह्य-रूप-विविधाध्यासोपादानꣳ सद्-असद्-अनिर्वचनीयम् अविद्या अज्ञानादि-पद-वाच्यꣳ वस्तु-याथात्म्य-ज्ञान-निवर्त्यꣳ ज्ञान-प्राग्-अभावातिरेकेण भाव-रूपम् एव किञ्चिद् वस्तु प्रत्यक्षानुमानाभ्याꣳ प्रतीयते। तद्-उपहित-ब्रह्मोपादानश् चाविकारे स्व-प्रकाश-चिन्-मात्र-वपुषि तेनैव तिरोहित-स्वरूपे प्रत्यग्-आत्मन्य् अहङ्कार-ज्ञान-ज्ञेय-विभाग-रूपोऽध्यासः। तस्यैवावस्था-विशेषेणाध्यास-रूपे जगति ज्ञान-बाध्य-सर्प-रजतादि-वस्तु तत्-तज्-ज्ञान-रूपाध्यासोऽपि जायते। कृत्स्नस्य मिथ्या-रूपस्य तद्-उपादानत्वꣳ च मिथ्या-भूतस्यार्थस्य मिथ्या-भूतम् एव कारणꣳ भवितुम् अर्हतीति हेतु-बलाद् अवगम्यते।
Link copied[अविद्या-विषये प्रत्यक्षस्य प्रमाणता]
Link copiedकारणाज्ञान-विषयꣳ प्रत्यक्षꣳ तावद् अहम् अज्ञो माम् अन्यꣳ च न जानामि इत्य् अपरोक्षावभासः। अयꣳ तु न ज्ञान-प्राग्-अभाव-विषयः स हि षष्ठ-प्रमाण-गोचरः। अयꣳ तु अहꣳ सुखीतिवद् अपरोक्षः अभावस्य प्रत्यक्षत्वाभ्युपगमेऽप्य् अयम् अनुभवो नात्मज्ञानाभाव-विषयः, अनुभव-वेलायाम् अपि ज्ञानस्य विद्यमानत्वात्, अविद्यमानत्वे ज्ञानाभाव-प्रतीत्य्-अनुपपत्तेश् च॥
Link copiedएतद् उक्तꣳ भवति-- अहम् अज्ञ इत्य् अस्मिन्न् अनुभवे अहम् इत्य् आत्मनोऽभाव-धर्मितया ज्ञानस्य च प्रतियोगितयावगतिर् अस्ति वा, न वा अस्ति चेद् विरोधाद् एव न ज्ञानाभावानुभव-सम्भवः। नो चेद् धर्मि-प्रतियोगि-ज्ञान-सव्यपेक्षा ज्ञानाभावानुभवः सुतराꣳ न सम्भवति। ज्ञानाभावस्यानुमेयत्वेऽभावाख्य-प्रमाण-विषयत्वे चेयम् अनुपपत्तिः समाना। अस्याज्ञानस्य भाव-रूपत्वे धर्मि-प्रतियोगि-ज्ञान-सद्-भावेऽपि विरोधाभावाद् अयम् अनुभवो भाव-रूपाज्ञान-विषय एवाभ्युपगन्तव्यः-- इति।
Link copied[भाव-रूपाज्ञानस्य साक्षि-चैतन्य-विरोधित्व-शङ्कापरिहारौ]
Link copiedननु च-- भाव-रूपम् अप्य् अज्ञानꣳ वस्तु-याथात्म्यावभास-रूपेण साक्षि-चैतन्येन विरुध्यते। मैवम्-- साक्षि-चैतन्यꣳ न वस्तु-याथात्म्य-विषयम्, अपि तु अज्ञान-विषयम्, अन्यथा मिथ्यार्थावभासानुपपत्तेः। न ह्य् अज्ञान-विषयेण ज्ञानेनाज्ञानꣳ निवर्त्यत इति न विरोधः।
Link copiedननु चेदꣳ भाव-रूपम् अप्य् अज्ञानꣳ विषय-विशेष-व्यावृत्तम् एव साक्षि-चैतन्यस्य विषयो भवति। स विषयः प्रमाणानधीन-सिद्धिर् इति कथम् इव साक्षि-चैतन्येनास्मद्-अर्थ-व्यावृत्तम् अज्ञानꣳ विषयीक्रियते। नैष दोषः, सर्वम् एव वस्तु-जातꣳ ज्ञाततया, अज्ञाततया वा साक्षि-चैतन्यस्य विषय-भूतम्। तत्र जडत्वेन ज्ञाततया सिध्यत एव प्रमाण-व्यवधानापेक्षा। अजडस्य तु प्रत्यग् वस्तुनः स्वयꣳ सिध्यतो न प्रमाण-व्यवधानापेक्षेति सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते। तस्मान् न्यायोपबृꣳहितेन प्रत्यक्षेण भाव-रूपम् एवाज्ञानꣳ प्रतीयते।
Link copied[भाव-रूपस्याज्ञानस्यानुमानतः सिद्धि-शङ्का]
Link copiedतद् इदꣳ भाव-रूपम् अज्ञाम् अनुमानेनापि सिद्ध्यति। विवादाध्यासितꣳ प्रमाण-ज्ञानꣳ स्व-प्राग्-अभाव-व्यतिरिक्त-स्व-विषयावरण-स्व-निवर्त्य-स्व-देश-गत-वस्त्व्-अन्तर-पूर्वकम्, अप्रकाशितार्थ-प्रकाशकत्वात्, अन्धकारे प्रथमोत्पन्न-प्रदीप-प्रभावत् इति।
Link copied[तमसो द्रव्यत्व-समर्थनम्]
Link copiedआलोकाभाव-मात्रꣳ वा रूपꣳ दर्शनाभाव-मात्रꣳ वा तमो न द्रव्यान्तरम्, तत् कथꣳ भाव-रूपाज्ञान-साधने निदर्शनतयोपन्यस्यत इति चेत्, उच्यते--- बहुलत्व-विरलत्वाद्य्-अवस्थायोगेन रूपवत्तया चोपलब्धेर् द्रव्यान्तरम् एव तम इति निरवद्यम् इति॥
Link copied[भाव-रूपाज्ञान-निरासारम्भः, तत्र निवर्त्य-निवर्तक-विरोधश् च]
Link copiedअत्रोच्यते-- अहम् अज्ञो माम् अन्यꣳ च न जानामि इत्य् अत्रोपपत्ति-सहितेन केवलेन च प्रत्यक्षेण न भाव-रूपम् अज्ञानꣳ प्रतीयते। यस् तु ज्ञान-प्राग्-अभाव-विषयत्वे विरोध उक्तः, स हि भाव-रूपाज्ञानेऽपि तुल्यः। विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकया प्रत्यग्-अर्थः प्रतिपन्नो वा, अप्रतिपन्नो वा। प्रतिपन्नश् चेत्, तत्-स्वरूप-ज्ञान-निवर्त्यꣳ तद्-अज्ञानꣳ तस्मिन् प्रतिपन्ने कथम् इव तिष्ठति। अप्रतिपन्नश् चेद् व्यावर्तकाश्रय-विषय-ज्ञान शून्यम् अज्ञानꣳ कथम् अनुभूयेत॥
Link copied[विशदाविशद-विभागाद् अविरोध-शङ्का, तत्-परिहारश् च]
Link copiedअथ विशद-स्वरूपावभासोऽज्ञान-विरोधी, अविशद-स्वरूपꣳ तु प्रतीयत इत्य् आश्रय-विषय-ज्ञाने सत्य् अपि नाज्ञानानुभव-विरोधः--- इति। हन्त तर्हि ज्ञान-प्राग्-अभावोऽपि विशद-स्वरूप-विषयः। आश्रय-प्रतियोगि-ज्ञानꣳ त्व् अविशद-स्वरूप-विषयम् इति न कश्चिद् विशेषोऽन्यत्राभिनिवेशात्॥
Link copied[अज्ञानस्य भाव-रूपत्वेऽपि सापेक्षता]
Link copiedभाव-रूपस्याज्ञानस्यापि ह्य् अज्ञानम् इति सिध्यतः प्राग्-अभाव-सिद्धाव् इव सापेक्षत्वम् अस्त्य् एव, तथा हि--- अज्ञानम् इति ज्ञानाभावस् तद्-अन्यस् तद्-विरोधी वा त्रयाणाम् अपि तत्-स्वरूप-ज्ञानापेक्षावश्याश्रयणीया। यद्य् अपि तमः स्वरूप-प्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथापि प्रकाश-विरोधीत्य् अनेनाकारेण प्रतिपत्तौ प्रकाश-प्रतिपत्त्य् अपेक्षास्त्य् एव। भवद्-अभिमताज्ञानꣳ न कदाचित् स्वरूपेण सिद्ध्यति, अपि त्व् अज्ञानम् इत्य् एव। तथा सति ज्ञानाभाववत् तद्-अपेक्षत्वꣳ समानम्॥
Link copied[अज्ञानस्य ज्ञान-प्राग्-अभावतासमर्थनम्]
Link copiedज्ञान-प्राग्-अभावस् तु भवताप्य् अभ्युपगम्यते। प्रतीयते चेत्य् उभयाभ्युपेतो ज्ञान-प्राग्-अभाव एव अहम् अज्ञो माम् अन्यꣳ च न जानामि, इत्य् अनुभूयत इत्य् अभ्युपगन्तव्यम्॥
Link copied[अज्ञः इति प्रत्यक्षस्य भाव-रूपाज्ञान-विषयत्वे प्रतिकूल-तर्कः]
Link copiedनित्यम् उक्त-स्व-प्रकाश-चैतन्यैक-स्वरूपस्य ब्रह्मणोऽज्ञानानुभवश् च न सम्भवति, स्वानुभव-स्वरूपत्वात्। स्वानुभव-स्वरूपम् अपि तिरोहित-स्वरूपम् अज्ञानम् अनुभवतीति चेत्, किम् इदꣳ तिरोहित-स्वरूपत्वम्। अप्रकाशित-स्वरूपत्वम् इति चेत्, स्वानुभव-स्वरूपस्य कथम् अप्रकाशित-स्वरूपत्वम्। स्वानुभव-स्वरूपस्याप्य् अन्यतोऽप्रकाशित-स्वरूपत्वम् आपद्यत इति चेद् एवꣳ तर्हि प्रकाशाख्य-धर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वाद् अन्यतः स्वरूप-नाश एव स्याद् इति पूर्वम् एवोक्तम्॥
Link copied[भाव-रूपाज्ञान-विषयत्वे दूषणान्तरम्]
Link copiedकिꣳ च-- ब्रह्म-स्वरूप-तिरोधान-हेतु-भूतम् एतद् अज्ञानꣳ स्वयम् अनुभूतꣳ सद् ब्रह्म तिरस्करोति। ब्रह्म तिरस्कृत्य स्वयꣳ तद्-अनुभव-विषयो भवतीत्य् अन्योन्याश्रयणम्॥
Link copiedअनुभूतम् एव तिरस्करोतीति चेद् यद्य् अतिरोहित-स्वरूपम् एव ब्रह्माज्ञानम् अनुभवति; तदा तिरोधान-कल्पना निष्प्रयोजना स्याद् अज्ञान-स्वरूप-कल्पना च। ब्रह्मणोऽज्ञानादर्शनवद् अज्ञान-कार्यतयाभिमत-प्रपञ्च-दर्शनस्यापि सम्भवात्। किꣳ च-- ब्रह्मणोऽज्ञानानुभवः किꣳ स्वतोऽन्यतो वा स्वतश् चेद् अज्ञानानुभवस्य स्वरूप-प्रयुक्तत्वेन अनिर्मोक्षः स्यात्। अनुभूति-स्वरूपस्य ब्रह्मणोऽज्ञानानुभव-स्वरूपत्वेन मिथ्या-रजत-बाधक-ज्ञानेन रजतानुभवस्यापि निवृत्तिवन् निवर्तक-ज्ञानेनाज्ञानानुभूति-रूप-ब्रह्म-स्वरूप-निवृत्तिर् वा। अन्यतश् चेत् किꣳ तद्-अन्यज् अज्ञानान्तरम् इति चेद् अनवस्था स्यात्। ब्रह्म तिरस्कृत्यैव स्वयम् अनुभव-विषयो भवतीति चेत् तथा सतीदम् अज्ञानꣳ काचादिवत् स्व-सत्तया ब्रह्म तिरस्करोतीति ज्ञान-बाध्यत्वम् अज्ञानस्य न स्यात्॥
Link copiedअथेदम् अज्ञानꣳ स्वयम् अनादि, ब्रह्मणः स्व-साक्षित्वꣳ ब्रह्म-स्वरूप-तिरस्कृतिꣳ च युगपद् एव करोति। अतो नानवस्थादयो दोषा इति नैतत्; स्वानुभव-स्वरूपस्य ब्रह्मणः स्वरूप-तिरस्कृतिम् अन्तरेण साक्षित्वापादनायोगात्। हेत्व्-अन्तरेण तिरस्कृतम् इति चेत्, तर्ह्य् अस्यानादित्वम् अपास्तम्। अनवस्था च पूर्वोक्ता। अतिरस्कृत-स्वरूपस्यैव साक्षित्वापादने ब्रह्मणः स्वानुभवैकतानता च न स्यात्॥
Link copied[पूर्वोक्त-विशदाविशदाव् अभास-दूषणम्]
Link copiedअपि च-- अविद्यया ब्रह्मणि तिरोहिते तद् ब्रह्म न किञ्चिद् अपि प्रकाशते उत किञ्चित् प्रकाशते पूर्वस्मिन् कल्पे प्रकाश-मात्र-स्वरूपस्य ब्रह्मणोऽप्रकाशे तुच्छतापत्तिर् असकृद् उक्ता। उत्तरस्मिन् कल्पे सच्-चिद्-आनन्दैकरसे ब्रह्मणि कोऽयम् अꣳशस् तिरस्क्रियते, को वा प्रकाशते निरꣳशे निर्विशेषे प्रकाश-मात्रे वस्तुन्य् आकार-द्वयासम्भवेन तिरस्कारः प्रकाशश् च युगपन् न सङ्गच्छेते। अथ सच्-चिद्-आनन्दैकरसꣳ ब्रह्म अविद्यया तिरोहित-स्वरूपम् अविशदम् इव लक्ष्यत इति प्रकाश-मात्र-स्वरूपस्य विशदताविशदता वा किꣳ-रूपा। एतद् उक्तꣳ भवति-- यः साꣳशः सविशेषः प्रकाश-विषयः; तस्य सकलावभासो विशदावभासः, कतिपय-विशेष-रहितावभासश् चाविशदावभासः। तत्र य आकारोऽप्रतिपन्नस् तस्मिन्न् अꣳशे प्रकाशाभावाद् एव प्रकाशावैशद्यꣳ न विद्यते। यच् चाꣳशः प्रतिपन्नस् तस्मिन्न् अꣳशे तद्-विषय-प्रकाशो विशद एव। अतः सर्वत्र प्रकाशाꣳशेऽवैशद्यꣳ न सम्भवति। विषयेऽपि स्वरूपे प्रतीयमाने तद्-गत-कतिपय-विशेषाप्रतीतिर् एवावैशद्यम्। तस्माद् अविषये निर्विशेषे प्रकाश-मात्रे ब्रह्मणि स्वरूपे प्रकाशमाने तद्-गत-कतिपय-विशेषाप्रतीति-रूपावैशद्यꣳ नामाज्ञान-कार्यꣳ न सम्भवति।
Link copied[विशदाविशदावभासस्यैव मुखान्तरेण दूषणम्]
Link copiedअपि च-- इदम् अविद्या-कार्यम् अवैशद्यꣳ तत्त्व-ज्ञानोदयान् निवर्तते न वा अनिवृत्तावपवर्गाभावः। निवृत्तौ च वस्तु किꣳ-रूपम् इति विवेचनीयम्। विशद-स्वरूपम् इति चेत् तद्-विशद-स्वरूपꣳ प्राग् अस्ति न वा अस्ति चेद् अविद्या-कार्यम् अवैशद्यꣳ तन्-निवृत्तिश् च न स्याताम्। नो चेन् मोक्षस्य कार्यतया अनित्यता स्यात्॥
Link copied[दूषणान्तराणि]
Link copiedअस्याज्ञानस्याश्रयानिरूपणाद् एवासम्भवः पूर्वम् एवोक्तः। अपि च-- अपरमार्थ-दोष-मूल-भ्रम-वादिना निरधिष्ठान-भ्रमासम्भवोऽपि दुरुपपादः; भ्रम-हेतु-भूत-दोषाश्रयत्ववद् अधिष्ठानापारमार्थ्येऽपि भ्रमोपपत्तेः। ततश् च सर्व-शून्यत्वम् एव स्यात्॥
Link copied[उक्ताज्ञानेऽनुमान-प्रमाण-दूषणम्]
Link copiedयद् उक्तम् अनुमानेनापि भाव-रूपम् अज्ञानꣳ सिध्यतीति; तद् अयुक्तम्; अनुमानासम्भवात्। ननूक्तमनुमानम्। सत्यम् उक्तम्। दुरुक्तꣳ तु तत्, अज्ञानेऽप्य् अनभिमताज्ञानान्तर-साधनेन विरुद्धत्वाद् धेतोः। तत्राज्ञानान्तरासाधने हेतोर् अनैकान्त्यम्। साधने च तद्-अज्ञानम् अज्ञान-साक्षित्वꣳ निवारयति। ततश् चाज्ञान-कल्पना निष्फला स्यात्॥
Link copied[अनुमाने दूषणान्तरम्]
Link copiedदृष्टान्तश् च साधन-विकलः; दीप-प्रभाया अप्रकाशितार्थ-प्रकाशकत्वाभावात्। सर्वत्र ज्ञानस्यैव हि प्रकाशकत्वम्। सत्य् अपि दीपे ज्ञानेन विना विषय-प्रकाशाभावात्। इन्द्रियाणाम् अपि ज्ञानोत्पत्ति-हेतुत्वम् एव; न प्रकाशकत्वम्। प्रदीप-प्रभायास् तु चक्षुर्-इन्द्रियस्य ज्ञानम् उत्पादयतो विरोधितमो-निरसन-द्वारेण उपकारकत्व-मात्रम् एव। प्रकाशक-ज्ञानोत्पत्तौ व्याप्रियमाण-चक्षुर्-इन्द्रियोपकारक-हेतुत्वम् अपेक्ष्य दीपस्य प्रकाशकत्व-व्यवहारः। नास्माभिर् ज्ञान-तुल्य-प्रकाशकत्वाभ्युपगमेन दीप-प्रभा निदर्शिता। अपि तु ज्ञानस्यैव स्व-विषयावरण-निरसन-पूर्वक-प्रकाशकत्वम् अङ्गीकृत्येति चेन् न, न हि विरोधि-निरसन-मात्रꣳ प्रकाशकत्वम्; अपि त्व् अर्थ-परिच्छेदः। व्यवहार-योग्यतापादानम् इति यावत्। तत् तु ज्ञानस्यैव। यद्य् उपकारकाणाम् अप्य् अप्रकाशितार्थ-प्रकाशकत्वम् अङ्गीकृतꣳ, तर्हीन्द्रियाणाम् उपकारकतमत्वेनाप्रकाशितार्थ-प्रकाशकत्वम् अङ्गीकरणीयम्। तथा सति तेषाꣳ स्व-निवर्त्य-वस्त्व्-अन्तर-पूर्वकत्वाभावाद् धेतोर् अनैकान्त्यम् इत्य् अलम् अनेन॥
Link copied[भाव-रूपाज्ञानानुमानस्य प्रतिकूलतर्क-पराहतिः]
Link copiedप्रतिप्रयोगाश् च-- १) विवादाध्यासितम् अज्ञानꣳ न ज्ञान-मात्र-ब्रह्माश्रयम्; अज्ञानत्वात्; शुक्तिकाद्य्-अज्ञानवत्। ज्ञात्राश्रयꣳ हि तत्। २) विवादाध्यासितम् अज्ञानꣳ न ज्ञान-मात्र-ब्रह्मावरणम्; अज्ञानत्वात्, शुक्तिकाद्य्-अज्ञानवत्। विषयावरणꣳ हि तत्। ३) विवादाध्यासितम् अज्ञानꣳ न ज्ञान-निवर्त्यम्; ज्ञान-विषयानावरणत्वात्; यज् ज्ञान-निवर्त्यम् अज्ञानꣳ तज् ज्ञान-विषयावरणम्। यथा शुक्तिकाद्य्-अज्ञानम्। ४। ब्रह्म नाज्ञानास्पदम्, ज्ञातृत्व-विरहात्; घटादिवत्। ५) ब्रह्म नाज्ञानावरणम्; ज्ञाना-विषयत्वात्। यद् अज्ञानावरणꣳ तज् ज्ञान-विषय-भूतम्, यथा शुक्तिकादि। ६) ब्रह्म न ज्ञान-निवर्त्याज्ञानम्; ज्ञानाविषयत्वात्। यज् ज्ञाननिर्त्याज्ञानꣳ तज् ज्ञान-विषय-भूतम्, यथा शुक्तिकादि। ७) विवादाध्यासितꣳ प्रमाण-ज्ञानꣳ स्व-प्राग्-अभावातिरक्ताज्ञान-पूर्वकꣳ न भवति, प्रमाण-ज्ञानत्वात्, भवद्-अभिमताज्ञान-साधन-प्रमाण-ज्ञानवत्। ८) ज्ञानꣳ न वस्तुनो विनाशकम्, शक्ति-विशेषोपबृꣳहण-विरहे सति ज्ञानत्वात्। यद् वस्तुनो विनाशकꣳ तच्-छक्ति-विशेषोपबृꣳहितꣳ ज्ञानम् अज्ञानꣳ च दृष्टम्; यथेश्वर-योगि-प्रभृति-ज्ञानम्; यथा च मुद्गरादि। ९) भाव-रूपम् अज्ञानꣳ न ज्ञान-विनाश्यम्; भाव-रूपत्वात्, घटादिवद् इति।
Link copied[अन्तिमे प्रतिकूल-तर्के व्याप्ति-भङ्ग-शङ्कापरिहारौ]
Link copiedअथोच्येत-- बाधक-ज्ञानेन पूर्व-ज्ञानोत्पन्नानाꣳ भयादीनाꣳ विनाशो दृश्यते-- इति। नैवम्-- न हि ज्ञानेन तेषाꣳ विनाशः; क्षणिकत्वेन तेषाꣳ स्वयम् एव विनाशात्; कारण-निवृत्त्या च पश्चाद् अनुत्पत्तेः। क्षणिकत्वꣳ च तेषाꣳ ज्ञानवद् उत्पत्तिकारण-सन्निधान एवोपलब्धेः; अन्यथानुपलब्धेश् चावगम्यते। अक्षणिकत्वे च भयादीनाꣳ भयादि-हेतु-भूत-ज्ञान-सन्ततावविशेषेण सर्वेषाꣳ ज्ञानानाꣳ भयाद्य्-उत्पत्ति-हेतुत्वेनानेक-भयोपलब्धि-प्रसङ्गाच् च॥
Link copied[अविद्यानुमान-प्रयोग-दूषणम्]
Link copiedस्व-प्राग्-अभाव-व्यतिरिक्त-वस्त्व्-अन्तर-पूर्वकम् इति व्यर्थ-विशेषणोपादानेन प्रयोग-कुशलता चाविष्कृता। अतोऽनुमानेनापि न भाव-रूपाज्ञान-सिद्धिः।
Link copied[अविद्यायाꣳ प्रमाणान्तरस्याप्य् अभावः]
Link copiedश्रुति-तद्-अर्थापत्तिभ्याम् अज्ञानासिद्धिर् अनन्तरम् एव वक्ष्यते। मिथ्यार्थस्य हि मिथ्यैवोपादानꣳ भवितुम् अर्हतीत्य् एतद् अपि न विलक्षणत्वात् [ब्र। सू। २।१।४] इत्य् अधिकरण-न्यायेन परिह्रियते। अतोऽनिर्वचनीयाज्ञान-विषया न काचिद् अपि प्रतीतिर् अस्ति।
Link copied[ख्याति-विचारारम्भः]
Link copiedप्रतीति-भ्रान्ति-बाधैर् अपि न तथाभ्युपगमनीयम्। प्रतीयमानम् एव हि प्रतीति-भ्रान्ति-बाध-विषयः। आभिः प्रतीतिभिः प्रतीत्य्-अन्तरेण चानुपलब्धम् आसाꣳ विषय इति न युज्यते कल्पयितुम्॥
Link copied[अनिर्वचनीय-ख्यातिः]
Link copiedशुक्त्य्-आदिषु रजतादि-प्रतीतेः, प्रतीति-कालेऽपि तन् नास्तीति बाधेन चान्यस्यान्यथाभानायोगाच् च सद्-असद्-अनिर्वचनीयम् अपूर्वम् एवेदꣳ रजतꣳ दोष-वशात् प्रतीयत इति कल्पनीयम् इति चेत्;
Link copied[अन्यथाख्यातेर् अपरिहार्यता]
Link copiedन, तत्-कल्पनायाम् अप्य् अन्यस्यान्यथाभानस्यावर्जनीयत्वात्; अन्यथाभानाभ्युपगमाद् एव ख्याति-प्रवृत्ति-बाध-भ्रमत्वानाम् उपपत्तेर् अत्यन्तापरिदृष्टाकारणक-वस्तु-कल्पनायोगात्। कल्प्यमानꣳ हीदम् अनिर्वचनीयम्, न तावद् अनिर्वचनीयम् इति प्रतीयते, अपि तु परमार्थ-रजतम् इत्य् एव। अनिर्वचनीयम् इत्य् एव प्रतीतꣳ चेद् भ्रान्ति-बाधयोः प्रवृत्तेर् अप्य् असम्भवः। अतोऽन्यस्यान्यथाभान-विरहे प्रतीति-प्रवृत्ति-बाध-भ्रमत्वानाम् अनुपपत्तेस् तस्यापरिहार्यत्वाच् च; शुक्त्य्-आदिर् एव रजताद्य्-आकारेणावभासत इति भवताभ्युपगन्तव्यम्। ख्यात्य्-अन्तरवादिनाꣳ च सुदूरम् अपि गत्वान्यथावभासोऽवश्याश्रयणीयः--- असत्-ख्याति-पक्षे सद्-आत्मना; आत्म-ख्याति-पक्षेऽर्थात्मना; अख्याति-पक्षेऽप्य् अन्य-विशेषणम् अन्य-विशेषणत्वेन; ज्ञान-द्वयम् एकत्वेन च; विषयासद्-भाव-पक्षेऽपि विद्यमानत्वेन॥
Link copied[अनिर्वचनीयोत्पत्तेर् अकारणकता]
Link copiedकिꣳ च-- अनिर्वचनीयम् अपूर्व-रजतम् अत्र जातम् इति वदता तस्य जन्म-कारणꣳ वक्तव्यम्; न तावत् तत्-प्रतीतिस् तस्यास् तद्-विषयत्वेन तद्-उत्पत्तेः प्राग्-आत्म-लाभायोगात्। निर्विषया जाता तद्-उत्पाद्य तद् एव विषयीकरोतीति महताम् इदम् उपपादनम्। अथेन्द्रियादि-गतो दोषः, तन् न, तस्य पुरुषाश्रयत्वेनार्थ-गत-कार्यस्योत्पादकत्वायोगात्। नापीन्द्रियाणि, तेषाꣳ ज्ञान-कारणत्वात्। नापि दुष्टानीन्द्रियाणि, तेषाम् अपि स्व-कार्य-भूते ज्ञान एव हि विशेष-करत्वम् अनादि-मिथ्याज्ञानोपादानत्वꣳ तु पूर्वम् एव निरस्तम्॥
Link copied[अनिर्वचनीयस्य बुद्धि-शब्दान्वय-नियमानुपपत्तिः]
Link copiedकिꣳ च-- अपूर्वम् अनिर्वचनीयम् इदꣳ वस्तु-जातꣳ रजतादि-बुद्धि-शब्दाभ्याꣳ कथम् इव विषयीक्रियते, न घटादि-बुद्धि-शब्दाभ्याम्। रजतादि-सादृश्याद् इति चेत् तर्हि तत्-सदृशम् इत्य् एव प्रतीति-शब्दौ स्याताम्। रजतादि-जाति-योगाद् इति चेत् सा किꣳ परमार्थ-भूता; अपरमार्थ-भूता वा; न तावत् परमार्थ-भूता, तस्या अपरमार्थान्वयायोगात्। नाप्यपरमार्थ-भूता, परमार्थान्वयायोगात्। अपरमार्थे परमार्थ-बुद्धि-शब्दयोर् निर्वाहकत्वायोगाच् चेत्य् अलम् अपरिणत-कुतर्क-निरसनेन॥
Link copied[सर्वत्राबाधिता यथार्थ-ख्यातिः]
Link copiedअथवा
Link copiedयथार्थꣳ सर्व-विज्ञानम् इति वेद-विदाꣳ मतम्।श्रुति-स्मृतिभ्यः सर्वस्य सर्वात्मत्व-प्रतीतितः॥
Link copiedबहुस्याꣳ [छान्।, ६।२।३] इति सङ्कल्प-पूर्व-सृष्ट्य्-आद्य्-उपक्रमे।
Link copiedतासाꣳ त्रिवृतम् एकैकाꣳ [छान्।, ६।३।३] इति श्रुत्यैव चोदितम्॥
Link copiedत्रिवृत्-करणम् एवꣳ हि प्रत्यक्षेणोपलभ्यते। यद् अग्ने रोहितꣳ रूपꣳ तेजसस् तद् अपाम् अपि॥
Link copiedशुक्लꣳ कृष्णꣳ पृथिव्याश् चेत्य् अग्नाव् एव त्रिरूपता।
Link copiedश्रुत्यैव दर्शिता तस्मात् सर्वे सर्वत्र सङ्गताः॥
Link copiedपुराणे चैवम् एवोक्तꣳ वैष्णवे सृष्ट्य्-उपक्रमे॥
Link copiedनाना-वीर्याः पृथग् भूतास् ततस् ते सꣳहतिꣳ विना।
Link copiedनाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः॥
Link copiedसमेत्यान्योन्य-सꣳयोगꣳ परस्पर-समाश्रयाः।
Link copiedमहद्-आद्या विशेषान्ता ह्य् अण्डम् इत्य् आदिना ततः॥ [वि। पु।, १।२।५२।५४]
Link copiedसूत्र-कारोऽपि भूतानाꣳ त्रि-रूपत्वꣳ तथावदत्।
Link copiedत्रयात्मकत्वात् तु भूयस्त्वात् [ब्र। सू। ३।१।२] इति तेनाभिधाभिदा॥
Link copiedसोमाभावे च पूतीक-ग्रहणꣳ श्रुति-चोदितम्।
Link copiedसोमावयव-सद्-भावाद् इति न्याय-विदो विदुः॥
Link copiedव्रीह्य्-अभावे च नीवार-ग्रहणꣳ व्रीहि-भावतः।
Link copiedतद् एव सदृशꣳ तस्य यत् तद् द्रव्यैकदेश-भाक्॥
Link copiedशुक्त्य्-आदौ रजतादेश् च भावः श्रुत्यैव बोधितः।
Link copiedरूप्य-शुक्त्य्-आदि-निर्देश-भेदो भूयस्त्व-हेतुकः॥
Link copiedरूप्यादि-सदृशश् चायꣳ शुक्त्य्-आदिर् उपलभ्यते।
Link copiedअतस् तस्यात्र सद्-भावः प्रतीतेर् अपि निश्चितः॥
Link copiedकदाचिच् चक्षुर्-आदेस् तु दोषाच् छुक्त्य् अꣳश-वर्जितः।
Link copiedरजताꣳशो गृहीतोऽतो रजतार्थी प्रवर्तते॥ दोषहानौ तु शुक्त्य्-अꣳशे गृहीते तन्-निवर्तते।
Link copiedअतो यथार्थꣳ रूप्यादि-विज्ञानꣳ शुक्तिकादिषु॥ बाध्य-बाधक-भावोऽपि भूयस्त्वेनोपपद्यते।
Link copiedशुक्ति-भूयस्त्व-वैकल्य-साकल्य-ग्रह-रूपतः॥
Link copiedनातो मिथ्यार्थ-सत्यार्थ-विषयत्व-निबन्धनः। एवꣳ सर्वस्य सर्वत्वे व्यवहार-व्यवस्थितिः॥
Link copied[स्वाप्नार्थ-सत्यता-समर्थनम्]
Link copiedस्वप्ने च प्राणिनाꣳ पुण्य-पापानुगुणꣳ भगवतैव तत्-तत्-पुरुष-मात्रानुभाव्यास् तत्-तत्-कालावसानास् तथाभूताश् चार्थाः सृज्यन्ते। तथा हि श्रुतिः स्वप्न-विषया न तत्र रथा न रथ-योगा न पन्थानो भवन्ति। अथ रथान् रथ-योगान् पथः सृजते। न तत्रानन्दा मुदः प्रमुदो भवन्ति। अथानन्दान् मुदः प्रमुदः सृजते। न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति। अथ वेशान्तान् पुष्करिण्यः स्रवन्त्यः सृजते। स हि कर्ता [बृहद्।, ६।३।१०] इति। यद्य् अपि सकलेतर-पुरुषानुभाव्यतया तदानीꣳ न भवन्ति। तथापि तत्-तत्-पुरुष-मात्रानुभाव्यतया तथाविधानर्थानीश्वरः सृजति। स हि कर्ता। तस्य सत्य-सङ्कल्पस्याश्चर्य-शक्तेस् तथाविधꣳ कर्तृत्वꣳ सम्भवतीत्य् अर्थः। य एषु सुप्तेषु जागर्ति कामꣳ कामꣳ पुरुषो निर्मिमाणः। तद् एव शुक्रꣳ तद् ब्रह्म तद् एवामृतम् उच्यते। तस्मिꣳल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन [कठ।, २।५।८] इति च। सूत्र-कारोऽपि सन्ध्ये सृष्टिर् आह हि [ब्र। सू। ३।२।१] निर्मातारꣳ चैके पुत्रादयश् च [ब्र। सू। ३।२।२] इति सूत्र-द्वयेन स्वाप्नेष्व् अर्थेषु जीवस्य स्रष्टृत्वम् आशङ्क्य माया-मात्रꣳ तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [ब्र। सू। ३।२।३] इत्य् आदिना-- न जीवस्य सङ्कल्प-मात्रेण स्रष्टृत्वम् उपपद्यते। जीवस्य स्वाभाविक-सत्य-सङ्कल्पत्वादेः कृत्स्नस्य सꣳसार-दशायाम् अनभिव्यक्त-स्वरूपत्वात्, ईश्वरस्यैव तत्-तत्-पुरुष-मात्रानुभाव्यतया आश्चर्य-भूता सृष्टिर् इयम्। तस्मिꣳल् लोकाः श्रिताः सर्वे तद् उ नात्येति कश्चन इति परमात्मैव तत्र स्रष्टेत्य् अवगम्यत इति परिहरति॥
Link copied[स्वाप्नार्थ-सत्यत्वानुपपत्ति-शङ्का-परिहारः]
Link copiedअपवरकादिषु शयानस्य स्वप्न-दृशः स्व-देहेनैव देशान्तर-गमन-राज्याभिषेक-शिरश्-छेदादयश् च पुण्य-पाप-फल-भूताः शयान-देह-सरूप-सꣳस्थान-देहान्तर-सृष्ट्योपपद्यन्ते॥
Link copied[भ्रम-विशेषेषु याथार्थ्योपपादनम्]
Link copiedपीत-शङ्खादौ तु नयन-वर्ति-पित्त-द्रव्य-सम्भिन्ना नायन-रश्मयः शङ्खादिभिः सꣳयुज्यन्ते। तत्र पित्त-गत-पीतिमाभिभूतः शङ्ख-गत-शुक्लिमा न गृह्यते। अतः सुवर्णानुलिप्त-शङ्खवत् पीतः शङ्ख इति प्रतीयते। पित्त-द्रव्यꣳ तद्-गतपीतिमा चातिसौक्ष्म्यात् पार्श्व-स्थैर् न गृह्यते। पित्तोपहतेन तु स्व-नयन-निष्क्रान्ततयाति-सामीप्यात् सूक्ष्मम् अपि गृह्यते। तद्-ग्रहण-जनित-सꣳस्कार-सचिव-नायन-रश्मिभिर् दूरस्थम् अपि गृह्यते॥
Link copiedजपा-कुसुम-समीप-वर्ति-स्फटिक-मणिर् अपि तत्-प्रभाभिभूततया रक्त इति गृह्यते। जपा-कुसुम-प्रभा विततापि स्वच्छ-द्रव्य-सꣳयुक्ततया स्फुटतरम् उपलभ्यत इत्य् उपलब्धि-व्यवस्थाप्यम् इदम्। मरीचिकाजल-ज्ञानेऽपि तेजः पृथिव्योर् अप्य् अम्बुनो विद्यमानत्वाद् इन्द्रिय-दोषेण तेजः पृथिव्योर् अग्रहणाद् अदृष्टवशाच् चाम्बुनो ग्रहणाद्य्-अथार्थत्वम्। अलात-चक्रेऽप्य् अलातस्य द्रुततर-गमनेन सर्व-देश-सꣳयोगाद् अन्तरालाग्रहणात् तथा प्रतीतिर् उपपद्यते। चक्र-प्रतीताव् अप्य् अन्तरालाग्रहण-पूर्वक-तत्-तद्-देश-सꣳयुक्त-तत्-तद्-वस्तु-ग्रहणम् एव। क्वचिद् अन्तरालाभावाद् अन्तरालाग्रहणम्, क्वचिच् छैघ्र्याद् अग्रहणम् इति विशेषः। अतस् तद् अपि यथार्थम्।
Link copiedदर्पणादिषु निज-मुखादि-प्रतीतिर् अपि यथार्था। दर्पणादि-प्रतिहत-गतयो हि नायन-रश्मयो दर्पणादि-देश-ग्रहण-पूर्वकꣳ निज-मुखादि गृह्णन्ति। तत्राप्य् अतिशैघ्र्याद् अन्तरालाग्रहणात् तथा प्रतीतिः॥
Link copiedदिङ्-मोहेऽपि दिग्-अन्तरस्यास्याꣳ दिशि विद्यमानत्वाद् अदृष्ट-वशेनैतद्-दिग्-अꣳश-वियुक्तो दिग्-अन्तराꣳशो गृह्यते। अतो दिग्-अन्तर-प्रतीतिर् यथार्थैव। द्वि-चन्द्र-ज्ञानादाव् अप्य् अङ्गुल्य्-अवष्टम्भ-तिमिरादिभिर् नायन-तेजो-गति-भेदेन सामग्रीभेदात् सामग्री-द्वयम् अन्योन्य-निरपेक्षꣳ चन्द्र-ग्रहण-द्वय-हेतुर् भवति। तत्रैका सामग्री स्व-देश-विशिष्टꣳ चन्द्रꣳ गृह्णाति। द्वितीया तु किञ्चिद् वक्र-गतिश् चन्द्र-समीप-देश-ग्रहण-पूर्वकꣳ चन्द्रꣳ स्व-देश-वियुक्तꣳ गृह्णाति। अतः सामग्री-द्वयेन युगपद् देश-द्वय-विशिष्ट-चन्द्र-ग्रहणे ग्रहण-भेदेन ग्राह्याकार-भेदाद् एकत्व-ग्रहणाभावाच् च द्वौ चन्द्राव् इति भवति प्रतीति-विशेषः। देशान्तरस्य तद्-विशेषणत्वꣳ देशान्तरस्य, अगृहीत-स्व-देश-चन्द्रस्य च निरन्तर-ग्रहणेन भवति। तत्र सामग्री-द्वित्वꣳ पारमार्थिकम्। तेन देश-द्वय-विशिष्ट-चन्द्र-ग्रहण-द्वयꣳ च पारमार्थिकम्।
Link copiedग्रहण-द्वित्वेन चन्द्रस्यैव ग्राह्याकारद्वित्वꣳ च पारमार्थिकम्। तत्र विशेषण-द्वय-विशिष्ट-चन्द्र-ग्रहण-द्वयस्यैक एव चन्द्रो ग्राह्य इति ग्रहणे प्रत्यभिज्ञानवत् केवल-चक्षुषः सामर्थ्याभावाच् चाक्षुष-ज्ञानꣳ तथैवावतिष्ठते। द्वयोश् चक्षुषोर् एक-सामग्र्य्-अन्तर्भावेऽपि तिमिरादि-दोष-भिन्नꣳ चाक्षुषꣳ तेजः सामग्री-द्वयꣳ भवतीति कार्य-कल्प्यम्। अपगते तु दोषे स्व-देश-विशिष्टस्य चन्द्रस्यैक-ग्रहण-वेद्यत्वाद् एकश् चन्द्र इति भवति प्रत्ययः। दोष-कृतꣳ तु सामग्री-द्वित्वꣳ तत्-कृतꣳ ग्रहण-द्वित्वꣳ तत्-कृतꣳ ग्राह्याकार-द्वित्वꣳ चेति निरवद्यम्।
Link copiedअतः सर्वꣳ विज्ञान-जातꣳ यथार्थम् इति सिद्धम्। ख्यात्य्-अन्तराणाꣳ दूषणानि तैस् तैर् वादिभिर् एव प्रपञ्चितानीति न तत्र यत्नः क्रियते।
Link copiedअथवा किम् अनेन बहुनोपपादान-प्रकारेण।
Link copiedप्रत्यक्षानुमानागमाख्यꣳ प्रमाण-जातम् आगम-गम्यꣳ च निरस्ति-निखिल-दोष-गन्धम् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणꣳ सर्वज्ञꣳ, सत्य-सङ्कल्पꣳ परꣳ ब्रह्माभ्युपगच्छताꣳ किꣳ न सेत्स्यति। किꣳ नोपपद्यते।
Link copiedभगवता हि परेण ब्रह्मणा क्षेत्रज्ञ-पुण्य-पापानुगुणꣳ तद्-भोग्यत्वायाखिलꣳ जगत् सृजता सुख-दुःखोपेक्षाफलानुभवानुभाव्याः पदार्थाः सर्व-साधारणानुभव-विषयाः, केचन तत्-तत्-पुरुष-मात्रानुभव-विषयाः तत्-तत्-कालावसानास् तथा तथानुभाव्याः सृज्यन्ते। तत्र बाध्य-बाधक-भावः सर्वानुभव-विषयतया तद्-रहिततया चोपपद्यत इति सर्वꣳ समञ्जसम्॥
Link copied[श्रुत्य्-आदिभिः नानिर्वचनीयाज्ञान-सिद्धिः]
Link copiedयत् पुनः सद्-असद्-अनिर्वचनीयम् अज्ञानꣳ श्रुति-सिद्धम् इति; तद् असद् अनृतेन हि प्रत्यूढाः [छान्।, ८।३।२] इत्य् आदिष्व् अनृत-शब्दस्यानिर्वचनीयानभिधायित्वात्। ऋतेतर-विषयो ह्य् अनृत-शब्दः। ऋतम् इति कर्म-वाचि। ऋतꣳ पिबन्तौ [कठ।, १।३।१] इति वचनात्। ऋतम्-- कर्म-फलाभिसन्धि-रहितꣳ परम-पुरुषाराधन-वेषꣳ तत्-प्राप्ति-फलम्। अत्र तद्-व्यतिरिक्तꣳ साꣳसारिक-फलꣳ कर्म अनृतꣳ ब्रह्म-प्राप्ति-विरोधि एतꣳ ब्रह्म-लोकꣳ न विन्दन्ति, अनृतेन हि प्रत्यूढाः [छान्।, ८।३।१] इति वचनात्॥
Link copiedनासद् आसीन्नो सद् आसीत् [यजुर्, २।८।९] इत्य् अत्रापि सद्-असच्-छब्दौ चिद्-अचिद्-व्यष्टि-विषयौ। उत्पत्ति-वेलायाꣳ सत्-त्यच्-छब्दाभिहितयोश् चिद्-अचिद्-व्यष्टि-भूतयोर् वस्तुनोर् अप्यय-काले अचित्-समष्टि-भूते तमः शब्दाभिधेये वस्तुनि प्रलय-प्रतिपादन-परत्वाद् अस्य वाक्यस्य। नात्र कस्यचित् सद्-असद्-अनिर्वचनीयतोच्यते; सद्-असतोः काल-विशेषे असद्-भाव-मात्र-वचनात्। अत्र तमः शब्दाभिहितस्याचित्-समष्टित्वꣳ श्रुत्य्-अन्तराद् अवगम्यते-- अव्यक्तम् अक्षरे लीयते। अक्षरꣳ तमसि लीयते [सुबाल, २] इति॥
Link copied[तमः-शब्दस्य श्रुति-गतस्यानिर्वचनीयाज्ञान-परत्व-शङ्का-परिहारौ]
Link copiedसत्यम्। तमः-शब्देनाचित्-समष्टि-रूपायाः प्रकृतेः सूक्ष्मावस्थोच्यते। तस्यास् तु मायाꣳ तु प्रकृतिꣳ विद्यात् [श्वे।, ४।१०] इति माया-शब्देनाभिधानाद् अनिर्वचनीयत्वम् इति चेन् नैतद् एवम्-- माया-शब्दस्यानिर्वचनीय-वाचित्वꣳ न दृष्टम् इति। माया-शब्दस्य मिथ्या-पर्यायत्वेनानिर्वचनीय-वाचित्वम् इति चेत् तद् अपि नास्ति। न हि सर्वत्र माया-शब्दो मिथ्या-विषयः, आसुर-राक्षसास्त्रादिषु सत्येष्व् एव माया-शब्द-प्रयोगात्। यथोक्तम्--
Link copiedतेन माया-सहस्रꣳ तच्-छम्बरस्याशु-गामिना।
Link copiedबालस्य रक्षता देहम् एकैकश्येन सूदितम्॥ इति॥ [वि। पु। १।१९।१०]
Link copied[माया-शब्दः सप्रमाणः]
Link copiedअतो माया-शब्दो विचित्रार्थ-सर्ग-कराभिधायी। प्रकृतेश् च माया-शब्दाभिधानꣳ विचित्रार्थ-सर्ग-करत्वाद् एव। अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्धः [श्वे।, ४।९] इति माया-शब्द-वाच्यायाः प्रकृतेर् विचित्रार्थ-सर्ग-करत्वꣳ दर्शयति। परम-पुरुषस्य च तद्वत्ता-मात्रेण मायित्वम् उच्यते, नाज्ञत्वेन। जीवस्यैव हि मायया निरोधः श्रूयते। तस्मिꣳश् चान्यो मायया सन्निरुद्धः इति, अनादि-मायया सुप्तो यदा जीवः प्रबुध्यते [माण्ड्।, २।२१] इति च। इन्द्रो मायाभिः पुरु-रूप ईयते [बृहद्, ४।६।१९] इत्य् अत्रापि विचित्राः शक्तयोऽभिधीयन्ते। अत एव हि भूरि त्वष्टेव राजति इत्य् उच्यते। न हि मिथ्याभिभूतः कश्चिद् विराजते। मम माया दुरत्यया [भ। गीता ७।१४] इत्य् अत्रापि गुण-मयीति वचनात् सैव त्रि-गुणात्मिका प्रकृतिर् उच्यत इति न श्रुतिभिः सद्-असद्-अनर्वचनीयाज्ञान-प्रतिपादनम्॥
Link copied[श्रुत्य्-अर्थापत्त्यानिर्वचनीयाज्ञान-सिद्धेर् दूषणम्]
Link copiedनाप्य् ऐक्योपदेशानुपपत्या, न हि तत् त्वम् असि [छान्।, ६।८।७] इति जीव-परयोर् ऐक्योपदेशे सति सर्वज्ञे सत्य-सङ्कल्पे सकल-जगत्-सर्ग-स्थिति-विनाश-हेतु-भूते तच्-छब्दाद् अवगते प्रकृते ब्रह्मणि विरुद्धाज्ञान-परिकल्पनाहेतु-भूता काचिद् अप्य् अनुपपत्तिर् दृश्यते। ऐक्योपदेशस् तु त्वꣳ शब्देनापि जीव-शरीरकस्य ब्रह्मण एवाभिधानाद् उपपन्नतरः। अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति सर्वस्य वस्तुनः परमात्म-पर्यन्तस्यैव हि नाम-रूप-भाक्त्वम् उक्तम्। अतो न ब्रह्माज्ञान-परिकल्पनम्॥
Link copied[ब्रह्माज्ञानस्येतिहास-पुराणाभ्याम् असिद्धिः]
Link copiedइतिहास-पुराणयोर् अपि न ब्रह्माज्ञान-वादः क्वचिद् अपि दृश्यते। ननु ज्योतीꣳषि विष्णुः [वि। पु।, २।१२।३७] इति ब्रह्मैकम् एव तत् त्वम् इति प्रतिज्ञाय, ज्ञान-स्वरूपो भगवन् यतोऽसौ [वि। पु।, २।१२।३८] इति शैलाब्धिधरादि-भेद-भिन्नस्य जगतो ज्ञानैक-स्वरूप-ब्रह्माज्ञान-विजृम्भितत्वम् अभिधाय यदा तु शुद्धꣳ निज-रूपि [वि। पु।, २।१२।३९] इति ज्ञान-स्वरूपस्यैव ब्रह्मणः स्व-स्वरूपावस्थिति-वेलायाꣳ वस्तु-भेदाभाव-दर्शनेनाज्ञान-विजृम्भितत्वम् एव स्थिरीकृत्य वस्त्व् अस्ति किꣳ [वि। पु।, २।१२।४०], मही घटत्वम् [वि। पु।, २।१२।४१] इति श्लोक-द्वयेन जगद्-उपलब्धि-प्रकारेणापि वस्तु-भेदानाम् असत्यत्वम् उपपाद्य तस्मान् न विज्ञानम् ऋते [वि। पु।, २।१२।४२] इति प्रतिज्ञातꣳ ब्रह्म-व्यतिरक्तस्यासत्यत्वम् उपसꣳहृत्य विज्ञानम् एकम् [वि। पु।, २।१२।४३] इति ज्ञान-स्वरूपे ब्रह्मणि भेद-दर्शन-निमित्ताज्ञान-मूलꣳ निज-कर्मैवेति स्फुटीकृत्य ज्ञानꣳ विशुद्धम् [वि। पु।, २।१२।४४] इति ज्ञान-स्वरूपस्य ब्रह्मणः स्वरूपꣳ विशोध्य सद्-भाव एवꣳ भवतो मयोक्तः [वि। पु।, २।१२।४५] इति ज्ञान-स्वरूपस्य ब्रह्मण एव सत्यत्वꣳ नान्यस्य; अन्यस्य चासत्यत्वम् एव; तस्य भुवनादेः सत्यत्वꣳ व्यावहारिकम् इति तत्त्वꣳ तवोपदिष्टम् इति ह्य् उपदेशो दृश्यते।
Link copiedनैतद् एवम्; अत्र भुवन-कोशस्य विस्तीर्णꣳ स्वरूपम् उक्त्वा, पूर्वम् अनुक्तꣳ रूपान्तरꣳ सङ्क्षेपतः श्रूयताम् [वि। पु।, २।१२।३६] इत्य् आरभ्याभिधीयते।
Link copied[ब्रह्मणः पूर्वम् अनुक्त-रूपान्तरम्]
Link copiedचिद्-अचिन्-मिश्रे जगति चिद्-अꣳशो वाङ्-मनसागोचर-स्व-सꣳवेद्य-स्वरूप-भेदो ज्ञानैकाकारतया अस्पृष्ट-प्राकृत-भेदोऽविनाशित्वेनास्ति-शब्द-वाच्यः। अचिद्-अꣳशस् तु चिद्-अꣳश-कर्म-निमित्त-परिणाम-भेदो विनाशीति नास्ति-शब्दाभिधेयः। उभयꣳ तु पर-ब्रह्म-भूत-वासुदेव-शरीरतया तद्-आत्मकम् इत्य् एतद्-रूपꣳ सङ्क्षेपेणात्राभिहितम्॥
Link copied[प्रतिज्ञातार्थोपपादनम्]
Link copiedतथा हि-- यद् अम्बु वैष्णवः कायस् ततो विप्र वसुन्धरा।
Link copiedपद्माकारा समुद्भूता पर्वताब्ध्यादि-सꣳयुता॥ [वि। पु। २।१२।३७]
Link copiedइत्य् अम्बुनो विष्णोः शरीरत्वेनाम्बु-परिणाम-भूतꣳ ब्रह्माण्डम् अपि विष्णोः कायः, तस्य च विष्णुर् आत्मेति सकल-श्रुति-गत-तादात्म्योपदेशोपबृꣳहण-रूपस्य सामानाधिकरण्यस्य ज्योतीꣳषि विष्णुः इत्य् आरभ्य वक्ष्यमाणस्य शरीरात्म-भाव एव निबन्धनम् इत्य् आहुः।
Link copiedअस्मिञ् शास्त्रे पूर्वम् अप्य् एतद् असकृद् उक्तम्-- तानि सर्वाणि तद्-वपुः [वि। पु।, १।२।८६], तत् सर्वꣳ वै हरेस् तनुः, स एव सर्व-भूतात्मा विश्व-रूपो यतोऽव्ययः [वि। पु।, १।२।६९] इति। तद् इदꣳ शरीरात्म् अभावायत्तꣳ तादात्म्यꣳ सामानाधिकरण्येन व्यपदिश्यते ज्योतीꣳषि विष्णुः इति।
Link copied[अस्ति नास्त्यात्मकतया जगद्-विभाग-विधा]
Link copiedअत्रास्त्य् आत्मकꣳ नास्त्य् आत्मकꣳ च जगद्-अन्तर्गतꣳ वस्तु विष्णोः कायतया विष्ण्व्-आत्मकम् इत्य् उक्तम्। इदम् अस्त्यात्मकम्, इदꣳ नास्त्य् आत्मकम्, अस्य च नास्त्य् आत्मकत्वे हेतुर् अयम् इत्य् आह ज्ञान-स्वरूपो भगवान् यतोऽसौ इति। अशेष-क्षेत्रज्ञात्मनावस्थितस्य भगवतो ज्ञानम् एव स्वाभाविकꣳ रूपम्। न देव-मनुष्यादि-वस्तु-रूपम्। यत एवꣳ, तत एवाचिद्-रूप-देव-मनुष्य-शैलाब्धि-धरादयश् च तद्-विज्ञान-विजृम्भिताः; तस्य ज्ञानैकाकारस्य सतो दैवाद्य्-आकारेण स्वात्म-वैविध्यानुसन्धान-मूला देवाद्याकारानुसन्धान-मूल-कर्म-मूला इत्य् अर्थः। यतश् चाचिद्-वस्तु क्षेत्रज्ञ-कर्मानुगुण-परिणामास्पदꣳ, ततस् तन् नास्ति-शब्दाभिधेयम्, इतरद् अस्ति-शब्दाभिधेयम् इत्य् अर्थाद् उक्तꣳ भवति। तद् एव विवृणोति-- यदा तु शुद्धꣳ निजरूपि इति। यदैतज् ज्ञानैकाकारम् आत्म-वस्तु देवाद्य्-आकारेण स्वात्मनि वैविध्यानुसन्धान-मूल-सर्व-कर्म-क्षयान् निर्दोषꣳ परिशुद्धꣳ निजरूपि भवति, तदा देवाद्य्-आकारेणैकीकृत्यात्म-कल्पना-मूल-कर्म-फल-भूतास् तद्-भोगार्था वस्तुषु वस्तु-भेदा न भवन्ति। ये देवादिषु वस्तुष्व् आत्मतयाभिमतेषु भोग्य-भूता देव-मनुष्य-शैलाब्धिधरादि-वस्तु-भेदाः; ते तन्-मूल-भूत-कर्मसु विनष्टेषु न भवन्तीत्य् अचिद्-वस्तुनः कादाचित्कावस्था-विशेष-योगितया नास्ति-शब्दाभिधेयत्वम्, इतरस्य सर्वदा निज-सिद्ध-ज्ञानैकाकारत्वेन अस्ति-शब्दाभिधेयत्वम् इत्य् अर्थः। प्रतिक्षणम् अन्यथा-भूततया कादाचित्कावस्था-योगिनोऽचिद्-वस्तुनो नास्ति-शब्दाभिधेयत्वम् एवेत्य् आह-- वस्त्व् अस्ति किम् इति। अस्ति-शब्दाभिधेयो ह्य् आदि-मध्य-पर्यन्त-हीनः सततैक-रूपः पदार्थस् तस्य कदाचिद् अपि नास्ति-बुद्ध्य्-अनर्हात्वात्। अचिद्-वस्तु किञ्चित् क्वचिद् अपि तथाभूतꣳ न दृष्ट-चरम्। ततः किम् इत्य् अत्राह-- यच् चान्यथात्वम् [वि। पु।, २।१२।४१] इति। यद् वस्तु प्रतिक्षणम् अन्यथात्वꣳ याति; तद्-उत्तरोत्तरावस्था-प्राप्त्या पूर्व-पूर्वावस्थाꣳ जहातीति तस्य पूर्वावस्थस्योत्तरावस्थायाꣳ न प्रतिसन्धानम् अस्ति। अतः सर्वदा तस्य नास्ति-शब्दाभिधेयत्वम् एव। तथा ह्य् उपलभ्यत इत्य् आह मही घटत्वम् इति। स्व-कर्मणा देव-मनुष्यादि-भावेन स्तिमितात्म-निश्चयैः स्व-भोग्य-भूतम् अचिद्-वस्तु प्रतिक्षणम् अन्यथाभूतम् आलक्ष्यते-- अनुभूयत इत्य् अर्थः। एवꣳ सति किम् अप्य् अचिद्-वस्त्व् अस्ति-शब्दार्हाम् आदि-मध्य-पर्यन्त-हीनꣳ सततैक-रूपम् आलक्षितम् अस्ति किꣳ न ह्य् अस्तीत्य् अभिप्रायः। यस्माद् एवम्, तस्माज् ज्ञान-स्वरूपात्म-व्यतिरिक्तम् अचिद्-वस्तु कदाचित् किञ्चित् केवलास्तिशब्दवाच्यꣳ न भवतीत्याह-- तस्मान्न विज्ञानमृते इति। आत्मा तु सर्वत्र ज्ञानैकाकारतया देवादि-भेद-प्रत्यनीक-स्वरूपोऽपि देवादि-शरीर-प्रवेश-हेतु-भूत-स्वकृत-विविध-कर्म-मूल-देवादि-भेद-भिन्नात्म-बुद्धिभिस् तेन तेन रूपेण बहुधानुसꣳहित इति तद्-भेदानुसन्धानꣳ नात्मस्वरूप-प्रयुक्तम् इत्य् आह-- विज्ञानम् एकम् इति॥
Link copiedआत्म-स्वरूपꣳ तु कर्म-रहितम्, तत एव मल-रूप-प्रकृति-स्पर्श-रहितम्। ततश् च तत्-प्रयुक्त-शोक-मोह-लोभाद्य्-अशेष-हेय-गुणासङ्गि, उपचयापचयानर्हातयैकम्, तत एव सदैक-रूपम्। तच् च वासुदेव-शरीरम् इति तद्-आत्मकम्, अतद्-आत्मकस्य कस्यचिद् अप्य् अभावाद् इत्य् आह-- ज्ञानꣳ विशुद्धम् इति। चिद्-अꣳशः सदैक-रूपतया सर्वदास्ति-शब्द-वाच्यः। अचिद्-अꣳशस् तु क्षण-परिणामित्वेन सर्वदा नाश-गर्भ इति सर्वदा नास्ति-शब्दाभिधेयः। एवꣳरूप-चिद्-अचिद्-आत्मकꣳ जगद्-वासुदेव-शरीरꣳ तद्-आत्मकम् इति जगद्-याथात्म्यꣳ सम्यग् उक्तम् इत्य् आह-- सद्-भाव एवम् इति। अत्र सत्यम्, असत्यम् इति यद् अस्ति यन् नास्ति इति प्रक्रान्तस्योपसꣳहारः। एतज् ज्ञानैकाकारतया समम्, अशब्द-गोचर-स्वरूप-भेदम् एवाचिन्-मिश्रꣳ भुवनाश्रितꣳ देव-मनुष्यादि-रूपेण सम्यग् व्यवहारार्ह-भेदꣳ यद् वर्तते; तत्र हेतुः कर्मैवेत्य् उक्तम् इत्य् आह-- एतत् तु यत् [वि। पु।, २।१३।४५] इति। तद् एव विवृणोति-- यज्ञः पशुः [वि। पु।, २।१२।४७] इति। जगद्-याथात्म्य-ज्ञान-प्रयोजनꣳ मोक्षोपायतनम् इत्य् आह यच् चैतत् [वि। पु।, २।१२।४६] इति।
Link copied[श्लोकानाꣳ परोक्तार्थाननुगुणता]
Link copiedअत्र निर्विशेषे परे ब्रह्मणि तद्-आश्रये सद्-असद्-अनिर्वचनीये चाज्ञाने, जगतस् तत्-कल्पितत्वे चानुगुणꣳ किञ्चिद् अपि पदꣳ न दृश्यते॥
Link copiedअस्ति-नास्ति-शब्दाभिधेयꣳ चिद्-अचिद्-आत्मकꣳ कृत्स्नꣳ जगत् परमस्य परेशस्य परस्य ब्रह्मणो विष्णोः कायत्वेन तद्-आत्मकम्; ज्ञानैकाकारस्यात्मनो देवादि-विविधाकारानुभवेऽचित्-परिणामे च हेतुर् वस्तु-याथात्म्य-ज्ञान-विरोधि-क्षेत्रज्ञानाꣳ कर्मैवेति प्रतिपादनाद् अस्ति-नास्ति-सत्यासत्य-शब्दानाꣳ च सद्-असद्-अनिर्वचनीय-वस्त्व्-अभिधानासामर्थ्याच् च। नास्त्य्-असत्य्-अशब्दाव् अस्ति-सत्य-शब्द-विरोधिनौ। अतश् च ताभ्याम् असत्त्वꣳ हि प्रतीयते; नानिर्वचनीयत्वम्।
Link copiedअत्र चाचिद्-वस्तुनि नास्त्य्-असत्य-शब्दौ न तुच्छत्व-मिथ्यात्व-परौ प्रयुक्तौ, अपि तु विनाशित्व-परौ। वस्त्व् अस्ति किम्, मही घटत्वम् इत्य् अत्रापि विनाशित्वम् एव ह्य् उपपादितम्; न निष्प्रमाणकत्वꣳ ज्ञान-बाध्यत्वꣳ वा; एकेनाकारेणैकस्मिन् कालेऽनुभूतस्य कालान्तरे परिणाम-विशेषेणान्यथोपलब्ध्या नास्तित्वोपपादनात्। तुच्छत्वꣳ हि प्रमाण-सम्बन्धानर्हात्वम्। बाधोऽपि यद् देश-कालादि-सम्बन्धितया यद् अस्तीत्य् उपलब्धम्, तस्य तद् देश-कालादि-सम्बन्धितया नास्तीत्य् उपलब्धिः, न तु कालान्तरेऽनुभूतस्य कालान्तरे परिणामादिना नास्तीत्य् उपलब्धिः, काल-भेदेन विरोधाभावात्। अतो न मिथ्यात्वम्॥
Link copiedएतद् उक्तꣳ भवति-- ज्ञान-स्वरूपम् आत्म-वस्तु आदि-मध्य-पर्यन्त-हीनꣳ सततैक-स्वरूपम् इति स्वत एव सदास्ति-शब्दवाच्यम्। अचेतनꣳ तु क्षेत्रज्ञ-भोग्य-भूतꣳ तत्-कर्मानुगुण-परिणामि विनाशीति सर्वदा नास्त्य्-अर्थ-गर्भम् इति नास्त्य्-असत्य-शब्दाभिधेयम् इति॥ यथोक्तम्---
Link copiedयत् तु कालान्तरेणापि नान्य-सꣳज्ञाम् उपैति वै।
Link copiedपरिणामादि-सम्भूताꣳ तद् वस्तु नृप तच् च किम्॥ [वि। पु।, २।१३।१००]
Link copiedअनाशी परमार्थश् च प्राज्ञैर् अभ्युपगम्यते।
Link copiedतत् तु नास्ति न सन्देहो नाशि-द्रव्योपपादितम्॥ [वि। पु।, २।१४।२४] इति॥
Link copiedदेश-काल-कर्म-विशेषापेक्षया अस्तित्व-नास्तित्व-योगिनि वस्तुनि केवलास्ति-बुद्धि-बोध्यत्वम् अपरमार्थ इत्य् उक्तम्। आत्मन एव केवलास्ति-बुद्धि-बोध्यत्वम् इति स परमार्थ इत्य् उक्तम्।
Link copied[दश-श्लोक्य्-उक्तार्थानुवादः]
Link copiedश्रोतुश् च मैत्रेयस्य--
Link copiedविष्ण्व्-आधारꣳ यथा चैतत् त्रैलोक्यꣳ समवस्थितम्।
Link copiedपरमार्थश् च मे प्रोक्तो यथाज्ञानꣳ प्रधानतः॥ [वि। पु।, २।२।२]
Link copiedइत्य् अनुभाषणाच् च, ज्योतीꣳषि विष्णुः इत्य् आदि सामानाधिकरण्यस्यात्म-शरीर-भाव एव निबन्धनम्; चिद्-अचिद्-वस्तुनोश् चास्ति-नास्ति-शब्द-प्रयोग-निबन्धनꣳ ज्ञानस्याकर्म-निमित्त-स्वाभाविक-रूपत्वेन प्राधान्यम्; अचिद्-वस्तुनश् च तत्-कर्म-निमित्त-परिणामित्वेनाप्राधान्यम् इति प्रतीयते॥
Link copied[वेदान्तानाꣳ निर्विशेष-ब्रह्म-विज्ञानेन अविद्या-निवृत्ति-परत्व-शङ्का-परिहारौ]
Link copiedयद् उक्तꣳ-- निर्विशेष-ब्रह्म-विज्ञानाद् एवाविद्या-निवृत्तिꣳ वदन्ति श्रुतयः-- इति। तद् असत्, वेदाहम् एतꣳ पुरुषꣳ महान्तम्। आदित्य-वर्णꣳ तमसः परस्तात्। तम् एवꣳ विद्वान् अमृत इह भवति। नान्यः पन्था विद्यतेऽयनाय [तै।, ३।१२।१३], सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि [महानारा। उप्।], न तस्येशे कश्चन तस्य नाम महद् यशः [महानारा। उप्।], य एनꣳ विदुर् अमृतास्ते भवन्ति [महानारा। उप्। १।८।९] इत्य् आद्य् अनेक-वाक्य-विरोधात्। ब्रह्मणः सविशेषत्वाद् एव सर्वाण्य् अपि वाक्यानि सविशेष-ज्ञानाद् एव मोक्षꣳ वदन्ति। शोधक-वाक्यान्य् अपि सविशेषम् एव ब्रह्म प्रतिपादयन्तीत्य् उक्तम्॥
Link copied[तत् त्वम् अस्यादि सामानाधिकरण्यान्यथानुपपत्त्या निर्विशेष-सिद्धेर् निरासः]
Link copiedतत् त्वम् अस्यादि वाक्येषु सामानाधिकरण्यꣳ न निर्विशेष-वस्त्व्-ऐक्य-परम्, तत्-त्वम्-पदयोः सविशेष-ब्रह्माभिधायित्वात्। तत्-पदꣳ हि सर्वज्ञꣳ सत्य-सङ्कल्पꣳ जगत्-कारणꣳ ब्रह्म परामृशति तद् ऐक्षत बहु स्याम् इत्य् आदिषु तस्यैव प्रकृतत्वात्। तत्-समानाधिकरणꣳ त्वꣳ पदꣳ च अचिद्-विशिष्ट-जीव-शरीरकꣳ ब्रह्म प्रतिपादयति, प्रकार-द्वयावस्थितैक-वस्तु-परत्वात् सामानाधिकरण्यस्य। प्रकार-द्वय-परित्यागे प्रवृत्ति-निमित्त-भेदासम्भवेन सामानाधिकरण्यम् एव परित्यक्तꣳ स्यात्; द्वयोः पदयोर् लक्षणा च।
Link copiedसोऽयꣳ देवदत्तः इत्य् अत्रापि न लक्षणा, भूत-वर्तमान-काल-सम्बन्धितयैक्य-प्रतीत्य्-अविरोधात्। देश-भेद-विरोधश् च काल-भेदेन परिहृतः।
Link copied[पर-पक्षे दूषणान्तरम्]
Link copiedतद् ऐक्षत बहु स्याम् इत्य् उपक्रम-विरोधश् च। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञानꣳ च न घटते। ज्ञान-स्वरूपस्य निरस्त-निखिल-दोषस्य सर्वज्ञस्य समस्त-कल्याण-गुणात्मकस्याज्ञानꣳ तत्-कार्यानन्तापुरुषार्थाश्रयत्वꣳ च भवति॥
Link copied[सामानाधिकरण्यस्य बाधार्थता-निरासः]
Link copiedबाधार्थत्वे च सामानाधिकरण्यस्य त्वꣳ-तत्-पदयोर् अधिष्ठान-लक्षणा निवृत्ति-लक्षणा चेति लक्षणादयस् त एव दोषाः॥
Link copiedइयाꣳस् तु विशेषः-- नेदꣳ रजतम् इतिवद् अप्रतिपन्नस्यैव बाधस्यागत्या परिकल्पनम्; तत्-पदेनाधिष्ठानातिरेकि-धर्मानुपस्थापनेन बाधानुपपत्तिश् च। अधिष्ठानꣳ तु प्राक् तिरोहितम् अतिरोहित-स्वरूपꣳ तत्-पदेनोपस्थाप्यत इति चेन् न, प्राग् अधिष्ठानाप्रकाशे तद्-आश्रय-भ्रम-बाधयोर् असम्भवात्। भ्रमाश्रयम् अधिष्ठानम् अतिरोहितम् इति चेत् तद् एवाधिष्ठान-स्वरूपꣳ भ्रम-विरोधीति तत्-प्रकाशे सुतराꣳ न तद्-आश्रय-भ्रम-बाधौ। अतोऽधिष्ठानातिरेकि-पारमार्थिक-धर्म-तत्-तिरोधानानभ्युपगमे भ्रान्ति-बाधौ दुरुपपादौ। अधिष्ठाने हि पुरुष-मात्राकारे प्रतीयमाने तद्-अतिरेकिणि पारमार्थिके राजत्वे तिरोहिते सत्य् एव व्याधत्व-भ्रमः। राजत्वोपदेशेन च तन्-निवृत्तिर् भवति; नाधिष्ठान-मात्रोपदेशेन; तस्य प्रकाशमानत्वेनानुपदेश्यत्वात्; भ्रमानुपमर्दित्वाच् च॥
Link copied[स्व-पक्षे उक्त-दोषाणाम् अभावः]
Link copiedजीव-शरीरक-जगत्-कारण-ब्रह्म-परत्वे मुख्य-वृत्तꣳ पद-द्वयम्। प्रकार-द्वय-विशष्टैक-वस्तु-प्रतिपादनेन सामानाधिकरण्यꣳ च सिद्धम्। निरस्त-निखिल-दोषस्य समस्त-कल्याण-गुणात्मकस्य ब्रह्मणो जीवान्तर्यामित्वम् अप्य् ऐश्वर्यम् अपरꣳ प्रतिपादितꣳ भवति। उपक्रमानुकूलता च। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिश् च; सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरस्यैव ब्रह्मणः स्थूल-चिद्-अचिद्-वस्तु-शरीरत्वेन कार्यत्वात् तम् ईश्वराणाꣳ परमꣳ महेश्वरम् [श्वे।, ६।७] परास्य शक्तिर् विविधैव श्रूयते [श्वे।, ६।८] अपहत-पाप्मा ॥।। सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।१।६] इत्य् आदि श्रुत्य्-अन्तराविरोधश् च॥
Link copied[तत् त्वम् असि इत्य् अत्र उद्देश्योपादेय-विभाग-चिन्तयापि न निर्विशेष-वस्त्व्-ऐक्य-सिद्धिः]
Link copiedतत् त्वम् असि इत्य् अत्रोद्देश्योपादेय-विभागः कथम् इति चेन् नात्र किञ्चिद् उद्दिश्य किम् अपि विधीयते; ऐतदात्म्यम् इदꣳ सर्वम् [छान्।, ६।८।७] इत्य् अनेनैव प्राप्तत्वात्। अप्राप्ते हि शास्त्रम् अर्थवत्। इदꣳ सर्वम् इति सजीवꣳ जगन् निर्दिश्य ऐतदात्म्यम् इति तस्यैष आत्मेति तत्र प्रतिपादितम्। तत्र च हेतुर् उक्तः-- सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः [छान्।, ६।८।३] इति; सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति, शान्तः [छान्।, ३।१४।१] इतिवत्॥
Link copied[ब्रह्म-तद्-इतरयोस् तादात्म्यस्य शरीरात्म-भावकृतत्वे श्रुतयः]
Link copiedतथा श्रुत्य्-अन्तराणि च ब्रह्मणस् तद्-व्यतिरिक्तस्य चिद्-अचिद्-वस्तुनश् च शरीरात्म-भावम् एव तादात्म्यꣳ वदन्ति-- अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, आर।, ३।११।२०], यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।३], य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।२२], यः पृथिवीम् अन्तरे सञ्चरन् इत्य् आरभ्य यस्य मृत्युः शरीरꣳ यꣳ मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७], तत् सृष्ट्वा। तद् एवानुप्राविशत्। तद् अनुप्रविश्य। सच् चत्यच् चाभवत् [तै।, २।६।२] इत्य् आदीनि। अत्रापि-- अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति ब्रह्मात्मक-जीवानुप्रवेशेनैव सर्वेषाꣳ वस्तुत्वꣳ शब्द-वाच्यत्वꣳ च प्रतिपादितम्। तद् अनुप्रविश्य। सच् च त्यच् चाभवत् [तै।, २।६।२] इत्य् अनेनैकार्थ्याज् जीवस्यापि ब्रह्मात्मकत्वꣳ ब्रह्मानुप्रवेशाद् एवेत्य् अवगम्यते।
Link copied[ऐतदात्म्य-शब्दार्थ-व्याख्या-निगमनम्]
Link copiedअतश् चिद्-अचिद्-आत्मकस्य सर्वस्य वस्तु-जातस्य ब्रह्म-तादात्म्यमात्म-शरीर-भावाद् एव इत्य् अवगम्यते। तस्माद् ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य तच्-छरीत्वेनैव वस्तुत्वात् तस्य प्रतिपादकोऽपि शब्दस् तत्-पर्यन्तम् एव स्वार्थम् अभिदधाति। अतः सर्व-शब्दानाꣳ लोक-व्युत्पत्त्य्-अवगत-तत्-तत्-पदार्थ-विशिष्ट-ब्रह्माभिधायित्वꣳ सिद्धम् इत्य् ऐतदात्म्यम् इदꣳ सर्वम् इति प्रतिज्ञातार्थस्य तत् त्वम् असि इति सामानाधिकरण्येन विशेषे उपसꣳहारः॥
Link copiedअतो निर्विशेष-वस्त्व्-ऐक्य-वादिनः, भेदाभेद-वादिनः, केवल-भेद-वादिनश् च वैयधिकरण्येन सामानाधिकरण्येन च ब्रह्मात्म-भावोपदेशाः सर्वे परित्यक्ताः स्युः। एकस्मिन् वस्तुनि कस्य तादात्म्यम् उपदिश्यते तस्यैवेति चेत् तत्-स्व-वाक्येनैवावगतम् इति न तादात्म्योपदेशावसेयम् अस्ति किञ्चित्। कल्पित-भेद-निरसनम् इति चेत् तत् तु न सामानाधिकरण्य-तादात्म्योपदेशावसेयम् इत्य् उक्तम्। सामानाधिकरण्यꣳ तु ब्रह्मणि प्रकार-द्वय-प्रतिपादनेन विरोधम् एवावहेत्। भेदाभेद-वादे तु ब्रह्मण्य् एवोपाधिसꣳसर्गात् तत्-प्रयुक्ता जीव-गता दोषा ब्रह्मण्य् एव प्रादुःष्युर् इति निरस्त-निखिल-दोष-कल्याण-गुणात्मक-ब्रह्मात्म-भावोपदेशा हि विरोधाद् एव परित्यक्ताः स्युः। स्वाभाविक-भेदाभेद-वादेऽपि ब्रह्मणः स्वत एव जीव-भावाभ्युपगमाद् गुणवद् दोषाश् च स्वाभाविका भवेयुर् इति निर्दोष-ब्रह्म-तादात्म्योपदेशो विरुद्ध एव। केवल-भेद-वादिनाꣳ चात्यन्त-भिन्नयोः केनापि प्रकारेणैक्यासम्भवाद् एव ब्रह्मात्म-भावोपदेशा न सम्भवन्तीति सर्व-वेदान्त-परित्यागः स्यात्॥
Link copied[पूर्व-पक्षापेक्षया स्व-पक्षे वैलक्षण्यम्]
Link copiedनिखिलोपनिषत्-प्रसिद्धꣳ कृत्स्नस्य ब्रह्म-शरीर-भावम् आतिष्ठमानैः कृत्स्नस्य ब्रह्मात्म-भावोपदेशाः सर्वे सम्यग् उपपादिता भवन्ति। जाति-गुणयोर् इव द्रव्याणाम् अपि शरीर-भावेन विशेषणत्वेन गौरश्वो मनुष्यो देवो जातः पुरुषः कर्मभिः इति सामानाधिकरण्यꣳ लोक-वेदयोर् मुख्यम् एव दृष्ट-चरम्।
Link copiedजाति-गुणयोर् अपि द्रव्य-प्रकारत्वम् एव खण्डो गौः, शुक्लः पटः इति सामानाधिकरण्य-निबन्धनम्। मनुष्यत्वादि-विशिष्ट-पिण्डानाम् अप्य् आत्मनः प्रकारतयैव पदार्थत्वान् मनुष्यः पुरुषः षण्डो योषिद् आत्मा जातः इति सामानाधिकरण्यꣳ सर्वत्रानुगतम् इति प्रकारत्वम् एव सामानाधिकरण्य-निबन्धनम्, न परस्पर-व्यावृत्ता जात्य्-आदयः॥
Link copiedस्वनिष्ठानाम् एव हि द्रव्याणाꣳ कदाचित् क्वचिद् द्रव्य-विशेषणत्वे मत्वर्थीय-प्रत्ययो दृष्टः, दण्डी कुण्डली इति; न पृथक् प्रतिपत्ति-स्थित्य्-अनर्हाणाꣳ द्रव्याणाम्; तेषाꣳ विशेषणत्वꣳ सामानाधिकरण्यावसेयम् एव॥
Link copied[शरीर-शरीरि-भाव-स्थले सामानाधिकरण्यस्य लाक्षणिकत्व-शङ्का-परिहारौ]
Link copiedयदि गौर् अश्वो मनुष्यो देवः पुरुषो योषित् षण्ड आत्मा कर्मभिर् जातः इत्य् अत्र खण्डो मुण्डो गौः, शुक्लः पटः, कृष्णः पटः इति जाति-गुणवद् आत्म-प्रकारत्वꣳ मनुष्यादि-शरीराणाम् इष्यते; तर्हि जाति-व्यक्त्योर् इव प्रकार-प्रकारिणोः शरीरात्मनोर् अपि नियमेन सह प्रतिपत्तिः स्यात्; न चैवꣳ दृश्यते। न हि नियमेन गोत्वादिवद् आत्माश्रयतयैवात्मना सह मनुष्यादि-शरीरꣳ पश्यन्ति। अतो मनुष्य आत्मा इति सामानाधिकरण्यꣳ लाक्षणिकम् एव। नैतद् एवम्; मनुष्यादि-शरीराणाम् अप्य् आत्मैकाश्रयत्वम्, तद्-एक-प्रयोजनत्वम्, तत्-प्रकारत्वꣳ च जात्य्-आदि-तुल्यम्। आत्मैकाश्रयत्वम् आत्म-विश्लेषे शरीर-विनाशाद् अवगम्यते। आत्मैक-प्रयोजनत्वꣳ च तत्-कर्म-फल-भोगार्थतयैव सद्-भावात्। तत्-प्रकारत्वम् अपि देवो मनुष्य इत्य् आत्म-विशेषणतयैव प्रतीतेः। एतद् एव हि गवादि-शब्दानाꣳ व्यक्ति-पर्यन्तत्वे हेतुः। एतत्-स्वभाव-विरहाद् एव दण्ड-कुण्डलादीनाꣳ विशेषणत्वे दण्डी, कुण्डली इति मत्वर्थीय-प्रत्ययः। देव-मनुष्यादि-पिण्डानाम् आत्मैकाश्रयत्व-तद्-एक-प्रयोजनत्व-तत्-प्रकारत्व-स्वभावाद् देवो मनुष्य आत्मा इति लोक-वेदयोः सामानाधिकरण्येन व्यवहारः। जाति-व्यक्त्योर् नियमेन सह प्रतीतिर् उभयोश् चाक्षुषत्वात्। आत्मनस् त्वचाक्षुषत्वाच् चक्षुषा शरीर-ग्रहण-वेलायाम् आत्मा न गृह्यते। पृथग् ग्रहण-योग्यस्य प्रकारतैक-स्वरूपत्वꣳ दुर्घटिम् इति मा वोचः; जात्य्-आदिवत् तद्-एकाश्रयत्व-तद्-एक-प्रयोजनत्व-तद्-विशेषणत्वैः शरीरस्यापि तत्-प्रकारतैक-स्वभावत्वावगमात्। सहोपलम्भ-नियमस् त्व् एक-सामग्री-वेद्यत्व-निबन्धन इत्य् उक्तम्। यथा चक्षुषा पृथिव्य्-आदेर् गन्ध-रसादि-सम्बन्धित्वꣳ स्वाभाविकम् अपि न गृह्यते एवꣳ चक्षुषा गृह्यमाणꣳ शरीरम् आत्म-प्रकारतैक-स्वभावम् अपि न तथा गृह्यते; आत्म-ग्रहणे चक्षुषः सामर्थ्याभावान् नैतावता शरीरस्य तत्-प्रकारत्व-स्वभाव-विरहः। तत्-प्रकारतैक-स्वभावत्वम् एव सामानाधिकरण्य-निबन्धनम्। आत्म-प्रकारतया प्रतिपादन-समर्थस् तु शब्दः सहैव प्रकारतया प्रतिपादयति॥
Link copied[शब्दस्य शरीरि-पर्यन्तानभिधायित्व-शङ्का-परिहारौ]
Link copiedननु च शाब्देऽपि व्यवहारे शरीर-शब्देन शरीर-मात्रꣳ गृह्यत इति नात्म-पर्यन्तता शरीर-शब्दस्य। नैवम्; आत्म-प्रकार-भूतस्यैव शरीरस्य पदार्थ-विवेक-प्रदर्शनाय निरूपणान् निष्कर्षक-शब्दोऽयम्; यथा गोत्वꣳ शुक्लत्वम् आकृतिर् गुणः इत्य् आदि शब्दाः॥
Link copiedअतो गवादि-शब्दवद् देव-मनुष्यादि-शब्दा आत्म-पर्यन्ताः॥
Link copied[चिद्-अचिद्-वाचिनाꣳ शब्दानाꣳ परमात्म-पर्यन्ताभिधायिता]
Link copiedएवꣳ देव-मनुष्यादि-पिण्ड-विशिष्टानाꣳ जीवानाꣳ परमात्म-शरीरतया तत्-प्रकारत्वाज् जीवात्म-वाचिनः शब्दाः परमात्म-पर्यन्ताः। अतः परस्य ब्रह्मणः प्रकारतयैव चिद्-अचद्-वस्तुनः पदार्थत्वम् इति तत्-सामानाधिकरण्येन प्रयोगः। अयम् अर्थो वेदार्थ-सङ्ग्रहे समर्थितः।
Link copied[मतान्तरेषु सामानाधिकरण्यानुपपत्तिः]
Link copiedइदम् एव शरीरात्म-भाव-लक्षणꣳ तादात्म्यम् आत्मेति तूपगच्छन्ति ग्राहयन्ति च [ब्र। सू। ४।१।३] इति वक्ष्यति, आत्मेत्य् एव तु गृह्णीयात् इति च वाक्य-कारः॥
Link copied[उक्तानाम् अर्थानाꣳ सङ्क्षेपेण प्रतिपादनम्]
Link copiedअत्रेदꣳ तत्त्वम्-- अचिद्-वस्तुनः चिद्-वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूप-विवेकम् आहुः काश्चन श्रुतयः-- अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्धः [श्वे।, ४।९], मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।, ४।१०], क्षरꣳ प्रधानम् अमृताक्षरꣳ हरः क्षरात्मानावीशते देव एकः; [श्वे।, १।१०], अमृताक्षरꣳ हर इति भोक्ता निर्दिश्यते, प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः। स कारणꣳ करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे।, ६।९], प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [श्वे।, ६।१६], पतिꣳ विश्वस्यात्मेश्वरꣳ शाश्वतꣳ शिवम् अच्युतम् [तै।, ११।३], ज्ञाज्ञौ द्वाव् अजाव् ईशानीशौ [श्वे।, १।९], नित्यो नित्यानाꣳ चेतनश् चेतनानाम् एको बहूनाꣳ यो विदधाति कामान् [कठ।, ५।१३], भोक्ता भोग्यꣳ प्रेरितारꣳ च मत्वा [श्वे।, १।१२], तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन् अन्यो अभिचाकशीति [मुण्ड्।, ३।१।१], पृथग् आत्मानꣳ प्रेरितारꣳ च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [श्वे।, १।६], अजाम् एकाꣳ लोहित-शुक्ल-कृष्णाꣳ बह्वीꣳ प्रजाꣳ जनयन्तीꣳ सरूपाम्। अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनाꣳ भुक्त-भोगाम् अजोऽन्यः [तै।, ६।१०।५], समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टꣳ यदा पश्यत्य् अन्यम् ईशमस्य महिमानम् इति वीत-शोकः [श्वे।, ४।७] इत्य् आद्याः॥
Link copiedस्मृताव् अप्य् अहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा॥ अपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम्। जीव-भूताꣳ महा-बाहो ययेदꣳ धार्यते जगत्॥ [भ। गी।, ७।४।५], सर्व-भूतानि कौन्तेय प्रकृतिꣳ यान्ति मामिकाम्। कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्॥ प्रकृतिꣳ स्वाम् अवष्टभ्य विसृजामि पुनः पुनः। भूत-ग्रामम् इमꣳ कृत्स्नाम् अवशꣳ प्रकृतेर् वशात्॥ [भ। गी।, ९।७-८], मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद् धि परिवर्तते॥ [भ। गी।, ९।१०], प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि। [भ। गी।, १३।१९], मम योनिर् महद् ब्रह्म तस्मिन् गर्भꣳ दधाम्य् अहम्। सम्भवः सर्व-भूतानाꣳ ततो भवति भारत॥ [भ। गी।, १४।३] इति॥ जगद् योनि-भूतꣳ महद् ब्रह्म मदीयꣳ प्रकृत्य्-आख्यꣳ भूत-सूक्ष्मम् अचिद्-वस्तु यत्; तस्मिꣳश् चेतनाख्यꣳ गर्भꣳ यत् सꣳयोजयामि, ततो मत्-कृताच् चिद्-अचित्-सꣳसर्गाद् देवादिस्थावरान्तानाम् अचिन्-मिश्राणाꣳ सर्व-भूतानाꣳ सम्भवो भवतीत्य् अर्थः॥
Link copiedएवꣳ भोक्तृ-भोग्य-रूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिद्-अचितोः परम-पुरुष-शरीरतया तन्-नियाम्यत्वेन तद्-अपृथक्-स्थितिꣳ परम-पुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः-- यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयति [बृहद्।, ५।७।३] इत्य् आरभ्य य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।२२] इति। तथा-- यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरꣳ यꣳ पृथिवी न वेद [सुबाल, ७] इत्य् आरभ्य योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरꣳ शरीरꣳ यमक्षरꣳ न वेद यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युः शरीरꣳ यꣳ मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७]। अत्र मृत्यु-शब्देन तमः शब्द-वाच्यꣳ सूक्ष्मावस्थम् अचिद्-वस्त्व् अभिधीयते; अस्याम् एवोपनिषदि-- अव्यक्तम् अक्षरे लीयते। [सुबाल, २] इति वचनात्। अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, आर, ३।११।२१] इति च॥
Link copied[भेद-श्रुति-घटक-श्रुत्योर् अविरोधेन ऐक्य-श्रुतीनाम् अर्थ-वर्णनम्]
Link copiedएवꣳ सर्वावस्थावस्थित-चिद्-अचिद्-वस्तु-शरीरतया तत्-प्रकारः परम-पुरुष एव कार्यावस्थ-कारणावस्थ-जगद्-रूपेणावस्थित इतीमम् अर्थꣳ ज्ञापयितुꣳ काश्चन श्रुतयः कार्यावस्थꣳ कारणावस्थꣳ च जगत् स एवेत्य् आहुः-- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयꣳ तद् ऐक्षत बहुस्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।१] इत्य् आरभ्य सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः। ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा तत् त्वम् असि श्वेतकेतो [छान्।, ६।८।६] इति। तथा सोऽकामयत। बहु स्याꣳ प्रजायेयेति। स तपोऽतप्यत। स तपस् तप्त्वा। इदꣳ सर्वम् असृजत इत्य् आरभ्य सत्यꣳ चानृतꣳ च सत्यम् अभवत् [तै।, २।६।२।३] इत्य् आद्याः॥
Link copiedअत्रापि श्रुत्य्-अन्तर-सिद्धश् चिद्-अचितोः परम-पुरुषस्य च स्वरूप-विवेकः स्मारितः-- हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि इति, तत् सृष्ट्वा, तद् एवानुप्राविशत्, तद् अनुप्रविश्य, सच् चत्यच् चाभवत् ॥। विज्ञानꣳ चाविज्ञानꣳ च। सत्यꣳ चानृतꣳ च सत्यम् अभवत् इति च। अनेन जीवेनात्मनानुप्रविश्य इति जीवस्य ब्रह्मात्मकत्वꣳ, तद् अनुप्रविश्य सच् चत्यच् चाभवत्, विज्ञानꣳ चाविज्ञानꣳ च इत्य् अनेनैकार्थ्याद् आत्म-शरीर-भाव-निबन्धनम् इति विज्ञायते। एवꣳ भूतम् एव नाम-रूप-व्याकरणꣳ तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत्। तन्-नामरूपाभ्याꣳ व्याक्रियत [बृहद्।, ३।४।७] इत्य् अत्राप्य् उक्तम्।
Link copied[स्व-मते एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिः]
Link copiedअतः कार्यावस्थः कारणावस्थश् च स्थूल-सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरः परम-पुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारण-विज्ञानेन कार्यस्य ज्ञाततयैक-विज्ञानेन सर्व-विज्ञानꣳ समीहितम् उपपन्नतरम्। अहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति, तिस्रो देवताः इति सर्वम् अचिद्-वस्तु निर्दिश्य तत्र स्वात्मक-जीवानुप्रवेशेन नाम-रूप-व्याकरण-वचनात् सर्वे वाचकाः शब्दाः अचिद्-विशिष्ट-जीव-विशिष्ट-परमात्मन एव वाचका इति कारणावस्थ-परमात्म-वाचिना शब्देन कार्य-वाचिनः शब्दस्य सामानाधिकरण्यꣳ मुख्य-वृत्तम्। अतः स्थूल-सूक्ष्म-चिद्-अचित्-प्रकारꣳ ब्रह्मैव कार्यꣳ कारणꣳ चेति ब्रह्मोपादानꣳ जगत्।
Link copied[ब्रह्मण उपादानत्वे स्व-भावासाङ्कर्योपपादनम्]
Link copiedसूक्ष्म-चिद्-अचिद्-वस्तु-शरीरकꣳ ब्रह्मैव कारणम् इति। ब्रह्मोपादानत्वेऽपि सङ्घातस्योपादानत्वेन चिद्-अचितोर् ब्रह्मणश् च स्वभावासङ्करोऽप्य् उपपन्नतरः। यथा शुक्ल-कृष्ण-रक्त-तन्तु-सङ्घातोपादानत्वेऽपि चित्र-पटस्य तत्-तत्-तन्तु-प्रदेश एव शौक्ल्यादि-सम्बन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्ण-सङ्करः; तथा चिद्-अचिद्-ईश्वर-सङ्घातोपादानत्वेऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्व-भोग्यत्व-नियन्तृत्वाद्य् असङ्करः। तन्तूनाꣳ पृथक्-स्थिति-योग्यानाम् एव पुरुषेच्छया कदाचित् सꣳहतानाꣳ कारणत्वꣳ कार्यत्वꣳ च। इह तु चिद्-अचितोः सर्वावस्थयोः परम-पुरुष-शरीरत्वेन तत्-प्रकारतयैव पदार्थत्वात् तत्-प्रकारः परम-पुरुषः सर्वदा सर्व-शब्द-वाच्य इति विशेषः। स्वभाव-भेदस् तद्-असङ्करश् च तत्र चात्र च तुल्यः।
Link copied[ब्रह्मणोऽविकृतत्व-कार्यत्व-निर्गुणत्वानाꣳ श्रुत्य्-उक्तानाम् उपपत्तिः]
Link copiedएवꣳ च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम्। स्थूलावस्थस्य नाम-रूप-विभाग-विभक्तस्य चिद्-अचिद्-वस्तुन आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नतरम्। अवस्थान्तरापत्तिर् एव हि कार्यता॥
Link copiedनिर्गुण-वादाश् च परस्य ब्रह्मणो हेय-गुणासम्बन्धाद् उपपद्यन्ते। अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः [छान्।, ८।१।५] इति हेय-गुणान् प्रतिषिध्य सत्य-कामः सङ्कल्पः इति कल्याण-गुणान् विदधती इयꣳ श्रुतिर् एवान्यत्र सामान्येनावगतꣳ गुण-निषेधꣳ हेय-गुण-विषयꣳ व्यवस्थापयति॥
Link copiedज्ञान-स्वरूपꣳ ब्रह्मेति वादश् च सर्वज्ञस्य सर्व-शक्तेर् निखल-हेय-प्रत्यनीक-कल्याण-गुणाकरस्य ब्रह्मणः स्वरूपꣳ ज्ञानैक-निरूपणीयꣳ स्वयम्प्रकाशतया ज्ञान-स्वरूपꣳ चेत्य् अभ्युपगमाद् उपपन्नतरः। यः सर्व-ज्ञः सर्व-वित् [मुण्ड्।, १।१।९], परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।, ६।८], विज्ञातारम् अरे केन विजानीयात् [बृहद्।, ६।५।१५], सत्यꣳ ज्ञानम् [तै।, २।१।१] इत्य् आदिकाः ज्ञातृत्वम् आवेदयन्ति सत्यꣳ ज्ञानम् इत्य् आदिकाश् च ज्ञानैक-निरूपणीयतया स्व-प्रकाशतया च ज्ञान-स्वरूपताम्॥
Link copied[भेद-निषेध-श्रुतीनाम् अर्थ-वर्णनम्]
Link copiedसोऽकामयत बहु स्याम् [तै।, आ।, ६।२], तद् ऐक्षत बहु स्याम् [छान्।, ६।२।३], तन्-नाम-रूपाभ्याꣳ व्याक्रियत [बृहद्।, ३।४।७] इति ब्रह्मैव स्व-सङ्कल्पाद् विचित्र-स्थिर-त्रस-रूपतया नाना-प्रकारम् अवस्थितम् इति तत्-प्रत्यनीकाब्रह्मात्मक-वस्तु-नानात्वम् अतत्वम् इति तत् प्रतिषिध्यते, मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति [कठ।, ४।११], नेह नानास्ति किञ्चन [कठ।, ४।१०-११], यत्र हि द्वैतम् इव भवति तद् इतर इतरꣳ पश्यति यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कꣳ पश्येत् तत् केन कꣳ विजानीयात् [बृहद्।, ४।४।१४] इत्य् आदिना। न पुनर् बहु स्याꣳ प्रजायेय इत्य् आदि श्रुति-सिद्धꣳ स्व-सङ्कल्प-कृतꣳ ब्रह्मणो नाना-नाम-रूप-भाक्त्वेन नाना-प्रकारत्वम् अपि निषिध्यते। यत्र त्व् अस्य सर्वम् आत्मैवाभूत् इत्य् आदि निषेध-वाक्यादौ च तत्-स्थापितम्-- सर्वꣳ तꣳ परादाद्योऽन्यत्रात्मनः सर्वꣳ वेद [बृहद्।, ४।४।६] तस्य ह वा एतस्य महतो भूतस्य निश्विसतम् एतद् यद् ऋग्-वेदो यजुर्-वेदः [सुबाल, २, बृहद्।, ४।४।१०, ६।५-११] इत्य् आदिना॥
Link copied[पूर्वोक्त-व्याख्या-विधाने श्रुत्य्-आदि-सर्व-सामञ्जस्यम्]
Link copiedएवꣳ चिद्-अचिद्-ईश्वराणाꣳ स्वभाव-भेदꣳ स्वरूप-भेदꣳ च वदन्तीनाꣳ कार्य-कारण-भावꣳ कार्य-कारणयोर् अनन्यत्वꣳ च वदन्तीनाꣳ सर्वासाꣳ श्रुतीनाम् अविरोधः, चिद्-अचितोः परमात्मनश् च सर्वदा शरीरात्म-भावꣳ शरीर-भूतयोः कारण-दशायाꣳ नाम-रूप-विभागानर्ह-सूक्ष्म-दशापत्तिꣳ कार्य-दशायाꣳ च तद्-अर्ह-स्थूल-दशापत्तिꣳ वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञान-वादस्यौपाधिक-ब्रह्म-भेद-वादस्यान्यस्याप्य् अपन्याय-मूलस्य सकल-श्रुति-विरुद्धस्य न कथञ्चिद् अप्य् अवकाशो दृश्यते। चिद्-अचिद्-ईश्वराणाꣳ पृथक्-स्वभावतया तत्-तच्-छ्रुति-सिद्धानाꣳ शरीरात्म-भावेन प्रकार-प्रकारितया श्रुतिभिर् एव प्रतिपन्नानाꣳ श्रुत्य्-अन्तरेण कार्य-कारण-भाव-प्रतिपादनꣳ कार्य-कारणयोर् ऐक्य-प्रतिपादनꣳ च ह्य् अविरुद्धम्। यथाग्नेयादीन् षड्यागानुत्पत्ति-वाक्यैः पृथग् उत्पन्नान् समुदायानुवादि-वाक्य-द्वयेन समुदाय-द्वयत्वम् आपन्नान् दर्शपूर्णमासाभ्याम् [कात्या। श्रौ। सू।, ४।२।४७] इत्य् अधिकार-वाक्यꣳ कामिनः कर्तव्यतया विदधाति; तथा चिद्-अचिद्-ईश्वरान् विविक्त-स्वरूप-स्वभावान्; क्षरꣳ प्रधानम् अमृताक्षरꣳ हरः क्षरात्मानाव् ईशते देव एकः [श्वे।, १।१०], पतिꣳ विश्वस्यात्मेश्वरम् [तै।, आ।, १०।११।१], आत्मा नारायणः परः [तै।, आ।१०।११।१], इत्य् आदि वाक्यैः पृथक् प्रतिपाद्य यस्य पृथिवी शरीरꣳ यस्यात्मा शरीरम् [बृहद्।, ५।७।३], यस्याव्यक्तꣳ शरीरम्। यस्याक्षरꣳ शरीरम् [बृहद्।, ५।८], एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इत्य् आदिभिर् वाक्यैश् चिद्-अचितोः सर्वावस्थावस्थितयोः परमात्म-शरीरताꣳ परमात्मनस् तद्-आत्मताꣳ च प्रतिपाद्य शरीर-भूत-परमात्माभिधायिभिः सद्-ब्रह्मात्मादि-शब्दैः कारणावस्थः कार्यावस्थश् च परमात्मैक एवेति पृथक् प्रतिपन्नꣳ वस्तु-त्रितयꣳ सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१], ऐतदात्म्यम् इदꣳ सर्वम् [छान्।, ६।८।७], सर्वꣳ खल्व् इदꣳ ब्रह्म [छान्।, ३।१४।१] इत्य् आदि वाक्यꣳ प्रतिपादयति। चिद्-अचिद्-वस्तु-शरीरिणः परमात्मनः परमात्म-शब्देनाभिधाने हि नास्ति विरोधः यथा मनुष्य-पिण्ड-शरीरकस्यात्म-विशेषस्य अयम् आत्मा सुखी इत्य् आत्म-शब्देनाभिधाने इत्य् अलम् अतिविस्तरेण॥
Link copied[भाव-रूपाज्ञाने निवृत्त्य्-अनुपपत्ति-वर्णनम्]
Link copiedयत् पुनर् इदम् उक्तम्-- ब्रह्मात्मैकत्व-विज्ञानेनैवाविद्या-निवृत्तिर् युक्ता इति, तद् अयुक्तम् , बन्धस्य पारमार्थिकत्वेन ज्ञान-निवर्त्यत्वाभावात् पुण्यापुण्य-रूप-कर्म-निमित्त-देवादि-शरीर-प्रवेश-तत्-प्रयुक्त-सुख-दुःखानुभव-रूपस्य बन्धस्य मिथ्यात्वꣳ कथम् इव शक्यते वक्तुम्।
Link copied[एतन्-मते निवृत्त्य्-उपपत्ति-वर्णनम्]
Link copiedएवꣳरूप-बन्ध-निवृत्तिर् भक्ति-रूपापन्न उपासन-प्रीत-परम-पुरुष-प्रसाद-लभ्येति पूर्वम् एवोक्तम्। भवद्-अभिमतस्यैक्यज्ञानस्य यथावस्थित-वस्तु-विपरीत-विषयस्य मिथ्या-रूपत्वेन बन्ध-विवृद्धिर् एव फलꣳ भवति मिथ्यैतद् अन्यद् द्रव्यꣳ हि नैति तद् द्रव्यताꣳ यतः [वि। पु।, २।१४।२७] इति शास्त्रात्। उत्तमः पुरुषस् त्व् अन्यः [भ। गी।, १५।१७], पृथग्-आत्मानꣳ प्रेरितारꣳ च मत्वा [श्वे।, १।६] इति जीवात्म-विसजातीयस्य तद्-अन्तर्यामिणो ब्रह्मणो ज्ञानꣳ परम-पुरुषार्थ-लक्षण-मोक्ष-साधनम् इत्य् उपदेशाच् च॥
Link copiedअपि च भवद्-अभिमतस्यापि निवर्तक-ज्ञानस्य मिथ्या-रूपत्वात् तस्य निवर्तकान्तरꣳ मृग्यम्। निवर्तक-ज्ञानम् इदꣳ स्व-विरोधि सर्वꣳ भेद-ज्ञानꣳ निवर्त्य क्षणिकत्वात् स्वयम् एव नश्यतीति चेन् न, तत्-स्वरूप-तद्-उत्पत्ति-विनाशानाꣳ काल्पनिकत्वेन विनाश-तत्-कल्पना-कल्पक-रूपाविद्याया निवर्तकान्तरम् अन्वेषणीयम्। तद्-विनाशो ब्रह्म-स्वरूपम् एवेति चेत्, तथा सति निवर्तक-ज्ञानोत्पत्तिर् एव न स्यात्, तद्-विनाशे तिष्ठति, तद्-उत्पत्त्य्-असम्भवात्॥
Link copied[निवर्तक-ज्ञानस्य ज्ञात्रनुपपत्तिः]
Link copiedअपि च-- चिन्-मात्र-ब्रह्म-व्यतिरिक्त-कृत्स्न-निषेध-विषय-ज्ञानस्य कोऽयꣳ ज्ञाता अध्यास-रूप इति चेन् न, तस्य निषेध्यतया निवर्तक-ज्ञान-कर्मत्वात् तत्-कर्तृत्वानुपपत्तेः। ब्रह्म स्वरूपम् इति चेद् ब्रह्मणो निवर्तक-ज्ञानꣳ प्रति ज्ञातृत्वꣳ किꣳ स्वरूपम् उताध्यस्तम्। अध्यस्तꣳ चेद् अयम् अध्यासस् तन्-मूलाविद्यान्तरꣳ च निवर्तक-ज्ञानाविषयतया तिष्ठत्य् एव। निवर्तक-ज्ञानान्तराभ्युपगमे तस्यापि त्रि-रूपत्वाज् ज्ञात्रपेक्षयानवस्था स्यात्। ब्रह्म-स्वरूपस्यैव ज्ञातृत्वेऽस्मदीय एव पक्षः परिगृहीतः स्यात्। निवर्तक-ज्ञान-स्वरूपꣳ स्वस्य ज्ञाता च ब्रह्म-व्यतिरिक्तत्वेन स्वनिवर्त्यान्तर्गतम् इति वचनꣳ भू-तल-व्यतिरिक्तꣳ कृत्स्नꣳ देवदत्तेन च्छिन्नम् इत्य् अस्याम् एव च्छेदन-क्रियायाम् अस्य च्छेत्तुर् अस्याश् छेदन-क्रियायाश् च च्छेद्यानुप्रवेश-वचनवद् उपहास्यम्। अध्यस्तो ज्ञाता स्वनाश-हेतु-भूत-निवर्तक-ज्ञाने स्वयꣳ कर्ता च न भवति, स्व-नाशस्यापुरुषार्थत्वात्। तन्-नाशस्य ब्रह्म-स्वरूपत्वाभ्युपगमे भेद-दर्शन-तन्-मूलाविद्यादीनाꣳ कल्पनम् एव न स्यात्। इत्य् अलम् अनेन दिष्ट-हतम् उद्गराभिघातेन॥
Link copied[कर्म-विचार-पूर्व-वृत्ततायुक्ततमत्वम्]
Link copiedतस्माद् अनादि-कर्म-प्रवाह-रूपाज्ञान-मूलत्वाद् बन्धस्य तन्-निबर्हाणम् उक्त-लक्षण-ज्ञानाद् एव। तद्-उत्पत्तिश् च अहर् अहर् अनुष्ठीयमान-परम-पुरुषाराधन-वेषात्म-याथात्म्य-बुद्धि-विशेष-सꣳस्कृत-वर्णाश्रमोचित-कर्म-लभ्या। तत्र केवल-कर्मणाम् अल्पास्थिर-फलत्वम्, अनभिसꣳहित-फल-परम-पुरुषाराधन-वेषाणाꣳ कर्मणाम् उपासनात्मक-ज्ञानोत्पत्ति-द्वारेण ब्रह्म-याथात्म्यानुभव-रूपानन्त-स्थिर-फलत्वꣳ च कर्म-स्वरूप-ज्ञानादृते न ज्ञायते। केवलाकार-परित्याग-पूर्वक-यथोक्त-स्वरूप-कर्मोपादानꣳ च न सम्भवतीति कर्म-विचारानन्तरꣳ तत एव हेतोर् ब्रह्म-विचारः कर्तव्य इत्य् अथात इत्य् उक्तम्।
Link copied[इति महा-सिद्धान्तः]
Link copied[अथ सूत्र-काराभिमत-सूत्रार्थ-योजनारम्भः]
Link copied[वेदान्तानाꣳ ब्रह्मण्य् अप्रमाणत्वाशङ्का]
Link copiedतत्र पूर्व-पक्ष-वादी मन्यते वृद्ध-व्यवहाराद् अन्यत्र शब्दस्य बोधकत्व-शक्त्य्-अवधारणासम्भवात्, व्यवहारस्य च कार्य-बुद्धि-परत्वेन कार्यार्थ एव शब्दस्य प्रामाण्यम् इति कार्य-रूप एव वेदार्थः। अतो न वेदान्ताः परिनिष्पन्ने परे ब्रह्मणि प्रमाण-भावम् अनुभवितुम् अर्हन्ति।
Link copied[सिद्धेऽर्थे शब्दस्य व्युत्पत्तिर् इत्य् अꣳशे भाट्टोक्तोदाहरण-निरासः]
Link copiedन च पुत्र-जन्मादि-सिद्ध-वस्तु-विषय-वाक्येषु हर्ष-हेतूनाꣳ काल-त्रय-वर्तिनाम् अर्थानाम् आनन्त्यात् सुलग्न-सुख-प्रसवादि-हर्ष-हेत्व्-अर्थान्तरोपनिपात-सम्भावनया च प्रियार्थ-प्रतिपत्ति-निमित्त-मुख-विकासादि-लिङ्गेनार्थ-विशेष-बुद्धि-हेतुत्व-निश्चयः,
Link copied[सिद्धेऽर्थे शब्दस्य व्युत्पत्तिर् इत्य् अꣳशे नैयायिकोक्तोदाहरण-व्युदासः]
Link copiedनापि व्युत्पन्नेतर-पद-विभक्त्य्-अर्थस्य पदान्तरार्थ-निश्चयेन प्रकृत्य्-अर्थ-निश्चयेन वा शब्दस्य सिद्ध-वस्तुन्य् अभिधान-शक्ति-निश्चयः; ज्ञात-कार्याभिधायि-पद-समुदायस्य तद्-अꣳश-विशेष-निश्चय-रूपत्वात् तस्य॥
Link copied[सिद्धार्थ-व्युत्पत्ति-विषये अद्वैत्य्-उक्तोदारहण-निरासः]
Link copiedन च सर्पाद् भीतस्य नायꣳ सर्पो रज्जुर् एषा इति शब्द-श्रवण-समनन्तरꣳ भय-निवृत्ति-दर्शनेन सर्पाभाव-बुद्धि-हेतुत्व-निश्चयः। अत्रापि निश्चेष्टꣳ निर्विशेषम् अचेतनम् इदꣳ वस्त्व् इत्य् आद्य् अर्थ-बोधेषु बहुषु भय-निवृत्ति-हेतुषु सत्सु विशेष-निश्चयायोगात्।
Link copied[पदानाम् अन्यान्वित-स्वार्थ-मात्र-बोधकत्वम् इति मत-निरासः]
Link copiedकार्य-बुद्धि-प्रवृत्ति-व्याप्ति-बलेन शब्दस्य प्रवर्तकार्थावबोधित्वम् उपगतम् इति, सर्व-पदानाꣳ कार्य-परत्वेन, सर्वैः पदैः कार्यस्यैव विशिष्टस्य प्रतिपादनान् नान्यान्वित-स्वार्थ-मात्रे पद-शक्ति-निश्चयः॥
Link copied[इष्ट-साधनत्वꣳ प्रवर्तकोऽर्थः इति मत-निरासः]
Link copiedइष्ट-साधनता-बुद्धिस् तु कार्य-बुद्धि-द्वारेण प्रवृत्ति-हेतुः, न स्वरूपेण, अतीतानागत-वर्तमान- इष्टोपाय-बुद्धिषु प्रवृत्त्य्-अनुपलब्धेः। इष्टोपायो हि मत्-प्रयत्नादृते न सिद्ध्यति। अतो मत्-कृति-साध्य इति बुद्धिर् यावन् न जायते तावन् न प्रवर्तते॥
Link copied[कार्यार्थस्यैव शब्द-वाच्यता-पूर्व-पक्ष-नियमनम्]
Link copiedअतः कार्य-बुद्धिर् एव प्रवृत्ति-हेतुर् इति प्रवर्तकस्यैव शब्द-वाच्यतया कार्यस्यैव वेद-वेद्यत्वात् परिनिष्पन्न-रूप-ब्रह्म-प्राप्ति-लक्षणानन्त-स्थिर-फलाप्रतिपत्तेर् अक्षय्यꣳ ह वै चातुर्मास्य याजिनः सुकृतꣳ भवति [आ। श्रौ। सू।, २।१।१] इत्य् आदिभिः कर्मणाम् एव स्थिर-फलत्व-प्रतिपादनाच् च कर्म-फलाल्पास्थिरत्व-ब्रह्म-ज्ञान-फलानन्त-स्थिरत्व-ज्ञान-हेतुको ब्रह्म-विचारारम्भो न युक्तः-- इति॥
Link copied[सिद्धान्त-प्रतिपादनारम्भः]
Link copied[तत्र कार्ये एव शब्द-व्युत्पत्तिर् इत्य् अत्र प्रामाणिकासम्मतिः]
Link copiedअत्राभिधीयते-- निखिल-लोक-विदित-शब्दार्थ-सम्बन्धावधारण-प्रकारम् अपनुद्य सर्व शब्दानाम् अलौकिकैकार्थावबोधित्वावधारणꣳ प्रामाणिका न बहु मन्वते॥
Link copied[बुद्धि-पूर्वक-व्युत्पत्त्या सिद्धेऽपि शब्द-शक्ति-ग्रहः]
Link copiedएवꣳ किल बालाः शब्दार्थ-सम्बन्धम् अवधारयन्ति-- माता-पितृ-प्रभृतिभिर् अम्बा-तात-मातुलादीन् शशि-पशु-नर-मृग-पक्षि-सर्पादीꣳश् च एनम् अवेहि, इमꣳ चावधारय इत्य् अभिप्रायेणाङ्गुल्यानिर्दिश्य निर्दिश्य तैस् तैः शब्दैस् तेषु तेष्व् अर्थेषु बहुशः शिक्षिताः शनैः शनैस् तैस् तैर् एव शब्दैस् तेषु तेष्व् अर्थेषु स्वात्मनाꣳ बुद्ध्य्-उत्पत्तिꣳ दृष्ट्वा शब्दार्थयोः सम्बन्धान्तरा-दर्शनात् सङ्केतयितृ-पुरुषाज्ञानाच् च तेष्व् अर्थेषु तेषाꣳ शब्दानाꣳ प्रयोगो बोधकत्व-निबन्धन इति निश्चिन्वन्ति॥
Link copiedपुनश् च व्युत्पन्नेतर-शब्देष्व् अस्य शब्दस्यायम् अर्थः इति पूर्व-वृद्धैः शिक्षिताः सर्व-शब्दानाम् अर्थम् अवगम्य पर-प्रत्यायनाय तत्-तद्-अर्थावबोधि वाक्य-जातꣳ प्रयुञ्जते।
Link copied[यादृच्छिक्या व्युत्पत्त्यापि सिद्धेऽपि शब्द-शक्ति-ग्रहः]
Link copiedप्रकारान्तरेणापि शब्दार्थ-सम्बन्धावधारणꣳ सुशकम्-- केनचित् पुरुषेण हस्त-चेष्टादिना पिता ते सुखम् आस्ते इति देवदत्ताय ज्ञापय इति प्रेषितः कश्चित् तज्-ज्ञापने प्रवृत्तः पिता ते सुखम् आस्ते इति शब्दꣳ प्रयुङ्क्ते। पार्श्व-स्थोऽन्यो व्युत्पित्सुर् मूकवच् चेष्टा-विशेष-ज्ञस् तज्-ज्ञापने प्रवृत्तम् इमꣳ ज्ञात्वानुगतस् तज्-ज्ञापनाय प्रयुक्तम् इमꣳ शब्दꣳ श्रुत्वा अयꣳ शब्दस् तद्-अर्थ-बुद्धि-हेतुः इति निश्चिनोति इति कार्यार्थ एव व्युत्पत्तिर् इति निर्बन्धो निर्निबन्धनः। अतो वेदान्ताः परिनिष्पन्नꣳ परꣳ ब्रह्म, तद्-उपासनꣳ चापरिमत-फलꣳ बोधयन्तीति तन्-निर्णय-फलो ब्रह्म-विचारः कर्तव्यः॥
Link copied[वेदस्य कार्यार्थत्वेऽपि ब्रह्म-विचारारम्भ-समर्थनम्]
Link copiedकार्यार्थत्वेऽपि वेदस्य ब्रह्म-विचारः कर्तव्य एव। कथम्। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासतिव्यः [बृहद्।, ४।४।५; ६।५।६], सोऽन्वेष्टव्यः सविजिज्ञासितव्यः [छान्।, ८।७।१], विज्ञाय प्रज्ञाꣳ कुर्वीत [बृहद्।, ६।४।२१], दहरोऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यꣳ तद् वाव विजिज्ञासतिव्यम् [छान्।, ८।१।१], तत्रापि दहरꣳ गगनꣳ विशोकस् तस्मिन् यद् अन्तस् तद् उपासितव्यम् [महाना। ४।१२] इत्य् आदिभिः प्रतिपन्नोपासन-विषय-कार्याधिकृत-फलत्वेन ब्रह्म-विद् आप्नोति परम् [तै।, २।१।१] इत्य् आदिभिर् ब्रह्म प्राप्तिः श्रूयत इति ब्रह्म-स्वरूप-तद्-विशेषणानाꣳ दुःखासम्भिन्न-देश-विशेष-रूप-स्वर्गादिवत्, रात्रि-सत्र-प्रतिष्ठादिवत्, अपगोरण-शतयातनासाध्यसाधन-भावावच् च, कार्योपयोगितयैव सिद्धेः॥
Link copied[अपूर्व-खण्डनम्]
Link copied[कार्यस्य दुर्निरूपतया कार्ये व्युत्पत्तिर् न सिध्यति]
Link copiedगामानय इत्य् आदिष्व् अपि वाक्येषु न कार्यार्थे व्युत्पत्तिः, भवद्-अभिमत-कार्यस्य दुर्निरूपत्वात्। कृति-भाव-भावि कृत्य्-उद्देश्यꣳ हि भवतः कार्यम्। कृत्य्-उद्देश्यत्वꣳ च कृति-कर्मत्वम्। कृति-कर्मत्वꣳ च कृत्या प्राप्तुम् इष्टतमत्वम्। इष्टतमꣳ च सुखꣳ वर्तमान-दुःखस्य तन्-निवृत्तिर् वा। तत्रेष्ट-सुखादिना पुरुषेण स्व-प्रयत्नाद् ऋते यदि तत्-सिद्धिः प्रतीता, ततः प्रयत्नेच्छुः प्रवर्तते पुरुष इति न क्वचिद् अपीच्छा-विषयस्य कृत्य्-अधीन-सिद्धित्वम् अन्तरेण कृत्य्-उद्देश्यत्वꣳ नाम किञ्चिद् अप्य् उपलभ्यते। इच्छा-विषयस्य प्रेरकत्वꣳ च प्रयत्नाधीन-सिद्धित्वम् एव, तत एव प्रवृत्तेः। न च पुरुषानुकूलत्वꣳ कृत्य्-उद्देश्यत्वम्, यतः सुखम् एव पुरुषानुकूलम्। न च दुःख-निवृत्तेः पुरुषानुकूलत्वम्; पुरुषानुकूलꣳ सुखꣳ तत्-प्रतिकूलꣳ दुःखम् इति हि सुख-दुःखयोः स्वरूप-विवेकः। दुःखस्य प्रतिकूलतया तन्-निवृत्तिर् इष्टा भवति, नानुकूलतया। अनुकूल-प्रतिकूलान्वय-विरहे स्वरूपेणावस्थितिर् हि दुःख-निवृत्तिः। अतः सुख-व्यतिरिक्तस्य क्रियादेर् अनुकूलत्वꣳ न सम्भवति। न सुखार्थतया तस्याप्य् अनुकूलत्वम्, दुःखात्मकत्वात् तस्य। सुखार्थतयापि तद्-उपादानेच्छा-मात्रम् एव भवति। न च कृतिꣳ प्रति शेषित्वꣳ कृत्य्-उद्देश्यत्वम्, भवत्-पक्षे शेषित्वस्यानिरूपणात्॥
Link copied[शेष-लक्षणम्]
Link copiedन च परोद्देश-प्रवृत्त-कृति-व्याप्त्य्-अर्हत्वꣳ शेषत्वम् इति तत्-प्रतिसम्बन्धी शेषीत्य् अवगम्यते, तथा सति कृतेर् अशेषत्वेन ताꣳ प्रति तत्-साध्यस्य शेषित्वाभावात्। न च परोद्देश-प्रवृत्त्य्-अर्हतायाः शेषत्वेन परः शेषी, उद्देश्यत्वस्यैव निरूप्यमाणत्वात्, प्रधानस्यापि भृत्योद्देश-प्रवृत्त्य्-अर्हत्व-दर्शनाच् च। प्रधानस् तु भृत्य-पोषणेऽपि स्वोद्देशेन प्रवर्तत इति चेन् न, भृत्योऽपि हि प्रधान-पोषणे स्वोद्देशेनैव प्रवर्तते। कार्य-स्वरूपस्यैवानिरूपणात् कार्य-प्रतिसम्बन्धी शेषः, तत्-प्रतिसम्बन्धी शेषी इत्य् अप्य् असङ्गतम्॥
Link copiedनापि कृति-प्रयोजनकत्वꣳ कृत्य्-उद्देश्यत्वम्; पुरुषस्य कृत्य्-आरम्भ-प्रयोजनम् एव हि कृति-प्रयोजनम्। स चेच्छा-विषयः। तस्माद् इष्टत्वातिरेकि-कृत्य्-उद्देश्यत्वानिरूपणात् कृति-साध्यता-कृति-प्रधानत्व-रूपꣳ कार्यꣳ दुर्निरूपम् एव॥
Link copied[अपूर्वे स्वतः इष्टत्व-कृति-साध्यत्व-रूप-प्रयोजनत्वयोर् निरासः]
Link copiedनियोगस्यापि साक्षादिषि-विषय-भूत-सुख-दुःख-निवृत्तिभ्याम् अन्यत्वात् तत्-साधनतयैवेष्टत्वꣳ कृति-साध्यत्वꣳ च। अत एव हि तस्य क्रियातिरिक्तता; अन्यथा क्रियैव कार्यꣳ स्यात्; स्वर्ग-काम-पद-समभिव्याहारानुगुण्येन लिङ्-आदि-वाच्यꣳ कार्यꣳ स्वर्ग-साधनम् एवेति क्षण-भङ्गि-कर्मातिरेकि स्थिरꣳ स्वर्ग-साधनम् अपूर्वम् एव कार्यम् इति स्वर्ग-साधनतोल्लेखेनैव ह्य् अपूर्व-व्युत्पत्तिः। अतः प्रथमम् अनन्यार्थतया प्रतिपन्नस्य कार्यस्यानन्यार्थत्व-निर्वहणायापूर्वम् एव पश्चात् स्वर्ग-साधनꣳ भवतीत्य् उपहास्यम्, स्वर्ग-काम-पदान्वित-कार्याभिधायि-पदेन प्रथमम् अप्य् अनन्यार्थतानभिधानात्; सुख-दुःख-निवृत्ति-तत्-साधनेभ्योऽन्यस्य अनन्यार्थस्य कृति-साध्यता-प्रतीत्य्-अनुपपत्तेश् च॥
Link copied[नियोगाख्यस्यापूर्वस्य सुखत्व-रूप-प्रयोजनत्व-निरासः]
Link copiedअपि च-- किम् इदꣳ नियोगस्य प्रयोजनत्वꣳ सुखवन् नियोगस्याप्य् अनुकूलत्वम् एवेति चेत्, किꣳ नियोगः सुखꣳ सुखम् एव ह्य् अनुकूलम्। सुख-विशेषवन् नियोगापर-पर्यायꣳ विलक्षणꣳ सुखान्तरम् इति चेत् किꣳ तत्र प्रमाणम् इति वक्तव्यम्। स्वानुभवश् चेन् न, विषय-विशेषानुभव-सुखवन् नियोगानुभव-सुखम् इदम् इति भवतापि नानुभूयते। शास्त्रेण नियोगस्य पुरुषार्थतया प्रतिपादनात्। पश्चात् तु भोक्ष्यत इति चेत् किꣳ तन् नियोगस्य पुरुषार्थत्व-वाचि शास्त्रम्। न तावल् लौकिकꣳ वाक्यम्, तस्य दुःखात्मक-क्रिया-विषयत्वात्, तेन सुखादि-साधनतयैव कृति-साध्यता-मात्र-प्रतिपादनात्। नापि वैदिकम्, तेनापि स्वर्गादि-साधनतयैव कार्यस्य प्रतिपादनात्। नापि नित्य-नैमित्तिक-शास्त्रम्; तस्यापि तद्-अभिधायित्वꣳ स्वर्ग-काम-वाक्य-स्थापूर्व-व्युत्पत्ति-पूर्वकम् इत्य् उक्त-रीत्या तेनापि सुखादि-साधन-कार्याभिधानम् अवर्जनीयम्। नियतैहिक-फलस्य कर्मणोऽनुष्ठितस्य फलत्वेन तदानीम् अनुभूयमानान् नाद्यरोगतादि-व्यतिरेकेण नियोग-रूप-सुखानुभवानुपलब्धेश् च नियोगः सुखम् इत्य् अत्र न किञ्चन प्रमाणम् उपलभामहे। अर्थवादादिष्व् अपि स्वर्गादि-सुख-प्रकार-कीर्तनवन् नियोग-रूप-सुख-प्रकार-कीर्तनꣳ भवतापि न दृष्ट-चरम्।
Link copied[लिङ्-अर्थ-निष्कर्षः]
Link copiedअतो विधि-वाक्येष्व् अपि धात्व्-अर्थस्य कर्तृ-व्यापार-साध्यता-मात्रꣳ शब्दानुशासन-सिद्धम् एव लिङ्गादेर् वाच्यम् इत्य् अध्यवसीयते। धात्व्-अर्थस्य च यागादेर् अग्न्य्-आदि-देवतान्तर्यामि परम-पुरुषसम् आराधन-रूपता, समाराधितात् परम-पुरुषात् फल-सिद्धिश् चेति फलम् अत उपपत्तेः [ब्र। सू। ३।२।३७] इत्य् अत्र प्रतिपादयिष्यते। अतो वेदान्ताः परिनिष्पन्नꣳ ब्रह्म बोधयन्तीति ब्रह्मोपासन-फलानन्त्यꣳ स्थिरत्वꣳ च सिद्धम्। चातुर्मास्यादि-कर्मस्व् अपि केवलस्य कर्मणः क्षयि-फलत्वोपदेशाद् अक्षय-फल-श्रवणꣳ वायुश् चान्तरिक्षꣳ चैतद् अमृतम् [बृहद्।, ४।३।३] इत्य् आदिवद् आपेक्षिकꣳ मन्तव्यम्।
Link copiedअतः केवलानाꣳ कर्मणाम् अल्पास्थिर-फलत्वात्, ब्रह्म-ज्ञानस्य चानन्त-स्थिर-फलत्वात् तन्-निर्णय-फलो ब्रह्म-विचारारम्भो युक्त इति स्थितम्॥
Link copiedइति जिज्ञासाधिकरणम्॥१॥
Link copied[ब्रह्मणि प्रतिपत्ति-दौःस्थ्य-निरासपरम्]
Link copiedजन्माद्य्-अधिकरणम्॥२॥
Link copied[अधिकरणार्थः-- ब्रह्मणः सर्व-कर्तृत्वम्]
Link copiedकिꣳ पुनस् तद् ब्रह्म यज् जिज्ञास्यम् उच्यत इत्य् अत्राह--
Link copied२ जन्माद्य् अस्य यतः॥१।१।२॥
Link copied[सूत्रार्थ-वर्णनम्]
Link copiedजन्मादीति-- सृष्टि-स्थित-प्रलयम्। तद्-गुण-सꣳविज्ञानो बहुव्रीहिः। अस्याचिन्त्य-विविध-विचित्र-रचनस्य नियत-देश-काल-फल-भोग-ब्रह्मादि-स्तम्ब-पर्यन्त-क्षेत्रज्ञ-मिश्रस्य जगतः, यतः-- यस्मात् सर्वेश्वरात् निखिल-हेय-प्रत्यनीक-स्वरूपात् सत्य-सङ्कल्पाज् ज्ञानानन्दाद्य्-अनन्त-कल्याण-गुणात् सर्व-ज्ञात् सर्व-शक्तेः परम-कारुणिकात् परस्मात् पुꣳसः सृष्टि-स्थिति-प्रलयाः प्रवर्तन्ते तद् ब्रह्मेति सूत्रार्थः॥
Link copied[पूर्व-पक्षः]
Link copied[अधिकरणस्याङ्ग-भूत-विषय-प्रदर्शनम्]
Link copiedभृगुर् वै वारुणिः। वरुणꣳ पितरम् उपससार। अधीहि भगवो ब्रह्म इत्य् आरभ्य यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत् प्रयन्त्य् अभिसꣳविशन्ति। तद् विजिज्ञासस्व। तद् ब्रह्म [तै।, ३।३।१] इति श्रूयते।
Link copied[अधिकरणस्याङ्ग-भूतः सꣳशयः]
Link copiedतत्र सꣳशयः-- किम् अस्माद् वाक्याद् ब्रह्म लक्षणतः प्रतिपत्तुꣳ शक्यते, न वा-- इति।
Link copied[अधिकरणस्याङ्ग-भूतः पूर्व-पक्षः]
Link copiedकिꣳ प्राप्तꣳ न शक्यम् इति। न तावज् जन्मादयो विशेषणत्वेन ब्रह्म लक्षयन्ति, अनेक-विशेषण-व्यावृत्तत्वेन ब्रह्मणोऽनेकत्व-प्रसक्तेः। विशेषणत्वꣳ हि व्यावर्तकत्वम्॥
Link copiedननु देवदत्तः श्यामो युवा लोहिताक्षः समपरिमाणः इत्य् अत्र विशेषण-बहुत्वेऽप्य् एक एव देवदत्तः प्रतीयते। एवम् अत्राप्य् एकम् एव ब्रह्म भवति। नैवम्-- तत्र प्रमाणान्तरेणैक्य-प्रतीतेर् एकस्मिन्न् एव विशेषणानाम् उपसꣳहारः। अन्यथा तत्रापि व्यावर्तकत्वेनानेकत्वम् अपरिहार्यम्। अत्र त्व् अनेनैव विशेषणेन लिलक्षयिषितत्वाद् ब्रह्मणः प्रमाणान्तरेणैक्यम् अनवगतम् इति व्यावर्तक-भेदेन ब्रह्म-बहुत्वम् अवर्जनीयम्॥
Link copiedब्रह्म-शब्दैक्याद् अत्राप्यैक्यꣳ प्रतीयत इति चेन् न, अज्ञात-गो-व्यक्तेः-- जिज्ञासोः पुरुषस्य खण्डो मुण्डः पूर्ण-शृङ्गो गौः इत्य् उक्ते गो-पदैक्येऽपि खण्डत्वादि-व्यावर्तक-भेदेन गो-व्यक्ति-बहुत्व-प्रतीतेर् ब्रह्म-व्यक्तयोऽपि बह्व्यः स्युः। अत एव लिलक्षियिषिते वस्तुन्य् एषाꣳ विशेषणानाꣳ सम्भूय लक्षणत्वम् अप्य् अनुपपन्नम्॥
Link copied[जन्मादीनाम् उपलक्षणतयापि लक्षणत्वानुपपत्तिः]
Link copiedनाप्य् उपलक्षणत्वेन लक्षयन्ति, आकारान्तरा-प्रतिपत्तेः। उपलक्षणानाम् एकेनाकारेण प्रतिपन्नस्य केनचिद् आकारान्तरेण प्रतिपत्ति-हेतुत्वꣳ हि दृष्टꣳ यत्रायꣳ सारसः, स देवदत्त-केदारः, इत्य् आदिषु॥
Link copiedननु च सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] इति प्रतिपन्नाकारस्य जगज्-जन्मादीन्य् उपलक्षणानि भवन्ति। न, इतरेतर-प्रतिपन्नाकारापेक्षत्वेन उभयोर् लक्षण-वाक्ययोर् अन्योन्याश्रयणात्। अतो न लक्षणतो ब्रह्म प्रतिपत्तुꣳ शक्यत इति॥
Link copied[अधिकरणाङ्ग-भूतो निर्णयः सिद्धान्तो वा]
Link copied[तत्र जन्मादिभिर् उपलक्षणीभूतैर् अपि ब्रह्म-प्रतिपत्तिः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- जगत्-सृष्टि-स्थिति-प्रलयैर् उपलक्षण-भूतैर् ब्रह्म प्रतिपत्तुꣳ शक्यते। न चोपलक्षणोपलक्ष्याकार-व्यतिरिक्ताकारान्तरा-प्रतिपत्तेर् ब्रह्माप्रतिपत्तिः। उपलक्ष्यꣳ ह्य् अनवधिकातिशय-बृहद् बृꣳहणꣳ च; बृहतेर् धातोस् तद्-अर्थत्वात्। तद्-उपलक्षण-भूताश् च जगज्-जन्म-स्थिति-लयाः। यतो, येन, यत् इति प्रसिद्धवन्-निर्देशेन यथाप्रसिद्धि जन्मादि-कारणम् अनूद्यते। प्रसिद्धिश् च सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयꣳ [छान्।, ६।२।१] तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।१] इत्य् एकस्यैव सच्-छब्द-वाच्यस्य निमित्तोपादन-कारणत्वेन तद् अपि सद् एवेदम् अग्रे एकम् एवासीत् इत्य् उपादानताꣳ प्रतिपाद्य अद्वितीयम् इत्य् अधिष्ठात्रन्तरꣳ प्रतिषिध्य तद् ऐक्षत बहु स्याꣳ प्रजायेय इति तत् तेजोऽसृजत इत्य् एकस्यैव प्रतिपादनात्। तस्माद् यन्-मूला जगज्-जन्म-स्थिति-लयाः तद् ब्रह्मेति जन्म-स्थिति-लयाः स्व-निमित्तोपादान-भूतꣳ वस्तु ब्रह्मेति लक्षयन्ति।
Link copied[कारणत्वाक्षिप्त-तृतीयाकार-प्रतिपादनम्]
Link copiedजगन्-निमित्तोपादनताक्षिप्त-सर्व-ज्ञत्व-सत्य-सङ्कल्पत्व-विचित्र-शक्तित्वाद्य्-आकार-बृहत्त्वेन प्रतिपन्नꣳ ब्रह्मेति च जन्मादीनाꣳ तथा प्रतिपन्नस्य लक्षणत्वेन नाकारान्तराप्रतिपत्ति-रूपानुपपत्तिः॥
Link copied[जन्मादीनाꣳ विशेषणतया ब्रह्म-लक्षणत्वोपपत्तिः]
Link copiedजगज्-जन्मादीनाꣳ विशेषणतया लक्षणत्वेऽपि न कश्चिद् दोषः। लक्षण-भूतान्य् अपि विशेषणानि स्व-विरोधि-व्यावृत्तꣳ वस्तु लक्षयन्ति। अज्ञात-स्वरूपे वस्तुन्य् एकस्मिन् लिलक्षयिषितेऽपि परस्पराविरोध्य् अनेक-विशेषण-लक्षणत्वꣳ न भेदम् आपादयति; विशेषणानाम् एकाश्रयतया प्रतीतेर् एकस्मिन्न् एव उपसꣳहारात्। खण्डत्वादयस् तु विरोधाद् एव गो-व्यक्ति-भेदम् आपादयन्ति। अत्र तु काल-भेदेन जन्मादीनाꣳ न विरोधः॥
Link copied[सत्य-ज्ञानादीनाꣳ लक्षणत्वोपपत्तिः, उक्तान्योन्याश्रय-परिहारश् च]
Link copiedयतो वा इमानि भूतानि जायन्ते [तै।, ३।१।१] इत्य् आदि-कारण-वाक्येन प्रतिपन्नस्य जगज्-जन्मादि-कारणस्य ब्रह्मणः सकलेतर-व्यावृत्तꣳ स्वरूपम् अभिधीयते सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] इति। तत्र सत्य-पदꣳ निरुपाधिक-सत्ता-योगि ब्रह्माह। तेन विकारास्पदम् अचेतनꣳ तत् सꣳसृष्टश् चेतनश् च व्यावृत्तः। नामान्तरभजनार्हावस्थान्तरयोगेन तयोर्निरुपाधिकसत्तायोगरहितत्वात्। ज्ञानपदꣳ नित्यासङ्कुचित-ज्ञानैकाकारम् आह। तेन कदाचित् सङ्कुचित-ज्ञानत्वेन मुक्ता व्यावृत्ताः। अनन्त-पदꣳ देश-काल-वस्तु-परिच्छेद-रहितꣳ स्वरूपम् आह। सगुणत्वात् स्वरूपस्य, स्वरूपेण गुणैश् चानन्त्यम्। तेन पूर्व-पद-द्वय-व्यावृत्त-कोटि-द्वय-विलक्षणाः सातिशय-स्वरूप-स्वगुणाः नित्याः व्यावृत्ताः। विशेषणानाꣳ व्यावर्तकत्वात्। ततः सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] इत्य् अनेन वाक्येन जगज्-जन्मादिनावगत-स्वरूपꣳ ब्रह्म सकलेतर-वस्तु-विसजातीयम् इति लक्ष्यत इति नान्योन्याश्रयणम्॥
Link copied[अधिकरणार्थोपसꣳहारः]
Link copiedअतः सकल-जगज्-जन्मादि-कारणꣳ, निरवद्यꣳ, सर्वज्ञꣳ, सत्य-सङ्कल्पꣳ, सर्व-शक्ति, ब्रह्म लक्षणतः प्रतिपत्तुꣳ शक्यत इति सिद्धम्॥
Link copied[निर्विशेषस्य जिज्ञास्यत्वे सूत्र-द्वयासाङ्गत्यम्]
Link copiedये तु निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति। तन्-मते ब्रह्म-जिज्ञासा, जन्माद्य् अस्य यतः इत्य् असङ्गतꣳ स्यात्, निरतिशय-बृहद् बृꣳहणꣳ च ब्रह्मेति निर्वचनात्। तच् च ब्रह्म जगज्-जन्मादि-कारणम् इति वचनाच् च। एवम् उत्तरेष्व् अपि सूत्र-गणेषु सूत्रोदाहृत-श्रुति-गणेषु च ईक्षणाद्य् अन्वय-दर्शनात् सूत्राणि सूत्रोदाहृत-श्रुतयश् च न तत्र प्रमाणम्। तर्कश् च साध्य-धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-विषयत्वान् न निर्विशेष-वस्तुनि प्रमाणम्। जगज्-जन्मादि-भ्रमो यतस् तद् ब्रह्मेति स्वोत्प्रेक्षा पक्षेऽपि न निर्विशेष-वस्तु-सिद्धिः, भ्रम-मूलम् अज्ञानम्, अज्ञान-साक्षि ब्रह्मेत्य् अभ्युपगमात्। साक्षित्वꣳ हि प्रकाशैकरसतयैवोच्यते। प्रकाशत्वꣳ तु जडाद्व्यावर्तकꣳ, स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन भवति। तथा सति सविशेषत्वम्। तद्-अभावे प्रकाशतैव न स्यात्। तुच्छतैव स्यात्॥
Link copiedइति जन्माद्य्-अधिकरणम्॥२॥
Link copied[अपूर्वता-रूप-तात्पर्य-लिङ्ग-समर्थन-परम्]
Link copiedशास्त्र-योनित्वाधिकरणम्॥३॥
Link copied[अधिकरणार्थः-- ब्रह्मणः शास्त्रैक-गम्यत्वम्]
Link copiedजगज्-जन्मादि-कारणꣳ ब्रह्म वेदान्त-वेद्यम् इत्य् उक्तम्। तद् अयुक्तम्। तद् धि न वाक्य-प्रतिपाद्यम्। अनुमानेन सिद्धेर् इत्य् आशङ्क्याह--
Link copied३ शास्त्र-योनित्वात्॥१।१।३॥
Link copied[सूत्र-विवरणम्]
Link copiedशास्त्रꣳ यस्य योनिः कारणꣳ प्रमाणम्, तच् छास्त्र-योनि; तस्य भावः शास्त्र-योनित्वम्। तस्माद् ब्रह्म-ज्ञान-कारणत्वात् शास्त्रस्य, तद् योनित्वꣳ ब्रह्मणः। अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाणाविषयतया ब्रह्मणः शास्त्रैक-प्रमाणकत्वाद् उक्त-स्वरूपꣳ ब्रह्म यतो वा इमानि भूतानि [तै।, ३।१] इत्य् आदि-वाक्यꣳ बोधयत्येवेत्य् अर्थः॥
Link copied[वर्णिते सूत्रार्थे पूर्व-पक्षिण आक्षेपः]
Link copiedननु-- शास्त्र-योनित्वꣳ ब्रह्मणो न सम्भवति, प्रमाणान्तर-वेद्यत्वाद् ब्रह्मणः। अप्राप्ते तु शास्त्रम् अर्थवत्॥
Link copied[सिद्धान्त्य् एकदेशिनो मीमाꣳसकत्वाक्षेपः]
Link copiedकिꣳ तर्हि तत्र प्रमाणꣳ न तावत् प्रत्यक्षम्। तद् धि द्वि-विधम्। इन्द्रिय-सम्भवꣳ योग-सम्भवꣳ चेति। इन्द्रिय-सम्भवꣳ च बाह्य-सम्भवम्, आन्तर-सम्भवꣳ चेति द्विधा। बाह्येन्द्रियाणि विद्यमान-सन्निकर्ष-योग्य-स्व-विषय-बोध-जननानीति न सर्वार्थ-साक्षात्कार-तन्-निर्माण-समर्थ-पुरुष-विशेष-विषय-बोध-जननानि। नाप्य् आन्तरम्, आन्तर-सुख-दुःखादि-व्यतिरिक्त-बहिर्-विषयेषु तस्य बाह्येन्द्रियानपेक्ष-प्रवृत्त्य्-अनुपपत्तेः। नापि योग-जन्यम्। भावनाप्रकर्ष-पर्यन्त-जन्मनस् तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषय-स्मृति-मात्रत्वान् न प्रामाण्यम् इति कुतः प्रत्यक्षता। तद्-अतिरिक्त-विषयत्वे कारणाभावात्। तथा सति तस्य भ्रम-रूपता। नाप्यनुमानꣳ विशेषतो दृष्टꣳ सामान्यतो दृष्टꣳ वा, अतीन्द्रिये वस्तुनि सम्बन्धावधारण-विरहान् न विशेषतो दृष्टम्। समस्त-वस्तु-साक्षात्कार-तन्-निर्माण-समर्थ-पुरुष-विशेषनियतꣳ सामान्यतो दृष्टम् अपि न लिङ्गम् उपलभ्यते॥
Link copied[पूर्व-पक्ष्य्-एकदेशिन आक्षेपः]
Link copiedननु च जगतः कार्यत्वꣳ तद्-उपादानोपकरण-सम्प्रदान-प्रयोजनाभिज्ञ-कर्तृकत्व-व्याप्तम्। अचेतनारब्धत्वꣳ जगतश् चैक-चेतनाधीनत्वेन व्याप्तम्। सर्वꣳ हि घटादि-कार्यꣳ तद्-उपादानोपकरण-सम्प्रदान-प्रयोजनाभिज्ञ-कर्तृकꣳ दृष्टम्। अचेतनारब्धम् अरोगꣳ स्व-शरीरम् एक-चेतनाधीनꣳ च। सावयवत्वेन जगतः कार्यत्वम्॥
Link copied[सिद्धान्त्य्-एकदेशिनो दूषणम्]
Link copiedउच्यते-- किम् इदम् एक-चेतनाधीनत्वꣳ न तावत् तदायत्तोत्पत्ति-स्थितित्वम्। दृष्टान्तो हि साध्य-विकलः स्यात्, न ह्य् अरोगꣳ स्व-शरीरम् एक-चेतनायत्तोत्पत्ति-स्थिति, तच्-छरीरस्य भोक्तॄणाꣳ भार्यादि-सर्व-चेतनानाम् अदृष्ट-जन्यत्वात् तद्-उत्पत्ति-स्थित्योः। किꣳ च शरीरावयविनः स्वावयव-समवेतता-रूप-स्थितिर् अवयव-सꣳश्लेष-विशेष-व्यतिरेकेण न चेतनम् अपेक्षते। प्राणन-लक्षणा तु स्थितिः पक्षत्वाभिमते क्षिति-जलाब्धिमहीधरादौ न सम्भवतीति पक्षसपक्षानुगताम् एक-रूपाꣳ स्थितिꣳ नोपलभामहे। तदायत्त-प्रवृत्तित्वꣳ तदधीनत्वम् इति चेत्-- अनेक-चेतन-साध्येषु गुरुतर-रथ-शिला-महीरुहादिषु व्यभिचारः। चेतन-मात्राधीनत्वे सिद्ध-साध्यता॥
Link copied[कार्यत्व-हेतुकानुमाने सिद्ध-साधन-दोषः]
Link copiedकिꣳ च-- उभय-वादि-सिद्धानाꣳ जीवानाम् एव लाघवेन कर्तृत्वाभ्युपगमो युक्तः। न च जीवानाम् उपादानाद्य्-अनभिज्ञतया कर्तृत्वासम्भवः। सर्वेषाम् एव चेतनानाꣳ पृथिव्य्-आद्य्-उपादान-यागाद्य्-उपकरण-साक्षात्कार-सामर्थ्यात्। यथेदानीꣳ पृथिव्य्-आदयो यागादयश् च प्रत्यक्षम् ईक्ष्यन्ते। उपकरण-भूत-यागादि-शक्ति-रूपापूर्वादि-शब्द-वाच्यादृष्ट-साक्षात्काराभावेऽपि चेतनानाꣳ न कर्तृत्वानुपपत्तिः, तत्-साक्षात्कारानपेक्षणात् कार्यारम्भस्य। शक्तिमत्-साक्षात्कार एव हि कार्यारम्भोपयोगी। शक्तेस् तु ज्ञान-मात्रम् एवोपयुज्यते, न साक्षात्कारः। न हि कुलालादयः कार्योपकरण-भूत-दण्ड-चक्रादिवत् तच्-छक्तिम् अपि साक्षात्कृत्य घट-मणिकादि-कार्यम् आरभन्ते। इह तु चेतनानाम् आगमावगतयागादि-शक्ति-विशेषाणाꣳ कार्यारम्भो नानुपपन्नः।
Link copied[कार्यत्व-हेतुकानुमानस्य सोपाधिकता]
Link copiedकिꣳ च यच् छक्य-क्रियꣳ शक्योपादानादि-विज्ञानꣳ च, तद् एव तद्-अभिज्ञ-कर्तृकꣳ दृष्टम्। मही-महीधर-महार्णवादि त्व् अशक्य-क्रियम् अशक्योपादानादि-विज्ञानꣳ चेति न चेतन-कर्तृकम्। अतो घट-मणिकादि-सजातीय-शक्य-क्रिय-शक्योपादानादि-विज्ञान-वस्तु-गतम् एव कार्यत्वꣳ बुद्धिमत्-कर्तृ-पूर्वकत्व-साधने प्रभवति॥
Link copied[कार्यत्व-हेतोर् अभिमत-विशेष-विरुद्धत्वम्]
Link copiedकिꣳ च-- घटादि-कार्यम् अनीश्वरेणाल्प-ज्ञान-शक्तिना सशरीरेण परिग्रहवतानाप्त-कामेन निर्मितꣳ दृष्टम् इति तथाविधम् एव चेतनꣳ कर्तारꣳ साधयन्न् अयꣳ कार्यत्व-हेतुः सिषाधियिषित-पुरुष-सार्वज्ञ्य-सर्वैश्वर्यादि-विपरीत-साधनाद् विरुद्धः स्यात्। न चैतावता सर्वानुमानोच्छेद-प्रसङ्गः। लिङ्गिनि प्रमाणान्तर-गोचरे लिङ्ग-बलोपस्थापिता विपरीत-विशेषास् तत्-प्रमाण-प्रतिहत-गतयो निवर्तन्ते। इह तु सकलेतर-प्रमाणाविषये लिङ्गिनि निखिल-निर्माण-चतुरे, अन्वय-व्यतिरेकावगताविनाभाव-नियमा धर्माः सर्व एवाविशेषेण प्रसज्यन्ते। निवर्तक-प्रमाणाभावात् तथैवावतिष्ठन्ते। अत आगमाद् ऋते कथम् ईश्वरः सेत्स्यति।
Link copied[साक्षात् पूर्व-पक्षिणꣳ प्रस्तुत्योक्तिः]
Link copiedअत्राहुः-- सावयवत्वाद् एव जगतः कार्यत्वꣳ न प्रत्याख्यातुꣳ शक्यते। भवन्ति च प्रयोगाः---
Link copied१) विवादाध्यासितꣳ भू-भूधरादि कार्यꣳ, सावयवत्वात्, घटादिवत्। तथा, २) विवादाध्यासितम् अवनि-जलधि-महीधरादि कार्यꣳ, महत्त्वे सति क्रियावत्त्वात्, घटवत्। ३) तनु-भवनादि कार्यꣳ महत्त्वे सति मूर्तत्वात्, घटवत्-- इति। सावयवेषु द्रव्येषु इदम् एव क्रियते नेतरत् इति कार्यत्वस्य नियामकꣳ सावयवत्वातिरेकि रूपान्तरꣳ नोपलभामहे।
Link copied[उपाधि-शङ्का-परिहारौ]
Link copiedकार्यत्व-प्रतिनियतꣳ शक्य-क्रियत्वꣳ शक्योपादानादि-विज्ञानत्वꣳ चोपलभ्यत इति चेन् न, कार्यत्वेनानुमतेऽपि विषये ज्ञान-शक्ती कार्यानुमेये-- इत्य् अन्यत्रापि सावयवत्वादिना कार्यत्वꣳ ज्ञातम् इति ते च प्रतिपन्ने एवेति न कश्चिद् विशेषः। तथा हि घट-मणिकादिषु कृतेषु कार्य-दर्शनानुमित-कर्तृ-गत-तन्-निर्माण-शक्ति-ज्ञानः पुरुषोऽदृष्ट-पूर्वꣳ विचित्र-सन्निवेशꣳ नरेन्द्र-भवनम् आलोक्य अवयव-सन्निवेश-विशेषेण तस्य कार्यत्वꣳ निश्चित्य तदानीम् एव कर्तुस् तज्-ज्ञान-शक्ति-वैचित्र्यम् अनुमिनोति। अतस् तनु-भुवनादेः कार्यत्वे सिद्धे सर्व-साक्षात्कार-तन्-निर्माणादिनि पुणः कश्चित् पुरुष-विशेषः सिद्ध्यत्य् एव॥
Link copied[सिद्ध-साधनत्व-निरासः, अनुमानान्तर-प्रदर्शनꣳ च]
Link copiedकिꣳ च-- सर्व-चेतनानाꣳ धर्माधर्म-निमित्तेऽपि सुख-दुःखोपभोगे चेतनानधिष्ठितयोस् तयोर् अचेतनयोः फल-हेतुत्वानुपपत्तेः सर्व-कर्मानुगुण-सर्व-फल-प्रदान-चतुरः कश्चिद् आस्थेयः; वर्धकिनान् अधिष्ठितस्य वास्यादेर् अचेतनस्य देश-कालाद्य्-अनेक-परिकर-सन्निधानेऽपि यूपादि-निर्माण-साधनत्वादर्शनात्। बीजाङ्कुरादेः पक्षान्तर्भावेन तैर् व्यभिचारापादनꣳ श्रोत्रिय-वेतालानाम् अनभिज्ञताविजृम्भितम्। तत एव सुखादिभिः व्यभिचार-वचनम् अपि तथैव। न च लाघवेनोभय-वादि-सम्प्रतिपन्न-क्षेत्र-ज्ञानाम् एव ईदृशाधिष्ठातृत्व-कल्पनꣳ युक्तम्, तेषाꣳ सूक्ष्म-व्यवहित-विप्रकृष्ट-दर्शनाशक्ति-निश्चयात्। दर्शनानुगुणैव हि सर्वत्र-कल्पना। न च क्षेत्रज्ञवद् ईश्वरस्याशक्ति-निश्चयोऽस्ति। अतः प्रमाणान्तरतो न तत्-सिद्ध्य्-अनुपपत्तिः। समर्थ-कर्तृ-पूर्वकत्व-नियत-कार्यत्व-हेतुना सिध्यन् स्वाभाविक-सर्वार्थ-साक्षात्कार-तन्-नियमन-शक्ति-सम्पन्न एव सिद्ध्यति॥
Link copied[कार्यत्व-हेतोर् विरुद्धताव्युदाः]
Link copiedयत् त्व् अनैश्वर्याद्य् आपादनेन धर्मि-विशेष-विपरीत-साधनत्वम् उन्नीतम्, तद्-अनुमान-वृत्तानभिज्ञत्व-निबन्धनम्, सपक्षे सहदृष्टानाꣳ सर्वेषाꣳ कार्यस्याहेतु-भूतानाꣳ, च धर्माणाꣳ लिङ्गिन्य् अप्राप्तेः॥
Link copiedएतद् उक्तꣳ भवति-- केनचित् किञ्चित् क्रियमाणꣳ स्वोत्पत्तये कर्तुः स्व-निर्माण-सामर्थ्यꣳ स्वोपादानोपकरण-ज्ञानꣳ चापेक्षते; न त्व् अन्यासामर्थ्यम् अन्याज्ञानꣳ च, हेतुत्वाभावात्। स्व-निर्माण-सामर्थ्य-स्वोपादानोपकरण-ज्ञानाभ्याम् एव स्वोत्पत्ताव् उपपन्नायाꣳ सम्बन्धितया दर्शन-मात्रेणाकिञ्चित्करस्य अर्थान्तराज्ञानादेर् हेतुत्व-कल्पनायोगात्-- इति। किꣳ च-- क्रियमाण-वस्तु-व्यतिरिक्तार्थाज्ञानादिकꣳ किꣳ सर्व-विषयꣳ क्रियोपयोगि; उत कतिपय-विषयम्। न तावत् सर्व-विषयम्; न हि कुलालादिः क्रियमाण-व्यतिरिक्तꣳ किम् अपि न जानाति। नापि कतिप-यविषयम्, सर्वेषु कर्तृषु तत्-तद्-अज्ञानाशक्त्य-नियमेन सर्वेषाम् अज्ञानादीनाꣳ व्यभिचारात्। अतः कार्यत्वस्यासाधकानाम् अनीश्वरत्वादीनाꣳ लिङ्गिन्य् अप्राप्तिर् इति न विपरीत-साधनत्वम्॥
Link copied[शरीरस्य कार्योपयोगित्व-शङ्का-परिहारौ]
Link copiedकुलालादीनाꣳ दण्ड-चक्राद्य्-अधिष्ठानꣳ शरीर-द्वारेणैव दृष्टम् इति जगद्-उपादानोपकरणाधिष्ठानम् ईश्वरस्याशरीरस्यानुपपन्नम् इति चेन् न, सङ्कल्प-मात्रेणैव पर-शरीर-गत-भूत-वेताल-गरलाद्य्-अपगम-विनाश-दर्शनात्। कथम् अशरीरस्य पर-प्रवर्तन-रूपः सङ्कल्प इति चेन् न शरीरापेक्षः सङ्कल्पः, शरीरस्य सङ्कल्प-हेतुत्वाभावात्। मन एव हि सङ्कल्प-हेतुः। तद्-अभ्युपगतम् ईश्वरेऽपि, कार्यत्वेनैव ज्ञान-शक्तिवन् मनसोऽपि प्राप्तत्वात्। मानसः सङ्कल्पः सशरीरस्यैव, सशरीरस्यैव समनस्कत्वाद् इति चेन् न, मनसो नित्यत्वेन देहापगमेऽपि मनसः सद्भावेनानैकान्त्यात्। अतो विचित्रावयव-सन्निवेश-विशेषतनुभुवनादि-कार्य-निर्माणे पुण्य-पाप-परवशः परिमित-शक्ति-ज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिल-भुवन-निर्माण-चतुरोऽचिन्त्या-परिमित-ज्ञान-शक्त्य्-ऐश्वर्योऽशरीरः सङ्कल्प-मात्र-साधन-परिनिष्पन्न अनन्त-विस्तार-विचित्र-रचन-प्रपञ्चः पुरुष-विशेष ईश्वरोऽनुमानेनैव सिद्ध्यति॥
Link copied[ब्रह्मणि शास्त्राप्रामाण्य-निगमनम्]
Link copiedअतः प्रमाणान्तरावसेयत्वाद् ब्रह्मणो नैतद् वाक्यꣳ ब्रह्म प्रतिपादयति॥
Link copiedकिꣳ च--- अत्यन्त-भिन्नयोर् एव मृद्-द्रव्य-कुलालयोर् निमित्तोपादानत्व-दर्शनेनाकाशादेर् निरवयव-द्रव्यस्य कार्यत्वानुपपत्त्या च नैकम् एव ब्रह्म कृत्स्नस्य जगतो निमित्तम् उपादानꣳ च प्रतिपादयितुꣳ शक्नोतीति॥
Link copied[सिद्धान्तोपक्रमः, तत्र परम-साध्य-प्रतिज्ञा]
Link copiedएवꣳ प्राप्ते ब्रूमः-- यथोक्त-लक्षणꣳ ब्रह्म जन्मादि-वाक्यꣳ बोधयत्य् एव। कुतः शास्त्रैक-प्रमाणकत्वाद् ब्रह्मणः।
Link copied[पूर्व-पक्षानुभाषण-पूर्वकꣳ दूषणम्]
Link copiedयद् उक्तꣳ सावयवत्वादिना कार्यꣳ सर्वꣳ जगत्। कार्यꣳ च तद्-उचित-कर्तृ-विशेष-पूर्वकꣳ दृष्टम् इति निखिल-जगन्-निर्माण-तद्-उपादानोपकरण-वेदन-चतुरः कश्चिद् अनुमेयः-- इति, तद् अयुक्तम्, मही-महार्णवादीनाꣳ कार्यत्वेऽप्य् एकदैवैकेनैव निर्मिता इत्य् अत्र प्रमाणाभावात्। न चैकस्य घटस्येव सर्वेषाम् एकꣳ कार्यत्वम्, येनैक-दैवैकः कर्ता स्यात्। पृथग् भूतेषु कार्येषु काल-भेद-कर्तृ-भेद-दर्शनेन कर्तृ-कालैक्य-नियमादर्शनात्। न च क्षेत्र-ज्ञानाꣳ विचित्र-जगन्-निर्माणाशक्त्या कार्यत्व-बलेन तद्-अतिरिक्त-कल्पनायाम् अनेक-कल्पनानुपपत्तेश् चैकः कर्ता भवितुम् अर्हातीति क्षेत्रज्ञानाम् एवोपचित-पुण्य-विशेषाणाꣳ शक्ति-वैचित्र्य-दर्शनेन तेषाम् एव अतिशयितादृष्ट-सम्भावनया च तत्-तद्-विलक्षण-कार्य-हेतुत्व-सम्भवात्, तद्-अतिरिक्तात्यन्तादृष्ट-पुरुष-कल्पनानुपपत्तेः। न च युगपत्सर्वोत्पत्तिः सर्वोच्छित्तिश् च प्रमाण-पदवीम् अधिरोहतः, अदर्शनात्, क्रमेणैवोत्पत्ति-विनाश-दर्शनाच् च। कार्यत्वेन सर्वोत्पत्ति-विनाशयोः कल्प्यमानयोर् दर्शनानुगुण्येन कल्पनायाꣳ विरोधाभावाच् च।
Link copied[फलित-दूषक-प्रदर्शनम्]
Link copiedअतो बुद्धिमद् एक-कर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्; पक्षस्याप्रसिद्ध-विशेषणत्वम्; साध्य-विकलता च दृष्टान्तस्य; सर्व-निर्माण-चतुरस्य एकस्याप्रसिद्धेः। बुद्धिमत्-कर्तृकत्व-मात्रे साध्ये सिद्ध-साधनता॥
Link copied[विकल्पन-पूर्वकꣳ मुखान्तरेण दूषणम्]
Link copiedसार्वज्ञ्य-सर्व-शक्ति-युक्तस्य कस्यचिद् एकस्य साधकम् इदꣳ कार्यत्वꣳ किꣳ युगपद्-उत्पद्यमान-सर्व-वस्तु-गतम् उत क्रमेणोत्पद्यमान-सर्व-वस्तु-गतꣳ युगपद्-उत्पद्यमान-सर्व-वस्तु-गतत्वे कार्यत्वस्यासिद्धता। क्रमेणोत्पद्यमान-सर्व-वस्तु-गतत्वे अनेक-कर्तृकत्व-साधनाद् विरुद्धता। अत्राप्येक-कर्तृकत्व-साधने प्रत्यक्षानुमानविरोधः शास्त्र-विरोधश् च; कुम्भकारो जायते, रथकारो जायते इत्य् आदि श्रवणात्॥
Link copied[कार्यत्व-हेतोः प्रकारान्तरेण विरुद्धत्वोपपादनम्]
Link copiedअपि च-- सर्वेषाꣳ कार्याणाꣳ शरीरादीनाꣳ च सत्त्वादि-गुण-कार्य-रूप-सुखाद्य्-अन्वय-दर्शनेन सत्वादि-मूलत्वम् अवश्याश्रयणीयम्। कार्य-वैचित्र्य-हेतु-भूताः कारण-गता विशेषाः सत्त्वादयः। तेषाꣳ कार्याणाꣳ तन्-मूलत्वापादनꣳ तद्-युक्त-पुरुषान्तःकरण-विकार-द्वारेण। पुरुषस्य च तद्-योगः कर्म-मूल इति कार्य-विशेषारम्भायैव, ज्ञान-शक्तिवत्-कर्तुः कर्म-सम्बन्धः कार्य-हेतुत्वेनैवावश्याश्रयणीयः; ज्ञान-शक्ति-वैचित्र्यस्य च कर्म-मूलत्वात्। इच्छायाः कार्यारम्भ-हेतुत्वेऽपि विषय-विशेष-विशेषितायास् तस्याः सत्त्वादि-मूलकत्वेन कर्म-सम्बन्धोऽवर्जनीयः॥
Link copiedअतः क्षेत्रज्ञा एव कर्तारः; न तद्-विलक्षणः कश्चिद् अनुमानात् सिद्ध्यति॥
Link copiedभवन्ति च प्रयोगाः-- १) तनु-भुवनादि क्षेत्रज्ञ-कर्तृकम्, कार्यत्वात्, घटवत्। २) ईश्वरः कर्ता न भवति, प्रयोजन-शून्यत्वात्, मुक्तात्मवत्। ३) ईश्वरः कर्ता न भवति, अशरीरत्वात् तद्वद् एव। न च क्षेत्रज्ञानाꣳ स्व-शरीराधिष्ठाने व्यभिचारः, तत्राप्य् अनादेः सूक्ष्म-शरीरस्य सद्-भावात्। ४) विमति-विषयः कालो न लोक-शून्यः, कालत्वाद् वर्तमान-कालवत् इति॥
Link copied[कार्यत्व-हेतुकानुमानस्य प्रकारान्तरेण दूषणम्]
Link copiedअपि च-- किम् ईश्वरः सशरीरोऽशरीरो वा कार्यꣳ करोति। न तावद् अशरीरोऽशरीरस्य कर्तृत्वानुपलब्धेः। मानसान्य् अपि कार्याणि सशरीरस्यैव भवन्ति, मनसो नित्यत्वेऽप्य् अशरीरेषु मुक्तेषु तत्-कार्यादर्शनात्। नापि सशरीरः, विकल्पासहत्वात्। तच्-छरीरꣳ किꣳ नित्यम् उतानित्यम्। न तावन् नित्यम्, सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः। नाप्य् अनित्यम्, तद्-व्यतिरिक्तस्य तच्-छरीर-हेतोस् तदानीम् अभावात्। स्वयम् एव हेतुर् इति चेन् न, अशरीरस्य तद्-अयोगात्। अन्येन शरीरेण सशरीर इति चेन् न, अनवस्थानात्॥
Link copied[पुनः प्रकारान्तरेण विकल्प्य दूषणम्]
Link copiedस किꣳ सव्यापारो निर्व्यापारो वा। अशरीरत्वाद् एव न सव्यापारः। नापि निर्व्यापारः कार्यꣳ करोति, मुक्तात्मवत्। कार्यꣳ जगद्-इच्छा-मात्र-व्यापार-कर्तृकम् इत्य् उच्यमाने पक्षस्याप्रसिद्ध-विशेषणत्वम्, दृष्टान्तस्य च साध्य-हीनता॥
Link copied[अनुमान-दूषणोपसꣳहारः]
Link copiedअतो दर्शनानुगुण्येन ईश्वरानुमानꣳ दर्शनानुगुण्यपराहतम् इति शास्त्रैक-प्रमाणकः परब्रह्म-भूतः सर्वेश्वरः पुरुषोत्तमः॥
Link copied[शास्त्रस्यार्थ-प्रतिपादने दोष-गन्धानवकाशः]
Link copiedशास्त्रꣳ तु सकलेतर-प्रमाण-परिदृष्ट-समस्त-वस्तु-विसजातीयꣳ सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-मिश्र अनवधिकातिशयापरिमितोदार-गुण-सागरꣳ निखिल-हेय-प्रत्यनीक-स्वरूपꣳ प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य-प्रयुक्त-दोष-गन्ध-प्रसङ्गः॥
Link copied[निमित्तोपादानयोर् ऐक्यस्यानुपलम्भ-पराहतत्व-निरासः]
Link copiedयत् तु निमित्तोपादानयोर् ऐक्यम् आकाशादेर् निरवयव-द्रव्यस्य कार्यत्वꣳ चानुपलब्धम् अशक्य-प्रतिपादनम् इत्य् उक्तम्, तद् अप्य् अविरुद्धम् इति प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् [ब्र। सू। १।४।२३], न वियद् अश्रुतेः [ब्र। सू। २।३।१] इत्य् अत्र प्रतिपादयिष्यते॥
Link copied[अधिकरणार्थोपसꣳहारः]
Link copiedअतः प्रमाणान्तरागोचरत्वेन शास्त्रैक-विषयत्वाद् यतो वा इमानि भूतानि [तै।,३।१] इति वाक्यम् उक्त-लक्षणꣳ ब्रह्म प्रतिपादयतीति सिद्धम्॥
Link copied॥ इति शास्त्रयोनित्वाधिकरणम्॥३॥
Link copied[साफल्य-रूप-तात्पर्य-लिङ्ग-समर्थन-परम्]
Link copiedसमन्वयाधिकरणम्॥४॥
Link copied[अधिकरणार्थः-- ब्रह्मणः स्वतः पुरुषार्थतया अन्वयः]
Link copied[अवान्तर-सङ्गतिः]
Link copiedयद्य् अपि प्रमाणान्तरागोचरꣳ ब्रह्म तथापि प्रवृत्ति-निवृत्ति-परत्वाभावेन सिद्ध-रूपꣳ ब्रह्म न शास्त्रꣳ प्रतिपादयतीत्य् आशङ्क्याह---
Link copied४ तत् तु समन्वयात्॥१।१।४॥
Link copied[सूत्रव्याख्यानम्]
Link copiedप्रसक्ताशङ्का-निवृत्त्य्-अर्थस् तु शब्दः। तत् शास्त्र-प्रमाणकत्वꣳ ब्रह्मणः सम्भवत्य् एव। कुतः समन्वयात्-- परम-पुरुषार्थतयान्वयः समन्वयः, परम-पुरुषार्थ-भूतस्यैव ब्रह्मणोऽभिधेयतयान्वयात्॥
Link copied[समन्वयोपपादनम्]
Link copiedएवम् इव समन्वितो ह्य् औपनिषदः पद-समुदायः-- यतो वा इमानि भूतानि जायन्ते [तै।, ३।१], सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्। तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।१।३], ब्रह्म वा इदम् एकम् एवाग्र आसीत् [बृहद्।, ३।२।११], आत्मा वा इदम् एक एवाग्र आसीत् [ऐत।, १।१।१], तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।, २।१], एको ह वै नारायण आसीत् [माण्ड्।, १।१], सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१], आनन्दो ब्रह्म [तै।, ३।६] इत्य् एवम् आदिः॥
Link copied[प्रवृत्ति-निवृत्त्य्-अन्वयस्य प्रामाण्य-व्यापकत्वाभावोपपादनम्]
Link copiedन च व्युत्पत्ति-सिद्ध-परिनिष्पन्न-वस्तु-प्रतिपादन-समर्थानाꣳ पद-समुदायानाम् अखिल-जगद्-उत्पित्ति-स्थिति-विनाश-हेतु-भूताशेष-दोष-प्रत्यनीकापरिमितोदार-गुण-सागरानवधिकातिशयानन्द-स्वरूपे ब्रह्मणि समन्वितानाꣳ प्रवृत्ति-निवृत्ति-रूप-प्रयोजन-विरहाद् अन्य-परत्वꣳ स्व-विषयावबोध-पर्यवसायित्वात् सर्व-प्रमाणानाम्। न च प्रयोजनानुगुणा प्रमाण-प्रवृत्तिः। प्रयोजनꣳ हि प्रमाणानुगुणम्। न च प्रवृत्ति-निवृत्त्य्-अन्वय-विरहिणः प्रयोजन-शून्यत्वम्, पुरुषार्थान्वय-प्रतीतेः। तथा स्वरूप-परेष्व् अपि पुत्रस् ते जातः, नायꣳ सर्पः इत्य् आदिषु हर्ष-भय-निवृत्ति-रूप-प्रयोजनवत्त्वꣳ दृष्टम्॥
Link copied[विस्तरेण पूर्व-पक्षावतरणम्]
Link copied[तत्र भाट्ट-मीमाꣳसकानाꣳ पूर्व-पक्ष-विधा]
Link copiedअत्राह-- न वेदान्त-वाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्ति-निवृत्य्-अन्वय-विरहिणः शास्त्रस्यानर्थक्यात्॥
Link copiedयद्य् अपि प्रत्यक्षादीनि वस्तु-याथात्म्यावबोधे पर्यवस्यन्ति तथापि शास्त्रꣳ प्रयोजनपर्यवसाय्येव। न हि लोक-वेदयोः प्रयोजन-रहितस्य कस्यचिद् अपि वाक्यस्य प्रयोग उपलब्ध-चरः। न च किञ्चित् प्रयोजनम् अनुद्दिश्य वाक्य-प्रयोगः श्रवणꣳ वा सम्भवति। तच् च प्रयोजनꣳ प्रवृत्ति-निवृत्ति-साध्येष्टानिष्ट-प्राप्ति-परिहारात्मकम् उपलब्धम् अर्थार्थी राज-कुलꣳ गच्छेत्, मन्दाग्निर् नाम्बु पिबेत्, स्वर्ग-कामो यजेत [यजुर्, २।५।५], न कलञ्जꣳ भक्षयेत् इत्य् एवम् आदिषु॥
Link copied[पूर्व-पक्षे सिद्ध-मात्र-व्युत्पत्ति-दूषणम्]
Link copiedयत् पुनः सिद्ध-वस्तु-परेष्व् अपि पुत्रस् ते जातः, नायꣳ सर्पो रज्जुर् एषा इत्य् आदिषु हर्ष-भय-निवृत्ति-रूप-पुरुषार्थान्वयो दृष्ट इत्य् उक्तम्। तत्र किꣳ पुत्र-जन्माद्य्-अर्थात् पुरुषार्थावाप्तिर् उत तज्-ज्ञानाद् इति विवेचनीयम्। सतोऽप्य् अज्ञातस्यापुरुषार्थत्वेन तज्-ज्ञानाद् इति चेत्-- तर्ह्य् असत्य् अप्य् अर्थे ज्ञानाद् एव पुरुषार्थः सिध्यतीत्य् अर्थ-परत्वाभावेन प्रयोजन-पर्यवसायिनोऽपि शास्त्रस्य नार्थ-सद्-भावे प्रामाण्यम्। तस्मात् सर्वत्र प्रवृत्ति-निवृत्ति-परत्वेन ज्ञान-परत्वेन वा प्रयोजन-पर्यवसानम् इति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासम्भवान् न वेदान्ताः परिनिष्पन्नꣳ ब्रह्म प्रतिपादयन्ति॥
Link copied[निष्प्रपञ्चीकरण-नियोग-वादो जरन्-मायावादि-मतम्]
Link copiedअत्र कश्चिद् आह-- वेदान्त-वाक्यान्य् अपि कार्य-परतयैव ब्रह्मणि प्रमाण-भावम् अनुभवन्ति-- कथꣳ निष्प्रपञ्चम् अद्वितीयꣳ ज्ञानैकरसꣳ ब्रह्मानाद्य्-अविद्यया सप्रपञ्चतया प्रतीयमानꣳ निष्प्रपञ्चꣳ कुर्याद् इति ब्रह्मणः प्रपञ्च-प्रविलय-द्वारेण विधि-विषयत्वम्-- इति। कोऽसौ द्रष्टृ-दृश्य-रूप-प्रपञ्च-प्रविलय-द्वारेण साध्य-ज्ञानैकरस-ब्रह्म-विषयो विधिः। न दृष्टेर् द्रष्टारꣳ पश्येः। न मतेर् मन्तारꣳ मन्वीथाः [बृहद्।, ३।४।२] इत्य् आदिः। द्रष्टृ-दृश्य-रूप-भेद-शून्य-दृशि-मात्रꣳ ब्रह्म कुर्याद् इत्य् अर्थः। स्वतः सिद्धस्यापि ब्रह्मणो निष्प्रपञ्चता-रूपेण कार्यत्वम् अविरुद्धम्-- इति॥
Link copied[एतन्-मत-दूषणꣳ प्रधान-पूर्व-पक्षिणा मीमाꣳसकेन]
Link copiedतद् अयुक्तम्-- नियोग-वाक्यार्थ-वादिना हि नियोगः, नियोज्य-विशेषणम्, विषयः करणम्, इतिकर्तव्यता, प्रयोक्ता च वक्तव्याः॥ तत्र हि नियोज्य-विशेषणम् अनुपादेयम्। तच् च निमित्तꣳ फलम् इति द्विधा। अत्र किꣳ नियोज्य विशेषणꣳ तच् च किꣳ निमित्तꣳ फलꣳ वेति विवेचनीयम्। ब्रह्म-स्वरूप-याथात्म्यानुभवश् चेन् नियोज्य-विशेषणम्; तर्हि न तन्-निमित्तम्, जीवानादिवत् तस्यासिद्धत्वात्। निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तर-कालम् अपि जीव-निमित्ताग्निहोत्रादिवन् नित्य-तद्-विषयानुष्ठान-प्रसङ्गः। नापि फलꣳ, नैयोगिक-फलत्वेन स्वर्गादिवद् अनित्यत्व-प्रसङ्गात्॥
Link copiedकश् चात्र नियोग-विषयो ब्रह्मैवेति चेन् न, तस्य नित्यत्वेनाभव्य-रूपत्वात्, अभावार्थत्वाच् च। निष्प्रपञ्चꣳ ब्रह्म साध्यम् इति चेत्, साध्यत्वेऽपि फलत्वम् एव। अभावार्थत्वान् न विधि-विषयत्वम्। साध्यत्वꣳ च कस्य किꣳ ब्रह्मणः, उत प्रपञ्च-निवृत्तेर् न तावद् ब्रह्मणः, सिद्धत्वात्, अनित्यत्व-प्रसक्तेश् च। अथ प्रपञ्च-निवृत्तेर् न तर्हि ब्रह्मणः साध्यत्वम्। प्रपञ्च-निवृत्तिर् एव विधि-विषय इति चेन् न, तस्याः फलत्वेन विधि-विषयत्वायोगात्। प्रपञ्च-निवृत्तिर् एव हि मोक्षः। स च फलम्। अस्य च नियोग-विषयत्वे नियोगात् प्रपञ्च-निवृत्तिः, प्रपञ्च-निवृत्त्या नियोगः इतीतरेतराश्रयत्वम्॥
Link copied[प्रकारान्तरेण नियोग-वादि-मत-दूषणम्]
Link copiedअपि च-- किꣳ निवर्तनीयः प्रपञ्चो मिथ्या-रूपः सत्यो वा। मिथ्या-रूपत्वे ज्ञान-निवर्त्यत्वाद् एव नियोगेन न किञ्चित् प्रयोजनम्। नियोगस् तु निवर्तक-ज्ञानम् उत्पाद्य तद्-द्वारेण प्रपञ्चस्य निवर्तक इति चेत्-- तत् स्व-वाक्याद् एव जातम् इति नियोगेन न प्रयोजनम्। वाक्यार्थ-ज्ञानाद् एव ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य मिथ्या-भूतस्य प्रपञ्चस्य बाधितत्वात् सपरिकरस्य नियोगस्यासिद्धिश् च। प्रपञ्चस्य निवर्त्यत्वे प्रपञ्च-निवर्तको नियोगः किꣳ ब्रह्म-स्वरूपम् एव, उत तद्-व्यतिरिक्तः। यदि ब्रह्म-स्वरूपम् एव निवर्तकस्य नित्यतया निवर्त्य-प्रपञ्च-सद्-भाव एव न सम्भवति। नित्यत्वेन नियोगस्य विषयानुष्ठान-साध्यत्वꣳ च न घटते। अथ ब्रह्म-स्वरूप-व्यतिरिक्तः। तस्य कृत्स्न-प्रपञ्च-निवृत्ति-रूप-विषयानुष्ठान-साध्यत्वेन प्रयोक्ता च नष्ट इत्य् आश्रयाभावाद् असिद्धिः। प्रपञ्च-निवृत्ति-रूप-विषयानुष्ठानेनैव ब्रह्म-स्वरूप-व्यतिरिक्तस्य कृत्स्नस्य निवृत्तत्वात्। न नियोग-निष्पाद्यꣳ मोक्षाख्यꣳ फलम्। किꣳ च-- प्रपञ्च-निवृत्तेर् नियोग-करणस्य इतिकर्तव्यताभावात्, अनुपकृतस्य च करणत्वायोगान् न करणत्वम्। कथम् इतिकर्तव्यताभाव इति चेत्-- इत्थम्-- अस्येतिकर्तव्यता भाव-रूपा अभाव-रूपा वा। भाव-रूपा च करण-शरीर-निष्पत्ति-तद्-अनुग्रह-कार्य-भेद-भिन्ना। उभय-विधा च न सम्भवति। न हि मुद्गराभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तकः कोऽपि दृश्यत इति दृष्टार्था न सम्भवति। नापि निष्पन्नस्य कारणस्य कार्योत्पत्तावनुग्रहः सम्भवति, अनुग्राहकाꣳश-सद्-भावेन कृत्स्न-प्रपञ्च-निवृत्ति-रूप-करण-स्वरूपासिद्धेः। ब्रह्मणोऽद्वितीयत्व-ज्ञानꣳ प्रपञ्च-निवृत्ति-रूप-करण-शरीरꣳ निष्पादयतीति चेत् तेनैव प्रपञ्च-निवृत्ति-रूपो मोक्षः सिद्ध इति न करणादिनिष्पाद्यम् अवशिष्यत इति पूर्वम् एवोक्तम्। अभाव-रूपत्वे चाभावाद् एव न करण-शरीरꣳ निष्पादयति। नाप्य् अनुग्राहकः। अतो निष्प्रपञ्च-ब्रह्म-विषयो विधिर् न सम्भवति॥
Link copied[ध्यान-नियोग-वादि-पक्षोपक्षेपः]
Link copiedअन्योऽप्याह-- यद्य् अपि वेदान्त-वाक्यानाꣳ न परिनिष्पन्न-ब्रह्म-स्वरूप-परतया प्रामाण्यम्। तथापि ब्रह्म-स्वरूपꣳ सिध्यत्य् एव। कुतः। ध्यान-विधि-सामर्थ्यात्। एवम् एव हि समामनन्ति-- आत्मा वा अरे द्रष्टव्यः ॥। निदिध्यासितव्यः [बृहद्।, ४।४।५] य आत्मा अपहत-पाप्मा सोऽन्वेष्टव्यः स विजिज्ञासतिव्यः [छान्।, ८।७।१] आत्मेत्य् एवोपासीत [बृहद्।, ३।४।७] आत्मानम् एव लोकम् उपासीत इति। अत्र ध्यान-विषयो हि नियोगः स्व-विषय-भूत-ध्यानꣳ ध्येयैक-निरूपणीयम् इति ध्येयम् आक्षिपति। स च ध्येयः स्व-वाक्य-निर्दिष्ट आत्मा। स किꣳ-रूप इत्य् अपेक्षायाꣳ तत्-स्वरूप-विशेष-समर्पण-द्वारेण सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] इत्य् एवम् आदीनाꣳ वाक्यानाꣳ ध्यान-विधि-शेषतया प्रामाण्यम्-- इति। विधि-विषय-भूत-ध्यान-शरीरानुप्रविष्ट-ब्रह्म-स्वरूपेऽपि तात्पर्यम् अस्त्य् एव। अतः एकम् एवाद्वतीयम् [छान्।, ६।२।१] तत् सत्यꣳ स आत्मा तत्त्वम् असि श्वेतकेतो [छान्।, ६।८।७], नेह नानास्ति किञ्चन [कठ।, ४।११] इत्य् आदिभिर् ब्रह्म-स्वरूपम् एकम् एव सत्यꣳ तद्-व्यतिरिक्तꣳ सर्वꣳ मिथ्येत्य् अवगम्यते। प्रत्यक्षादिभिः भेदावलम्बिना च कर्म-शास्त्रेण भेदः प्रतीयते। भेदाभेदयोः परस्पर-विरोधे सत्य् अनाद्य्-अविद्या-मूलत्वेनापि भेद-प्रतीत्य्-उपपत्तेर् अभेद एव परमार्थ इति निश्चीयते। तत्र ब्रह्म-ध्यान-नियोगेन तत्-साक्षात्कार-फलेन निरस्त-समस्ताविद्या-कृत-विविध-भेदाद्वितीय-ज्ञानैकरस-ब्रह्म-रूप-मोक्षः प्राप्यते॥
Link copiedन च वाक्याद् वाक्यार्थ-ज्ञान-मात्रेण ब्रह्म-भाव-सिद्धिः, अनुपलब्धेः; विविध-भेद-दर्शनानुवृत्तेश् च। तथा च सति श्रवणादि-विधानम् अनर्थकꣳ स्यात्॥
Link copied[मायावादि-कृतो ध्यान-नियोग-वादि-पक्ष-प्रतिक्षेपः]
Link copiedअथोच्येत-- रज्जुर् एषा न सर्पः इत्य् उपदेशेन सर्प-भय-निवृत्ति-दर्शनाद् रज्जु-सर्पवत् बन्धस्य च मिथ्या-रूपत्वेन ज्ञान-बाध्यतया तस्य वाक्य-जन्य-ज्ञानेनैव निवृत्तिर् युक्ता, न नियोगेन। नियोग-साध्यत्वे मोक्षस्यानित्यत्वꣳ स्यात्, स्वर्गादिवत्। मोक्षस्य नित्यत्वꣳ हि सर्व-वादि-सम्प्रतिपन्नम्।
Link copied[नियोगस्य विपरीत-फल-प्रदत्वम्]
Link copiedकिꣳ च धर्माधर्मयोः फल-हेतुत्वꣳ स्व-फलानुभवानुगुण-शरीरोत्पादन-द्वारेणेति ब्रह्मादिस्थावरान्त-चतुर्-विध-शरीर-सम्बन्ध-रूप-सꣳसार-फलत्वम् अवर्जनीयम्। तस्मान् न धर्म-साध्यो मोक्षः। तथा च श्रुतिर् न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति। अशरीरꣳ वा व सन्तꣳ न प्रियाप्रिये स्पृशतः [छान्।, ८।१२।१] इत्य् अशरीरत्व-रूपे मोक्षे धर्माधर्म-साध्य-प्रियाप्रिय-विरह-श्रवणात्, न धर्म-साध्यम् अशरीरत्वम् इति विज्ञायते। न च नियोग-विशेष-साध्य-फल-विशेषवद् ध्यान-नियोग-साध्यम् अशरीरत्वम्, अशरीरत्वस्य स्वरूपत्वेनासाध्यत्वात्। यथाहुः श्रुतयः-- अशरीरꣳ शरीरेष्व् अनवस्थेष्व् अवस्थितम्। महान्तꣳ विभुम् आत्मानꣳ मत्वा धीरो न शोचति [कठ।, १।२।२२], अप्राणो ह्य् अमनाः शुभ्रः [मुण्ड्।, २।१।२], असङ्गो ह्य् अयꣳ पुरुषः [बृहद्।, ६।३।१५] इत्य् आद्याः। अतोऽशरीरत्व-रूपो मोक्षो नित्य इति न धर्म-साध्यः। तथा च श्रुतिः--- अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताद् भव्याच् च यत् तत् पश्यसि तद्वत् [कठ।, १।२।१४] इति॥
Link copied[मुखान्तरेण मोक्षस्य नियोग-साध्यत्व-दूषणम्]
Link copiedअपि च-- उत्पत्ति-प्राप्तिविकृति-सꣳस्कृति-रूपेण चतुर्-विधꣳ हि साध्यत्वꣳ मोक्षस्य न सम्भवति। न तावद् उत्पाद्यः, मोक्षस्य ब्रह्म-स्वरूपत्वेन नित्यत्वात्। नापि प्राप्यः, आत्म-स्वरूपत्वेन ब्रह्मणो नित्य-प्राप्तत्वात्। नापि विकार्यः, दध्य्-आदिवद् अनित्यत्व-प्रसङ्गाद् एव। नापि सꣳस्कार्यः; सꣳस्कारो हि दोषापनयनेन वा गुणाधानेन वा साधयति। न तावद् दोषापनयनेन, नित्य-शुद्धत्वाद् ब्रह्मणः। नाप्य् अतिशयाधानेन, अनाधेयातिशय-स्वरूपत्वात्। नित्य-निर्विकारत्वेन स्वाश्रयायाः पराश्रयायाश् च क्रियाया अविषयतया न निर्घर्षणेनादर्शादिवद् अपि सꣳस्कार्यत्वम्। न च देहस्थया स्नानादि-क्रियया आत्मा सꣳस्क्रियते; किꣳ त्व् अविद्या-गृहीतस् तत्-सङ्गतोऽहङ्कर्ता। तत्-फलानुभवोऽपि तस्यैव। न चाहङ्कर्तैवात्मा, तत्-साक्षित्वात्। तथा च मन्त्र-वर्णः--- तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [मुण्ड्।, ३।१।१] इति; आत्मेन्द्रिय-मनो-युक्तꣳ भोक्तेत्य् आहुर् मनीषिणः [कठ।, ३।४], एको देवः सर्व-भूतेषु गूढः सर्व-व्यापी सर्व-भूतान्तरात्मा। कर्माध्यक्षः सर्व-भूताधिवासः साक्षी चेता केवलो निर्गुणश् च। [श्वे।, ६।११], स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपाप-विद्धम्। [ईश। ८] इति च। अविद्या-गृहीताद् अहङ्कर्तुर् आत्म-स्वरूपम् अनाधेयातिशयꣳ नित्य-शुद्धꣳ निर्विकारꣳ निष्कृष्यते। तस्माद् आत्म-स्वरूपत्वेन न साध्यो मोक्षः॥
Link copied[ज्ञान-वैयर्थ्य-शङ्का-परिहारौ]
Link copiedयद्य् एवꣳ किꣳ वाक्यार्थ-ज्ञानेन क्रियत इति चेत्-- मोक्ष-प्रतिबन्ध-निवृत्ति-मात्रम् इति ब्रूमः। तथा च श्रुतयः--- त्वꣳ हि नः पिता योऽस्माकम् अविद्यायाः परꣳ पारꣳ तारयसि [प्रश्।, ६।८] इति, श्रुतꣳ ह्य् एवम् एव भगवद्-दृशेभ्यस् तरति शोकम् आत्मविद् इति, सोऽहꣳ भगवः शोचामि। तꣳ मा भगवान् शोकस्य पारꣳ तारयतु [छान्।, ७।१।३], तस्मै मृदित-कषायाय तमसः पारꣳ दर्शयति भगवान् सनत्कुमारः [छान्।, ७।२६।२] इत्य् आद्याः। तस्मान् नित्यस्यैव मोक्षस्य प्रतिबन्ध-निवृत्तिर् वाक्यार्थ-ज्ञानेन क्रियते। निवृत्तिस् तु साध्यापि प्रध्वꣳसाभाव-रूपा न विनश्यति। ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्। ३।२।९], तम् एव विदित्वातिमृत्युम् एति [श्वे।, ३।८] इत्य् आदि वचनꣳ मोक्षस्य वेदनानन्तर-भाविताꣳ प्रतिपादयन् नियोग-व्यवधानꣳ प्रतिरुणद्धि। न च विदिक्रिया कर्मत्वेन वा ध्यान-क्रिया-कर्मत्वेन वा कार्यानुप्रवेश उभय-विध-कर्मत्व-प्रतिषेधात्। अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [केन १।३], येनेदꣳ सर्वꣳ विजानाति तत् केन विजानीयात् इति। [बृहद्।, ४।४।१४], तद् एव ब्रह्म त्वꣳ विद्धि नेदꣳ यद् इदम् उपासते [केन १।५] इति च॥
Link copiedन चैतावता शास्त्रस्य निर्वषयत्वम्, अविद्या-कल्पित-भेद-निवृत्ति-परत्वाच् छास्त्रस्य। न हीदन्तया ब्रह्म विषयीकरोति शास्त्रम्, अपि त्व् अविषयꣳ प्रत्यगात्म-स्वरूपꣳ प्रतिपादयद् अविद्या-कल्पित-ज्ञान-ज्ञातृ-ज्ञेय-विभागꣳ निवर्तयति। तथा च शास्त्रꣳ-- न दृष्टेर् द्रष्टारꣳ पश्येः [बृहद्।, ५।४।२] इत्य् एवम् आदि॥
Link copied[ज्ञानाद् एव बन्ध-निवृत्त्य्-अभ्युपगमे शास्त्र-प्रत्यक्ष-विरोध-शङ्का-परिहारौ]
Link copiedन च ज्ञानाद् एव बन्ध-निवृत्तिर् इति श्रवणादि-विध्यानर्थक्यम्, स्वभाव-प्रवृत्त-सकलेतर-विकल्प-विमुखीकरण-द्वारेण वाक्यार्थावगति-हेतुत्वात् तेषाम्। न च ज्ञान-मात्राद् बन्ध-निवृत्तिर् न दृष्टेति वाच्यम्, बन्धस्य मिथ्या-रूपत्वेन ज्ञानोत्तर-कालꣳ स्थित्य्-अनुपपत्तेः। अत एव न शरीर-पाताद् ऊर्ध्वम् एव बन्ध-निवृत्तिर् इति वक्तुꣳ युक्तम्। न हि मिथ्या-रूप-सर्प-भय-निवृत्तिः रज्जु-याथात्म्य-ज्ञानातिरेकेण सर्प-विनाशम् अपेक्षते। यदि शरीर-सम्बन्धः पारमार्थिकः तदा हि तद्-विनाशापेक्षा। स तु ब्रह्म-व्यतिरिक्ततया न पारमार्थिकः। यस्य तु बन्धो न निवृत्तः, तस्य ज्ञानम् एव न जातम् इत्य् अवगम्यते, ज्ञान-कार्यादर्शनात्। तस्मात् शरीर-स्थितिर् भवतु वा मा वा, वाक्यार्थ-ज्ञान-समनन्तरꣳ मुक्त एवासौ। अतो न ध्यान-नियोग-साध्यो मोक्ष इति न ध्यान-विधि-शेषतया ब्रह्मणः सिद्धिः। अपि तु सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१], तत् त्वम् असि [छान्।, ६।८।७], अयम् आत्मा ब्रह्म [माण्ड्।, १।२] इति तत्-परेणैव पद-समुदायेन सिध्यतीति॥
Link copied[उक्तार्थस्य ध्यान-नियोग-वादि-कृतꣳ दूषणम्]
Link copiedतद् अयुक्तꣳ, वाक्यार्थ-ज्ञान-मात्राद् बन्ध-निवृत्त्य्-अनुपपत्तेः। यद्य् अपि मिथ्या-रूपो बन्धो ज्ञान-बाध्यः। तथापि बन्धस्यापरोक्षत्वान् न परोक्ष-रूपेण-वाक्यार्थ-ज्ञानेन स बाध्यते, रज्ज्व्-आदाव् अपरोक्ष-सर्प-प्रतीतौ वर्तमानायाꣳ नायꣳ सर्पो रज्जुर् एषा इत्य् आप्तोपदेश-जनित-परोक्ष-सर्प-विपरीत-ज्ञान-मात्रेण भयानिवृत्ति-दर्शनात्। आप्तोपदेशस्य तु भय-निवृत्ति-हेतुत्वꣳ वस्तु-याथात्म्यापरोक्ष-निमित्त-प्रवृत्ति-हेतुत्वेन॥
Link copied[तत्र शब्दस्यापरोक्ष-ज्ञान-हेतुता-दूषणम्]
Link copiedतथा हि-- रज्जु-सर्प-दर्शन-भयात् परावृत्तः पुरुषो नायꣳ सर्पो रज्जुर् एषा इत्य् आप्तोपदेशेन तद्-वस्तु-याथात्म्य-दर्शने प्रवृत्तस् तद् एव प्रत्यक्षेण दृष्ट्वा भयान् निवर्तते। न च शब्द एव प्रत्यक्ष-ज्ञानꣳ जनयतीति वक्तुꣳ युक्तम्, तस्यानिन्द्रियत्वात्। ज्ञान-सामग्रीष्व् इन्द्रयाण्य् एव ह्य् अपरोक्ष-साधनानि। न चास्यानभिसꣳहित-फल-कर्मानुष्ठान-मृदित-कषायस्य श्रवण-मनन-निदिध्यासन-विमुखीकृत-बाह्य-विषयस्य पुरुषस्य वाक्यम् एवापरोक्ष-ज्ञानꣳ जनयति, निवृत्त-प्रतिबन्धे तत्-परेऽपि पुरुषे ज्ञान-सामग्री-विशेषाणाम् इन्द्रियादीनाꣳ स्व-विषय-नियमातिक्रमादर्शनेन तद्-अयोगात्॥
Link copied[ध्यानस्य वाक्यार्थ-ज्ञानोपायत्व-दूषणम्]
Link copiedन च ध्यानस्य वाक्यर्थ-ज्ञानोपायता, इतरेतराश्रयत्वात्-- वाक्यार्थ-ज्ञाने जाते तद्-विषय-ध्यानम्, ध्याने निर्वृत्ते वाक्यार्थ-ज्ञानम्-- इति। न च ध्यान-वाक्यार्थ-ज्ञानयोर् भिन्न-विषयत्वम्, तथा सति ध्यानस्य वाक्यार्थ-ज्ञानोपायता न स्यात्। न ह्य् अन्यद्-ध्यानम् अन्यौन्मुख्यम् उत्पादयति। ज्ञातार्थ-स्मृति-सन्तति-रूपस्य ध्यानस्य वाक्यार्थ-ज्ञान-पूर्वकत्वम् अवर्जनीयम्, ध्येय-ब्रह्म-विषय-ज्ञानस्य हेत्वन्तरासम्भवात्॥ न च ध्यान-मूलꣳ ज्ञानꣳ वाक्यान्तर-जन्यꣳ निवर्तक-ज्ञानꣳ तत् त्वम् अस्य् आदि-वाक्य-जन्यम् इति युक्तम्। ध्यान-मूलम् इदꣳ वाक्यान्तर-जन्यꣳ ज्ञानꣳ तत् त्वम् अस्य् आदि-वाक्य-जन्य-ज्ञानेनेनैक-विषयम्, भिन्न-विषयꣳ वा। एक-विषयत्वे तद् एवेतरेतराश्रयत्वम्। भिन्न-विषयत्वे ध्यानेन तदौन्मुख्यापादनासम्भवः। किꣳ च ध्यानस्य ध्येय-ध्यात्राद्य्-अनेक-प्रपञ्चापेक्षत्वान् निष्प्रपञ्च-ब्रह्मात्मैकत्व-विषय-वाक्यार्थ-ज्ञानोत्पत्तौ दृष्ट-द्वारेण नोपयोग इति वाक्यार्थ-ज्ञान-मात्राद् अविद्या-निवृत्तिꣳ वदतः श्रवण-मनन-निदिध्यासन-विधीनाम् आनर्थक्यम् एव॥
Link copied[अनेन जीवन्-मुक्ति-निरास-सिद्ध्य्-उपपादनम्]
Link copiedयतो वाक्याद् आपरोक्ष्य-ज्ञानासम्भवाद् वाक्यार्थ-ज्ञानेनाविद्या न निवर्तते, तत एव जीवन्-मुक्तिर् अपि दूरोत्सारिता। का चेयꣳ जीवन्-मुक्तिः सशरीरस्यैव मोक्ष इति चेन् माता मे बन्ध्या इतिवद् असङ्गतार्थꣳ वचः, यतः सशरीरत्वꣳ बन्धः अशरीरत्वम् एव मोक्ष इति त्वयैव श्रुतिभिर् उपपादितम्। अथ सशरीरत्व-प्रतिभासे वर्तमाने यस्यायꣳ प्रतिभासो मिथ्येति प्रत्ययस् तस्य सशरीरत्व-निवृत्तिर् इति। न, मिथ्येति प्रत्ययेन सशरीरत्वꣳ निवृत्तꣳ चेत् कथꣳ सशरीरस्य मुक्तिः। अजीवतोऽपि मुक्तिः सशरीरत्व-मिथ्या-प्रतिभास-निवृत्तिर् एवेति कोऽयꣳ जीवन्-मुक्तिर् इति विशेषः। अथ सशरीरत्व-प्रतिभासो बाधितोऽपि यस्य द्वि-चन्द्र-ज्ञानवद् अनुवर्तते स जीवन्-मुक्त इति चेन् न, ब्रह्म-व्यतिरिक्त-सकल-वस्तु-विषयत्वाद् बाधक-ज्ञानस्य। कारण-भूताविद्या-कर्मादि-दोषः सशरीरत्व-प्रतिभासेन सह तेनैव बाधित इति बाधितानुवृत्तिर् न शक्यते वक्तुम्। द्वि-चन्द्रादौ तु तत्-प्रतिभास-हेतु-भूत-दोषस्य बाधक-ज्ञान-भूत-चन्द्रैकत्व-ज्ञान-विषयत्वेनाबाधितत्वाद् द्वि-चन्द्र-प्रतिभासानुवृत्तिर् युक्ता॥
Link copied[जीवन्-मुक्तेः श्रुति-विरुद्धत्वोपपादनम्]
Link copiedकिꣳ च तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये [छान्।, ६।१४।२] इति सद्-विद्या-निष्ठस्य शरीर-पात-मात्रम् अपेक्षते मोक्ष इति वदन्तीयꣳ श्रुतिर् जीवन्-मुक्तिꣳ वारयति॥
Link copied[जीवन्-मुक्तेः स्मृति-विरुद्धता]
Link copiedसैषा जीवन्-मुक्तिर् आपस्तम्बेनापि निरस्ता-- वेदान् इमꣳ लोकम् अमुꣳ च परित्यज्यात्मानम् अन्विच्छेत्, [आप। धर्म। सू। २।९।२१।१३] बुद्धे क्षेम-प्रापणꣳ [आप। धर्म। सू। २।९।२१।१४] तच्-छास्त्रैर् विप्रतिषिद्धम् [आप। धर्म। सू। २।९।२१।१५], बुद्धे चेत् क्षेम-प्रापणम् इहैव न दुःखम् उपलभेत [आप। धर्म। सू। २।९।२१।१६], एतेन परꣳ व्याख्यातम् [आप। धर्म। सू। २।९।२१।१७] इति। अनेन ज्ञान-मात्रान् मोक्षश् च निरस्तः। अतः सकल-भेद-निवृत्ति-रूपा मुक्तिर् जीवतो न सम्भवति॥
Link copied[ध्यान-नियोगस्यैवेष्टार्थ-साधकत्वम्]
Link copiedतस्माद् ध्यान-नियोगेन ब्रह्मापरोक्ष-ज्ञान-फलेनैव बन्ध-निवृत्तिः। न च नियोग-साध्यत्वे मोक्षस्यानित्यत्व-प्रसक्तिः, प्रतिबन्ध-निवृत्ति-मात्रस्यैव साध्यत्वात्। किꣳ च-- न नियोगेन साक्षाद् बन्ध-निवृत्तिः क्रियते किन्तु निष्प्रपञ्च-ज्ञानैकरस-ब्रह्मापरोक्ष्य-ज्ञानेन। नियोगस् तु तद्-आपरोक्ष्य-ज्ञानꣳ जनयति।
Link copiedकथꣳ नियोगस्य ज्ञानोत्पत्ति-हेतुत्वम् इति चेत् कथꣳ वा भवतोऽनभिसꣳहित-फलानाꣳ कर्मणाꣳ वेदनोत्पत्ति-हेतुत्वꣳ मनो-नैर्मल्य-द्वारेणेति चेन् ममापि तथैव। मम तु निर्मले मनसि शास्त्रेण ज्ञानम् उत्पाद्यते। तव तु नियोगेन मनसि निर्मले ज्ञान-सामग्री वक्तव्येति चेद् ध्यान-नियोग-निर्मलꣳ मन एव साधनम् इति ब्रूमः। केनावगम्यत इति चेद् भवतो वा कर्मभिर् मनो निर्मलꣳ भवति, निर्मले मनसि श्रवण-मनन-निदिध्यासनैः सकलेतर-विषय-विमुखस्यैव शास्त्रꣳ निवर्तक-ज्ञानम् उत्पादयतीति केनावगम्यते विविदिषन्ति यज्ञेन दानेन तपसाना शकेन [बृहद्।, ६।४।२२], श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [बृहद्।, ६।५।६], ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९] इत्य् आदिभिः शास्त्रैर् इति चेन् ममापि [बृहद्।, ६।५।६] श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, ब्रह्मविद् आप्नोति परम् [तै।, आ।, १], न चक्षुषा गृह्यते नापि वाचा [मुण्ड्।, ३।१।८], मनसा तु विशुद्धेन [व्यास-स्मृतिः], हृदा मनीषा मनसाभिकॢप्तः [तै।, ना] इत्य् आदिभिः शास्त्रैर् ध्यान-नियोगेन मनो निर्मलꣳ भवति, निर्मलꣳ च मनो ब्रह्मापरोक्ष-ज्ञानꣳ जनयतीत्य् अवगम्यते-- इति निरवद्यम्॥
Link copied[ब्रह्मण उपास्यत्व-निषेध-शङ्का-परिहारौ]
Link copiedनेदꣳ यद् इदम् उपासते [केन,१।५] इत्य् उपास्यत्वꣳ प्रतिषिद्धम् इति चेन् नैवम्, नात्र ब्रह्मण उपास्यत्वꣳ प्रतिषिध्यते, अपि तु ब्रह्मणो जगद्-वैरूप्यꣳ प्रतिपाद्यते। यद् इदꣳ जगद् उपासते प्राणिनो नेदꣳ ब्रह्म, तदेव ब्रह्म त्वꣳ विद्धि, यद् वाचानभ्युदितꣳ येन वागभ्युद्यते इति वाक्यार्थः। अन्यथा तद् एव ब्रह्म त्वꣳ विद्धि इति विरुध्यते। ध्यान-विधि-वैयर्थ्यꣳ च स्यात्। अतो ब्रह्म-साक्षात्कार-फलेन ध्यान-योगेनैवापरमार्थ-भूतस्य कृत्स्नस्य द्रष्टृ-दृश्यादि-प्रपञ्च-रूप-बन्धस्य निवृत्तिः॥
Link copied[ध्यान-नियोग-वादि-कृतो भास्कराभिमत-भेदाभेदानुवाद-पूर्वकस् तन्-निरासः]
Link copiedयद् अपि कैश्चिद् उक्तम्-- भेदाभेदयोर् विरोधो न विद्यते-- इति, तद् अयुक्तम्, न हि शीतोष्णतमः प्रकाशादिवद् भेदाभेदाव् एकस्मिन् वस्तुनि सङ्गच्छेते। अथोच्येत-- सर्वꣳ हि वस्तु-जातꣳ प्रतीति-व्यवस्थाप्यम्। सर्वꣳ च भिन्नाभिन्नꣳ प्रतीयते। कारणात्मना जात्यात्मना चाभिन्नम्। कार्यात्मना व्यक्त्यात्मना च भिन्नम्। छाया-तपादिषु विरोधः सहानवस्थान-लक्षणो भिन्नाधारत्व-रूपश् च। कार्य-कारणयोर् जाति-व्यक्त्योश् च तद् उभयम् अपि नोपलभ्यते। प्रत्युत एकम् एव वस्तु द्वि-रूपꣳ प्रतीयते, यथा मृद् अयꣳ घटः, खण्डो गौः, मुण्डो गौः इति। न चैक-रूपꣳ किञ्चिद् अपि वस्तु लोके दृष्ट-चरम्। न च तृणादेर् ज्वलनादिवद् अभेदो भेदोपमर्दी दृश्यत इति न वस्तु-विरोधः; मृत्-सुवर्ण-गवाश्व्-आद्य्-आत्मनावस्थितस्यैव घट-मुकुट-खण्ड-बडवाद्यात्मना चावस्थानात्। न चाभिन्नस्य भिन्नस्य च वस्तुनोऽभेदो भेदश् च एक एवाकार इतीश्वराज्ञा। प्रतीतत्वाद् ऐकरूप्यꣳ चेत् प्रतीतत्वाद् एव भिन्नाभिन्नत्वम् इति द्वैरूप्यम् अप्य् अभ्युपगम्यताम्। न हि विस्फारिताक्षः पुरुषो घट-शरावखण्ड-मुण्डादिषु वस्तुषूपलभ्यमानेष्व् इयꣳ मृत्, अयꣳ घटः, इदꣳ गोत्वम्, इयꣳ व्यक्तिः इति विवेक्तुꣳ शक्नोति। अपि तु मृद् अयꣳ घटः, खण्डो गौः इत्य् एव प्रत्येति। अनुवृत्ति-बुद्धि-बोध्यꣳ कारणम् आकृतिश् च, व्यावृत्ति-बुद्धि-बोध्यꣳ कार्यꣳ व्यक्तिश् चेति विविनक्तीति चेन् नैवम्, विविक्ताकारानुपलब्धेः। न हि सुसूक्ष्मम् अपि निरीक्षमाणैः इदम् अनुवर्तमानम्, इदꣳ च व्यावर्तमानम् इति पुरोऽवस्थिते वस्तुन्य् आकार-भेद उपलभ्यते। यथा सम्प्रतिपन्नैक्ये कार्ये विशेषे चैकत्व-बुद्धिर् उपजायते; तथैव सकारणे ससामान्ये चैकत्व-बुद्धिर् अविशिष्टोपजायते। एवम् एव देशतः कालतश् चाकारतश् चात्यन्त-विलक्षणेष्व् अपि वस्तुषु तद् एवेदम् इति प्रत्यभिज्ञा जायते। अतो द्व्यात्मकम् एव वस्तु प्रतीयत इति कार्य-कारणयोर् जाति-व्यक्त्योश् चात्यन्त-भेदोपपादनꣳ प्रतीतिपराहतम्॥
Link copied[शङ्का-पूर्वकꣳ भेदाभेद-पक्ष-स्थिरीकरणम्]
Link copiedअथोच्येत-- मृद् अयꣳ घटः, खण्डो गौः इतिवत् देवोऽहꣳ, मनुष्योऽहम् इति सामानाधिकरण्येनैक्य-प्रतीतेर् आत्म-शरीरयोर् अपि भिन्नाभिन्नत्वꣳ स्यात्; अत इदꣳ भेदाभेदोपपादनꣳ निज-सदन-निहित-हुतवह-ज्वालायत इति, तद् इदम् अनाकलित-भेदाभेद-साधन-सामानाधिकरण्य-तद्-अर्थ-याथात्म्यावबोध-विलसतिम्। तथा हि--- अबाधित एव प्रत्ययः सर्वत्रार्थꣳ व्यवस्थापयति। देवाद्य्-आत्माभिमानस् त्व् आत्म-याथात्म्य-गोचरैः सर्वैः प्रमाणैर् बाध्यमानो रज्जु-सर्पादि-बुद्धिवत् न आत्म-शरीरयोर् अभेदꣳ साधयति। खण्डो गौः, मुण्डो गौः इति सामानाधिकरण्यस्य न केनिचित् क्वचिद् बाधो दृश्यते। तस्मान् नातिप्रसङ्गः॥
Link copied[जीव-ब्रह्मणोर् भेदाभेद-प्रतिपादनम्]
Link copiedअत एव जीवोऽपि ब्रह्मणो नात्यन्त-भिन्नः। अपि तु ब्रह्माꣳशत्वेन भिन्नाभिन्नः। तत्राभेद एव स्वाभाविकः, भेदस् त्व् औपाधिकः कथम् अवगम्यत इति चेत् तत् त्वम् असि [छान्।, ६।८।७] नान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] अयम् आत्मा ब्रह्म [बृहद्।, ६।४।५] इत्य् आदिभिः श्रुतिभिर् ब्रह्मेमे द्याव् आपृथिवी इति प्रकृत्य ब्रह्म दाशा ब्रह्म दासा ब्रह्मेमे कितवा उत। स्त्री-पुꣳसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान् इत्य् आथर्वणिकानाꣳ सꣳहितोपिनषदि ब्रह्म-सूक्ते अभेद-श्रवणाच् च। नित्यो नित्यानाꣳ चेतनश् चेतनानाम् एको बहूनाꣳ यो विदधाति कामान् [श्वे।, ६।१९], ज्ञाज्ञौ द्वाव् अजाव् ईशानीशौ [श्वे।, ५।१२], क्रिया-गुणैर् आत्म-गुणैश् च तेषाꣳ सꣳयोग-हेतुर् अपरोऽपि दृष्टः [श्वे।, ५।१२], प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः सꣳसार-मोक्ष-स्थिति-बन्ध-हेतुः [श्वे।, ६।१६], स कारणꣳ करणाधिपाधिपः [श्वे।, ६।९], तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [श्वे।, ४।६], य आत्मनि तिष्ठन् [बृहद्।, ५।७।२२], प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यꣳ किञ्चन वेद॥।, प्राज्ञेनात्मनान्वारूढः उत्सर्जन्याति [बृहद्।, ६।३।२१;३५], तम् एव विदित्वातिमृत्युम् एति [श्वे।, ३।८] इत्य् आदिभिर् भेद-श्रवणाच् च, जीव-परयोर् भेदाभेदाववश्याश्रयणीयौ, तत्र ब्रह्म वेद ब्रह्मैव भवति [मुण्ड्।, ३।२।९] इत्य् आदिभिर् मोक्ष-दशायाꣳ जीवस्य ब्रह्म-स्वरूपापत्ति-व्यपदेशात्। यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कꣳ पश्येत् [बृहद्।, ४।४।१४] इति तदानीꣳ भेदेनेश्वर-दर्शन-निषेधाच् चाभेदः स्वाभाविक इत्य् अवगम्यते।
Link copied[मुक्तौ भेद-दर्शनस्य श्रौतत्व-शङ्का-परिहारौ]
Link copiedननु च सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता [तै। आ।, १] इति सह श्रुत्या तदानीम् अपि भेदः प्रतीयते वक्ष्यति च जगद्-व्यापार-वर्जꣳ प्रकरणाद् असन्निहितत्वाच् च [ब्र। सू। ४।४।१७] भोग-मात्र-साम्य-लिङ्गाच् च [ब्र। सू। ४।४।२१] इति। नैतद् एवꣳ नान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] इत्य् आदि श्रुति-शतैर् आत्म-भेद-प्रतिषेधात्। सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता [तै।, २।१] इति सर्वैः कामैः सह ब्रह्माश्नुते-- सर्व-गुणान्वितꣳ ब्रह्माश्नुत इत्य् उक्तꣳ भवति। अन्यथा ब्रह्मणा सहेत्य् अप्राधान्यꣳ ब्रह्मणः प्रसज्येत। जगद्-व्यापार-वर्जम् इत्य् अत्र मुक्तस्य भेदेनावस्थाने सत्य् ऐश्वर्यस्य न्यूनता-प्रसङ्गो वक्ष्यते, अन्यथा सम्पद्याविर्भावः स्वेन-शब्दात् [ब्र। सू। ४।४।१] इत्य् आदिभिर् विरोधात्। तस्माद् अभेद एव स्वाभाविकः। भेदस् तु जीवानाꣳ परस्माद् ब्रह्मणः परस्परꣳ च बुद्धीन्द्रिय-देहोपाधिकृतः। यद्य् अपि ब्रह्म निरवयवꣳ सर्व-गतꣳ च; तथाप्य् आकाश इव घटादिना बुद्ध्य्-आद्य्-उपाधिना ब्रह्मण्य् अपि भेदः सम्भवत्य् एव। न च भिन्ने ब्रह्मणि बुद्ध्य्-आद्य्-उपाधिसꣳयोगः, बुद्ध्य्-आद्य्-उपाधिसꣳयोगाद् ब्रह्मणि भेद इतीतरेतराश्रयत्वम्; उपाधेस् तत्-सꣳयोगस्य च कर्म-कृतत्वात् तत्-प्रवाहस्य चानादित्वात्। एतद् उक्तꣳ भवति-- पूर्व-कर्म-सम्बद्धाज् जीवात् स्व-सम्बद्ध एवोपाधिर् उत्पद्यते तद्-युक्तात् कर्म। एवꣳ बीजाङ्कुर-न्यायेन कर्मोपाधि-सम्बन्धस्यानादित्वान् न दोषः-- इति। अतो जीवानाꣳ परस्परꣳ ब्रह्मणा चाभेदवद् भेदोऽपि स्वाभाविकः, भेदस् त्व् औपाधिकः। उपाधीनाꣳ पुनः परस्परꣳ ब्रह्मणा चाभेदवद् भेदोऽपि स्वाभाविकः। उपाधीनाम् उपाध्यन्तराभावात्, तद्-अभ्युपगमेऽनवस्थानाच् च अतो जीव-कर्मानुरूपꣳ ब्रह्मणो भिन्नाभिन्न-स्वभावा एवोपाधय उत्पद्यन्ते-- इति॥
Link copied[ध्यान-नियोग-वादि-कृतꣳ भेदाभेद-दूषणम्]
Link copiedअत्रोच्यते-- अद्वितीय-सच्-चिदानन्द-ब्रह्म-ध्यान-विषय-विधि-परꣳ वेदान्त-वाक्य-जातम् इति वेदान्त-वाक्यैर् अभेदः प्रतीयते। भेदावलम्बिभिः कर्म-शास्त्रैः प्रत्यक्षादिभिश् च भेदः प्रतीयते। भेदाभेदयोः परस्पर-विरोधाद् अनाद्य्-अविद्या-मूलतयापि भेद-प्रतीत्य्-उपपत्तेर् अभेद एव परमार्थ इत्य् उक्तम्। तत्र यद् उक्तꣳ-- भेदोभेदयोर् उभयोर् अपि प्रतीति-सिद्धत्वान् न विरोध इति। तद् अयुक्तम्, कस्माच्चित् कस्यचिद् विलक्षणत्वꣳ हि तस्मात् तस्य भेदः। तद्-विपरीतत्वꣳ चाभेदः। तयोस् तथाभावातथाभाव-रूपयोर् एकत्र सम्भवम् अनुन्मत्तः को ब्रवीति कारणात्मना जात्यात्मना चाभेदः, कार्यात्मना व्यक्त्यात्मना च भेदः इत्य् आकार-भेदाद् अविरोध इति चेन् न, विकल्पासहत्वात्। आकार-भेदाद् अविरोधꣳ वदतः किम् एकस्मिन्न् आकारे भेदः, आकारान्तरे चाभेदः इत्य् अभिप्रायः, उताकार-द्वय-योगि-वस्तु-गताव् उभाव् अपीति पूर्वस्मिन् कल्पे व्यक्ति-गतो भेदः, जाति-गतश् चाभेद इति नैकस्य द्व्यात्मकता। जातिर् व्यक्तिर् इति चैकम् एव वस्त्व् इति चेत् तर्ह्य् आकार-भेदाद् अविरोधः परित्यक्तः स्यात्। एकस्मिꣳश् च विलक्षणत्व-तद्-विपर्ययौ विरुद्धाव् इत्य् उक्तम्। द्वितीये तु कल्पे अन्योन्य-विलक्षणम् आकार-द्वयम्, अप्रतिपन्नꣳ च तद्-आश्रय-भूतꣳ वस्त्व् इति तृतीयाभ्युपगमेऽपि त्रयाणाम् अन्योन्य-वैलक्षण्यम् एवोपपादितꣳ स्यात्, न पुनर् अभेदः। आकार-द्वय-निरुह्यमाणाविरोधꣳ तद्-आश्रय-भूते वस्तुनि भिन्नाभिन्नत्वम् इति चेत् स्वस्माद् विलक्षणꣳ स्वाश्रयम् आकार-द्वयꣳ स्वस्मिन् विरुद्ध-धर्म-द्वय-समावेश-निर्वाहकꣳ कथꣳ भवेत्। अविलक्षणꣳ तु कथन्तराम् आकार-द्वय-तद्वतोश् च द्व्यात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयानवस्था स्यात्। न च सम्प्रतिपन्नैक्य-व्यक्ति-प्रतीतिवत् ससामान्येऽपि वस्तुन्य् एक-रूपा प्रतीतिर् उपजायते, यतः इदम् इत्थम् इति सर्वत्र प्रकार-प्रकारतयैव सर्वा प्रतीतिः। तत्र प्रकाराꣳशो जातिः प्रकार्यꣳशो व्यक्तिर् इति नैकाकारा प्रतीतिः।
Link copied[लौकिके वस्तुनीव वैदिकेऽपि भेदाभेदयोर् विरुद्धता]
Link copiedअत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वꣳ न सम्भवति। तस्माद् अभेदस्यानन्यथा सिद्ध-शास्त्र-मूलत्वाद् अनाद्य्-अविद्या-मूल एव भेद-प्रत्ययः। नन्व् एवꣳ ब्रह्मण एवाज्ञत्वꣳ तन्-मूलाश् च जन्म-जरा-मरणादयो दोषाः प्रादुः ष्युः। ततश् च यः सर्व-ज्ञः सर्व-वित् [मुण्ड्।, १।१।९], एष आत्मापहत-पाप्मा [छान्।, ८।१।५] इत्य् आदीनि शास्त्राणि बाध्येरन्। नैवम्-- अज्ञानादि-दोषाणाम् अपरमार्थत्वात्। भवतस् तूपाधि-ब्रह्म-व्यतिरिक्तꣳ वस्त्व्-अन्तरम् अनभ्युगच्छतो ब्रह्मण्य् एवोपाधिसꣳसर्गस् तत्-कृताश् च जीवत्वाज्ञत्वादयो दोषाः परमार्थत एव भवेयुः। न हि ब्रह्मणि निरवयवे अच्छेद्ये सम्बध्यमाना उपाधयस् तच् छित्वा भित्वा वा सम्बध्यन्ते। अपि तु ब्रह्म-स्वरूपे सꣳयुज्य तस्मिन्न् एव स्वकार्याणि कुर्वन्ति॥
Link copied[ब्रह्मण उपहितानुपहिताꣳश-भेदेन सदोषत्व-निर्दोषत्वोपपादनम्]
Link copiedयदि मन्वीत-- उपाध्युपहितꣳ ब्रह्म जीवः। स चाणुपरिमाणः। अणुत्वꣳ चावच्छेदकस्य मनसोऽणुत्वात्। स चावच्छेदोऽनादिः एवम् उपाध्य्-उपहितेऽꣳशे सम्बध्यमाना दोषा अनुपहिते परे ब्रह्मणि न सम्बध्यन्त-- इति। अयꣳ प्रष्टव्यः किम् उपाधिना छिन्नो ब्रह्म-खण्डोऽणुरूपो जीवः, उताच्छिन्न एवाणुरूपोपाधि-सꣳयुक्तो ब्रह्म-प्रदेश-विशेषः, उतोपाधि-सꣳयुक्तꣳ ब्रह्म-स्वरूपम्। अथोपाधि-सꣳयुक्तꣳ चेतनान्तरम्। अथोपाधिर् एव इति। अच्छेद्यत्वाद् ब्रह्मणः प्रथमः कल्पो न कल्पते। आदिमत्त्वꣳ च जीवस्य स्यात्। एकस्य सतो द्वैधीकरणꣳ हि च्छेदनम्। द्वितीये तु कल्पे ब्रह्मण एव प्रदेश-विशेषे उपाधि-सम्बन्धाद् औपाधिकाः सर्वे दोषास् तस्यैव स्युः। उपाधौ गच्छत्य् उपाधिना स्व-सꣳयुक्त-ब्रह्म-प्रदेशाकर्षणायोगाद् अनुक्षणम् उपाधि-सꣳयुक्त-ब्रह्म-प्रदेश-भेदात् क्षणे क्षणे बन्ध-मोक्षौ च स्याताम्। आकर्षणे चाच्छिन्नत्वात् कृत्स्नस्य ब्रह्मणः आकर्षणꣳ स्यात्। निरꣳशस्य व्यापिन आकर्षणꣳ न सम्भवतीति चेत् तर्ह्य् उपाधिर् एव गच्छतीति पूर्वोक्त एव दोषः स्यात्। अच्छिन्न-ब्रह्म-प्रदेशेषु सर्वोपाधि-सꣳसर्गे सर्वेषाꣳ च जीवानाꣳ ब्रह्मण एव प्रदेशत्वेनैकत्वेन प्रतिसन्धानꣳ न स्यात्। प्रदेश-भेदाद् अप्रतिसन्धाने चैकस्यापि स्वोपाधौ गच्छति प्रतिसन्धानꣳ न स्यात्। तृतीये तु कल्पे ब्रह्म-स्वरूपस्यैवोपाधि-सम्बन्धेन जीवत्वापातात् तद्-अतिरिक्तानुपहित-ब्रह्मासिद्धिः स्यात्। सर्वेषु च देहेष्व् एक एव जीवः स्यात्। तुरीये तु कल्पे ब्रह्मणोऽन्य एव जीव इति जीव-भेदस्यौपाधिकत्वꣳ परित्यक्तꣳ स्यात्। चरमे चार्वाक-पक्ष एव परिगृहीतः स्यात्॥
Link copied[भेदाभेद-दूषणोपसꣳहारः]
Link copiedतस्माद् अभेद-शास्त्र-बलेन कृत्स्नस्य भेदस्याविद्या-मूलत्वम् एवाभ्युपगन्तव्यम्। अतः प्रवृत्ति-निवृत्ति-प्रयोजन-परतयैव शास्त्रस्य प्रामाण्येऽपि ध्यान-विधि-शेषतया वेदान्त-वाक्यानाꣳ ब्रह्म-स्वरूपे प्रामाण्यम् उपपन्नम्-- इति॥
Link copied[मीमाꣳसक-कृतꣳ ध्यान-नियोग-वादि-दूषणम्]
Link copiedतद् अप्य् अयुक्तम्-- ध्यान-विधि-शेषत्वेऽपि वेदान्त-वाक्यानाम् अर्थ-सत्यत्वे प्रामाण्यायोगात्। एतद् उक्तꣳ भवति-- ब्रह्म-स्वरूप-गोचराणि वाक्यानि किꣳ ध्यान-विधिनैक-वाक्यताम् आपन्नानि ब्रह्म-स्वरूपे प्रामाण्यꣳ प्रतिपद्यन्ते, उत स्वतन्त्राण्य् एव एक-वाक्यत्वे ध्यान-विधि-परत्वेन ब्रह्म-स्वरूपे तात्पर्यꣳ न सम्भवति। भिन्न-वाक्यत्वे प्रवृत्ति-निवृत्ति-प्रयोजन-विरहाद् अनवबोधकत्वम् एव। न च वाच्यꣳ ध्यानꣳ नाम स्मृति-सन्तति-रूपम्। तच् च स्मर्तव्यैक-निरूपणीयम् इति ध्यान-विधेः स्मर्तव्य-विशेषाकाङ्क्षायाम् इदꣳ सर्व यद् अयम् आत्मा [बृहद्।, ४।४।६], ब्रह्म सर्वानुभूः [बृहद्।, ४।५।१९], सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] इत्य् आदीनि स्वरूप-तद्-विशेषादीनि समर्पयन्ति। तेनैक-वाक्यताम् आपन्नान्य् अर्थ-सद्-भावे प्रमाणम् इति; ध्यान-विधेः स्मर्तव्य-विशेषापेक्षत्वेऽपि नाम ब्रह्म [छान्।, ७।१।५] इत्य् आदि दृष्टि-विधिवद् असत्येनाप्य् अर्थ-विशेषेण ध्यान-निर्वृत्त्य्-उपपत्तेर् ध्येय-सत्यत्वानपेक्षणात्॥
Link copied[उक्तार्थ-सङ्ग्रह-पूर्वकꣳ पूर्व-पक्षोपसꣳहारः]
Link copiedअतो वेदान्त-वाक्यानाꣳ प्रवृत्ति-निवृत्ति-प्रयोजन-विधुरत्वाद् ध्यान-विधि-शेषत्वेऽपि ध्येय-विशेष-स्वरूप-समर्पण-मात्र-पर्यवसानात्, स्वातन्त्र्येऽपि बालातुराद्य्-उपच्छन्दन-वाक्यवत् ज्ञान-मात्रेणैव पुरुषार्थ-पर्यन्तता-सिद्धेश् च परिनिष्पन्न-वस्तु-सत्यतागोचरत्वाभावाद् ब्रह्मणः शास्त्र-प्रमाणकत्वꣳ न सम्भवतीति प्राप्तम्॥
Link copied[विशिष्टाद्वैतिनाꣳ सिद्धान्तारम्भः, तत्र सूत्रार्थः]
Link copiedतत्र प्रतिपाद्यते-- तत् तु समन्वयात् इति। समन्वयः-- सम्यगन्वयः पुरुषार्थतयान्वय इत्य् अर्थः। परम-पुरुषार्थ-भूतस्यानवधिकातिशयानन्द-स्वरूपस्य ब्रह्मणोऽभिधेयतयान्वयात् तत् शास्त्र-प्रमाणकत्वꣳ सिध्यत्य् एवेत्य् अर्थः॥
Link copied[अप्रामाण्य-शङ्का-परिहारः]
Link copiedनिरस्त-निखिल-दोष-निरतिशयानन्द-स्वरूपतया परम-प्राप्यꣳ ब्रह्म बोधयन् वेदान्त-वाक्य-गणः प्रवृत्ति-निवृत्ति-परता-विरहान् न प्रयोजन-पर्यवसायीति ब्रुवाणो राज-कुल-वासिनः पुरुषस्य कौलेयक-कुलाननुप्रवेशेन प्रयोजन-शून्यताꣳ ब्रूते॥
Link copiedएतद् उक्तꣳ भवति-- अनादि-कर्म-रूपाविद्यावेष्टन-तिरोहित-परावर-तत्त्व-याथात्म्य-स्वस्वरूपावबोधानाꣳ देवासुर-गन्धर्व-सिद्ध-विद्याधर-किन्नर-किम्पुरुष-यक्ष-राक्षस-पिशाच-मनुज-पशु-शकुनि-सरीसृप-वृक्ष-गुल्म-लता-दूर्वादीनाꣳ स्त्री-पुꣳ-नपुꣳसक-भेद-भिन्नानाꣳ क्षेत्रज्ञानाꣳ व्यवस्थित-धारक-पोषक-भोग्य-विशेषाणाꣳ मुक्तानाꣳ स्वस्य चाविशेषेणानुभव-सम्भवे स्वरूप-गुण-विभव-चेष्टितैर् अनवधिकातिशयानन्द-जननꣳ परꣳ ब्रह्मास्तीति बोधयद् एव वाक्यꣳ प्रयोजन-पर्यवसायि। प्रवृत्ति-निवृत्ति-निष्ठꣳ तु यावत् पुरुषार्थान्वय-बोधꣳ न प्रयोजन-पर्यवसायि॥
Link copied[ध्यान-विध्य्-आनर्थक्य-परिहारः]
Link copiedएवम्भूतꣳ परꣳ ब्रह्म कथꣳ प्राप्यत इत्य् अपेक्षायाꣳ ब्रह्मविद् आप्नोति परम् [तै।, २।१], आत्मानम् एव लोकम् उपासीत [बृहद्।, ३।४।१५] इति वेदनादि-शब्दैर् उपासनꣳ ब्रह्म-प्राप्त्य्-उपायतया विधीयते। यथा स्व-वेश्मनि निधिर् अस्ति इति वाक्येन निधि-सद्-भावꣳ ज्ञात्वा तृप्तः सन् पश्चात् तद्-उपादाने च प्रयतते। यथा च-- कश्चिद् राज-कुमारो बाल-क्रीडासक्तो नरेन्द्र-भवनान् निष्कान्तो मार्गाद् भ्रष्टो नष्ट इति राज्ञा विज्ञातः स्वयꣳ चाज्ञात-पितृकः केनचिद् द्विज-वर्येण वर्धितोऽधिगत-वेद-शास्त्रः षोडश-वर्षः सर्व-कल्याण-गुणाकरस् तिष्ठन् पिता ते सर्व-लोकाधिपतिः गाम्भीर्यौदार्य-वात्सल्य-सौशील्य-शौर्य-वीर्य-पराक्रमादि-गुण-सम्पन्नस् त्वाम् एव नष्टꣳ पुत्रꣳ दिदृक्षुः पुरवरे तिष्ठति इति केनचिद् अभियुक्ततमेन प्रयुक्तꣳ वाक्यꣳ शृणोति चेत् तदानीम् एव अहꣳ तावज् जीवतः पुत्रः, मत्-पिता च सर्व-सम्पत्-समृद्धः इति निरतिशय-हर्ष-समन्वितो भवति। राजा च स्व-पुत्रꣳ जीवन्तम् अरोगम् अतिमनोहर-दर्शनꣳ विदित-सकल-वेद्यꣳ श्रुत्वावाप्त-समस्त-पुरुषार्थो भवति। पश्चात् तद्-उपादाने च प्रयतते। पश्चात् ताव् उभौ सङ्गच्छेते चेति।
Link copiedयत् पुनः-- परिनिष्पन्न-वस्तु-गोचरस्य वाक्यस्य तज्-ज्ञान-मात्रेणापि पुरुषार्थ-पर्यवसानाद् बालातुराद्य्-उपच्छन्दन-वाक्यवन् नार्थ-सद्-भावे प्रामाण्यम् इति, तद् असत्-- अर्थ-सद्-भावाभावे निश्चिते ज्ञातोऽप्य् अर्थः पुरुषार्थाय न भवति। बालातुरादीनाम् अप्य् अर्थ-सद्-भाव-भ्रान्त्या हर्षाद्य्-उत्पत्तिः। तेषाम् एव तस्मिन्न् एव ज्ञाने विद्यमाने यद्य् अर्थाभाव-निश्चयो जायेत, ततस् तदानीम् एव हर्षादयो निवर्तेरन्। औपनिषदेष्व् अपि वाक्येषु ब्रह्मास्तित्व-तात्पर्याभाव-निश्चये ब्रह्म-ज्ञाने सत्य् अपि पुरुषार्थ-पर्यवसानꣳ न स्यात्। अतः यतो वा इमानि भूतानि जायन्ते [तै।, ३।१।१] इत्य् आदि वाक्यꣳ निखिल-जगद्-एक-कारणꣳ निरस्त-निखिल-दोष-गन्धꣳ सार्वज्ञ्य-सत्य-सङ्कल्पत्वाद्य्-अनन्त-कल्याण-गुणाकरम् अनवधिकातिशयानन्दꣳ ब्रह्मास्तीति बोधयतीति सिद्धम्॥४॥
Link copiedइति समन्वयाधिकरणम्॥४॥
Link copiedईक्षत्य्-अधिकरणम्॥५॥
Link copied[अधिकरणार्थः-- सृष्ट्य्-अनुगुणेक्षण-कर्तृ, अचेतन-भूत-प्रधानेतरत् परꣳ ब्रह्म]
Link copied[सद्-विद्या-विचारः-- छान्। ६]
Link copied५ ईक्षतेर् नाशब्दम्॥१।१।५॥
Link copied[सङ्गति-प्रतिपादनम्]
Link copiedयतो वा इमानि [तै।, ३।१।१] इत्य् आदि जगत्-कारण-वादि-वाक्य-प्रतिपाद्यꣳ सर्व-ज्ञꣳ सर्व-शक्ति समस्त-हेय-प्रत्यनीक-कल्याण-गुणैकतानꣳ ब्रह्म जिज्ञास्यम् इत्य् उक्तम्। इदानीꣳ जगत्-कारण-वादि-वाक्यानाम् आनुमानिक-प्रधानादि-प्रतिपादनानर्हातोच्यते-- ईक्षतेर् नाशब्दम्-- इत्य् आदिना।
Link copied[विषय-प्रतिपादनम्]
Link copiedइदम् आम्नायते छान्दोग्ये-- सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्। तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।१] इत्य् आदि॥
Link copied[सꣳशय-स्वरूपम्]
Link copiedतत्र सन्देहः-- किꣳ सच्-छब्द-वाच्यꣳ जगत्-कारणꣳ परोक्तम् आनुमानिकꣳ प्रधानम् उतोक्त-लक्षणꣳ ब्रह्म इति॥
Link copied[पूर्व-पक्ष-स्वरूपम्]
Link copiedकिꣳ प्राप्तꣳ प्रधानम् इति।
Link copied[पूर्व-पक्ष-युक्तिः]
Link copiedकुतः सद् एव सोम्येदम् अग्र आसीद् एकम् एव [छान्।, ६।२।१] इतीदꣳ-शब्द-वाच्यस्य चेतन-भोग्य-भूतस्य सत्त्व-रजस्-तमो-मयस्य वियद्-आदि-नाना-रूप-विकारावस्थस्य वस्तुनः कारणावस्थाꣳ वदति। कारण-भूत-द्रव्यस्यावस्थान्तरापत्तिर् एव हि कार्यता। अतो यद् द्रव्यꣳ यत् स्वभावꣳ च कार्यावस्थꣳ तत् स्वभावꣳ तद् एव द्रव्यꣳ कारणावस्थम्। सत्त्वादि-मयꣳ च कार्यम् इति गुण-साम्यावस्थꣳ प्रधानम् एव हि कारणम्। तद् एवोपसꣳहृत-सकल-विशेषꣳ सन्-मात्रम् इति सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छान्।, ६।२।१] इत्य् अभिधीयते। तत एव च कार्य-कारणयोर् अनन्यत्वम्। तथा सत्येवैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपत्तिः। अन्यथा यथा सोम्यैकेन मृत्-पिण्डेन [छान्।, ६।१।४] इत्य् आदि मृत्-पिण्ड-तत्-कार्य-दृष्टान्त-दार्ष्टान्तिकयोर् वैरूप्यꣳ चेति जगत्-कारण-वादि-वाक्येन महर्षिणा कपिलेनोक्तꣳ प्रधानम् एव प्रतिपाद्यते। प्रतिज्ञादृष्टान्त-रूपेणानुमान-वेषम् एव चेदꣳ वाक्यम् इति सच्-छब्द-वाच्यम् आनुमानिकम् एव इति--
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- ईक्षतेर् नाशब्दम्-- इति। यस्मिन् शब्द एव प्रमाणꣳ न भवति, तद् अशब्दम् आनुमानिकꣳ प्रधानम् इत्य् अर्थः। न तज्-जगत्-कारण-वादि-वाक्य-प्रतिपाद्यम्। कुतः। इक्षतेः-- सच्-छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिन ईक्षतेर् धातोः श्रवणात्। तद् ऐक्षत बहु स्याꣳ प्रजायेय [छान्।, ६।२।३] इति ईक्षण-क्रिया-योगश् चाचेतने प्रधाने न सम्भवति। अत ईदृशेक्षण-क्षमश् चेतन-विशेषः सर्व-ज्ञः सर्व-शक्तिः पुरुषोत्तमः सच्-छब्दाभिधेयः। तथा च सर्वेष्व् एव सृष्टि-प्रकरणेष्व् ईक्षा-पूर्विकैव सृष्टिः प्रतीयते-- स ईक्षत लोकान् नु सृजा इति स इमाल् लोकान् असृजत [ऐ।, १।१।२] स ईक्षाꣳ चक्रे, स प्राणान् असृजत [प्रश्।, ६।३।४] इत्य् आदिषु। ननु च कार्यानुगुणेनैव कारणेन भवितव्यम्। सत्यम्। सर्व-कार्यानुगुण एव सर्व-ज्ञः सर्व-शक्तिः सत्य-सङ्कल्पः पुरुषोत्तमः सूक्ष्म-चिद्-अचिद्-वस्तु-शरीरकः। यथाह-- परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।, ६।८], यः सर्व-ज्ञः सर्व-विद् यस्य ज्ञान-मयꣳ तपः [मुण्ड्।, १।१।९] यस्याव्यक्तꣳ शरीरꣳ यस्याक्षरꣳ शरीरम्॥ यस्य मृत्युः शरीरम्, एष सर्व-भूतान्तरात्मा [सुबाल, ७।१] इति। तद् एतत्-- न विलक्षणत्वात् [ब्र। सू। २।१।४] इत्य् आदिषु प्रतिपादयिष्यते। अत्र सृष्टि-वाक्यानि न प्रधान-प्रतिपादन-योग्यानीत्य् उच्यते। वस्तु-विरोधस् तु तत्रैव परिहरिष्यते॥
Link copied[सिद्धान्तारम्भः]
Link copiedयत् तूक्तꣳ प्रतिज्ञा-दृष्टान्त-योगाद् अनुमानरूपम् एवेदꣳ वाक्यम्-- इति, तद् असत्, हेत्व्-अनुपादानात्। येनाश्रुतꣳ श्रुतम् [छान्।, ६।१।६] इत्य् एक-विज्ञानेन सर्व-विज्ञाने प्रतिपिपादयिषिते सर्वात्मना तद् असम्भवꣳ मन्वानस्य तत्-सम्भव-मात्र-प्रदर्शनाय हि दृष्टान्तोपादानम्। ईक्षत्यादि-श्रवणाद् एव ह्य् अनुमान-गन्धाभावोऽवगतः॥५॥
Link copied[तद् ऐक्षत इति ईक्षणस्य गौणत्व-शङ्का-परिहारौ]
Link copiedअथ स्यात्-- न चेतन-गतꣳ मुख्यम् ईक्षणम् इहोच्यते, अपि तु प्रधान-गतꣳ गौणम् ईक्षणम्, तत् तेज ऐक्षत-- ता आप ऐक्षन्त [छान्।, ६।२।३।४] इति गौणेक्षण-साहचर्यात् भवति चाचेतनेष्व् अपि चेतन-धर्मोपचारः। यथा-- वृष्टि-प्रतीक्षाः शालयः, वर्षेण बीजꣳ प्रतिसञ्जहर्ष [रामा। सुन्दर, २६।६] इति। अतो गौणम् ईक्षणम् इतीमाम् आशङ्काम् अनुभाष्य परिहरति--
Link copied६ गौणश् चेन् नात्म-शब्दात्॥१।१।६॥
Link copiedयद् उक्तꣳ गौणेक्षण-साहचर्यात् सतोऽपीक्षण-व्यपदेशः सर्ग-नियत-पूर्वावस्थाभिप्रायो गौण इति। ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा [छान्।, ६।८।७] इति सच्-छब्द-प्रतिपादितस्य आत्म-शब्देन व्यपदेशात्। एतद् उक्तꣳ भवति-- ऐतदात्म्यम् इदꣳ सर्वम् ॥। स आत्मा [छान्।, ६।८।७] इति चेतनाचेतन-प्रपञ्चोद्देशेन सत आत्मत्वोपदेशोऽयꣳ नाचेतने प्रधाने सङ्गच्छते-- इति। अतस् तेजो-ऽब्-अन्नानाम् अपि परमात्मैवात्मेति तेजः-प्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः। तथा हि-- हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति परमात्मानुप्रवेशाद् एव तेजः-प्रभृतीनाꣳ वस्तुत्वꣳ तत्-तन्-नाम-भाक्त्वꣳ चेति तत् तेज ऐक्षत, ता आप ऐक्षन्त [छान्।, ६।२।३।४] इत्य् अपि मुख्य एवेक्षण-व्यपदेशः। अतः साहचर्याद् अपि तद् ऐक्षत इत्य् अत्र गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः॥६॥
Link copied[कारण-वस्त्व्-असाधारणेन मोक्ष-प्रदत्वेन सतः परमात्मत्वम्]
Link copiedइतश् च न प्रधानꣳ सच्-छब्द-प्रतिपाद्यम्--
Link copied७ तन्-निष्ठस्य मोक्षोपदेशात्॥१।१।७॥
Link copied[तन्-निष्ठस्येति सूत्रस्यार्थ-विवरणम्]
Link copiedमुमुक्षोः श्वेतकेतोः तत् त्वम् असि [छान्।, ६।८।७] इति सद्-आत्मकत्वानुसन्धानम् उपदिश्य, तन्-निष्ठस्य तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये [छान्।, ६।१४।२] इति शरीर-पात-मात्रान्तरायो ब्रह्म-सम्पत्ति-लक्षणो मोक्ष इत्य् उपदिशति। यदि च प्रधानम् अचेतनꣳ कारणम् उपदिश्येत, तदा तद्-आत्मकत्वानुसन्धानस्य मोक्ष-साधनत्वोपदेशो नोपपद्यते। यथा क्रतुर् अस्मिꣳल् लोके पुरुषो भवति तथेतः प्रेत्य भवति [छान्।, १।१४।१] इति तन्-निष्ठस्याचेतन-सम्पत्तिर् एव स्यात्। न च माता-पितृ-सहस्रेभ्योऽपि वत्सलतरꣳ शास्त्रम् एवꣳविध-ताप-त्रयाभिहति-हेतु-भूताम् अचित्-सम्पत्तिम् उपदिशति। प्रधान-कारण-वादिनोऽपि हि प्रधान-निष्ठस्य मोक्षꣳ नाभ्युपगच्छन्ति॥७॥
Link copied[अचेतनीभूत-प्रधान-ज्ञानस्य हानार्थम् उपदेश्यत्वाशङ्का-परिहारः]
Link copiedइतश् च न प्रधानम्--
Link copied८ हेयत्वावचनाच् च॥१।१।८॥
Link copied[सूत्रार्थ-विवरणम्]
Link copiedयदि प्रधानम् एव कारणꣳ सच्-छब्दाभिहितꣳ भवेत् तदा मुमुक्षोः श्वेतकेतोस् तद्-आत्मकत्वꣳ मोक्ष-विरोधित्वात् हेयत्वेनैवोपदेश्यꣳ स्यात्। न च तत् क्रियते, प्रत्युतोपादेयत्वेनैव तत् त्वम् असि [छान्।, ६।८।७], तस्य तावद् एव चिरम् [छान्।, ६।१४।२] इत्य् उपदिश्यते॥८॥
Link copied[तच्-छब्देन प्रधान-प्रतिपादने, एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा-विरोधः]
Link copiedइतश् च न प्रधानम्--
Link copied९ प्रतिज्ञा-विरोधात्॥१।१।९॥
Link copiedप्रधान-कारणत्वे प्रतिज्ञा-विरोधश् च भवति। वाक्योपक्रमे ह्य् एक-विज्ञानेन सर्व-विज्ञानꣳ प्रतिज्ञातम्। तच् च कार्य-कारणयोर् अनन्यत्वेन कारण-भूत-सद्-विज्ञानात् तत्-कार्य-भूत-चेतनाचेतन-प्रपञ्चस्य ज्ञाततयैवोपपादनीयꣳ तत् तु प्रधान-कारणत्त्वे चेतन-वर्गस्य प्रधान-कार्यत्वाभावात् प्रधान-विज्ञानेन चेतन-वर्ग-विज्ञानासिद्धेर् विरुध्यते॥९॥
Link copied[लयाधिष्ठानस्य कारणत्वोपपत्तिः]
Link copiedइतश् च न प्रधानम्--
Link copied१० स्वाप्ययात्॥१।१।१०॥
Link copiedतद् एव सच्-छब्द-वाच्यꣳ प्रकृत्याह, स्वप्नान्तꣳ मे सोम्य विजानीहीति यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वम् अपीतो भवति तस्माद् एनꣳ स्वपितीत्य् आचक्षते स्वꣳ ह्य् अपीतो भवति [छान्।, ६।८।१] इति सुषुप्तꣳ जीवꣳ सता सम्पन्नꣳ, स्वमपीतः-- स्वस्मिन् प्रलीनः इति व्यपदिशति। प्रलयश् च-- स्व-कारणे लयः। न चाचेतनꣳ प्रधानꣳ चेतनस्य जीवस्य कारणꣳ भवितुम् अर्हति। स्वम् अपीतो भवति-- आत्मानम् एव जीवोऽपीतो भवतीत्य् अर्थः। चिद्-वस्तु-शरीरकꣳ तद्-आत्म-भूतꣳ ब्रह्मैव जीव-शब्देनाभिधीयत इति नाम-रूप-व्याकरण-श्रुत्योक्तम्। तज्-जीव-शब्दाभिधेयꣳ ब्रह्म सुषुप्ति-कालेऽपि प्रलय-काल इव नाम-रूप-परिष्वङ्गाभावात् केवल-सच्-छब्दाभिधेयम् इति सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति [छान्।, ६।८।१] इत्य् उच्यते। तथा समान-प्रकरणे नाम-रूप-परिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यꣳ किञ्चन वेद नान्तरम् [बृहद्।, ६।३।२१] इत्य् उच्यते। आमोक्षाज् जीवस्य नाम-रूप-परिष्वङ्गाद् एव हि स्व-व्यतिरिक्त-विषय-ज्ञानोदयः। सुषुप्ति-काले हि नाम-रूपे विहाय सता सम्परिष्वक्तः पुनर् अपि जागर-दशायाꣳ नाम-रूपे परिष्वज्य तत्-तन्-नाम-रूपो भवतीति श्रुत्य्-अन्तरे स्पष्टम् अभिधीयते यदा सुप्तः स्वप्नꣳ न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवति [कौषी। ४।१९], तस्माद् वा आत्मनः प्राणा यथायथꣳ विप्रतिष्ठन्ते [कौषी। ४।४०]; तथा त इह व्याघ्रो वा सिꣳहो वा वृको वा वराहो वा दꣳशो वा मशको वा यद् यद् भवन्ति तथा भवन्ति इति च। तथा सुषुप्तꣳ जीवꣳ प्राज्ञेनात्मना सम्परिष्वक्तः [बृहद्।, ६।३।२] इति च वदति॥
Link copiedतस्मात् सच्-छब्द-वाच्यः परꣳ ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव। तदाह वृत्ति-कारः-- सता सोम्य तदा सम्पन्नो भवति इति, सम्पत्य्-असम्पत्तिभ्याम् एतद् अध्यवसीयते-- प्राज्ञेनात्मना सम्परिष्वक्तः [बोधा। वृ।] इति चाह इति॥१०॥
Link copied[कारणꣳ परमात्मैवेति श्रुत्य्-अन्तरैर् उपपादनम्]
Link copiedइतश् च न प्रधानम्--
Link copied११ गति-सामान्यात्॥१।१।११॥
Link copiedआत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किञ्चन मिषत्। स ईक्षत लोकान् नु सृजा इति। स इमाꣳल् लोकान् असृजत [ऐत। १।१] तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः। आकाशाद् वायुः। वायोर् अग्निः। अग्नेर् आपः। अद्भ्यः पृथिवी [तै।, २।१] तस्य ह वा एतस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग्-वेदः [सुबाल, २] इत्य् आदि सृष्टि-वाक्यानाꣳ या गतिः-- प्रवृत्तिः; तत्-सामान्यात्-- तत्-समानार्थत्वाद् अस्य, तेषु च सर्वेषु सर्वेश्वरः कारणम् अवगम्यते। तस्माद् अत्रापि सर्वेश्वर एव कारणम् इति निश्चीयते॥११॥
Link copied[प्रकृत-श्रुताव् एव सर्वेश्वर-कारणत्वोक्ति-प्रदर्शनम्]
Link copiedइतश् च न प्रधानम्--
Link copied१२ श्रुतत्वाच् च॥१।१।१२॥
Link copiedश्रुतम् एव ह्य् अस्याम् उपनिषद्य् अस्य सच्-छब्द-वाच्यस्य आत्मत्वेन नाम-रूपयोर् व्याकर्तृत्वꣳ, सर्वज्ञत्वꣳ, सर्व-शक्तित्वꣳ, सर्वाधारत्वम्, अपहत-पाप्मत्वादिकꣳ, सत्य-कामत्वꣳ, सत्य-सङ्कल्पत्वꣳ च-- अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२], सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः [छान्।, ६।८।६], ऐतदात्म्यम् इदꣳ सर्वꣳ तत् सत्यꣳ स आत्मा [छान्।, ६।८।६-७], यच् चास्येहास्ति यच् च नास्ति सर्वꣳ तद् अस्मिन् समाहितम् [छान्।, ८।१।३], तस्मिन् कामाः समाहिताः [छान्।, ६।८।५], एष आत्मापहत-पाप्मा विजरो विमृत्युर् विशाको विजघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।१।५] इति॥
Link copiedतथा च श्रुत्य्-अन्तराणि-- न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गम्। स कारणꣳ करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे।, ६।९], सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यद् आस्ते [तै।, आ। ३।१२।१३], अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, आ। ३।११।२१], विश्वात्मानꣳ परायणम् [तै।, आ।, १०।११।१], पतिꣳ विश्वस्यात्मेश्वरम् [तै।, आ।, १०।११।१], यच् च किञ्चिञ् जगत्य् अस्मिन् दृश्यते श्रूयतेऽपि वा। अन्तर् बहिश् च तत् सर्वꣳ व्याप्य नारायणः स्थितः [तै।, २।११], एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इत्य् आदीनि।
Link copied[प्रधानस्य सच्-छब्दाप्रतिपाद्यत्व-निगमनम्]
Link copiedतस्माज् जगत्-कारण-वादि-वाक्यꣳ न प्रधानादि-प्रतिपादन-योग्यम्। अतः सर्व-ज्ञः सर्व-शक्तिः सर्वेश्वरेश्वरो निरस्त-निखिल-दोष-गन्धः अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणौघ-महार्णवः पुरुषोत्तमो नारायण एव निखिल-जगद्-एक-कारणꣳ जिज्ञास्यꣳ ब्रह्मेति स्थितम्॥
Link copied[एतेषाꣳ सूत्राणाꣳ ब्रह्माज्ञान-वाद्य्-अननुगुणत्वम्]
Link copiedअत एव निर्विशेष-चिन्-मात्र-ब्रह्म-वादोऽपि सूत्र-कारेण आभिः श्रुतिभिः निरस्तो वेदितव्यः; पारमार्थिक-मुख्येक्षणादि-गुण-योगि जिज्ञास्यꣳ ब्रह्मेति स्थापनात्॥
Link copiedनिर्विशेष-वादे हि साक्षित्वम् अप्य् अपारमार्थिकम्। वेदान्त-वेद्यꣳ ब्रह्म जिज्ञास्यतया प्रतिज्ञातम्। तच् च चेतनम् इति ईक्षतेर् नाशब्दम् [ब्र। सू। १।१।५] इत्य् आदिभिः सूत्रैः प्रतिपाद्यते। चेतनत्वꣳ नाम चैतन्य-गुण-योगः। अत ईक्षण-गुण-विरहिणः प्रधान-तुल्यत्वम् एव॥
Link copiedकिꣳ च निर्विशेष-प्रकाश-मात्र-ब्रह्म-वादे तस्य प्रकाशत्वम् अपि दुरुपपादम्। प्रकाशो हि नाम स्वस्य परस्य च व्यवहार-योग्यताम् आपदयन् वस्तु-विशेषः। निर्विशेषस्य वस्तुनस् तद्-उभय-रूपत्वाभावाद् घटादिवद् अचित्त्वम् एव॥
Link copiedतद्-उभय-रूपत्वाभावेऽपि तत्-क्षमत्वम् अस्तीति चेत् तन् न, तत्-क्षमत्वꣳ हि तत्-सामर्थ्यम् एव। सामर्थ्य-गुण-योगे हि निर्विशेष-वादः परित्यक्तः स्यात्। अथ श्रुति-प्रामाण्याद् अयम् एको विशेषोऽभ्युपगम्यत इति चेत्, हन्त तर्हि तत एव सर्वज्ञता, सर्व-शक्तित्वꣳ, सर्वेश्वरेश्वरत्वꣳ सर्व-कल्याण-गुणाकरत्वꣳ सकल-हेय-प्रत्यनीकतेत्य् आदयः सर्वेऽभ्युपगन्तव्याः। शक्तिमत्त्वꣳ च कार्य-विशेषानुगुणत्वम्। तच् च कार्य-विशेषैकनि-रूपणीयम्। कार्य-विशेषस्य निष्प्रमाणकत्वे तदैक-निरूपणीयꣳ शक्तिमत्त्वम् अपि निष्प्रमाणꣳ स्यात्। किꣳ च निर्विशेष-वस्तु-वादिनो वस्तुत्वम् अपि निष्प्रमाणम्। प्रत्यक्षानुमानागम-स्वानुभवाः सविशेष-गोचरा इति पूर्वम् एवोक्तम्। तस्माद् विचित्र-चेतनाचेतनात्मक-जगद्-रूपेण बहु स्याम् [छान्।, ६।५।६] इतीक्षण-क्षमः पुरुषोत्तम एव जिज्ञास्य इति सिद्धम्॥१२॥
Link copiedइति ईक्षत्य्-अधिकरणम्॥५॥
Link copiedआनन्द-मयाधिकरणम्॥६॥
Link copied[अधिकरणार्थः-- आनन्द-मयः परꣳ ब्रह्मैव, न जीवः]
Link copied[आनन्द-मय-विद्या-विचारः, तै।, २।५]
Link copied[पूर्वोत्तराधिकरणयोः सङ्गति-प्रदर्शनम्]
Link copiedएवꣳ जिज्ञासितस्य ब्रह्मणश् चेतन-भोग्य-भूत-जड-रूप-सत्त्व-रजस् तमो-मय-प्रधानाद् व्यावृत्तिर् उक्ता। इदानीꣳ कर्म-वश्यात् त्रि-गुणात्मक-प्रकृति-सꣳसर्ग-निमित्त-नाना-विधानन्त-दुःख-सागर-निमज्जनेनाशुद्धात् शुद्धाच् च प्रत्यगात्मनोऽन्यन् निखिल-हेय-प्रत्यनीक-निरतिशयानन्दꣳ ब्रह्मेति प्रतिपाद्यते।
Link copied१३ आनन्द-मयोऽभ्यासात्॥१।१।१३॥
Link copied[विषयोपक्षेपः]
Link copiedतैत्तिरीया अधीयते-- स वा एष पुरुषोऽन्न-रस-मयः [तै।, २।८।१] तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५।२] इति॥
Link copied[सꣳशय-स्वरूपम्]
Link copiedतत्र सन्देहः-- किम् अयम् आनन्द-मयो बन्ध-मोक्ष-भागिनः प्रत्यगात्मनो जीव-शब्दाभिलपनीयाद् अन्यः परमात्मा, उत स एव इति॥
Link copied[सयुक्तिकः पूर्व-पक्षः साङ्ख्यस्य]
Link copiedकिꣳ युक्तꣳ प्रत्यगात्मेति। कुतः। तस्यैष एव शारीर आत्मा [तै।, २।५।१] इत्य् आनन्द-मयस्य शारीरत्व-श्रवणात्। शारीरो हि शरीर-सम्बन्धी जीवात्मा॥
Link copied[पूर्व-पक्ष-युक्तेर् अनुत्थितिः]
Link copiedननु च जगत्-कारणतया प्रतिपादितस्य ब्रह्मणः सुख-प्रतिपत्त्य्-अर्थम् अन्न-मयादीन् अनुक्रम्य तद् एव जगत्-कारणम् आनन्द-मय इत्य् उपदिशति; जगत्-कारणꣳ च तद् ऐक्षत [छान्।, ६।२।३] इतीक्षण-श्रवणात् सर्व-ज्ञः सर्वेश्वर इत्य् उक्तम्॥
Link copied[पूर्व-पक्ष-युक्ति-स्थिरीकरणम्]
Link copiedसत्यम् उक्तम्; स तु जीवान् नातिरिच्यते-- अनेन जीवेनात्मनानुप्रविश्य [छान्।, ६।३।२] तत् त्वम् असि श्वेतकेतो [छान्।, ६।८।७] इति कारणतया निर्दिष्टस्य जीव-सामानाधिकरण्य-निर्देशात्। सामानाधिकरण्यꣳ ह्य् एकत्व-प्रतिपादन-परम्, यथा सोऽयꣳ देवदत्तः इत्य् आदौ। ईक्षापूर्विका च सृष्टिश् चेतनस्य जीवस्योपपद्यत एव। अतो ब्रह्मविद् आप्नोति परम् [तै।, २।१।९] इति जीवस्याचित्-सꣳसर्ग-वियुक्तꣳ स्वरूपꣳ प्राप्यतयोपदिश्यते। अचिद्-वियुक्त-स्वरूपस्य लक्षणम् इदम् उच्यते सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।९] इति। तद्-रूप-प्राप्तिर् एव हि मोक्षः। न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति। अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः [छान्।, ८।१२।१] इति। अतो जीवस्याविद्या-वियुक्तꣳ स्वरूपꣳ प्राप्यतया प्रक्रान्तम् आनन्द-मय इत्य् उपदिश्यते॥
Link copied[जीव-स्वरूपस्योपदेश-प्रक्रमोपपादनम्]
Link copiedतथा हि शाखा-चन्द्र-न्यायेनात्म-स्वरूपꣳ दर्शयितुम् अन्न-मयः पुरुषः इति शरीरꣳ प्रथमꣳ निर्दिश्य, तद्-अन्तर-भूतꣳ तस्य धारकꣳ पञ्च-वृत्ति-प्राणम्, तस्याप्य् अन्तर-भूतꣳ मनः, तद्-अन्तर-भूताꣳ च बुद्धिꣳ, प्राण-मयो [तै।, २।२] मनो-मयो [तै।, २।३] विज्ञान-मयः [तै।, २।४] इति तत्र तत्र बुद्ध्य्-अवतरण-क्रमेण निर्दिश्य सर्वान्तर-भूतꣳ जीवात्मानम् अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५।२] इत्य् उपदिश्यान्तरात्म-परम्पराꣳ समापयति। अतो जीवात्म-स्वरूपम् एव ब्रह्मविद् आप्नोति [तै।, २।१] इति प्रक्रान्तꣳ ब्रह्म; तद् एवानन्द-मय इत्य् उपदिष्टम् इति निश्चीयते॥
Link copied[अद्वैतिनाꣳ पुच्छ-ब्रह्म-वादः, तत्-परिहारश् च]
Link copiedननु च ब्रह्म पुच्छꣳ प्रतिष्ठा [तै।, २।५।२] इत्य् आनन्द-मयाद् अन्यद् ब्रह्मेति प्रतीयते। नैवꣳ ब्रह्मैव स्व-स्वभाव-विशेषेण पुरुष-विधत्व-रूपितꣳ शिरः-पक्ष-पुच्छ-रूपेण व्यपदिश्यते। यथान्न-मयो देहोऽवयवी स्वस्माद् अनतिरिक्तैः स्वावयवैर् एव तस्येदम् एव शिरः [तै।, २।१] इत्य् आदिना शिरः-पक्ष-पुच्छवत्तया निदर्शितः। तथा आनन्द-मयꣳ ब्रह्मापि स्वस्माद् अनतिरिक्तैः प्रियादिभिर् निदर्शितम्। तत्रावयवत्वेन रूपितानाꣳ प्रिय-मोद-प्रमोदानन्दानाम् आश्रयतया अखण्ड-रूपम् आनन्द-मयꣳ ब्रह्म पुच्छꣳ प्रतिष्ठा [तै।, २।५] इत्य् उच्यते। यदि चानन्द-मयाद् अन्यद् ब्रह्माभविष्यत्, तस्माद् वा एतस्माद् अन्योऽन्तर आत्मा ब्रह्म इत्य् अपि निरदेक्ष्यत। नचैवꣳ निर्दिश्यते। एतद् उक्तꣳ भवति ब्रह्मविद् आप्नोति परम् [तै।, २।१] इति प्रक्रान्तꣳ ब्रह्म सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इति लक्षणतः सकलेतर-व्यावृत्ताकारꣳ प्रतिपाद्य तद् एव तस्माद् वा एतस्माद् आत्मनः [तै।, २।१] इत्य् आत्म-शब्देन निर्दिश्य तस्य सर्वान्तरत्वेनात्मत्वꣳ व्यञ्जयद् वाक्यम् अन्न-मयादिषु तत्-तद्-अन्तरतया आत्मत्वेन निर्दिष्टान् प्राण-मयादीन् अतिक्रम्य अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५।२] इत्य् आत्म-शब्देन निर्देशम् आनन्द-मये समापयति। अत आत्म-शब्देन प्रक्रान्तꣳ ब्रह्मानन्द-मय इति निश्चीयते-- इति॥
Link copied[पुनः प्रकारान्तरेण ब्रह्मण आनन्द-मयातिरिक्तत्व[पुच्छत्व]शङ्का-परिहारौ]
Link copiedननु च-- ब्रह्म पुच्छꣳ प्रतिष्ठा [तै।, २।५।३] इत्य् उक्त्वा असन्न् एव स भवति। असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद् वेद। सन्तम् एनꣳ ततो विदुः [तै।, २।६।१] इति ब्रह्म-ज्ञानाज्ञानाभ्याम् आत्मनः सद्-भावासद्-भावौ दर्शयति। नानन्द-मय-ज्ञानाज्ञानाभ्याम्। न चानन्द-मयस्य प्रिय-मोदादि-रूपेण सर्व-लोक-विदितस्य सद्-भावासद्-भाव-ज्ञानाशङ्का युक्ता। अतो नानन्द-मयम् अधिकृत्यायꣳ श्लोक उदाहृतः। तस्माद् आनन्द-मयाद् अन्यद् ब्रह्म। नैवम्-- इदꣳ पुच्छꣳ प्रतिष्ठा [तै।, २।१।३] पृथिवी पुच्छꣳ प्रतिष्ठा [तै।, २।२।३] अथर्वाङ्गिरसः पुच्छꣳ प्रतिष्ठा [तै।, २।३।३] महः पुच्छꣳ प्रतिष्ठा [तै।, २।४।२] इत्य् उक्त्वा तत्र तत्रोदाहृताः--- अन्नाद् वै प्रजाः प्रजायन्ते इत्य् आदि श्लोका यथा न पुच्छ-मात्र-प्रतिपादन-पराः, अपि त्व् अन्न-मयादि-पुरुष-प्रतिपादन-पराः, एवम् अत्राप्य् आनन्द-मयस्यायम् असन्न् एव इति श्लोकः। नानन्द-मय-व्यतिरिक्तस्य पुच्छस्य। आनन्द-मयस्यैव ब्रह्मत्वेऽपि प्रिय-मोदादि-रूपेण रूपितस्यापरिच्छन्नानन्दस्य सद्-भावासद्-भाव-ज्ञानाशङ्का युक्तैव। पुच्छ-ब्रह्मणोऽप्य् अपरिच्छन्नानन्दतयैव ह्य् अप्रसिद्धता। शिरः-प्रभृत्य्-अवयवित्वाभावाद् ब्रह्मणो नानन्द-मयो ब्रह्मेति चेद् ब्रह्मणः पुच्छत्व-प्रतिष्ठात्वाभावात् पुच्छम् अपि ब्रह्म न भवेत्। अथाविद्या-परिकल्पितस्य वस्तुनस् तस्याश्रय-भूतत्वाद् ब्रह्मणः पुच्छꣳ प्रतिष्ठेति रूपण-मात्रम् इत्युच्येत, हन्त तर्हि तस्यासुखाद् व्यावृत्तस्यानन्द-मयस्य ब्रह्मणः प्रिय-शिरस्त्वादि-रूपणꣳ भविष्यति॥
Link copied[पूर्व-पक्षार्थ-निरूपणम्]
Link copiedएवꣳ च सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] इति विकारास्पद-जड-परिच्छिन्न-वस्त्व्-अन्तर-व्यावृत्तस्यासुखाद् व्यावृत्तिरानन्द-मय इत्य् उपदिश्यते। ततश् चाखण्डैक-रसानन्दे ब्रह्मण्य् आनन्द-मय इति मयट् प्राण-मय इव स्वार्थिको द्रष्टव्यः। तस्माद् अविद्या-परिकल्पित-विविध-विचित्र-देवादि-भेद-भिन्नस्य जीवात्मनः स्वाभाविकꣳ रूपम् अखण्डैकरसꣳ सुखैकतानम् आनन्द-मय इत्य् उच्यत इत्य् आनन्द-मयः प्रत्यगात्मा॥
Link copied[सिद्धान्तारम्भः, तत्रानन्द-मयस्य परमात्मन एव]
Link copiedएवꣳ प्राप्ते प्रचक्ष्महे--- आनन्द-मयोऽभ्यासात्--- आनन्द-मयः परमात्मा। कुतः। अभ्यासात्। सैषानन्दस्य मीमाꣳसा भवति [तै।, २।८।१] इत्य् आरभ्य यतो वाचो निवर्तन्ते [तै।, २।९।१] इत्य् एवम् अन्तेन वाक्येन शत-गुणितोत्तर-क्रमेण निरतिशय-दशा-शिरस्कोऽभ्यस्यमान आनन्दोऽनन्त-दुःख-मिश्र-परिमित-सुख-लव-भागिनि जीवात्मन्य् असम्भवन् निखल-हेय-प्रत्यनीकꣳ कल्याणैकतानꣳ सकलेतर-विलक्षणꣳ परमात्मानम् एव स्वाश्रयम् आवेदयति॥ यथाह--
Link copiedतस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५।२] इति॥
Link copied[विज्ञान-मय-शब्दस्य बुद्धि-मात्र-परताव्युदासः]
Link copiedविज्ञान-मयो हि जीवः, न बुद्धि-मात्रम्, मयट्-प्रत्ययेन, व्यतिरेक-प्रतीतेः। प्राण-मये त्व् अगत्या स्वार्थिकताश्रीयते। इह तु तद्वतो जीवस्य सम्भवान् नानर्थक्यꣳ न्यायम्। बद्धो मुक्तश् च प्रत्यगात्मा ज्ञातैवेत्य् अभ्यधिष्महि। प्राण-मयादौ च मयड्-अर्थ-सम्भवोऽनन्तरम् एव वक्ष्यते। कथꣳ तर्हि विज्ञान-मय-विषय-श्लोके विज्ञानꣳ यज्ञꣳ तनुते [तै।, २।५।१] इति केवल-विज्ञान-शब्दोपादानम् उपपद्यते। ज्ञातुर् एवात्मनः स्वरूपम् अपि स्व-प्रकाशतया विज्ञानम् इत्य् उच्यत इति न दोषः, ज्ञानैक-निरूपणीयत्वाच् च ज्ञातुः स्वरूपस्य। स्वरूप-निरूपण-धर्म-शब्दा हि धर्म-मुखेन धर्मि-स्वरूपम् अपि प्रतिपादयन्ति, गवादि-शब्दवत्। कृत्यु-ल्युटो बहुलम् [अष्टा। ३।३।११३] इति वा कर्तरि ल्युड् आश्रीयते। नन्द्य्-आदित्वꣳ वाश्रित्य नन्दि-ग्रहि [अष्टा। ३।१।१३४] इत्य् आदिना कर्तरि ल्युः। अत एव च विज्ञानꣳ यज्ञꣳ तनुते कर्माणि तनुतेऽपि च [तै।, २।५] इति यज्ञादि-कर्तृत्वꣳ विज्ञानस्य श्रूयते। बुद्धि-मात्रस्य हि न कर्तृत्वꣳ सम्भवति॥
Link copied[कर्तृत्वꣳ चौपचारिकꣳ, किन्तु चेतनासाधारण-धर्म एव]
Link copiedअचेतनेषु हि चेतनोपकरणेषु विज्ञान-मयात् प्राचीनेष्व् अन्न-मयादिषु, न चेतन-धर्म-भूतꣳ कर्तृत्वꣳ श्रूयते। अत एव चेतनम् अचेतनꣳ च स्वासाधारणैर् निलयनत्वानिलयनत्वादिभिर् धर्मि-विशेषैर् विभज्य निर्दिशद् वाक्यꣳ विज्ञानꣳ चाविज्ञानꣳ च [तै।, २।३।३] इति विज्ञान-शब्देन तद्-गुणꣳ चेतनꣳ वदति।
Link copied[विज्ञान-शब्दस्य चेतनार्थकत्वꣳ माध्यन्दिन-पाठाद् अपि]
Link copiedतथान्तर्यामि-ब्राह्मणे यो विज्ञाने तिष्ठन् [बृहद्।, ५।७।२६] इत्य् अस्य काण्व-पाठ-गतस्य पर्यायस्य स्थाने य आत्मनि तिष्ठन् इति पर्याय-मधीयाना माध्यन्दिनाः काण्व-पाठ-गतꣳ विज्ञान-शब्द-निर्दिष्टꣳ जीवात्मेति स्फुटीकुर्वन्ति। विज्ञानम् इति च नपुꣳसक-लिङ्गꣳ वस्तुत्वाभिप्रायम्। तद् एवꣳ विज्ञान-मयाज् जीवाद् अन्यस् तद्-अन्तरः परमात्मा आनन्द-मयः॥
Link copied[सामानाधिकरण्यस्य भेदावहत्वोपपादनेन पूर्व-पक्ष-दूषणम्]
Link copiedयद्य् अपि विज्ञानꣳ यज्ञꣳ तनुते [तै।, २।५।१] इति श्लोके ज्ञान-मात्रम् एवोपादीयते; न ज्ञाता, तथापि--- अन्योन्तर आत्मा विज्ञानमयः [तै।, २।४।१] इति तद्वान् ज्ञातैवोपदिश्यते, यथा अन्नाद् वै प्रजाः प्रजायन्त [तै।, २।२।१] इत्य् अत्र श्लोके केवलान् नोपादनेऽपि स वा एष पुरुषोऽन्न-रस-मयः [तै।, २।१] इत्य् अत्र नान्न-मात्रꣳ निर्दिष्टम् अपि तु तन्-मयः तद्-विकारः। एतत् सर्वꣳ हृदि निधाय सूत्र-कारः स्वयम् एव भेद-व्यपदेशात् [ब्र। सू। १।१।१८] इत्य् अनन्तरम् एव वदति॥
Link copied[सामानाधिकरण्यस्य भेदावहत्वोपपादनेन पूर्व-पक्ष-दूषणम्]
Link copiedयद् उक्तꣳ जगत्-कारणतया निर्दिष्टस्यानेन जीवेनात्मनानुप्रविश्य [छान्।, ६।३।२], तत् त्वम् असि [छान्।, ६।८।७] इति च जीव-सामानाधिकरण्य-निर्देशाज् जगत्-कारणम् अपि जीव-स्वरूपान् नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपꣳ ब्रह्मविद् आप्नोति परम् [तै।, २।१] इति प्रक्रान्तम् असुखाद् व्यावृत्तत्वेन आनन्द-मय इत्य् उपदिश्यत इति-- तद् अयुक्तम्, जीवस्य चेतनत्वे सत्य् अपि तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत, [छान्।, ६।२।३] इति स्व-सङ्कल्प-पूर्वकानन्त-विचित्र-सृष्टि-योगानुपपत्तेः। शुद्धावस्थस्यापि हि तस्य सर्गादि-जगद्-व्यापारासम्भवो जगद्-व्यापार-वर्जम् [ब्र। सू। ४।४।१७], भोग-मात्र-साम्य-लिङ्गात् [ब्र। सू। ४।४।२१] इत्य् अत्रोपपादयिष्यते। कारण-भूतस्य ब्रह्मणो जीवः स्वरूपत्वानभ्युपगमेऽनेन जीवेनात्मना [छान्।, ६।८।७], तत् त्वम् असि [छान्।, ६।८।७] इति सामानाधिकरण्य-निर्देशः कथम् उपपद्यत इति चेत् कथꣳ वा निरस्त-निखिल-दोष-गन्धस्य सत्य-सङ्कल्पस्य सर्व-ज्ञस्य सर्व-शक्तेर् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणस्य सकल-कारण-भूतस्य ब्रह्मणो नाना-विधानन्त-दुःखाकर-कर्माधीन-चिन्तित-निमिषितादि-सकल-प्रवृत्ति-जीव-स्वरूपत्वम्।
Link copied[जहद्-अजहत्-स्वार्थ-लक्षणया निर्वाहस्य दूषणम्]
Link copiedअन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत् कस्य भोः किꣳ हेय-सम्बन्धस्य किꣳ वा हेय-प्रत्यनीक-कल्याणैकतान-स्वभावस्य हेय-प्रत्यनीक-कल्याणैकतानस्य ब्रह्मणोऽनाद्य्-अविद्याश्रयत्वेन हेय-सम्बन्ध-मिथ्या-प्रतिभासो मिथ्या-रूप इति चेद् विप्रतिषिद्धिम् इदम् अभिधीयते, ब्रह्मणो हेय-प्रत्यनीक-कल्याणैकतानत्वम् अनाद्य्-अविद्याश्रयत्वेनानन्त-दुःख-विषय-मिथ्या-प्रतिभासाश्रयत्वꣳ चेति। अविद्याश्रयत्वꣳ तत्-कार्य-दुःख-प्रतिभासाश्रयत्वꣳ चैव हि हेय-सम्बन्धः। तत्-सम्बन्धित्वꣳ तत्-प्रत्यनीकत्वꣳ च विरुद्धम् एव। तथापि तस्य मिथ्यात्वान् न विरोध इति मा वोचः। मिथ्या-भूतम् अप्य् अपुरुषार्थ एव यन्-निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे। निरसनीयापुरुषार्थ-योगाच् च हेय-प्रत्यनीक-कल्याणैकतानतया विरुध्यते। किꣳ कुर्मः, येनाश्रुतꣳ श्रुतꣳ भवति [छान्।, ६।१।३] इत्य् एक-विज्ञानेन सर्व-विज्ञानꣳ प्रतिज्ञाय सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] इत्य् आदिना निखिल-जगद्-एक-कारणताम्, तद् ऐक्षत बहु स्याम् [छान्।, ६।२।३] इति सत्य-सङ्कल्पताꣳ च ब्रह्मणः प्रतिपाद्य तस्यैव ब्रह्मणः, तत् त्वम् असि [छान्।, ६।८।७] इति सामानाधिकरण्येनानन्त-दुःखाश्रय-जीवैक्यꣳ प्रतिपादितम्, तद्-अन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयम् इति चेत्, श्रुतोपपत्तयेऽप्य् अनुपपन्नꣳ विरुद्धꣳ च न कल्पनीयम्।
Link copiedअथ हेय-सम्बन्ध एव पारमार्थिकः, कल्याणैक-स्वभावता तु मिथ्या-भूता। हन्तैवꣳ ताप-त्रयाभिहत-चेतनोज्जिजीवयिषया प्रवृत्तꣳ शास्त्रम्, ताप-त्रयाभिहतिर् एव तस्य पारमार्थिकी, कल्याणैक-स्वभावस् तु भ्रान्ति-परिकल्पित इति बोधयत् सम्यग् उज्जीवयति। अथैतद्-दोष-परिजिहीर्षया ब्रह्मणो निर्विशेष-चिन्-मात्र-स्वरूपातिरिक्त-जीवत्व-दुःखित्वादिकꣳ सत्य-सङ्कल्पत्व-कल्याण-गुणाकरत्व-जगत्-कारणत्वाद् यपि मिथ्या-भूतम् इति कल्पनीयिम् इति चेद् अहो भवताꣳ वाक्यार्थ-पर्यालोचन-कुशलता। एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञानꣳ सर्वस्य मिथ्यात्वे सर्वस्य ज्ञात-व्यस्याभावान् न सेत्स्यति। यथैक-विज्ञानꣳ परमार्थ-विषयम्, तथैव सर्व-विज्ञानम् अपि यदि परमार्थ-विषयम्, तद्-अन्तर्गतꣳ च-- तदा तज्-ज्ञानेन सर्व-विज्ञानम् इति शक्यते वक्तुम्। न हि परमार्थ-शुक्तिकाज्ञानेन तद्-आश्रयम् अपरामर्थ-रजतꣳ ज्ञातꣳ भवति॥
Link copied[सर्व-विज्ञान-प्रतिज्ञाया ब्रह्मेतरासत्यत्व-परतादूषणम्]
Link copiedअथोच्येत-- एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञाया अयम् अर्थः-- निर्विशेष-वस्तु-मात्रम् एव सत्यꣳ, अन्यद् असत्यम् इति। न तर्हि येनाश्रुतꣳ श्रुतꣳ भवत्य् अमतꣳ मतम् अविज्ञातꣳ विज्ञातम् [छान्द्। ६।१।३] इति श्रूयेत, येन श्रुतेनाश्रुतम् अपि श्रुतꣳ भवतीति ह्य् अस्य वाक्यस्यार्थः। कारणतयोपलक्षित-निर्विशेष-वस्तु-मात्रस्यैव सद्-भावश् चेत् प्रतिज्ञातः, यथा सोम्यैकेन मृत्-पिण्डेन सर्वꣳ मृन्-मयꣳ विज्ञातम् [छान्।, ६।१।४] इति दृष्टान्तोऽपि न घटते। मृत्-पिण्ड-विज्ञानेन हि तद्-विकारस्य ज्ञातता निदर्शिता। तत्रापि विकारस्यासत्यताभिप्रेतेति चेन् मृद्-विकारस्य रज्जु-सर्पादिवद् असत्यत्वꣳ शुश्रूषोर् असिद्धम् इति प्रतिज्ञातार्थ-सम्भावनाप्रदर्शनाय यथा सोम्य [छान्।, ६।१] इति प्रसिद्धवद् उपन्यासो न युज्यते। न च तत् त्वम् अस्य् आदि वाक्य-जन्य-ज्ञानोत्पत्तेः प्राग्-विकार-जातस्यासत्यताम् आपादयत् तर्कानुगृहीतम् अननुगृहीतꣳ वा प्रमाणम् उपलभामह इति। अयम् अर्थः--- तद्-अनन्यत्वम् आरम्भण-शब्दादिभ्यः [ब्र। सू। २।१।१५] इत्य् अत्र वक्ष्यते। तथा--
Link copied[पर्यालोचनीय-वाक्यानाꣳ दर्शनम्]
Link copiedसद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छान्।, ६।२।१], तद् ऐक्षत बहु स्याꣳ प्रजायेयेति। तत् तेजोऽसृजत [छान्।, ६।२।३], हन्ताहम् इमास् तिस्रो देवतानेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२], सन्-मूलाः सोम्येमाः सर्वाः प्रजाः सद्-आयतनाः सत्-प्रतिष्ठाः। ऐतदात्म्यम् इदꣳ सर्वम् [छान्।, ६।८।३] इत्य् आदिनास्य जगतः सद्-आत्मकता सृष्टेः पूर्व-काले नाम-रूप-विभाग-प्रहाणम्, जगद्-उत्पत्तौ सच्-छब्द-वाच्यस्य ब्रह्मणः स्व-व्यतिरक्त-निमित्तान्तरानपेक्षत्वम्, सृष्टि-कालेऽहम् एवानन्त-स्थिर-त्रस-रूपेण बहु स्याम् इत्य् अनन्य-साधारण-सङ्कल्प-विशेषः, यथासङ्कल्पम् अनन्त-विचित्र-तत्त्वानाꣳ विलक्षण-क्रम-विशेष-विशष्टा सृष्टिः समस्तेष्व् अचेतनेषु वस्तुषु स्वात्मक-जीवानुप्रवेशेनैवानन्त-नाम-रूप-व्याकरणम्, स्व-व्यतिरिक्तस्य समस्तस्य स्व-मूलत्वम्, स्वायतनत्वम्, स्व-प्रवर्त्यत्वम्, स्वेनैव जीवनम्। स्व-प्रतिष्ठत्वम् इत्य् आद्य् अनन्त-विशेषाः शास्त्रैक-समधिगम्याः प्रतिपादिताः। तत्-सम्बन्धितया प्रकरणान्तरेष्व् अप्य् अपहत-पाप्मत्वादि-निरस्त-निखिल-दोषता-सर्वज्ञता सर्वेश्वरत्व-सत्य-कामत्व-सत्य-सङ्कल्पत्व-सर्वानन्द-करण-निरतिशयानन्द-योगादयः सकलेतर-प्रमाणाविषयाः सहस्रशः प्रतिपादिताः। एवम् अनन्य-गोचरानन्त-विशेष-विशिष्ट-प्रकृत-ब्रह्म-परामर्शित-च्छब्दस्य, निर्विशेष-वस्तु-मात्रोपदेश-परत्वम् असङ्गतत्वेनोन्मत्त-प्रलपितायेत। त्वꣳ पदꣳ च सꣳसारित्व-विशिष्ट-जीव-वाचि। तस्यापि निर्विशेष-स्वरूपोपस्थापन-परत्वे स्वार्थः परित्यक्तः स्यात्। निर्विशेष-प्रकाश-स्वरूपस्य च वस्तुनो ह्य् अविद्यया तिरोधानꣳ स्वरूप-नाश-प्रसङ्गादिभिर् न सम्भवतीति पूर्वम् एवोक्तम्। एवꣳ च सति समानाधिकरण-वृत्तयोस् तत् त्वम् इति द्वयोर् अपि पदयोर् मुख्यार्थ-परित्यागेन लक्षणा च समाश्रयणीया॥
Link copied[तत्-त्वम्-पदयोः सामानाधिकरण्य-विषये परकीयाभिप्रायानुवादः]
Link copiedअथोच्येत-- समानाधिकरण-वृत्तानाम् एकार्थ-प्रतिपादन-परतया विशेषणाꣳशे तात्पर्यासम्भवाद् एव विशेषण-निवृत्तेर् वस्तु-मात्रैकत्व-प्रतिपादनान् न लक्षणाप्रसङ्गः। यथा नीलम् उत्पलम् इति पद-द्वयस्य विशेष्यैकत्व-प्रतिपादन-परत्वेन नीलत्वोपलत्व-रूप-विशेषण-द्वयꣳ न विवक्ष्यते। तद्-विवक्षायाꣳ हि नीलत्व-विशिष्टाकारेणोत्पलत्व-विशिष्टाकारस्यैकत्व-प्रतिपादनꣳ प्रसज्येत। तत् तु न सम्भवति--- न हि नैल्य-विशिष्टाकारेण तद्-वस्तूत्पल-पदेन विशेष्यते, जाति-गुणयोर् अन्योन्य-समवाय-प्रसङ्गात्। अतो नीलत्वोत्पलत्वोपलक्षित-वस्त्व्-एकत्व-मात्रꣳ सामानाधिकरण्येन प्रतिपाद्यते। तथा सोऽयꣳ देवदत्तः इत्य् अतीत-काल-विप्रकृष्ट-देश-विशिष्टस्य तेनैव रूपेण सन्निहित-देश-वर्तमान-काल-विशिष्टतया प्रतिपादनानुपपत्तेर् उभय-देश-कालोपलक्षित-स्वरूप-मात्रैक्यꣳ सामानाधिकरण्येन प्रतिपाद्यते॥
Link copiedयद्य् अपि नीलम् इत्य् आद्य् एक-पद-श्रवणे, प्रतीयमानꣳ विशेषणꣳ सामानाधिकरण्य-वेलायाꣳ विरोधान् न प्रतिपाद्यते। तथापि वाच्येऽर्थे प्रधानाꣳशस्य प्रतिपादनान् न लक्षणा। अपि तु विशेषणाꣳशस्याविवक्षा-मात्रम्। सर्वत्र सामानाधिकरण्यैष एव स्वभाव इति न कश्चिद् दोष इति॥
Link copied[उक्त-पूर्व-पक्ष-प्रतिक्षेपः]
Link copiedतद् इदम् असारम्-- सर्वेष्व् एव वाक्येषु पदानाꣳ व्युत्पत्ति-सिद्धार्थ-सꣳसर्गि-विशेष-मात्रꣳ प्रत्याय्यम्। तत्र समानाधिकरण-वृत्तानाम् अपि नीलादिपदानाꣳ नैल्यादि-विशिष्ट एवार्थो व्युत्पत्ति-सिद्धः पदान्तरार्थ-सꣳसृष्टोऽभिधीयते। यथा नीलम् उत्पलमानय इत्य् उक्ते नीलिमादि-विशिष्टम् एवानीयते, यथा च विन्ध्याटव्याꣳ मद-मुदितो मातङ्गणस् तिष्ठति इति पद-द्वयावगत-विशेषण-विशिष्ट एवार्थः प्रतीयते; एवꣳ वेदान्त-वाक्येष्व् अपि समानाधिकरण-निर्देशेषु तत्-तद्-विशेषण-विशिष्टम् एव ब्रह्म प्रतिपत्तव्यम्॥
Link copied[सर्वैर् अपि विशेषणैः स्वरूपस्यैव विशेष्यता]
Link copiedन च विशेषण-विवक्षायाम् इतर-विशिष्टाकारꣳ वस्त्व् अन्येन विशेष्टव्यम्। अपि तु सर्वैर् विशेषणैः स्वरूपम् एव विशेष्यम्। तथा हि-- भिन्न-प्रवृत्ति-निमित्तानाꣳ शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इत्य् अन्वयेन निवृत्त्या वा पदान्तर-प्रतिपाद्याद् आकाराद् आकारान्तर-युक्ततया तस्यैव वस्तुनः पदान्तर-प्रतिपाद्यत्वꣳ सामानाधिकरण्य-कार्यम्। यथा देवदत्तः श्यामो युवा लोहिताक्षोऽदीनोऽकृपणोऽनवद्यः इति। यत्र त्व् एकस्मिन् वस्तुनि समन्वयायोग्यꣳ विशेषण-द्वयꣳ समानाधिकरण-पद-निर्दिष्टम्; तत्राप्य् अन्यतरत् पदम् अमुख्य-वृत्तम् आश्रीयते, न द्वयम्। यथा गौर् वाहीकः इति। नीलोत्पलादिषु तु विशेषण-द्वयान्वयाविरोधाद् एकम् एवोभय-विशिष्टꣳ प्रतिपाद्यते॥
Link copied[विशेषण-भेदेन विशेष्य-भेद-शङ्का-परिहारौ]
Link copiedअथ मनुषे एक-विशेषण-प्रतिसम्बन्धित्वेन निरूप्यमाणꣳ विशेषणान्तर-प्रतिसम्बन्धित्वाद् विलक्षणम् इति घट-पटयोर् इवैक-विभक्ति-निर्देशेऽप्य् ऐक्य-प्रतिपादनासम्भवात् समानाधिकरण-शब्दस्य न विशिष्ट-प्रतिपादन-परत्वम्, अपि तु विशेषण-मुखेन स्वरूपम् उपस्थाप्य तद्-ऐक्य-प्रतिपादन-परत्वम् एव-- इति॥
Link copiedस्याद् एतद् एवम्; यदि विशेषण-द्वय-प्रतिसम्बन्धि-तत्त्व-मात्रम् एवैक्यꣳ निरुन्ध्यात्। नचैतद् अस्ति; एकस्मिन् धर्मिण्य् उपसꣳहर्तुम् अयोग्य-धर्म-द्वय-विशिष्टत्वम् एव ह्य् एकत्वꣳ निरुणद्धि। अयोग्यता च प्रमाणान्तर-सिद्धा घटत्व-पटत्वयोः। नीलम् उत्पलम् इत्य् आदिषु तु दण्डत्व-कुण्डलत्ववत् रूपवत्त्व-रसवत्त्व-गन्धवत्त्वादिवच् च विरोधो नोपलभ्यते। न केवलम् अविरोध एव; प्रवृत्ति-निमित्त-भेदेनैकार्थ-निष्ठत्व-रूपꣳ सामानाधिकरण्यम् उपपादयत्य् एव धर्म-द्वय-विशिष्टताम्। अन्यथा स्वरूप-मात्रैक्ये अनेक-पद-प्रवृत्तौ निमित्ताभावात् सामानाधिकरण्यम् एव न स्यात्। विशेषणानाꣳ स्व-सम्बन्धानादरेण वस्तु-स्वरूपोपलक्षण-परत्वे सत्य् एकेनैव वस्तूपलक्षितम् इत्य् उपलक्षणान्तरम् अनर्थकम् एव; उपलक्षणान्तरोपलक्ष्याकार-भेदाभ्युपगमे तेनाकारेण सविशेषत्व-प्रसङ्गः॥
Link copied[प्रत्यभिज्ञा-पला-पक-वाक्य-स्थले निर्वाह-प्रकारः]
Link copiedसोऽयꣳ देवदत्तः इत्य् अत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात्। देशान्तर-सम्बन्धितया अतीतस्य सन्निहित-देश-सम्बन्धितया वर्तमानत्वाविरोधात्। अत एव हि सोऽयम् इति प्रत्यभिज्ञया काल-द्वय-सम्बन्धिनो वस्तुन ऐक्यम् उपपाद्यते वस्तुनः स्थिरत्व-वादिभिः। अन्यथा प्रतीतिविरोधे सति सर्वेषाꣳ क्षणिकत्वम् एव स्यात्। देश-द्वय-सम्बन्ध-विरोधस् तु काल-भेदेन परिह्रियते।
Link copied[सामानाधिकरण्यस्य प्रवृत्ति-निमित्त-भेदेन एकार्थ-पर्यवायित्वꣳ वैदिक-प्रयोगे]
Link copiedयतः समानाधिकरण-पदानाम् अनेक-विशेषण-विशिष्टैकार्थ-वाचित्वम्। अत एव, अरुणयैकहायन्या पिङ्गाक्ष्या सोमꣳ क्रीणाति [यजुर्। ६।१।६] इत्य् आरुण्यादि-विशष्टैकहायन्या क्रयः साध्यतया विधीयते॥
Link copiedतद् उक्तम् अर्थैकत्वे द्रव्य-गुणयोर् ऐक-कर्म्यान् नियमः स्यात् [पू। मी। सू। ३।१।१२] इति॥
Link copied[तद्-अधिकरणीय-पूर्व-पक्ष-सिद्धान्तौ]
Link copiedतत्रैवꣳ पूर्व-पक्षी मन्यते-- यद्य् अप्य् अरुणयेति-पदम् आकृतेर् इव गुणस्यापि द्रव्य-प्रकारतैक-स्वभावाद् द्रव्य-पर्यन्तम् एवारुणिमानम् अभिदधति, तथाप्य् एकहायन्य्-अन्वय-नियमोऽरुणिम्नो न सम्भवति। एकहायन्या क्रीणाति, तच्-चारुणयेत्य् अर्थ-द्वय-विधानासम्भवात्॥
Link copiedततश् चारुणयेति वाक्यꣳ भित्वा प्रकरण-विहित-सर्व-द्रव्य-पर्यन्तम् एवारुणिमानम् अविशेषेणाभिदधाति। अरुणयेति स्त्री-लिङ्ग-निर्देशः प्रकरण-विहित-सर्व-लिङ्गक-द्रव्याणाꣳ प्रदर्शनार्थः। तस्माद् एकहायन्य्-अन्वय-नियमोऽरुणिम्नो न स्यात्-- इति।
Link copiedअत्राभिधीयते-- अर्थैकत्वे द्रव्य-गुणयोर् ऐककर्म्यान् नियमः स्यात् [पू। मी। सू। ३।१।१२] अरुणयैकहायन्या [यजुर्। ६।१।६] इत्य् आरुण्य-विशिष्ट-द्रव्यैकहायनी-द्रव्य-वाचि पदयोः सामानाधिकरण्येनार्थैकत्वे सिद्धे सत्य् एकहायनी-द्रव्यारुण्य-गुणयोर् अरुणयेति पदेनैव विशेषण-विशेष्य-भावेन सम्बन्धितयाभिहितयोः क्रियाख्यैक-कर्मान्वयाविरोधाद् अरुणिम्नः क्रय-साधन-भूतैकहायन्य्-अन्वय-नियमः स्यात्॥
Link copiedयद्य् एकहायन्याः क्रय-सम्बन्धवद् अरुणिम-सम्बन्धोऽपि वाक्यावसेयः स्यात् तदा वाक्यस्यार्थ-द्वय-विधानꣳ स्यात्। न चैतद् अस्ति। अरुणयेति पदेनैवारुणिम-विशष्ट-द्रव्यम् अभिहितम्। एकहायनी-पद-सामानाधिकरण्येन तस्यैकहायनीत्व-मात्रम् अवगम्यते; न गुण-सम्बन्धः; विशिष्ट-द्रव्यैक्यम् एव हि सामानाधिकरण्यस्यार्थो भिन्न-प्रवृत्ति-निमित्तानाꣳ शब्दानाम् एकस्मिन्न् अर्थे वृत्तिः सामानाधिकरण्यम् इति हि सामानाधिकरण्य-लक्षणम्॥
Link copied[उक्तार्थे पर-सम्मतिः]
Link copiedअत एव हि रक्तः पटो भवति इत्य् आदिष्व् ऐकार्थ्याद् एक-वाक्यत्वम्। पटस्य भवन-क्रिया-सम्बन्धे हि वाक्य-व्यापारः; राग-सम्बन्धस् तु रक्त-पदेनैवाभिहितः; राग-सम्बन्धि द्रव्यꣳ पट इत्य् एतावन् मात्रꣳ सामानाधिकरण्यावसेयम्। एवम् एकेन गुणेन द्वाभ्याꣳ बहुभिर् वा तेन तेन पदेन समस्तेन व्यस्तेन वा विशिष्टम् उपस्थाप्य सामानाधिकरण्येन सर्व-विशेषण-विशिष्टोऽर्थ एक इति ज्ञापियत्वा तस्य क्रिया-सम्बन्धाभिधानम् अविरुद्धम्-- देवदत्तः श्यामो युवा लोहिताक्षो दण्डी कुण्डली तिष्ठति; शुक्लेन वाससा यवनिकाꣳ सम्पादयेत्; नीलम् उत्पलम् आनय; नीलोत्पलम् आनय; गामानय शुक्लाꣳ शोभनाक्षीम्, अग्नये पथिकृते पुरोडाशम् अष्टाकपालꣳ निर्वपेत् [यजुर्। २।२] इति। एवम् अरुणयैकहायन्या पिङ्गाक्ष्या सोमꣳ क्रीणाति [यजुर्। ६।१।६] इति।
Link copiedएतद् उक्तꣳ भवति-- यथा काष्ठैः स्थाल्याम् ओदनꣳ पचेत् इत्य् अनेक-कारक-विशष्टैका क्रिया युगपत् प्रतीयते; तथा समानाधिकरण-पद-सङ्घाताभिहतम् एकैकꣳ कारकꣳ तत्-तत्-कारक-प्रतिपत्ति-वेलायाम् एवानेक-विशेषण-विशिष्टꣳ युगपत् प्रतिपन्नꣳ क्रियायाम् अन्वेतीति न कश्चिद् विरोधः। खादिरैः शुष्कैः काष्ठैः समपरिमाणे भाण्डे पायसꣳ शाल्योदन-समर्थः पाचकः पचेत्, इत्य् आदिषु-- इति।
Link copied[पूर्वोक्त-पूर्व-पक्षोपयोगिनाम् अर्थानाꣳ निरासः]
Link copiedयत् तूपात्त-द्रव्यक-वाक्य-स्थ-गुण-शब्दः केवल-गुणाभिधायीत्य् अरुणयेति पदेन केवल-गुणस्यैवाभिधानम् इति; तन् नोपपद्यते, लोक-वेदयोर् द्रव्य-वाचि-पद-समानाधिकरणस्य गुण-वाचिनः क्वचिद् अपि केवल-गुणाभिधानादर्शनात्। उपात्त-द्रव्यक-वाक्य-स्थꣳ गुण-पदꣳ केवल-गुणाभिधायीत्य् अप्य् असङ्गतम्। पटः शुक्लः इत्य् आदिषूपात्त-द्रव्यकेऽपि गुण-विशिष्टस्यैवाभिधानात्। पटस्य शुक्लो भागः इत्य् अत्र शौक्ल्य-विशिष्ट-पटाप्रतिपत्तिर् असमान-विभक्ति-निर्देश-कृता; न पुनर् उपात्त-द्रव्यकत्व-कृता। तत्रैव पटस्य शुक्लो भागः इत्य् आदिषु समान-विभक्ति-निर्देशे शौक्ल्य-विशिष्ट-द्रव्यꣳ प्रतीयते। यत् पुनः क्रयस्यैकहायन्य-विरुद्धतयारुणिम्नः क्रियान्वयो न सम्भवतीति तद् अपि विरोधि-गुण-रहित-द्रव्य-वाचि-पद-समानाधिकरण-गुण-पदस्य तद्-आश्रय-गुणाभिधानेन क्रिया-पदान्वयाविरोधाद् असङ्गतम्। राद्धान्ते चोक्तन्यायेनारुणिम्नः शाब्दे द्रव्यान्वये सिद्धे द्रव्य-गुणयोः क्रय-साधनत्वानुपपत्त्या अर्थात् परस्परान्वयः सिध्यतीत्य् अप्य् असङ्गतम्। अतो यथोक्त एवार्थः॥
Link copied[उक्त-लक्षण-सामानाधिकरण्यस्य पर-रक्षनानुगुणता]
Link copiedतस्मात् तत् त्वम् अस्य् आदि-सामानाधिकरण्ये पद-द्वयाभिहित-विशेषणापरित्यागेनैवैक्य प्रतिपादनꣳ वर्णनीयम्। तत् त्व् अनाद्य्-अविद्योपहितानवधिक-दुःख-भागिनः शुद्ध्य्-अशुद्ध्य्-उभयावस्थाच् चेतनाद् अर्थान्तर-भूतम् अशेष-हेय-प्रत्यनीकानवधिक-कल्याणैकतानꣳ परमात्मानम् अनभ्युपगच्छतो न सम्भवति।
Link copiedअभ्युपगच्छतोऽपि समानाधिकरण-पदानाꣳ यथावस्थित-विशेषण-विशिष्टैक्य-प्रतिपादन-परत्वाश्रवणे त्वम्-पद-प्रतिपन्न-सकल-दोष-भागित्वꣳ परस्य प्रसज्येतेति चेन् नैतद् एवम्, त्वꣳ पदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात्।
Link copied[उक्तस्यान्तर्यामि-पर्यन्ताभिधानस्योपपादनम्]
Link copiedएतद् उक्तꣳ भवति-- सच्-छब्दाभिहितꣳ निरस्त-निखिल-दोष-गन्धꣳ सत्य-सङ्कल्प-मिश्रान-वधिकातिशयासङ्ख्येय-कल्याण-गुण-गणꣳ समस्त-कारण-भूतꣳ परꣳ ब्रह्म बहु स्याम् [छान्।, ६।२।२] इति सङ्कल्प्य तेजो-ऽब्-अन्न-प्रमुखꣳ कृत्स्नꣳ जगत् सृष्ट्वा तस्मिन् देवादि-विचत्र-सꣳस्थान-सꣳस्थिते जगति चेतनꣳ जीव-वर्गꣳ स्व-कर्मानुगुणेषु शरीरेष्व् आत्मतया प्रवेश्य स्वयꣳ च स्वेच्छयैव जीवान्तरात्मतयानुप्रविश्य एवम्भूतेषु स्व-पर्यन्तेषु देवाद्य्-आकारेषु सङ्घातेषु नाम-रूपे व्याकरोत्। एवꣳ रूप-सङ्घातस्यैव वस्तुत्वꣳ शब्द-वाच्यत्वꣳ चाकरोद् इत्य् अर्थः। अनेन जीवेनात्मना जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वꣳ दर्शयति। ब्रह्मात्मकत्वꣳ च जीवस्य जीवान्तरात्मतया ब्रह्मणः प्रवेशाद् इत्य् अवगम्यते-- इदꣳ सर्वम् असृजत। यद् इदꣳ किꣳ च तत् सृष्ट्वा। तद् एवानुप्राविशत्। तद् अनुप्रविश्य। सच् च त्यच् चाभवत् [तै।, २।६।२] इत्य् अत्रेदꣳ सर्वम् इति निर्दिष्टꣳ चेतनाचेतन-वस्तु-द्वयꣳ सत्-त्यच्-छब्दाभ्याꣳ विज्ञानाविज्ञानशब्दाभ्याꣳ च विभज्य निर्दिश्य चिद्-वस्तुन्य् अपि ब्रह्मणोऽनुप्रवेशाभिधानात्। अत एव नाम-रूप-व्याकरणात् सर्वे वाचकाः शब्दा अचिज्-जीव-विशिष्ट-परमात्म-वाचिन इत्य् अवगतम्-- इति॥
Link copied[जगतः परमात्म-शरीरत्वाक्षेपक-वाक्यानि]
Link copiedकिꣳ च--- ऐतदात्म्यम् इदꣳ सर्वम् [छान्।, ६।८।७] इति चेतन-मिश्रꣳ प्रपञ्चम् इदꣳ सर्वम् इति निर्दिश्य तस्यैष आत्मा [तै।, २।५] इति प्रतिपादितम्। एवꣳ च सर्वꣳ चेतनाचेतनꣳ प्रति ब्रह्मण आत्मत्वेन सर्वꣳ सचेतनꣳ जगत् तस्य शरीरꣳ भवति। तथा च श्रुत्यन्तराण्य् अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, २।३।११] यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद। यस्य पृथिवी शरीरम्। यः पृथिवीम् अन्तरो यमयति। स त आत्मान्तर्याम्यमृतः [बृहद्।, ५।७।३] इति प्रारभ्य य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरम्। य आत्मानम् अन्तरो यमयति। स त आत्मान्तर्याम्य् अमृतः [बृहद्। ५।७।३] इत्य् आदि यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरम्। योऽपामन्तरे सञ्चरन् यस्यापः शरीरम् इत्य् आरभ्य योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरꣳ शरीरम्। यम् अक्षरꣳ न वेद। एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल ७] इत्य् आदीनि सचेतनꣳ जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमात्मानम् उपदिशन्ति॥
Link copied[शरीर-वाचि-शब्दानाꣳ शरीरि-पर्यन्तता]
Link copiedअतश् चेतन-वाचिनोऽपि शब्दाश् चेतनस्याप्य् आत्म-भूतꣳ चेतन-शरीरकꣳ परमात्मानम् एवाभिदधति। यथाचेतन-देवादि-सꣳस्थान-पिण्ड-वाचिनः शब्दाः तत्-तच्-छरीरक-जीवात्मन एव वाचकाश् चत्वारः पञ्चदश-रात्राद् देवत्वꣳ गच्छन्ति [ताण्ड्य-महाब्रा। २३।६] इत्य् आदिषु, देवा भवन्तीत्य् अर्थः। शरीरस्य शरीरिणꣳ प्रति प्रकारत्वात् प्रकार-वाचिनाꣳ च शब्दानाꣳ प्रकारिण्य् एव पर्यवसानात् शरीर-वाचिनाꣳ शब्दानाꣳ शरीरि-पर्यवसानꣳ न्याय्यम्। प्रकारो हि नाम इदम् इत्थम् इति प्रतीयमाने वस्तुनि इत्थम् इति प्रतीयमानोꣳशः। तस्य तद्-वस्त्व्-अपेक्षत्वेन तत्-प्रतीतेस् तद्-अपेक्षत्वात् तस्मिन्न् एव पर्यवसानꣳ युक्तम् इति तस्य प्रतिपादकोऽपि शब्दस् तस्मिन्न् एव पर्यवस्यति। अत एव गौर-श्वो मनुष्यः इत्य् आदि प्रकार-भूताकृति-वाचिनः शब्दाः प्रकारिणि पिण्डे पर्यवस्यन्तः पिण्डस्यापि चेतन-शरीरत्वेन तत्-प्रकारत्वात् पिण्ड-शरीरक-चेतनस्यापि परमात्म-प्रकारत्वाच् च परमात्मन्य् एव पर्यवस्यतीति सर्व-शब्दानाꣳ परमात्मैव वाच्य इति परमात्म-वाचि-शब्देन सामानाधिकरण्यꣳ मुख्यम् एव।
Link copied[उक्त-सामानाधिकरण्य-प्रयोजकेऽतिव्याप्ति-शङ्का-परिहारौ]
Link copiedननु-- खण्डो गौः खण्डः शुक्लः इति जाति-गुण-वाचिनाम् एव पदानाꣳ द्रव्य-वाचि-पदैः सह सामानाधिकरण्यꣳ दृष्टम्, द्रव्याणाꣳ तु द्रव्यान्तर-प्रकारत्वे मत्वर्थीय-प्रत्ययो दृष्टः, यथा-- दण्डी, कुण्डली इति। नैवम्। जातिर् वा गुणो वा द्रव्यꣳ वा नैतेष्व् एकम् एव सामानाधिकरण्ये प्रयोजकम्, अन्योऽन्यस्मिन् व्यभिचारात्, यस्य पदार्थस्य कस्यचित् प्रकारतयैव सद्-भावः, तस्य तद्-अपृथक्-सिद्धि-स्थिति-प्रतीतिभिस् तद्-वाचिनाꣳ शब्दानाꣳ स्वाभिधेय-विशिष्ट-द्रव्य-वाचित्वाद् धर्मान्तर-विशिष्ट-तद्-द्रव्य-वाचिना शब्देन सामानाधिकरण्यꣳ युक्तम् एव। यत्र पुनः पृथक्-सिद्धस्य स्व-निष्ठस्यैव द्रव्यस्य कदाचित् क्वचिद् द्रव्यान्तर-प्रकारत्वम् इष्यते; तत्र मत्वर्थीय-प्रत्यय इति निरवद्यम्॥
Link copied[शिक्षितेन न्यायेन परम-साध्य-सिद्धिः]
Link copiedतद् एवꣳ परमात्मनः शरीरतया तत्-प्रकारत्वाद् अचिद्-विशष्ट-जीवस्यापि जीव-निर्देश-विशेष-रूपा अहन्त्वम् इत्य् आदि शब्दाः परमात्मानम् एवाचक्षत इति तत् त्वम् असि [छान्।, ६।८।७] इति सामानाधिकरण्येनोपसꣳहृतम्; एवꣳ च सति परमात्मानꣳ प्रति जीवस्य शरीरतयान्वयाज् जीव-गता धर्माः परमात्मानꣳ न स्पृशन्ति, यथा स्व-शरीर-गता बालत्व-युवत्व-स्थविरत्वादयो धर्मा जीवꣳ न स्पृशन्ति॥
Link copied[तत्-त्वम्-असि-श्रुतेर् अर्थः]
Link copiedअतः तत् त्वम् असि [छान्।, ६।८।७] इति सामानाधिकरण्ये तत्-पदꣳ जगत्-कारण-भूतꣳ सत्य-सङ्कल्पꣳ, सर्व-कल्याण-गुणाकरꣳ, निरस्त-समस्त-हेय-गन्धꣳ, परमात्मानम् आचष्टे, त्वम् इति च तम् एव सशरीर-जीव-शरीरकम् आचष्ट इति सामानाधिकरण्यꣳ मुख्य-वृत्तम्; प्रकरणाविरोधः सर्व-श्रुत्य्-अविरोधो ब्रह्मणि निरवद्ये कल्याणैकतानेऽविद्यादि-दोष-गन्धाभावश् च। अतो जीव-सामानाधिकरण्यम् अपि विशेषण-भूताज् जीवाद् अन्यत्वम् एवापादयतीति विज्ञान-मयाज् जीवाद् अन्य एवानन्द-मयः परमात्मा॥
Link copied[आनन्द-मयस्य शारीरत्व-श्रवणꣳ जीवत्व-ज्ञापकम् इत्य् अस्य निरासः]
Link copiedयद् उक्तम्-- तस्यैष एव शारीर आत्मा [तै।, २।५] इत्य् आनन्द-मयस्य शारीरत्व-श्रवणाज् जीवाद् अन्यत्वꣳ न सम्भवति-- इति, तद् अयुक्तम्; अस्मिन् प्रकरणे सर्वत्र तस्यैष एव शारीर आत्मा। यः पूर्वस्य [तै।, २।५] इति परमात्मन एव शारीरात्मत्वाभिधानात्। कथम्। तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।, २।१] इत्य् आकाशादि-सृज्य-वर्गस्य परम-कारणत्वेन प्रज्ञात-जीव-व्यतिरेकस्य परस्य ब्रह्मण आत्मत्वेन व्यपदेशात् तद्-व्यतिरिक्ताकाशादीनाम् अन्न-मय-पर्यन्तानाꣳ तच्-छरीरत्वम् अवगम्यते। यस्य पृथिवी शरीरꣳ, यस्यापः शरीरꣳ, यस्य तेजः शरीरꣳ, यस्य वायुः शरीरꣳ, यस्याकाशः शरीरꣳ, यस्याक्षरꣳ शरीरꣳ, यस्य मृत्युः शरीरꣳ, एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इति सुबाल-श्रुत्या सर्व-तत्त्वानाꣳ परमात्म-शरीरत्वꣳ स्पष्टम् अभिधीयते। अतः--- तस्माद् वा एतस्माद् आत्मनः [तै।, २।१] इत्य् अत्रैवान्न-मयस्य परमात्मैव शारीर आत्मेत्य् अवगतः। प्राण-मयꣳ प्रकृत्य् आह-- तस्यैष एव शारीर आत्मा। यः पूर्वस्य इति। पूर्वस्यान्न-मयस्य यः शारीर आत्मा श्रुत्य्-अन्तर-सिद्धः परम-कारण-भूतः परमात्मा; स एव तस्य प्राण-मयस्यापि शारीर आत्मेत्य् अर्थः। एवꣳ मनो-मय-विज्ञान-मययोर् द्रष्टव्यम्॥
Link copied[आनन्द-मयस्य परमात्मत्वोपपादनम्, सूत्रार्थोपसꣳहारश् च]
Link copiedआनन्द-मये तु एष एव [तै।, २।५] इति निर्देशस् तस्यानन्यात्मत्वꣳ दर्शयितुम्। तत् कथꣳ विज्ञान-मयस्यापि पूर्वोक्तया नीत्या परमात्मैव शारीर आत्मेत्य् अवगतः। एवꣳ सति विज्ञान-मयस्य यः शारीर आत्मा, स एवानन्द-मयस्यापि शारीर आत्मेत्य् उक्ते आनन्द-मयस्याभ्यासावगत-परमात्म-भावस्य परमात्मनः स्वयम् एवात्मेत्य् अवगम्यते। एवꣳ च स्व-व्यतिरिक्तꣳ चेतनाचेतन-वस्तु-जातꣳ स्व-शरीरम् इति स एव निरुपाधिकः शारीर आत्मा। अत एवेदꣳ परꣳ ब्रह्माधिकृत्य प्रवृत्तꣳ शास्त्रꣳ शारीरकम् इत्य् अभियुक्तैर् अभिधीयते। अतो विज्ञान-मयाज् जीवाद् अन्य एव परमात्मा आनन्द-मयः॥१३॥
Link copied[आनन्द-मय-शब्दे मयटः विकारार्थकत्वाशङ्का]
Link copiedआह-- नायम् आनन्द-मयो जीवाद् अन्यः, विकार-शब्दस्य मयट् प्रत्ययस्य श्रवणात् मयड्वैतयोः [अष्टा। ४।३।१४३] इति प्रकृत्य नित्यꣳ वृद्ध-शरादिभ्यः [अष्टा। ४।४।२४४] इति विकारार्थे मयट् स्मर्यते। वृद्धश् चायम् आनन्द-शब्दः॥
Link copiedननु प्राचुर्येऽपि मयड् अस्ति तत्-प्रकृत-वचने मयट् [अष्टा। ५।४।२१] इति स्मृतेः। यथा अन्न-मयो यज्ञः इति। स एवायꣳ भविष्यति। नैवम्-- अन्न-मय इत्य् उपक्रमे विकारार्थत्वꣳ दृष्टम्, अत औचित्याद् अस्यापि विकारार्थत्वम् एव युक्तम्॥
Link copiedकिꣳ च-- प्राचुर्यार्थत्वेऽपि जीवाद् अन्यत्वꣳ न सिद्ध्यति। तथा हि--- आनन्द-प्रचुर इत्य् उक्ते दुःख-मिश्रत्वम् अवर्जनीयम्। आनन्दस्य हि प्राचुर्यꣳ दुःखस्याल्पत्वम् अवगमयति। दुःख-मिश्रत्वम् एव हि जीवत्वम्। अत औचित्य-प्राप्त-विकारार्थत्वम् एव युक्तम्॥
Link copiedकिꣳ च लोके मृण्-मयꣳ हिरण्-मयꣳ दारु-मयम् इत्य् आदिषु, वेदे च पर्ण-मयी जुहूः [यजुर्। ३।५।७] शमी-मय्यः स्रुचः, दर्भ-मयी रशना [यजुर्। ३।८।२] इत्य् आदिषु मयटो प्रयोग-बाहुल्यात् स एव प्रथमतरꣳ धियम् अधिरोहति। जीवस्य चानन्द-विकारत्वम् अस्त्य् एव; तस्य स्वत आनन्द-रूपस्य सतः सꣳसारित्वावस्था तद्-विकार एवेति। अतो विकार-वाचिनो मयट् प्रत्ययस्य श्रवणाद् आनन्द-मयो जीवाद् अनतिरिक्त इति।
Link copiedतद् एतद् अनुभाष्य परिहरति--
Link copied[मयटो विकारार्थत्व-निरासः]
Link copied१४ विकार-शब्दान् नेति चेन् न प्राचुर्यात्॥१।१।१४॥
Link copiedनैतद्य् उक्तꣳ; कुतः। प्राचुर्यात्-- परस्मिन् ब्रह्मण्य् आनन्द-प्राचुर्यात्। प्राचुर्यार्थे च मयटः सम्भवात्। एतद् उक्तꣳ भवति-- शत-गुणितोत्तर-क्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासम्भवाद् ब्रह्माश्रयोऽयम् आनन्द इति निश्चिते सति तस्मिन् ब्रह्मणि विकारासम्भवात् प्राचुर्येऽपि मयड्-विधि-सम्भवाच् चानन्द-मयः परꣳ ब्रह्म-- इति।
Link copiedऔचित्यात् प्रयोग-प्रौढ्या च मयटो विकारार्थत्वम् अर्थ-विरोधान् न सम्भवति। किꣳ च--- औचित्यꣳ प्राण-मय एव परित्यक्तम्, तत्र विकारार्थत्वासम्भवात्। अतस् तत्र पञ्चवृत्तेर् वायोः प्राण-वृत्तिमत्ता-मात्रेण प्राण-मयत्वम्, प्राणापानादिषु पञ्चसु वृत्तिषु प्राण-वृत्तेः प्राचुर्याद् वा। न च प्राचुर्ये मयट् प्रत्ययस्य प्रौढिर् नास्ति, अन्न-मयो यज्ञः, शकट-मयी यात्रा इत्य् आदिषु दर्शनात्॥
Link copiedयद् उक्तम् आनन्द-प्राचुर्यम् अल्प-दुःख-सद्-भावम् अवगमयतीति; तद् असत्, तत् प्रचुरत्वꣳ हि तत् प्रभूतत्वम्, तच् चेतरस्य सत्ताꣳ नावगमयति, अपि तु तस्याल्पत्वꣳ निवर्तयति। इतर-सद्-भावासद्भावौ तु प्रमाणान्तरावसेयौ, इह च प्रमाणान्तरेण तद्-अभावोऽवगम्यते, अपहत-पाप्मा [छान्।, ८।२।५] इत्य् आदिना। तत्रैतावद् एव वक्तव्यꣳ, ब्रह्मानन्दस्य प्रभूतत्वम् अन्यानन्दस्याल्पत्वम् अपेक्षत इति। उच्यते च--- तत् स एको मानुष आनन्दः [तै।, २।८] इत्य् आदिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशय-दशापन्नः प्रभूत इति।
Link copiedयच् चोक्तꣳ जीवस्यानन्द-विकारत्वꣳ सम्भवतीति तद् अपि नोपपद्यते, जीवस्य ज्ञानानन्द-स्वरूपस्य केनचिद् आकारेण मृद इव घटाद्य्-आकारेण परिणामः सकल-श्रुति-स्मृति-न्याय-विरुद्धः। सꣳसार-दशायाꣳ तु कर्मणा ज्ञानानन्दौ सङ्कुचिताव् इत्य् उपपादियिष्येते। अतश् चानन्द-मयो जीवाद् अन्यः परꣳ ब्रह्म॥१४॥
Link copied[आनन्द-हेत्व् आनन्द-मय-शब्द आनन्द-प्रचुरार्थकः]
Link copiedइतश् च जीवान्दन्य आनन्द-मयः परꣳ ब्रह्म--
Link copied१५ तद्-धेतु-व्यपदेशाच् च॥१।१।१५॥
Link copiedको ह्य् एवान्यात् कः प्राण्यात्। यद् एष आकाश आनन्दो न स्यात्। एष ह्य् एवानन्दयाति [तै।, २।७] इति। एष एव जीवानानन्दयतीति जीवानन्द-हेतुर् अयꣳ व्यपदिश्यते। अतश् चानन्दयितव्याज् जीवाद् आनन्दयितायम् अन्य आनन्द-मयः परमात्मेति विज्ञायते। आनन्द-मय एवात्र आनन्द-शब्देनोच्यत इति चानन्तरम् एव वक्ष्यते॥
Link copied[सत्यꣳ ज्ञानम् इति मन्त्र-वर्णेनानन्द-मय-शब्देन चैकस्यैव वस्तुनः प्रतिपादनम् आनन्द-मयस्य परमात्मत्वम्]
Link copiedइतश् च जीवाद् अन्यानन्द-मयः
Link copied१६ मान्त्र-वर्णिकम् एव च गीयते॥१।१।१६॥
Link copiedसत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] इति मन्त्र-वर्णोदितꣳ ब्रह्मैवानन्द-मय इति गीयते। तत् तु जीव-स्वरूपाद् अन्यत् परꣳ ब्रह्म। तथा हि-- ब्रह्मविद् आप्नोति परम् [तै।, २।१] इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम्॥
Link copiedतद् एषाभ्युक्ता [तै।, २।१] इति-- तद् ब्रह्म अभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य, ऋग् एषा अध्येतृभिर् उक्ता। ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्य् अर्थः, जीवस्योपासकस्य प्राप्यꣳ ब्रह्म तस्माद् विलक्षणम् एव। अनन्तरꣳ च तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।, २।७] इत्य् आरभ्योत्तरोत्तरैर् ब्राह्मणैर् मन्त्रैश् च तद् एव विशदीक्रियते। अतो जीवाद् अन्य आनन्द-मयः॥
Link copied[प्राप्यस्य प्राप्तुश् चाभेद-शङ्का-परिहारौ]
Link copiedअत्राह-- यद्य् अप्य् उपासकात् प्राप्यस्य भेदेन भवितव्यꣳ तथापि न वस्त्व्-अन्तरꣳ जीवान् मान्त्रवर्णिकꣳ ब्रह्म किन्तु तस्यैवोपासकस्य निरस्त-समस्ताविद्या-गन्ध-निर्विशेष-चिन्-मात्रैकरसꣳ शुद्धꣳ स्वरूपम्, तद् एव सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म इति मन्त्रेण विशोध्यते। तद् एव च यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह [तै।, २।३।९] इति वाङ्-मनसागोचरतया निर्विशेषम् इति गम्यते। अतस् तद् एव मान्त्रवर्णिकम् इति तस्माद् अनतिरिक्त आनन्द-मय इति। अत उत्तरꣳ पठति।
Link copied१७ नेतरोऽनुपपत्तेः॥१।१।१७॥
Link copiedपरमात्मन इतरो जीव-शब्दाभिलप्यो मुक्तावस्थोऽपि न भवति मान्त्रवर्णिकः। कुतः। अनुपपत्तेः। तथाविधस्यात्मनो निरुपाधिकꣳ विपश्चित्त्वꣳ नोपपद्यते। इदम् एव हि निरुपाधिकꣳ विपश्चित्त्वम्। सोऽकामयत बहु स्याꣳ प्रजायेय [तै।, २।६] इति सत्य-सङ्कल्पत्व-प्रदर्शनेन विवरिष्यते। विविधꣳ पश्यच् चित्त्वꣳ हि विपश्चित्त्वम्। पृषोदरादित्वात् पश्यच्-छब्दावयवस्य यच्-छब्दस्य लोपꣳ कृत्वा व्युत्पादितो विपश्चिच्-छब्दः। यद्य् अपि मुक्तस्य विपश्चित्त्वꣳ सम्भवति तथापि तस्यैवात्मनः सꣳसार दशायाम् अविपश्चित्त्वम् अप्य् अस्तीति निरुपाधिकꣳ विपश्चित्त्वꣳ नोपपद्यते। निर्विशेष-चिन्-मात्रतापन्नस्य मुक्तस्य विविध-दर्शनाभावात् सुतराꣳ विपश्चित्त्वꣳ न सम्भवतीति न केनापि प्रमाणेन निर्विशेषꣳ वस्तु प्रतिपाद्यत इति च पूर्वम् एवोक्तम्॥
Link copied[यतो वाच इति श्रुत्या निर्विशेष-वस्तुनोऽसिद्धिः]
Link copiedयतो वाचो निवर्तन्ते [तै।, २।९] इति च वाक्यꣳ यदि वाङ्-मनसयोर् ब्रह्मणो निवृत्तिम् अभिदधीत; न ततो निर्विशेषताꣳ वस्तुनोऽवगमयितुꣳ शक्नुयाद् अपि तु वाङ्-मनसयोस् तत्राप्रमाणताꣳ वदेत्। तथा च सति तस्य तुच्छत्वम् एवापद्यते। ब्रह्मविद् आप्नोति [तै।, २।१] इत्य् आरभ्य ब्रह्मणो विपश्चित्त्वꣳ जगत्-कारणत्वꣳ ज्ञानानन्दैकतानताम् इतरान्-प्रत्यानन्दयितृत्वꣳ कामाद् एव चिद्-आत्मकस्य कृत्स्न-स्रष्टृत्वꣳ सृज्य-वर्गानुप्रवेश-कृत-तदात्मकत्वꣳ भयाभय-हेतुत्वꣳ वाय्व्-आदित्यादीनाꣳ प्रशासितृत्वꣳ शत-गुणितोत्तर-क्रमेण निरतिशयानन्दत्वम् अन्यच् चानेकꣳ प्रतिपाद्य वाङ्-मनसयोर् ब्रह्मणि प्रवृत्त्य्-अभावेन निष्प्रमाणकꣳ ब्रह्मेत्य् उच्यत इति भ्रान्त-जल्पितꣳ यतो वाचो निवर्तन्ते [तै।, २।९] इति यच्-छब्द-निर्दिष्टम् अर्थꣳ, आनन्दꣳ ब्रह्मणो विद्वान् [तै।, २।९] इत्य् आनन्द-शब्देन प्रतिनिर्दिश्य तस्य ब्रह्म-सम्बन्धित्वꣳ ब्रह्मण इति व्यतिरेक-निर्देशेन प्रतिपाद्य तद् एव वाङ्-मनसागोचरꣳ विद्वान् इति तद्-वेदनम् अभिदधद् वाक्यꣳ जरद्-गवादि-वाक्यवद् अनर्थकꣳ वाच्यानन्तर्गतꣳ च स्यात्॥
Link copiedअतः शत-गुणितोत्तर-क्रमेण ब्रह्मानन्दस्यातिशयेयत्ताꣳ वक्तुम् उद्यम्य तस्येयत्ताया अभावाद् एव वाङ्-मनसयोस् ततो निवृत्तिः, यतो वाचो निवर्तन्ते [तै।, २।९] इत्य् उच्यते। एवम् इयत्ता-रहितꣳ ब्रह्मण आनन्दꣳ विद्वान् कुतश्चन न बिभेति इत्य् उच्यते। किꣳ च--- अस्य मान्त्रवर्णिकस्य विपश्चितः सोऽकामयत [तै।, २।६] इत्य् आरभ्य वक्ष्यमाणस्व-सङ्कल्पावप्त-जगज्-जन्म-स्थिति-जगद्-अन्तरात्मत्वादेर् मुक्तात्म-स्वरूपाद् अन्यत्वꣳ सुस्पष्टम् एव॥१७॥
Link copied[भेद-व्यपदेशात् श्रौताद् आनन्द-मयस्य जीवाद् अन्यता]
Link copiedइतश् चोभयावस्थात् प्रत्यगात्मनोऽन्य आनन्द-मयः--
Link copied१८ भेद-व्यपदेशाच् च॥१।१।१८॥
Link copiedतस्माद् वा एतस्माद् आत्मन आकाशः [तै।, २।१] इत्य् आरभ्य मान्त्रवर्णिकꣳ ब्रह्म व्यञ्जयद्-वाक्यम् अन्न-प्राण-मनोभ्य इव जीवाद् अपि तस्य भेदꣳ व्यपदिशति तस्माद् वा एतस्माद् विज्ञान-मयात्। [तै।, २।५] अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५] इति। अतो जीवाद् भेदस्य व्यपदेशाच् चायꣳ मान्त्रवर्णिक आनन्द-मयोऽन्य एवेति ज्ञायते॥१८॥
Link copied[आनन्द-मयस्य जीवाद् अन्यत्वम् अचित्-सꣳसर्गाभाव-कालिक-सृष्टि-सङ्कल्प-ज्ञाप्यम्]
Link copiedइतश् च जीवाद् अन्यः--
Link copied१९ कामाच् च नानुमानापेक्षा॥१।१।१९॥
Link copiedजीवस्याविद्यापर-वशस्य जगत्-कारणत्वे ह्य् अवर्जनीया आनुमानिक-प्रधानादि-शब्दाभिधेयाचिद्-वस्तु-सꣳसर्गापेक्षा; तथैव हि चतुर्मुखादीनाꣳ कारणत्वम्, इह च सोऽकामयत, बहु स्याꣳ प्रजायेय [तै।, २।६] इत्य् अचित्-सꣳसर्ग-रहितस्य स्व-कामाद् एव विचित्र-चिद्-अचिद्-वस्तुनः सृष्टिर् इदꣳ सर्वम् असृजत, यद् इदꣳ किꣳ च [तै।, २।६।२] इत्याम्नायते। अतोऽस्यानन्द-मयस्य जगत् सृजतो नानुमानिकाचिद्-वस्तु-सꣳसर्गापेक्षा प्रतीयते। ततश् च जीवाद् अन्य आनन्द-मयः॥१९॥
Link copied[आनन्द-मय-योगेन जीवस्यानन्द-लाभाज् ज्ञापकात् आनन्द-मयस्य जीवाद् अन्यत्वम्]
Link copiedइतश् च जीवाद् अन्य आनन्द-मयः--
Link copied२० अस्मिन्न् अस्य च तद्-योगꣳ शास्ति॥१।१।२०॥
Link copiedअस्मिन्-- आनन्द-मये, अस्य--- जीवस्य, तद्-योगम्-- आनन्द-योगम्, शास्ति शास्त्रम्-- रसो वै सः, रसꣳ ह्य् एवायꣳ लब्ध्वानन्दी भवति [तै।, २।७।१] इति। रस-शब्दाभिधेयानन्द-मय-लाभाद् अयꣳ जीव-शब्दाभिलपनीय आनन्दी भवतीत्य् उच्यमाने यल् लाभाद् य आनन्दी भवति, स स एवेत्य् अनुन्मत्तः को ब्रवीतित्य् अर्थः॥
Link copied[आनन्दानन्द-मय-शब्दयोर् अर्थाभेदः]
Link copiedएवम् आनन्द-मयः परꣳ ब्रह्मेति निश्चिते सति यद् एष आकाश आनन्दः [तै।, २।७], विज्ञानम् आनन्दꣳ ब्रह्म [बृहद्। ५।९।२८] इत्य् आदिष्व् आनन्द-शब्देनानन्द-मय एव परामृश्यते। यथा विज्ञान-शब्देन विज्ञान-मयः अत एव आनन्दꣳ ब्रह्मणो विद्वान् [तै।, २।९।१] इति व्यतिरेक-निर्देशः। अत एव च आनन्द-मयम् आत्मानम् उपसङ्क्रामति [तै।, २।८।५] इति फल-निर्देशश् च। उत्तरे चानुवाके पूर्वानुवाकोक्तानाम् अन्न-मयादीनाम् अन्नꣳ ब्रह्मेति व्याजानात् [तै।, ३।२], प्राणो ब्रह्मेति व्यजानात् [तै।, ३।३] मनो ब्रह्मेति व्यजानात् [तै।, ३।४], विज्ञानꣳ ब्रह्मेति व्यजानात् [तै।, ३।५।१] इति प्रतिपादनात्। आनन्दो ब्रह्म [तै।, ३।६।१] इत्य् अप्य् आनन्द-मयस्यैव प्रतिपादनम् इति विज्ञायते; तत एव तत्रापि--- आनन्द-मयम् आत्मानम् उपसङ्क्रम्य [तै।, २।१०।५] इत्य् उपसꣳहृतम्।
Link copiedअतः प्रधान-शब्दाभिलप्याद् अर्थान्तर-भूतस्य परस्य ब्रह्मणो जीव-शब्दाभिलपनीयाद् अपि वस्तुनोऽर्थान्तरत्वꣳ सिद्धम्॥२०॥
Link copiedइत्य् आनन्द-मयाधिकरणम्॥६॥
Link copied[आनन्द-मयाधिकरण-शेष-भूतम्]
Link copiedअन्तरधिकरणम्॥७॥
Link copied[अधिकरणार्थः-- अक्ष्य्-आदित्यान्तर्वर्तित्वेनोपास्यत्वम् अपि न जीव-विशेषस्य किन्तु परमात्मन एव]
Link copied[अन्तरादित्य-विद्या, अन्तरक्षि-विद्या च, छान्। १।६।७] [निर्विशेष-वस्तुनः]
Link copied[अवान्तर-सङ्गति-प्रदर्शनम्]
Link copiedयद्य् अपि मन्द-पुण्यानाꣳ जीवानाꣳ, कामाज् जगत्-सृष्टिः, अतिशयितानन्द-योगो भयाभय-हेतुत्वम् इत्य् आदि न सम्भवति, तथापि, विलक्षण-पुण्यानाम् आदित्येन्द्र प्रजापति-प्रक्-षृतीनाꣳ सम्भवत्य् एवेति इमाम् आशङ्काꣳ निराकरोति--
Link copied२१ अन्तस् तद्-धर्मोपदेशात्॥१।१।२१॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आम्नायते छान्दोग्ये य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्य-श्मश्रुर् हिरण्य-केश आप्रण-खात् सर्व एव सुवर्णः। तस्य यथा कप्यासꣳ पुण्डरीकम् एवम् अक्षिणी तस्योदित नाम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवꣳ वेद। तस्यर्क् च साम च गेष्णौ इत्य् अधिदैवतम् [छान्।, १।६।६-८] अथाध्यात्मम्, अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत् साम तद् उक्थ्यꣳ तद् यजुस् तद् ब्रह्म तस्यैतस्य तद् एव रूपꣳ यद् अमुष्य रूपꣳ याव् अमुष्य गेष्णौ तौ गेष्णौ यन् नाम तन् नाम [छान्।, १।७।५] इति॥
Link copied[सꣳशय-स्वरूपम्]
Link copiedतत्र सन्दिह्यते-- किम् अयम् अक्ष्य्-आदित्य-मण्डलार्न्तवर्ती पुरुषः पुण्योपचय-निमित्तैश्वर्य आदित्यादि-शब्दाभिलप्यो जीव एव, आहोस्वित् तद्-अतिरिक्तः परमात्मा-- इति।
Link copied[पूर्व-पक्षः]
Link copiedकिꣳ युक्तम् उपचित-पुण्यो जीव एवेति।
Link copied[पूर्व-पक्षे युक्तिः]
Link copiedकुतः। सशरीरत्व-श्रवणात्। शरीर-सम्बन्धो हि जीवानाम् एव सम्भवति। कर्मानुगुण-प्रियाप्रिय-योगाय हि शरीर-सम्बन्धः। अत एव हि कर्म-सम्बन्ध-रहितस्य मोक्षस्य प्राप्यत्वम् अशरीरत्वेनोच्यते न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति। अशरीरꣳ वा व सन्तꣳ न प्रियाप्रिये स्पृशतः [छान्।, ८।१२।१] इति। सम्भवति च पुण्यातिशयाज् ज्ञानाधिक्यम्, शक्त्य्-आधिक्यꣳ च। अत एव लोक-कामेशत्वादि तस्यैवोपपद्यते। तत एव चोपास्यत्वम्, फल-दायित्वꣳ, पाप-क्षपण-करत्वेन मोक्षोपयोगित्वꣳ च। मनुष्येष्व् अप्य् उपचित-पुण्याः केचिज् ज्ञान-शक्त्य्-आदिभिर् अधिकतरा दृश्यन्ते; ततश् च सिद्ध-गन्धर्वादयः; ततश् च देवाः; ततश् चेन्द्रादयः। अतो ब्रह्मादिष्व् अन्यतम एवैकैकस्मिन् कल्पे पुण्य-विशेषेणैवम्भूतम् ऐश्वर्यꣳ प्राप्तो जगत्-सृष्ट्य्-आद्य् अपि करोतीति जगत्-कारणत्व-जगद्-अन्तरात्मत्वादि वाक्यम् अस्मिन्न् एवोपचित-पुण्य-विशेषे सर्वज्ञे सर्व-शक्तौ वर्तते। अतो न जीवाद् अतिरिक्तः परमात्मा नाम कश्चिद् अस्ति। एवꣳ च सति, अस्थूलम् अनण्व् अह्रस्वम् [बृहद्।, ५।८।८] इत्य् आदयो जीवात्मनः स्वरूपाभिप्राया भवन्ति। मोक्ष-शास्त्राण्य् अपि तत्-स्वरूप-तत्-प्राप्त्युपायोपदेश-पराणि-- इति॥
Link copied[सिद्धान्तः सयुक्तिकः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- अन्तस् तद्-धर्मोपदेशात्।
Link copied[तत्र सूत्राक्षरार्थ-वर्णनम्]
Link copiedअन्तरादित्येऽन्तरक्षिणि च यः पुरुषः प्रतीयते, स जीवाद् अन्यः परमात्मैव। कुतः। तद्-धर्मोपदेशात्-- जीवेष्व् असम्भवꣳस् तद्-अतिरिक्तस्यैव परमात्मनो धर्मोऽयम् अपहत-पाप्मत्वादिः स एष सर्वेभ्यः पाप्मभ्य उदितः [छान्।, १।६।७] इत्य् आदिनोपदिश्यते। अपहत-पाप्मत्वꣳ ह्य् अपहत-कर्मत्वम्, कर्म-वश्यतागन्ध-रहितत्वम् इत्य् अर्थः। कर्माधीन-सुख-दुःख-भागित्वेन कर्म-वश्या हि जीवाः। अतोऽपहत-पाप्मत्वꣳ जीवाद् अन्यस्य परमात्मन एव धर्मः॥ तत्-पूर्वकꣳ स्वरूपोपाधिकꣳ लोक-कामेशत्वम्, सत्य-सङ्कल्पत्वादिकꣳ सर्व-भूतान्तरात्मत्वꣳ च तस्यैव धर्मः। यथाह--- एष आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।१।५] इति, तथा एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इति। सोऽकामयत। बहु स्याꣳ प्रजायेयेति [तै।, २।६] इत्य् आदि सत्य-सङ्कल्पत्व-पूर्वक समस्त-चिद्-अचिद्-वस्तु-सृष्टि-योगो निरुपाधिक-भयाभय-हेतुत्वम्, वाङ्-मनस-परिमिति-कृत-परिच्छेद-रहितानवधिकातिशयानन्द-योग इत्य् आदयोऽकर्म-सम्पाद्याः स्वाभाविका धर्मा जीवस्य न सम्भवन्ति॥
Link copied[पूर्व-पक्षस्य सयुक्तिको निरासः]
Link copiedयत् तु शरीर-सम्बन्धान् न जीवातिरक्त इत्य् उक्तम्; तद् असत्, न हि सशरीरत्वꣳ कर्म-वश्यताꣳ साधयति, सत्य-सङ्कल्पस्येच्छयापि शरीर-सम्बन्ध-सम्भवात्। अथोच्यते-- शरीरꣳ नाम त्रि-गुणात्मक-प्रकृति-परिणाम-रूप-भूत-सङ्घातः; तत्-सम्बन्धश् चापहत-पाप्मनः सत्य-सङ्कल्पस्य पुरुषस्येच्छया न सम्भवति, अपुरुषार्थत्वात्। कर्म-वश्यस्य तु स्वरूपानभिज्ञस्य कर्मानुगुण-फलोपभोगायानिच्छतोऽपि तत्-सम्बन्धोऽवर्जनीयः-- इति॥
Link copied[भगवतोऽकर्म-वश्यस्यापि देह-सम्बन्धः]
Link copiedस्याद् एतद् एवम्। यदि गुण-त्रय-मयः प्राकृतोऽस्य देहः स्यात् स तु स्वाभिमतः स्वानुरूपोऽप्राकृत एवेति सर्वम् उपपन्नम्॥
Link copiedएतद् उक्तꣳ भवति-- परस्यैव ब्रह्मणो निखिल-हेय-प्रत्यनीकानन्त-ज्ञानानन्दैक-स्वरूपतया सकलेतर-विलक्षणस्य स्वाभाविकानविधकातिशयासङ्ख्येय-कल्याण-गुण-गणाश् च सन्ति। तद्वद् एव स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध्य-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-गण-निधि-दिव्य-रूपम् अपि स्वाभाविकम् अस्ति। तद् एवोपासकानुग्रहेण तत्-तत्-प्रतिपत्त्य्-अनुरूप-सꣳस्थानꣳ करोत्य् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-जलनिधिर् निरस्त-निखिल-हेय-गन्धोऽपहत-पाप्मा परमात्मा परꣳ ब्रह्म पुरुषोत्तमो नारायणः इति॥
Link copied[उक्तेऽर्थे प्रमाणानि]
Link copiedयतो वा इमानि भूतानि जायन्ते [तै।, ३।१], सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१], आत्मा वा इदम् एक एवाग्र आसीत् [ऐत। १।१।१], एको ह वै नारायण आसीन् न ब्रह्मा नेशानः [महोप। १।१] इत्य् आदिषु निखिल-जगद्-एक-कारणतयावगतस्य परस्य ब्रह्मणः सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१], विज्ञानम् अनन्दꣳ ब्रह्म [बृहद्।, ५।९।२८], इत्य् आदिष्व् एवम्भूतꣳ स्वरूपम् इत्य् अवगम्यते। निर्गुणम् [आत्मोप], निरञ्जनम् [श्वेत्। ६।१९], अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।५।१], न तस्य कार्यꣳ करणꣳ च विद्यते न तत्-समश् चाभ्यिधकश् च दृश्यते। परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।, ६।८], तम् ईश्वराणाꣳ परमꣳ महेश्वरꣳ तꣳ दैवतानाꣳ परमꣳ च दैवतम् [श्वे।, ६।७], स कारणꣳ करणाधिपाधियो न चास्य कश्चिज् जनिता न चाधिपः [श्वे।, ६।९], सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाभिवदन्यद् आस्ते [तै।, आ। ३।१२], वेदाहम् एतꣳ पुरुषꣳ महान्तम्। आदित्य-वर्णꣳ तमसः परस्तात् [तै।, यजुर्। आर। ३।१२], सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि [महानारा। १।८] इत्य् आदिषु परस्य ब्रह्मणः प्राकृत-हेय-गुणान् प्राकृत-हेय-देह-सम्बन्धꣳ तन्-मूल-कर्म-वश्यता-सम्बन्धꣳ च प्रतिषिध्य कल्याण-गुणान् कल्याण-रूपꣳ च वदन्ति। तद् इदꣳ स्वाभाविकम् एव रूपम् उपासकानुग्रहेण तत्-प्रतिपत्त्य्-अनुगुणाकारꣳ देव-मनुष्यादि-सꣳस्थानꣳ करोति स्वेच्छयैव परम-कारुणिको भगवान्। तद् इदम् आह श्रुतिः-- अजायमानो बहुधा विजायते [तै।, आ। ३।१२] इति। स्मृतिश् च अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्। प्रकृतिꣳ स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया। परित्राणाय साधूनाꣳ विनाशाय च दुष्कृताम् [भ। गी।, ४।६] इति। साधवो ह्य् उपासकाः, तत्-परित्राणम् एवोद्देश्यम्, आनुषङ्गिकस् तु दुष्कृताꣳ विनाशः, सङ्कल्प-मात्रेणापि तद्-उपपत्तेः। प्रकृतिꣳ स्वाम्, इति प्रकृतिः-- स्वभावः। स्वम् एव स्वभावम् आस्थाय, न सꣳसारिणाꣳ स्वभावम् इत्य् अर्थः। आत्म-माययेति स्व-सङ्कल्प-रूपेण ज्ञानेनेत्य् अर्थः।
Link copiedमाया वयुनꣳ ज्ञानम् [वेदनिखण्टौ, धर्म-वर्गे, २२] इति ज्ञान-पर्यायम् अपि माया-शब्दꣳ नैखण्टुका अधीयते। आह च भगवान् पराशरः-- समस्ताः शक्तयश् चैता नृप यत्र प्रतिष्ठिताः। तद्-विश्वरूप-वैरूप्यꣳ रूपम् अन्यद् धरेर् महत्॥ समस्त-शक्ति-रूपाणि तत् करोति जनेश्वर। देव-तिर्यङ्-मनुष्याख्या चेष्टावन्ति स्व-लीलया। जगताम् उपकाराय न सा कर्म-निमित्तजा-- [वि। पु।, ६।७।७०] इति। महाभारते चावतार-रूपस्याप्य् अप्राकृतत्वम् उच्यते न भूत सङ्घ-सꣳस्थानो देहोऽस्य परमात्मनः इति। अतः परस्यैव ब्रह्मण एवꣳरूपवत्त्वाद् अयम् अपि तस्यैव धर्मः। अत आदित्य-मण्डलाक्ष्य्-अधिकरण आदित्यादि-जीव-व्यतिरिक्तः परमात्मैव॥२१॥
Link copied२२ भेद-व्यपदेशाच् चान्यः॥१।१।२२॥
Link copied[जीव-भेद-साधकꣳ हेत्व्-अन्तरम्]
Link copiedआदित्यादि-जीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः-- य आदित्ये तिष्ठान्न् आदित्याद् अन्तरो यमादित्यो न वेद यस्यादित्यः शरीरꣳ य आदित्यम् अन्तरो यमयति। [बृहद्।, ५।७।९] य आत्मनि तिष्ठान्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति [बृहद्।, ५।७।२२] इति। योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरꣳ शरीरꣳ यम् अक्षरꣳ न वेद यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युः शरीरꣳ यꣳ मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इति चास्यापहत-पाप्मनः परमात्मनः सर्वाञ् जीवान् शरीरत्वेन व्यपदिश्य तेषाम् अन्तरात्मत्वेनैनꣳ व्यपदिशति। अतः सर्वेभ्यो हिरण्यगर्भादि-जीवेभ्योऽन्य एव परमात्मेति सिद्धम्॥२॥
Link copiedइत्य् अन्तरधिकरणम्॥७॥
Link copiedआकाशाधिकरणम्॥८॥
Link copied[अधिकरणार्थः-- आकाशत्वेनोपास्यः परमात्मैव, न भौतिकाकाशः]
Link copied[आकाश-विद्या-- छान्।, १।९]]
Link copied[पेटिकाभेदस्य तत्-सङ्गतेश् च प्रतिपादनम्]
Link copiedयतो वा इमानि भूतानि जायन्ते [तै।, ३।१।२] इति जगत्-कारणꣳ ब्रह्मेत्य् अवगम्यते। किꣳ तज्-जगत्-कारणम् इत्य् अपेक्षायाꣳ सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] तत् तेजोऽसृजत [छान्।, ६।२।३] आत्मा वा इदम् एक एवाग्र आसीत् [ऐत। १।१।१] स इमाल् लोकान् असृजत [ऐत। १।१।२] तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।, २।१] इति साधारणैः शब्दैर् जगत्-कारणे निर्दिष्टे ईक्षण-विशेष-आनन्द-विशेष-रूप-विशेषार्थ-स्वभावात् प्रधान-क्षेत्रज्ञादि-व्यतिरिक्तꣳ ब्रह्मेत्य् उक्तम्। इदानीम् आकाशादि-विशेष-शब्दैर् निर्दिश्य जगत्-कारणत्व-जगद्-ऐश्वर्यादि-वादेऽप्य् आकाशादि-शब्दाभिधेयतया प्रसिद्ध-चिद्-अचिद् वस्तुनोऽर्थान्तरम् उक्त-लक्षणम् एव ब्रह्मेति प्रतिपाद्यते-- आकाशस् तल्-लिङ्गात् इत्य् आदिना पाद-शेषेण-
Link copied२३ आकाशस् तल्-लिङ्गात्॥१।१।२३॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आम्नायते छान्दोग्ये-- अस्य लोकस्य का गतिर् इत्य् आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते आकाशꣳ प्रत्यस्तꣳ यन्त्य् आकाशो ह्य् एवैभ्यो ज्यायानाकाशः परायणम् [छान्।, १।९।१] इति॥
Link copied[अधिकरणाङ्ग-भूत-सꣳशय-प्रदर्शनम्]
Link copiedतत्र सन्देहः-- किꣳ प्रसिद्धाकाश एवात्राकाश-शब्देनाभिधीयते उतोक्त-लक्षणम् एव ब्रह्म-- इति॥
Link copied[पूर्व-पक्ष-प्रदर्शनम्]
Link copiedकिꣳ प्राप्तम्। प्रसिद्धाकाश इति कुतः शब्दैक-समधिगम्ये वस्तुनि य एवार्थो व्युत्पत्ति-सिद्धः शब्देन प्रतीयते स एव ग्रहीतव्यः। अतः प्रसिद्धाकाश एव चराचर-भूतस्य कृत्स्नस्य कारणम्। अतस् तस्माद् अनतिरिक्तꣳ ब्रह्म।
Link copied[अर्थ-विरोधाद् व्युत्पत्ति-सिद्धार्थस्य त्याज्यत्व-शङ्का-परिहारौ]
Link copiedनन्व् ईक्षा-पूर्वक-सृष्ट्य्-आदिभिर् अचेतनाज् जीवाच् च व्यतिरिक्तꣳ ब्रह्मेत्य् उक्तम्। सत्यम् उक्तम्, अयुक्तꣳ तु तत्। तथा हि यतो वा इमानि भूतानि जायन्ते तद् ब्रह्म [तै।, ३।१] इत्य् उक्ते कुत इमानि भूतानि जायन्त इत्य् आदि-विशेषापेक्षायाꣳ सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते [छान्।, १।९।१] इत्य् आदिना विशेष-प्रतीतेः-- जगज्-जन्मादि-कारणम् आकाश एवेति निश्चिते सति सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] इत्य् आदिष्व् अपि सद्-आदि-शब्दाः साधारणाकारास्तम् एव विशेषम् आकाशम् अभिदधति। आत्मा वा इदम् एक एवाग्र आसीत् [ऐत। १।१।१] इत्य् आदिष्व् आत्म-शब्दोऽपि तत्रैव वर्तते। तस्यापि हि चेतनैकान्तत्वꣳ न सम्भवति; यथा मृद्-आत्मको घटः इति। आप्नोतीत्य् आत्मेति व्युत्पत्त्या सुतराम् आकाशेऽप्य् आत्म-शब्दो वर्तते॥
Link copied[तद् ऐक्षतेतीक्षणादीनाꣳ गौणता-निर्वाहः]
Link copiedअत एवम् आकाश एव कारणꣳ ब्रह्मेति निश्चिते सतीक्षणादयस् तद्-अनुगुणा गौणा वर्णनीयाः। यदि हि साधारण-शब्दैर् एव सदादिभिः कारणम् अभ्यधायिष्यत, ईक्षणाद्य्-अर्थानुरोधेन चेतन-विशेष एव कारणम् इति निरचेष्यत। आकाश-शब्देन तु विशेष एव निश्चित इति नार्थ-स्वाभाव्यान् निर्णेतव्यम् अस्ति।
Link copied[आकाशस्य कार्यता-श्रुतेः परम-कारणत्वानुपपत्ति-शङ्का-परिहारौ]
Link copiedनन्व् आत्मन आकाश-सम्भूतः [तै।, २।१।२] इत्य् आकाशस्यापि कार्यत्वꣳ प्रतीयते। सत्यम्, सर्वेषाम् एवाकाश-वाय्व्-आदीनाꣳ सूक्ष्मावस्था स्थूलावस्था चेत्य् अवस्था-द्वयम् अस्ति। तत्राकाशस्य सूक्ष्मावस्था कारणꣳ स्थूलावस्था तु कार्यम्। आत्मन आकाशः सम्भूतः [तै।, २।१।२] इति स्वस्माद् एव सूक्ष्म-रूपात् स्वयꣳ स्थूल-रूपः सम्भूत इत्य् अर्थः। सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते [छान्।, १।९।१] इति सर्वस्य जगत आकाशाद् एव प्रभवाप्ययादि-श्रवणात् तद् एव हि कारणꣳ ब्रह्मेति निश्चितम्। यत एवꣳ प्रसिद्धाकाशाद् अनतिरिक्तꣳ ब्रह्म, अत एव च यद् एष आकाश आनन्दो न स्यात् [तै।, २।७] आकाशो ह वै नाम-रूपयोर् निर्वहिता [छान्।, ८।१४।१] इत्य् एवम् आदि-निर्देशोऽप्य् उपपन्नतरः। अतः प्रसिद्धाकाशाद् अनतिरिक्तꣳ ब्रह्मेति॥
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्ते ब्रूमः-- आकाशस् तल्-लिङ्गात्-- आकाश-शब्दाभिधेयः प्रसिद्धाकाशाद् अचेतनाद् अर्थान्तर-भूतो यथोक्त-लक्षणः परमात्मैव। कुतः। तल्-लिङ्गात्, निखिल-जगद्-एक-कारणत्वम्, सर्वस्माज् ज्यायस्त्वꣳ परायणत्वम् इत्य् आदीनि परमात्म-लिङ्गान्य् उपलभ्यन्ते। निखिल-कारणत्वꣳ ह्य् अचिद्-वस्तुनः प्रसिद्धाकाश-शब्दाभिधेयस्य नोपपद्यते, चेतन-वस्तुनस् तत्-कार्यत्वासम्भवात्। परायणत्वꣳ च चेतनानाꣳ परम-प्राप्यत्वम्। तच् चाचेतनस्य हेयस्य सकल-पुरुषार्थ-विरोधिनो न सम्भवति। सर्वस्माज् ज्यायस्त्वꣳ च निरुपाधिकꣳ सर्वैः कल्याण-गुणैः सर्वेभ्यो निरतिशयोत्कर्षः। तद् अप्य् अचितो नोपपद्यते॥
Link copied[पूर्व-पक्षोक्तानुवाद-पूर्वकꣳ तत्-समाधानम्]
Link copiedयद् उक्तꣳ जगत्-कारण-विशेषाकाङ्क्षायाम् आकाश-शब्देन विशेष-समर्पणाद् अन्यत् सर्वꣳ तद्- अनुरूपम् एव वर्णनीयम् इति, तद् अयुक्तम्, सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते [छान्।, १।९।१] इति प्रसिद्धवन् निर्देशात्। प्रसिद्धवन् निर्देशो हि प्रमाणान्तर-प्राप्तिम् अपेक्षते। प्रमाणान्तराणि च सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।३] इत्य् एवम् आदीन्य् एव वाक्यानि। तानि च यथोदित-प्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत् प्रतिपादितꣳ ब्रह्माकाश-शब्देन प्रसिद्धवन् निर्दिश्यते। सम्भवति च परस्य ब्रह्मणः प्रकाशकत्वाद् आकाश-शब्दाभिधेयत्वम्-- आकाशते, आकाशयति च इति॥
Link copied[पूर्व-पक्षोक्तानुवाद-पूर्वकꣳ तत्-समाधानम्]
Link copiedकिꣳ च--- अनेनाकाश-शब्देन विशेष-समर्पण-क्षमेणापि चेतनाꣳशꣳ प्रत्यसम्भावित-कारण-भावम् अचेतन-विशेषम् अभिदधानेन तद् ऐक्षत बहु स्याꣳ प्रजायेय [छान्।, ६।२।३] सोऽकामयत। बहु स्याꣳ प्रजायेय [तै।, २।६] इत्य् आदि वाक्य-शेषावधारित-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-विशिष्टापूर्वार्थ-प्रतिपादन-समर्थ-वाक्यार्थान्यथा-करणꣳ न प्रमाण-पदवीम् अधिरोहति। एवम् अपूर्वानन्त-विशेषण-विशिष्टापूर्वार्थ-प्रतिपादन-समर्थानेक-वाक्य-गति-सामान्यꣳ चैकेनानुवाद-स्वरूपेणान्यथा कर्तुꣳ न शक्यते।
Link copied[आत्म-शब्दानैकान्त्यस्यानूद्य समाधानम्]
Link copiedयत् त्व् आत्म-शब्दश् चेतनैकान्तो न भवति, मृद्-आत्मको घटः इत्य् आदि दर्शनाद् इत्य् उक्तꣳ तत्रोच्यते-- यद्य् अपि चेतनाद् अन्यत्रापि क्वचिद् आत्म-शब्दः प्रयुज्यते; तथापि शरीर-प्रतिसम्बन्धिन्य्-आत्म-शब्दस्य प्रयोग-प्राचुर्याद् आत्मा वा इदम् एक एवाग्र आसीत् [ऐत। १।१।१] आत्मन आकाश-सम्भूतः [तै।, २।१।२] इत्य् आदिषु शरीर-प्रतिसम्बन्धि-चेतन एव प्रतीयते। यथा गो-शब्दस्यानेकार्थ-वाचित्वेऽपि प्रयोग-प्राचुर्यात् सास्नादिमान् एव स्वतः प्रतीयते; अर्थान्तर-प्रतीतिस् तु तत्-तद्-असाधारण-निर्देशापेक्षा; तथा स्वतः प्राप्तꣳ शरीर-प्रतिसम्बन्धि-चेतनाभिधानम् एव स ईक्षत लोकान् नु सृजा इति [ऐत। १।१।१], सोऽकामयत, बहु स्याꣳ प्रजायेय [छान्।, १।९।१] इत्य् आदि तत्-तद्-वाक्य-विशेषा एव स्थिरीकुर्वन्ति। एवꣳ वाक्य-शेषावधारितानन्य-साधारणानेकापूर्वार्थ-विशिष्टꣳ निखिल-जगद्-एक-कारणꣳ सद् एव सोम्य [छान्।, ६।२।१] इत्य् आदि-वाक्य-सिद्धꣳ ब्रह्मैवाकाश-शब्देन प्रसिद्धवत् सर्वाणि ह वा इमानि भूतानि [छान्।, १।९।१] इत्य् आदि वाक्येन निर्दिश्यत इति सिद्धम्॥२३॥
Link copiedइत्य् आकाशाधिकरणम्॥८॥
Link copiedप्राणाधिकरणम्॥९॥
Link copied[अधिकरणार्थः-- प्राणत्वेनोपास्यः परमात्मैव, न भूत-चतुर्थो वायुः]
Link copied[प्राण-विद्या, छान्।, १।१०।११]
Link copied२४ अत एव प्राणः॥१।१।२४॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आम्नायते छान्दोग्ये-- प्रस्तोतर्या देवता प्रस्तावम् अन्वायत्ता [छान्।, १।१०।९] इति प्रस्तुत्य, कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसꣳविशन्ति प्राणम् अभ्युज्जिहते सैषा देवता प्रस्तावम् अन्वायत्ता ताꣳ चेद् अविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् [छान्।, १।११।४।५] इति॥
Link copied[सिद्धान्तार्थः]
Link copiedअत्र प्राण-शब्दोऽप्य् आकाश-शब्दवत् प्रसिद्ध-प्राण-व्यतिरक्ते परस्मिन्न् एव ब्रह्मणि वर्तते। तद्-असाधारण-निखिल-जगत्-प्रवेश-निष्क्रमणादि-लिङ्गात् प्रसिद्धवन्-निर्दिष्टात्॥
Link copied[अधिकरण-भेद-प्रयोजकौ शङ्का-परिहारौ]
Link copiedअधिकाशङ्का तु-- कृत्स्न्स्य भूत-जातस्य प्राणाधीन-स्थिति-प्रवृत्त्य्-आदि-दर्शनात् प्रसिद्ध एव प्राणो जगत्-कारणतया निर्देशम् अर्हति-- इति॥
Link copiedपरिहारस् तु-- शिलाकाष्टादिषु चेतन-स्वरूपे च तद्-अभावात् सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसꣳविशन्ति प्राणम् अभ्युज्जिहते [छान्।, १।११।५] इति नोपपद्यत इति। अतः प्राणयति सर्वाणि भूतनीति कृत्वा परꣳ ब्रह्मैव प्राण-शब्देनाभिधीयते॥
Link copied[अधिकरण-द्वयार्थ-निगमनम्]
Link copiedअतः प्रसिद्धाकाश-प्राणादेर् अन्यद् एव निखिल-जगद्-एक-कारणापहत-पाप्मत्वसार्वज्ञ्य-सत्य-सङ्कल्पत्वाद्य्-अनन्त-कल्याण-गुण-गणꣳ परꣳ ब्रह्मैवाकाश प्राणादि-शब्दाभिधेयम् इति सिद्धम्॥२४॥
Link copiedइति प्राणाधिकरणम्॥९॥
Link copiedज्योतिर्-अधिकरणम्॥१०॥
Link copied[अधिकरणार्थः-- ज्योतिष्ट्वेनोपास्यꣳ, जिज्ञास्यꣳ ब्रह्मैव, नादित्यादिकम्]
Link copied[कौक्षेय-ज्योतिर्-विद्या गायत्री-विद्या च, छान्।, ३।१२।१३]
Link copied[वक्ष्यमाणाधिकरण-द्वयस्य पेटिकान्तरत्वम्]
Link copiedअतः परꣳ जगत्-कारणत्व-व्याप्तेन येन केनापि निरतिशयोत्कृष्ट-गुणेन जुष्टꣳ ज्योतिर्-इन्द्रादि-शब्दैर् अर्थान्तर-प्रसिद्धैर् अप्य् अभिधीयमानꣳ परꣳ ब्रह्मैवेत्य् अभिधीयते-- ज्योतिश् चरणाभिधानात् इत्य् आदिना
Link copied२५ ज्योतिश् चरणाभिधानात्॥१।१।२५॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आम्नायते छान्दोग्ये-- अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदꣳ वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः [छान्।, ३।१३।७] इति॥
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedतत्र सꣳशयः-- किम् अयꣳ ज्योतिः-शब्देन निर्दिष्टो निरतिशय-दीप्ति-युक्तोऽर्थः प्रसिद्धम् आदित्यादि-ज्योतिर् एव कारण-भूतꣳ ब्रह्म, उत समस्त-चिद्-अचिद्-वस्तु-जात-विसजातीयः परम-कारण-भूतोऽमित-भाः सर्व-ज्ञः सत्य-सङ्कल्पः पुरुषोत्तमः-- इति॥
Link copied[सयुक्तिकꣳ पूर्व-पक्ष-स्वरूपम्]
Link copiedकिꣳ युक्तꣳ प्रसिद्धम् एव ज्योतिर् इति। कुतः। प्रसिद्धवन्-निर्देशेऽप्य् आकाश-प्राणादिवत् स्व-वाक्योपात्त-परमात्म-व्याप्त-लिङ्ग-विशेषादर्शनात्, परम-पुरुष-प्रत्यभिज्ञानासम्भवात्, कौक्षेय-ज्योतिषा ऐक्योपदेशाच् च प्रसिद्धम् एव ज्योतिः कारणत्व-व्याप्त-निरतिशय-दीप्ति-योगाज् जगत्-कारणꣳ ब्रह्मेति॥
Link copied[सिद्धान्त-स्वरूपम्]
Link copiedएवꣳ प्राप्ते प्रचक्ष्महे ज्योतिश् चरणाभिधानात्-- द्यु-सम्बन्धितया निर्दिष्टꣳ निरतिशय-दीप्ति-युक्तꣳ ज्योतिः परम-पुरुष एव। कुतः। पादोऽस्य सर्वा भूतानि त्रि-पादस्यामृतꣳ दिवि [छान्।, ३।१२।६] इत्य् अस्यैव द्यु-सम्बन्धिनश् चरणत्वेन सर्व-भूताभिधानात्॥
Link copiedएतद् उक्तꣳ भवति-- यद्य् अप्य् अथ यद् अतः परो दिवो ज्योतिः [छान्।, ३।१३।७] इत्य् अस्मिन् वाक्ये परम-पुरुषासाधारण-लिङ्गꣳ नोपलभ्यते; तथापि पूर्व-वाक्ये द्यु-सम्बन्धितया परम-पुरुषस्य निर्देशाद् इदम् अपि द्यु-सम्बन्धि-ज्योतिः स एवेति प्रत्यभिज्ञायत इति। कौक्षेय-ज्योतिषैक्योपदेशश् च फलाय तदात्मकत्वानुसन्धान-विधिर् इति न कश्चिद् दोषः। कौक्षेय-ज्योतिषश् च तदात्मकत्वꣳ भगवता स्वयम् एवोक्तम् अहꣳ वैश्वानरो भूत्वा प्राणिनाꣳ देहम् आश्रितः [भ। गी।, १५।१४] इति॥
Link copied२६ छन्दोभिधानान् नेति चेन् न तथा चेतोऽर्पण-निगमात् तथा हि दर्शनम्॥१।१।२६॥
Link copiedपूर्वस्मिन् वाक्ये गायत्री वा इदꣳ सर्वम् [छान्।, ३।१२।१] इति गायत्र्य्-आख्यꣳ छन्दोऽभिधाय तद् एतद् ऋचाभ्यनूक्तम् [छान्।, ३।१२।५] इत्य् उदाहृतायाः, तावान् अस्य महिमा [छान्।, ३।१२।६] इत्य् अस्या ऋचोऽपि छन्दो-विषयत्वान् नात्र परम-पुरुषाभिधानम् इति चेत्--
Link copiedतन् न, तथा चेतोऽर्पण-निगमान् न गायत्री-शब्देन छन्दो-मात्रम् इहाभिधीयते, छन्दो-मात्रस्य सर्वात्मकत्वानुपपत्तेर् अपि तु ब्रह्मण एव गायत्री-चेतोऽर्पणम् इह निगम्यते। ब्रह्मणि गायत्री-सादृश्यानुसन्धानꣳ फलायोपदिश्यत इत्य् अर्थः। सम्भवति च पादोऽस्य सर्वा भूतानि। त्रि-पादस्यामृतꣳ दिवि [छान्।, ३।१२।६] इति चतुष्पदो ब्रह्मणश् चतुष्पदया गायत्र्या च सादृश्यम्। चतुष्पदा च गायत्री क्वचिद् दृश्यते। तद् यथा इन्द्रः शची-पतिः। बलेन पीडितः। दुश्च्यवनो वृषा। समित्सुसासहिः इति। तथा ह्य् अन्यत्रापि सादृश्याच् छन्दोऽभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते। यथा सꣳवर्ग-विद्यायाꣳ ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्त इत्य् आरभ्य सैषा विराडन्नात् [छान्।, ४।३।८] इत्य् उच्यते॥२६॥
Link copiedइतश् च गायत्री-शब्देन ब्रह्मैवाभिधीयते--
Link copied२७ भूतादि-पाद-व्यपदेशोपपत्तेश् चैवम्॥१।१।२७॥
Link copied[योग्यताया अर्थ-निर्णायकत्वम्]
Link copiedभूत-पृथिवी-शरीर-हृदयानि निर्दिश्य सैषा चतुष्पदा [छान्।, ३।१२।५] इति व्यपदेशो ब्रह्मण्य् एव गायत्री-शब्दाभिधेय उपपद्यते।
Link copied२८ उपदेश-भेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्॥१।१।२८॥
Link copied[उपदेशाकार-वैलक्षण्यतः पूर्वोत्तर-वाक्ययोर् अनैकार्थ्यम् इति शङ्का, तत्-परिहारश् च]
Link copiedपूर्व-वाक्ये त्रि-पादस्यामृतꣳ दिवि [छान्।, ६।१२।६] इति दिवोऽधिकरणत्वेन निर्देशाद् इह च दिवः पर इत्य् अवधित्वेन निर्देशाद् उपदेशस्य भिन्न-रूपत्वेन पूर्व-वाक्योक्तꣳ ब्रह्म परस्मिन् न प्रत्यभिज्ञायत इति चेत् तन् न, उभयस्मिन्न् अप्य् उपदेशे अर्थ-स्वभावैक्येन प्रत्यभिज्ञाया अविरोधात्; यथा वृक्षाग्रे श्येनो वृक्षाग्रात् परतः श्येनः इति। तस्मात् परम-पुरुष एव निरतिशय-तेजस्को दिवः परो ज्योतिर् दीप्यत इति प्रतिपाद्यते॥
Link copied[अधिकरणार्थ-निगमनम्]
Link copiedएतावान् अस्य महिमा। अतो ज्यायाꣳश् च पुरुषः। पादोऽस्य विश्वा भूतानि। त्रि-पादस्यामृतꣳ दिवि [यजुर्। आर। ३।१२] इति प्रतिपादितस्य चतुष्पदः परम-पुरुषस्य वेदाहम् एतꣳ पुरुषꣳ महान्तम्। आदित्य-वर्णꣳ तमस् तु पारे [तै। आर। ३।१२] इत्य् अभिहिताप्राकृत-रूपस्य तेजोऽप्य् अप्राकृतम् इति तद्वत्तया स एव ज्योतिः शब्दाभिधेय इति निरवद्यम्॥
Link copiedइति ज्योतिर्-अधिकरणम्॥१०॥
Link copiedइन्द्रप्राणाधिकरणम्॥११॥
Link copied[अधिकरणार्थः-- इन्द्रत्वेनोपास्यः, न तु शची-पतिर् इन्द्रः
Link copied[प्रतर्दन-विद्या [कौषी। ३]]
Link copied[अवान्तर-सङ्गतिः]
Link copiedनिरतिशय-दीप्ति-युक्तꣳ ज्योतिः शब्दाभिधेयꣳ प्रसिद्धवन् निर्दिष्टꣳ परम-पुरुष एवेत्य् उक्तम्। इदानीꣳ कारणत्व-व्याप्तामृतत्व-प्राप्त्य्-उपायतयोपास्यत्वेन श्रुत इन्द्र-प्राणादि-शब्दाभिधेयोऽपि परम-पुरुष एवेत्य् आह---
Link copied२९ प्राणस् तथानुगमात्॥१।१।२९॥
Link copied[विषय-वाक्य-प्रतिपादनम्
Link copiedकौषीतकी-ब्राह्मणे प्रतर्दन-विद्यायाꣳ प्रतर्दनो ह वै दैवोदासिर् इन्द्रस्य प्रियꣳ धामोपजगाम युद्धेन च पौरुषेण च [कौ। ३।१] इत्य् आरभ्य वरꣳ वृणीष्व [कौ। ३।१] इति वक्तारम् इन्द्रꣳ प्रति त्वम् एव मे वरꣳ वृणीष्व यꣳ त्व मनुष्याय हिततमꣳ मन्यसे [कौ। ३।१] इति प्रतर्दनेनोक्ते स होवाच प्राणोऽस्मि प्रज्ञात्मा तꣳ मामायुर् अमृतम् इत्य् उपास्स्व [कौ। ३।१] इति श्रूयते॥
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedतत्र सꣳशयः-- किम् अयꣳ हिततमोपासन-कर्मतयेन्द्र-प्राण-शब्द-निर्दिष्टो जीव एव; उत तद्-अतिरिक्तः परमात्मा इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ युक्तम्, जीव एवेति। कुतः। इन्द्र-शब्दस्य जीव-विशेष एव प्रसिद्धेः, तत्-समानाधिकरणस्य प्राण-शब्दस्यापि तत्रैव वृत्तेः। अयम् इन्द्राभिधानो जीवः प्रतर्दनेन त्वम् एव मे वरꣳ वृणीष्व यꣳ त्वꣳ मनुष्याय हिततमꣳ मन्यसे [कौ। ३।१] इत्य् उक्तो माम् उपास्स्व [कौ। ३।१] इति स्वात्मोपासनꣳ हिततमम् उपदिदेश। हिततमश् चामृतत्व-प्राप्त्य्-उपाय एव। जगत्-कारणोपासनस्यैवामृतत्व-प्राप्ति-हेतुता तस्य तावद् एव चिरꣳ यावन् न विमोक्ष्ये अथ सम्पत्स्ये [छान्।, ६।१४।२] इत्य् अवगता। अतः प्रसिद्ध-जीव-भाव इन्द्र एव कारणꣳ ब्रह्म-- इत्य् आशङ्कायाम् अभिधीयते---
Link copied[सिद्धान्तारम्भः]
Link copiedप्राणस् तथानुगमात्-- इति; अयम् इन्द्र-प्राण-शब्द-निर्दिष्टो न जीव-मात्रम्, अपि तु जीवाद् अर्थान्तर-भूतꣳ परꣳ ब्रह्म। स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोमृतः [कौ। ३।१] इतीन्द्र-प्राण-शब्दाभ्याꣳ प्रस्तुतस्यानन्द-जरामृत-शब्द सामानाधिकरण्येनानुगमो हि तथा सत्य् एवोपपद्यते॥२९॥
Link copied[उक्तस्य सिद्धान्तस्यार्थस्याक्षेप-पूर्वकꣳ स्थिरीकरणम्]
Link copied३० न वक्तुर् आत्मोपेदशाद् इति चेद् अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मिन्॥१।१।३०॥
Link copied[सिद्धान्तिनꣳ प्रति मध्ये पूर्व-पक्षः, समाधानꣳ च]
Link copiedयद् उक्तम् इन्द्र-प्राण-शब्द-निर्दिष्टस्यानन्दोऽजरोऽमृतः [कौ। ३।९] इत्य् अनेनैकार्थ्याद् अयꣳ परꣳ ब्रह्मेति तत् नोपपद्यते, माम् एव विजानीहि [कौ। ३।१], प्राणोऽस्मि प्रज्ञात्मा तꣳ माम् आयुर् अमृतम् इत्य् उपास्स्व [कौ। ३।१] इति वक्ता हीन्द्रः त्रिशीर्षाणꣳ त्वाष्ट्रम् अहनम् [कौ। ३।१] इत्य् एवम् आदिना त्वाष्ट्रवधादिभिः प्रज्ञात-जीव-भावस्य स्वात्मन एवोपास्यताꣳ प्रतर्दनायोपदिशति। अत उपक्रमे जीविविशेष इत्य् अवगते सति, आनन्दोऽजरोऽमृतः [कौ। ३।९] इत्य् आदिभिर् उपसꣳहारस् तद्-अनुगुण एव वर्णनीय इति चेत् परिहरति--- अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मन्-- आत्मनि यः सम्बन्धः सोऽध्यात्म-सम्बन्धः। तस्य भूमा-- भूयस्त्वम्-- बहुत्वम् इत्य् अर्थः। आत्मन्य् आधेयतया सम्बध्यमानानाꣳ बहुत्वेन सम्बन्ध-बहुत्वम्। तच् चास्मिन् वक्तरि परमात्मन्य् एव हि सम्भवति। तद् यथा रथस्यारेषु नेमिर् अर्पिता नाभावरा अर्पिता एवमेवैता भूत-मात्राः प्रज्ञा-मात्रा-स्वर्पिताः प्रज्ञा-मात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्माजरोऽमृतः [कौ। ३।९] इति भूत-मात्रा-शब्देनाचेतन-वस्तु-जातम् अभिधाय प्रज्ञा-मात्रा-शब्देन तद्-आधारतया चेतन-वर्गꣳ चाभिधाय तस्याप्य् आधारतया प्रकृतम् इन्द्र-प्राण-शब्दाभिधेयꣳ निर्दिश्य तम् एव आनन्दोऽजरोऽमृतः, [कौ। ३।९] इत्य् उपदिशति। तद् एतच् चेतनाचेतनात्मक-कृत्स्न-वस्त्व्-आधारत्वꣳ जीवाद् अर्थान्तर-भूतेऽस्मिन् परमात्मन्य् एवोपपद्यत इत्य् अर्थः।
Link copied[मुखान्तरेण योजनम्]
Link copiedअथवा अध्यात्म-सम्बन्ध-भूमा ह्य् अस्मिन् परमात्मासाधारण-धर्म-सम्बन्धोऽध्यात्म-सम्बन्धः। तस्य भूमा बहुत्वꣳ ह्य् अस्मिन् प्रकरणे विद्यते। तथा हि-- प्रथमꣳ त्वम् एव मे वरꣳ वृणीष्व यꣳ त्वꣳ मनुष्याय हिततमꣳ मन्यसे [कौ। ३।९] इति माम् उपास्स्व [कौ। ३।९] इति च परमात्मासाधारण-मोक्ष-साधानोपासन-कर्मत्वꣳ प्राण-शब्द-निर्दिष्टस्येन्द्रस्य प्रतीयते। तथा एष एव साधु कर्म कारयति तꣳ यमेभ्यो लोकेभ्य उन्निनीषति एष एवासाधु कर्म कारयति तꣳ यमधो निनीषति, [कौ। ३।९] इति सर्वस्य कर्मणः कारयितृत्वꣳ च परमात्म-धर्मः। तथा तद् यथा रथस्यारेषु नेमिर् अर्पिता नाभावरा अर्पिताः एवम् एवैता भूत-मात्राः प्रज्ञा-मात्रा-स्वर्पिताः प्रज्ञा-मात्राः प्राणेऽर्पिताः [कौ। ३।९] इति सर्वाधारत्वꣳ च तस्यैव धर्मः। तथा स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः [कौ। ३।९] इत्य् एतेऽपि परमात्मन एव धर्माः। एष लोकाधिपतिर् एष सर्वेशः [कौ। ३।९] इति च परमात्मन्य् एव सम्भवति। तद् एवम् अध्यात्म-सम्बन्ध-भूम्नोऽत्र विद्यमानत्वात् परमात्मैवात्रेन्द्र-प्राण-शब्द-निर्दिष्टः॥३०॥
Link copied[इन्द्रेण स्वात्मन उपास्यत्वोपदेश-साङ्गत्यम्]
Link copiedकथꣳ तर्हि प्रज्ञात-जीव-भावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशः सङ्गच्छते; तत्राह---
Link copied३१ शास्त्र-दृष्ट्या तूपदेशो वामदेववत्॥१।१।३१॥
Link copiedप्रज्ञात-जीव-भावेनेन्द्रेण माम् एव विजानीहि [कौ। ३।१] माम् उपास्स्व [कौ। ३।१] इत्य् उपास्यस्य ब्रह्मणः स्वात्मत्वेनोपदेशोऽयꣳ न प्रमाणान्तर-प्राप्त-स्वात्मावलोकन-कृतः, अपितु शास्त्रेण स्वात्म-दृष्टि-कृतः॥
Link copied[जीव-वाचि-शब्दानाꣳ परमात्म-पर्यन्तत्व-समर्थनम्]
Link copiedएतद् उक्तꣳ भवति-- अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२], ऐतदात्म्यम् इदꣳ सर्वम् [छान्।, ६।८।७], अन्तः-प्रविष्टः शास्ताजनानाꣳ सर्वात्मा [यजु।आर], य आत्मनि तिष्ठन्न् आत्मनोऽन्तरोऽयम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति [बृहद्।, ५।७।२२], एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इत्य् एवम् आदिना शास्त्रेण जीवात्म-शरीरकꣳ परमात्मानम् अवगम्य जीवात्म-वाचिनाम् अहन्त्वम् आदि-शब्दानाम् अपि परमात्मन्य् एव पर्यवसानꣳ ज्ञात्वा माम् एव विजानीहि [कौ। ३।९] माम् उपास्स्व [कौ। ३।१] इति स्वात्म-शरीरकꣳ परमात्मानम् एवोपास्यत्वेनोपदिदेश-- इति। वामदेववत्-- यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वꣳ सर्वस्य च तच्-छरीरत्वꣳ शरीर-वाचिनाꣳ च शब्दानाꣳ शरीरिणि पर्यवसानꣳ पश्यन्न् अहम् इति स्वात्म-शरीरकꣳ परꣳ ब्रह्म निर्दिश्य तत्-सामानाधिकरण्येन मनु-सूर्यादीन् व्यपदिशति तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे अहꣳ मनुर् अभवꣳ सूर्यश् चाहꣳ कक्षीवान् ऋषिर् अस्मि विप्रः [बृहद्।, ३।४।१०] इत्य् आदिना। यथा च प्रह्लादः सर्वगत्वाद् अनन्तस्य स एवाहम् अवस्थितः। मत्तः सर्वम् अहꣳ सर्वꣳ मयि सर्वꣳ सनातने [वि। पु।, १।१९।८९] इत्य् आदि वदति॥३१॥
Link copiedअस्मिन् प्रकरणे जीव-वाचिभिः शब्दैर् अचिद्-विशेषाभिधायिभिश् चोपास्य-भूतस्य परस्य ब्रह्मणोऽभिधाने कारणꣳ चोद्य-पूर्वकम् आह--
Link copied३२ जीव-मुख्य-प्राण-लिङ्गान् नेति चेन् नोपासात्रैविध्याद् आश्रितत्वाद् इह तद्-योगात्॥१।१।३२॥
Link copiedन वाचꣳ विजिज्ञासीत वक्तारꣳ विद्यात् [कौ। १।८], त्रिशीर्षाणꣳ त्वाष्ट्रम् अहनम् अरुन्-मुखान्यतीन् साला-वृकेभ्यः प्रायच्छम् [कौ। ३।१] इत्य् आदि जीव-लिङ्गात्, यावद् अस्मिञ् शरीरे प्राणो वसति तावद् आयुः [कौ। ३।१] अथ खलु प्राण एव प्रज्ञात्मेदꣳ शरीरꣳ परिगृह्योत्थापयति [कौ। ३।१] इति मुख्य-प्राण-लिङ्गाच् च नाध्यात्म-सम्बन्ध-भूमेति चेन् न, उपासात्रैविध्यात् हेतोर् उपासना-त्रैविध्यम् उपदेष्टुꣳ तत्-तच्-छब्देनाभिधानम्-- निखिल-कारण-भूतस्य ब्रह्मणः स्वरूपेणानुसन्धानम्, भोक्तृ-वर्ग-शरीरकत्वानुसन्धानꣳ भोग्य-भोगोपकरण-शरीरकत्वानुसन्धानꣳ चेति त्रिविधम् अनुसन्धानम् उपदेष्टुम् इत्य् अर्थः। तद् इदꣳ त्रिविधꣳ ब्रह्मानुसन्धानꣳ प्रकरणान्तरेष्व् अप्य् आश्रितꣳ सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] आनन्दो ब्रह्म [तै।, ३।६] इत्य् आदिषु स्वरूपानुसन्धानम्; तत् सृष्ट्वा तद् एवानुप्राविशत्, तद् अनुप्रविश्य, सच् चत्यच् चाभवत्, निरुक्तꣳ चानिरुक्तꣳ च, निलयनꣳ चानिलयनꣳ च, विज्ञानꣳ चाविज्ञानꣳ च, सत्यꣳ चानृतꣳ च सत्यम् अभवत् [तै।, २।६२] इत्य् आदिषु भोक्तृ-शरीरतया, भोग्य-भोगोपकारण-शरीरतया चानुसन्धानम्। इहापि प्रकरणे तत् त्रिविधम् अनुसन्धानꣳ युज्यत एवेत्य् अर्थः।
Link copied[विशिष्टोपासन-परता-चिह्न-प्रदर्शनम्]
Link copiedएतद् उक्तꣳ भवति-- यत्र हिरण्यगर्भादि-जीव-विशेषाणाꣳ प्रकृत्य्-आद्य्-अचेतन-विशेषाणाꣳ च परमात्मासाधारण-धर्म-योगः तद्-अभिधायिनाꣳ शब्दानाꣳ परमात्म-वाचि-शब्दैः सामानाधिकरण्यꣳ वा दृश्यते; तत्र परमात्मनस् तत्-तच्-चिद्-अचिद्-विशेषान्तरात्मत्वानुसन्धानꣳ प्रतिपिपादयिषितम्-- इति।
Link copiedअतोऽत्रेन्द्र-प्राण-शब्द-निर्दिष्टो जीवाद् अर्थान्तर-भूतः परमात्मैवेति सिद्धम्॥३२॥
Link copiedइति इन्द्र-प्राणाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-रचिते ब्रह्मसूत्र-भाष्ये प्रथमस्याध्यायस्य प्रथमः पादः॥१॥
Link copiedप्रथमाध्याये
Link copied[अन्य-योग-व्यवच्छेद-त्रिपादी]
Link copiedद्वितीयः पादः
सर्वत्र-प्रसिद्ध्य्-अधिकरणम्॥१॥
Link copied[अस्पष्ट-जीवादि-लिङ्गक-वेदान्त-वाक्य-विचार-रूपः]
Link copied[पादार्थः-- परमात्मनः सर्व-शरीरकत्वम्]
Link copied[पूर्व-पादीयो जिज्ञासाधिकरणार्थः]
Link copiedप्रथमे पादेऽधीत-वेदः पुरुषः कर्म-मीमाꣳसा-श्रवणाधिगत-कर्म-याथात्म्य-ज्ञानः केवल-कर्मणाम् अल्पास्थिर-फलत्वम् अवगम्य, वेदान्त-वाक्येषु चापात-प्रतीतानन्त-स्थिर-फल-ब्रह्म-स्वरूप तद्-उपासनसम् उपजात-परम-पुरुषार्थ-लक्षण-मोक्षापेक्षोऽवधारित-परिनिष्पन्न-वस्तु-बोधन-शब्द-शक्तिर् वेदान्त-वाक्यानाꣳ परस्मिन् ब्रह्मणि निश्चित-प्रमाण-भावस् तद्-इतिकर्तव्यता-रूप-शारीरक-मीमाꣳसा-श्रवणम् आरभेतेत्य् उक्तꣳ शास्त्रारम्भ-सिद्धये ॥१॥
Link copied[जन्माद्य्-अधिकरणार्थः]
Link copiedअनन्त-विचित्र-स्थिर-त्रस-रूप-भोक्तृ-भोग्य-भोगोपकरण-भोग-स्थान-लक्षण-निखिल-जगद्-उदय-विभव-लय-महानन्दैक-कारणꣳ परꣳ ब्रह्म यतो वा इमानि इत्य् आदि वाक्यꣳ बोधयतीति च प्रत्यपादि॥२॥
Link copied[शास्त्र-योनित्वाधिकरणार्थः]
Link copiedजगद्-एक-कारणꣳ परꣳ ब्रह्म सकलेतर-प्रमाणाविषयतया शास्त्रैक-प्रमाणकम् इत्य् अभ्यधाम॥३॥
Link copied[समन्वयाधिकरणार्थः]
Link copiedशास्त्र-प्रमाणकत्वꣳ च ब्रह्म प्रवृत्ति-निवृत्त्य्-अन्वय-विरहेऽपि स्वरूपेणैव परम-पुरुषार्थ-भूते परस्मिन् ब्रह्मणि वेदान्त-वाक्यानाꣳ समन्वयान् निरुह्यत इत्य् अब्रूम॥४॥
Link copied[ईक्षत्य्-अधिकरणार्थः]
Link copiedनिखिल-जगद्-एक-कारणतया वेदान्त-वेद्यꣳ ब्रह्म च ईक्षणाद्य्-अन्वयाद् आनुमानिक-प्रधानाद् अर्थान्तर-भूतश् चेतन-विशेष एवेत्य् उपापीपदाम॥५॥
Link copied[आनन्द-मयाधिकरणार्थः]
Link copiedस च स्वाभाविकानवधिकातिशयानन्द-विपश्चित्त्व-निखिल-चेतन-भयाभय-हेतुत्व-सत्य-सङ्कल्पत्व-समस्त-चेतनाचेतनान्तरात्मत्वादिभिर् बद्ध-मुक्तोभयावस्थाज् जीव शब्दाभिलपनीयाच् चार्थान्तर-भूत इति च समार्तिथामहि॥६॥
Link copied[अन्तर-धिकरणार्थः]
Link copiedस चाप्राकृताकर्म-निमित्त-स्वासाधारण-दिव्य-रूप इत्य् उदैरिराम॥७॥
Link copied[आकाशाधिकरणार्थः]
Link copiedआकाश-प्राणाद्य्-अचेतन-विशेषाभिधायिभिर् जगत्-कारणतया प्रसिद्धवन्-निर्दिश्यमानः सकलेतर-चेतनाचेतन-विलक्षणः स एवेति समगरिष्महि॥८॥
Link copied[ज्योतिर्-अधिकरणार्थः]
Link copiedपरतत्त्वासाधारण-निरतिशय-दीप्ति-युक्त-ज्योतिः शब्दाभिधेयो द्यु-सम्बन्धितया प्रत्यभिज्ञानात् स एवेत्य् आतिष्ठामहि॥९॥
Link copied[इन्द्र-प्राणाधिकरणार्थः]
Link copiedपरम-कारण-साधारणामृतत्व-प्राप्ति-हेतु-भूतः परम-पुरुष एव शास्त्र-दृष्ट्येन्द्रादि-शब्दैर् अभिधीयत इत्य् अब्रूमहि ॥१०॥
Link copied[आहत्य प्रथम-पादार्थ-सारः]
Link copiedतद् एवम् अतिपतित-सकलेतर-प्रमाण-सम्भावना-भूमिः सार्वज्ञ्य-सत्य-सङ्कल्पत्वाद्य्-अपरिमितोदार-गुण-सागरतया स्वेतर-समस्त-वस्तु-विलक्षणः परꣳ ब्रह्म पुरुषोत्तमो नारायण एव वेदान्त-वेद्य इत्य् उक्तम्॥११॥
Link copied[अनन्तर-त्रिपाद्या अर्थः]
Link copiedअतः परꣳ द्वितीय-तृतीय-चतुर्थेषु पादेषु यद्य् अपि वेदान्त-वेद्यꣳ ब्रह्मैव, तथापि कानिचिद् वेदान्त-वाक्यानि प्रधान-क्षेत्रज्ञान्तर्भूत-वस्तु-विशेष-स्वरूप-प्रतिपादन-पराण्येवेत्य् आशङ्कय तन्-निरसन-मुखेन तत्-तद्-वाक्योदित-कल्याण-गुणाकरत्वꣳ ब्रह्मणः प्रतिपाद्यते।
Link copied[त्रिपाद्याम् अपि प्रतिपादम् अर्थ-सारः]
Link copiedतत्रास्पष्ट-जीवादि-लिङ्गकानि वाक्यानि द्वितीये पादे विचार्यन्ते; स्पष्ट-लिङ्गकानि तृतीये, तत्-तत्-प्रतिपादन-च्छायानुसारीणि चतुर्थे॥
Link copied३३ सर्वत्र प्रसिद्धोपदेशात्॥१।२।१॥
Link copied[अधिकरणार्थः-- ब्रह्मण एव सर्वात्म-भावेनावस्थानम्]
Link copied[शाण्डिल्य-विद्या, छान्।, ३।१४]
Link copiedइदम् आम्नायते छान्दोग्ये-- अथ खलु क्रतु-मयः पुरुषो यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुꣳ कुर्वीत मनो-मयः प्राण-शरीरो भा-रूपः [छान्।, ३।१४।१] इत्य् आदि॥
Link copied[जिज्ञास्यो विषयः]
Link copiedअत्र स क्रतुꣳ कुर्वीत [छान्।, ३।१४।१] इति प्रतिपादितस्योपासनस्योपास्यो मनो-मयः प्राण-शरीरः [छान्।, ३।१४।१] इति निर्दिश्यत इति प्रतीयते॥
Link copied[सꣳशयाकारः]
Link copiedतत्र सꣳशयः-- किꣳ मनो-मयत्वादि-गुणकः क्षेत्रज्ञः; उत परमात्मा-- इति॥
Link copied[पूर्व-पक्ष-स्वरूपम्]
Link copiedकिꣳ युक्तꣳ क्षेत्रज्ञ इति। कुतः मनः-प्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस् तु, अप्राणो ह्य् अमनाः [मुण्ड्।, २।१।२] इति तत्-प्रतिषेधाच् च। न च सर्वꣳ खल्व् इदꣳ ब्रह्म [छान्।, ३।१४।१] इति पूर्व-निर्दिष्टꣳ ब्रह्मात्रोपास्यतया सम्बद्धुꣳ शक्यते, शान्त उपासीत [छान्।, ३।१४।१] इत्य् उपासनोपकरण-शान्ति-निर्वृत्त्य्-उपायभूत-ब्रह्मात्मकत्वोपदेशायोपात्तत्वात्॥
Link copied[सिद्धान्तम् आशङ्क्य पूर्व-पक्ष-स्थिरीकरणम्]
Link copiedन च स क्रतुꣳ कुर्वीत [छान्।, ३।१४।१] इत्य् उपासनस्योपास्य-साकाङ्क्षत्वाद् वाक्यान्तर-स्थम् अपि ब्रह्म सम्बध्यत इति युक्तꣳ वक्तुम्, स्व-वाक्योपात्तेन मनो-मयत्वादि-गुणकेन निराकाङ्क्षत्वात्; मनो-मयः प्राण-शरीरः [छान्।, ३।१४।१] इत्य् अनन्यार्थतया निर्दिष्टस्य विभक्ति-विपरिणाम-मात्रेणोभयाकाङ्क्षा-निवृत्ति-सिद्धेः। एवꣳ निश्चिते जीवत्वे एतद् ब्रह्म [छान्।, ३।१४।१] इत्य् उपसꣳहार-स्थ-ब्रह्म-पदम् अपि जीव एव पूजार्थꣳ प्रयुक्तम् इत्य् अध्यवसीयत इति॥
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्ते ब्रूमः--- सर्वत्र प्रसिद्धोपदेशात्।
Link copied[सूत्रार्थ-विवरणम्]
Link copiedमनो-मयत्वादि-गुणकः परमात्मा। कुतः। सर्वत्र-- वेदान्तेषु परस्मिन्न् एव ब्रह्मणि प्रसिद्धस्य मनो-मयत्वादेर् उपदेशात्। प्रसिद्धꣳ हि मनो-मयत्वादि ब्रह्मणः। यथा मनो-मयः प्राण-शरीर-नेता [मुण्ड्।, २।२।७] स एषोऽन्तर् हृदय आकाशः। तस्मिन्न् अयꣳ पुरुषो मनो-मयः। अमृतो हिरण्-मयः [तै।, २।६।३] हृदा मनीषा मनसाभिकॢप्तो य एनꣳ विदुरमृतास्ते भवन्ति [महाना।] न चक्षुषा गृह्यते नापि वाचा [मुण्ड्।, ३।१।८], मनसा तु विशुद्धेन तथा प्राणस्य प्राणः [केन, १।२], अथ खलु प्राण एव प्रज्ञात्मेदꣳ शरीरꣳ परिगृह्योत्थापयति [कौषी।, ३।२], सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसꣳविशन्ति प्राणम् अभ्युज्जिहते [छान्।, १।११।५] इत्य् आदिषु॥
Link copied[परमात्मनि मनः-प्राण-सम्बन्धोपपादनम्]
Link copiedमनो-मयत्वꣳ-- विशुद्धेन मनसा ग्राह्यत्वम्। प्राण-शरीरत्वꣳ-- प्राणस्याप्य् आधारत्वꣳ नियन्तृत्वꣳ च। एवꣳ च सति एष म आत्मान्तर् हृदय एतद्ब्रह्म [छान्।, ३।१४।४] इति ब्रह्म-शब्दोऽपि मुख्य एव भवति। अप्राणो ह्य् अमनाः [मुण्ड्।, २।१।२] इति मन आयत्तꣳ ज्ञानꣳ प्राणायत्ताꣳ स्थितिꣳ च ब्रह्मणो निषेधति।
Link copied[स्वाभिमता अधिकरण-योजना, तत्र जिज्ञाय-विषय-निर्देशः]
Link copiedअथवा सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति शान्त उपासीत [छान्।, ३।१४।१] इत्य् अत्रैवोपासनꣳ विधीयते-- सर्वात्मकꣳ ब्रह्म शान्तः सन्न् उपासीतेति। स क्रतुꣳ कुर्वीत [छान्।, ३।१४।१] इति तस्यैव गुणोपादनार्थोऽनुवादः। उपादेयाश् च गुणा मनो-मयत्वादयः; यतः सर्वात्मकꣳ ब्रह्म मनो-मयत्वादि-गुणकम् उपासीतेति वाक्यार्थः॥
Link copied[सꣳशय-स्वरूप-निर्देशः]
Link copiedतत्र सन्देहः-- किम् इह ब्रह्म-शब्देन प्रत्यगात्मा निर्दिश्यते; उत परमात्मा-- इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ प्रत्यगात्मेति। कुतः। तस्यैव सर्व-पद-सामानाधिकरण्य-निर्देशोपपत्तेः। सर्व-शब्द-निर्दिष्टꣳ हि ब्रह्मादि-स्तम्ब-पर्यन्तꣳ कृत्स्नꣳ जगत्। ब्रह्मादि-भावश् च प्रत्यगात्मनोऽनाद्य्-अविद्या-मूल-कर्म-विशेषोपाधिको विद्यत एव; परस्य तु ब्रह्मणः सर्वज्ञस्य सर्व-शक्तेर् अपहत-पाप्मनो निरस्त-समस्ताविद्यादि-दोष-गन्धस्य समस्त-हेयाकर-सर्व-भावो नोपपद्यते॥
Link copied[जीवे ब्रह्म-शब्द-प्रयोगोपपत्तिः]
Link copiedप्रत्यगात्मन्य् अपि क्वचित् क्वचिद् ब्रह्म-शब्दः प्रयुज्यते। अत एव परमात्मा परꣳ ब्रह्मेति परमेश्वरस्य क्वचित् सविशेषणो निर्देशः। प्रत्यगात्मनश् च निर्मुक्तोपाधेर् बृहत्वꣳ च विद्यते स चानन्त्याय कल्पते [श्वे।, ५।९] इति श्रुतेः। अविदुषस् तस्यैव कर्म-निमित्तत्वाज् जन्म-स्थिति-लयानाꣳ तज् जलान् इति हेतु-निर्देशोऽप्य् उपपद्यते। तद् अयम् अर्थः-- अयꣳ जीवात्मा स्वतोऽपरिच्छिन्न-स्वरूपत्वेन ब्रह्म-भूतः सन्न् अनाद्य्-अविद्यया देव-तिर्यङ्-मनुष्य-स्थावरात्मनावतिष्ठते- इति।
Link copied[सिद्धान्त-स्वरूपम्]
Link copiedअत्र प्रतिविधीयते-- सर्वत्र प्रसिद्धोपदेशात्-- सर्वत्र-- सर्व खल्व् इदम् [छान्।, ३।१४।१] इति निर्दिष्टे सर्वस्मिञ् जगति ब्रह्म-शब्देन तदात्मतया विधीयमानꣳ परꣳ ब्रह्मैव, न प्रत्यगात्मा। कुतः। प्रसिद्धोपदेशात्, तज् जलान् [छान्।, ३।१४।१] इति हेतुतः सर्वꣳ खल्व् इदꣳ ब्रह्म इति प्रसिद्धवद् उपदेशात्। ब्रह्मणो जातत्वाद् ब्रह्मणि लीनत्वाद् ब्रह्माधीन-जीवनत्वाच् च हेतोर् ब्रह्मात्मकꣳ सर्वꣳ खल्व् इदꣳ जगद् इत्य् उक्ते यस्माज् जगज्-जन्म-स्थिति-लया वेदान्तेषु प्रसिद्धास् तद् एवात्र ब्रह्मेति प्रतीयते॥
Link copied[सूत्रोक्तार्थोपपादनम्]
Link copiedतच् च परम् एव ब्रह्म; तथा हि यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत् प्रयन्त्य् अभिसꣳविशन्ति, तद् विजिज्ञासस्व तद् ब्रह्म [तै।, ३।१] इत्य् उपक्रम्य आनन्दो ब्रह्मेति व्यजानात्, आनन्दाद् ध्येव खल्व् इमानि भूतानि जायन्ते [तै।, ३।६] इत्य् आदिना पूर्वानुवाक-प्रतिपादितानवधिकातिशयानन्द-योगिनो विपिश्चतः परस्माद् ब्रह्मण एव जगद्-उत्पत्ति-स्थित-लया निर्दिश्यन्ते; तथा स कारणꣳ करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे।, ६।९] इति करणाधिपस्य जीवस्याधिपः परꣳ ब्रह्मैव कारणꣳ व्यपदिश्यते। एवꣳ सर्वत्र परस्यैव ब्रह्मणः कारणत्वꣳ प्रसिद्धम्॥
Link copied[जगद्-ब्रह्मणोस् तादात्म्यस्य स्थिरीकरणम्]
Link copiedअतः परब्रह्मणो जातत्वात् तस्मिन् प्रलीनत्वात् तेन प्राणनात् तदात्मकतया तादात्म्यम् उपपन्नम्।अतः सर्व-प्रकारꣳ सर्व-शरीरꣳ सर्वात्म-भूतꣳ परꣳ ब्रह्म शान्तो भूत्वोपासीतेति श्रुतिर् एव परस्य ब्रह्मणः सर्वात्मकत्वम् उपपाद्य तस्योपासनम् उपदिशति। परꣳ ब्रह्म हि कारणावस्थꣳ कार्यावस्थꣳ सूक्ष्म-स्थूल-चिद्-अचिद्-वस्तु-शरीरतया सर्वदा सर्वात्म-भूतम्॥
Link copied[लक्षणतः सर्वतादात्म्येऽप्य् अपुरुषार्थासꣳस्पर्शः]
Link copiedएवम्भूत-तादात्म्यस्य प्रतिपादने परस्य ब्रह्मणः सकल-हेय-प्रत्यनीक-कल्याण-गुणाकरत्वꣳ न विरुध्यते, प्रकार-भूत-शरीर-गतानाꣳ दोषाणाꣳ प्रकारिण्य् आत्मन्य् अप्रसङ्गात्, प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वम् एवोक्तम्॥
Link copied[जीवस्य सर्व-तादात्म्यायोगः]
Link copiedयद् उक्तꣳ जीवस्य सर्व-तादात्म्यम् उपपद्यत इति; तद् असत्, जीवानाꣳ प्रतिशरीरꣳ भिन्नानाम् अन्योन्य-तादात्म्यासम्भवात्। मुक्तस्याप्य् अनवच्छिन्न-स्वरूपस्यापि जगत्-तादात्म्यꣳ जगज्-जन्म-स्थिति-प्रलय-कारणत्व-निमित्तꣳ न सम्भवतीति जगद्-व्यापारवर्जम् [ब्र। सू।, ४।४।१७] इत्य् अत्र वक्ष्यते। जीव-कर्म-निमित्तत्वाज् जगज्-जन्म-स्थिति-लयानाꣳ स एव कारणम् इत्य् अपि न साधीयः, तत्-कर्म-निमित्तत्वेऽपि श्वरस्यैव जगत्-कारणत्वात्॥
Link copied[सूत्रार्थोपसꣳहारः]
Link copiedअतः परमात्मैवात्र ब्रह्म-शब्दाभिधेयः। इमम् एव सूत्रार्थम् अभियुक्ता बहु मन्वते। यथाह वृत्ति-कारः-- सर्वꣳ खल्व् इति सर्वात्मा ब्रह्मेशः इति॥१॥
Link copied[श्रुत्य्-उक्त-गुण-योगस्य ब्रह्मणि सर्व-तादात्म्योपपादकत्वम्]
Link copied३४ विवक्षित-गुणोपपत्तेश् च॥१।२।२॥
Link copiedवक्ष्यमाणाश् च गुणाः परमात्मन्य् एवोपपद्यन्ते मनो-मयः प्राण-शरीरो भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्य् अनादरः [छान्।, ३।१४।२] इति। मनो-मयः-- परिशुद्धेन मनसैकेन ग्राह्यः; विवेक-विमोकादि-साधन-सप्तकानुगृहीत-परमात्मोपासन-निर्मलीकृतेन हि मनसा गृह्यते। अनेन हेय-प्रत्यनीक-कल्याणैकतानतया सकलेतर-विलक्षण-स्वरूपतोच्यते; मलिन-मनोभिर् मलिनानाम् एव ग्राह्यत्वात्। प्राण-शरीरः-- जगति सर्वेषाꣳ प्राणानाꣳ धारकः। प्राणो यस्य शरीरम् आधेयꣳ विधेयꣳ शेष-भूतꣳ च स प्राण-शरीरः। आधेयत्व-विधेयत्व-शेषत्वानि शरीर-शब्द-प्रवृत्ति-निमित्तानीत्य् उपपादयिष्यते। भा-रूपः-- भा-स्वर-रूपः; अप्राकृत-स्वासाधारण-निरतिशय-कल्याण-दिव्य-रूपत्वेन निरतिशय-दीप्ति-युक्त इत्य् अर्थः। सत्य-सङ्कल्पः-- अप्रतिहत-सङ्कल्पः। आकाशात्मा-- आकाशवत् सूक्ष्म-स्वच्छ-स्वरूपः; सकलेतर-कारण-भूतस्याकाशस्याप्य् आत्म-भूत इति वा आकाशात्मा; स्वयꣳ च प्रकाशतेऽन्यान् अपि प्रकाशयतीति वा आकाशात्मा। सर्व-कर्मा क्रियत इति कर्म; सर्वꣳ जगद् यस्य कर्म, असौ सर्व-कर्मा; सर्वा वा क्रिया यस्यासौ सर्व-कर्मा। सर्व-कामः-- काम्यन्त इति कामाः- भोग्य-भोगोपकरणादयः; ते परिशुद्धाः सर्व-विधास् तस्य सन्तीत्य् अर्थः। सर्व-गन्धः सर्व-रसः-- अशब्दम् अस्पर्शम् [कठ।, १।३।१५] इत्य् आदिना प्राकृत-गन्ध-रसादि-निषेधाद् अप्राकृताः स्वासाधारणा निरवद्या निरतिशयाः कल्याणाः स्वभोग्य-भूताः सर्व-विधा गन्ध-रसास् तस्य सन्तीत्य् अर्थः। सर्वम् इदम् अभ्यात्तः-- उक्तꣳ रस-पर्यन्तꣳ सर्वम् इदꣳ कल्याण-गुण-जातꣳ स्वीकृतवान्। अभ्यात्तः इति भुक्ता ब्राह्मणाः इतिवत् कर्तरि क्तः प्रतिपत्तव्यः। अवाकी-- वाकः उक्तिः; सोऽस्य नास्तीत्य् अवाकी। कुत इत्याह-- अनादर इत्य् अवाप्त-समस्त-कामत्वेनादर्तव्याभावाद् आदर-रहितः। अत एव अवाकी- अजल्पाकः; परिपूर्णैश्वर्यत्वाद् ब्रह्मादि-स्तम्ब-पर्यन्तꣳ निखिलꣳ जगत् तृणीकृत्य जोषम् आसीन इत्य् अर्थः। त एते विवक्षिता गुणाः परमात्मन्य् एवोपपद्यन्ते॥२॥
Link copied[उक्तानाꣳ गुणानाꣳ, व्यतिरेकतः परमात्मनि दृढीकारः]
Link copied३५ अनुपपत्तेस् तु न शारीरः॥१।२।३॥
Link copiedतम् इमꣳ गुण-सागरꣳ पर्यालोचयताꣳ ख-द्योत-कल्पस्य शरीर-सम्बन्ध-निबन्धनापरिमित-दुःख-सम्बन्ध-योग्यस्य बद्ध-मुक्तावस्थस्य जीवस्य प्रस्तुत-गुण-लेश-सम्बन्ध-गन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीर-परिग्रह-शङ्का जायत इत्य् अर्थः॥३॥
Link copied[एतद्-अधिकरणीय-परम-साध्य-हेतु-कथनम्]
Link copied३६ कर्म-कर्तृ-व्यपदेशाच् च॥१।२।४॥
Link copiedएतम् इतः प्रेत्याभिसम्भिवतास्मि [छान्।, ३।१४।४] इति प्राप्यतया परꣳ ब्रह्म व्यपदिश्यते, प्राप्ततृतया च जीवः। अतः प्राप्ता जीव उपासकः, प्राप्यꣳ परꣳ ब्रह्मोपास्यम् इति प्राप्तुर् अन्यद् एवेदम् इति विज्ञायते॥४॥
Link copied[विभक्ति-विशेष-निर्देशाद् ब्रह्म-पद-वाच्यः परमात्मा]
Link copied३७ शब्द-विशेषात्॥१।२।५॥
Link copiedएष म आत्मान्तर् हृदये [छान्।, ३।१४।३] इति शारीरः षष्ठ्या निर्दिष्टः उपास्यस् तु प्रथमया। एवꣳ समान-प्रकरणे वाजिनाꣳ च श्रुतौ शब्द-विशेषः श्रूयते जीव-परयोः; यथा व्रीहिर् वा यवो वा श्यामाको वा श्यामाक-तण्डुलो वा एवम् अयम् अन्तरात्मन् पुरुषो हिरण्-मयो यथा ज्योतिर् अधूमम् [शत। ब्रा। १।६।३] इति। अत्र अन्तरात्मन् इति सप्तम्य् अन्तेन शारीरो निर्दिश्यते; पुरुषो हिरण्-मयः इति प्रथमयोपास्यः। अतः पर एवोपास्यः॥
Link copied[हृदय-स्थे ईश्वरतायाः उपबृꣳहणतः स्थापनम्]
Link copiedइतश् च शारीराद् अन्यः---
Link copied३८ स्मृतेश् च॥१।२।६॥
Link copiedसर्वस्य चाहꣳ हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनꣳ च [भ। गी।, १५।१५] यो माम् एवम् असम्मूढो जानाति पुरुषोत्तमम् [भ। गी।, १५।१९], ईश्वरः सर्व-भूतानाꣳ हृद्-देशेऽर्जुन तिष्ठति। भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया। तम् एव शरणꣳ गच्छ [भ। गी। १८।६१] इति शारीरम् उपासकꣳ, परमात्मानꣳ चोपास्यꣳ स्मृतिर् दर्शयति॥६॥
Link copied[हृदयाख्याल्प-देश-स्थितेर् जीवत्व-ज्ञापकताशङ्का-परिहारौ]
Link copied३९ अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवꣳ व्योमवच् च॥१।२।७॥
Link copiedअल्पायतनत्वम् अर्भकौकस्त्वम्, तद्-व्यपदेशः-- अल्पत्व-व्यपदेशः। एष म आत्मान्तर् हृदये [छान्।, ३।१४।३] इत्य् अणीयसि हृदयायतने स्थितत्वाद् अणीयान् व्रीहेर् वा यवाद् वा [छान्।, ३।१४।३] इत्य् आदिनाणीयस्त्वस्य स्वरूपेण व्यपदेशाच् च नायꣳ परमात्मा, अपि तु जीव एव; सर्व-गतꣳ सुसूक्ष्मꣳ तद् अव्ययꣳ यद् भूत-योनिꣳ परिपश्यन्ति धीराः [मुण्ड्।, १।१।६] इत्य् आदिभिः परमात्मनोऽपरिच्छन्नत्वावगमात्, जीवस्य चाराग्र-मात्रत्व-व्यपदेशाद् इति चेत्--
Link copiedनैतद् एवम्, परमात्मैव ह्य् अणीयानित्य् एवꣳ निचाय्यत्वेन व्यपदिश्यते; एवꣳ निचाय्यत्वेन-- एवꣳ द्रष्टव्यत्वेन, एवम् उपास्यत्वेनेति यावत्। न पुनर् अणीयस्त्वम् एवास्य स्वरूपम् इति; व्योमवच् चायꣳ व्यपदिश्यते, स्वाभाविक-महत्त्वꣳ चात्रैव व्यपदिश्यते-- ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः [छान्।, ३।१४।१] इति। अत उपासनार्थम् एवाल्पत्व-व्यपदेशः। तथा हि--
Link copied[अल्पायतनत्वाद्य्-उपदेशस्योपासनार्थत्व-दृढीकरणम्]
Link copiedसर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् इति शान्त उपासीत [मुण्ड्।, ३।१४।४] इति सर्वोत्पत्ति-प्रलय-कारणत्वेन सर्वस्यात्मतया अनुप्रवेश-कृत-जीवयितृत्वेन च सर्वात्मकꣳ ब्रह्मोपासीतेत्य् उपासनꣳ विधाय अथ खलु क्रतु-मयः पुरुषो यथाक्रतुर् अस्मिꣳल् लोके पुरुषो भवति तथेतः प्रेत्य भवति [छान्।, ३।१४।४] इति यथोपासनꣳ प्राप्य-सिद्धिम् अभिधाय स क्रतुꣳ कुर्वीत इति गुण-विधानार्थम् उपासनम् अनूद्य [छान्।, ३।१४।४] मनो-मयः प्राण-शरीरो भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धरः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्य् अनादरः [छान्।, ३।१४।४] इति जगदैश्वर्य-विशिष्टस्य स्वरूप-गुणाꣳश् चोपादेयान् प्रतिपाद्य एष म आत्मान्तर् हृदयेऽणीयान् व्रीहेर् वा यवाद् वा सर्षपाद् वा श्यामाकाद् वा श्यामाक-तण्डुलाद् वा [छान्।, ३।१४।४] इत्य् उपासकस्य हृदयेऽणीयस्त्वेन तदात्मतयोपास्यस्य परम-पुरुषस्योपासनार्थम् अवस्थानम् उक्त्वा एष म आत्मान्तर् हृदये ज्यायान् पृथिव्या ज्यायान् अन्तर् अक्षाज् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः सर्व-कर्मा सर्व-कामः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्य् अनादरः [छान्।, ३।१४।१।४] इत्य् अन्तर्हृदयेऽवस्थितस्य उपास्यमानस्य प्राप्याकारꣳ निर्दिश्य एष म आत्मान्तर् हृदय एतद् ब्रह्म इत्य् एवꣳ भूतꣳ परꣳ ब्रह्म परम-कारुण्येनास्मद् उज्जिजीवयिषया अस्मद्-धृदये सन्निहितम् इतीदम् अनुसन्धानꣳ विधाय एतम् इतः प्रेत्याभिसम्भवितास्मि [छान्।, ३।१४।४] इति यथोपासनꣳ प्राप्ति-निश्चयानुसन्धानꣳ च विधाय इति यस्य स्यादद् धा न विचिकत्सास्ति [छान्।, ३।१४।४] इत्य् एवꣳविध-प्राप्य-प्राप्ति-निश्चयोपेतस्योपासकस्य प्राप्तौ न सꣳशयोऽस्तीत्य् उपसꣳहृतम्। अत उपासनार्थम् अर्भकौकस्त्वम् अणीयस्त्वꣳ च॥७॥
Link copied[ब्रह्मणो जीव-शरीरान्तर्-वर्तित्वे सुख-दुःखोपभोग-शङ्का-परिहारौ]
Link copied४० सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्॥१।२।८॥
Link copiedजीवस्येव परस्यापि ब्रह्मणः शरीरान्तर्-वर्तित्वम् अभ्युपगतꣳ चेत्-- तद्वद् एव शरीर-सम्बन्ध-प्रयुक्त-सुख-दुःखोपभोग-प्राप्तिर् इति चेत् तन् न, हेतुवैशेष्यात्-- न हि शरीरान्तर्-वर्तित्वम् एव सुख-दुःखोपभोग-हेतुर् अपि तु पुण्य-पाप-रूप-कर्म-परवशत्वम्; तत् त्व् अपहत-पाप्मनः परमात्मनो न सम्भवति। तथा च श्रुतिः--- तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [मुण्ड्।, ३।११] इति॥८॥
Link copiedइति सर्वत्र-प्रसिद्ध्य्-अधिकरणम्॥१॥
Link copiedअत्त्रधिकरणम्॥२॥
Link copied[अधिकरणार्थः-- सर्व-जगत्-सꣳहार-रूपम् अत्तृत्वꣳ परमात्मन एव, न जीवस्य]
Link copied[नाचिकेत-विद्या, कठ।, २]
Link copied[पूर्वाधिकरणान्तिम-सूत्रेणावान्तर-सङ्गतिः]
Link copiedयदि परमात्मा न भोक्ता, एवꣳ तर्हि सर्वत्र भोक्तृतया प्रतीयमानो जीव एव स्याद् इत्य् आशङ्क्याह---
Link copied४१ अत्ता चराचर-ग्रहणात्॥१।२।९॥
Link copied[विषय-वाक्य-दर्शनम्]
Link copiedकठ-वल्लीष्व् आम्नायते--- यस्य ब्रह्म च क्षत्रꣳ च उभे भवत ओदनः। मृत्युर् यस्योपसेचनꣳ क इत्था वेद यत्र सः [कठ।, १।२।२५] इति।
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedअत्रौदनोपसेचन-सूचितोऽत्ता किꣳ जीव एव, उत परमात्मेति सन्दिह्यते॥
Link copied[पूर्व-पक्षः]
Link copiedकिꣳ युक्तम्। जीव इति। कुतः। भोक्तृत्वस्य कर्म-निमित्तत्वाज् जीवस्यैव तत्-सम्भवात्॥
Link copied[सिद्धान्तः]
Link copiedअत्रोच्यते-- अत्ता चराचरण-ग्रहणात्-- अत्ता परमात्मैव। कुतः। चराचर-ग्रहणात्-- चराचरस्य कृत्स्नस्यात्तृत्वꣳ हि तस्यैव सम्भवति। न चेदꣳ कर्म-निमित्तꣳ भोक्तृत्वम्; अपि तु जगज्-जन्म-स्थिति-लय-हेतु-भूतस्य परस्य ब्रह्मणो विष्णोः सꣳहर्तृत्वम्। सोऽध्वनः पारमाप्नोति तद्-विष्णोः परमꣳ पदम् [कठ।, १।३।९] इत्य् अत्रैव दर्शनात्। तथा च मृत्त्युर् यस्योपसेचनम् [कठ।, १।२।२५] इति वचनात्, ब्रह्म च क्षत्रꣳ च [कठ।, १।२।२५] इति कृत्स्नꣳ चराचरꣳ जगद् इहादनीयौदनत्वेन गृह्यते। उपसेचनꣳ हि नाम स्वयम् अद्यमानꣳ सद्-अन्यस्यादन-हेतुः। अत उपसेचनत्वेन मृत्योर् अप्य् अद्यमानत्वात् तद्-उपसिच्यमानस्य कृत्स्नस्य ब्रह्म-क्षत्र-पूर्वकस्य जगतश् चराचरस्यादनम् अत्र विवक्षितम् इति गम्यते। ईदृशꣳ चादनम् उपसꣳहार एव। तस्माद् ईदृशꣳ जगद्-उपसꣳहारित्व-रूपꣳ भोक्तृत्वꣳ परमात्मन एव॥९॥
Link copied[अत्तृत्वस्य परमात्म-गतत्वे प्राकरणिको हेतुः]
Link copied४२ प्रकरणाच् च॥१।२।१०॥
Link copiedप्रकरणꣳ चेदꣳ परस्यैव ब्रह्मणः-- महान्तꣳ विभुमात्मानꣳ मत्वा धीरो न शोचति [कठ।, १।२।२२], नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् [कठ।, १।२।२३] इति हि प्रकृतम्। क इत्था वेद यत्र सः [कठ।, १।२।२५] इत्य् अपि हि तत्-प्रसादाद् ऋते तस्य दुरवबोधत्वम् एव पूर्व-प्रस्तुतꣳ प्रत्यभिज्ञायते॥१०॥
Link copied[आनन्तरिकर्त-पान-श्रुत्या अत्तुर् जीवत्व-शङ्का]
Link copiedअथ स्यात्-- नायꣳ ब्रह्म-क्षत्रौदन-सूचितः पुरुषोऽपहत-पाप्मा परमात्मा; अनन्तरम् ऋतꣳ पिबन्तौ सुकृतस्य लोके गुहाꣳ प्रविष्टौ परमे परार्ध्ये। छाया-तपौ ब्रह्म-विदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः [कठ।, १।३।१] इति कर्म-फल-भोक्तुर् एव सद्वितीयस्याभिधानात्। द्वितीयश् च प्राणो बुद्धिर् वा स्यात्। ऋत-पानꣳ हि कर्म-फल-भोग एव; स च परमात्मनो न सम्भवति; बुद्धि-प्राणयोस् तु भोक्तुर् जीवस्योपकरण-भूतयोर् यथा कथञ्चित् पानेऽन्वयः सम्भवतीति तयोर् अन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते, तद्-एक-प्रकरणत्वात् पूर्व-प्रस्तुतोऽत्तापि स एव भवितुम् अर्हति-- इति॥
Link copied[अत्तृत्वे जीव-गतत्व-शङ्कायाः समाधानम्]
Link copiedतत्रोच्यते--
Link copied४३ गुहाꣳ प्रविष्टावात्मानौ हि तद्-दर्शनात्॥१।२।११॥
Link copiedन प्राण-जीवौ बुद्धि-जीवौ वा गुहाꣳ प्रविष्टावृतꣳ पिबन्ताव् इत्य् उच्येते; अपि तु जीव-परमात्मानौ हि तथा व्यपदिश्येते। कुतः। तद्-दर्शनात्। अस्मिन् प्रकरणे जीव-परयोर् एव गुहा-प्रवेश-व्यपदेशो दृश्यते। परमात्मनस् तावत् तꣳ दुर्दर्शꣳ गूढम् अनुप्रविष्टꣳ गुहाहितꣳ गह्वरेष्ठꣳ पुराणम्। अध्यात्म-योगाधिगमेन देवꣳ मत्वा धीरो हर्ष-शोकौ जहाति [कठ।, १।२।१२] इति। जीवस्यापि या प्राणेन सम्भवत्य् अदितिर् देवता-मयी। गुहाꣳ प्रविश्य तिष्ठन्ती या भूतेभिर् व्यजायत [कठ।, २।४।७] इति। कर्म-फलान्य् अत्तीत्य् अदितिर् जीव उच्यते। प्राणेन सम्भवति-- प्राणेन सह वर्तते। देवता-मयी- इन्द्रियाधीन-भोगा। गुहाꣳ प्रविश्य तिष्ठन्ती-- हृदय-पुण्डरीकोदरवर्तिनी। भूतेभिर् व्यजायत-- पृथिव्यादिभिर् भूतैः सहिता देवादि-रूपेण विविधा जायते। एवꣳ च सति, ऋतꣳ पिबन्तौ [कठ।, १।३।१] इति व्यपदेशः छत्रिणो गच्छन्ति इतिवत् प्रतिपत्तव्यः। यद् वा-- प्रयोज्य-प्रयोजक-रूपेण पाने कर्तृत्वꣳ जीव-परयोर् उपपद्यते॥११॥
Link copied[अज्ञत्व-सर्वज्ञत्व-रूप-विशेषणयोर् जीव-परमात्म-ज्ञापकत्वम्]
Link copied४४ विशेषणाच् च॥१।२।१२॥
Link copiedअस्मिन् प्रकरणे जीव-परमात्मानावेवोपास्यत्वोपासकत्व-प्राप्यत्व-प्राप्तृत्व-विशिष्टौ सर्वत्र प्रतिपाद्येते। तथा हि-- ब्रह्मज-ज्ञꣳ देवम् ईड्यꣳ विदित्वा निचाय्येमाꣳ शान्तिम् अत्यन्तम् एति [कठ।, १।१।१७] इति। ब्रह्मज-ज्ञो-- जीवः, ब्रह्मणो जातत्वाज् ज्ञत्वाच् च। तꣳ देवम् ईड्यꣳ विदित्वा जीवात्मानम् उपासकꣳ ब्रह्मात्मकत्वेनावगम्येत्य् अर्थः। तथा, यः सेतुरीजानानाम् अक्षरꣳ ब्रह्म यत् परम्। अभयꣳ तितीर्षताꣳ पारꣳ नाचिकेतꣳ शकेमहि [कठ।, १।३।२] इत्य् उपास्यः परमात्मोच्यते। नाचिकेतम्-- नाचिकेतस्य कर्मणः प्राप्यमित्य् अर्थः। आत्मानꣳ रथिनꣳ विद्धि शरीरꣳ रथम् एव च [कठ।, १।३।३] इत्य् आदिनोपासको जीव उच्यते। तथा विज्ञान-सारथिर् यस् तु मनः-प्रग्रहवान् नरः। सोऽध्वनः पारमाप्नोति तद् विष्णोः परमꣳ पदम् [कठ।, १।३।९] इति प्राप्य-प्राप्तारावभिधीयेते जीव-परमात्मानौ। इहापि छाया-तपौ [कठ।, १।३।१] इत्य् अज्ञत्व-सर्वज्ञत्वाभ्याꣳ ताव् एव विशिष्य व्यपदिश्येते॥
Link copied[प्रकरणस्य जीव-परत्व-शङ्का]
Link copiedअथ स्यात्-- येयꣳ प्रेते विचिकत्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके [कठ।, १।१।२०] इति जीव-स्वरूप-याथात्म्य-प्रश्नोपक्रमात् सर्वम् इदꣳ प्रकरणꣳ जीवपरम् इति प्रतीयते-- इति॥
Link copied[जीव-परत्व-शङ्का-परिहारः]
Link copiedनैतद् एवम्, न हि जीवस्य देहातिरक्तस्यास्तित्व-नास्तित्व-शङ्कायाम् अयꣳ प्रश्नस् तथा सति पूर्व-वर-द्वय-वरणानुपपत्तेः। तथा हि पितुः सर्व-वेद-सदक्षिणाक्रतु-समाप्ति-वेलायाꣳ दीयमान-दक्षिणावैगुण्येन क्रतु-वैगुण्यꣳ मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण स्वात्म-दानेनापि पितुः क्रतु-साद्गुण्यम् इच्छता कस्मै माꣳ दास्यसि [कठ।, १।२।४] इत्य् असकृत्पितरꣳ पृष्टवता स्वनिर्बन्ध-रुष्ट-पितृ-वचनात् मृत्यु-सदनꣳ प्रविष्टेन स्वसदनात् प्रोषुषि यमे तद्-अदर्शनात् तत्र तिस्रो रात्रीर् उपोषुषा स्वोपवासभीत-तत्-प्रतिविधान-प्रवृत्त-मृत्यु-प्रदत्ते वर-त्रये आस्तिक्यातिरेकात् प्रथमेन वरेण स्वात्मानꣳ प्रति पितुः प्रसादो वृतः, एतच् च सर्वꣳ देहातिरक्तात्मानम् अजानतो नोपपद्यते। द्वितीयेन च वरेणोत्तीर्ण-देहात्मानुभाव्य-फल-साधन-भूताग्नि-विद्या वृता; तद् अपि देहातिरिक्तात्मानभिज्ञस्य न सम्भवति। अतस् तृतीयेन वरेण यद् इदꣳ व्रियते येयꣳ प्रेते विचिकित्सा मनुष्ये अस्तीत्य् एके नायम् अस्तीति चैके। एतद्-विद्याम् अनुशिष्टस् त्वयाहꣳ वराणाम् एष वरस् तृतीयः [कठ।, १।१।२०] इति, अत्र परम-पुरुषार्थ-रूप-ब्रह्म-प्राप्ति-लक्षण-मोक्ष-याथात्म्य-विज्ञानाय तद्-उपाय-भूत-परमात्मोपासन-परावरात्म-तत्त्व-जिज्ञासायायꣳ प्रश्नः क्रियते। एवꣳ च येयꣳ प्रेते [कठ।, १।१।२०] इति न शरीर-वियोग-मात्राभिप्रायम्,अपि तु सर्व-बन्ध-विनिर्मोक्षाभिप्रायम्। यथा न प्रेत्य सꣳज्ञास्ति [बृहद्।, ४।४।१२] इति। अयम् अर्थः- मोक्षाधिकृते मनुष्ये प्रेते सर्व-बन्ध-विनिर्मुक्ते तत्-स्वरूप-विषया वादिविप्रतिपत्ति-निमित्तास्ति-नास्त्यात्मिका येयꣳ विचिकत्सा, तद्-अपनोदनाय तत्-स्वरूप-याथात्म्यꣳ त्वयानुशिष्टोऽहꣳ विद्याꣳ-- जानीयाम्- इति॥
Link copied[मोक्ष-विषयिण्यो विप्रतिपत्तयः]
Link copiedतथा हि बहुधा विप्रतिपद्यन्ते-- १) केचिद् वित्ति-मात्रस्यात्मनः स्वरूपोच्छित्ति-लक्षणꣳ मोक्षम् आचक्षते। २) अन्ये वित्त-मात्रस्यैव सतोऽविद्यास् तम् अयम्। ३) अपरे-- पाषाण-कल्पस्यात्मनो ज्ञानाद्य्-अशेष-वैशेषिक-गुणोच्छेद-लक्षणꣳ कैवल्य-रूपम्। ४) अपरे तु-- अपहत-पाप्मानꣳ परमात्मानम् अभ्युपगच्छन्तस् तस्यैवोपाधि-सꣳसर्ग-निमित्त-जीव-भावस्योपाध्य्-अपगमेन तद्-भाव-लक्षणꣳ मोक्षम् आतिष्ठन्ते। ५) त्रय्यन्त-निष्णातास् तु निखिल-जगद्-एक-कारणस्याशेष-हेय-प्रत्यनीकानन्त-ज्ञानानन्दैक-स्वरूपस्य स्वाभाविकानवधिकातिशयासङ्ख्येय-कल्याण-गुणाकरस्य सकलेतर-विलक्षणस्य सर्वात्म-भूतस्य परस्य ब्रह्मणः शरीरतया प्रकार-भूतस्यानुकूलापरिच्छिन्न-ज्ञान-स्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादि-कर्म-रूपाविद्यातिरोहित-स्वरूपस्याविद्योच्छेद-पूर्वक-स्वाभाविक-परमात्मानुभवम् एव मोक्षम् आचक्षते। तत्र मोक्ष-स्वरूपꣳ तत्-साधनꣳ च त्वत्-प्रसादाद् विद्याम् इति नचिकेतसा पृष्टो मृत्युस् तस्यार्थस्य दुरवबोधत्व-प्रदर्शनेन विविध-भोग-वितरण-प्रलोभनेन चैनꣳ परीक्ष्य योग्यताम् अभिज्ञाय परावरात्म-तत्त्व-विज्ञानꣳ परमात्मोपासनꣳ तत्-पद-प्राप्ति-लक्षणꣳ मोक्षꣳ च तꣳ दुर्दर्शꣳ गूढम् अनुप्रविष्टम् [कठ।, १।२।१२] इत्य् आरभ्य सोऽध्वनः पारमाप्नोति तद् विष्णोः परमꣳ पदम् [कठ। १।३।९] इत्य् अन्तेनोपदिश्य तद्-अपेक्षिताꣳश् च विशेषानुपदिदेशेति सर्वꣳ समञ्जसम्। अतः परमात्मैवात्तेति सिद्धम्॥१२॥
Link copiedइत्य् अत्त्रधिकरणम्॥२॥
Link copiedअन्तर्-अधिकरणम्॥३॥
Link copied[अधिकरणार्थः-- अक्ष्य्-आधार-पुरुषत्वꣳ परमात्मन एव, न जीवादेः]
Link copied[उपकोसल-विद्या, छान्।, ४।१०]
Link copied४५ अन्तर उपपत्तेः॥१।२।१३॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आमनन्ति च्छन्दोगाः य एषोऽक्षिणि पुरुषो दृश्यते। एष आत्मेति होवाच एतद् अमृतम् अभयम् एतद् ब्रह्म [छान्।, ४।१५।१] इति॥
Link copied[सꣳशय-स्वरूपम्]
Link copiedतत्र सन्देहः-- किम् अयम् अक्ष्य्-आधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुर्-इन्द्रियाधिष्ठाता निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुर्-इन्द्रियाधिष्ठाता देवता-विशेषः, उत जीवात्मा, अथ परमात्मा इति॥
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ प्रतिबिम्बात्मेति। कुतः। प्रसिद्धवन् निर्देशात्; दृश्यते इत्य् अपरोक्षाभिधानाच् च। जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात् प्रसिद्धिर् उपपद्यते उन्मीलितꣳ हि चक्षुर् उद्वीक्ष्य जीवात्मनः शरीरे स्थिति-गती निश्चिन्वन्ति। रश्मिभिर् एषोऽस्मिन् प्रतिष्ठितः [बृहद्।, ७।५।१] इति श्रुति-प्रसिद्ध्या चक्षुः-प्रतिष्ठो देवता-विशेषो वा; एष्व् एव प्रसिद्धवन् निर्देशोपपत्तेर् एषाम् अन्यतमः--
Link copied[सिद्धान्तः]
Link copiedइति प्राप्ते प्रचक्ष्महे-- अन्तर उपपत्तेः-- अक्ष्य्-अन्तरः परमात्मा। कुतः। एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्मेति एतꣳ सꣳयद् वाम इत्य् आचक्षते। एतꣳ हि सर्वाणि वामान्य् अभिसꣳयन्ति एष उ एव वामनिः। एष हि सर्वाणि वामानि नयति। एष उ एव भामनिः। एष हि सर्वेषु लोकेषु भाति [छान्।, ४।१५।३] इत्य् एषाꣳ गुणानाꣳ परमात्मन्य् एवोपपत्तेः॥१३॥
Link copied[परमात्मनश् चक्षुष्य् अवस्थानꣳ श्रुति-सिद्धम्]
Link copied४६ स्थानादि-व्यपदेशाच् च॥१।२।१४॥
Link copiedचक्षुषि स्थिति-नियमनादयः परमात्मन एव यश् चक्षुषि तिष्ठन् [बृहद्।, ५।७।१८] इत्य् एवम् आदौ व्यपदिश्यन्ते। अतश् च य एषोऽक्षणि पुरुषः [छान्।, ४।१५।१] इति स एव प्रतीयते। अतः प्रसिद्धवन् निर्देशश् च परमात्मन्य् उपपद्यते। तत एव दृश्यते इति साक्षात्कार-व्यपदेशोऽपि योगिभिर् दृश्यमानत्वाद् उपपपद्यते॥१४॥
Link copied[प्रकरण-प्रतिपादितꣳ निरवधिकानन्दत्वꣳ परमात्मन एव]
Link copied४७ सुख-विशिष्टाभिधानाद् एव च॥१।२।१५॥
Link copiedइतश् चाक्ष्य्-आधारः पुरुषोत्तमः कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इति प्रकृतस्य सुख-विशिष्टस्य ब्रह्मणः उपासनस्थान-विधानार्थꣳ सꣳयद् वामत्वादि-गुण-विधानार्थꣳ च य एषोऽक्षिणि पुरुषः [छान्।, ४।१५।१] इत्य् अभिधानात्। एवकारो नैरपेक्ष्यꣳ हेतोर् द्योतयति।
Link copied[प्रकरण-विच्छेद-प्रदर्शनेन परमात्म-परत्वाभाव-शङ्का]
Link copiedनन्व् अग्नि-विद्या-व्यवधानात् कꣳ ब्रह्म [छान्।, ४।१०।५] इति प्रकृतꣳ ब्रह्म नेह सन्निधत्ते। तथा ह्य् अग्नयः, प्राणो ब्रह्म कꣳ ब्रह्म खꣳ ब्रह्म इति ब्रह्म-विद्याम् उपदिश्य अथ हैनꣳ गार्हापत्योऽनुशशास [छान्।, ४।११।१] इत्य् आरभ्याग्नीनाम् उपासनम् उपदिदिशुः। न चाग्नि-विद्या ब्रह्म-विद्याङ्गम् इति शक्यꣳ वक्तुम्; ब्रह्म-विद्या-फलानन्तर्गत-तद्-विरोधि-सर्वायुः प्राप्ति-सन्तत्य्-अविच्छेदादि-फल-श्रवणात्॥
Link copied[प्रकरम् अविच्छेद-समर्थनेन परमात्म-परत्व-निर्णयः]
Link copiedउच्यते-- प्राणो ब्रह्म [छान्।, ४।१०।५] एतद् अमृतम् अभयम् एतद् ब्रह्म [छान्।, ४।१५।३] इत्य् उभयत्र ब्रह्म-सꣳशब्दनात्। आचार्यस् तु ते गतिꣳ वक्ता [छान्।, ४।१४।१] इत्य् अग्नि-वचनाच् च गत्य्-उपदेशात् पूर्वꣳ ब्रह्म-विद्याया असमाप्तेस् तन्-मध्य-गताग्नि-विद्या ब्रह्म-विद्याङ्गम् इति निश्चीयते, अथ हैनꣳ गार्हापत्योऽनुशशास [छान्।, ४।११।१] इति ब्रह्म-विद्याधिकृतस्यैवाग्नि-विद्योपदेशाच् च। किꣳ च व्याधिभिः प्रतिपूर्णोऽस्मि [छान्।, ४।१०।३] इति ब्रह्म-प्राप्ति-व्यतिरिक्त-नाना-विध-कामोपहति-पूर्वक-गर्भ-जन्म-जरा-मरणादि-भव-भयोपतप्ताय उपकोसलाय एषा सोम्य तेऽस्मद्-विद्यात्म-विद्या च [छान्।, ४।१४।१] इति समुच्चित्योपदेशान् मोक्षैक-फलात्म-विद्याङ्गत्वम् अग्नि-विद्यायाः प्रतीयते। एवꣳ चाङ्गत्वेऽवगते सति फलानुकीर्तनम् अर्थवाद इति गम्यते॥
Link copied[अर्थवादोक्त-फलस्य मोक्षाविरोधिता]
Link copiedन चात्र मोक्ष-विरोधि-फलꣳ किञ्चिच् छ्रूयते, अपहते पाप-कृत्याꣳ लोकी भवति सर्वम् आयुर् एति ज्योग् जीवति नास्यावर-पुरुषाः क्षीयन्ते उप वयन्तꣳ भुञ्जामोऽस्मिꣳश् च लोकेऽमुष्मिꣳश् च [छान्।, ४।१३।२] इत्य् अमीषाꣳ फलानाꣳ मोक्षाधिकृतस्यानुगुणत्वात्। अपहते पाप-कृत्याम्-- ब्रह्म-प्राप्ति-विरोधि पापꣳ कर्मापहन्ति। लोकी भवति-- तद्-विरोधिनि पापे निरस्ते ब्रह्म-लोकꣳ प्राप्नोति। सर्वम् आयुर् एति-- व्याध्यादिभिर् अनुपहतो यावद् ब्रह्म-प्राप्ति जीवति। नास्यावर-पुरुषाः क्षीयन्ते-- अस्य शिष्य-प्रशिष्यादयः पुत्र-पौत्रादयोऽपि ब्रह्म-विद एव भवन्ति। नास्याब्रह्म-वित्-कुले भवति [मुण्ड्।, ३।२।९] इति च श्रुत्य्-अन्तरे ब्रह्म-विद्या-फलत्वेन श्रूयते। उप वयन्तꣳ भुञ्जामोऽस्मिꣳश् च लोकेऽमुष्मिꣳश् च-- वयम् अग्नयस् तम् एनम् उपभुञ्जामः-- यावद् ब्रह्म-प्राप्ति विघ्नेभ्यः परिपालयाम इति।
Link copied[उक्तार्थ-निगमनम्]
Link copiedअतोऽग्नि-विद्याया ब्रह्म-विद्याङ्गत्वेन तत्-सन्निधानाविरोधात् सुख-विशिष्टꣳ प्रकृतम् एव ब्रह्मोपासन-स्थान-विधानार्थꣳ गुण-विधानार्थꣳ चोच्यते।
Link copied[ब्रह्मणः पुनर् अवक्तव्यत्वाक्षेपः]
Link copiedननु, आचार्यस् तु ते गतिꣳ वक्ता [छान्।, ४।५।१] इति गति-मात्र-परिशेषणादाचार्येण गतिर् एवोपदेश्येति गम्यते; तत् कथꣳ स्थान-गुण-विध्य्-अर्थतोच्यते।
Link copied[पूर्वोक्त-शङ्कापरिहारः]
Link copiedतद् अभिधीयते--- आचार्यस् तु ते गतिꣳ वक्ता [छान्।, ४।५।१] इत्य् अस्यायम् अभिप्रायः-- ब्रह्म-विद्याम् अनुपदिश्य प्रोषुषि गुरौ तद्-अलाभाद् अनाश्वासम् उपकोसलम् उज्जीवयितुꣳ स्व-परिचरण-प्रीता गार्हापत्य्-आदयो गुरोर् अग्नयस् तस्मै ब्रह्म-स्वरूप-मात्रꣳ तद्-अङ्ग-भूताꣳ चाग्नि-विद्याम् उपदिश्य आचार्याद् धैव विद्या विदिता साधिष्ठꣳ प्रापत् [छान्।, ४।९।३] इति श्रुत्य्-अर्थम् आलोच्य साधुतमत्व-प्राप्त्य्-अर्थम् आचार्य एवास्य सꣳयद् वामत्वादि-गुणकꣳ ब्रह्म तद्-उपासन-स्थानम् अर्चिरादिकाꣳ च गतिम् उपदिशत्व् इति मत्वा आचार्यस् तु ते गतिꣳ वक्ता [छान्।, ४।१४।१] इत्य् अवोचन्। गति-ग्रहणम् उपदेश्य-विद्याशेष-प्रदर्शनार्थम्। अत एवाचार्योऽप्य् अहꣳ तु ते तद् वक्षामि यथा पुष्कर-पलाश आपो न श्लिष्यन्ते एवम् एवꣳ-विदि पापꣳ कर्म न श्लिष्यते [छान्।, ४।१४।३] इत्य् उपक्रम्य सꣳयद् वामत्वादि-कल्याण-गुण-विशिष्टꣳ ब्रह्माक्षि-स्थानोपास्यम् अर्चिरादिकाꣳ च गतिम् उपदिदेश। अतः कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इति सुख-विशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानाद् अयम् अक्ष्य्-आधारः परमात्मा॥१५॥
Link copied[कꣳ ब्रह्मेति वाक्यस्य ब्रह्म-परत्वाभावम् आशङ्क्य, उत्तर-सूत्र-सङ्गतिः]
Link copiedननु च कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इति परꣳ ब्रह्माभिहितम् इति कथम् अवगम्यते, यस्येहाक्ष्य्-आधारतयाभिधानꣳ ब्रूषे; यावता कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इति प्रसिद्धाकाश-लौकिक-सुखयोर् एव ब्रह्म-दृष्टिर् विधीयत इति प्रतिभाति, नाम ब्रह्म [छान्।, ७।१।५], मनो ब्रह्म [छान्।, ७।३।२] इत्य् आदि वचन-सारूप्यात्। तत्राह--
Link copied४८ अत एव च स ब्रह्म॥१।२।१६॥
Link copiedयतस् तत्र यद् एव कꣳ तद् एव खम् [छान्।, ४।१०।५] इति सुख-विशिष्टस्याकाशस्याभिधानम्, अत एव स्व-शब्दाभिधेयः स आकाशः परꣳ ब्रह्म। एतद् उक्तꣳ भवति-- अग्निभिः प्राणो ब्रह्म कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इत्य् उक्ते उपकोसल उवाच विजानाम्य् अहꣳ यत् प्राणो ब्रह्म कꣳ च तु खꣳ च न विजानामि [छान्।, ४।१०।५] इति॥
Link copied[विजानाम्य् अहम् इति वाक्याभिप्राय-विवरणम्]
Link copiedअस्यायम् अभिप्रायः-- न तावत् प्राणादि-प्रतीकोपासनम् अग्निभिर् अभिहितम्, जन्म-जरा-मरणादि-भव-भय-भीतस्य मुमुक्षोर् ब्रह्मोपदेशाय प्रवृत्तत्वात्। अतो ब्रह्मैवोपास्यम् उपदिष्टम्। तत्र प्रसिद्धैः प्राणादिभिः समानाधिकरणꣳ ब्रह्म निर्दिष्टम्; तेषु च प्राण-विशिष्टत्वꣳ जगद्-विधरण-योगेन वा प्राण-शरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति विजानाम्य् अहꣳ यत् प्राणो ब्रह्म [छान्।, ४।१०।५] इत्य् उक्तवान्। तथा सुखाकाशयोर् अपि ब्रह्मणः शरीरतया तन्-नियाम्यत्वेन विशेषणत्वम्; उतान्योन्य-व्यवच्छेदकतया निरतिशयानन्द-रूप-ब्रह्म-स्वरूप-समर्पण-परत्वेन वा; तत्र पृथग्-भूतयोः शरीरतया विशेषणत्वे वैषयिक-सुख-भूताकाशयोर् नियामकत्वꣳ ब्रह्मणः स्याद् इति स्वरूपावगतिर् न स्याद् अन्योन्य-व्यवच्छेदकत्वेऽपरिच्छन्नानन्दैक-स्वरूपत्वꣳ ब्रह्मणः स्याद् इत्य् अन्यतर-प्रकार-निर्दिधारयिषया कꣳ च तु खꣳ च न विजानामि [छान्।, ४।१०।५] इत्य् उक्तवान्। उपकोसलस्येमम् आशयꣳ जानन्तोऽग्नयः यद् वा व कꣳ तद् एव खꣳ यद् एव खꣳ तद् एव कम् [छान्।, ४।१५।५] इत्य् ऊचिरे। ब्रह्मणः सुख-रूपत्वम् एवापरिच्छिन्नम् इत्य् अर्थः। अतः प्राण-शरीरतया प्राण-विशिष्टꣳ यद् ब्रह्म, तद् एवापरिच्छन्न-सुख-रूपꣳ चेति निगमितम्-- प्राणꣳ च हास्मै तद् आकाशꣳ चोचुः [छान्।, ४।१०।५] इति। अतः कꣳ ब्रह्म खꣳ ब्रह्म [छान्।, ४।१०।५] इत्य् अत्रापरिच्छिन्न-सुखꣳ ब्रह्म प्रतिपादितम् इति परꣳ ब्रह्मैव तत्र प्रकृतम्, तद् एव चात्राक्ष्य्-आधारतयाभिधीयत इत्य् अक्ष्य्-आधारः परमात्मा॥१६॥
Link copied[अक्षि-पुरुषस्य परमात्मत्वे ज्ञापकान्तरम्]
Link copied४९ श्रुतोपनिनषत्क-गत्य्-अभिधानाच् च॥१।२।१७॥
Link copiedश्रुतोपनिषत्कस्य-- अधिगत-परम-पुरुष-याथात्म्यस्यानुसन्धेयतया श्रुत्य्-अन्तर-प्रतिपाद्यमाना अर्चिरादिका गतिर् या, ताम् अपुनरावृत्ति-लक्षण-परम-पुरुष-प्राप्ति-करीम् उपकोसलायाक्षि-पुरुषꣳ श्रुतवते तेऽर्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहर् अह्न आपूर्यमाण-पक्षम् [छान्।, ४।१५।५] इत्य् आरभ्य चन्द्रमसो विद्युतꣳ तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयत्य् एष देवपथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमꣳ मानवम् आवर्तꣳ नावर्तन्ते [छान्।, ४।१५।५] इत्य् अन्तेनोपदिशति। अतोऽप्य् अयम् अक्षि-पुरुषः परमात्मा॥१७॥
Link copied[व्यतिरेकोक्त्या जीव-निषेधः]
Link copied५० अनवस्थितेर् असम्भवाच् च नेतरः॥१।२।१८॥
Link copiedप्रतिबिम्बादीनाम् अक्षिणि नियमेनानवस्थानाद् अमृतत्वादीनाꣳ च निरुपाधिकानाꣳ तेष्व् असम्भवान् न परमात्मन इतरश् छायादिर् अक्षिपुरुषो भवितुम् अर्हति। प्रतिबिम्बस्य तावत् पुरुषान्तर-सन्निधानायत्तत्वान् न नियमेनावस्थान-सम्भवः। जीवस्यापि सर्वेन्द्रिय-व्यापारानुगुणत्वाय सर्वेन्द्रिय-कन्द-भूते स्थान-विशेषे वृत्तिर् इति चक्षुषि नावस्थानम्। देवतायाश् च रश्मिभिर् एषोऽस्मिन् प्रतिष्ठितः [छान्।, ७।५।१०] इति रश्मि-द्वारेणावस्थान-वचनाद् देशान्तरावस्थितस्यापीन्द्रियाधिष्ठानोपपत्तेर् न चक्षुष्य्-अवस्थानम्। सर्वेषाम् एवैषाꣳ निरुपाधिकामृतत्वादयो न सम्भवन्त्य् एव। तस्माद् अक्षि-पुरुषः परमात्मा॥१८॥
Link copiedइत्य् अन्तर्-अधिकरणम्॥३॥
Link copiedअन्तर्याम्य्-अधिकरणम्॥४॥
Link copied[अधिकरणार्थः-- ब्रह्मणः सर्वान्तर्यामित्वम्, न जीवस्य]
Link copied[अन्तर्यामि-विद्या [बृहद्। ५।७]]
Link copied[पूर्वानुवाद-पुरःसरꣳ तद्-उक्तार्थ-समर्थनात् सङ्गतिः]
Link copiedस्थानादि-व्यपदेशाच् च [ब्र। सू। १।२।१४] इत्य् अत्र यश् चक्षुषि तिष्ठन् [बृहद्।, ५।७।१८] इत्य् आदिना प्रतिपाद्यमानꣳ चक्षुषि स्थिति-नियमनादिकꣳ परमात्मन एवेति सिद्धꣳ कृत्वाक्षि-पुरुषस्य परमात्मत्वꣳ साधितम् इदानीꣳ तद् एव समर्थयते---
Link copied५१ अन्तर्याम्य्-अधिदैवाधिलोकादिषु तद्-धर्म-व्यपदेशात्॥१।२।१९॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedकाण्वा माध्यन्दिनाश् च वाजसनेयिनः समामनन्ति-- यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।३], यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवीꣳ न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः इति। एवम् अम्ब्व्-अग्न्य्-अन्तरिक्ष-वाय्व्-आदित्य-द्वि-चन्द्र-तारकाकाश-तमस्-तेजःसु दैवेषु च सर्वेषु भूतेषु प्राण-वाक्-चक्षुः-श्रोत्र-मनस्-त्वग्-विज्ञान-रेतः स्वात्मात्मीयेषु च तिष्ठन्तꣳ तत् तद् अनन्तर-भूतꣳ तत् तद् अवेद्यꣳ तत् तच् छरीरकꣳ तत् तद् यमयन्तꣳ कञ्चिन् निर्दिश्य एष त आत्मान्तर्याम्य् अमृतः [बृहद्। ५।७] इत्य् उपदिश्यते। माध्यिन्दन-पाठे तु यः सर्वेषु लोकेषु तिष्ठन् [बृहद्।, ५।७] यः सर्वेषु वेदेषु [बृहद्।, ५।६।२३] यः सर्वेषु यज्ञेषु [बृहद्।, ५।७।२३] इति च पर्यायाः। यो विज्ञाने तिष्ठन् [बृहद्।, ५।७] इत्य् अस्य पर्यायस्य स्थाने य आत्मनि तिष्ठन् [बृहद्।, ५।७।२३] इति पर्यायः। स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।२३] इति च विशेषः।
Link copied[सꣳशय-स्वरूप-प्रदर्शनम्]
Link copiedतत्र सꣳशय्यते-- किम् अयम् अन्तर्यामी प्रत्यगात्मा, उत परमात्मा-- इति। कि युक्तꣳ प्रत्यगात्मेति। कुतः। वाक्य-शेषे द्रष्टा श्रोता [बृहद्।, ५।७।२३] इति करणायत्त-ज्ञानताश्रुतेः। एवꣳ द्रष्टुर् एवान्तर्यामित्वोपदेशात्, नान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] इति द्रष्ट्रन्तर-निषेधाच् चेति।
Link copied[सिद्धान्तारम्भः सयुक्तिकः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- अन्तर्याम्य्-अधिदैवाधिलोकादिषु तद्-धर्म-व्यपदेशात्-- अधिदैवाधिलोकादिपद-चिह्नितेषु वाक्येषु श्रूयमाणोऽन्तर्याम्य्-अपहत-पाप्मा परमात्मा नारायणः। काण्व-पाठ-सिद्धेभ्योऽधिदैवादिमद्भ्यो वाक्येभ्योऽधिकान्यधिलोकादिमन्ति वाक्यानि माध्यन्दिन-पाठे सन्तीति ज्ञापनार्थम् अधिदैवाधिलोकादिष्व् इत्य् उभयोर् उपादानम्। तद् एवम् उभयेष्व् अपि वाक्येष्व् अन्तर्यामी परमात्मेत्य् अर्थः। कुतः। तद्-धर्म-व्यपदेशात्; परमात्म-धर्मो ह्य् अयम्, यद् एक एव सन् सर्व-लोक-सर्व-भूत-सर्व-देवादीन् नियमयतीति। तथा उद्दालक-प्रश्नः-- य इमꣳ च लोकꣳ परꣳ च लोकꣳ सर्वाणि च भूतानि योऽन्तरो यमयति [बृहद्।, ५।७।१] इत्य् उपक्रम्य तम् अन्तर्यामिणꣳ ब्रूहि [बृहद्।, ५।७।१] इति, तस्य चोत्तरꣳ यः पृथिव्याꣳ तिष्ठन् [बृहद्।, ५।७।३] इत्य् आरभ्योक्तम्॥
Link copied[अन्तर्यामित्वस्य परमात्मासाधारणता]
Link copiedतद् एतत् सर्वाꣳल् लोकान् सर्वाणि च भूतानि सर्वान् देवान् सर्वान् वेदान् सर्वाꣳश् च यज्ञान् अन्तः प्रविश्य सर्व-प्रकार-नियमनम्, सर्व-शरीरतया सर्वस्यात्मत्वꣳ च सर्वज्ञात् सत्य-सङ्कल्पात् पुरुषोत्तमाद् अन्यस्य न सम्भवति। तथा ह्य् अन्तः-प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, आ। ११।२०] तत् सृष्ट्वा, तद् एवानुप्राविशत्, तद् अनुप्रविश्य, सच् च त्यच् चाभवत् [तै।, २।३।६] इत्य् आदीन्यौपनिषदानि वाक्यानि परमात्मन एव सर्वस्य प्रशासितृत्वꣳ सर्वस्यात्मत्वम् इत्य् आदीनि वदन्ति। तथा सुबालोपनिषदि नैवेह किञ्च नाग्र आसीद् अमूलम् अनाधारम् इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः। चक्षुश् च द्रष्टव्यꣳ च नारायणः। श्रोत्रꣳ च श्रोतव्यꣳ च नारायणः [सुबाल ६] इत्य् आरभ्य अन्तः शरीरे निहितो गुहायाम् अज एको नित्यः, यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरे सञ्चरन् यꣳ पृथिवी न वेद यस्यापः शरीरम् [सुबाल, ६] इत्य् आदि, यस्य मृत्युः शरीरꣳ यो मृत्युम् अन्तरे सञ्चरन् यꣳ मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ६] इति परस्यैव ब्रह्मणः सर्वात्मत्वꣳ सर्व-शरीरत्वꣳ सर्वस्य नियन्तृत्वꣳ च प्रतिपाद्यते। स्वाभाविकꣳ चामृतत्वꣳ परमात्मन एव धर्मः॥
Link copied[परमात्मनः करणायत्त-ज्ञान-राहित्यम्]
Link copiedन च परस्यात्मनः करणायत्तꣳ द्रष्टृत्वादिकम्; अपि तु स्वभावत एव सर्वज्ञत्वात् सत्य-सङ्कल्पत्वाच् च स्वत एव। तथा च श्रुतिः पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः अपाणिपादो जवनो ग्रहीता [श्वे।, ३।१९] इति। न च दर्शन-श्रवणादि-शब्दाश् चक्षुर्-आदि-करण-जन्मनो ज्ञानस्य वाचकाः, अपि तु रूपादि-साक्षात्कारस्य। स च रूपादिसाक्षात्कारः कर्म-तिरोहित-स्वाभाविक-ज्ञानस्य जीवस्य चक्षुर्-आदि-करण-जन्मा, परस्य तु स्वत एव॥
Link copied[नान्योऽतः इति द्रष्ट्रन्तर-निषेध-साङ्गत्यम्]
Link copiedनान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] इत्य् एतद् अपि पूर्व-वाक्योदितान् नियन्तुर् द्रष्टुर् अन्यो द्रष्टा नास्तीति वदति। यꣳ पृथिवी न वेद [सुबाल, ७] यम् आत्मा न वेद [सुबाल, ७] इत्य् एवम् आदिभिर् वाक्यैः पृथिव्य्-आत्मादि-नियाम्यैर् अनुपलभ्यमान एव नियमयतीति यत् पूर्वम् उक्तम्, तद् एव अदृष्टो द्रष्टा अश्रुतः श्रोता [बृहद्।, ५।७।२३] इति निगमय्य नान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] इत्य् आदिना तस्य नियन्तुर् नियन्त्रन्तरꣳ निषिध्यते॥
Link copied[व्यतिरेक-निर्देशाद् अन्तर्यामिणः पृथक्त्वम्]
Link copiedएष त आत्मा [बृहद्। ५।७।२३] स त आत्मा इति च त इति व्यतिरेक-विभक्ति-निर्दिष्टस्य जीवस्य आत्मतयोपदिश्यमानोऽन्तर्यामी न प्रत्यगात्मा भवितुम् अर्हति॥१९॥
Link copied[अधिकरण-द्वयार्थ-निगमनम्]
Link copied५२ न च स्मार्तम् अतद्-धर्माभिलापाच् छारीरश् च॥१।२।२०॥
Link copiedस्मार्तꣳ प्रधानम्। शारीरः जीवः। स्मार्तꣳ च शारीरश् च नान्तर्यामी, अतद्-धर्माभिलापात् तयोर् असम्भावित-धर्माभिलापात्। स्वभावत एव सर्वस्य द्रष्टृत्वम्, सर्वस्य नियन्तृत्वम्, सर्वस्यात्मत्वम्, स्वत एवामृतत्वꣳ च तयोर् न सम्भावनागन्धम् अर्हति। एतद् उक्तꣳ भवति-- यथा स्मार्तम-चेतनꣳ सर्वज्ञत्व-नियन्तृत्व-सर्वात्मत्वादिकꣳ नार्हति, तथा जीवोऽपि, अतद्-धर्मत्वात् इति॥
Link copied[उत्तर-सूत्रावतरणम्]
Link copiedअमीषाꣳ गुणानाꣳ परमात्मन्य् अन्वयः, प्रत्यगात्मनि व्यतिरेकश् च सूत्र-द्वयेन दर्शितः॥२०॥
Link copiedनिरपेक्षꣳ च हेत्वन्तरम् आह--
Link copied५३ उभयेऽपि हि भेदेनैनम् अधीयते॥१।२।२१॥
Link copiedउभये-- माध्यन्दिनाः काण्वाश् च, अन्तार्यामिणो नियाम्यत्वेन वागादिभिर् अचेतनैः समम् एनꣳ शारीरम् अपि विभज्याधीयते-- य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।२२] इति माध्यन्दिनाः, यो विज्ञाने तिष्ठन् [बृहद्।, ५।७।२२] इत्य् आदि च काण्वाः, परमात्म-नियाम्यतया तस्माद् विलक्षणत्वेनैनम् अधीयत इत्य् अर्थः। अतोऽन्तर्यामी प्रत्यगात्मनो विलक्षणोऽपहत-पाप्मा परमात्मा नारायण इति सिद्धम्॥२१॥
Link copiedइत्य् अन्तर्याम्य्-अधिकरणम्॥४॥
Link copiedअदृश्यत्वादि-गुणकाधिकरणम्॥५॥
Link copied[अधिकरणार्थः-- अदृश्यत्वादि-गुणकꣳ ब्रह्मैव, न प्रधान-पुरुषौ]
Link copied[अक्षर-विद्या [मुण्ड्।, १।१,२।३]]
Link copied५४ अदृश्यत्वादि-गुणको धर्मोक्तेः॥१।२।२२॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedआथर्वणिका अधीयते अथ परा यया तद् अक्षरम् अधिगम्यते, यत् तद् अद्रेश्यम् अग्राह्यम् अगोत्रम् अचक्षुः श्रोत्रꣳ तद् अपाणिपादम्। नित्यꣳ विभुꣳ सर्व-गतꣳ सुसूक्ष्मꣳ तद् अव्ययꣳ यद् भूत-योनिꣳ परिपश्यन्ति धीराः [मुण्ड्।, १।१।५-६] इति; तथोत्तरत्र अक्षरात् परतः परः [मुण्ड्।, २।१।२] इति।
Link copied[सꣳशयाकारः]
Link copiedतत्र सन्दिह्यते-- किम् इहादृश्यत्वादि-गुणकम् अक्षरात् परतः परश् च प्रकृति-पुरुषौ, अथोभयत्र परमात्मैव-- इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ तावत् प्राप्तꣳ प्रकृति-पुरुषाव् इति। कुतः। अस्याक्षरस्य अदृष्टो द्रष्टा [बृहद्।, ५।७।२३] इत्य् आदाव् इव न द्रष्टृत्वादिश् चेतन-धर्म-विशेष इह श्रूयते, अक्षरात् परतः परः [मुण्ड्।, २।१।२] इति च सर्वस्माद् विकारात् पर-भूताद् अक्षराद् अस्मात् परः क्षेत्रज्ञ-समष्टि-पुरुषः प्रतिपाद्यते।
Link copied[दृष्टान्तस्य चेतन-कारणत्वानुगुण्यम्]
Link copiedतद् उक्तꣳ भवति--
Link copiedरूपादिमत्-स्थूल-रूपाचेतन-पृथिव्यादि-भूताश्रयꣳ दृश्यत्वादिकꣳ प्रतिषिध्यमानꣳ पृथिव्यादि-सजातीय-सूक्ष्म-रूपाचेतनम् एव उपस्थापयति, तच् च प्रधानम् एव। तस्मात् परत्वꣳ च समष्टि-पुरुषस्यैव प्रसिद्धम्। तद्-अधिष्ठितꣳ च प्रधानꣳ महद्-आदि-विशेष-पर्यन्तꣳ विकार-जातꣳ प्रसूत इति तत्र दृष्टान्ता उपन्यस्यन्ते यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्याम् ओषधयः सम्भवन्ति। यथा सतः पुरुषात् केश-लोमानि तथाक्षरात् सम्भवतीह विश्वम् [मुण्ड्।, १।१।७] इति। अतोऽस्मिन् प्रकरणे प्रधान-पुरुषाव् एव प्रतिपाद्येते इति॥
Link copied[सिद्धान्त-प्रदर्शनम्]
Link copiedएवꣳ प्राप्ते ब्रूमः-- अदृश्यत्वादि-गुणको धर्मोक्तेः-- अदृश्यत्वादि-गुणकोऽक्षरात् परतः परश् च परम-पुरुष एव; कुतः। तद्-धर्मोक्तेर् यः सर्वज्ञः सर्ववित् [मुण्ड्।, १।१।९] इत्य् आदिना सर्वज्ञत्वादिकास् तस्यैव धर्मा उच्यन्ते; तथा हि यया तद् अक्षरम् अधिगम्यते [मुण्ड्।, १।१।५] इत्य् आदिना अदृश्यत्वादि-गुणकम् अक्षरम् अभिधाय अक्षरात् सम्भवतीह विश्वम् [मुण्ड्।, १।१।७] इति तस्माद् विश्व-सम्भवꣳ चाभिधाय यः सर्व-ज्ञः सर्व-विद् यस्य ज्ञान-मयꣳ तपः। तस्माद् एतद् ब्रह्म नाम रूपम् अन्नꣳ च जायते [मुण्ड्।, १।१।९] इति भूत-योनेर् अक्षरस्य सर्वज्ञत्वादिः प्रतिपाद्यते। पश्चात्, अक्षरात् परतः परः [मुण्ड्।, २।१।२] इति च प्रकृतम् अदृश्यत्वादि-गुणकꣳ भूत-योन्य्-अक्षरꣳ सर्वज्ञम् एव परत्वेन व्यपदिश्यते। अतः अक्षरात् परतः परः [मुण्ड्।, २।१।२] इत्य् अक्षर-शब्दः पञ्चम्यन्तः प्रकृतम् अदृश्यत्वादि-गुणकम् अक्षरꣳ नाभिधत्ते, तस्य सर्वज्ञस्य विश्व-योनेः सर्वस्मात् परत्वेन तस्माद् अन्यस्य परत्वासम्भवात्। अतोऽत्राक्षर-शब्दो भूत-सूक्ष्मम् अचेतनꣳ ब्रूते॥२२॥
Link copied[ब्रह्मण एवाक्षरत्वे हेतु-द्वयम्]
Link copiedइतश् च न प्रधान-पुरुषौ
Link copied५५ विशेषण-भेद-व्यपदेशाभ्याꣳ च नेतरौ॥१।२।२३॥
Link copiedविशिनष्टि हि प्रकरणꣳ-- प्रधानाच् च पुरुषाच् च भूत-योन्य्-अक्षरꣳ व्यावर्तयतीत्य् अर्थः; एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपादनादिभिः। तथा ताभ्याम् अक्षरस्य भेदश् च व्यपदिश्यते। अक्षरात् परतः परः [मुण्ड्।, २।१।२] इत्य् आदिना। तथा हि-- स ब्रह्म-विद्याꣳ सर्व-विद्या-प्रतिष्ठाम् अथर्वाय ज्येष्ठ-पुत्राय प्राह [मुण्ड्।, १।१।१] इति सर्व-विद्या-प्रतिष्ठा-भूता ब्रह्म-विद्या प्रक्रान्ता; पर-विद्यैव च सर्व-विद्या-प्रतिष्ठा; ताम् इमाꣳ सर्व-विद्या-प्रतिष्ठाꣳ विद्याꣳ चतुर्मुखाथर्वादि-गुरु-परम्परयाङ्गिरसा प्राप्ताꣳ जिज्ञासुः शौनको ह वै महाशालोऽङ्गिरसꣳ विधिवद् उपसन्नः पप्रच्छ कस्मिन् नु भगवो विज्ञाते सर्वम् इदꣳ विज्ञातꣳ भवति [मुण्ड्।, १।१।३] इति ब्रह्म-विद्यायाः सर्व-विद्याश्रयत्वाद् ब्रह्म-विज्ञानेन सर्वꣳ विज्ञातꣳ भवतीति कृत्वा ब्रह्म-स्वरूपम् अनेन पृष्टम्। तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्म-विदो वदन्ति परा चैवापरा च [बृहद्। ६।४।२२] इति। ब्रह्म-प्रेप्सुना द्वे विद्ये वेदितव्ये-- ब्रह्म-विषये परोक्षापरोक्ष-रूपे द्वे विज्ञाने उपादेये इत्य् अर्थः।
Link copied[विद्या-विभाग-तत्-फलयोः प्रदर्शनम्]
Link copiedतत्र परोक्षꣳ शास्त्र-जन्यꣳ ज्ञानम्, अपरोक्षꣳ योग-जन्यम्, तयोर् ब्रह्म-प्राप्त्य्-उपाय-भूतम् अपरोक्षꣳ ज्ञानम्; तच् च भक्ति-रूपापन्नम्, यम् एवैष वृणुते तेन लभ्यः [मुण्ड्।, ३।२।३] इत्य् अत्रैव विशेष्यमाणत्वात्, तद्-उपायश् चागम-जन्यꣳ विवेकादि-साधन-सप्तकानुगृहीतꣳ ज्ञानम्, तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बृहद्। ६।४।२२] इति श्रुतेः। आह च भगवान् पराशरः--- तत्-प्राप्ति-हेतुर् ज्ञानꣳ च कर्म चोक्तꣳ महा-मुने। आगमोत्थꣳ विवेकाच् च द्विधा ज्ञानꣳ तथोच्यते [वि। पु।, ६।५।६०] इति। तत्रापरा ऋग्-वेदो यजुर्-वेदः [मुण्ड्।, १।१।५] इत्य् आदिना धर्म-शास्त्राणि [मुण्ड्।, १।१।५] इत्य् अन्तेन आगमोत्थꣳ ब्रह्म-साक्षात्कार-हेतु-भूतꣳ परोक्ष-ज्ञानम् उक्तम्। साङ्गस्य सेतिहास-पुराणस्य सधर्म-शास्त्रस्य समीमाꣳसस्य वेदस्य ब्रह्म-ज्ञानोत्पत्ति-हेतुत्वात्, अथ परा यया तद् अक्षरम् अधिगम्यते [मुण्ड्।, १।१।५] इत्य् उपासनाख्यꣳ ब्रह्म-साक्षात्कार-लक्षणꣳ भक्ति-रूपापन्नꣳ ज्ञानꣳ यत् तद् अद्रेश्यम् अग्राह्यम् इत्य् आदिना परोक्षापरोक्ष-रूप-ज्ञान-द्वय-विषयस्य परस्य ब्रह्मणः स्वरूपम् उच्यते।
Link copied[ब्रह्मणो जगद्-उत्पत्तिः]
Link copiedयथोर्णनाभिः सृजते गृह्णते च [मुण्ड्।, १।१।७] इत्य् आदिना यथोक्त-स्वरूपात् परस्मात् ब्रह्मणोऽक्षरात् कृत्स्नस्य चेतनाचेतनात्मक-प्रपञ्चस्य उत्पत्तिर् उक्ता; विश्वम् इति वचनान् नाचेतन-मात्रस्य। तपसा चीयते ब्रह्म ततोऽन्नम् अभिजायते। अन्नात् प्राणो मनः सत्यꣳ लोकाः कर्मसु चामृतम् [मुण्ड्।, १।१।८] इति ब्रह्मणो विश्वोत्पत्ति-प्रकार उच्यते। तपसा-- ज्ञानेन, यस्य ज्ञान-मयꣳ तपः [मुण्ड्।, १।१।९] इति वक्ष्यमाणत्वात्; चीयते उपचीयते; बहु स्याम् [छान्।, ६।२।३] इति सङ्कल्प-रूपेण ज्ञानेन ब्रह्म सृष्ट्य्-उन्मुखꣳ भवतीत्य् अर्थः। ततोऽन्नम् अभिजायते-- अद्यत इत्य् अन्नम्, विश्वस्य भोक्तृ-वर्गस्य भोग्य-भूतꣳ भूत-सूक्ष्मम् अव्याकृतꣳ परस्माद् ब्रह्मणो जायत इत्य् अर्थः। प्राण-मनः प्रभृति च स्वर्गापवर्ग-रूप-फल-साधन-भूत-कर्म-पर्यन्तꣳ सर्वꣳ विकार-जातꣳ तस्माद् एव जायते। यः सर्व-ज्ञः सर्व-वित् [मुण्ड्।, १।१।९] इत्य् आदिना सृष्ट्य्-उपकरण-भूतꣳ सार्वज्ञ्य-सत्य-सङ्कल्पत्वादिकम् उक्तम्। सर्वज्ञात् सत्य-सङ्कल्पात् परस्माद् ब्रह्मणोऽक्षराद् एतत् कार्याकारꣳ ब्रह्म नाम-रूप-विभक्तꣳ भोक्तृ-भोग्य-रूपꣳ च जायते।
Link copied[मुण्डक-गत-द्वितीय-खण्डार्थोपपादनम्]
Link copiedतद् एतत् सत्यम् [मुण्ड्।, १।२।१] इति परस्य ब्रह्मणो निरुपाधिक-सत्यत्वम् उच्यते। मन्त्रेषु कर्माणि कवयो यान्य् अपश्यꣳस् तानि त्रेतायाꣳ बहुधा सन्ततानि। तान्य् आचरत नियतꣳ सत्य-कामाः [मुण्ड्।, १।२।१] इति सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-कल्याण-गुणाकरम् अक्षरꣳ पुरुषꣳ स्वतः सत्यꣳ कामयमानास् तत्-प्राप्तये फलान्तरेभ्यो विरक्ता ऋग्-यजुः सामाथर्वसु कविभिर् दृष्टानि वर्णाश्रमोचितानि त्रेताग्निषु बहुधा सन्ततानि कर्माण्य् आचरतेति एष वः पन्थाः [मुण्ड्।, १।२।१] इत्य् आरभ्य एष वः पुण्यः सुकृतो ब्रह्म-लोकः [मुण्ड्।, १।२।६] इत्य् अन्तेन कर्मानुष्ठान-प्रकारꣳ, श्रुति-स्मृति-चोदितेषु कर्मस्व् एकतर-कर्म-वैधुर्येऽपीतरेषाम् अनुष्ठितानाम् अपि निष्फलत्वम्, अयथानुष्ठितस्य चाननुष्ठित-समत्वम् अभिधाय प्लवा ह्य् एते अदृढा यज्ञ-रूपा अष्टादशोक्तम् अवरꣳ येषु कर्म। एतच् छ्रेयो येऽभिनन्दन्ति मूढा जरा-मृत्यू ते पुनर् एवापि यन्ति [मुण्ड्।, १।२।७] इत्य् आदिना फलाभिसन्धि-पूर्वकत्वेन ज्ञान-विधुरतया चावरꣳ कर्माचरताꣳ पुनरावृत्तिम् उक्त्वा तपः श्रद्धे ये ह्य् उपवसन्ति [मुण्ड्।, १।२।११] इत्य् आदिना पुनर् अपि फलाभिसन्धि-रहितꣳ ज्ञानिनानुष्ठितꣳ कर्म ब्रह्म प्राप्तये भवतीति प्रशस्य परीक्ष्य लोकान् [मुण्ड्।, १।२।१२] इत्य् आदिना केवल-कर्म-फलेषु विरक्तस्य यथोदित कर्मानुगृहीतꣳ ब्रह्म-प्राप्त्य्-उपाय-भूतꣳ ज्ञानꣳ जिज्ञासमानस्य च आचार्योपसदनꣳ विधाय,
Link copied[तृतीय-खण्डार्थानुवादः]
Link copiedतद् एतत् सत्यꣳ यथा सुदीप्तात् [मुण्ड्।, २।१।१] इत्य् आदिना, सोऽविद्या-ग्रन्थिꣳ विकिरतीह सोम्य [मुण्ड्।, २।१।१०] इत्य् अन्तेन पूर्वोक्तस्याक्षरस्य भूत-योनेः परस्य ब्रह्मणः परम-पुरुषस्यानुक्तैः स्वरूपगुणैः सह सर्व-भूतान्तरात्मतया विश्व-शरीरत्वेन विश्व-रूपत्वम्, तस्माद् विश्व-सृष्टिꣳ च विस्पष्टम् अभिधाय
Link copied[चतुर्थ-खण्डार्थ-विवरणम्]
Link copiedआविः सन्निहितम् [मुण्ड्।, २।२।१] इत्य् आदिना तस्यैवाक्षरस्याव्याकृतात् परतोऽपि पुरुषात् पर-भूतस्य परस्य ब्रह्मणः परमव्योम्नि प्रतिष्ठितस्यानवधिकातिशयानन्द-स्वरूपस्य हृदय-गुहायाम् उपासन-प्रकारम् उपासनस्य च पर-भक्ति-रूपत्वम् उपासीनस्याविद्या-विमोक-पूर्वकꣳ ब्रह्म-समꣳ ब्रह्मानुभव-फलꣳ चोपिदश्योपसꣳहृतम्। अत एवꣳ विशेषणाद् भेद-व्यपदेशाच् च नास्मिन् प्रकरणे प्रधान-पुरुषौ प्रतिपाद्येते॥
Link copied[सूत्रोक्त-भेद-व्यपदेश-प्रपञ्चनम्]
Link copiedभेद-व्यपदेशोऽपि हि ताभ्याꣳ परस्य ब्रह्मणोऽत्र विद्यते। दिव्यो ह्य् अमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्य् अजः। अप्राणो ह्य् अमनाः शुभ्रो ह्य् अक्षरात् परतः परः [मुण्ड्।, २।१।२] इत्य् आदिभिर् अक्षराद् अव्याकृतात् परो यः समष्टि-पुरुषः तस्माद् अपि पर-भूतोऽदृश्यत्वादि-गुणकोऽक्षर-शब्दाभिहितः परमात्मेत्य् अर्थः। अश्नुत इति वा, न क्षरतीति वाक्षरम्। तद् अव्याकृतेऽपि स्व-विकार-व्याप्त्या वा महद्-आदिवन्-नामान्तराभिलाप-योग्य-क्षरणाभावाद् वाक्षरत्वꣳ कथिञ्चद् उपपद्यते॥२३॥
Link copied५६ रूपोपन्यासाच् च॥१।२।२४॥
Link copiedअग्निर् मूर्धा चक्षुषी चन्द्र-सूर्यौ दिशः श्रोत्रे वाग्-विवृताश् च वेदाः। वायुः प्राणो हृदयꣳ विश्वम् अस्य पद्भ्याꣳ पृथिवी ह्य् एष सर्व-भूतान्तरात्मा [मुण्ड्।, २।१।४] इतीदृशꣳ रूपꣳ सर्व-भूतान्तरात्मनः परमात्मन एव सम्भवति; अतश् च परमात्मा॥२४॥
Link copiedइत्य् अदृश्यत्वादि-गुणकाधिकरणम्॥५॥
Link copiedवैश्वानराधिकरणम्॥६॥
Link copied[अधिकरणार्थः-- वैश्वानर-शब्दार्थः परमात्मैव, न जाठराग्न्य्-आदिकम्]
Link copied[वैश्वानर-विद्या-- छान्।, ५।११]
Link copied५७ वैश्वानरः साधारण-शब्द-विशेषात्॥१।२।२५॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आमनन्ति च्छन्दोगाः--- आत्मानम् एवेमꣳ वैश्वानरꣳ सम्प्रत्यध्येषि तम् एव नो ब्रूहि [छान्।, ५।११।६] इति प्रक्रम्य यस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते [छान्।, ५।१८।१] इति।
Link copied[सꣳशय-स्वरूपम्]
Link copiedतत्र सन्देहः-- किम् अयꣳ वैश्वानर आत्मा, परमात्मेति शक्य-निर्णयः, उत न-- इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ प्राप्तम् अशक्य-निर्णय इति। कुतः। वैश्वानर-शब्दस्य चतुष्व् अर्थेषु प्रयोग-दर्शनात्-- जाठराग्नौ तावद् अयम् अग्निर् वैश्वानरो येनेदम् अन्नꣳ पच्यते यद् इदम् अद्यते तस्यैष घोषो भवति यावद् एतत् कर्णाव् अपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनꣳ घोषꣳ शृणोति [बृहद्।, ७।९।१] इति; महाभूत-तृतीये च विश्वस्मा अग्नꣳ भुवनाय देवा वैश्वानरꣳ केतुम् अह्नाम् अकृणवन् इति देवतायाꣳ च वैश्वानरस्य सुमतौ स्याम राजा हि कꣳ भुवनानाम् अभिश्रीः [यजुर्। १।५।११] इति; परमात्मनि च तदात्मन्य् एव हृदयेऽग्नौ वैश्वानरे प्रास्यत् [तै।, ३।१२।८] इति, स एष वैश्वानरो विश्व-रूपः प्राणोऽग्निर् उदयते [प्रश्।, १।७] इति च। वाक्योपक्रमादिषूपलभ्यमानान्य् अपि लिङ्गानि सर्वानुगुणतया नेतुꣳ शक्यानीति॥
Link copied[सिद्धान्त-स्वरूपम्]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- वैश्वानरः साधारण-शब्द-विशेषात्-- वैश्वानरः पर एवात्मा। कुतः। साधारण-शब्दविशेषात्, विशेष्यत इति विशेषः-- साधारणस्य वैश्वानर-शब्दस्य परमात्मासाधारणैर् धर्मैः विशेष्यमाणत्वाद् इत्य् अर्थः। तथा हि-- औपमन्यवादयः पञ्चेमे महर्षयः समेत्य को न आत्मा किꣳ ब्रह्म [छान्।, ५।१।१] इति विचार्य उद्दालको ह वै भगवन्तोऽयम् आरुणिः सम्प्रतीमम् आत्मानꣳ वैश्वानरम् अध्येति तꣳ हन्ताभ्यागाच्छाम [छान्।, ५।११।२] इत्य् उद्दालकस्य वैश्वानरात्म-विज्ञानम् अवगम्य तम् अभ्याजग्मुः। स चोद्दालक एतान् वैश्वानरात्म-जिज्ञासूनभिलक्ष्यात्मनश् च तत्राकृत्स्न-वेदित्वꣳ मत्वा तान् होवाच अश्व-पतिर् वै भगवन्तोऽयꣳ केकयः सम्प्रतीमम् आत्मानꣳ वैश्वानर-मध्येति तꣳ हन्ताभ्यागच्छाम [छान्।, ५।११।४] इति-- ते चोद्दालक-षष्ठास्तमश्व-पतिम् अभ्याजग्मुः। स च तान् महर्षीन् यथार्हꣳ पृथग् अभ्यर्च्य न मे स्तेनः [छान्।, ५।११।५] इत्य् आदिना यक्ष्यमाणो ह वै भगवन्तोऽहम् अस्मि [छान्।, ५।११।१] इत्य् अन्तेनात्मनो व्रतस्थतया प्रतिग्रह-योग्यताꣳ ज्ञापयन्न् एव ब्रह्म-विद्भिर् अपि प्रतिषिद्ध-परिहरणीयताꣳ विहित-कर्म-कर्तव्यताꣳ च प्रज्ञाप्य यावद् एकैकस्मा ऋत्विजे धनꣳ दास्यामि तावद् भगवद्भ्यो दास्यामि वसन्तु भवन्तः [छान्।, ५।११।५] इत्य् अवोचत्। ते च मुमुक्षवो वैश्वानरम् आत्मानꣳ जिज्ञासमानास् तम् एवात्मानम् अस्माकꣳ ब्रूहीत्य् अवोचन्। तद् एवꣳ को न आत्मा किꣳ ब्रह्म [छान्।, ५।११।४] इति जीवात्मनाम् आत्म-भूतꣳ ब्रह्म जिज्ञासमानैस् तज्-ज्ञम् अन्विच्छद्भिर् वैश्वानरात्म-ज्ञ-सकाशम् आगम्य पृच्छयमानो वैश्वानरात्मा परमात्मेति विज्ञायते, आत्म-ब्रह्म-शब्दाभ्याम् उपक्रम्य पश्चात् सर्वत्रात्म-वैश्वानर-शब्दाभ्याꣳ व्यवहाराच् च ब्रह्म-शब्द-स्थाने निर्दिश्यमानो वैश्वानर-शब्दो ब्रह्मैवाभिधत्त इति विज्ञायते। किꣳ च स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति [छान्।, ५।१८।१] तद् यथेषीक-तूल-मग्नौ प्रोतꣳ प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते [छान्।, ५।२४।३] इति च वक्ष्यमाणꣳ वैश्वानरात्म-विज्ञान-फलꣳ वैश्वानरात्मनꣳ परꣳ ब्रह्मेति ज्ञापयति॥२५॥
Link copied[वैश्वानरस्य परमात्मत्वे ज्ञापकान्तरम्]
Link copiedइतश् च वैश्वानरः परमात्मा--
Link copied५८ स्मर्यमाणम् अनुमानꣳ स्याद् इति॥१।२।२६॥
Link copiedद्यु-प्रभृति-पृथिव्य्-अन्तम् अवयव-विभागेन वैश्वानरस्य रूपम् इहोपदिश्यते। तच् च श्रुतिस्-मृतिषु परम-पुरुष-रूपतया प्रसिद्धम्। तद् इह तद् एवेदम् इति स्मर्यमाणꣳ-- प्रत्यभिज्ञायमानꣳ वैश्वानरस्य परम-पुरषत्वेऽनुमानꣳ-- लिङ्गम् इत्य् अर्थः, इति शब्दः प्रकार-वचनः; इत्थम्भूतꣳ रूपꣳ प्रत्यभिज्ञायमानꣳ वैश्वानरस्य परमात्मत्वेऽनुमानꣳ स्यात्। श्रुति-स्मृतिषु हि परम-पुरुषस्येत्थꣳ रूपꣳ प्रसिद्धम्। यथाथर्वणे--- अग्निर् मूर्धा चक्षुषी चन्द्र-सूर्यौ दिशः श्रोत्रे वाग् विवृताश् च वेदाः। वायुः प्राणो हृदयꣳ विश्वम् अस्य पद्भ्याꣳ पृथिवी ह्य् एष सर्व-भूतान्तरात्मा [मुण्ड्।, २।१।४] इति। अग्निर् इह द्यु-लोकः, असौ वै लोकोऽग्निः [बृहद्।, ८।२।९] इति श्रुतेः। स्मरन्ति च मुनयः--- द्याꣳ मूर्धानꣳ यस्य विप्रा वदन्ति खꣳ वै नाभिꣳ चन्द्र-सूर्यौ च नेत्रे। दिशः श्रोत्रे विद्धि पादौ क्षितिꣳ च सोऽचिन्त्यात्मा सर्व-भूत-प्रणेता इति यस्याग्निर् आस्यꣳ द्यौर् मूर्धा खꣳ नाभिश् चरणौ क्षितिः। सूर्यश् चक्षुर् दिशः श्रोत्रꣳ तस्मै लोकात्मने नमः [महाभारते] इति च।
Link copied[द्यु-प्रभृतीनाꣳ वैश्वानरावयत्व-रूपणम्]
Link copiedइह च द्यु-प्रभृतयो वैश्वानरस्य मूर्धाद्य्-अवयवत्वेनोच्यन्ते-- तथा हि तैर् औपमन्यव-प्रभृतिभिः महर्षिभिर् आत्मानम् एवेमꣳ वैश्वानरꣳ सम्प्रत्यध्येषि तम् एव नो ब्रूहि [छान्।, ५।११।६] इति पृष्टः केकयस्तेभ्यो वैश्वानरात्मानम् उपदिदिक्षुः विशेष-प्रश्नान्यथानुपपत्त्या वैश्वानरात्मन्य् एतैः किञ्चित् ज्ञातꣳ किञ्चिद् अज्ञातम् इति विज्ञाय ज्ञाताज्ञाताꣳश-बुभुत्सया तान् एकैकꣳ पप्रच्छ। तत्र--- औपमन्यव कꣳ त्वम् आत्मानम् उपास्से [छान्।, ५।१।६] इति पृष्टे दिवम् एव भगवो राजन् [छान्।, ५।१२।१] इति तेन चोक्ते दिवि तस्य पूर्णवैश्वानरात्म-बुद्धिꣳ निवर्तयन् वैश्वानरस्य द्यौर् मूधा इति चोपदिशꣳस् तस्या वैश्वानराꣳश-भूताया दिवः सुतेजा इति गुण-नामधेयꣳ प्राचिख्यपत्। एवꣳ सत्य-यज्ञादिभिर् आदित्य-वाय्व्-आकाशाप्-पृथिवीनाम् एकैकेनैकैकम् उपास्यमानतया कथितानाꣳ विश्व-रूपः, पृथग्-वर्त्मा, बहुलो, रयिः, प्रतिष्ठा, इत्य् एकैक-गुण-नामधेयानि वैश्वानरात्मनश् चक्षुः-प्राण-सन्देह-वस्ति-पादावयवत्वꣳ चोपदिष्टम्। सन्देहो मध्य-काय उच्यते। अत एवम्भूत-द्यु-मूर्धत्वादि-विशिष्टꣳ परम-पुरुषस्यैव रूपम् इति वैश्वानरः परम-पुरुष एव॥२६॥
Link copied[उत्तर-सूत्रावतरणम्]
Link copiedपुनर् अप्य् अनिर्णयम् एवाशङ्क्य परिहरति--
Link copied५९ शब्दादिभ्योऽन्तः-प्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्य्-उपदेशाद् असम्भवात् पुरुषम् अपि चैनम् अधीयते॥१।२।२७॥
Link copied[वैश्वानर-शब्दस्य परमात्म-परत्वाभाव-शङ्कनम्]
Link copiedयद् उक्तꣳ वैश्वानरः परमात्मेति निश्चीयत इति, तन् न, शब्दादिभ्योऽन्तः-प्रतिष्ठानाच् च जाठरस्याप्य् अग्नेर् इह प्रतीयमानत्वात्। शब्दस् तावद् वाजिनाꣳ वैश्वानर-विद्या-प्रकरणे स एषोऽग्निर् वैश्वानरः [प्रश्।, १।७] इति वैश्वानर-समानाधिकरणतयाग्निर् इति श्रूयते; अस्मिन् प्रकरणे च हृदयꣳ गार्हापत्यो मनोऽन्वाहार्य-पचन आस्यम् आहवनीयः [छान्।, ५।१८।२] इति वैश्वानरस्य हृदयादि-स्थस्याग्नि-त्रय-कल्पनꣳ क्रियते। तद् यद् भक्तꣳ प्रथमम् आगच्छेत् तद् धोमीयꣳ स याꣳ प्रथमाम् आहुतिꣳ जुहुयात् ताꣳ जुहुयात् प्राणाय स्वाहा [छान्।, ५।१९।१] इत्य् आदिना प्राणाहुत्य्-आधारत्वꣳ च वैश्वानरस्यावगम्यते। तथा वैश्वानरस्यास्मिन् पुरुषेऽन्तः-प्रतिष्ठानꣳ वाजसनेयिनः समामनन्ति स यो हैतम् एवम् अग्निꣳ वैश्वानरꣳ पुरुष-विधꣳ पुरुषेऽन्तः-प्रतिष्ठितꣳ वेद इति। अतोऽग्नि-शब्द-सामानाधिकरण्याद् अग्नि-त्रेता-परिकल्पनात् प्राणाहुत्य्-आधार-भावाद् अन्तः-प्रतिष्ठानाच् च वैश्वानरस्य जाठरत्वम् अपि प्रतीयत इति नैकान्ततः परमात्मत्वम् इति चेत्--
Link copied[अग्न्य्-आख्य-देवतायाः, तृतीय-भूतस्य तेजसश् च वैश्वानर-शब्दावाच्यत्वम्]
Link copiedतन् न, तथा दृष्ट्य्-उपदेशात्-- पूर्वोक्तस्य त्रैलोक्य-शरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्नि-शरीरतया तद्-विशिष्टस्योपासनोपदेशात्। अग्नि-शब्दादिभिर् हि न केवलो जाठरः प्रतिपाद्यते; अपि तु जाठराग्नि-विशिष्टः परमात्मा। कथम् इदम् अवगम्यत इति चेत्-- असम्भवात्-- जाठरस्य केवलस्य त्रैलोक्य-शरीरत्वासम्भवात्। त्रैलोक्य-शरीरतया प्रतिपन्न-वैश्वानर-समानाधिकरणो जाठर-विषयतया प्रतीयमानोऽग्नि-शब्दो जाठर-शरीरतया तद्-विशिष्टꣳ परमात्मानम् एवाभिदधातीत्य् अर्थः। यथोक्तꣳ भगवता--- अहꣳ वैश्वानरो भूत्वा प्राणिनाꣳ देहम् आश्रितः। प्राणापान-समायुक्तः पचाम्य् अन्नꣳ चतुर्-विधम् [भ। गी।, १५।१४] इति जाठरानल-शरीरो भूत्वेत्य् अर्थः। अतस् तद्-विशिष्टस्योपासनम् अत्रोपदिश्यते। किꣳ च पुरुषम् अपि चैनम् अधीयते वाजसनेयिनः स एषोऽग्निर् वैश्वानरो यत् पुरुषः इति; न हि जाठरस्य केवलस्य पुरुषत्वम्, परमात्मन एव हि निरुपाधिकꣳ पुरुषत्वम्, यथा, सहस्र-शीर्षा पुरुषः, पुरुष एवेदꣳ सर्वम् [पुरुष-सूक्तꣳ] इत्य् आदौ॥२७॥
Link copied[अग्न्य्-आख्य-देवतायास् तृतीय-भूतस्य तेजसश् च वैश्वानर-शब्दावाच्यत्वम्]
Link copied६० अत एव न देवता भूतꣳ च॥१।२।२८॥
Link copiedउक्तेभ्य एव हेतुभ्यो देवतायाश् च तृतीयस्य महा-भूतस्यापि न वैश्वानरत्व-प्रसङ्गः॥२८॥
Link copied[अग्नि-शब्दादेर् अव्यवधानेन भगवद्-वाचकता]
Link copied६१ साक्षाद् अप्य् अविराधꣳ जैमिनिः॥१।२।२९॥
Link copied[सङ्गति-प्रदर्शनम्]
Link copiedवैश्वानर-समानाधिकरणस्याग्नि-शब्दस्य जाठराग्नि-शरीरतया तद्-विशिष्टस्य परमात्मनो वाचकत्वम्, तथैव परमात्मन उपास्यत्वꣳ चोक्तम्। जैमिनिस् त्व् आचार्यो वैश्वानर-शब्दवद् अग्नि-शब्दस्यापि परमात्मन एव साक्षाद् अव्यवधानेन वाचकत्वे न कश्चिद् विरोध इति मन्यते।
Link copied[शब्दानाꣳ परमात्मन्य् अव्यवहित-वृत्तेर् उपपादनम्]
Link copiedएतद् उक्तꣳ-- भवति-- यथा वैश्वानर-शब्दः साधारणोऽपि परमात्मासाधारण-धर्म-विशेषितो विश्वेषाꣳ नराणाꣳ नेतृत्वादिना गुणेन परमात्मानम् एवाभिदधातीति निश्चीयते, एवम् अग्नि-शब्दोऽप्य् अग्र-नयनादिना येनैव गुणेन योगाज् ज्वलने वर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवाद् अस्मिन् प्रकरणे परमात्मासाधारण-धर्म-विशेषितः परमात्मानम् एवाभिधत्त इति॥२९॥
Link copied[उत्तर-सूत्रोपयोगिनी शङ्का]
Link copiedयस् त्व् एतम् एवꣳ प्रादेश-मात्रम् अभिविमानम् [छान्।, ५।१८।१] इत्य् अपरिच्छिन्नस्य परस्य ब्रह्मणो द्यु-प्रभृति-पृथिव्य्-अन्त-प्रदेश-सम्बन्धितया मात्रया परिच्छिन्नत्वꣳ कथम् उपपद्यते-- तत्राह---
Link copied६२ अभिव्यक्तेर् इत्य् आश्मरथ्यः॥१।२।३०॥
Link copied[परमात्मनः प्रादेश-मात्रता-वर्णन-फलम्]
Link copiedउपासकाभिव्यक्त्यर्थꣳ प्रादेश-मात्रत्वꣳ परमात्मन इत्य् आश्मरथ्य आचार्यो मन्यते। द्यौर् मूर्धा आदित्यश् चक्षुर् वायुः प्राणः आकाशो मध्य-कायः, आपो वस्तिः, पृथिवी पादौ इति द्यु-प्रभृति-प्रदेश-सम्बन्धिन्या मात्रया परिच्छिन्नत्वꣳ कृत्स्नम् अभिव्याप्तवतो विगतमानस्य ह्य् अभिव्यक्तेर् एव हेतोर् भवति॥३०॥
Link copied[ब्रह्मणः पुरुष-विधत्व-वर्णन-फलम्]
Link copiedमूर्धाप्रभृत्य्-अवयव-विशेषैः पुरुष-विधत्वꣳ परस्य ब्रह्मणः किम् अर्थम् इति चेत्-- तत्राह
Link copied६३ अनुस्मृतेर् बादरिः॥१।२।३१॥
Link copiedतथोपासनार्थम् इति बादरिर् आचार्यो मन्यते। यस् त्व् एतम् एवम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति [छान्।, ५।१८।१] इति ब्रह्म-प्राप्तये ह्य् उपासनम् उपदिश्यते एतम् एवम् इति-- उक्त-प्रकारेण पुरुषाकारम् इत्य् अर्थः। सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मसु वर्तमानꣳ यद् अन्नꣳ भोग्यꣳ तद् अत्ति-- सर्वत्र वर्तमानꣳ स्वत एवानवधिकातिशयानन्दꣳ ब्रह्मानुभवति। यत् तु सर्वैः कर्म-वश्यैर् आत्मभिः प्रत्येकम् अनन्य-साधारणम् अन्नꣳ भुज्यते, तन् मुमुक्षुभिस् त्याज्यत्वाद् इह न गृह्यते॥३१॥
Link copied[उरः-प्रभृतीनाꣳ वेद्यादि-रूपता-कल्पन-प्रजोयनम्]
Link copiedयदि परमात्मा वैश्वानरः, कथꣳ तर्ह्य् उरः-प्रभृतीनाꣳ वेद्यादित्वोपदेशः, यावता जाठराग्नि-परिग्रह एवैतद् उपपद्यत इत्य् अत्राह---
Link copied६४ सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति॥१।२।३२॥
Link copiedअस्य परमात्मन एव वैश्वानरस्य द्यु-प्रभृति-पृथिव्य्-अन्त-शरीरस्य समाराधन-भूताया उपासकैर् अहर् अहः क्रियमाणायाः प्राणाहुतेर् अग्निहोत्रत्व-सम्पादनायायम् उरः-प्रभृतीनाꣳ वेदित्वाद्य्-उपदेश इति जैमिनर् आचार्यो मन्यते। तथा हि-- परमात्मोपासनोचितम् एव फलꣳ प्राणाहुत्या अग्निहोत्र-सम्पत्तिꣳ च दर्शयतीयꣳ श्रुतिः। स य इदम् अविद्वान् अग्निहोत्रꣳ जुहोति यथाङ्गारान् अपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् अथ य एतद् एवꣳ विद्वान् अग्निहोत्रꣳ जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मसु हुतꣳ भवति तद् यथेषीक-तूलम् अग्नौ प्रोतꣳ प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते [छान्।, ५।२४।१] इति॥३२॥
Link copied[परमात्मनो द्यु-प्रभृति-शरीरकत्वोपपत्तिः]
Link copied६५ आमनन्ति चैनम् अस्मिन्॥१।२।३३॥
Link copiedएनꣳ परम-पुरुषꣳ द्यु-मूर्धत्वादि-विशिष्टꣳ वैश्वानरम् अस्मिन्न् उपासक-शरीरे प्राणाहुत्य्-आधारत्वाय आमनन्ति च तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः [छान्।, ५।१८।२] इत्य् आदिना। अयम् अर्थः--- यस् त्वम् एवꣳ प्रादेश-मात्रम् अभिविमानम् आत्मानꣳ वैश्वानरम् उपास्ते [छान्।, ५।१८।२] इति त्रैलोक्य-शरीरस्य परमात्मनो वैश्वानरस्योपासनꣳ विधाय सर्वेषु लोकेषु [छान्।, ५।१८।१] इत्य् आदिना ब्रह्म-प्राप्तिꣳ च फलम् उपदिश्य अस्यैवोपासनस्याङ्ग-भूतꣳ प्राणाग्निहोत्रꣳ तस्य ह वा एतस्य [छान्।, ५।१८।२] इत्य् आदिनोपदिशति; यः पूर्वम् उपास्यतयोपदिष्टो वैश्वानरस् तस्यावयव-भूतान् अग्न्य्-आदित्यादीन् सुतेजो-विश्वरूपादि-नामधेयानुपासक-शरीरे मूर्धादि-पादान्तेषु सम्पादयति। मूर्धैव सुतेजाः-- उपासकस्य मूर्धैव परमात्म-मूर्ध-भूता द्यौर् इत्य् अर्थः। चक्षुर् विश्वरूपः-- आदित्य इत्य् अर्थः। प्राणः पृथग्-वर्त्मा-- वायुर् इत्य् अर्थः। सन्देहो बहुलः-- उपासकस्य मध्य-काय एव परमात्म-मध्य-काय-भूत आकाश इत्य् अर्थः। वस्तिर् एव रयिः-- अस्य वस्तिर् एव तद्-अवयव-भूता आप इत्य् अर्थः। पृथिव्य् एव पादौ-- अस्य पादाव् एव तत्-पाद-भूता पृथिवीत्य् अर्थः। एवम् उपासकः स्व-शरीरे परमात्मानꣳ त्रैलोक्य-शरीरꣳ वैश्वानरꣳ सन्निहितम् अनुसन्धाय स्वकीयान्य् उरो-लोम-हृदय-मन-आस्यानि प्राणाहुत्य्-आधारस्य परमात्मनो वैश्वानरस्य वेदि-बर्हिर्-गार्हापत्यान्वाहार्य-पचनौ आहवनीयानग्निहोत्रोपकरण-भूतान् परिकल्प्य प्राणाहुतेश् चाग्निहोत्रत्वꣳ परिकल्प्यैवꣳविधेन प्राणाग्निहोत्रेण परमात्मानꣳ वैश्वानरम् आराधयेद् इत्य् उर एव वेदिर् लोमानि बर्हिर् हृदयꣳ गार्हापत्यः [छान्।, ५।१८।२] इत्य् आदिनोपदिश्यते। अतः परमात्मा पुरुषोत्तम एव वैश्वानर इति सिद्धम्॥३३॥
Link copiedइति वैश्वानराधिकरणम्॥६॥
Link copiedइति श्री-रामानुजाचार्य-रचिते ब्रह्मसूत्र-भाष्ये प्रथमस्याध्यायस्य द्वितीयः पादः॥
Link copiedतृतीयः पादः
[पादार्थः--ब्रह्मैव सर्व-जगत्-कारणम्]
Link copiedप्रथमाध्याये--तृतीय-पादे--
Link copiedद्यु-भ्व्-आद्य्-अधिकरणम्॥१॥
Link copied[अधिकरणार्थः-- द्युः-पृथिव्य्-आदीनाम् आयतनꣳ परमात्मैव, न जीवः]
Link copied[अक्षर-परब्रह्म-विद्या, मुण्ड्। १।२]
Link copied६६ द्यु-भ्व्-आद्यायतनꣳ स्व-शब्दात्॥१।३।१॥
Link copied[विषय-वाक्यम्]
Link copiedआथर्वणिका अधीयते-- यस्मिन् द्यौः पृथिवी चान्तरिक्षम् ओतꣳ मनः सह प्राणैश् च सर्वैः। तम् एवैकꣳ जानथात्मानम् अन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः [मुण्ड्।, २।२।५] इति।
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedतत्र सꣳशयः किम् अयꣳ द्यु-पृथिव्य्-आदीनाम् आयतनत्वेन श्रूयमाणो जीवः, उत परमात्मा-- इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ जीव इति। कुतः। अरा इव रथ-नाभौ सꣳहता यत्र नाड्यः स एषोऽन्तश् चरते बहुधा जायमानः [मुण्ड्।, २।२।६] इति परस्मिञ् श्लोके पूर्व-वाक्य-प्रस्तुतꣳ द्यु-पृथिव्य्-आद्य्-आयतनꣳ यत्र इति पुनर् अपि सप्तम्य् अन्तेन परामृश्य तस्य नाड्याधारत्वम् उक्त्वा, पुनर् अपि स एषोऽन्तश् चरते बहुधा जायमानः [मुण्ड्।, २।२।६] इति तस्य बहुधाजायमानत्वꣳ चोच्यते; नाडी-सम्बन्धो देवादि-रूपेण बहुधा जायमानत्वꣳ च जीवस्यैव धर्मः। अस्मिन्न् अपि श्लोके ओतꣳ मनः सह प्राणैश् च सर्वैः [मुण्ड्।, २।२।५] इति प्राण-पञ्चकस्य मनसश् चाश्रयत्वम् उच्यमानꣳ जीव-धर्म एव। एवꣳ जीवत्वे निश्चिते सति द्यु-पृथिव्य्-आद्य्-आयतनत्वादिकꣳ यथा कथञ्चित् सङ्गमयितव्यम् इति।
Link copied[सयुक्तिकः सिद्धान्तः]
Link copiedएवꣳ प्राप्ते प्रचक्ष्महे-- द्यु-भ्व्-आद्य्-आयतनꣳ स्व-शब्दात्-- द्यु-पृथिव्य्-आदीनाम् आयतनꣳ परꣳ ब्रह्म। कुतः। स्व-शब्दात्-- परब्रह्मासाधारण-शब्दात्। अमृतस्यैष सेतुः [मुण्ड्।, २।२।५] इति परस्य ब्रह्मणोऽसाधारणः शब्दः। तम् एवꣳ विद्वान् अमृत इह भवति। नान्यः पन्था अयनाय विद्यते [पु। सू।] इति सर्वत्रोपिनषत्सु स एवामृतत्व-प्राप्ति-हेतुः श्रूयते। सिनोतेश् च बन्धनार्थत्वात् सेतुः अमृतस्य प्रापक इत्य् अर्थः। सेतुर् इव वा सेतुः-- नद्य्-आदिषु सेतुर् हि कूलस्य प्रतिलम्भकः-- सꣳसारार्णव-पारभूतस्यामृतस्यैष प्रतिलम्भक इत्य् अर्थः। आत्म-शब्दश् च निरुपाधिकः परस्मिन् ब्रह्मणि मुख्य-वृत्तः, आप्नोतीति ह्य् आत्मा; स्वेतर-समस्तस्य नियन्तृत्वेन व्याप्तिस् तस्यैव सम्भवति। अतः सोऽपि तस्यैव शब्दः। यः सर्व-ज्ञः सर्व-वित् [मुण्ड्।, २।२।७] इत्य् आदयश् चोपरितनाः परस्यैव ब्रह्मणः शब्दाः। नाड्याधारत्वꣳ तस्यापि सम्भवति सन्ततꣳ सिराभिस् तु लम्बत्य् आकोश-सन्निभम् [महानारा। १३] इत्य् आरभ्य तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः [महानारा। १३] इति श्रवणात्।
Link copied[स्वाधीनः परमात्मनोऽवतारः]
Link copiedबहुधा जायमानः [मुण्ड्।, २।२।६] इत्य् अपि परस्मिन् ब्रह्मणि सङ्गच्छते-- अजायमानो बहुधा विजायते। तस्य धीराः परिजानन्ति योनिम् [पु। सू। ३] इति देवादीनाꣳ समाश्रयणीयत्वाय तत्-तज्-जातीय-रूप-सꣳस्थान-गुण-कर्म-समन्वितः स्वकीयꣳ स्वभावम् अजहद् एव स्वेच्छया बहुधा विजायते परः पुरुष इत्य् अभिधानात्। स्मृतिर् अप्य् अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन्। प्रकृतिꣳ स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया [भ। गी।, ४।६] इति। मनः-प्रभृति-जीवोपकरणाधारत्वꣳ च सर्वाधारस्य परस्यैवोपपद्यते॥१॥
Link copied[मुक्त-प्राप्यत्वꣳ परमात्मत्वे लिङ्गम्]
Link copiedइतश् च परम-पुरुषः--
Link copied६७ मुक्तोपसृप्य-व्यदेशाच् च॥१।३।२॥
Link copiedअयꣳ द्यु-पृथिव्य्-आद्य्-आयतन-भूतः पुरुषः सꣳसार-बन्धान् मुक्तैर् अपि प्राप्यतया व्यपदिश्यते-- यदा पश्यः पश्यते रुक्म-वर्णꣳ कर्तारम् ईशꣳ पुरुषꣳ ब्रह्म-योनिम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपैति [मुण्ड्।, ३।१।३] यथा नद्यः स्यन्दमानाः समुद्रे अस्तꣳ गच्छन्ति नाम-रूपे विहाय। तथा विद्वान् नाम-रूपाद् विमुक्तः परात् परꣳ पुरुषम् उपैति दिव्यम् [मुण्ड्।, ३।२।८] इति। सꣳसार-बन्धनाद् विमुक्ता एव हि विधूत-पुण्य-पापा निरञ्जना नाम-रूपाभ्याꣳ विनिर्मुक्ताश् च। पुण्य-पाप-निबन्धनाचित्-सꣳसर्ग-प्रयुक्त-नाम-रूप-भाक्त्वम् एव हि सꣳसारः। अतो विधूत-पुण्य-पापैर् निरञ्जनैः प्रकृति-सꣳसर्ग-रहितैः परेण ब्रह्मणा परमꣳ साम्यमापन्नैः प्राप्यतया निर्दिष्टो द्यु-पृथिव्य्-आद्य्-आयतन-भूतः पुरुषः परꣳ ब्रह्मैव॥२॥
Link copied[प्रकरणे जीवासाधारण-शब्दाभावोऽपि ज्ञापकः]
Link copiedपरब्रह्मासाधारण-शब्दादिभिः परम् एव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारण शब्दाभावाच् चायꣳ पर एवेत्य् आह--
Link copied६८ नानुमानमतच्-छब्दात् प्राण-भृच् च॥१।३।३॥
Link copiedयथास्मिन् प्रकरणे प्रतिपादक-शब्दाभावात् प्रधानꣳ न प्रतिपाद्यम्; एवꣳ प्राण-भृद् अपीत्य् अर्थः। अनुमीयत इत्य् अनुमानꣳ परोक्तꣳ प्रधानम् उच्यते, अनुमान-प्रमितत्वाद् आनुमानम् इति वा; अतच्-छशब्दात्-- तद्-वाचि-शब्दाभावाद् इत्य् अर्थः। अर्थाभावे यद् अव्ययम् इत्य् अव्ययीभावः॥३॥
Link copied[श्रुतौ जीव-भेद-ज्ञापकः शब्दः, परमात्मत्वे लिङ्गम्]
Link copiedइतश् चायꣳ न प्रत्यगात्मा--
Link copied६९ भेद-व्यपदेशात्॥१।३।४॥
Link copiedसमाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः। जुष्टꣳ यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः [श्वे। ४।७] इत्य् आदिभिर् जीवाद् विलक्षणत्वेनायꣳ व्यपदिश्यते। अनीशया भोग्य-भूतया प्रकृत्या मुह्यमानः शोचति जीवः, अयꣳ यदा स्वस्माद् अन्यꣳ सर्वस्येशꣳ प्रीयमाणम्, अस्य ईश्वरस्य महिमानꣳ च निखिल-जगन्-नियमन-रूपꣳ पश्यति; तदा वीत-शोको भवति॥४॥
Link copied७० प्रकरणात्॥१।३।५॥
Link copiedप्रकरणꣳ चेदꣳ परस्य ब्रह्मण इत्य् अदृश्यत्वादि-गुणको धर्मोक्तेः [ब्र। सू। १।९।२२] इत्य् अत्रैव प्रदर्शितम्। नाडी-सम्बन्ध-बहुधा-जायमानत्व-मनः-प्राणाधारत्वैश् च प्रकरण-विच्छेदाशङ्का-मात्रम् अत्र पर्यहार्ष्म॥५॥
Link copied७१ स्थित्य्-अदनाभ्याꣳ च॥१।३।६॥
Link copiedद्वा सुपर्णा सयुजा सखाया समानꣳ वृक्षꣳ परिषस्वजाते। तयोर् अन्यः पिप्पलꣳ स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति [श्वे।, ४।६] इत्य् एकस्य कर्म-फलादनम् अन्यस्य च कर्म-फलम् अनश्नत एव दीप्यमानतया शरीरान्तः स्थिति-मात्रꣳ प्रतिपाद्यते। तत्र कर्म-फलम् अनश्नन्दीप्यमान एव सर्व-ज्ञोऽमृत-सेतुः सर्वात्मा द्यु-भ्व्-आद्य्-आयतनꣳ भवितुम् अर्हति, न पुनः कर्म-फलम् अदन् शोचन् प्रत्यगात्मा। अतो द्यु-भ्व्-आद्य्-आयतनꣳ परमात्मेति सिद्धम्॥६॥
Link copiedइति द्यु-भ्व्-आद्य्-अधिकरणम्॥१॥
Link copiedभूमाधिकरणम्॥२॥
Link copied[अधिकरणार्थः-- भूम-शब्द-वाच्यम्, सत्य-शब्द-निर्दिष्टꣳ परꣳ ब्रह्मैव, न जीवादिः]
Link copied[भूम-विद्या-- छान्।, ७।१]
Link copied७२ भूमा सम्प्रसादाद् अध्युपदेशात्॥१।३।७॥
Link copied[विषय-वाक्य-निर्देशः]
Link copiedइदम् आमनन्ति छन्दोगाः--- यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा। अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् [छान्।, ७।२४।१] इति।
Link copied[अत्र भूम-शब्दार्थ-निर्वचनम्]
Link copiedअत्रायꣳ भूम-शब्दो भाव-प्रत्ययान्तो व्युत्पाद्यते। तथा हि पृथ्व्य्-आदिषु बहु-शब्दः पठ्यते। ततः पृथ्व्य्-आदिभ्य इमनिज्वा [अष्टा, ५।१।१२२] इति इमनिच्-प्रत्यये कृते बहोर् लोपो भू च बहोः [अष्टा, ६।४।१५८] इति प्रकृति-प्रत्यययोर् विकारे भूमेति भवति। भूमा--बहुत्वम् इत्य् अर्थः। अत्र चायꣳ बहु-शब्दो वैपुल्य-वाची, न सङ्ख्या-वाची; यत्रान्यत् पश्यति तद् अल्पम् [छान्।, ७।२४।१] इत्य् अल्प-प्रतियोगित्व-श्रवणाद् अल्प-शब्द-निर्दिष्ट-धर्मि-प्रतियोगि-प्रतिपादन-परत्वाद् एव धर्मि-परश् च निश्चीयते; न धर्म-मात्र-परः। तद् एवꣳ भूमेति विपुल इत्य् अर्थः। वैपुल्य-विशेष्यश् चेहात्मेत्य् अवगतः तरति शोकम् आत्म-वित् [छान्।, ७।१।३] इति प्रक्रम्य भूम-विज्ञानम् उपदिश्य आत्मैवेदꣳ सर्वम् [छान्।, ७।२५।२] इति तस्यैवोपसꣳहारात्।
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedअत्र सꣳशय्यते-- किम् अयꣳ भूम-गुण-विशिष्टः प्रत्यगात्मा, उत परमात्मा-- इति।
Link copied[सयुक्तिकः पूर्वः पक्षः]
Link copiedकिꣳ युक्तꣳ प्रत्यागात्मेति। कुतः। श्रुतꣳ ह्य् एव मे भगवद्-दृशेभ्यस् तरति शोकम् आत्म-वित् [छान्।, ७।१।३] इत्य् आत्म-जिज्ञासयोपसेदुषे नारदाय नामादि-प्राण-पर्यन्तेषूपास्यतयोपदिष्टेषु अस्ति भगवो नाम्नो भूयः [छान्।, ७।१।५] अस्ति भगवो वाचो भूयः [छान्।, ७।२।२] इत्य् आदयः प्रश्नाः, वाग् वाव नाम्नो भूयसी [छान्।, ७।२।१], मनो वाव वाचो भूयः [छान्।, ७।३।१] इत्य् आदीनि च प्रतिवचनानि, प्राणात् प्राचीनेषु दृश्यन्ते; प्राणे तु न पश्यामः। अतः प्राण-पर्यन्त एवायम् आत्मोपदेश इति प्रतीयते। तेनेह प्राण-शब्द-निर्दिष्टः प्राण-सहचारी प्रत्यगात्मैव; न वायु-विशेष-मात्रम्। प्राणो ह पिता प्राणो ह माता [छान्।, ७।१५।१] इत्य् आदयश् च प्राणस्य चेतनताम् अवगमयन्ति। पितृहा॥।मातृहा [छान्।, ७।२५।२] इत्य् आदिना सप्राणेषु पितृ-प्रभृतिषूपमर्दकारिणि हिꣳसकत्व-निमित्तोपक्रोश-वचनात् तेष्व् एव विगत-प्राणेष्व् अत्यन्तोपमर्द-कारिण्य् अप्य् उपक्रोशाभाव-वचनाच् च हिꣳसायोग्यश् चेतन एव प्राण-शब्द-निर्दिष्टः। अप्राणेषु स्थावरेष्व् अपि चेतनेषूपमर्द-भावाभावयोर् हिꣳसातद्-अभाव-दर्शनाद् अयꣳ हिꣳसायोग्यतया निर्दिष्टः प्राणः प्रत्यगात्मैवेति निश्चीयते। अत एव च अरनाभिदृष्टान्ताद्य्-उपन्यासेन प्राण-शब्द-निर्दिष्टः पर इति न भ्रमितव्यम्, परस्य हिꣳसा-प्रसङ्गाभावात्, जीवाद् इतरस्य तद्-भोग्य-भोगोपकरण-भूतस्य कृत्स्नस्याचिद्-वस्तुनो जीवायत्त-स्थितित्वेन प्रत्यगात्मन्य् एवारनाभिदृष्टान्तोपपत्तेश् च। अयम् एव च प्राण-शब्द-निर्दिष्टो भूमा; अस्ति भगवः प्राणाद् भूयः इति प्रश्नस्य अदो वाव प्राणाद् भूयः प्रतिवचनस्य चाभावाद् भूम-सꣳशब्दनात् प्राक्-प्राण-प्रकरणस्याविच्छेदात्।
Link copied[तु-शब्दस्य प्रकरण-विच्छेदकत्व-शङ्का-परिहारः]
Link copiedकिꣳ च प्राण-वेदिनोऽतिवादित्वम् उक्त्वा तम् एव एष तु वा अतिवदति [छान्।, ७।१।६] इति प्रत्यभिज्ञाप्य यः सत्येनातिवदति [छान्।, ७।१६] इति तस्य सत्य-वदनꣳ प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्य-वदनस्य शेषितया पूर्व-निर्दिष्ट-प्राण-याथात्म्य-विज्ञानꣳ यदा वै विजानात्य् अथ सत्यꣳ वदति [छान्।, ७।१७] इत्य् उपदिश्य तत्-सिद्ध्य्-अर्थꣳ च मनन-श्रद्धा-निष्ठा-प्रयत्नान् उपदिश्य तद्-आरम्भाय च प्राप्य-भूत-प्राण-शब्द-निर्दिष्ट-प्रत्यगात्म-स्वरूपस्य सुख-रूपताज्ञानम् उपदिश्य तस्य च सुखस्य विपुलता भूमा त्व् एव विजिज्ञासतव्यः [छान्।, ७।२३।१] इत्य् उपदिश्यते। तद् एवꣳ प्रत्यगात्मन एवाविद्यावियुक्तꣳ रूपꣳ विपुल-सुखम् इत्य् उपदिष्टम् इति तरति शोकम् आत्म-वित् [छान्।, ७।१।३] इत्य् उपक्रमाविरोधश् च। अतो भूम-गुण-विशिष्टः प्रत्यगात्मा, यत एवꣳ भूम-गुण-विशिष्टः प्रत्यगात्मा, अत एवाहम्-अर्थे प्रत्यगात्मन्य् अहम् एवाधस्ताद् अहम् उपरिष्टात् [छान्।, ७।२५।१] इत्य् आरभ्य अहम् एवेदꣳ सर्वम् [छान्।, ७।१५।१] इति प्रत्यगात्मनो वैभवम् उपदिशति। एवꣳ प्रत्यगात्मत्वे निश्चिते सति तद्-अनुगुणतया वाक्य-शेषो नेतव्य इति॥
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- भूमा सम्प्रसादाद् अध्युपदेशात्--
Link copied[सूत्रार्थ-विवृतिः]
Link copiedभूम-गुण-विशिष्टो न प्रत्यगात्मा; अपि तु परमात्मा। कुतः। सम्प्रसादाद् अध्युपदेशात्; सम्प्रसादः-- प्रत्यगात्मा एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छान्।, ८।१२।२] इत्य् उपनिषत्-प्रसिद्धेः। सम्प्रसादात् प्रत्यगात्मनोऽधिकतया भूम-विशिष्टस्य सत्य-शब्दाभिधेयस्योपदेशाद् इत्य् अर्थः। सत्य-शब्दाभिधेयꣳ च परꣳ ब्रह्म। एतद् उक्तꣳ भवति-- यथा नामादिषु प्राण-पर्यन्तेषु पूर्व-पूर्वाधिकतयोत्तरोत्तराभिधानात् पूर्वेभ्य उत्तरेषाम् अर्थान्तरत्वम्, एवꣳ प्राण-शब्द-निर्दिष्टात् प्रत्यगात्मनोऽधिकतया निर्दिष्टः सत्य-शब्दाभिधेयस् तस्माद् अर्थान्तर-भूत एव; सत्य-शब्द-निर्दिष्ट एव भूमेति सत्याख्यꣳ परꣳ ब्रह्मैव भूमेत्य् उपदिश्यते-- इति। तद् आह वृत्ति-कारः--- भूमा त्व् एवेति भूमा ब्रह्म नामादि-परम्परया आत्मन ऊर्ध्वम् अस्योपदेशात् इति। प्राण-शब्द-निर्दिष्टाद् अधिकतया सत्यस्योपदेशः कथम् अवगम्यत इति चेत् स वा एष एवꣳ पश्यन्न् एवꣳ मन्वान एवꣳ विजानन्न् अतिवादी भवति [छान्।, ७।१५।४] इति प्राण-विदोऽतिवादित्वम् उक्त्वा एष तु वा अतिवदति यः सत्येनातिवदति [छान्।, ७।१६।१] इति सत्य-वेदित्वेनातिवादिनꣳ तु शब्देन पूर्वस्माद् अतिवादिनो व्यावर्तयति।
Link copied[एष इत्य् अस्य पूर्व-प्रत्यभिज्ञापकता-निरासः]
Link copiedअत एव एष तु वा अतिवदति [छान्।, ७।१६।१] इत्य् अत्र प्राणातिवादिनो न प्रत्यभिज्ञा। अतोऽस्यातिवादित्व-निमित्तꣳ सत्यꣳ पूर्वातिवादित्व-निमित्तात् प्राणाद् अधिकम् इति विज्ञायते।
Link copiedननु च प्राण-वेदिन एव सत्य-वदन-मङ्गत्वेनोपदिष्टम्, अतः प्राण-प्रकरणाविच्छेद इत्य् उक्तम्। नैतद् युक्तम्-- तु-शब्देन ह्य् अतिवाद्य् एवान्यः प्रतीयते, न तु तस्यैवातिवादिनः सत्य-वदनाङ्ग-शिष्टता-मात्रम्।
Link copied[दृष्टान्तापेक्षया वैलक्षण्योपपादनम्]
Link copiedएष तु वा अग्निहोत्री यः सत्यꣳ वदति इत्य् आदिष्व् अग्निहोत्र्य्-अन्तराप्रतीतेः; प्रतीतस्यैव अग्निहोत्रिणः सत्य-वदनाङ्ग-विधानम् इति क्लिष्टा गतिर् आश्रीयते; अत्र त्व् अतिवाद्यन्तरत्व-निमित्तꣳ सत्य-शब्दाभिधेयꣳ परꣳ ब्रह्म प्रतीयते। सत्य-शब्दश्च सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] इत्य् आदिषु परस्मिन् ब्रह्मणि प्रयुक्तः॥
Link copied[तु-शब्द-स्वारस्य-फलितार्थः]
Link copiedअतस् तन्-निष्ठस्यातिवादिनः पूर्वस्माद् अधिकत्वꣳ सम्भवतीति वाक्य-स्वरस-सिद्धम् अन्यत्वꣳ न बाधितव्यम्। अतिवादित्वꣳ हि वस्त्व्-अन्तरात् पुरुषार्थतयातिक्रान्त-स्वोपास्य-वस्तु-वादित्वम्; नामाद्य्-आशा-पर्यन्तोपास्य-वस्त्व्-अतिक्रान्त-स्वोपास्य-प्राण-शब्द-निर्दिष्ट-प्रत्यगात्म-वादित्वात् प्राण-विदः अतिवादित्वम्; तस्यापि सातिशय-पुरुषार्थत्वान् निरतिशय-पुरुषार्थतयोपास्य-परब्रह्म-वादिन एव साक्षाद् अतिवादित्वम् इति एष तु वा अतिवदति यः सत्येनातिवदति [छान्।, ७।२६।१] इत्य् उक्तम्।
Link copied[अधिकरण-द्वयार्थ-निगमनम्]
Link copiedसत्येनेतीत्थम्भूत-लक्षणे तृतीया; सत्येन परेण ब्रह्मणोपास्येनोपलक्षितो योऽतिवदतीत्य् अर्थः। अत एवैवꣳ शिष्यः प्रार्थयते सोऽहꣳ भगवः सत्येनातिवदानि [छान्।, ७।२६।१] इति। आचार्यश् च सत्यꣳ त्व् एव विजिज्ञासितव्यम् [छान्।, ७।२६।१] इत्य् आह॥
Link copied[आत्म-प्राणौ मिथो भिन्नौ]
Link copiedआत्मनः प्राणः [छान्।, ७।२६।१] इति च प्राण-शब्द-निर्दिष्टस्यात्मन उत्पत्तिर् उच्यते। अतः तरति शोकम् आत्म-वित् [छान्।, ७।१।३] इति प्रक्रान्त आत्मा प्राण-शब्द-निर्दिष्टाद् अन्य इति गम्यते।
Link copied[पूर्व-पक्षार्थानुवाद् अतन्-निराकरणे]
Link copiedयद् उक्तम् अस्ति भगवः प्राणाद् भूयः इति प्रश्नस्य अदो वाव प्राणाद् भूयः इति प्रतिवचनस्य चादर्शनात् प्रक्रान्तः आत्मोपदेशः प्राणोपदेश-पर्यवसानो गम्यत इति; तद् अयुक्तम्; न हि प्रश्न-प्रतिवचनाभ्याम् एवार्थान्तरत्वꣳ गम्यते; प्रमाणान्तरेणापि तत्-सम्भवात्। उक्तꣳ च प्रमाणान्तरम्।
Link copied[प्रश्न-विशेषाभावाशयः]
Link copiedअस्ति भगवः प्राणाद् भूयः इत्य् अपृच्छतोऽयम् अभिप्रायः-- नामादिष्व् आशा-पर्यन्तेष्व् अचेतनेषु पुरुषार्थ-भूयस्तया पूर्व-पूर्वम् अतिक्रान्तेष्व् अप्य् उत्तरोत्तरेषूपदिष्टेषु तत्-तद्-वेदिन आचार्येणातिवादित्वꣳ नोक्तम्; प्राण-शब्द-निर्दिष्ट-प्रत्यगात्म-याथात्म्य-वेदिनस् तु पुरुषार्थ-भूयस्त्वातिशयꣳ मन्वानेन स वा एष एवꣳ पश्यन्न् एवꣳ मन्वान एवꣳ विजानन्न् अतिवादी भवति [छान्।, ७।१५।४] इत्य् अतिक्रान्त-वस्तु-वादित्वम् उक्तम्। अतोऽत्रैव आत्मोपदेशः समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ।
Link copied[आचार्याभिप्रायः]
Link copiedआचार्यस् त्व् इदम् अपि सातिशयꣳ मत्वा निरतिशय-पुरुषार्थ-भूतꣳ सत्य-शब्दाभिधेयꣳ परꣳ ब्रह्म एष तु वा अतिवदति यः सत्येनातिवदति [छान्।, ७।१६] इति स्वयम् एवोपचिक्षेप। शिष्योऽपि परम-पुरुषार्थ-रूपे परस्मिन् ब्रह्मण्य् उपक्षिप्ते तत्-स्वरूप-तद्-उपासन-याथात्म्य-बुभुत्सया सोऽहꣳ भगवः सत्येनातिवदानि [छान्।, ७।१६] इति प्रार्थयाम् आस।
Link copied[उत्तरोपदेशस्य, विशिष्टातिवादित्व-सिद्ध्य्-अर्थता]
Link copiedततो ब्रह्म-साक्षात्कार-निमित्तातिवादित्व-सिद्धये ब्रह्म-साक्षात्कारोपाय-भूतꣳ ब्रह्मोपासनꣳ सत्यꣳ त्व् एव विजिज्ञासतिव्यम् [छान्।, ७।१६] इत्य् उपदिश्य तद्-उपाय-भूतꣳ ब्रह्म-मननꣳ मतिस् त्व् एव विजिज्ञासतिव्या [छान्।, ७।१८] इत्य् उपदिश्य श्रवण-प्रतिष्ठार्थत्वान् मननस्य मननोपदेशेन श्रवणम् अर्थ-सिद्धꣳ मत्वा श्रवणोपाय-भूताꣳ ब्रह्मणि श्रद्धाम्, श्रद्धा त्व् एव विजिज्ञासितव्या [छान्।, ७।१९] इत्य् उपदिश्य तद्-उपाय-भूताꣳ च तन्-निष्ठाꣳ निष्ठात्वेव विजिज्ञासितव्या [छान्।, ७।२०] इत्य् उपदिश्य तद्-उपाय-भूताꣳ च तद्-उद्योग-प्रयत्न-रूपाꣳ कृतिम् अपि कृतिस् त्व् एव विजिज्ञासितव्या [छान्।, ७।२१] इत्य् उपदिश्य श्रवणाद्य्-उपक्रम-रूप-कृति-सिद्धये प्राप्य-भूतस्य सत्य-शब्दाभिहितस्य ब्रह्मणः सुख-रूपता ज्ञातव्येति सुखꣳ त्व् एव विजिज्ञासितव्यम् [छान्।, ७।२२] इत्य् उपदिश्य निरतिशय-विपुलम् एव सुखꣳ परम-पुरुषार्थ-रूपꣳ भवतीति तस्यैव ब्रह्मणः सुख-रूपस्य निरतिशय-विपुलता ज्ञातव्येति भूमा त्व् एव विजिज्ञासितव्यः [छान्।, ९।२२] इत्य् उपदिश्य निरतिशय-विपुल-सुख-रूपस्य ब्रह्मणो लक्षणम् इदम् उच्यते यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा [छान्।, ७।२४।१] इति।
Link copied[भूमेतरादर्शनादौ हेतुः]
Link copiedअयम् अर्थः-- अनवधिकातिशय-सुख-रूपे ब्रह्मण्य् अनुभूयमाने ततोऽन्यत् किम् अपि न पश्यत्य् अनुभविता, ब्रह्म-स्वरूप-तद्-विभूत्य्-अन्तर्गतत्वाच् च कृत्स्नस्य वस्तु-जातस्य। अत ऐश्वर्यापरपर्याय-विभूति-गुण-विशिष्टꣳ निरतिशय-सुख-रूपꣳ ब्रह्मानुभवन् तद्-व्यतिरिक्तस्य वस्तुनोऽभावाद् एव किम् अप्य् अन्यन् न पश्यति; अनुभाव्यस्य सर्वस्य सुख-रूपत्वाद् एव दुःखꣳ च न पश्यति, तद् एव हि सुखम्, यद् अनुभूयमानꣳ पुरुषानुकूलꣳ भवति॥
Link copied[एकस्यैव जगतः सुख-दुःखोभय-रूपत्वानुपपत्ति-तत्-परिहारौ]
Link copiedननु चेदम् एव जगत्, ब्रह्मणोऽन्यतयानुभूयमानꣳ दुःख-रूपꣳ परिमित-सुख-रूपꣳ च भवत् कथम् इव ब्रह्म-विभूतित्वेन तदात्मकतयानुभूयमानꣳ सुख-रूपम् एव भवेत्।
Link copiedउच्यते-- कर्म-वश्यानाꣳ क्षेत्रज्ञानाꣳ ब्रह्मणोऽन्यत्वेनानुभूयमानꣳ कृत्स्नꣳ जगत्तत्-तत्-कर्मानुरूपꣳ दुःखꣳ च परिमित-सुखꣳ च भवति। अतो ब्रह्मणोऽन्यतया परिमित-सुखत्वेन दुःखत्वेन च जगद्-अनुभवस्य कर्म-निमित्तत्वात् कर्म-रूपाविद्या-विमुक्तस्य तद् एव जगद्-विभूति-गुण-विशिष्ट-ब्रह्मानुभवान्तर्गतꣳ सुखम् एव भवति। यथा पित्तोपहतेन पीयमानꣳ पयः पित्त-तारतम्येनाल्प-सुखꣳ विपरीतꣳ च भवति; तद् एव पयः पित्तानुपहतस्य सुखायैव भवति; यथैव राज-पुत्रस्य पितुर् लीलोपकरणम् अतथात्वेनानुसन्धीयमानꣳ प्रियत्वम् अनुपगतꣳ तथात्वानुसन्धाने प्रियतमꣳ भवति; तथा निरतिशयानन्द-स्वरूपस्य ब्रह्मणोऽनविधकातिशयासङ्ख्येय-कल्याण-गुणाकरस्य लीलोपकरणꣳ तदात्मकꣳ चानुसन्धीयमानꣳ जगन्-निरतिशय-प्रीतये भवत्य् एव।
Link copied[यत्र नान्यद् इति श्रुत्य्-अर्थ-निरूपणम्]
Link copiedअतो जगद्-ऐश्वर्य-विशिष्टम् अनवधिकातिशय-सुख-रूपꣳ ब्रह्मानुभवꣳस् ततोऽन्यत् किम् अपि न पश्यति; दुःखꣳ च न पश्यति। एतद् एवोपपादयति वाक्य-शेषः स वा एष एवꣳ पश्यन्न् एवꣳ मन्वान एवꣳ विजानन्न् आत्म-रतिर् आत्म-क्रीड आत्म-मिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु काम-चारो भवत्य् अथ येऽन्यथातो विदुर् अन्य-राजानस् ते क्षय्य-लोका भवन्ति तेषाꣳ सर्वेषु लोकेष्व् अकाम-चारो भवति [छान्।, ७।२५।२] इति। स्वराट्-- अकर्म-वश्यः। अन्य-राजानः-- कर्म-वश्याः। तथा न पश्यो मृत्युꣳ पश्यति न रोगꣳ नोत दुःखताम्। सर्वꣳ ह पश्यः पश्यति सर्वम् आप्नोति सर्वशः इति च।
Link copied[उक्तार्थ-निगमनम्]
Link copiedनिरतिशय-सुख-रूपत्वꣳ च ब्रह्मणः आनन्द-मयोऽभ्यासात् [ब्र। सू। १।१।१२] इत्य् अत्र प्रपञ्चितम्। अतः प्राण-शब्द-निर्दिष्टात् प्रत्यगात्मनोऽर्थान्तर-भूतस्य सत्य-शब्दाभिधेयस्य ब्रह्मणो भूमेत्य् उपदेशाद् भूमा परꣳ ब्रह्म॥७॥
Link copied७३ धर्मोपपत्तेश् च॥१।३।८॥
Link copied[पूर्व-सूत्रोक्तार्थे उपपत्ति-बोधक-सूत्र-व्याख्या]
Link copiedअस्य भूम्नो ये धर्मा आम्नायन्ते; तेऽपि परस्मिन्न् एवोपपद्यन्ते। एतद् अमृतम् [छान्।, ७।२४।१] इति स्वाभाविकम् अमृतत्वम्, स्वे महिम्नि [छान्।, ७।१४।१] इत्य् अनन्याधारत्वम्, स एवाधस्तात् [छान्।, ७।२५।१] इत्य् आदि स एवेदꣳ सर्वम् [छान्।, ५।२५।१] इति सर्वात्मकत्वम्, आत्मतः प्राणः [छान्।, ७।२६।१] इत्य् आदि प्राण-प्रभृति-सर्वस्योत्पादकत्वम् इत्य् आदयो हि धर्माः परमात्मन एव।
Link copied[पूर्व-पक्ष-युक्तेः परिहारः]
Link copiedयत् तु अहम् एवाधस्तात् [छान्।, ७।२५।१] इत्य् आदिना सर्वात्मकत्वम् उपदिष्टम्, तद् भूम-विशिष्टस्य ब्रह्मणोऽहङ्ग्रहेणोपासनम् उपदिश्यते अथातोऽहङ्कारादेशः [छान्।, ७।२५।१] इत्य् अहङ्ग्रहोपदेशोपक्रमात्। अहम्-अर्थस्य प्रत्यगात्मनोऽपि ह्य् आत्मा परमात्मेत्य् अन्तर्यामि-ब्राह्मणादिषूक्तम्। अतः प्रत्यग्-अर्थस्य परमात्म-पर्यवसानाद् अहꣳ-शब्दोऽपि परमात्म-पर्यवसायीति प्रत्यगात्म-शरीरकत्वेन परमात्मानुसन्धानार्थोऽयम् अहङ्ग्रहोपदेशः। परमात्मनः सर्व-शरीरतया सर्वात्मत्वात् प्रत्यगात्मनोऽप्य् आत्मा परमात्मा। तद् एव अथात आत्मादेशः [छान्।, ७।२५।२] इत्य् आदिना आत्मैवेदꣳ सर्वम् [छान्।, ७।२५।२] इत्य् अन्तेनोच्यते।
Link copied[उक्तार्थस्य श्रुत्या कण्ठोक्तत्वोपपादनम्]
Link copiedएतद् एवोपपादयितुꣳ प्रत्यगात्मनोऽप्य् आत्म-भूतात् परमात्मनः सर्वस्योत्पत्तिर् उच्यते तस्य ह वा एतस्यैवꣳ पश्यत एवꣳ मन्वानस्यैवꣳ विजानत आत्मतः प्राण आत्मत आकाशः [छान्।, ७।२६।१] इत्य् आदिना। उपासकस्यान्तर्यामितयावस्थितात् परमात्मनः सर्वस्योत्पत्तिर् इत्य् अर्थः। अतः परमात्मनः प्रत्यगात्म-शरीरकत्व-ज्ञान-प्रतिष्ठार्थम् अहङ्ग्रहोपासनꣳ कर्तव्यम्। तस्माद् भूम-विशिष्टः परमात्मेति सिद्धम्॥८॥
Link copiedइति भूमाधिकरणम्॥२॥
Link copiedअक्षराधिकरणम्॥३॥
Link copied[अधिकरणार्थः-- अक्षर-शब्द-वाच्यः प्रधानस्याप्य् आधारतया निर्दिष्टः परमात्मैव]
Link copied[गार्ग्य्-अक्षर-विद्या। बृहद्।, ५।८]
Link copied७४ अक्षरम् अम्बरान्त-धृतेः॥१।३।९॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedवाजसनेयिनो गार्गी-प्रश्ने समामनन्ति सहोवाचैतद् वै तद् अक्षरꣳ गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनणु अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् [बृहद्।, ५।८।८] इत्य् आदि।
Link copied[सꣳशय-प्रकारः]
Link copiedतत्र सꣳशयः-- किम् एतद् अक्षरꣳ प्रधानम्, जीवो वा उत परमात्मा इति। किꣳ युक्तꣳ प्रधानम् इति। कुतः। अक्षरात् परतः परः [मुण्ड्।, २।१।२] इत्य् आदिष्व् अक्षर-शब्दस्य प्रधाने प्रयोग-दर्शनाद् अस्थूलत्वादीनाꣳ च तत्र समन्वयात्।
Link copied[सिद्धान्तिनः पार्श्व-स्थस्य वा चोद्यम्, तत्-परिहारश् च]
Link copiedयया तद् अक्षरम् अधिगम्यते [मुण्ड्।, १।१।५] इत्य् आदिषु परस्मिन्न् अप्य् अक्षर-शब्दो दृश्यत इति चेन् न, प्रमाणान्तर-प्रसिद्ध-श्रुति-प्रसिद्धयोः प्रमाणान्तर-प्रसिद्धस्य प्रथम-प्रतीतेः प्रतीत-परिग्रहे विरोधाभावात्। किꣳ च यद् ऊर्ध्वꣳ गार्गि दिवो, यद् अर्वाक् पृथिव्याः [बृहद्।, ५।८।७] इत्य् आरभ्य सर्वस्य काल-त्रितय-वर्तिनः कारण-भूताकाशाधारत्वे प्रतिपादिते कस्मिन् नु खल्व् आकाशः ओतश् च प्रोतश् च [बृहद्।, ५।८।६] इत्य् आकाशस्यापि कारणꣳ तद्-आधार-भूतꣳ किम् इति पृष्टे प्रत्युच्यमानम् अक्षरꣳ सर्व-विकार-कारणतया तद्-आधार-भूतꣳ प्रमाणान्तर-प्रसिद्धꣳ प्रधानम् इति प्रतीयते; अतोऽक्षरꣳ प्रधानम्॥
Link copied[सिद्धान्तारम्भः]
Link copiedइति प्राप्ते उच्यते-- अक्षरम् अम्बरान्त-धृतेर् अक्षरꣳ-- परꣳ ब्रह्म। कुतः। अम्बरान्त-धृतेः; अम्बरस्य-- आकाशस्य, अन्तः-- पारभूतम् अव्याकृतम् अम्बरान्तः; तस्य धृतेस् तद्-आधारतयास्याक्षरस्योपदेशाद् इति यावत्।
Link copied[सूत्राशयः]
Link copiedअयम् अर्थः--- कस्मिन् नु खल्व् आकाशः ओतश् च प्रोतश् च [बृहद्।, ५।८।७] इत्य् अत्राकाश-शब्द-निर्दिष्टꣳ न वायुम् अदम्बरम् अपि तु तत्-पार-भूतम् अव्याकृतम्, अतस् तस्याव्याकृतस्याप्य् आधारत्वेनोच्यमानम् अक्षरꣳ नाव्याकृतꣳ भवितुम् अर्हति-- इति।
Link copied[आशङ्का-पूर्वकम् उक्तार्थे गमक-प्रदर्शनम्]
Link copiedनन्व् आकाश-शब्द-निर्दिष्टो न वायुमान् इति कथम् अवगम्यते; उच्यते यद् ऊर्ध्वꣳ गार्गि दिवो यद् अर्वाक् पृथिव्या यद् अन्तरा द्याव् आपृथिवी इमे यद् भूतꣳ च भवच् च भविष्यच् चेत्य् आचक्षते आकश एव तद् ओतꣳ च प्रोतꣳ च [बृहद्।, ५।८।१] इत्य् उक्ते त्रैकाल्य-वर्तिनो विकार-जातस्याधारतया निर्दिष्ट आकाशो न वायुमद्-आकाशो भवितुम् अर्हति; तस्यापि विकारान्तर्गतत्वात्। अतोऽत्राकाश-शब्द-निर्दिष्टꣳ भूत-सूक्ष्मम् इति प्रतीयते। ततस् तस्यापि भूत-सूक्ष्मस्याधार-भूतꣳ किम् इति पृच्छ्यते कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् च [बृहद्।, ५।८।७] इति। अतस् तद्-आधारतया निर्दिश्यमानम् अक्षरꣳ न प्रधानꣳ भवितुम् अर्हति॥
Link copied[आशङ्कितार्थस्यानुवाद-पूर्वकꣳ निरासः]
Link copiedयत् तु श्रुति-प्रसिद्धात् प्रमाणान्तर-प्रसिद्धꣳ प्रथमꣳ प्रतीयत इति, तन् न, अक्षर-शब्दस्यावयव-शक्त्या स्वार्थ-प्रतिपादने प्रमाणान्तरानपेक्षणात्; सम्बन्ध-ग्रहण-दशायाम् अर्थ-स्वरूपꣳ येन प्रमाणेनावगम्यते, न तत्-प्रतिपादन-दशायाम् अपेक्षणीयम्॥९॥
Link copied[उत्तर-सूत्रावतारिका शङ्का]
Link copiedएवꣳ तर्ह्य् अक्षर-शब्द-निर्दिष्टो जीवोऽस्तु, तस्य भूत-सूक्ष्म-पर्यन्तस्य कृत्स्नस्याचिद्-वस्तुन आधारत्वोपपत्तेः; अस्थूलत्वाद्य्-उच्यमान-विशेषणोपपत्तेश् च अव्यक्तम् अक्षरे लीयते [सुबाल २] यस्याव्यक्तꣳ शरीरꣳ, यस्याक्षरꣳ शरीरꣳ [सुबाल, ७] क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते [भ। गी। १५।१६] इत्य् आदिषु प्रत्यगात्मन्य् अप्य् अक्षर-शब्द-प्रयोग-दर्शनाद् इत्य् अत्रोत्तरम्
Link copied७५ सा च प्रशासनात्॥१।३।१०॥
Link copiedसा चाम्बरान्त-धृतिर् अस्याक्षरस्य प्रशासनाद् एव भवतीत्य् उपदिश्यते एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव् आपृथिव्यौ विधृते तिष्ठतः; एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहो-रात्राण्य् अर्ध-मासा मासा ऋतवः सꣳवत्सरा इति विधृतास् तिष्ठन्ति [बृहद्।, ५।८।९] इत्य् आदिना। प्रशासनꣳ प्रकृष्टꣳ शासनम्। न चेदृशꣳ स्व-शासनाधीन-सर्व-वस्तु-विधरणꣳ बद्ध-मुक्तोभयावस्थस्यापि प्रत्यगात्मनः सम्भवति। अतः पुरुषोत्तम एव प्रशासित्रक्षरम्॥१०॥
Link copied७६ अन्य-भाव-व्यावृत्तेश् च॥१।३।११॥
Link copied[प्रशासितुर् अक्षरस्य प्रकृति-पुरुषाधिकता]
Link copiedअन्य-भावः-- अन्यत्वम्, प्रधानादि-भावः। अस्याक्षरस्य परम-पुरुषाद् अन्यत्वꣳ वाक्य-शेषे व्यावर्त्यते तद् वा एतद् अक्षरꣳ गार्ग्य् अदृष्टꣳ द्रष्ट्रश्रुतꣳ श्रोत्र-मतꣳ मन्तृ अविज्ञातꣳ विज्ञातृ नान्यद् अतोऽस्ति द्रष्टृ नान्यद् अतोऽस्ति श्रोतृ, नान्यद् अतोऽति मन्तृ, नान्यद् अतोऽस्ति विज्ञातृ, एतस्मिन् नु खल्व् अक्षरे गार्ग्य् आकाश ओतश् च प्रोतश् च [बृहद्।, ५।८।११] इति। अत्र द्रष्टुत्व-श्रोतृत्वाद्य्-उपदेशाद् अस्य अक्षरस्याचेतन-भूत-प्रधान-भावो व्यावर्त्यते; सर्वैर् अदृष्टस्यैव सतः सर्वस्य द्रष्टृत्वाद्य्-उपदेशाच् च प्रत्यगात्म-भावो व्यावर्त्यते। अत इयम् अन्य-भाव-व्यावृत्तिर् अस्याक्षरस्य परम-पुरुषताꣳ द्रढयति। एवꣳ वान्य-भाव-व्यावृत्तिः-- अन्यस्य सद्-भाव-व्यावृत्तिर् अन्य-भाव-व्यावृत्तिः, यथैतद्-अक्षरम् अन्यैर् अदृष्टꣳ सद् अन्येषाꣳ द्रष्टृ च सत्स्वव्यतिरिक्तस्य समस्तस्याधार-भूतम्, एवम् अनेनादृष्टम् एतस्य द्रष्टृ च सद् एतस्याधार-भूतम् अन्यन् नास्तीति वदन् नान्यदतोऽस्ति द्रष्टृ [बृहद्।, ५।८।११] इत्य् आदि वाक्य-शेषोऽन्यस्य सद्-भावꣳ व्यावर्तयन्न् अस्याक्षरस्य प्रधान-भावꣳ प्रत्यगात्म-भावꣳ च प्रतिषेधति।
Link copied[सूत्रस्थ च शब्दस्य आशयः]
Link copiedकिꣳ च--- एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशꣳसन्ति यजमानꣳ देवा दर्वीꣳ पितरोऽन्वायत्ताः [बृहद्।, ५।८।९] इति श्रौतꣳ स्मार्तꣳ च याग-दान-होमादिकꣳ सर्वꣳ कर्म यस्याज्ञया प्रवर्तते; तद् अक्षरꣳ परब्रह्म-भूतः पुरुषोत्तम एवेति विज्ञायते। अपि च यो वा एतद् अक्षरꣳ गार्ग्य् अविदत्वास्मिꣳल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्ष-सहस्राण्य् अन्तवद् एवास्य तद् भवति यो वा एतद् अक्षरꣳ गार्ग्य् अविदित्वास्माꣳल् लोकात् प्रैति स कृपणः, अथ य एतद् अक्षरꣳ गार्गि विदित्वास्माꣳल् लोकात् प्रैति स ब्राह्मणः [बृहद्।, ५।८।१०] इति यद् अज्ञानात् सꣳसार-- प्राप्तिर् यज्-ज्ञानाच् चामृतत्व-प्राप्तिस् तद् अक्षरꣳ परꣳ ब्रह्मैवेति सिद्धम्॥११॥
Link copiedइत्य् अक्षराधिकरणम्॥३॥
Link copiedईक्षति-कर्माधिकरणम्॥४॥
Link copied[अधिकरणार्थः-- पुरुषम् ईक्षते इत्य् उक्तेक्षण-क्रिया-कर्म-भूतः पुरुष-शब्द-वाच्योऽर्थः परमात्मैव, न समष्टि-पुरुषः]
Link copied[त्रि-मात्र-प्रणव-पुरुष-विद्या-- प्रश्। ५।५]
Link copied७७ ईक्षित-कर्म व्यपदेशात् सः॥१।३।१२॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedआथर्वणिकाः सत्यकाम-प्रश्नेऽधीयते-- यः पुनर् एतꣳ त्रि-मात्रेणौम् इत्य् अनेनैवाक्षरेण परꣳ पुरुषम् अभिध्यायीत स तेजसि सूर्ये सम्पन्नः। यथा पादोदरस् त्वचा विनिर्मुच्यते एवꣳ ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकꣳ स एतस्माज् जीव-घनात् परात्परꣳ पुरिशयꣳ पुरुषम् ईक्षते [प्रश्।, ५।५] इति।
Link copied[ध्यै-धातोर् ईक्षण-धातोश् चात्र समान-कर्मकता]
Link copiedअत्र ध्यायतीक्षति-शब्दाव् एक-विषयौ, ध्यान-फलत्वाद् ईक्षणस्य, यथाक्रतुर् अस्मिꣳल् लोके पुरुषः [छान्।, ३।१४।१] इति न्यायेन ध्यान-विषयस्यैव प्राप्यत्वात्, परꣳ पुरुषम् [प्रश्।, ५।१] इत्य् उभयत्र कर्म-भूतस्यार्थस्य प्रत्यभिज्ञानाच् च।
Link copied[सꣳशयाकार-प्रदर्शनम्]
Link copiedतत्र सꣳशय्यते-- किम् इह, परꣳ पुरुषम् [प्रश्।, ५।१] इति निर्दिष्टो जीव-समष्टि-रूपोऽण्डाधिपतिश् चतुर्मुखः, उत सर्वेश्वरः पुरुषोत्तमः-- इति।
Link copied[सयुक्तिकः पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ समष्टि-क्षेत्रज्ञ इति। कुतः। स यो ह वैतद् भगवन् मनुष्येषु प्रायणान्तम् ओङ्कारम् अभिध्यायीत कतमꣳ वाव स तेन लोकꣳ जयति [प्रश्।, ५।१] इति प्रक्रम्यैक-मात्रꣳ प्रणवम् उपासीनस्य मनुष्य-लोक-प्राप्तिम् अभिधाय, द्वि-मात्रम् उपासीनस्य अन्तरिक्ष-लोक-प्राप्तिम् अभिधाय, त्रि-मात्रम् उपासीनस्य प्राप्यतयाभिधीयमानो ब्रह्म-लोकोऽन्तरिक्षात् परो जीव-समष्टि-रूपस्य चतुर्मुखस्य लोक इति विज्ञायते, तद्-गतेन चेक्ष्यमाणस् तल्-लोकाधिपतिश् चतुर्मुख एव। एतस्माज् जीव-घनात् परात्परम् [प्रश्।, ५।१] इति च देहेन्द्रियादिभ्यः पराद् देहेन्द्रियादिभिः सह घनीभूताज् जीव-व्यष्टि-पुरुषाद् ब्रह्म-लोक-वासिनः समष्टि-पुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते। अतोऽत्र निर्दिश्यमानः परः पुरुषः समष्टि-पुरुषश् चतुर्मुख एव। एवꣳ चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथञ्चिन् नेतव्याः।
Link copied[सिद्धान्तारम्भः]
Link copiedइति प्राप्ते प्रचक्षमहे-- ईक्षति-कर्म-व्यपदेशात् सः-- ईक्षति-कर्म सः-- परमात्मा। कुतः। व्यपदेशात्-- व्यपदिश्यते हीक्षति-कर्म परमात्मत्वेन। तथा हि ईक्षति-कर्म-विषयतयोदाहृते श्लोके तम् ओङ्कारेणैवायनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयꣳ परꣳ च [प्रश्।, ५।७] इति। परꣳ शान्तम् अजरम् अभयम् अमृतम् इति हि परमात्मन एवैतद् रूपम्, एतद् अमृतम् एतद् अभयम् एतद् ब्रह्म [छान्।, ४।१५।१] इत्य् एवम् आदि श्रुतिभ्यः। एतस्माज् जीव-घनात् परात्परम् [प्रश्।, ५।५] इति च परमात्मन एव व्यपदेशः न चतुर्मुखस्य, तस्यापि जीव-घन-शब्द-गृहीतत्वात्। यस्य हि कर्म-निमित्तꣳ देहित्वꣳ स जीव-घन इत्य् उच्यते; चतुर्मुखस्यापि तच् छ्रूयते यो ब्रह्माणꣳ विदधाति पूर्वम् [श्वे।, ६।१८] इत्य् आदौ।
Link copied[चतुर्मुख-परत्वे युक्तिः, तन्-निरासश् च]
Link copiedयत् पुनर् उक्तम् अन्तरिक्ष--लोकस्योपरि-निर्दिश्यमानो ब्रह्म-लोकश् चतुर्मुख-लोक इति प्रतीयते, अतस् तत्रस्थश् चतुर्मुख इति तद् अयुक्तम्, यत् तच् छान्तम् अजरम् अमृतम् अभयम् [प्रश्।, ५।७] इत्य् आदिनेक्षति-कर्मणः परमात्मत्वे निश्चिते सति ईक्षितुः स्थानतया निर्दिष्टो ब्रह्म-लोको न क्षयिष्णुश् चतुर्मुख-लोको भवितुम् अर्हति।
Link copied[परमात्म-स्थान-परत्वेऽभ्युच्चायक-युक्तिः]
Link copiedकिꣳ च यथा पादोदरस् त्वचा विनिर्मुच्यते एवꣳ ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकम् [प्रश्।, ५।२] इति सर्व-पाप-विनिर्मुक्तस्य प्राप्यतयोच्यमानꣳ न चतुर्मुख-स्थानम्। अत एव चोदाहरण-श्लोके इमम् एव ब्रह्म-लोकम् अधिकृत्य श्रूयते यत् तत् कवयो वेदयन्ते [सुबाल, ६] इति। कवयः-- सूरयः। सूरिभिर् दृश्यꣳ च वैष्णवꣳ पदम् एव, तद् विष्णोः परमꣳ पदꣳ सदा पश्यन्ति सूरयः [प्रश्।, ५।२] इत्य् एवम् आदिभ्यः। न चान्तरिक्षात् परश् चतुर्मुख-लोको मध्ये स्वर्ग-लोकादीनाꣳ बहूनाꣳ सद्-भावात्। अतः एतद् वै सत्यकाम परꣳ चापरꣳ ब्रह्म यद् ओङ्कारस् तस्माद् विद्वान् एतेनैव अयनेनैकतरम् अन्वेति [सुबाल, ६] इति प्रतिवचने यद् अपरꣳ कार्यꣳ ब्रह्म निर्दिष्टꣳ तद् ऐहिकामुष्मिकत्वेन द्विधा विभज्यैक-मात्र-प्रणवम् उपासीनानाम् ऐहिकꣳ मनुष्य-लोकावाप्ति-रूपꣳ फलम् अभिधाय, द्वि-मात्रम् उपासीनानाम् आमुष्मिकम् अन्तरिक्ष-शब्दोपलक्षितꣳ फलꣳ चाभिधाय, त्रि-मात्रेण परब्रह्म-वाचिना प्रणवेन परꣳ पुरुषꣳ ध्यायताꣳ परम् एव ब्रह्म प्राप्यतयोपदिशतीति सर्वꣳ समञ्जसम्। अत ईक्षित-कर्म परमात्मा॥
Link copiedइति ईक्षति-कर्माधिकरणम्॥४॥
Link copiedदहराधिकरणम्॥५॥
Link copied[अधिकरणार्थः-- दहराकाश-शब्द-वाच्यः परमात्मैव, न भूताकाशः, नापि प्रत्यगात्मा]
Link copied[दहर-विद्या-- छान्।, ८।१]
Link copied७८ दहर उत्तरेभ्यः॥१।३।१३॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedइदम् आमनन्ति छन्दोगाः अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डरीकꣳ वेश्म दहरोऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यꣳ तद् वाव विजिज्ञासतिव्यम् [छान्।, ८।१।१] इति।
Link copied[सꣳशयाकार-प्रदर्शनम्]
Link copiedतत्र सन्देहः-- किम् असौ हृदय पुण्डरीक-मध्य-वर्ती दहराकाशो महाभूत-विशेषः, उत प्रत्यगात्मा, अथ परमात्मा-- इति।
Link copied[पूर्व-पक्षः]
Link copiedकिꣳ तावद् युक्तम्। महाभूत-विशेष इति। कुतः। आकाश-शब्दस्य भूताकाशे ब्रह्मणि च प्रसिद्धत्वेऽपि भूताकाशे प्रसिद्धि-प्रकर्षात्। तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छान्।, ८।१।१] इत्य् अन्वेष्टव्यान्तरस्याधारतया प्रतीतेश् च।
Link copied[सिद्धान्तारम्भः]
Link copiedइत्य् एवꣳ प्राप्तेऽभिधीयते-- दहर उत्तरेभ्यः-- दहराकाशः परꣳ ब्रह्म; कुतः। उत्तरेभ्यो वाक्य-गतेभ्यो हेतुभ्यः।
Link copied[सिद्धान्तार्थोपपादनम्]
Link copiedएष आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [छान्।, ८।१।५] इति निरुपाधिकात्मत्वम् अपहत-पाप्मत्वादिकꣳ सत्य-कामत्वꣳ सत्य-सङ्कल्पत्वꣳ चेति दहराकाशे श्रूयमाणा गुणा दहराकाशꣳ परꣳ ब्रह्मेति ज्ञापयन्ति। अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामाꣳस् तेषाꣳ सर्वेषु लोकेषु काम-चारो भवति [छान्।, ८।१।६] इत्य् आदिना यꣳ कामꣳ कामयते सोऽस्य सङ्कल्पाद् एव समुत्तिष्ठति तेन सम्पन्नो महीयते [छान्।, ८।२।१०] इत्य् अन्तेन दहराकाश-वेदिनः सत्य-सङ्कल्पत्व-प्राप्तिश् चोच्यमाना दहराकाशꣳ परꣳ ब्रह्मेत्य् अवगमयति।
Link copied[आकाशयोर् उपमानोपमेयभावः]
Link copiedयावान् वा अयम् आकाशस् तावान् एषोऽन्तर् हृदय आकाशः [छान्।, ८।१।३] इत्य् उपमानोपमेय-भावश् च दहराकाशस्य भूताकाशत्वे नोपपद्यते। हृदयावच्छेद-निबन्धन उपमानोपमेय-भाव इति चेत्-- तथा सति हृदयावच्छिन्नस्य द्याव् आपृथिव्यादि-सर्वाश्रयत्वꣳ नोपपद्यते।
Link copied[औपम्यानुपपत्ति-शङ्का-- परिहारौ]
Link copiedननु च दहराकाशस्य परमात्मत्वेऽपि बाह्याकाशोपमेयत्वꣳ न सम्भवति ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षात् [छान्।, ३।१४।३] इत्य् आदौ सर्वस्माज् ज्यास्त्व-श्रवणात्-- नैवम्, दहराकाशस्य हृदय-पुण्डरीक-मध्य-वर्तित्व-प्राप्ताल्पत्व-निवृत्ति-परत्वाद् अस्य वाक्यस्य; यथा अधिक-जवेऽपि सवितरि इषुवद् गच्छति सविता इति वचनꣳ गति-मान्द्य-निवृत्ति-परम्।
Link copied[दहर-शब्दस्य परमात्म-परस्य आशङ्का-परिहारौ]
Link copiedअथ स्यात्-- एष आत्मापहत-पाप्मा [छान्।, ८।१।५] इत्य् आदिना दहराकाशो न निर्दिश्यते दहरोऽस्मिन्न् अन्तर् आकाशः तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छान्।, ८।१।१] इति दहराकाशान्तर्वर्तिनः ततोऽन्यस्यान्वेष्टव्यत्वेन प्रकृतत्वाद् इह एष आत्मापहत-पाप्मा [छान्।, ८।१।५] इति तस्यैवान्वेष्टव्यस्य निर्देष्टुꣳ युक्तत्वात्; स्याद् एतद् एवम्, यदि श्रुतिर् एव दहराकाशꣳ तद्-अन्तर्वर्तिनꣳ च न व्यभाङ्क्ष्यत्; व्यभाङक्षीत् तु सा; तथा ह्य् अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डरीकꣳ वेश्म दहरोऽस्मिन्न् अन्तर् आकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छान्।, ८।१।१] इति ब्रह्म-पुर-शब्देनोपास्यतया सन्निहित-परब्रह्मणः पुरत्वेनोपासक-शरीरꣳ निर्दिश्य तन्-मध्य-वर्ति च तद्-अवयव-भूतꣳ पुण्डरीकाकारम् अल्प-परिमाणꣳ हृदयꣳ परस्य ब्रह्मणो वेश्मतयाभिधाय सर्वज्ञꣳ सर्व-शक्तिम् आश्रित-वात्सल्यैक-जलधिम् उपासकानुग्रहाय तस्मिन् वेश्मनि सन्निहितꣳ सूक्ष्मतया ध्येयꣳ दहराकाश-शब्देन निर्दिश्य तद्-अन्तर्वर्ति चापहत-पाप्मत्वादि-स्वभावतो निरस्त-निखिल-हेयत्व सत्य-कामत्वादि-स्वाभाविकानवधिकातिशय-कल्याण-गुण-जातꣳ च ध्येयꣳ तद् अन्वेष्टव्यम् [छान्।, ८।१।१] इत्य् उपदिश्यते।
Link copied[अन्वेष्टव्यम् उभयम्]
Link copiedअत्र तद् अन्वेष्टव्यम् [छान्।, ८।१।१] इति तच्-छब्देन दहराकाशम्, तद्-अन्तर्वर्ति-गुण-जातꣳ च परामृश्य तद्-उभयम् अन्वेष्टव्यम् इत्य् उपदिश्यते; यद् इदम् अस्मिन् ब्रह्म-पुरे दहरꣳ पुण्डरीकꣳ वेश्म [छान्।, ८।१।१] इत्य् अनूद्य तस्मिन् दहर-पुण्डरीक-वेश्मनि यो दहराकाशः, यच् च तद्-अन्तर्वर्ति-गुण-जातम्, तद्-उभयम् अन्वेष्टव्यम् इति विधीयत इत्य् अर्थः।
Link copied[गुणिनो गुण-जातस्य चान्वेष्टव्यत्वे गमक-चिन्ता]
Link copiedदहराकाश-शब्द-निर्दिष्टस्य परब्रह्मत्वꣳ तस्मिन् यद् अन्तः [छान्।, ८।१।१] इति निर्दिष्टस्य च तद्-गुणत्वम्, तच्-छब्देनोभयꣳ परामृश्योभयस्याप्य् अन्वेष्टव्यतया विधानꣳ च कथम् अवगम्यत इति चेत्--
Link copied[उक्तार्थे गमक-प्रदर्शनम्]
Link copiedतद्-अवहित-मनाः शृणु-- यावान् वायम् आकाशस् तावान् एषोऽन्तर् हृदय आकाशः [छान्।, ८।१।३] इति दहराकाशस्यातिमहत्ताम् अभिधाय उभे अस्मिन् द्याव् आपृथिवी अन्तर् एव समाहिते उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन्न् अक्षत्राणि [छान्।, ८।१।३] इति प्रकृतम् एव दहराकाशम् अस्मिन्न् इति निर्दिश्य, तस्य सर्व-जगद्-आधारत्वम् अभिधाय यच् चास्येहास्ति यच् च नास्ति सर्वꣳ तद् अस्मिन् समाहितम् [छान्।, ८।१।३] इति पुनर् अप्य् अस्मिन्न् इति तम् एव दहराकाशꣳ परामृश्य तस्मिन्न् अस्योपासकस्येह लोके यद् भोग्य-जातम् अस्ति, यच् च मनोरथ-मात्र-गोचरम् इह नास्ति, सर्वꣳ तद्-भोग्य-जातम् अस्मिन् दहराकाशे समाहितम् इति निरतिशय-भोग्यत्वꣳ दहराकाशस्याभिधाय तस्य दहराकाशस्य देहावयव-भूत-हृदयान्तर्वर्तित्वेऽपि देहस्य जरा-प्रध्वाꣳसादौ सत्य् अपि परम-कारणतयातिसूक्ष्मत्वेन निर्विकारत्वम् उक्त्वा तत एव एतत् सत्यꣳ ब्रह्म-पुरम् [छान्।, ८।१।५] इति तम् एव दहराकाशꣳ सत्य-भूतꣳ ब्रह्माख्यꣳ पुरꣳ निखिल-जगद्-आवास-भूतम् इत्य् उपपाद्य अस्मिन् कामाः समाहिताः [छान्।, ८।१।५] इति दहराकाशम् अस्मिन्न् इति निर्दिश्य काम्य-भूताꣳश् च गुणान् कामा इति निर्दिश्य तेषाꣳ दहराकाशान्तर्वर्तित्वम् उक्त्वा तद् एव दहराकाशस्य काम्य-भूत-कल्याण-गुण-विशिष्टत्वꣳ तस्यात्मत्वꣳ च एष आत्मापहत-पाप्मा [छान्।, ८।१।५] इत्य् आदिना सत्य-सङ्कल्पः [छान्।, ८।१।५] इत्य् अन्तेन स्फुटीकृत्य यथा ह्य् एवेह प्रजा अन्वाविशन्ति [छान्।, ८।१।५] इत्य् आरभ्य तेषाꣳ सर्वेषु लोकेष्व् अकाम-चारो भवति [छान्।, ८।१।६] इत्य् अन्तेन तद् इदꣳ गुणाष्टकꣳ तद् विशिष्टꣳ दहराकाश-शब्द-निर्दिष्टम् आत्मानꣳ चाविदुषाम् एतद् व्यतिरिक्त-भोग्य-सिद्धये च कर्म कुर्वताम् अन्तवत्-फलावाप्तिम् असत्य-सङ्कल्पत्वꣳ चाभिधाय अथ य इहात्मानम् अनुविद्य व्रजन्त्य् एताꣳश् च सत्यान् कामाꣳस् तेषाꣳ सर्वेषु लोकेषु काम-चारो भवति [छान्।, ८।१।६] इत्य् आदिना दहराकाश-शब्द-निर्दिष्टमात्मानꣳ तद्-अन्तर्वर्तिनश् च काम्य-भूतानपहत-पाप्मत्वादिकान् गुणान् विजानताम् उदार-गुण-सागरस्य तस्य परम-पुरुषस्य प्रसादाद् एव सर्व-कामावाप्तिः सत्य-सङ्कल्पता चोच्यते।
Link copied[उभयस्यान्वेष्टव्यता निगमनम्]
Link copiedअतो दहराकाशः परꣳ ब्रह्म, तद्-अन्तर्वर्ति चापहत-पाप्मत्वादि-काम्य-गुण-जातम्, तद् उभयम् अन्वेष्टव्यꣳ विजिज्ञासतिव्यम् इति चोच्यत इति निश्चीयते। तद् एतद् वाक्य-कारोऽपि स्पष्टयति तस्मिन् यद् अन्तर् इति काम-व्यपदेशः [वाक्यꣳ] इत्य् आदिना। अत एतेभ्यो हेतुभ्यो दहराकाशः परम् एव ब्रह्म॥१३॥
Link copied७९ गति-शब्दाभ्याꣳ तथा हि दृष्टꣳ लिङ्गꣳ च॥१।३।१४॥
Link copied[सूत्रार्थ-विवरणम्]
Link copiedतश् च दहराकाशः परꣳ ब्रह्म। तद् यथा हिरण्य-निधिꣳ निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुर् एवम् एवेमाः सर्वाः प्रजा अहर् अहर् गच्छन्त्य एतꣳ ब्रह्म-लोकꣳ न विन्दन्त्य् अनृतेन हि प्रत्यूढाः [छान्।, ८।३।२] इति एतम् इति प्रकृतꣳ दहराकाशꣳ निर्दिश्य तत्राहर् अहः सर्वेषाꣳ क्षेत्रज्ञानाꣳ गमनम्, गन्तव्यस्य तस्य दहराकाशस्य ब्रह्म-लोक-शब्द-निर्देशश् च दहराकाशस्य परब्रह्मताꣳ गमयतः।
Link copied[गति-शब्दयोः परमात्म-साधकत्वोपपादनम्]
Link copiedकथम् अनयोर् अस्य परब्रह्मत्व-साधकत्वम् इत्य् अत आह-- तथा हि दृष्टम्-- इति। परस्मिन् ब्रह्मणि सर्वेषाꣳ क्षेत्रज्ञानाम् अहर् अहः सुषुप्ति-काले गमनम् अन्यत्राभिधीयमानꣳ दृष्टम्-- एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पत्स्यामहे इति [छान्।, ८।९।२] इति, सत आगम्य न विदुः सत आगच्छामह इति [छान्।, ८।९।२] इति च। तथा ब्रह्म-लोक-शब्दश् च परस्मिन् ब्रह्मणि दृष्टः एष ब्रह्म-लोकः सम्राड् इति होवाच [बृहद्।, ६।३।३३] इति।
Link copied[अवशिष्ट-सूत्र-खण्डार्थः]
Link copiedमा भूद् अन्यत्र ब्रह्मणि गमन-दर्शनम्; एतद् एव तु दहाराकाशे सर्वेषाꣳ क्षेत्रज्ञानाꣳ प्रलय-काल इव निरस्त-निखिल-दुःखानाꣳ सुषुप्ति-कालेऽवस्थानꣳ श्रूयमाणम् अस्य परब्रह्मत्वे पर्याप्तꣳ लिङ्गम्; तथा ब्रह्म-लोक-शब्दश् च समानाधिकरण-वृत्त्यास्मिन् दहाराकाशे प्रयुज्यमानोऽस्य ब्रह्मत्वे प्रयोगान्तर-निरपेक्षꣳ पर्याप्तꣳ लिङ्गम् इत्य् आह-- लिङ्गꣳ च-- इति। निषाद-स्थपति-न्यायाच् च षष्ठी-समासात् समानाधिकरण-समासो न्याय्यः॥
Link copied[श्रुतेः प्रकारान्तरेण नयनम्]
Link copiedअथवा अहर् अहर् गच्छन्त्यः [छान्।, ८।३।२] इति न सुषुप्ति-विषयꣳ गमनम् उच्यते; अपि त्व् अन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य परम-पुरुषार्थ-भूतस्योपर्य् उपर्य् अहर् अहर् गच्छन्त्यः सर्वस्मिन् काले वर्तमानास् तम् अजानत्यस् तꣳ न विन्दन्ति-- न लभन्ते; यथा हिरण्य-निधिꣳ निहितꣳ तत् स्थानम् अजानानास् तद्-उपरि सर्वदा वर्तमाना अपि न लभन्ते, तद्वद् इत्य् अर्थः।
Link copied[द्वितीय-नयन-रीत्यापि तद्-अर्थस्य ब्रह्मत्वगमकता]
Link copiedसेयम् एवम् अन्तरात्मत्वेन स्थितस्य दहराकाशस्योपरि तन्-नियमितानाꣳ सर्वासाꣳ प्रजानाम् अजानतीनाꣳ सर्वदा गतिर् अस्य दहाराकाशस्य परब्रह्मताꣳ गमयति। तथा ह्य् अन्यत्र परस्य ब्रह्मणोऽन्तरात्मतयावस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिर् अवेदनꣳ दृष्टम्। यथा अन्तर्यामि-ब्राह्मणे य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति [बृहद्।, ५।७।२२] इति, अदृष्टो द्रष्टा अश्रुतः श्रोता [बृहद्।, ५,७,२३] इति च। मा भूद् अन्यत्र दर्शनम्; स्वयम् एव त्व् इयꣳ निधि-दृष्टान्तावगत-परम-पुरुषार्थ-भावस्यास्य हृदय-स्थस्योपरि तद्-आधारतयाहर् अहः सर्वदा सर्वासाꣳ प्रजानाम् अजानतीनाꣳ गतिर् अस्य परब्रह्मत्वे पर्याप्तꣳ लिङ्गम्॥१४॥
Link copiedइतश् च दहराकाशꣳ परꣳ ब्रह्म--
Link copied८० धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः॥१।३।१५॥
Link copied[सूत्रार्थोपपादनम्]
Link copiedअथ य आत्मा [छान्।, ८।४।१] इति प्रकृतꣳ दहराकाशꣳ निर्दिश्य स सेतुर् विधृतिर् एषाꣳ लोकानाम् असम्भेदाय [छाꣳ ८।४।१] इत्य् अस्मिञ् जगद्-विधरणꣳ श्रूयमाणꣳ दहराकाशस्य परब्रह्मताꣳ गमयति; जगद्-विधरणꣳ हि परस्य ब्रह्मणो महिमा एष सर्वेश्वर एष सर्व-भूताधिपतिर् एष भूत-पाल एष सेतुर् विधरण एषाꣳ लोकानाम् असम्भेदाय [बृहद्।, ६।४।२२] इति, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृहद्।, ५।८।९] इत्य् आदिभ्यः। स चायꣳ तस्य परस्य ब्रह्मणो धृत्य्-आख्यो महिमास्मिन् दहराकाशे उपलभ्यते; अतो दहराकाशः परꣳ ब्रह्म॥१५॥
Link copied८१ प्रसिद्धेश् च॥१।३।१६॥
Link copied[सूत्रार्थ-विवरणम्]
Link copiedआकाश-शब्दश् च परस्मिन् ब्रह्मणि प्रसिद्धः को ह्य् एवान्यात् कः प्राण्यात्। यद् एष आकाश आनन्दो न स्यात् [तै।, २।७] सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते [छान्।, १।९।१] इत्य् आदिषु; अपहत-पाप्मत्वादि-गुण-सनाथा प्रसिद्धिर् भूताकाश-प्रसिद्धेर् बलीयसी इत्य् अभिप्रायः॥१६॥
Link copied[सूत्र-सङ्गतिः]
Link copiedएवꣳ तावद् दहराकाशस्य भूताकाशत्वꣳ प्रतिक्षिप्तम्। अथेदानीꣳ दहराकाशस्य प्रत्यगात्मत्वम् आशङ्क्य निराकर्तुम् उपक्रमते--
Link copied८२ इतर-परामर्शात् स इति चेन् नासम्भवात्॥१।३।१७॥
Link copied[सूत्र-गताक्षेप-भाग-निषेधः]
Link copiedयद् उक्तꣳ वाक्य-शेष-वशाद् दहराकाशः परꣳ ब्रह्मेति, तद् अयुक्तम्, वाक्य-शेषे परस्माद् इतरस्य जीवस्यैव साक्षात् परामर्शात्, अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति होवाच एतद् अमृतम् अभयम् एतद् ब्रह्म [छान्।, ८।३।४] इति। यद्य् अपि दहरोऽस्मिन्न् अन्तर आकाशः [छान्।, ८।१।१] इति हृदय-पुण्डरीक-मध्य-वर्तितयोपदिष्टस्य आकाशस्योपमानोपमेय-भावाद्य्-असम्भवात् भूताकाशत्वꣳ न सम्भवति, तथापि वाक्य-शेष-वशात् प्रत्यगात्मत्वꣳ युक्तम् आश्रयितुम्। आकाश-शब्दोऽपि प्रकाशादि-योगाज् जीव एव वर्तिष्यत इति चेत्--
Link copied[समाधानार्थ-विवृतिः]
Link copiedअत्रोत्तरꣳ-- नासम्भवात्-- इति। नायꣳ जीवः; न ह्य् अपहत-पाप्मत्वादयो गुणा जीवे सम्भवन्ति॥१७॥
Link copied८३ उत्तराच् चेद् आविर्भूत-स्वरूपस् तु॥१।३।१८॥
Link copied[सूत्र-गत-चेद्-अन्तार्थ-विवरणम्]
Link copiedउत्तरात्-- प्रजापति-वाक्यात्, जीवस्यैवापहत-पाप्मत्वादि-गुण-योगो निश्चीयत इति चेत्-- एतद् उक्तꣳ भवति-- प्रजापति-वाक्यꣳ जीव-परम् एव, तथा हि य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासिव्यः स सर्वाꣳश् च लोकान् आप्नोति सर्वाꣳश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानाति [छान्।, ८।७।१] इति प्रजापति-वचनम् ऐतिह्य-रूपेणोपश्रुत्यान्वेष्टव्यात्म-स्वरूप-जिज्ञासया प्रजापतिम् उपसेदुषे मघवते प्रजापतिः जागरित-स्वप्न-सुषुप्त्य्-अवस्थꣳ जीवात्मानꣳ सशरीरꣳ क्रमेण शुश्रूषु-योग्यता-परीचिक्षिषयोपिदश्य तत्र तत्र भोग्यम् अपश्यते परिशुद्धात्म-स्वरूपोपदेश-योग्याय तस्मै मघवते मघवन् मर्त्यꣳ वा इदꣳ शरीरम् आत्तꣳ मृत्युना तद् अस्यामृतस्य अशरीरस्यात्मनोऽधिष्ठानम् [छान्।, ८।१२।१] इति शरीरस्य अधिष्ठानताम् आत्मनश् चाधिष्ठातृताम् अशरीरस्य च तस्यामृतत्व-स्वरूपताꣳ चोक्त्वा न ह वै सशरीरस्य सतः प्रियाप्रिययोर् अपहतिर् अस्ति। अशरीरꣳ वाव सन्तꣳ न प्रियाप्रिये स्पृशतः [छान्।, ८।१२।१] इति कर्मारब्ध-शरीर-योगिनस् तद्-अनुगुण-सुख-दुःख-भागित्व-रूपानर्थꣳ तद्-विमोक्षे च तद्-अभावम् अभिधाय एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छान्।, ८।१२।२] इति जीवात्मनः स्वरूपम् एव शरीर-वियुक्तम् उपदिदेश। स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा ज्ञातिभिर् वा नोपजनꣳ स्मरन्न् इदꣳ शरीरम् [छान्।, ८।१२।३] इति प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वम्, निवृत्त-तिरोधानस्य परꣳ ज्योतिर्-उपसम्पन्नस्य प्रत्यगात्मनो ब्रह्म-लोके यथेष्ट-भोगावाप्तिꣳ, प्रियाप्रिय-वियुक्त-कर्म-निमित्त-शरीराद्य्-अपुरुषार्थाननुसन्धानꣳ चाभिधाय स यथा प्रयोग्य आचरणे युक्त एवम् अस्मिन् शरीरे प्राणो युक्तः [छान्।, ८।१२।३] इति यथोक्त-स्वरूपस्यैव सꣳसार-दशायाꣳ कर्म-तन्त्रꣳ शरीर-योगꣳ युग्य-शकट-योग-दृष्टान्तेनाभिधाय अथ यत्रैतद् आकाशम् अनुविषण्णꣳ चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुर् अथ यो वेदेदꣳ जिघ्राणीति स आत्मा गन्धाय घ्राणम् अथ यो वेदेदम् अभिव्याहराणीति स आत्माभिव्याहाराय वाग् अथ यो वेदेदꣳ शृणवानीति स आत्मा श्रवणाय श्रोत्रम्। अथ यो वेदेदꣳ मन्वानीति स आत्मा मनोऽस्य दिव्यꣳ चक्षुः [छान्।, ८।१२।४।५] इति चक्षुर्-आदीनाꣳ करणत्वꣳ रूपादीनाꣳ ज्ञेयत्वम् अस्य च ज्ञातृत्वꣳ प्रदर्श्य तत एव शरीरेन्द्रियेभ्योऽस्य व्यतिर् एकम् उपपाद्य स वा एष एतेन दिव्येन चक्षुषा मनसैतान्कामान् पश्यन् रमते य एते ब्रह्म-लोके [छान्।, ८।१२।६] इति तस्यैव विधूत-कर्म-निमित्त-शरीरेन्द्रियस्य मनः शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्व-कामानुभवम् उक्त्वा तꣳ वा एतꣳ देवा आत्मानम् उपासते तस्मात् तेषाꣳ सर्वे च लोका आप्ताः सर्वे च कामाः [छान्।, ८।१२।६] इत्य् एवꣳविधम् आत्मानꣳ ज्ञानिनो जानन्तीत्य् अभिधाय सर्वाꣳश् च लोकान् आप्नोति सर्वाꣳश् च कामान् यस् तम् आत्मानम् अनुविद्य विजानातीति ह प्रजापतिर् उवाच [छान्।, ८।१२।६] इत्य् एवꣳविधम् आत्मानꣳ विदुषः सर्व-लोक-सर्व-कामावाप्त्य्-उपलक्षितꣳ ब्रह्मानुभवꣳ फलम् अभिधायोपसꣳहृतम्।
Link copied[दहराकाशस्य परिशुद्ध-जीव-स्वरूपत्व-रूपत्वाक्षेपोपसꣳहारः]
Link copiedअतस् तत्रापहत-पाप्मत्वादि-गुणको ज्ञातव्यतया प्रक्रान्तो जीव एवेत्य् अवगतम्। अतो जीवस्यापहत-पाप्मत्वादयः सम्भवन्ति। अतो दहर-वाक्य-शेषे श्रूयमाणस्य जीवस्यापहत-पाप्मत्वादि-गुण-सम्भवात् स एव दहराकाश इति निश्चीयते-- इति चेत् इति॥
Link copied[आक्षेप-परिहारार्थ-भागार्थ-विवृतिः]
Link copiedतत्राह-- आविर्भूत-स्वरूपस् तु इति। पूर्वम् अनृत-तिरोहितापहत-पाप्मत्वादि-गुणक-स्वरूपः पश्चाद् विमुक्त-कर्म-बन्धः शरीरात् समुत्थितः परञ्ज्योतिर्-उपसम्पन्न आविर्भूत-स्वरूपः सन्, अपहत-पाप्मत्वादि-गुण-विशिष्टस् तत्र प्रजापति-वाक्येऽभिधीयते; दहर-वाक्ये त्व् अतिरोहित-स्वभावापहत-पाप्मत्वादि-विशिष्ट एव दहराकाशः प्रतीयते। आविर्भूत-स्वरूपस्यापि जीवस्यासम्भावनीयाः सेतुत्व-सर्व-लोक-विधरणत्वादयः सत्य-शब्द-निर्वचनावगतꣳ चेतनाचेतनयोर् नियन्तृत्वꣳ दहराकाशस्य परब्रह्मताꣳ साधयन्ति। सेतुत्व--सर्व-लोक-विधरणत्वादय आविर्भूत-स्वरूपस्यापि न सम्भवन्तीति जगद्-व्यापार-वर्जम् [ब्र। सू। ४।४।१७] इत्य् अत्रोपपादियष्यामः॥१८॥
Link copied[उत्तर-सूत्रावतारिणी शङ्का]
Link copiedयद्य् एवम्, दहर-वाक्ये अथ य एष सम्प्रसादः [छान्।, ८।३।४] इत्य् आदिना जीव-प्रस्तावः किम् अर्थः-- इति चेत्-- तत्राह--
Link copied८४ अन्यार्थश् च परामर्शः॥१।३।१९॥
Link copied[दहर-वाक्य-प्रजापति-वाक्ययोर् जीव-परामर्शोपयोगः]
Link copiedदहराकाशस्यैवापहत-पाप्मत्व-जगद्-विधरणत्वादिवन् मुक्तस्य तद्-उपसम्पत्त्यापहत-पाप्मत्वादि-कल्याण--गुण-विशिष्ट-स्वाभाविक-रूप-प्राप्ति-कथनेन तद्-धेतुत्व-रूपꣳ परम-पुरुषासाधारणꣳ गुणम् उपदेष्टुꣳ प्रजापति-वाक्योक्तस्य जीवस्यात्र परामर्शः; प्रजापति-वाक्ये च मुक्तात्म-स्वरूप-याथात्म्य-विज्ञानꣳ दहर-विद्योपयोगितयोक्तम्; ब्रह्म-प्रेप्सोर् हि जीवात्मनः स्व-स्वरूपꣳ च ज्ञातव्यम् एव; स्वयम् अपि कल्याण-गुण एव सन्न् अनवधिकातिशयासङ्ख्येय-कल्याण-गुण-गणꣳ परꣳ ब्रह्मानुभविष्यतीति ब्रह्मोपासन-फलान्तर्गतत्वात् स्वरूप-याथात्म्य-विज्ञानस्य। सर्वाꣳश् च लोकान् आप्नोति सर्वाꣳश् च कामान् [छान्।, ८।१२।६] स तत्र पर्येति जक्षत् क्रीडन् [छान्।, ८।१२।३] इत्य् आदिकꣳ प्रजापति-वाक्ये कीर्त्यमानꣳ फलम् अपि दहर-विद्या-फलम् एव॥१९॥
Link copied८५ अल्प-श्रुतेर् इति चेत् तद् उक्तम्॥१।३।२०॥
Link copied[सूत्रार्थ-विवृतिः]
Link copiedदहरोऽस्मिन् [छान्।, ८।१।१] इत्य् अल्प-परिमाण-श्रुतिर् आराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज् ज्यायसो ब्रह्मण इति चेत्-- तत्र यद् उत्तरꣳ वक्तव्यम्, तत् पूर्वम् एवोक्तꣳ निचाय्यत्वाद् एवम् [ब्र। सू। १।२।७] इत्य् अनेन। अतो दहराकाशोऽनाघ्राताविद्याद्य्-अशेष-दोष-गन्धः स्वाभाविक-निरतिशय--ज्ञान-बलैश्वर्य-वीर्य-शक्ति--तेजः-प्रभृत्य्-अपरिमितोदार-गुण-सागरः पुरुषोत्तम एव। प्रजापति-वाक्य-निर्दिष्टस् तु घ्रन्ति त्व् एवैवꣳ विच्छादयन्ति [छान्।, ८।१०।२] इत्य् एवम् आदिभिर् अवगत-कर्म-निमित्त-देह-परिग्रहः पश्चात् परञ्ज्योतिर् उपसम्पद्याविर्भूतापहत-पाप्मत्वादि-गुण-स्वरूप इति न दहराकाशः॥२०॥
Link copiedइतश् चैतद् एवम्--
Link copied८६ अनुकृतेस् तस्य च॥१।३।२॥
Link copied[सूत्रार्थोपपादनम्]
Link copiedतस्य दहराकाशस्य परस्य ब्रह्मणोऽनुकारात्-- अयम् अपहत-पाप्मत्वादि-गुणको विमुक्त-बन्धः प्रत्यगात्मा न दहराकाशः। तद्-अनुकारः-- तत्-साम्यम्। तथा हि प्रत्यगात्मनो विमुक्तस्य परब्रह्मानुकारः श्रूयते यदा पश्यः पश्यते रुक्म-वर्णꣳ कर्तारम् ईशꣳ पुरुषꣳ ब्रह्म-योनिम्। तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमꣳ साम्यम् उपौति [छान्।, ३।१।३] इति। अतोऽनुकर्ता प्रजापति-वाक्य-निर्दिष्टः। अनुकार्यꣳ ब्रह्म दहराकाशः॥२१॥
Link copied८७ अपि स्मर्यते॥१।३।२२॥
Link copied[अनुकरणस्य स्मृति-सिद्धत्वोपपादनम्]
Link copiedसꣳसारिणोऽपि मुक्तावस्थायाꣳ परम-साम्यापत्ति-लक्षणः परब्रह्मानुकारः स्मर्यते इदꣳ ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च [भ। गी।, १४।२] इति॥
Link copied[परोक्ताधिकरणान्तरत्वानौचित्यम्]
Link copiedकेचित्-- अनुकृतेस् तस्य च, अपि स्मर्यते इति सूत्र-द्वयम् अधिकरणान्तरꣳ तम् एव भान्तम् अनुभाति सर्वꣳ तस्य भासा सर्वम् इदꣳ विभाति [मुण्ड्।, २।२।१०] इत्य् अस्याः श्रुतेः परब्रह्म-परत्व-निर्णयाय प्रवृत्तꣳ वदन्ति। तत् तु अदृश्यत्वादि-गुणको धर्मोक्तेः [ब्र। सू। १।२।२१] द्यु-भ्व्-आद्य्-आयतनꣳ स्व-शब्दात् [ब्र। सू। १।३।१] इत्य् अधिकरण-द्वयेन तस्य प्रकरणस्य परब्रह्म-विषयत्व-प्रतिपादनात् ज्योतिश्-चरणाभिधानात् [ब्र। सू। १।२।२५] इत्य् आदिषु परस्य ब्रह्मणो भा-रूपत्वावगतेश् च पूर्व-पक्षानुत्थानाद् अयुक्तम्; सूत्राक्षर वैरूप्यꣳ च॥२२॥
Link copiedइति दहराधिकरणम्॥५॥
Link copiedप्रमिताधिकरणम्॥६॥
Link copied[अधिकरणार्थः-- अङ्गुष्ठ-परिमाण-परिमितत्वेन श्रुत्य्-उक्तः परमात्मैव, न कर्म-वश्यो जीवः]
Link copied[अङ्गुष्ठ-प्रमित-विद्या नाचिकेत-विद्या वा, कठ।, ४।१२]
Link copied८८ शब्दाद् एव प्रमितः॥१।३।२३॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedकठ-वल्लीषु श्रूयते अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूत-भव्यस्य न ततो विजुगुप्सते। एतद् वैतत् [कठ।, २।४।१२] अङ्गुष्ठ-मात्रः पुरुषो ज्योतिर् इवाधूमकः। ईशानो भूत-भव्यस्य स एवाद्य स उ श्वः। एतद् वैतत् [कठ।, २।४।१३] अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा सदा जनानाꣳ हृदये सन्निविष्टः। तꣳ स्वाच् छरीरात् प्रवृहेन् मुञ्जाद् इवैषीकाꣳ धैर्येण। तꣳ विद्याच् छुक्रम् अमृतम् [कठ।, २।३।१७] इति।
Link copied[सꣳशयाकारः]
Link copiedतत्र सन्दिह्यते-- किम् अयम् अङ्गुष्ठ-मात्र-प्रमितः प्रत्यगात्मा, उत परमात्मा इति।
Link copied[सयुक्तिकः पूर्वः पक्षः]
Link copiedकिꣳ युक्तꣳ प्रत्यगात्मेति। कुतः। जीवस्यान्यत्राङ्गुष्ठ-मात्रत्व-श्रुतेः प्राणाधिपः सञ्चरति स्व-कर्मभिः। अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः सङ्कल्पाहङ्कार-समन्वितो यः [श्वे।, ५।८।७] इति। न चान्यत्रोपासनार्थतयापि परमात्मनोऽङ्गुष्ठ-मात्रत्वꣳ श्रूयते। एवꣳ निश्चिते जीवत्वे ईशानत्वꣳ शरीरेन्द्रिय-भोग्य-भोगोपकरणापेक्षयापि भविष्यति॥
Link copied[सिद्धान्तारम्भः]
Link copiedइति प्राप्ते ब्रूमः-- शब्दाद् एव प्रमितोऽङ्गुष्ठ-प्रमितः परमात्मा। कुतः। ईशानो भूत-भव्यस्य [कठ।, २।४।१३] इति शब्दाद् एव; न च भूत-भव्यस्य सर्वस्येशितृत्वꣳ कर्म-पर-वशस्य जीवस्योपपद्यते॥२३॥
Link copied[उत्तर-सूत्रार्थ-शङ्का]
Link copiedकथꣳ तर्हि परमात्मनोऽङ्गुष्ठ-मात्रत्वम् इत्य् अत्राह--
Link copied८९ हृद्य् अपेक्षया तु मनुष्याधिकारत्वात्॥१।३।२४॥
Link copied[परमात्मनोऽङ्गुष्ठ-प्रमितता-निदानम्]
Link copiedपरमात्मन उपासनार्थम् उपासक-हृदये वर्तमानत्वाद् उपासक-हृदयस्याङ्गुष्ठ-प्रमाणत्वात् तद्-अपेक्षयेदम् अङ्गुष्ठ-प्रमितत्वम् उपपद्यते, जीवस्याप्य् अङ्गुष्ठ-प्रमितत्वꣳ हृदयान्तर्वर्तित्वात् तद्-अपेक्षम् एव; तस्याराग्र-मात्रत्व-श्रुतेः। मनुष्याणाम् एवोपासकत्व-सम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान् मनुष्य-हृद् यस्य च तत्-तद्-अङ्गुष्ठ-प्रमितत्वात् खर-तुरग-भुजगादीनाम् अनङ्गुष्ठ-प्रमितत्वेऽपि न कश्चिद् दोषः। स्थितꣳ तावद् उत्तरत्र समापयिष्यते॥२४॥
Link copiedइति प्रमिताधिकरणम्॥६॥
Link copiedएतद्-गर्भे देवताधिकरणम्॥७॥
Link copied[अधिकरणार्थः-- श्रुत्य्-उक्त-ब्रह्मोपासनाधिकारो देवानाम् अप्य् अस्त्य् एव]
Link copied[विद्या-सामान्य-सम्बन्धि]
Link copied९० तद्-उपर्य् अपि बादरायणः सम्भवात्॥१।३।२५॥
Link copied[विषय-सꣳशययोः प्रदर्शनम्]
Link copiedपरस्य ब्रह्मणोऽङ्गुष्ठ-प्रमितत्वोपपत्तये मनुष्याधिकारꣳ ब्रह्मोपासन-शास्त्रम् इत्य् उक्तम्। तत्-प्रसङ्गेनेदानीꣳ ब्रह्म-विद्यायाꣳ देवादीनाम् अप्य् अधिकारोऽस्ति नास्तीति विचार्यते।
Link copied[पूर्व-पक्षः सयुक्तिकः]
Link copiedकिꣳ तावद् युक्तꣳ नास्ति देवादीनाम् अधिकार इति। कुतः। सामर्थ्याभावात्। न ह्य् अशरीराणाꣳ देवादीनाꣳ विवेक-विमोकादि-साधन-सप्तकानुगृहीत--ब्रह्मोपासनोपसꣳहार-सामर्थ्यम् अस्ति। न च देवादीनाꣳ सशरीरत्वे प्रमाणम् उपलभामहे।
Link copied[देवादीनाꣳ विग्रह-सम्बन्धस्य प्रमाणतोऽसिद्धिः]
Link copiedयद्य् अपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्ति-सम्भावनया वेदान्त-वाक्यानि परे ब्रह्मणि प्रमाण-भावम् अनुभवन्ति; तथापि देवादीनाꣳ विग्रहवत्त्व-प्रतिपादन-परꣳ न किञ्चिद् अपि वाक्यम् उपलभ्यते। मन्त्रार्थ-वादास् तु कर्म-विधि-शेषतयान्य-परत्वान् न देवादि-विग्रह-साधने प्रभवन्ति। कर्म-विधयश् च स्वापेक्षितोद्देश्यकारकत्वातिरेकि देवतागतꣳ किम् अपि न साधयन्ति। अत एव तासाम् अर्थित्वम् अपि न सम्भवति। अतः सामर्थ्यार्थित्वयोर् अभावाद् देवादीनाम् अनधिकार इति॥
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्ते प्रचक्ष्महे-- तद्-उपर्य् अपि बादरायणः सम्भवात्-- तद्-उपर्य् अपि-- तत् ब्रह्मोपासनम्, उपरि-- देवादिष्व् अपि, सम्भवतीति भगवान् बादरायणो मन्यते, तेषाम् अर्थित्व-सामर्थ्ययोः सम्भवात्। अर्थित्वꣳ तावद् आध्यात्मिकादि-दुर्विषह-दुःखाभितापात् परस्मिन् ब्रह्मणि च निरस्त-निखिल-दोष-गन्धेऽनवधिकातिशय-- असङ्ख्येय-कल्याण-गुण-गणे निरतिशय-भोग्यत्वादि-ज्ञानाच् च सम्भवति। सामर्थ्यम् अपि पटुतर-देहेन्द्रियादिमत्तया सम्भवति।
Link copied[देवादीनाꣳ विग्रहादिमत्तायाः प्रामाणिकता]
Link copiedदेहेन्द्रियादिमत्त्वꣳ च ब्रह्मादीनाꣳ सकलोपनिषत्सु सृष्टि-प्रकरणेषूपासन-प्रकरणेषु च श्रूयते। तथा हि सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१], तद् ऐक्षत बहु स्याꣳ प्रजायेयेति तत् तेजोऽसृजत [छान्।, ६।२।३] इत्य् आरभ्य सर्वम् अचेतनꣳ तेजोऽ-ब्-अन्न-प्रमुखावस्था-विशेषवद् व्याकृत्य अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति सङ्कल्प्य ब्रह्मादिस्थावरान्तꣳ चतुर्विधꣳ भूत-जातꣳ तत्-तत्-कर्मोचित-शरीरꣳ तद्-उचित-नाम-भाक् चायम् अकरोद् इत्य् उक्तम्। एवꣳ सर्वत्र सृष्टि-वाक्येषु देव-तिर्यङ्-मनुष्य-स्थावरात्मना चतुर्-विधा सृष्टिर् आम्नायते। देवादि-भेदश् च तत्-तत्-कर्मानुगुण-ब्रह्म-लोक-प्रभृति-चतुर्-दश-लोक-स्थ-फल-भोग-योग्य-देहेन्द्रियादि-- योगायत्तः, आत्मनाꣳ स्वतो देवादित्वाभावात्।
Link copied[विग्रहादिमत्त्वे उपष्टम्भकम्]
Link copiedतथा तद्धोभये देवासुरा अनुबुबुधिरे ते होचुः। इन्द्रो ह वै देवानाम् अभिप्रवव्राज, विरोचनोऽसुराणाꣳ तौ हासꣳविदानाव् एव समित्पाणी प्रजापति-सकाशम् आजग्मतुः [छान्।, ८।७।२] तौ ह द्वात्रिꣳशतꣳ वर्षाणि ब्रह्मचर्यम् ऊषतुः तौ ह प्रजापतिर् उवाच [छान्।, ८।७।३] इत्य् आदिना स्पष्टम् एव शरीरेन्द्रियवत्त्वꣳ देवादीनाꣳ प्रतीयते। कर्म-विधि-शेष-भूत-मन्त्रार्थवादेष्व् अपि वज्र-हस्तः पुरन्दरः [तै। ब्रा। २।६।७।३४], तेनेन्द्रो वज्रम् उदयच्छत् [तै।, २।४।१२] इत्य् आदिभिः प्रतीयमानꣳ विग्रहादिमत्त्वꣳ प्रमाणान्तराविरुद्धꣳ तत् प्रमेयम् एव।
Link copied[आख्यायिकादीनाम् अन्य-परत्व-शङ्का, तत्-परिहारश् च]
Link copiedन चानुष्ठेयार्थ-प्रकाशन-स्तुति-परत्वाभ्याꣳ प्रतीयमानार्थान्तराविवक्षा शक्यते वक्तुम्, स्तुत्य्-आद्य्-उपयोगित्वात् तेन विना स्तुत्य्-आद्य्-अनुपपत्तेश् च। गुण-कथनेन हि स्तुतित्वम्। गुणानाम् असद्-भावे स्तुतित्वम् एव हीयेत। न चासता गुणेन कथितेन प्ररोचना जायते। अतः कर्म प्ररोचयन्तो गुण-सद्-भावꣳ बोधयन्त्य् एवार्थवादाः।
Link copiedमन्त्राश् च कर्मसु विनियुक्तास् तत्र तत्र किञ्चित्-करत्वायानुष्ठेयम् अर्थꣳ प्रकाशयन्तो देवतादि-गति-विग्रहादि-गुण-विशेषम् अभिदधत एव तत्र किञ्चित् कुर्वन्ति, अन्यथेन्द्रादि-स्मृत्य्-अनुपपत्तेः। न च निर्विशेषा देवता धियम् अधिरोहति। तत्र प्रमाणान्तराप्राप्तान् गुणान् स्वयम् एव बोधयित्वा तैः कर्म प्ररोचयन्ति; गुण-विशिष्टꣳ वा प्रकाशयन्ति; प्राप्ताꣳश् चानूद्य तैः प्ररोचन-प्रकाशने कुर्वन्ति; विरुद्धत्वे तु तद्-वाचिभिः शब्दैर् अविरुद्धान् गुणान् लक्षयित्वा कुर्वन्ति।
Link copied[कर्म-विध्य्-आदीनाꣳ देवतैश्वर्य-परत्वस्यावर्जनीयता]
Link copiedकर्म-विधेश् च देवताया ऐश्वर्यम् अपेक्षितम् एव। कामिनः कर्तव्यतया कर्म विधीयमानꣳ स्वयꣳ क्षण-प्रध्वꣳसि कालान्तर-भाविनः फलस्य स्वर्गादेः साधकम् अपेक्षते। मन्त्रार्थवादयोश् च वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनꣳ भूतिꣳ गमयति [तै।, यजुर्। २।१।१।१] यद् अनेन हविषाशास्ते तद् अश्यात् तद् ऋध्यात् तद् अस्मै देवा राधन्ताम् [प्रश्।, २] इत्य् आदिषु देवतायाः कर्मणाराधितायाः फल-दायित्वꣳ तद्-अनुगुणꣳ चैश्वर्यꣳ प्रतीयमानम् अपेक्षितत्वेन वाक्यार्थे समन्वीयते। देव-पूजाभिधायिनो यजि-धातोश् च यागाख्यꣳ कर्म स्वाराध्य-देवता-प्रधानꣳ प्रतीयते।
Link copied[मीमाꣳसकोक्तस्यापूर्वस्याकिञ्चित्करता]
Link copiedतद् एवꣳ कृत्स्न-वाक्य-पर्यालोचनया वाक्याद् एव विध्य्-अपेक्षितꣳ सर्वम् अवगतम् इति नापूर्वादिकꣳ व्युत्पत्ति-समयानवगतꣳ कर्म-विधिष्व् अभिधेयतया कल्प्यतया वाश्रयितव्यम्।
Link copiedतथा सङ्कीर्ण-ब्राह्मण-मन्त्रार्थवाद-मूलेषु धर्म-शास्त्रेतिहास-पुराणेषु ब्रह्मादीनाꣳ देवासुर-प्रभृतीनाꣳ च देहेन्द्रियादयः स्वभाव-भेदाः स्थानानि, भोगाः, कृत्यानि चेत्येवम् आदयः सुव्यक्ताः प्रतिपाद्यन्ते। अतो विग्रहादिमत्त्वाद् देवानाम् अप्य् अधिकारोऽस्त्य् एव॥२५॥
Link copied९१ विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्॥१।३।२६॥
Link copied[चेद्-अन्तार्थस्य विरोधाक्षेपस्योपपादनम्]
Link copiedदेवादीनाꣳ विग्रहादिमत्त्वाभ्युपगमे कर्मणि विरोधः प्रसज्यते, बहुषु यागेषु युगपद् एकस्येन्द्रस्य विग्रहवत्त्वे अग्निमग्न आवह [यजुर्। ३।५] इन्द्र आगच्छ हरिव आगच्छ, [प्रश्।, १।१२] इत्य् आदिना आहूतस्य तस्य सन्निधानानुपपत्तेः। दर्शयति चाग्न्यादीनाꣳ तत्र तत्रागमनꣳ कस्य वाह देवा यज्ञम् आगच्छन्ति कस्य वा न बहूनाꣳ यजमानानाꣳ यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजते [यजुर्। १।६।७।१] इति। अतो विग्रहादिमत्त्वे कर्मणि विरोधः प्रसज्यत इति चेत्,
Link copied[प्राप्तस्य विरोधस्य परिहारः]
Link copiedतन् न-- अनेक-प्रतिपत्तेर् दर्शनाद् दृश्यते हि सौभरि-प्रभृतीनाꣳ शक्तिमताꣳ युगपद् अनेक-शरीर-प्रतिपत्तिः॥
Link copied९२ शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्॥१।३।२७॥
Link copied[प्रकारान्तरेण विरोध-प्रदर्शनम्]
Link copiedविरोध इति वर्तते। मा भूत् कर्मणि विरोधोऽनेक-शरीर-प्रतिपपत्तेः। शब्दे तु वैदिके विरोधः प्रसज्यते, अनित्यार्थ-सꣳयोगात्। विग्रहवत्त्वे हि सावयवत्वेनेन्द्रादेर् अर्थस्यानित्यत्वम् अनिवार्यम्। ततो देवदत्तादि-शब्दवद् इन्द्राद्य्-अर्थ-जन्मनः प्राग्-विनाशाद् ऊर्ध्वꣳ चेन्द्रादि-शब्दानाꣳ वैदिकानाम् अर्थ-शून्यत्वम् अनित्यत्वꣳ वा वेदस्य स्याद् इति चेत्--
Link copied[विरोध-परिहारः]
Link copiedतन् न, अतः प्रभवाद् अस्माद् इन्द्रादि-शब्दाद् एव पुनः पुनर् इन्द्राद्य्-अर्थस्य प्रभवात्।
Link copied[जगत्-सृष्टि-कार्ये वेदोपयोग-प्रकारः]
Link copiedएतद् उक्तꣳ भवति-- न हि देवदत्तादि-शब्दवद् इन्द्रादि-शब्दा वैदिका व्यक्ति-विशेष-मात्रे सङ्केत-पूर्वकाः प्रवृत्ताः; अपि तु स्वभावत एव गवादि-शब्दवद् आकृति-विशेष-वाचित्वेन। ततश् चैकस्याम् इन्द्र-व्यक्तौ विनष्टायाम् अत एव वैदिकाद् इन्द्र-शब्दान् मनसि विपरि-वर्तमानाद् अवगत-तद्-वाच्य-भूतेन्द्राद्य्-अर्थाकारो धाता तद्-आकारम् एवापरमिन्द्रꣳ सृजति; यथा कुलालो घट-शब्दान् मनसि विपरि-वर्तमानात् तद्-आकारम् एव घटम्-- इति।
Link copied[एतादृशार्थावगति-निदानम्]
Link copiedकथम् इदम् अवगम्यते प्रत्यक्षानुमानाभ्याꣳ-- श्रुति-स्मृतिभ्याम् इत्य् अर्थः। श्रुतिस् तावद् वेदेन रूपे व्याकरोत् सतासती प्रजापतिः [तै।, २।६।२।७] इति; तथा स भूर् इति व्याहरत् स भूमिम् असृजत स भुव इति व्याहरत् सोऽन्तरिक्षम् असृजत [तै।, २।२।४।२२] इत्य् आदि। वाचक-शब्द-पूर्वकꣳ तत्-तद्-अर्थ-सꣳस्थानꣳ स्मरन् तत्-तत्-सꣳस्थान-विशिष्टꣳ तꣳ तम् अर्थꣳ सृष्टवान् इत्य् अर्थः। स्मृतिर् अप्य् अनादि-निधना ह्य् एषा वाग् उत्सृष्टा स्वयम्भुवा। आदौ वेद-मयी दिव्या यतः सर्वाः प्रसूतयः [मनु। १।२१] इति; सर्वेषाꣳ तु स नामानि कर्माणि च पृथक् पृथक्। वेद-शब्देभ्य एवादौ पृथक् सꣳस्थाश् च निर्ममे इति। सꣳस्थाः-- सꣳस्थानानि रूपाणीति यावत्; तथा नाम-रूपꣳ च भूतानाꣳ कृत्यानाꣳ च प्रपञ्चनम्॥ वेद-शब्देन एवादौ देवादीनाꣳ चकार सः [वि। पु।, १।५।६३] इति। अतो देवादीनाꣳ विग्रहवत्त्वेऽपि वैदिक-शब्दानाम् आनर्थक्यꣳ, वेदस्यादिमत्त्वꣳ च न प्रसज्यते॥२७॥
Link copied९३ अत एव च नित्यत्वम्॥१।३।२८॥
Link copied[वेदनित्यत्वोपपादनम्]
Link copiedयत एवेन्द्र-वसिष्ठादि-शब्दानाꣳ देवर्षि-वाचिनाꣳ तत्-तद्-आकार-वाचित्वꣳ, तत्-तच्-छब्देन तत्-तद्-अर्थ-स्मृति-पूर्विका च तत्-तद्-अर्थ-सृष्टिः; तत एव मन्त्र-कृतो वृणीते [आप। श्रौ। सू। २।१६।६], नम ऋषिभ्यो मन्त्र-कृद्भ्यः [तै।, आ। ७।१।१], अयꣳ सो अग्निर् इति विश्वामित्रस्य सूक्तꣳ भवति [यजुर्। ५।२।३।३] इत्य् आदिभिर् वसिष्ठादीनाꣳ मन्त्र-कृत्त्व-काण्डकृत्त्वर्षित्वादौ प्रतीयमानेऽपि वेदस्य नित्यत्वम् उपपद्यते।
Link copied[ऋषीणाꣳ मन्त्र-कृत्त्वोपपादनम्]
Link copiedएभिर् एव मन्त्र-कृतो वृणीते [आप। श्रौ। सू। २।१६।६] इत्य् आदिभिर् वेद-शब्दैस् तत्-तत्-काण्ड-सूक्त-मन्त्र-कृताम् ऋषीणाम् आकृति-शक्त्य्-आदिकꣳ परामृश्य तत्-तद्-आकारान् तत्-तच्-छाक्ति-युक्ताꣳश् च सृष्ट्वा प्रजापतिस् तान् एव तत्-तन्-मन्त्रादि-करणे नियुङ्क्ते। तेऽपि प्रजापतिना आहत-शक्तयस् तत्-तद्-अनुगुणꣳ तपस् तप्त्वा नित्य-सिद्धान् पूर्व-पूर्व-वसिष्ठादि-दृष्टान् तान् एव मन्त्रादीन् अनधीत्यैव स्वरतो वर्णतश् चास्खलितान् पश्यन्ति। अतश् च वेदानाꣳ नित्यत्वम् एषाꣳ च मन्त्र-कृत्त्वम् उपपद्यते॥२८॥
Link copied[प्राकृत-प्रलयान्तर-सृष्ट्य्-अनुपपत्त्या आक्षेपः]
Link copiedअथ स्यात्-- नैमित्तिक-प्रलयादिष्व् इन्द्राद्य्-उत्पत्तौ वेद-शब्देभ्यः पूर्व-पूर्वेन्द्रादि-स्मरणेन प्रजापतिना देवादि-सृष्टिर् उपपद्यताꣳ नाम; प्राकृत-प्रलये तु स्रष्टुः प्रजापतेर् भूताद्य्-अहङ्कार-परिणाम-शब्दस्य च विनष्टत्वात् कथꣳ प्रजापतेः शब्द-पूर्विका सृष्टिर् उपपद्यते कथन्तराꣳ विनष्टस्य वेदस्य नित्यत्वम् अतो वेदनित्यत्व-वादिना देवादीनाꣳ विग्रहवत्त्वाभ्युपगमेऽपि लोक-व्यवहारस्य प्रवाहानादिताश्रयणीयेति।
Link copied[उक्तानुपपत्ति-परिहारः]
Link copiedअत्रोत्तरꣳ पठति--
Link copied९४ समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च॥१।३।२९॥
Link copiedकृत्स्नोपसꣳहारे जगद्-उत्पत्त्य्-आवृत्ताव् अपि पूर्वोक्तात् समान-नाम-रूपत्वाद् एव न कश्चिद् विरोधः। तथा हि स भगवान् पुरुषोत्तमः प्रलयावसान-समये पूर्व-सꣳस्थानꣳ जगत् स्मरन् बहु स्याम् [छान्।, ६।२।३] इति सङ्कल्प्य भोग्य-भोक्तृ-जातꣳ स्वस्मिञ् शक्ति-मात्रावशेषꣳ प्रलीनꣳ विभज्य महद्-आदि-ब्रह्माण्डꣳ हिरण्यगर्भ-पर्यन्तꣳ यथापूर्वꣳ सृष्ट्वा वेदाꣳश् च पूर्वानुपूर्वी-विशेष-सꣳस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववद् एव देवाद्य्-आकार-जगत्-सर्गे तꣳ नियुज्य स्वयम् अपि तद्-अन्तरात्मतयावतस्थे। अतो यथोक्तꣳ सर्वम् उपपन्नम्।
Link copied[वेदापौरुषेयत्व-नित्यत्वयोः स्वरूपम्]
Link copiedएतद् एव च वेदस्यापौरुषेयत्वꣳ नित्यत्वꣳ च, यत् पूर्व-पूर्वोच्चारण-क्रम-जनित-सꣳस्कारेण तम् एव क्रम-विशेषꣳ स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्; तद् अस्मासु सर्वेश्वरेऽपि समानम्। इयाꣳस् तु विशेषः-- सꣳस्कारानपेक्षम् एव स्वयम् एवानुसन्धत्ते पुरुषोत्तमः।
Link copied[उक्तार्थ-प्रतिष्ठापिकाः श्रुति-स्मृतयः]
Link copiedकुत इदꣳ यथोक्तम् अवगम्यत इति चेत् तत्राह-- दर्शनात् स्मृतेश् च। दर्शनꣳ तावद् यो ब्रह्माणꣳ विदधाति पूर्वꣳ यो वै वेदाꣳश् च प्रहिणोति तस्मै [श्वे।, ६।१८] इति। स्मृतिर् अपि मानवी आसीद् इदꣳ तमो-भूतम् इत्य् आरभ्य सोऽभिध्याय शरीरात् स्वात्सिसृक्षुर् विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यम् अपासृजत्॥ तद्-अण्डम् अभवद् धैमꣳ सहस्राꣳशु-सम-प्रभम्। तस्मिञ् जज्ञे स्वयꣳ ब्रह्मा सर्व-लोक-पितामहः [मनु। १।५।८-९] इति। तथा पौराणिकी तत्र सुप्तस्य नाभौ पद्मम् अजायत। तस्मिन् पद्भे महा-भाग वेद-वेदाङ्ग-पारगः॥ ब्रह्मोत्पन्नः स तेनोक्तः प्रजाः सृज महा-मते; तथा परो नारायणो देवस् तस्माज् जातश् चतुर्मुखः इति। तथा आदि-सर्गम् अहꣳ वक्ष्ये इत्य् आरभ्योच्यते सृष्ट्वा नारꣳ तोयम् अन्तः स्थितोऽहꣳ येन स्यान् मे नाम नारायणेति। कल्पे कल्पे तत्र शयामि भूयः सुप्तस्य मे नाभिजꣳ स्याद् यथाब्जम्॥ एवम्भूतस्य मे देवि नाभिपद्मे चतुर्मुखः। उत्पन्नः स मया चोक्तः प्रजाः सृज महा-मते इति॥
Link copied[देवानाꣳ ब्रह्म-विद्याधिकार-निगमनम्]
Link copiedअतो देवादीनाम् अप्य् अर्थित्व-सामर्थ्य-योगाद् ब्रह्म-विद्यायाम् अधिकारोऽस्तीति सिद्धम्॥२९॥
Link copiedइति देवताधिकरणम्॥७॥
Link copiedमध्व्-अधिकरणम्॥८॥
Link copied[अधिकरणार्थः-- वस्व्-आदि-पदꣳ प्राप्तानाम् अपि मधु-विद्यादिष्व् अधिकारः]
Link copied[मधु-विद्या, छान्।, ३।१], ज्योतिषाꣳ ज्योतिर्-विद्या च]
Link copied९५ मध्व्-आदिष्व् असम्भवाद् अनधिकारꣳ जैमिनिः॥१।३।३०॥
Link copied[पूर्वोत्तरार्थयोः साङ्गत्यꣳ, प्रकृतो विषयश् च]
Link copiedब्रह्म-विद्यायाꣳ देवादीनाम् अधिकारोऽस्तीत्य् उक्तम्॥
Link copied[सꣳशयाकारः]
Link copiedइदम् इदानीꣳ चिन्त्यते-- येषूपासनेषु या देवता एवोपास्यास् तेषु तासाम् अधिकारोऽस्ति न इति,
Link copied[जैमिनेर् मतम्]
Link copied[पूर्वः पक्षः]
Link copiedकिꣳ प्राप्तꣳ नास्त्य् अधिकारस् तेषु मध्व्-आदिष्व् इति जैमिनिर् मन्यते। कुतः। असम्भवात्-- न ह्य् आदित्य-वस्व्-आदिभिर् उपास्या आदित्य-वस्व्-आदयोऽन्ये सम्भवन्ति। न च वस्व्-आदीनाꣳ सताꣳ वस्व्-आदित्वꣳ प्राप्यꣳ भवति, प्राप्तत्वात्; मधु-विद्यायाम् ऋग्-वेदादि-प्रतिपाद्य-कर्म-निष्पाद्यस्य रश्मि-द्वारेण प्राप्तस्य रसस्याश्रयतया लब्ध-मधु-व्यपदेशस्यादित्यस्याꣳशानाꣳ वस्व्-आदिभिर् भुज्यमानानाम् उपास्यत्वꣳ वस्व्-आदित्वꣳ च प्राप्यꣳ श्रूयते असौ वा आदित्यो देव-मधु [छान्।, ३।१।१] इत्य् उपक्रम्य तद् यत् प्रथमम् अमृतꣳ तद् वसव उपजीवन्ति [छान्।, ३।६।१] इत्य् उक्त्वा स य एतद् एवम् अमृतꣳ वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतꣳ दृष्ट्वा तृप्यति [छान्।, ३।६।३] इत्य् आदिना॥३०॥
Link copied९६ ज्योतिषि भावाच् च॥१।३।३१॥
Link copied[उक्तस्यैव पक्षस्य उपष्टम्भक-युक्त्य्-अन्तरम्]
Link copiedतꣳ देवा ज्योतिषाꣳ ज्योतिर् आयुर् होपासतेऽमृतम् [बृहद्।, ६।४।१४] इति ज्योतिषि परस्मिन् ब्रह्मण्य् उपासनꣳ देवानाꣳ श्रूयते। देव-मनुष्योभय-साधारणे परब्रह्मोपासने देवानाम् उपासकत्व-कथनꣳ देवानाम् इतरोपासन-निवृत्तिꣳ द्योतयति। अत एषु वस्व्-आदीनाम् अनधिकारः॥३१॥
Link copied[सिद्धान्तः, बादरायण-मतम्]
Link copiedइति प्राप्तेऽभिधीयते
Link copied९७ भावꣳ तु बादरायणोऽस्ति हि॥१।३।३२॥
Link copiedआदित्य-वस्व्-आदीनाम् अपि तेष्व् अधिकार-भावꣳ भगवान् बादरायणो मन्यते। अस्ति ह्य् आदित्य-वस्व्-आदीनाम् अपि स्वावस्थ-ब्रह्मोपासनेन वस्व्-आदित्व-प्राप्ति-पूर्वक-ब्रह्म-प्रेप्सासम्भवः। इदानीꣳ वस्व्-आदीनाम् अपि सताꣳ कल्पान्तरेऽपि वस्व्-आदित्व-प्राप्तिश् चापेक्षिता भवति।
Link copied[उक्तार्थोपपादनम्]
Link copiedअत्र हि कार्य-कारणोभयावस्थ-ब्रह्मोपासनꣳ विधीयते असौ वा आदित्यो देव-मधु [छान्।, ३।१।१] इत्य् आरभ्य अथ तत ऊर्ध्व उदेत्य [छान्।, ३।११।१] इत्य् अतः प्राग्-आदित्य-वस्व्-आदि-कार्य-विशेषावस्थꣳ ब्रह्मोपास्यम् उपदिश्यते; अथ तत ऊर्ध्व उदेत्य [छान्।, ३।११।१] इत्य् आदिना आदित्यान्तरात्मतयावस्थितꣳ कारणावस्थम् एव ब्रह्मोपास्यम् उपदिश्यते। तद् एवꣳ कार्य-कारणोभयावस्थꣳ ब्रह्मोपासीनः कल्पान्तरे वस्व्-आदित्वꣳ प्राप्य तद्-अन्ते कारणꣳ परꣳ ब्रह्मैवाप्नोति।
Link copied[मधु-विद्याया ब्रह्म-विद्यात्वम्]
Link copiedन ह वा अस्मा उदेति न निम्रोचति सकृद् दिवा हैवास्मै भवति य एताम् एवꣳ ब्रह्मोपनिषदꣳ वेद [छान्।, ३।११।३] इति कृत्स्नाया मधु-विद्याया ब्रह्मोपनिषत्त्व-श्रवणाद् ब्रह्म-प्राप्ति-पर्यन्त-वस्व्-आदित्व-फलस्य श्रवणाच् च वस्व्-आदि-भोग्य-भूतादित्याꣳशस्य विधीयमानम् उपासनꣳ तद्-अवस्थस्यैव ब्रह्मण इत्य् अवगम्यते। अत एवꣳविधम् उपासनम् आदित्य-वस्व्-आदीनाम् अपि सम्भवति। एवꣳ च ब्रह्मण एवोपास्यत्वात् तꣳ देवा ज्योतिषाꣳ ज्योतिः [बृहद्।, ६।४।१६] इत्य् अप्य् उपपद्यते। तद् आह वृत्ति-कारः--- अस्ति हि मध्व्-आदिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात् इति॥
Link copiedइति मध्व्-अधिकरणम्॥८॥
Link copiedअपशूद्राधिकरणम्॥९॥
Link copied[अधिकरणार्थः-- त्रैवर्णिकेतरेषाꣳ ब्रह्म-विद्यास्व् अनधिकारः]
Link copied[सꣳवर्ग-विद्या, छान्।, ४।१।२।३]
Link copied९८ शुग् अस्य तद्-अनादर-श्रवणात् तद्-आद्रवणात् सूच्यते हि॥१।३।३३॥
Link copied[विषय-सꣳशययोः स्वरूपम्]
Link copiedब्रह्म-विद्यायाꣳ शूद्रस्याप्य् अधिकारोऽस्ति न वेति विचार्यते; किꣳ युक्तम्। अस्तीति। कुतः। अर्थित्व-सामर्थ्य-प्रयुक्तत्वाद् अधिकारस्य, शूद्रस्यापि तत्-सम्भवात्।
Link copied[शूद्रेषु कर्मानधिकारः-विद्याधिकारयोर् उपपत्तिः]
Link copiedयद्य् अप्य् अग्नि-विद्या-साध्येषु कर्मस्व् अनग्नि-विद्यत्वाच् छूद्रस्यानधिकारः; तथापि मनोवृत्ति-मात्रत्वाद् ब्रह्मोपासनस्य तत्राधिकारोऽस्त्य् एव, शास्त्रीय-क्रियापेक्षत्वेऽप्य् उपासनस्य तत्-तद्-वर्णाश्रमोचित-क्रियाया एवापेक्षितत्वाच् छूद्रस्यापि स्व-वर्णोचित-पूर्व-वर्ण-शुश्रूषैव क्रिया भविष्यति। तस्माच् छूद्रो यज्ञेऽनवकॢप्तः [यजुर्। ७।१।१।१] इत्य् अप्य् अग्नि-विद्या-साध्य-यज्ञादि-कर्मानधिकार एव न्याय-सिद्धोऽनूद्यते।
Link copied[अश्रुत-वेद-वेदान्तस्यापि शूद्रस्योपासनोपपत्तिः]
Link copiedनन्व् अनधीत-वेदस्याश्रुत-वेदान्तस्य ब्रह्म-स्वरूप-तद्-उपासन-प्रकारानभिज्ञस्य कथꣳ ब्रह्मोपासनꣳ सम्भवत्य् उच्यते-- अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापीतिहास-पुराण-श्रवणेनापि ब्रह्म-स्वरूप-तद्-उपासन-ज्ञानꣳ सम्भवति। अस्ति च शूद्रस्यापीतिहास-पुराण-श्रवणानुज्ञा श्रावयेच् चतुरो वर्णान् कृत्वा ब्राह्मणम् अग्रतः [महाभा। शाल्य। ३१४।४५] इत्य् आदौ। दृश्यन्ते चेतिहास-पुराणेषु विदुरादयो ब्रह्म-निष्ठाः। तथोपनिषत्स्व् अपि सꣳवर्ग-विद्यायाꣳ शूद्रस्यापि ब्रह्म-विद्याधिकारः प्रतीयते-- शुश्रूषुꣳ हि जानश्रुतिम् आचार्यो रैक्वः शूद्रेत्य् आमन्त्र्य तस्मै ब्रह्म-विद्याम् उपदिशति-- आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथाः [छान्।, ४।२।५] इत्य् आदिना। अतः शूद्रश्याप्य् अधिकारः सम्भवति॥
Link copied[सिद्धान्तारम्भः]
Link copiedइति प्राप्त उच्यते-- न शूद्रस्याधिकारः सम्भवति, सामर्थ्याभावात्; न हि ब्रह्म-स्वरूप-तद्-उपासन--प्रकारम् अजानतः तद्-अङ्ग-भूत-वेदानु-वचन-यज्ञादिष्व् अनधिकृतस्य उपासनोपसꣳहार-सामर्थ्य-सम्भवः; असमर्थस्य चार्थित्व-सद्-भावेऽप्य् अधिकारो न सम्भवति; असामर्थ्यꣳ च वेदाध्ययनाभावात्;
Link copied[कर्मानधिकारवद् एव विद्यास्व् अनधिकारोऽपि]
Link copiedयथैव हि त्रैवर्णिक-विषयाध्ययन-विधि-सिद्ध-स्वाध्याय-सम्पाद्य-ज्ञान-लाभेन कर्म-विधयो ज्ञान-तद्-उपायादीन-परान् न स्वीकुर्वन्ति; तथा ब्रह्मोपासन-विधयोऽपि। अतोऽध्ययन-विधि-सिद्ध-स्वाध्यायाधिगत-ज्ञानस्यैव ब्रह्मोपासनोपायत्वाच् छूद्रस्य ब्रह्मोपासन-सामर्थ्यासम्भवः।
Link copied[इतिहास-पुराणयोर् ज्ञानोपायत्व-प्रकारः]
Link copiedइतिहास-पुराणेऽपि वेदोपबृहणꣳ कुर्वती एवोपायभावम् अनुभवतः; न स्वातन्त्र्येण; शूद्रस्येतिहास-पुराण-श्रवणानुज्ञानꣳ पाप-क्षयादि-फलार्थम्; नोपासनार्थम्। विदुरादयस् तु भवान्तराधिगत-ज्ञानाप्रमोषाज् ज्ञानवन्तः प्रारब्ध-कर्म-वशाच् चेदृश-जन्म-योगिन इति तेषाꣳ ब्रह्म-निष्ठत्वम्।
Link copied[जानश्रुतेः शूद्र-पद-प्रयोगौचित्यम्]
Link copiedयत् तु-- सꣳवर्ग-विद्यायाꣳ शुश्रूषोः शुद्रेति सम्बोधनꣳ शूद्रस्याधिकारꣳ सूचयति-- इति; तन् नेत्य् आह-- शुग् अस्य तद्-अनादर-श्रवणात् तद्-आद्रवणात् सूच्यते हि-- शुश्रूषोर् जानश्रुतेः पौत्रायणस्य ब्रह्म-ज्ञान-वैकल्येन हꣳसोक्तानादर-वाक्य-श्रवणात् तदैव ब्रह्म-विदो रैक्वस्य सकाशꣳ प्रत्याद्रवणाच् छुग् अस्य सञ्जातेति हि सूच्यते; अतः स शूद्रेत्य् आमन्त्र्यते, न चतुर्थ-वर्णत्वेन।
Link copied[शूद्र-पद-व्युत्पत्तिः]
Link copiedशोचतीति हि शूद्रः; शुचेर् दश् च [उणादिषु] इति र-प्रत्यये धातोश् च दीर्घे च-कारस्य च द-कारे शूद्र इति भवति। अतः शोचितृत्वम् एवास्य शूद्र-शब्द-प्रयोगेन सूच्यते; न जाति-योगः।
Link copied[आख्यायिकार्थः]
Link copiedजानश्रुतिः किल पौत्रायणो बहु-द्रव्य-प्रदो बह्व्-अन्न-प्रदश् च बभूव। तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन् महात्मनोर् अस्य ब्रह्म-जिज्ञासाम् उत्पिपादयिषतोः हꣳस-रूपेण निशायामस्याविदूरे गच्छतोर् अन्यतर इतरम् उवाच-- भो भोऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समꣳ दिवा ज्योतिर् आततꣳ तन् मा प्रसाङ्क्षीस् तत् त्वा मा प्रधाक्षीत् [छान्।, ४।१।२] इति। एवꣳ जानश्रुति-प्रशꣳसा-रूपꣳ वाक्यम् उपश्रुत्य परो हꣳसः प्रत्युवाच-- कम्बर एनम् एतत् सन्तꣳ सयुग्वानम् इव रैक्वम् आत्थ [छान्।, ४।१।३] इति। कꣳ सन्तम् एनꣳ जानश्रुतिꣳ सयुग्वानꣳ रैक्वꣳ ब्रह्म-ज्ञम् इव गुण-श्रेष्ठम् एतद् आत्थ; स ब्रह्म-ज्ञो रैक्व एव लोके गुणवत्तरः; महता धर्मेण सꣳयुक्तस्याप्य् अस्य जानश्रुतेर् अब्रह्म-ज्ञस्य को गुणः, यद् गुण-जनितꣳ तेजो रैक्व-तेज इव माꣳ दहेद् इत्य् अर्थः।
Link copied[रैक्व-परिचय-सम्पादनम्]
Link copiedएवम् उक्तेन परेण कोऽसौ रैक्व इति पृष्टः लोके यत् किञ्चित् साध्व् अनुष्ठितꣳ कर्म, यच् च सर्व-चेतन-गतꣳ विज्ञानम्, तद् उभयꣳ यदीय-ज्ञान-कर्मान्तर्भूतम्, स रैक्व इत्य् आह।
Link copied[रैक्वोपसदनम्]
Link copiedतद् एतद् धꣳस-वाक्यꣳ ब्रह्म-ज्ञान-विधुरतया आत्म-निन्दा-गर्भꣳ तद्वत्तया च रैक्व-प्रशꣳसा-रूपꣳ जानश्रुतिर् उपश्रुत्य तत्-क्षणाद् एव क्षत्तारꣳ रैक्वान्वेषणाय प्रेष्य तस्मिन् विदित्वा आगते स्वयम् अपि रैक्वम् उपसद्य गवाꣳ षट् छतꣳ निष्कम-श्वतरी-रथꣳ च रैक्वायोपहृत्य रैक्वꣳ प्रार्थयाम् आस--- अनुम एताꣳ भगवो देवताꣳ शाधि याꣳ देवताम् उपास्से [छान्।, ४।२।२] इति। त्वद्-उपास्याꣳ पराꣳ देवताꣳ ममानुशाधीत्य् अर्थः।
Link copied[रैक्वेण शूद्र-पद-प्रयोग-हेतुः]
Link copiedस च रैक्वः स्व-योग-महिम-विदित-लोक-त्रयो जानश्रुतेर् ब्रह्म-ज्ञान--विधुरता-निमित्तानादर-गर्भ-हꣳस-वाक्य-श्रवणेन शोकाविष्टताꣳ तद्-अनन्तरम् एव ब्रह्म-जिज्ञासयोद्योगꣳ च विदित्वास्य ब्रह्म-विद्या-योग्यताम् अभिज्ञाय चिर-काल-सेवाꣳ विना द्रव्य-प्रदानेन शुश्रूषमाणस्यास्य यावच् छक्ति-प्रदानेन ब्रह्म-विद्या प्रतिष्ठिता भवतीति मत्वा तम् अनुगृह्णन् तस्य शोकाविष्टताम् उपदेश-योग्यताख्यापिकाꣳ शूद्र-शब्देनामन्त्रणेन ज्ञापयन्न् इदम् आह-- अहहारे त्वा शूद्र तवैव सह गोभिर् अस्तु [छान्।, ४।२।३] इति। सह गोभिर् अयꣳ रथस् तवैवास्तु; नैतावता मह्यꣳ दत्तेन ब्रह्म-जिज्ञासया शोकाविष्टस्य तव ब्रह्म-विद्या प्रतिष्ठिता भवतीत्य् अर्थः।
Link copied[पुनर् उपसत्तिः, रैक्वेणोपदेशश् च]
Link copiedस च जानश्रुतिर् भूयोऽपि स्व-शक्त्य्-अनुगुणम् एव गवादिकꣳ धनꣳ कन्याꣳ च प्रदायोपससाद। स रैक्वः पुनर् अपि तस्य योग्यताम् एव ख्यापयञ् शूद्र-शब्देनामन्त्र्याह-- आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथाः [छान्।, ४।२।५] इति। इमानि धनानि शक्त्य्-अनुगुणान्य् आजहर्थ; अनेनैव द्वारेण चिर-सेवया विनापि माꣳ त्वद्-अभिलषितꣳ ब्रह्मोपदेश-रूप-वाक्यम् आलापियष्यसीत्य् उक्त्वा तस्मा उपदिदेश।
Link copied[विवक्षितोपसꣳहारः]
Link copiedअतः शूद्र-शब्देन विद्योपदेश-योग्यताख्यापनार्थꣳ शोक एवास्य सूचितः; न चतुर्थ-वर्णत्वम्॥३३॥
Link copied९९ क्षत्रियत्व-गतेश् च॥१।३।३४॥
Link copied[द्विजत्व-स्थिरीकरणम्]
Link copiedबहुदायी इति दान-पतित्वेन बहु-पाक्यः [छान्।, ४।१।१] इत्य् आदिना सर्वत एवम् एतद् अन्नम् अत्स्यन्ति [छान्।, ४।१।५] इत्य् अन्तेन बहुतर-पक्वान्न-प्रदायित्व-प्रतीतेः सहसञ्जिहान एव क्षत्तारम् उवाच इति क्षत्तृ-प्रेषणाद् बहु-ग्राम-प्रदानावगत-जनपदाधिपत्याच् चास्य जानश्रुतेः क्षत्रियत्व-प्रतीतेश् च न चतुर्थ-वर्णत्वम्॥३४॥
Link copied[सूत्र-सङ्गतिः]
Link copiedतद् एवम् उपक्रमगताख्यायिकायाꣳ क्षत्रियत्व-प्रतीतिर् उक्ता; उपसꣳहार-गताख्यायिकायाम् अपि क्षत्रियत्वम् अस्य प्रतीयत इत्य् अत्राह--
Link copied१०० उत्तरत्र चैत्ररथेन लिङ्गात्॥१।३।३५॥
Link copied[क्षत्रियत्व-स्थिरीकरणम्]
Link copiedअस्य जानश्रुतेर् उपदिश्यमानायाम् अस्याम् एव सꣳवर्ग-विद्यायाम् उत्तरत्र कीर्त्यमानेनाभिप्रतारि-नाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वꣳ गम्यते। कथम् अथ ह शौनकꣳ च कापेयम् अभिप्रतारिणꣳ च काक्ष-सेनिꣳ परिविष्यमाणौ ब्रह्मचारी बिभिक्षे [छान्।, ४।३।५] इत्य् आदिना ब्रह्मचारिन्न् एदम् उपास्महे [छान्।, ४।३।७] इत्य् अन्तेन कापेयाभिप्रतारिणोर् भिक्षमाणस्य ब्रह्मचारिणश् च सꣳवर्ग-विद्या-सम्बन्धित्वꣳ प्रतीयते। तेषु चाभिप्रतारी क्षत्रियः, इतरौ ब्राह्मणौ, अतोऽस्याꣳ विद्यायाꣳ ब्राह्मणस्य तद्-इतरेषु च क्षत्रियस्यैवान्वयो दृश्यते; न शूद्रस्य। अतोऽस्याꣳ विद्यायाम् अन्विताद् रैक्वाद् ब्राह्मणाद् अन्यस्य जानश्रुतेर् अपि क्षत्रियत्वम् एव युक्तम्; न चतुर्थ-वर्णत्वम्।
Link copied[उक्तार्थे आक्षेपस् तत्-परिहारश् च]
Link copiedनन्व् अस्मिन् प्रकरणेऽभिप्रतारिणश् चैत्ररथत्वꣳ क्षत्रियत्वꣳ च न श्रुतम्; तत् कथमस्याभिप्रतारिणः चैरथत्वꣳ कथꣳ वा क्षत्रियत्वꣳ तत्राह लिङ्गात्-- इति। अथ ह शौनकꣳ च कापेयम् अभिप्रतारिणꣳ च काक्षसेनिम् [छान्।, ४।३।५] इत्य् अभिप्रतारिणः कापेय-साहचर्याल् लिङ्गाद् अस्याभिप्रतारिणः कापेय-सम्बन्धः प्रतीयते; अन्यत्र च एतेन वै चैत्ररथꣳ कापेया अयाजयन् [ताण्ड्य। २।१२।५] इति कापेयस-बन्धिनश् चैत्ररथत्वꣳ श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वꣳ तस्माच् चैत्ररथो नामैकः क्षत्रपतिर् अजायत [शतपथ। ११।५।३।१३] इति; अतोऽभिप्रतारिणश् चैत्ररथत्वꣳ क्षत्रियत्वꣳ च गम्यते॥३५॥
Link copied[सूत्रयोः सङ्गतिः]
Link copiedतद् एवꣳ न्याय-विरोधिनि शूद्रस्याधिकारे लिङ्गꣳ नोपलभ्यत इत्य् उक्तम्,
Link copiedइदानीꣳ न्याय-सिद्धः शूद्रस्यानधिकारः श्रुति-स्मृतिभिर् अनुगृह्यत इत्य् आह--
Link copied१०१ सꣳस्कार-परामर्शात् तद्-आभावाभिलापाच् च॥१।३।३६॥
Link copied[उपनयनस्य त्रैवर्णिकता-स्थापकत्वम्]
Link copiedब्रह्म-विद्योपदेशेषूपनयन-सꣳस्कारः परामृश्यते-- उप त्व् आनेष्ये [छान्।, ४।४।५] तꣳ होपनिन्ये [आप। श्रौ। सू।] इत्य् आदिषु। शूद्रस्य चोपनयनादि-सꣳस्काराभावोऽभिलप्यते-- न शूद्रे पातकꣳ किञ्चिन् न च सꣳस्कारम् अर्हति [मनु। १०।१२६], चतुर्थो वर्ण एक-जातिर् न च सꣳस्कारम् अर्हति [गौत। १०।९] इत्य् आदिषु॥३६॥
Link copied१०२ तद्-अभाव-निर्धारणे च प्रवृत्तेः॥१।३।३७॥
Link copied[उपदेशात् पूर्वꣳ ब्राह्मणत्व-निर्णय-प्रवृत्ति-दर्शनꣳ विद्यान्तरे]
Link copiedनैतद् अब्राह्मणो विवक्तुम् अर्हति समिधꣳ सोम्याहर [छान्।, ४।४।५] इति शुश्रूषोर् जाबालस्य शूद्रत्वाभाव-निर्धारणे सत्य् एव विद्योपदेश-प्रवृत्तेश् च न शूद्रस्याधिकारः॥३७॥
Link copied१०३ श्रवणाध्ययनार्थ-प्रतिषेधात्॥१।३।३८॥
Link copied[शूद्रेऽध्ययनोपासन-निषेधस्य श्रौतता]
Link copiedशूद्रस्य वेद-श्रवण-तद्-अध्ययन-तद्-अर्थानुष्ठानानि प्रतिषिध्यन्ते पद्यु ह वा एतच् छ्मशानꣳ यच् छूद्रस् तस्माच् छूद्र-समीपे नाध्येतव्यꣳ तस्माच् छूद्रो बहु-पशुर् अयज्ञीयः इति। बहु-पशुः पशु-सदृश इत्य् अर्थः। अनुपशृण्वतोऽध्ययन-तद्-अर्थ-ज्ञान-तद्-अर्थानुष्ठानानि न सम्भवन्ति; अतस् तान्य् अपि प्रतिषिद्धान्य् एव॥३८॥
Link copied१०४ स्मृतेश् च॥१।३।३९॥
Link copied[उक्तार्थस्य स्मृतितः सिद्धिः]
Link copiedस्मर्यते च श्रवणादि-निषेधः अथ हास्य वेदम् उपशृण्वतस् त्रपु-जतुभ्याꣳ श्रोत्र-प्रतिपूरणम् उदाहरणे जिह्वा-च्छेदो धारणे शरीर-भेदः [गौत। ध। २।१२।३] इति, न चास्योपदिशेद् धर्मꣳ नचास्य व्रतम् आदिशेत् [मनु। ४।८०] इति च; अतः शूद्रस्यानधिकार इति सिद्धम्॥३९॥
Link copied[अस्याधिकरणस्य पराभिमतार्थ-विरुद्धता]
Link copiedये तु निर्विशेष-चिन्-मात्रꣳ ब्रह्मैव परमार्थः; अन्यत् सर्वꣳ मिथ्या-भूतम्; बन्धश् चापारमार्थिकः; स च वाक्य-जन्य-वस्तु-याथात्म्य-ज्ञान-मात्र-निवर्त्यः; तन्-निवृत्तिर् एव मोक्षः-- इति वदन्ति; तैर् ब्रह्म-ज्ञाने शूद्रादेर् अनधिकारो वक्तुꣳ न शक्यते; अनुपनीतस्य अनधीत-वेदस्याश्रुत-वेदान्त-वाक्यस्यापि यस्मात् कस्माद् अपि निर्विशेष-चिन्-मात्रꣳ ब्रह्मैव परमार्थोऽन्यत् सर्वꣳ तस्मिन् परिकल्पितꣳ मिथ्या-भूतम् इति वाक्याद् वस्तु-याथात्म्य-ज्ञानोत्पत्तेः, तावतैव बन्ध-निवृत्तेश् च। न च तत् त्वम् अस्य् आदि वाक्येनैव ज्ञानोत्पत्तिः कार्या न वाक्यान्तरेणेति नियन्तुꣳ शक्यम्; ज्ञानस्यापुरुष-तन्त्रत्वात्, सत्याꣳ सामग्र्याम् अनिच्छतोऽपि ज्ञानोत्पत्तेः।
Link copied[वेदायत्त-ज्ञानस्यैव बन्ध-निवर्तकत्वाशङ्का तत्-परिहारश् च]
Link copiedन च वेद-वाक्याद् एव वस्तु-याथात्म्य-ज्ञाने सति बन्ध-निवृत्तिर् भवतीति शक्यꣳ वक्तुम्, येन केनापि वस्तु-याथाम्य-ज्ञाने सति भ्रान्ति-निवृत्तेः; पौरुषेयाद् अपि निर्विशेष-चिन्-मात्रꣳ ब्रह्म परमार्थोऽन्यत् सर्वꣳ मिथ्या-भूतम् इति वाक्याज् ज्ञानोत्पत्तेस् तावतैव भ्रम-निवृत्तेश्च। यथा पौरुषेयाद् अप्य् आप्त-वाक्याच् छुक्तिका-रजतादि-भ्रान्तिर् ब्राह्मणस्य शूद्रादेर् अपि निवर्तते, तद्वद् एव शूद्रस्यापि वेदवित् सम्प्रदायागत-वाक्याद् वस्तु-याथात्म्य-ज्ञानेन जगद्-भ्रम-निवृत्तिर् अपि भविष्यति॥
Link copied[वेदविद्भिः शूद्रस्य ज्ञानासम्भव-शङ्का-- तत्-परिहारौ]
Link copiedन चास्योपदिशेद् धर्मम् [मनु। ४।८०] इत्य् आदिना वेद-विदः शूद्रादिभ्यो न वदन्तीति च न शक्यꣳ वक्तुम्, तत् त्वम् अस्यादि वाक्यावगत-ब्रह्मात्म-भावानाꣳ वेद-शिरसि वर्तमानतया दग्धाखिलाधिकारत्वेन निषेध-शास्त्र-किङ्करत्वाभावात्, अतिक्रान्त-निषेधैर् वा कैश्चिद् उक्ताद् वाक्याच् छूद्रादेर् ज्ञानम् उत्पद्यत एव।
Link copied[पौरुषेय-वाक्याद् बन्ध-हेतु-भ्रम-निवृत्ति-शङ्का-- तत्-परिहारौ]
Link copiedन च वाच्यꣳ-- शुक्तिकादौ रजतादि-भ्रम-निवृत्तिवत् पौरुषेय--वाक्य-जन्य-तत्त्व-ज्ञान-समनन्तरꣳ शूद्रस्य जगद्-भ्रमो न निवर्तत इति; तत् त्वम् अस्यादि वाक्य-श्रवण-समनन्तरꣳ ब्राह्मणस्यापि जगद्-भ्रमानिवृत्तेः। निदिध्यासनेन द्वैत-वासनायाꣳ निरस्तायाम् एव तत् त्वम् अस्यादि वाक्यꣳ निवर्तक-ज्ञानम् उत्पादयतीति चेत्-- पौरुषेयम् अपि वाक्यꣳ शूद्रादेस् तथैवेति न कश्चिद् विशेषः।
Link copiedनिदिध्यासनꣳ हि नाम ब्रह्मात्मत्व-भावाभिधायी वाक्यꣳ यद्-अर्थ-प्रतिपादन-योग्यम्, तद्-अर्थ-भावना; सैव विपरीत-वासनाꣳ निवर्तयतीति दृष्टार्थत्वꣳ निदिध्यासन-विधेर् ब्रूषे, वेदानुवचनादीन्य् अपि विविदिषोत्पत्ताव् एवोपयुज्यन्ते इति शूद्रस्यापि विविदिषायाꣳ जातायाꣳ पौरुषेय-वाक्यान् निदिध्यासनादिभिर् विपरीत-वासनायाꣳ निरस्तायाꣳ ज्ञानम् उत्पत्स्यते; तेनैवापारमार्थिको बन्धो निवर्तिष्यते।
Link copied[मुखान्तरेण ज्ञान-सम्भव-प्रदर्शनतः पराभिप्राय-निरसनम्]
Link copiedअथवा तर्कानुगृहीतात् प्रत्यक्षाद् अनुमानाच् च निर्विशेष-स्व-प्रकाश-चिन्-मात्र-प्रत्यग्-वस्तुन्य् अज्ञान-साक्षित्वꣳ, तत्-कृत-विविध-विचित्र-ज्ञातृ-ज्ञेय-विकल्प-रूपꣳ कृत्स्नꣳ जगच् चाध्यस्तम् इति निश्चित्यैवम्भूत-परिशुद्ध-प्रत्यग्-वस्तुन्य् अनवरत-भावनया विपरीत-वासनाꣳ निरस्य तद् एव प्रत्यग्-वस्तु साक्षात्कृत्य शूद्रादयोऽपि विमोक्ष्यन्त इति मिथ्या-भूत-विचित्रैश्वर्य-विचित्र-सृष्ट्य्-आद्य्-अलौकिकानन्त-विशेषावलम्बिना वेदान्त-वाक्येन न किञ्चित् प्रयोजनम् इह दृश्यत इति शूद्रादीनाम् एव ब्रह्म-विद्यायाम् अधिकारः सुशोभनः।
Link copied[श्रुति-वैयर्थ्य-रूपम् अनुपपत्त्य्-अन्तरम्]
Link copiedअनेनैव न्यायेन ब्राह्मणादीनाम् अपि ब्रह्म-वेदन-सिद्धेर् उपनिषच् च तपस्विनी दत्त-जलाञ्जलिः स्यात्।
Link copied[प्रकारान्तरेण श्रुति-जन्य-ज्ञानावश्यकत्व-शङ्का तत्-परिहारश् च]
Link copiedन च वाच्यꣳ नैसर्गिक-लोक-व्यवहारे भ्राम्यतोऽस्य केनचिद् अयꣳ लौकिक-व्यवहारो भ्रमः, परमार्थस् त्व् एवम् इति समर्पिते सत्य् एव प्रत्यक्षानुमान-वृत्त-बुभुत्सा जायत इति तत्-समर्पिका श्रुतिर् अप्य् आस्थेयेति; यतो भव-भय-भीतानाꣳ साङ्ख्यादय एव प्रत्यक्षानुमानाभ्याꣳ वस्तु-निरूपणꣳ कुर्वन्तः प्रत्यक्षानुमान-वृत्त-बुभुत्साꣳ जनयन्ति; बुभुत्सायाꣳ च जातायाꣳ प्रत्यक्षानुमानाभ्याम् एव विविक्त-स्वभावाभ्याꣳ नित्य-शुद्ध-स्व-प्रकाशाद्वितीय-कूटस्थ-चैतन्यम् एव सत्, अन्यत्स् अर्वꣳ तस्मिन्न् अध्यस्तम् इति सुविवेचम्। एवम्भूते स्व-प्रकाशे वस्तुनि श्रुति-समधिगम्यꣳ विशेषान्तरꣳ च नाभ्युपगम्यते; अध्यस्तातद्-रूप-निवर्तिनी हि श्रुतिर् अपि त्वन्-मते। न च सत आत्मन आनन्द-रूपताज्ञानाय उपनिषदास्थेया, चिद्-रूपताया एव सकलेतरातद्-रूप-व्यावृत्ताया आनन्द-रूपत्वात्।
Link copied[उपासनस्य वेदान्त-विहितस्य मोक्षोपायत्व-वादिना सर्व-दोषाभावः]
Link copiedयस्य तु मोक्ष-साधनतया वेदान्त-वाक्यैर् विहितꣳ ज्ञानम् उपासन-रूपम्, तच् च परब्रह्म-भूत-परम-पुरुष-प्रीणनम्, तच् च शास्त्रैक-समधिगम्यम्, उपासन-शास्त्रꣳ चोपनयनादि-सꣳस्कृताधीत-स्वाध्याय-जनितꣳ ज्ञानꣳ विवेक-विमोकादि-साधनानुगृहीतम् एव स्वोपायतया स्वीकरोति, एवꣳ रूपोपासन-प्रीतः पुरुषोत्तम उपासकꣳ स्वाभाविकात्म-याथात्म्य-ज्ञान-दानेन कर्म-जनिताज्ञानꣳ नाशयन् बन्धान् मोचयतीति पक्षः; तस्य यथोक्तया नीत्या शूद्रादेर् अनधिकार उपपद्यते॥
Link copiedइत्य् अपशूद्राधिकरणम्॥९॥
Link copiedप्रमिताधिकरण-शेषः॥१०॥
Link copied[पूर्वेणाधिकरणेन प्रसक्तिः]
Link copiedतद् एवꣳ प्रसक्तानुप्रसक्ताधिकार-कथाꣳ परिसमाप्य प्रकृतस्याङ्गुष्ठ-प्रमितस्य भूत-भव्येशितृत्वावगत परब्रह्म-भावोत्तम्भनꣳ हेत्व्-अन्तरम् आह--
Link copied१०५ कम्पनात्॥१।३।४०॥
Link copied[सूत्रार्थ-विवृतिः]
Link copiedअङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति [कठ।, २।४।१२] अङ्गुष्ठ-मात्रः पुरुषोऽन्तरात्मा [कठ।, २।६।१७] इत्य् अनयोर् वाक्ययोर् मध्ये यद् इदꣳ किꣳ च जगत् सर्वꣳ प्राण एजति निःसृतम्। महद् भयꣳ वज्रम् उद्यतꣳ य एतद् विदुर् अमृतास् ते भवन्ति। भयाद् अस्याग्निस् तपति भयात् तपति सूर्यः। भयादिन्द्रश् च वायुश् च मृत्युर् धावति पञ्चमः [कठ।, २।६।४] इति कृत्स्नस्य जगतोऽग्नि-सूर्यादीनाꣳ चास्मिन्न् अङ्गुष्ठ-मात्रे पुरुषे प्राण-शब्द-निर्दिष्टे स्थितानाꣳ सर्वेषाꣳ ततो निःसृतानाꣳ तस्मात् सञ्जात-महा-भय-निमित्तम् एजनꣳ कम्पनꣳ श्रूयते। तच्-छासनातिवृत्तौ किꣳ भविष्यतीति महतो भयाद् वज्रादिवोद्यतात् कृत्स्नꣳ जगत् कम्पत इत्य् अर्थः।
Link copied[विषय-वाक्यस्य योजनाया अनुशासनात् सिद्धिः]
Link copiedभयाद् अस्याग्निस् तपति [कठ।, २।६।३] इत्य् अनेनैकार्थ्यान् महद् भयꣳ वज्रम् उद्यतम् [कठ।, २।६।२] इति पञ्चम्य् अर्थे प्रथमा। अयꣳ च परस्य ब्रह्मणः स्वभाव एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः [बृहद्।, ५।८।९], भीषास्माद्वातः पवते भीषोदेति सूर्यः। भीषास्माद् अग्निश् चेन्द्रश् च। मृत्युर् धावति पञ्चमः [तै।, २।८।१] इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवꣳ-विधैश्वर्यावगतेः॥४०॥
Link copiedइतश् चाङ्गुष्ठ-प्रमितः पुरुषोत्तमः
Link copied१०६ ज्योतिर् दर्शनात्॥१।३।४१॥
Link copied[सूत्रार्थ-विवृतिः, परस्य ब्रह्मणर् ज्योतिष्ट्वꣳ च]
Link copiedतयोर् एवाङ्गुष्ठ-प्रमित-विषययोर् वाक्ययोर् मध्ये परब्रह्मासाधारणꣳ सर्व-तेजसाꣳ छादकꣳ सर्व-तेजसाꣳ कारण-भूतम् अनुग्राहकꣳ चाङ्गुष्ठ-प्रमितस्य ज्योतिर् दृश्यते-- न तत्र सूर्यो भाति न चन्द्र-तारकꣳ नेमा विद्युतो भान्ति कुतोऽयम् अग्निः। तम् एव भान्तम् अनुभाति सर्वꣳ तस्य भासा सर्वम् इदꣳ विभाति॥ [कठ।, २।५।१५] इति। अयम् एव श्लोक आथर्वणे परꣳ ब्रह्माधिकृत्य श्रूयते। पर-ज्योतिष्ठ्वꣳ च सर्वत्र परस्य ब्रह्मणः श्रूयते। यथा-- परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छान्।, ८।१२।२] तꣳ देवा ज्योतिषाꣳ ज्योतिरायुर्होपासतेऽमृतम् [बृहद्।, ६।४।१६] अथ यद् अतः परो दिवो ज्योतिर् दीप्यते [छान्।, ३।१३।७] इत्य् आदिषु। अतो अङ्गुष्ठ-प्रमितः परꣳ ब्रह्म॥४१॥
Link copiedइति प्रमिताधिकरण-शेषः॥१०॥
Link copiedअर्थान्तरत्वादि-व्यपदेशाधिकरणम्॥११॥
Link copied[अधिकरणार्थः-- नाम-रूपनिर्वोढा आकाशः, परमात्मा]
Link copied[दहर-विद्या-शेष-भूतम्, छान्।, ८।१४]
Link copied१०७ आकाशोऽर्थान्तरत्वादि-व्यपदेशात्॥१।३।४२॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedछान्दोग्ये श्रूयते आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म तद् अमृतꣳ स आत्मा [छान्।, ८।१४।१] इति।
Link copied[सꣳशयाकारः]
Link copiedतत्र सꣳशयः-- किम् अयम् आकाश-शब्द-निर्दिष्टो मुक्तात्मा, उत परमात्मा-- इति।
Link copied[पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ मुक्तात्मेति। कुतः। अश्व इव रोमाणि विधूय पापꣳ चन्द्र इव राहोर् मुखात् प्रमुच्य। धूत्वा शरीरम् अकृतꣳ कृतात्मा ब्रह्म-लोकम् अभिसम्भवामि॥ [छान्।, ८।१३।१] इति मुक्तस्यानन्तर-प्रकृतत्वात्, ते यद् अन्तरा [छान्।, ८।१४।१] इति च नाम-रूप-विनिर्मुक्तस्य तस्याभिधानात्, नाम-रूपयोर् निर्वहिता [छान्।, ८।१४।२] इति च स एव पूर्वावस्थयोपलिलक्षयिषितः; स एव हि देवादि-रूपाणि नामानि च पूर्वम् अबिभृत; तस्यैव नाम-रूप-विनिर्मुक्ता साम्प्रतिक्यवस्था तद् ब्रह्म तद् अमृतम् [छान्।, ८।१४।१] इत्य् उच्यते। आकाश-शब्दश् च तस्मिन्न् अप्य् असङ्कुचित-प्रकाश-योगाद् उपपद्यते।
Link copied[परमात्म-प्रतिपादन-वाक्य-शेषत्व-कृत-परमात्म-परत्व-शङ्का-- तद्-दूषणे]
Link copiedननु दहर-वाक्य-शेषत्वाद् अस्य स एव दहराकाशोऽयम् इति प्रतीयते। तस्य च परमात्मत्वꣳ निर्णीतम्। मैवꣳ, प्रजापति-वाक्य-व्यवधानात्। प्रजापति-वाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तꣳ रूपम् अभिहितम्; अनन्तरꣳ च विधूय पापम् [छान्।, ८।१३।१] इति स एव मुक्तावस्थः प्रस्तुतः। अतोऽत्राकाशो मुक्तात्मा॥
Link copied[सिद्धान्तारम्भः]
Link copiedइति प्राप्ते उच्यते-- आकाशोऽर्थान्तरत्वादि-व्यपदेशात्-- इति। आकाशः परꣳ ब्रह्म। कुतः। अर्थान्तरत्वादि-व्यपदेशात्। अर्थान्तरत्व-व्यपदेशस् तावत्--- आकाशो ह वै नाम-रूपयोर् निर्वहिता [छान्।, ८।१४।१] इति नाम-रूपयोर् निर्वोढृत्वꣳ बद्ध-मुक्तोभयावस्थात् प्रत्यगात्मनोऽर्थान्तरत्वम् आकाशस्योपपादयति। बद्धावस्थः स्वयꣳ कर्म-वशान् नाम-रूपे भजमानो न नाम-रूपे निर्वोढुꣳ शक्नुयात्; मुक्तावस्थस्य जगद्-व्यापारासम्भवान् न नितराꣳ नाम-रूप-निर्वोढृत्वम्; ईश्वरस्य तु सकल-जगन्-निर्माण-धुरन्धरस्य नाम-रूपयोर् निर्वोढृत्वꣳ श्रुत्यैव प्रतिपन्नम् अनेन जीवेनात्मना अनुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२], यः सर्व-ज्ञः सर्व-विद्यस्य ज्ञान-मयꣳ तपः। तस्माद् एतद् ब्रह्म नाम-रूपम् अन्नꣳ च जायते [मुण्ड्।, १।१।९], सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यद् आस्ते इत्य् आदिषु। अतो निर्वाह्यनाम-रूपात् प्रत्यगात्मनो नाम-रूपयोर् निर्वोढायमाकाशोऽर्थान्तर-भूतः परम् एव ब्रह्म। तद् एवोपपादयति ते यद् अन्तरा [छान्।, ८।१४।१] इति। यस्माद् अयम् आकाशो नाम-रूपे अन्तरा-- ताभ्याम् अस्पृष्टोऽर्थान्तर-भूतः, तस्मात् तयोर् निर्वोढा अपहत-पाप्मत्वात् सत्य-सङ्कल्पत्वाच् च निर्वहितेत्य् अर्थः। आदि-शब्देन ब्रह्मत्वात्मत्वामृतत्वानि गृह्यन्ते। निरुपाधिक-बृहत्त्वादयो हि परमात्मन एव सम्भवन्ति; तेनात्राकाशः परम् एव ब्रह्म।
Link copied[अधिकरण-द्वयार्थ-निगमनम्]
Link copiedयत् पुनर् उक्तꣳ धूत्वा शरीरम् [छान्।, ८।१४।१] इति मुक्तोऽनन्तर-प्रकृत इति तन् न, ब्रह्म-लोकम् अभिसम्भवामि [छान्।, ८।१४।१] इति परस्यैव ब्रह्मणोऽनन्तर-प्रकृतत्वात्। यद्य् अप्य् अभिसम्भवितुर् मुक्तस्याभिसम्भाव्यतया परꣳ ब्रह्म निर्दिष्टम्, तथाप्य् अभिसम्भवितुर् मुक्तस्य नाम-रूप-निर्वोढुत्वाद्य्-असम्भवाद् अभिसम्भाव्यꣳ परम् एव ब्रह्म तत्र प्रत्येतव्यम्।
Link copied[प्रजापति-वाक्यस्याव्यवधायकत्वम्]
Link copiedकिꣳ च आकाश-शब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात्, प्रजापति-वाक्यस्याप्य् उपासक-स्वरूप-कथनार्थत्वाद् उपास्य एव दहराकाशः प्राप्यतयेहोपसꣳह्रियत इति युक्तम्। आकाश-शब्दश् च प्रत्यगात्मनि न क्वचिद् दृष्ट-चरः। अतोऽत्राकाशः परꣳ ब्रह्म॥४२॥
Link copiedअथ स्यात्-- प्रत्यगात्मनोऽर्थान्तर-भूतम् आत्मान्तरम् एव नास्ति, ऐक्योपदेशात्, द्वैत-प्रतिषेधाच् च। शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परꣳ ब्रह्म परमेश्वर इति च व्यपदिश्यते; अतः प्रकृतान् मुक्तात्मनोऽभिसम्भिवतुर् नार्थान्तरम् अभिसम्भाव्यो ब्रह्म-लोकः; अतो नाम-रूपयोर् निर्वहिता आकाशोऽपि स एव भवितुम् अर्हातीत्य् अत उत्तरꣳ पठति--
Link copied१०८ सुषुप्त्य्-उत्क्रान्त्योर् भेदेन॥१।३।४३॥
Link copied[सूत्रार्थ-विवरणम्]
Link copiedव्यपदेशाद् इति वर्तते, सुषुप्त्य्-उक्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तर-भूतः परमात्मास्त्य् एव। तथा हि-- वाजसनेयके कतम आत्मा योऽयꣳ विज्ञान-मयः प्राणेषु [बृहद्।, ६।३।७] इति प्रकृतस्य प्रत्यगात्मनः सुषुप्त्य्-अवस्थायाम् अकिञ्चिज्-ज्ञस्य सर्व-ज्ञेन परमात्मना परिष्वङ्ग आम्नायते-- प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यꣳ [बृहद्।, ६।३।२१] इति; तथोत्क्रान्ताव् अपि प्राज्ञेनात्मनान्वारूढ उत्सर्जन्याति [बृहद्।, ६।३।३५] इति। न च स्वरूपत उत्क्रामतो वा अस्याकिञ्चिज्-ज्ञस्य तदानीम् एव स्वेनैव सर्व-ज्ञेन सता परिष्वङ्गान्वारोहौ सम्भवतः न च क्षेत्रज्ञान्तरेण, तस्यापि सर्व-ज्ञत्वासम्भवात्॥४३॥
Link copied[उक्तार्थे हेत्व्-अन्तर-वर्णन-परसूत्रावतरणम्]
Link copiedइतश् च प्रत्यगात्मनोऽर्थान्तर-भूतः परमात्मेत्य् आह--
Link copied१०९ पत्य्-आदि-शब्देभ्यः॥१।३।४४॥
Link copied[सूत्रार्थ-विवरणम्]
Link copiedअयꣳ परिष्वञ्जकः परमात्मा उत्तरत्र पत्य्-आदि-शब्दैर् व्यपदिश्यते सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्। एष सर्वेश्वर एष भूताधिपतिर् एष भूत-पाल एष सेतुर् विधरण एषाꣳ लोकानाम् असम्भेदाय। तम् एतꣳ वेदानुवचनेन ब्राह्मणा विविदिषन्ति॥।। एतम् एव विदित्वा मुनिर् भवति। एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति [बृहद्।, ६।४।२२], स वा एष महानज आत्मान्नादो वसुदानः [बृहद्।, ६।४।२४], अजरोऽमृतोऽभयो ब्रह्म [बृहद्।, ६।४।२५] इति।
Link copied[पतित्वादेः परमात्मासाधारणत्वम् ऐक्योपदेश-तात्पर्यꣳ च]
Link copiedएते च पतित्व-जगद्-विधरणत्व-सर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चित् सम्भवन्ति। अतो मुक्तात्मनोऽर्थान्तर-भूतो नाम-रूपयोर् निर्वहिताकाशः। ऐक्योपदेशस् तु सर्वस्य चिद्-अचिद्-आत्मकस्य ब्रह्म-कार्यत्वेन तद्-आत्मकत्वायत्त इति सर्वꣳ खल्व् इदꣳ ब्रह्म तज् जलान् [छान्।, ३।१४।१] इत्य् आदिभिर् वाक्यैः प्रतिपाद्यत इति पूर्वम् एव समर्थितम्। द्वैत-प्रतिषेधश् च तत एवेत्य् अनवद्यम्॥४३॥
Link copiedइत्य् अर्थान्तरत्वादि-व्यपदेशाधिकरणम्॥११॥
Link copiedइति श्री-रामानुजाचार्य-रचिते ब्रह्मसूत्र-भाष्ये प्रथमस्याध्यायस्य तृतीयः पादः।
Link copiedप्रथमाध्याये
Link copiedचतुर्थ-पादः
आनुमानिकाधिकरणम्॥१॥
Link copied[अधिकरणार्थः-- अव्यक्त-शब्दार्थो न साङ्ख्योक्तꣳ प्रधानꣳ किन्तु शरीरम् एव]
Link copied[अधिकरण-द्वयार्थ-निगमनम्]
Link copied११० आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च॥१।४।१॥
Link copied[द्वितीय-तृतीय-पादार्थ-सङ्ग्रहः]
Link copiedउक्तꣳ परम-पुरुषार्थ-लक्षण-मोक्ष-साधनतया जिज्ञास्यꣳ जगज्-जन्मादि-कारणꣳ ब्रह्माचिद्-वस्तुनः प्रधानादेश् चेतनाच् च बद्ध-मुक्तोभयावस्थाद् विलक्षणꣳ, निरस्त-समस्त-हेय-गन्धꣳ, सर्व-ज्ञꣳ, सर्व-शक्ति सत्य-सङ्कल्पꣳ, समस्त-कल्याण-गुणात्मकꣳ सर्वान्तरात्म-भूतꣳ निरङ्कुशैश्वर्यम् इति।
Link copied[प्रकृत-चतुर्थ-पादार्थ-सङ्ग्रहः]
Link copiedइदानीꣳ कापिल-तन्त्र-सिद्धाब्रह्मात्मक-प्रधान-पुरुषादि-प्रतिपादन-मुखेन प्रधान-कारणत्व-प्रतिपादन-च्छायानुसारीण्य् अपि कानिचिद् वाक्यानि कासुचिच् छाखासु सन्तीत्य् आशङ्क्य ब्रह्मैक-कारणत्व-स्थेम्ने तन्-निराक्रियते।
Link copied[विषय-प्रदर्शनम्]
Link copiedकठ-वल्लीष्व् आम्नायते-- इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परꣳ मनः। मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः। महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः। पुरुषान् न परꣳ किञ्चित् सा काष्ठा सा परा गतिः [कठ।, १।३।१०] इति।
Link copied[अधिकरणाङ्गभूतः सꣳशयः]
Link copiedतत्र सन्देहः-- किꣳ कापिल-तन्त्र-सिद्धम् अब्रह्मात्मकꣳ प्रधानम् इहाव्यक्त-शब्देनोच्यते उत न, इति;
Link copied[पूर्वः पक्षः]
Link copiedकिꣳ युक्तꣳ प्रधानम् इति। कुतः। महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः [कठ।, १।३।११] इति तन्त्र-सिद्ध-तत्त्व-प्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः; पुरुषान् न परꣳ किञ्चित् सा काष्ठा सा परा गतिः [कठ।, १।३।१२] इति पञ्च-विꣳशक-पुरुषातिरिक्त-तत्त्व-निषेधाच् च। अतोऽव्यक्तꣳ कारणम् इति प्राप्तम्। तद् इदम् उक्तम्-- आनुमानिकम् अप्य् एकेषाम् इति चेत्-- इति। एकेषाꣳ शाखिनाꣳ शाखास्व् आनुमानिकꣳ प्रधानम् अपि कारणम् आम्नायत इति चेत्
Link copied[सिद्धान्तारम्भः]
Link copiedअत्रोत्तरꣳ-- नेति। नाव्यक्त-शब्देनाब्रह्मात्मकꣳ प्रधानम् इहाभिधीयते। कुतः।
Link copiedशरीर-रूपक-विन्यस्त-गृहीतेः-- शरीराख्य-रूपक-विन्यस्तस्याव्यक्त-शब्देन गृहीतेः। आत्म-शरीर-बुद्धि-मन-इन्द्रिय-विषयेषु रथ-रथादि-भावेन रूपितेषु रथ-रूपणेन विन्यस्तस्य शरीरस्यात्राव्यक्त-शब्देन ग्रहणाद् इत्य् अर्थः।
Link copiedएतद् उक्तꣳ भवति-- पूर्वत्र ह्य् आत्मानꣳ रथिनꣳ विद्धि शरीरꣳ रथम् एव च। बुद्धिꣳ तु सारथिꣳ विद्धि मनः प्रग्रहम् एव च। इन्द्रियाणि हयानाहुर् विषयाꣳस् तेषु गोचरान् [कठ।, १।३।३] इत्य् आदिना, सोऽध्वनः पारमाप्नोति तद् विष्णोः परमꣳ पदम् [कठ।, १।३।९] इत्य् अन्तेन सꣳसाराध्वनः पारꣳ वैष्णवꣳ पदꣳ प्रेप्सन्तम् उपासकꣳ रथित्वेन तच्-छरीरादीनि च रथ-रथाङ्गत्वेन रूपयित्वा, यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वनः पारꣳ वैष्णवꣳ पद्माप्नोतीत्य् उक्त्वा, तेषु रथादि-रूपित-शरीरादिषु यानि येभ्यो वशीकार्यतायाꣳ प्रधानानि, तान्य् उच्यन्ते इन्द्रियेभ्यः पराः [कठ।, १।३।१०] इत्य् आदिना।
Link copied[वशीकार्येषु प्राधान्य-विशदीकरणम्]
Link copiedतत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिताः विषयाः वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषय-सन्निधाव् इन्द्रियाणाꣳ दुर्निग्रहत्वात्। तेभ्योऽपि परꣳ प्रग्रह-रूपितꣳ मनः, मनसि विषय-प्रवणे विषयासन्निधानस्याप्य् अकिञ्चित्करत्वात्। तस्माद् अपि सारथित्व-रूपिता बुद्धिः परा, अध्यवसायाभावे मनसोऽप्य् अकिञ्चत्करत्वात्। तस्या अपि रथित्व-रूपित आत्मा कर्तृत्वेन प्राधान्यात् परः; सर्वस्य चास्यात्मेच्छायत्तत्वाद् आत्मैव महान् इति च विशेष्यते। तस्माद् अपि रथ-रूपितꣳ शरीरꣳ परम्, तद्-आयत्तत्वाज् जीवात्मनः सकल-पुरुषार्थ-साधन-प्रवृत्तीनाम्। तस्माद् अपि परः सर्वान्तरात्म-भूतोऽन्तर्याम्य् अध्वनः पारभूतः परम-पुरुषः, यथोक्तस्यात्म-पर्यन्तस्य समस्तस्य तत्-सङ्कल्पायत्त-प्रवृत्तित्वात्। स खल्व् अन्तर्यामितयोपासनस्यापि निर्वर्तकः। परात् तु तच् छ्रुतेः [ब्र। सू। २।३।४०] इति हि जीवात्मनः कर्तृत्वꣳ परम-पुरुषायत्तम् इति वक्ष्यते। वशीकार्योपासन-निर्वृत्त्य्-उपाय-काष्ठा-भूतः परम-प्राप्यश् च स एव। तद् इदम् उच्यते पुरुषान्न परꣳ किञ्चित् सा काष्ठा सा परा गतिः [कठ।, १।३।११] इति। तथा चान्तार्यामि-ब्राह्मणे, य आत्मनि तिष्ठन् [बृहद्।, ५।७।१२] इत्य् आदिभिः सर्वꣳ साक्षार्त् कुवन् सर्वꣳ नियमयतीत्य् उक्त्वा नान्योऽतोऽस्ति द्रष्टा [बृहद्।, ५।७।२३] इति नियन्त्रन्तरꣳ निषिध्यते। भगवद्गीतासु च--- अधिष्ठानꣳ तथा कर्ता करणꣳ च पृथग् विधम्। विविधा च पृथक् चेष्टा दैवꣳ चैवात्र पञ्चमम् [भ। गी।, १८।१४] इति। दैवम् अत्र पुरुषोत्तम एव सर्वस्य चाहꣳ हृदि सन्निविष्टो मत्तः स्मृतिर् ज्ञानम् अपोहनꣳ च [भ। गी।, १५।१५] इति वचनात्। तस्य च वशीकरणꣳ तच्-छरणागतिर् एव। यथाह-- ईश्वरः सर्व-भूतानाꣳ हृद्-देशेऽर्जुन तिष्ठति। भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया। तम् एव शरणꣳ गच्छ [भ। गी।, १८।६१।६२] इति।
Link copied[शरीरस्यैवाव्यक्त-पद-बोध्यता]
Link copiedतद् एवम् आत्मानꣳ रथिनꣳ विद्धि [कठ।, १।३।३] इत्य् आदिना रथ्य्-आदि-रूपक-विन्यस्ता इन्द्रियादयः इन्द्रियेभ्यः परा ह्य् अर्थाः [कठ।, १।३।१०] इत्य् अत्र स्व-शब्दैर् एव प्रत्यभिज्ञायन्ते, न रथ-रूपितꣳ शरीरम् इति परिशेषात् तद्-अव्यक्त-शब्देनोच्यत इति निश्चीयते। अतः कापिल-तन्त्र-सिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति।
Link copied[अस्य मन्त्रस्य तन्त्र-प्रक्रियापरत्वासाङ्गत्यम्]
Link copiedन चात्र तत्-तन्त्र-सिद्ध-प्रक्रिया-प्रत्यभिज्ञा इन्द्रियेभ्यः परा ह्य् अर्थाः [कठ।, १।३।१०] इतीन्द्रियेभ्योऽर्थानाꣳ शब्दादीनाꣳ परत्व-कीर्तनात्। न हि शब्दादय इन्द्रियाणाꣳ कारण-भूतास् तद्-दर्शने। अर्थेभ्यश् च परꣳ मनः [कठ।, १।३।१०] इत्य् अपि न तत्-तन्त्र-सङ्गतम्, अकारणत्वाद् एव; तथा बुद्धेर् आत्मा महान् परः [कठ।, १।३।१०] इत्य् अप्य् असङ्गतम्; बुद्धि-शब्देन महत्-तत्त्वस्याभिधानाभ्युपगमात्। न हि महतो महान् परः सम्भवति। महत आत्म-शब्देन विशेषणꣳ च न सङ्गच्छते। अतो रूपक-विन्यस्तानाम् एव ग्रहणम्। दर्शयति च तद् एव एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः, यच्छेद् वाङ्-मनसी प्राज्ञस् तद् यच्छेत् ज्ञान आत्मनि ज्ञानम् आत्मनि महति नियच्छेत् तद् यच्छेच् छान्त आत्मनि [कठ।, १।३।१३] इत्य् अजित-बाह्याभ्यन्तर-करणैर् अस्य परम-पुरुषस्य दुर्दर्शत्वम् अभिधाय हयादि-रूपितानाम् इन्द्रियादीनाꣳ वशीकार-प्रकारोऽयम् उच्यते। यच्छेद् वाङ्-मनसी [कठ।, १।३।१३] वाचꣳ मनसि नियच्छेत्-- वाक्-पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेद् इत्य् अर्थः। वाक्-शब्दे द्वितीयायाः सुपाꣳ सुलुक् [अष्टा। ७।१।३९] इति लुक्। मनसी इति सप्तम्याश् छान्दसो दीर्घः। तद् यच्छेत् ज्ञान आत्मनि [कठ।, १।३।१३] तन् मनो बुद्धौ नियच्छेत्। ज्ञान-शब्देनात्र पूर्वोक्ता बुद्धिर् अभिधीयते। ज्ञान आत्मनि [कठ।, १।३।१३] इति व्यधिकरणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेद् इत्य् अर्थः। ज्ञानम् आत्मनि महति नियच्छेत् [कठ।, १।३।१३] बुद्धिꣳ कर्तरि महत्यात्मनि नियच्छेत्। तद् यच्छेच् छान्त आत्मनि [कठ।, १।३।१३] तꣳ कर्तारꣳ परस्मिन् ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तद् इति नपुꣳसक-लिङ्गता। एवम्भूतेन रथिना वैष्णवꣳ पदꣳ गन्तव्यम् इत्य् अर्थः॥१॥
Link copiedअव्यक्त-शब्देन कथꣳ व्यक्तस्य शरीरस्याभिधानꣳ तत्राह---
Link copied१११ सूक्ष्मꣳ तु तद्-अर्हात्वात्॥१।४।२॥
Link copied[सूत्रार्थः]
Link copiedभूत-सूक्ष्मम् अव्याकृतꣳ ह्य् अवस्था-विशेषम् आपन्नꣳ शरीरꣳ भवति; तद् अव्याकृतम् इह शरीरावस्थम् अव्यक्त-शब्देनोच्यते। तद्-अर्हात्वात्-- तस्याव्याकृतस्याचिद्-वस्तुन एव विकारापन्नस्य रथवत् पुरुषार्थ-साधन-प्रवृत्त्य्-अर्हात्वात्॥२॥
Link copied[उत्तर-सूत्रावतारिका]
Link copiedयदि भूत-सूक्ष्मम् अव्याकृतम् अभ्युपगम्यते, कापिल-तन्त्र-सिद्धोपादाने कः प्रद्वेषः। तत्रापि हि भूतकारणम् एवाव्यक्तम् इत्य् उच्यते; तत्राह--
Link copied११२ तद्-अधीनत्वाद् अर्थवत्॥१।४।३॥
Link copiedपरम-कारण-भूत-परम-पुरुषाधीनत्वात् प्रयोजनवद् भूत-सूक्ष्मम्। एतद् उक्तꣳ भवति-- न वयम् अव्यक्तꣳ तत्-परिमाणम् अविशेषाꣳश् च स्वरूपेण नाभ्युपगच्छामः; अपि तु परम-पुरुष-शरीरतया तद्-आत्मकत्व-विरहेण। तद्-आत्मकत्वेनैव हि प्रकृत्यादयः स्व-प्रयोजनꣳ साधयन्ति, अन्यथा स्वरूपस्थिति-प्रवृत्ति-भेदास् तेषाꣳ न स्युः। तथानभ्युपगमाद् एव तन्त्र-सिद्ध-प्रक्रिया-निरसनम्-- इति। श्रुति-स्मृत्योर् हि जगद्-उत्पत्ति-प्रलय-वादेषु परम-पुरुष-महिम-वादेषु च प्रकृति-विकृति-पुरुषास् तद्-आत्मकाः सङ्कीर्त्यन्ते यथा पृथिव्य् अप्सु लीयते [सुबाल, २] इत्य् आरभ्य तन्मात्राणि भूतादौ लीयन्ते॥ भूतादिर् महति लीयते। महान् अव्यक्ते लीयते। अव्यक्तम् अक्षरे लीयते। अक्षरꣳ तमसि लीयते। तमः परे देव एकीभवति [सुबाल, २] तथा यस्य पृथिवी शरीरꣳ यस्यापः शरीरꣳ यस्य तेजः शरीरꣳ यस्य वायुः शरीरꣳ यस्याकाः शरीरꣳ यस्याहङ्कारः शरीरꣳ यस्य बुद्धिः शरीरꣳ यस्याव्यक्तꣳ शरीरꣳ यस्याक्षरꣳ शरीरꣳ यस्य मृत्युः शरीरम् एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः, [सुबाल, ७] तथा भूमिर् आपोऽनलो वायुः खꣳ मनो बुद्धिर् एव च। अहङ्कार इतीयꣳ मे भिन्ना प्रकृतिर् अष्टधा॥ अपरेयम् इतस् त्व् अन्याꣳ प्रकृतिꣳ विद्धि मे पराम्। जीव-भूताꣳ महा-बाहो ययेदꣳ धार्यते जगत्॥ एतद् योनीनि भूतानि सर्वाणीत्य् उपधारय। अहꣳ कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा॥ मत्तः परतरꣳ नान्यत् किञ्चिद् अस्ति धनञ्जय। मयि सर्वम् इदꣳ प्रोतꣳ सूत्रे मणि-गणा इव [भ। गी।, ७।४।७] इति, व्यक्तꣳ विष्णुस् तथाव्यक्तꣳ पुरुषः काल एव च [वि। पु।, १।२।१८] इति, प्रकृतिर् या मयाख्याता व्यक्ताव्यक्त-स्वरूपिणी। पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्मनि। परमात्मा च सर्वेषाम् आधारः परमेश्वरः, विष्णु-नामा स वेदेषु वेदान्तेषु च गीयते [वि। पु।, ६।४।३९-४०] इति च॥३॥
Link copied११३ ज्ञेयत्वावचनाच् च॥१।४।४॥
Link copiedयदि तन्त्र-सिद्धम् इहाव्यक्तम् अविवक्षिष्यत्, ज्ञेयत्वम् अवक्ष्यत्; व्यक्ताव्यक्तज्ञ-विज्ञानात् [साङ्ख्यकारिका] मोक्षꣳ वदद्भिस् तान्त्रिकैस् तेषाꣳ सर्वेषाꣳ ज्ञेयत्वाभ्युपगमात्, न चास्य ज्ञेयत्वम् उच्यते; अतो न तन्त्र-सिद्धस्येह ग्रहणम्॥४॥
Link copied११४ वदतीति चेन् न प्राज्ञो हि प्रकरणात्॥१।४।५॥
Link copiedअशब्दम् अस्पर्शम् अरूपम् अव्ययꣳ तथारसꣳ नित्यम् अगन्धवच् च यत्। अनाद्य् अनन्तꣳ महतः परꣳ ध्रुवꣳ निचाय्य तꣳ मृत्यु-मुखात् प्रमुच्यते [कठ।, १।३।१५] इत्य् अव्यक्तस्य ज्ञेयत्वम् अनन्तरम् एव वदतीयꣳ श्रुतिर् इति चेत्-- तन् न, प्राज्ञः-- परम-पुरुष एव ह्य् अत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते विज्ञान-सारथिर् यस् तु मनः प्रग्रहवान् नरः। सोऽध्वनः पारमाप्नोति तद् विष्णोः परमꣳ पदम्, एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः॥ [कठ।, १।३।१२] इति प्राज्ञस्यैव प्रकृतत्वात्। अत एव पुरुषान् न परꣳ किञ्चित् [कठ।, १।३।११] इति न पञ्च-विꣳशक-पुरुषातिरिक्त-तत्त्व-निषेधः। तस्य च परम-पुरुषस्याशब्दत्वादयो धर्माः यत् तद् अद्रेश्यम् अग्राह्यम् [मुण्ड्।, १।६] इत्य् आदि श्रुति-प्रसिद्धाः। महतः परम् [मुण्ड्।, १।६] इत्य् अपि बुद्धेर् आत्मा महान् परः [कठ।, १।३।१०] इति पूर्व-प्रकृताज् जीवात्मनः परत्वम् एवोच्यते॥५॥
Link copied११५ त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च॥१।४।६॥
Link copiedअस्मिन् प्रकरणे ह्य् उपायोपेयोपेतॄणाꣳ त्रयाणाम् एव चैवम् उपन्यासः-- ज्ञेयत्वेनोपन्यासः, तद्-विषयश् च प्रश्नो दृश्यते, नान्यस्याव्यक्तादेः। तथा हि नचिकेता मुमुक्षुः सन् मृत्यु प्रदत्ते वर-त्रये प्रथमेन वरेणात्मनः पुरुषार्थ-योग्यतापादिनीम् आत्मनि पितुः सुमनस्कताꣳ प्रतिलभ्य, द्वितीयेन वरेण मोक्षोपाय-भूताꣳ नाचिकेताग्नि-विद्याꣳ वव्रे-- सत्त्वम् अग्निꣳ स्वर्ग्य-मध्येषि मृत्यो प्रब्रूहि तꣳ श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वꣳ भजन्त एतद् द्वितीयेन वृणे वरेण [कठ।, १।१।१३] इति। स्वर्ग-शब्देनात्र परम-पुरुषार्थ-लक्षणो मोक्षोऽभिधीयते, अमृतत्वꣳ भजन्ते [कठ।, १।१।१३] इति तत्रस्थस्य जनन-मरणाभाव-श्रवणाद् उत्तरत्र क्षयि-फल-कर्म-निन्दादर्शनाच् च; त्रिणाचिकेतस् त्रिभिर् एत्य सन्धिꣳ त्रि-कर्म-कृत् तरति जन्म-मृत्यू [कठ।, १।१।१७] इति च प्रतिवचनात्। तृतीयेन वरेण मोक्ष-स्वरूप-प्रश्न-द्वारेणोपेय-स्वरूपम् उपेतृ-स्वरूपम् उपाय-भूत-कर्मानुगृहीतोपासन-स्वरूपꣳ च पृष्टम्-- येयꣳ प्रेते विचिकित्सा मनुष्येऽस्तीत्य् एके नायम् अस्तीति चैके। एतद्-विद्याम् अनुशिष्टस् त्वयाहꣳ वराणाम् एष वरस् तृतीयः [कठ।, १।१।२०] इति। एवꣳ मोक्षे पृष्टे तद्-उपदेश-योग्यताꣳ परीक्ष्योपदिदेश-- तꣳ दुर्दर्शꣳ गूढम् अनुप्रविष्टꣳ गुहाहितꣳ गह्वरेष्ठꣳ पुराणम्॥ अध्यात्म-योगाधिगमेन देवꣳ मत्वा धीरो हर्ष-शोकौ जहाति [कठ।, १।२।१२] इति। तद् एवꣳ सामान्येनोपिदष्टे नचिकेताः प्रीतः सन् देवꣳ मत्वा [कठ।, १।२।१२] इत्य् उपास्यतया निर्दिष्टस्य प्राप्य-भूतस्य देवस्य अध्यात्म-योगाधिगमेन [कठ।, १।२।१२] इति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश् च मत्वा धीरो हर्ष-शोकौ जहाति [कठ।, १।२।१२] इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूप-विशोधनाय पुनः पप्रच्छ-- अन्यत्र-धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताद् भव्याच् च यत् तत् पश्यसि तद् वद [कठ।, १।२।१४] इति। एवꣳ सकलेतरातीतानागत--वर्तमान-साध्य-साधन-साधक-विलक्षणे त्रये पृष्टे प्रथमꣳ प्रणवꣳ प्रशस्य तद् वाच्यꣳ प्राप्य-स्वरूपꣳ, तद्-अन्तर्गतꣳ च प्राप्तृ-स्वरूपꣳ वाचक-रूपꣳ चोपायꣳ पुनर् अपि सामान्येन ख्यापयन् प्रणवꣳ तावद् उपदिदेश-- सर्वे वेदा यत् पदम् आमनन्ति तपाꣳसि सर्वाणि च यद् वदन्ति। यद् इच्छन्तो ब्रह्मचर्यꣳ चरन्ति तत् ते पदꣳ सङ्ग्रहेण ब्रवीम्य् ओम् इत्य् एतत् [कठ।, १।२।१५] इति। एवम् उपदिश्य पुनर् अपि प्रणवꣳ प्रशस्य प्रथमꣳ तावत् प्राप्तुः प्रत्यगात्मनः स्वरूपम् आह-- न जायते म्रियते वा विपश्चित् [कठ।, १।२।१८] इत्य् आदिना। प्राप्यस्य परस्य ब्रह्मणो विष्णोः स्वरूपम् अणोर् अणीयान् [कठ।, १।२।२०] इत्य् आदिना क इत्था वेद यत्र सः [कठ।, १।२।२५] इत्य् अन्तेनोपदिशन् मध्ये नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन [कठ।, १।२।२३] इत्य् आदिनोपायभूतस्योपासनस्य भक्ति-रूपताम् अप्य् आह। ऋतꣳ पिबन्तौ [कठ।, १।३।१] इति चोपास्यस्योपासकेन सहावस्थानात् सूपासताम् उक्त्वा आत्मानꣳ रथिनꣳ विद्धि [कठ।, १।३।३] इत्य् आदिना दुर्गꣳ पथस् तत् कवयो वदन्ति [कठ।, १।३।१४] इत्य् अन्तेनोपासन-प्रकारम् उपासीनस्य च वैष्णव-परम-पद-प्राप्तिम् अभिधाय अशब्दम् अस्पर्शम् [कठ।, १।३।१५] इत्य् आदिनोपसꣳहृतम्। अतस् त्रयाणाम् एवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश् च; तस्मान् नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम्॥
Link copied११६ महद्वच् च॥१।४।७॥
Link copiedयथा बुद्धेर् आत्मा महान् परः [कठ।, १।३।१०] इत्य् अत्रात्म-शब्द-सामानाधिकरण्यान् न तन्त्र-सिद्धꣳ महत्-तत्त्वꣳ गृह्यते; एवम् अव्यक्तम् अप्य् आत्मनः परत्वेनाभिधानान् न कापिल-तन्त्र-सिद्धꣳ गृह्यत इति स्थितम्॥७॥
Link copiedइत्य् आनुमानिकाधिकरणम्॥१॥
Link copiedचमसाधिकरणम्॥२॥
Link copied[अधिकरणार्थः-- प्रकृत्यादीनाꣳ ब्रह्मात्मकता]
Link copied[अजा-विद्या, मन्त्रिका उ। १। श्वे।, ४]
Link copied११७ चमसवद् अविशेषात्॥१।४।८॥
Link copied[प्रकृताधिकरण-प्रयोजन-कृत्यम्]
Link copiedअत्रापि तन्त्र-सिद्ध-प्रक्रिया निरस्यते, न ब्रह्मात्मकानाꣳ प्रकृति-महद्-अहङ्कारादीनाꣳ स्वरूपम्, श्रुति-स्मृतिभ्याꣳ ब्रह्मात्मकानाꣳ तेषाꣳ प्रतिपादनात्।
Link copied[मन्त्रिकोपनिषत्-सिद्धꣳ प्रकृत्य्-आदि-स्वरूपम्]
Link copiedयथाथर्वणिका अधीयते-- विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजाꣳ ध्रुवाम्। ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः। सूयते पुरुषार्थꣳ च तेनैवाधिष्ठिता जगत्। गौर् अनाद्य् अन्तवती सा जनित्री भूत-भाविनी। सितासिता च रक्ता च सर्व-काम-दुघा विभोः। पिबन्त्य् एनाम् अविषमाम् अविज्ञाताः कुमारकाः। एकस् तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम्। ध्यान-क्रियाभ्याꣳ भगवान् भुङ्क्तेऽसौ प्रसभꣳ विभुः। सर्व-साधारणीꣳ दोग्ध्रीꣳ पीयमानाꣳ तु यज्वभिः [मन्त्रिका १।७] चतुर्-विꣳशति-सङ्ख्यातम् अव्यक्तꣳ व्यक्तम् उच्यते [मन्त्रिका उ।] इति। अत्र प्रकृत्य्-आदीनाꣳ स्वरूपम् अभिहितम्; यद् आत्मकाश् चैते प्रकृत्य्-आदयः, स परमपुरुषोऽपि तꣳ षड्-विꣳशकम् इत्य् आहुः सप्त-विꣳशम् अथापरे। पुरुषꣳ निर्गुणꣳ साङ्ख्यम् अथर्वशिरसो विदुः [मन्त्रिका उ।] इति प्रतिपाद्यते।
Link copied[गर्भोपनिषदि श्वेताश्वतरे च प्रकृति-पुरुषेश्वर-स्वरूपम्]
Link copiedअपरे चाथर्वणिकाः अष्टौ प्रकृतयः षोडश विकाराः [गर्भ। ३] इत्य् अधीयते; श्वेताश्वतराश् चैवꣳ प्रकृति-पुरुषेश्वर-स्वरूपम् आमनन्ति सꣳयुक्तम् एतत् क्षरम् अक्षरꣳ च व्यक्ताव्यक्तꣳ भरते विश्वम् ईशः। अनीशश् चात्मा बध्यते भोक्तृ-भावात्, ज्ञात्वा देवꣳ मुच्यते सर्व-पापैः [श्वे।, १।८], ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृ-भोगार्थ-युक्ता। अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता त्रयꣳ यदा विन्दते ब्रह्मम् एतत् [श्वे।, १।९], क्षरꣳ प्रधानम् अमृताक्षरꣳ हरः क्षरात्मानावीशते देव एकः। तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् भूयश् चान्ते विश्व-माया-निवृत्तिः [श्वे।, १।१०] इति। तथा छन्दाꣳसि यज्ञाः क्रतवो व्रतानि भूतꣳ भव्यꣳ यच् च वेदा वदन्ति। अस्मान् मायी सृजते विश्वम् एतत् तस्मिश् चान्यो मायया सन्निरूद्धः। मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम्। तस्यावयव-भूतैस् तु व्याप्तꣳ सर्वम् इदꣳ जगत् [श्वे।, ४।९-१०] इति। तथोत्तरत्रापि प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः सꣳसार-मोक्ष-स्थिति-बन्ध-हेतुः [श्वे।, ६।१६] इति।
Link copied[उक्तार्थे गीताचार्योक्तयः]
Link copiedस्मृतिर् अपि प्रकृतिꣳ पुरुषꣳ चैव विद्ध्य् अनादी उभाव् अपि। विकराꣳश् च गुणाꣳश् चैव विद्धि प्रकृति-सम्भवान्। कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते। पुरुषः सुख-दुःखानाꣳ भोक्तृत्वे हेतुर् उच्यते। पुरुषः प्रकृति-स्थोऽपि भुङ्क्ते प्रकृति-जान् गुणान्। कारणꣳ गुण-सङ्गोऽस्य सद् असद् योनि-जन्मसु [भ। गी।, १३।१९-२१], सत्त्वꣳ रजस् तम इति गुणाः प्रकृति-सम्भवाः। निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् [भ। गी।, १४।५]। तथा सर्व-भूतानि कौन्तेय प्रकृतिꣳ यान्ति मामिकाम्। कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्॥ प्रकृतिꣳ स्वाम् अवष्टभ्य विसृजामि पुनः पुनः। भूत-ग्रामम् इमꣳ कृत्स्नम् अवशꣳ प्रकृतेर् वशात् [भ। गी।, ९।७-८] मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनानेन कौन्तेय जगद् धि परिवर्तते [भ। गी।, ९।१०] इति। तस्माद् अब्रह्मात्मकत्वेन कापिल-तन्त्र-सिद्धाः प्रकृत्यादयो निरस्यन्ते। श्वेताश्वतरोपनषदि श्रूयते अजाम् एकाꣳ लोहित-शुक्ल-कृष्णाꣳ बह्वीः प्रजाः सृजमानाꣳ सरूपाः। अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनाꣳ भुक्त-भोगाम् अजोऽन्यः [श्वे।, ४।५] इति।
Link copied[अधिकरणाङ्ग-भूतः सꣳशयः]
Link copiedतत्र सन्देहः-- किम् अस्मिन् मन्त्रे केवला तन्त्र-सिद्धा प्रकृतिर् अभिधीयते, उत ब्रह्मात्मिका-- इति।
Link copied[पूर्वः पक्षः]
Link copiedकिꣳ युक्तꣳ केवलेति। कुतः। अजाम् एकाम् [श्वे।, ४।५] इत्य् अस्याः प्रकृतेर् अकार्यत्व-श्रवणात्, बह्वीः प्रजाः सृजमानाꣳ सरूपाः [श्वे।, ४।५] इति स्वातन्त्र्येण सरूपाणाꣳ बह्वीनाꣳ प्रजानाꣳ स्रष्टृत्व-श्रवणाच् च-- इति॥
Link copied[सिद्धान्तारम्भः, तत्राब्रह्मात्मकाजा-ग्राहकाभावः]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- चमसवद् अविशेषात्-- न जायत इत्य् अजेत्य् अजात्व-मात्र-प्रतिपादनात् तन्त्र-सिद्धाब्रह्मात्मकाजा-ग्रहणे विशेषाप्रतीतेः। चमसवत्-- यथा अर्वाग् बिलश् चमस ऊर्ध्व-बुध्नः [बृहद्।, ४।२।३] इत्य् अस्मिन् मन्त्रे चमसस्य भक्षण-साधनत्व-मात्रꣳ चमस-शब्देन प्रतीयत इति न तावन् मात्रेण चमस-विशेष-प्रतीतिः, यौगिक-शब्दानाम् अर्थ-प्रकरणादिभिर् विनार्थ-विशेष-निश्चयायोगात्। तत्र यथेदꣳ तच्-छिरः एष ह्य् अर्वाग् बिलश् चमस ऊर्ध्व-बुध्नः [बृहद्।, ४।२।३] इत्य् आदिना वाक्य-शेषेण शिरसश् चमसत्व-निश्चयः; तथात्राप्य् अर्थ-प्रकरणादिभिर् एवाजा निर्णेतव्या; न चात्र तन्त्र-सिद्धाजा-ग्रहण-हेतवोऽर्थ-प्रकरणादयो दृश्यन्ते। नचास्याः स्वातन्त्र्येण स्रष्टृत्वꣳ प्रतीयते, बह्वीः प्रजाः सृजमानाम् इति स्रष्टृत्व-मात्र-प्रतीतेः। अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाभिधीयते॥८॥
Link copied[ब्रह्मात्मकाजा-ग्राहक-प्रमाणानि]
Link copiedब्रह्मात्मकाजा-ग्रहण एव विशेष-हेतुर् अस्तीत्य् आह--
Link copied११८ ज्योतिर्-उपक्रमा तु तथाह्य् अधीयत एके॥१।४।९॥
Link copiedतु-शब्दोऽवधारणार्थः; ज्योतिर्-उपक्रमैवैषाजा; ज्योतिः-- ब्रह्म; तꣳ देवा ज्योतिषाꣳ ज्योतिः [बृहद्।, ६।४।१६], अथ यद् अतः परो दिवो ज्योतिर् दीप्यते [छान्।, ३।१३।७] इत्य् आदि श्रुति-प्रसिद्धेः। ज्योतिर्-उपक्रमा ब्रह्मकारणिकेत्य् अर्थः। तथाह्य् अधीयत एके-- हीति हेतौ, यस्माद् अस्या अजाया ब्रह्म-कारणकत्वम् एके शाखिनस् तैत्तिरीया अधीयते-- अणोर् अणीयान् महतो महीयान् आत्मा गुहायाꣳ निहितोऽस्य जन्तोः [महानारा। १२] इति हृदय-गुहायाम् उपास्यत्वेन सन्निहितꣳ ब्रह्माभिधाय सप्त प्राणाः प्रभवन्ति तस्मात् [महाना। १२।१] इत्य् आदिना सर्वेषाꣳ लोकानाꣳ ब्रह्मादीनाꣳ च तत उत्पत्तिम् अभिधाय सर्व-कारणीभूताजा तत उत्पन्नाभिधीयते। अजाम् एकाꣳ लोहित-शुक्ल-कृष्णाꣳ बह्वीꣳ प्रजाꣳ जनयन्तीꣳ सरूपाम्। अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनाꣳ भुक्त-भोगाम् अजोऽन्यः [श्वे। ४।५] इति। सर्वस्य तद्-व्यतिरिक्तस्य वस्तु-जातस्य तत उत्पत्त्या तद्-आत्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वात् प्राण-समुद्र-पर्वतादिवद् एषाप्य् अजा वह्वीनाꣳ सरूपाणाꣳ प्रजानाꣳ स्रष्ट्री, कर्म-वश्येनात्मना भुज्यमाना अन्येन विदुषात्मना त्यज्यमाना च ब्रह्मण उत्पन्ना, ब्रह्मात्मिकावगन्तव्येत्य् अर्थः। अतो वाक्य-शेषाच् चमस-विशेषवच् छाखान्तरीयाद् एतत् सरूपात् प्रत्यभिज्ञायमानार्थाद् वाक्यान् नियमिताजा ब्रह्मात्मिकेति निश्चीयते।
Link copied[तान्त्रिकाजा-ग्रहण-हेतूनाम् अभाव-स्थिरीकरणम्]
Link copiedइहापि प्रकरणोपक्रमे किꣳ कारणꣳ ब्रह्म [श्वे।, १।१] इत्य् आरभ्य ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिꣳ स्व-गुणैर् निरूढाम् [श्वे।, १।३] इति परब्रह्म-शक्ति-रूपाया अजाया अवगतेः, उपरिष्टाच् च अस्मान् मायी सृजते विश्वम् एतस्मिꣳश् चान्यो मायया सन्निरुद्धः [श्वे।, ४।९] मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।, ४।१०] यो योनिर् योनिम् अधितिष्ठत्य् एकः [श्वे।, ४।९] इति च तस्या एव प्रतीतेर् नास्मिन् मन्त्रे तन्त्र-सिद्ध-स्वतन्त्र--प्रकृति-प्रतिपत्ति-गन्धः॥९॥
Link copied[अजात्व-ज्योतिर्-उपक्रमात्वयोः विप्रतिषेध-शङ्का-- निरासौ]
Link copiedकथꣳ तर्हि ज्योतिर्-उपक्रमाया लोहित-शुक्ल-कृष्ण-रूपाया अस्याः प्रकृतेर् अजात्वम्, अजाया वा कथꣳ ज्योतिर्-उपक्रमात्वम् इत्य् अत्राह--
Link copied११९ कल्पनोपदेशाच् च मध्व्-आदिवद् अविरोधः॥१।४।१०॥
Link copiedप्रसक्ताशङ्का-निवृत्त्य्-अर्थश् च-शब्दः। अस्याः प्रकृतेर् अजात्वꣳ ज्योतिर्-उपक्रमात्वꣳ च न विरुध्यते। कुतः। कल्पनोपदेशात्। कल्पनꣳ-- कॢप्तिः सृष्टिः; जगत्-सृष्ट्य्-उपदेशाद् इत्य् अर्थः। यथा सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत् [तै।, आ। १०।१।१४] इति कल्पनꣳ सृष्टिः। अत्राप्य् अस्मान् मायी सृजते विश्वम् एतत् [श्वे।, ४।९] इति जगत्-सृष्टिर् उपदिश्यते। स्वेनाविभक्ताद् अस्मात् सूक्ष्मावस्थात् कारणान् मायी सर्वेश्वरः सर्वꣳ जगत्-सृजतीत्य् अर्थः। अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्य-कारण-रूपेण अवस्था-द्वयान्वयोऽवगम्यते। सा हि प्रलय-वेलायाꣳ ब्रह्मतापन्ना अविभक्त-नाम-रूपा सूक्ष्म-रूपेणावतिष्ठते; सृष्टि-वेलायाꣳ तूद्भूत-सत्त्वादि-गुणा विभक्त-नाम-रूपाव्यक्तादि-शब्द-वाच्या तेजो-ऽब्-अन्नादि-रूपेण च परिणता लोहित-शुक्ल-कृष्णाकारा चावतिष्ठते। अतः कारणावस्था-जा, कार्यावस्था ज्योतिर्-उपक्रमेति न विरोधः।
Link copied[उक्तार्थे मधु-विद्यार्थ-दृष्टान्तीकरणम्]
Link copiedमध्व्-आदिवत्-- यथेश्वरेणाद् इत्य् अस्य कारणावस्थायाम् एकस्यैवावस्थितस्य कार्यवस्थायाम् ऋग्-यजुःसामाथर्व-प्रतिपाद्य-कर्म-निष्पाद्य-रसाश्रयतया वस्व्-आदि-देवता-भोग्यत्वाय मधुत्व-कल्पनम् उदयास्त-मय-कल्पनꣳ च न विरुध्यते। तद् उक्तꣳ मधु-विद्यायाम् असौ वा आदित्यो देव-मधु [छान्।, ३।१।१] इत्य् आरभ्य अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तम् एतैकल एव मध्ये स्थाता [छान्।, ३।११।१] इत्य् अन्तेन। एकलः एक-स्वभावः। अतोऽनेन मन्त्रेण ब्रह्मात्मिकाजैवाभिधीयते, न कापिल-तन्त्र-सिद्धेति सिद्धम्॥
Link copied[एतन्-मन्त्रोक्ताजा-स्वरूपे परमतोल्लेखो निरासश् च]
Link copiedअन्ये त्व् अस्मिन् मन्त्रे तेजो-ऽब्-अन्न-लक्षणाजैकाभिधीयत इति ब्रुवते। ते प्रष्टव्याः किꣳ तेजो-ऽब्-अन्नान्य् एव तेजो-ऽब्-अन्नात्मिकाजैका उत तेजो-ऽब्-अन्न-रूपꣳ ब्रह्मैव; किꣳ वा तेजो-ऽब्-अन्न-कारण-भूता काचित्-- इति। प्रथमे कल्पे तेजो-ऽब्-अन्नानाम् अनेकत्वाद् अजाम् एकाम् इति विरुध्यते। न च वाच्यꣳ तेजो-ऽब्-अन्नानाम् अनेकत्वेऽपि त्रिवृत्-करणेनैकतापत्तिर् इति। त्रिवृत्-करणेऽपि बहुत्वानपगमात्, इमास् तिस्रो देवताः [छान्।, ६।३।२] तासाꣳ त्रिवृतꣳ त्रिवृतम् एकैकाꣳ करवाणि [छान्।, ६।३।३] इति प्रत्येकꣳ त्रिवृत्-करणोपदेशात्। द्वितीयः कल्पो विकल्प्यः किꣳ तेजो-ऽब्-अन्न-रूपेण विकृतꣳ ब्रह्मैवाजैका; किꣳ वा स्वरूपेणावस्थितम् अविकृतम् इति। प्रथमः कल्पो बहुत्वानपायाद् एव निरस्तः। द्वितीयेऽपि लोहित-शुक्ल-कृष्णाम् [श्वे। ४।५] इति विरुध्यते। स्वरूपेणावस्थितꣳ ब्रह्म तेजो-ऽब्-अन्न-लक्षणम् इति वक्तुम् अपि न शक्यते। तृतीये कल्पेऽप्य् अजा-शब्देन तेजो-ऽब्-अन्नानि निर्दिश्य तैस् तत्-कारणावस्था उपस्थापनीया इत्य् आस्थेयम्। ततो वरम् अजा-शब्देन तेजो-ऽब्-अन्न-कारणावस्थायाः श्रुति-सिद्धाया एवाभिधानम्।
Link copied[अजा-शब्दस्य छागार्थगत्वाभिप्राये अनौचित्यम्]
Link copiedयत् पुनर् अस्याः प्रकृतेर् अजा-शब्देन च्छागत्व-परिकल्पनम् उपदिश्यत इति; तद् अप्य् असङ्गतम्, निष्प्रयोजनत्वात्। यथा आत्मानꣳ रथिनꣳ विद्धि [कठ।, १।३।३] इत्य् आदिषु ब्रह्म-प्राप्त्य्-उपायताख्यापनाय शरीरादिषु रथादि-रूपणꣳ क्रियते; यथा चादित्ये वस्व्-आदीनाꣳ भोग्यत्व-ख्यापनाय मधुत्व-कल्पनꣳ क्रियते; तद्वद् अस्याꣳ प्रकृतौ च्छागत्व-परिकल्पनꣳ क्वोपयुज्यते; न केवलम् उपयोगाभाव एव, विरोधश् च; कृत्स्न-जगत्-कारण-भूतायाः स्वस्मिन्न् अनादि-काल-सम्बद्धानाꣳ सर्वेषाम् एव चेतनानाꣳ निखिल-सुख-दुःखोपभोग अपवर्ग-साधन-भूतायाः अचेतनायाः अत्यल्प-प्रजा-सर्ग-करागन्तुक-सङ्गम-चेतन-विशेषैक-रूपात्य्-अल्प-प्रयोजन--साधन-स्व-परित्याग-हेतु-भूत-स्व-सम्बन्धि-परित्याग-समर्थ-चेतन-विशेष-रूप-च्छाग-स्वभाव-ख्यापनाय तद्-रूपत्व-कल्पनꣳ विरुद्धम् एव।
Link copied[एक-मन्त्र-गतयोर् द्वयोर् अज-पदयोः अर्थ-वैरूप्य-विरोधः]
Link copiedअजाम् एकाम् [श्वे।, ४।५], अजो ह्य् एकः [श्वे।, ४।५], अजोऽन्यः [श्वे।, ४।५] इत्य् अत्राजा-शब्दस्य विरूपार्थ-कल्पनꣳ च न शोभनम्। सर्वत्र च्छागत्वꣳ परिकल्प्यत इति चेत् जहात्य् एनाꣳ भुक्त-भोगाम् अजोऽन्यः [श्वे।, ४।५] इति विदुष आत्यन्तिक-प्रकृति-परित्यागꣳ कुर्वतोऽनेन वान्येन वा पुनर् अपि सम्बन्ध-योग्य-च्छागत्व-परिकल्पनम् अत्यन्त-विरुद्धम्॥१०॥
Link copiedइति चमसाधिकरणम्॥२॥
Link copiedसङ्ख्योपसङ्ग्रहाधिकरणम्॥३॥
Link copied[अधिकरणार्थः-- कापिल-मतानङ्गीकारेऽपि पञ्च-जन-शब्दार्थ-सिद्धिः]
Link copied[ज्योतिषाꣳ ज्योतिर्-विद्या, बृहद्।, ६।४।१६]
Link copied१२० न सङ्ख्योपसङ्ग्रहाद् अपि नानाभावाद् इतरेकाच् च॥१।४।११॥
Link copied[विषय-वाक्य-प्रदर्शनम्]
Link copiedवाजसनेयिनः समामनन्ति यस्मिन् पञ्च पञ्च-जना आकाशश् च प्रतिष्ठितः। तम् एव मन्य आत्मानꣳ विद्वान् ब्रह्मामृतोऽमृतम् [बृहद्।, ३।४।१७] इति।
Link copied[सꣳशय-स्वरूपम्]
Link copiedकिम् अयꣳ मन्त्रः कापिल-तन्त्र-सिद्ध-तत्त्व-प्रतिपादन-परः, उत नेति सन्दिह्यते।
Link copied[पूर्व-पक्षः]
Link copiedकिꣳ युक्तꣳ तन्त्र-सिद्ध-तत्त्व-प्रतिपादन-पर इति कुतः। पञ्च-शब्द-विशेषितात् पञ्च-जन-शब्दात् पञ्च-विꣳशति-तत्त्व-प्रतीतेः।
Link copiedएतद् उक्तꣳ भवति-- पञ्च-जनाः [बृहद्।, ६।४।१७] इति समासः समाहार-विषयः। पञ्चानाꣳ जनानाꣳ समूहाः पञ्च-जनाः; पञ्च-पूल्य इतिवत्। पञ्च-जना इति लिङ्ग-व्यत्ययश् छान्दसः। ते च समूहाः कतीत्य् अपेक्षायाꣳ पञ्च-जन-शब्द-विशेषणेन प्रथमेन पञ्च-शब्देन समूहाः पञ्चेति प्रतीयन्ते; यथा पञ्च पञ्च-पूल्य इति। अतः पञ्च पञ्च-जनाः [बृहद्।, ६।४।१७] इति पञ्च-विꣳशति-पदार्थावगतौ ते कतम इत्य् अपेक्षायाꣳ मोक्षाधिकारान् मुमुक्षुभिर् ज्ञातव्यतया स्मृति-प्रसिद्धाः प्रकृत्यादय एव ज्ञायन्ते। मूल-प्रकृतिर् अविकृतिर् महद्-आद्याः प्रकृति-विकृतयः सप्त। षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः [साङ्ख्य-का।] इति हि कापिलानाꣳ प्रसिद्धिः। अतस् तन्त्र-सिद्ध-तत्त्व-प्रतिपादन-परः।
Link copied[सिद्धान्तारम्भः]
Link copied[पञ्च-जन-शब्दस्य प्राकृत-तत्त्व-परत्वाभावः]
Link copiedइति प्राप्ते प्रचक्ष्महे-- न सङ्ख्योपसङ्ग्रहाद् अपि-- इति पञ्च पञ्च-जनाः [बृहद्।, ६।४।१७] इति पञ्च-विꣳशति-सङ्ख्योपसङ्ग्रहाद् अपि न तन्त्र-सिद्ध-तत्त्व-प्रतीतिः। कुतः। नानाभावात्-- एषाꣳ पञ्च-सङ्ख्या-विशेषितानाꣳ पञ्च-जनानाꣳ तन्त्र-सिद्धेभ्यस् तत्त्वेभ्यः पृथग्-भावात् यस्मिन् पञ्च पञ्च-जना आकाशश् च प्रतिष्ठितः [बृहद्।, ३।४।१७] इत्य् एतेषाꣳ यच्-छब्द-निर्दिष्ट-ब्रह्माश्रयतया ब्रह्मात्मकत्वꣳ हि प्रतीयते तम् एव मन्य आत्मानꣳ विद्वान् ब्रह्मामृतोऽमृतम् [बृहद्।, ३।४।१७] इत्य् अत्र तम् इति परामर्शेन यच्-छब्द-निर्दिष्टꣳ ब्रह्मेत्य् अवगम्यते। अतस् तेभ्यः पृथग्-भूताः पञ्च-जना इति न तन्त्र-सिद्धा एते।
Link copied[पञ्च-विꣳशत्य्-अतिरेकेण वाक्यावगतस्य प्राकृतेतरत्व-ज्ञापकता]
Link copiedअतिरेकाच् च-- तन्त्र-सिद्धेभ्यस् तत्त्वेभ्योऽत्र तत्त्वातिरेकोऽपि भवति; यच्-छब्द-निर्दिष्ट आत्मा आकाशश् चात्रातिरिच्येते। अतः तꣳ षड्-विꣳशकम् इत्य् आहुः सप्त-विꣳशम् अथापरे [मान्त्रिका] इति श्रुति-प्रसिद्ध-सर्व-तत्त्वाश्रय-भूतः सर्वेश्वरः परम-पुरुषोऽत्राभिधीयते। न सङ्ख्योपसङ्ग्रहाद् अपि इत्य् अपि-शब्दस्य पञ्च पञ्च-जनाः [बृहद्।, ६।४।१७] इत्य् अत्र पञ्च-विꣳशति-तत्त्व-प्रतिपत्तिर् एव न सम्भवतीत्य् अभिप्रायः। कथꣳ पञ्चभिर् आरब्ध-समूह-पञ्चकासम्भवात्। न हि तन्त्र-सिद्ध-तत्त्वेषु पञ्चसु पञ्चस्व् अनुगतꣳ यत् सङ्ख्यानिवेश-निमित्तꣳ जात्य् आद्य् अस्ति; न च वाच्यꣳ-- पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि, पञ्च महाभूतानि, पञ्च तन्मात्राणि, अवशिष्टानि पञ्च-- इत्य् अवान्तर-सङ्ख्यानिवेश-निमित्तम् अस्त्य् एव इति; आकाशस्य पृथङ्-निर्देशेन पञ्चभिर् आरब्ध-महाभूत-समूहासिद्धेः।
Link copied[पञ्च-जन-शब्दस्य सꣳज्ञया अर्थ-विशेष-परत्वम्]
Link copiedअतः पञ्च-जना [बृहद्।, ६।४।१७] इत्य् अयꣳ समासो न समाहार-विषयः; अयꣳ तु दिक्-सङ्ख्ये सꣳज्ञायाम् [अष्टा, २।१।५०] इति सꣳज्ञा-विषयः; अन्यथा पञ्च-जनाः इति लिङ्ग-व्यत्ययश् च। पञ्च-जना नाम केचित् सन्ति; ते च पञ्च-सङ्ख्यया विशेष्यन्ते, पञ्च पञ्च-जनाः इति, सप्त सप्तर्षय इतिवत्॥११॥
Link copied[सꣳज्ञायाः पञ्चेन्द्रिय-परत्वम्]
Link copiedके पुनस् ते पञ्च-जनाः इत्य् अत आह--
Link copied१२१ प्राणादयो वाक्य-शेषात्॥१।४।१२॥
Link copiedप्राणस्य प्राणम् उत चक्षुषश् चक्षुः श्रोत्रस्य श्रोत्रम् अन्नस्यान्नꣳ मनसो ये मनो विदुः [बृहद्।, ६।४।१८] इति वाक्य-शेषाद् ब्रह्माश्रयाः प्राणादय एव पञ्च पञ्च-जनाः इति विज्ञायन्ते॥१२॥
Link copied[काण्व्-अपाठानुरोधे इन्द्रिय-परत्वानुपपत्ति-शङ्का-- समाधाने]
Link copiedअथ स्यात्-- काण्वानाꣳ माध्यन्दिनानाꣳ च यस्मिन् पञ्च पञ्च-जनाः [बृहद्।, ६।४।१७] इत्य् अयꣳ मन्त्रः समानः, प्राणस्य प्राणम् [बृहद्।, ६।४।१८] इत्य् आदि वाक्य-शेषे काण्वानाम् अन्नस्य पाठो न विद्यते; तेषाꣳ पञ्च पञ्च-जनाः प्राणादय इति न शक्यꣳ वक्तुम्-- इति; अत्रोत्तरम्॥
Link copied१२२ ज्योतिषैकेषाम् असत्य् अन्ने॥१।४।१३॥
Link copiedएकेषाꣳ काण्वानाꣳ पाठे असत्य् अन्ने ज्योतिषा पञ्च-जनाः इन्द्रियाणीति ज्ञायन्ते; तेषाꣳ वाक्य-शेषः प्रदर्शनार्थः। एतद् उक्तꣳ भवति यस्मिन् पञ्च पञ्च-जनाः [बृहद्।, ६।४।१७] इत्य् अस्मात् पूर्वस्मिन् मन्त्रे तꣳ देवा ज्योतिषाꣳ ज्योतिर् आयुर् होपासतेऽमृतम् [बृहद्।, ६।४।१६] इति ज्योतिषाꣳ ज्योतिष्ट्वे ब्रह्मण्य् अभिधीयमाने ब्रह्माधीन-स्व-कार्याणि कानिचिज् ज्योतीꣳषि प्रतिपन्नानि; तानि च विषयाणाꣳ प्रकाशकानीन्द्रियाणीति यस्मिन् पञ्च पञ्च-जनाः इत्य् अनिर्धारित-विशेष-निर्देशेनावगम्यन्ते-- इति।
Link copied[उक्तार्थस्य विशदीकरणम्]
Link copiedप्राणस्य [बृहद्।, ६।४।१८] इति प्राण-शब्देन स्पर्शनेन्द्रियꣳ गृह्यते, वायु-सम्बन्धित्वात् स्पर्शनेन्द्रियस्य मुख्य-प्राणस्य ज्योतिः-शब्देन प्रदर्शनायोगात्। चक्षुष इति चक्षुर् इन्द्रियम्, श्रोत्रस्येति श्रोत्रेन्द्रियम्, अन्नस्येति घ्राण-रसनयोस् तन्त्रेणोपादानम्, अन्न-शब्दोदित-पृथिवी-सम्बन्धित्वाद् घ्राणेन्द्रियमनेन गृह्यते अद्यतेऽनेनेत्य् अन्नम् इति रसनेन्द्रियम् अपि गृह्यते। मनस इति मनः। घ्राण-रसनयोस् तन्त्रेणोपादानम् इति पञ्चत्वम् अप्य् अविरुद्धम्। प्रकाशकानि मनः-पर्यन्तानीन्द्रियाणि पञ्च-जन-शब्द-निर्दिष्टानि तद्-अविरोधाय घ्राण-रसनयोस् तन्त्रेणोपादानम्। तद् एवꣳ यस्मिन् पञ्च पञ्च-जना आकाशश् च प्रतिष्ठितः [बृहद्।, ६।५।१७] इति पञ्च-जन-शब्द-निर्दिष्टानीन्द्रियाण्य् आकाश-शब्द-प्रदर्शितानि महाभूतानि च ब्रह्मणि प्रतिष्ठितानीति सर्व-तत्त्वानाꣳ ब्रह्माश्रयत्व-प्रतिपादनान्न तन्त्र-सिद्ध-पञ्च-विꣳशति-तत्त्व-प्रसङ्गः। अतः सर्वत्र वेदान्ते सङ्ख्योपसङ्ग्रहे तद्-अभावे वा न कापिल-तन्त्र-सिद्ध-तत्त्व-प्रतीतिर् इति स्थितम्॥
Link copiedइति सङ्ख्योपसङ्ग्रहाधिकरणम्॥३॥
Link copiedकारणत्वाधिकरणम्॥४॥
Link copied[अधिकरणार्थः-- सद्-रूपस्य ब्रह्मण एव जगत्-कारणता, न कापिलस्य प्रधानस्य]
Link copied[अव्याकृत-ब्रह्म-विद्या, बृहद्।, ३।४।७]
Link copied१२३ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः॥१।४।१४॥
Link copiedपुनः प्रधान-कारण-वादी प्रत्यवतिष्ठते-- न वेदान्तेष्व् एकस्मात् सृष्टिर् आम्नायत इति जगतो ब्रह्मैक-कारणत्वꣳ न युज्यते वक्तुम्। तथा हि सद् एव सोम्येदम् अग्र आसीत् [छान्।, ६।२।१] इति सत्-पूर्विका सृष्टिर् आम्नायते; असद् वा इदम् अग्र आसीत् [तै।, २।७] इत्य् असत्-पूर्विका च; अन्यत्र असद् एवेम् अग्र आसीत्। तत् सद् आसीत्॥ तत् समभवत् [छान्।, ३।१९।१] इति च। अतो वेदान्तेषु स्रष्टुर् अव्यवस्थितेर् जगतो ब्रह्मैक-कारणत्वꣳ न निश्चेतुꣳ शक्यम्; प्रत्युत प्रधान-कारणत्वम् एव निश्चेतुꣳ शक्यते तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् [बृहद्।, ३।५।७] इत्य् अव्याकृते प्रधाने जगतः प्रलयम् अभिधाय तन् नामरूपाभ्याꣳ व्याक्रियत [बृहद्।, ३।४।७] इत्य् अव्याकृताद् एव जगतः सृष्टिश् चाभिधीयते। अव्याकृतꣳ ह्य् अव्यक्तम्, नाम-रूपाभ्याꣳ न व्याक्रियते-- न व्यज्यत इत्य् अर्थः। अव्यक्तꣳ प्रधानम् एव। अस्य च स्वरूप-नित्यत्वेन परिणामाश्रयत्वेन च जगत्-कारण-वादि-वाक्य-गतौ सद्-असच्-छब्दौ ब्रह्मणीवास्मिन् न विरोत्स्येते।
Link copied[सृष्टि-वाक्य-श्रुतेक्षणादीनाꣳ गौणताम् आश्रित्य पूर्व-पक्षः]
Link copiedएवम् अव्याकृत-कारणत्वे निश्चिते सतीक्षणादयः कारणगताः सृष्ट्यौन्मुख्याभिप्रायेण योजयितव्याः। ब्रह्मात्म-शब्दाव् अपि बृहत्त्व-व्यापित्वाभ्याꣳ प्रधान एव वर्तेते। अतः स्मृति-न्याय-प्रसिद्धꣳ प्रधानम् एव जगत्-कारणꣳ वेदान्त-वाक्यैः प्रतिपाद्यते॥
Link copied[सिद्धान्तः, परस्माद् ब्रह्मण एव जगत्-सृष्टिः इति वेदान्त-तात्पर्यदार्ढ्यम्]
Link copiedइति प्राप्ते प्रचक्ष्महे-- कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः-- च-शब्दस् तु-शब्दार्थे; सर्वज्ञात् सर्वेश्वरात् सत्य-सङ्कल्पान् निरस्त-निखिल-दोष-गन्धात् परस्माद् ब्रह्मण एव जगद् उत्पद्यत इति निश्चेतुꣳ शक्यते। कुतः। आकाशादिषु कारणत्वेन यथाव्यपदिष्टस्योक्तेः-- सर्वज्ञत्वादि-विशिष्टत्वेन; जन्माद्यस्य यतः [ब्र। सू। १।१।२] इत्य् एवम् आदिषु प्रतिपादितꣳ ब्रह्म यथाव्यपदिष्टम् इत्य् उच्यते, तस्यैकस्यैवाकाशादिषु कारणत्वेनोक्तेः। तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः [तै।, २।१] तत् तेजोऽसृजत [छान्।, ६।२।३] इत्य् आदिषु सर्व-ज्ञꣳ ब्रह्मैव कारणत्वेनोच्यते। तथा हि सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१] सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता [तै।, २।१] इति प्रकृतꣳ विपश्चिद् एव ब्रह्म तस्माद् वा एतस्मात् [तै।, २।१] इति परामृश्यते। तथा तद् ऐक्षत बहु स्याम् [छान्।, ६।२।३] इति निर्दिष्टꣳ सर्व-ज्ञꣳ ब्रह्मैव तत् तेऽजोऽसृजत [छान्।, ६।२।३] इति परामृश्यते। एवꣳ सर्वत्र सृष्टि-वाक्येषु द्रष्टव्यम्। अतो ब्रह्मैक-कारणꣳ जगद् इति निश्चीयते॥१४॥
Link copied[असत्-पद-घटित-कारण-वाक्यस्य दार्ढ्य-विघटकत्व-शङ्का-- समाधाने]
Link copiedननु असद् वा इदम् अग्र आसीत् [तै।, २।७।१] इत्य् असद् एव कारणत्वेन व्यपदिश्यते; तत् कथम् इव सर्व-ज्ञस्य सत्य-सङ्कल्पस्य ब्रह्मण एव कारणत्वꣳ निश्चीयत इत्य् अत आह--
Link copied१२४ समाकर्षात्॥१।४।१५॥
Link copiedअसद् वा इदम् अग्र आसीत् [तै।, २।७।१] इत्य् अत्रापि विपश्चिद् आनन्द-मयꣳ सत्य-सङ्कल्पꣳ ब्रह्मैव समाकृष्यते। कथꣳ तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योऽन्तर आत्मानन्द-मयः [तै।, २।५] सोऽकामयत। बहु स्याꣳ प्रजायेयेति [तै।, २।६] इदꣳ सर्वम् असृजत। यद् इदꣳ किꣳ च। तत् सृष्ट्वा। तद् एवानुप्राविशत्। तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै।, २।६] इत्य् आदिना ब्राह्मणेनानन्द-मयꣳ ब्रह्म सत्य-सङ्कल्पꣳ सर्वस्य स्रष्टृ सर्वानुप्रवेशेन सर्वात्म-भूतम् अभिधाय तद् अप्य् एष श्लोको भवति [तै।, २।६] इत्य् उक्तस्यार्थस्य सर्वस्य साक्षित्वेनोदाहृतोऽयꣳ श्लोकः--- असद् वा इदम् अग्र आसीत् [तै।, २।७] इति। तथोत्तरत्र भीषास्माद् वातः पवते [तै।, २।८] इत्य् आदिना तद् एव ब्रह्म समाकृष्य सर्वस्य प्रशासितृत्व-निरतिशयानन्दत्वादयोऽभिधीयन्ते। अतोऽयꣳ मन्त्रस् तद् विषय एव। तदानीꣳ नाम-रूप-विभागाभावेन तत्-सम्बन्धितयास्तित्वाभावाद् ब्रह्मैवासच्-छब्देनोच्यते। असद् एवेदम् अग्र आसीत् [छान्।, ३।१९।१] इत्य् अत्राप्य् अयम् एव निर्वाहः।
Link copied[अव्याकृत-पदस्य तच्-छरीरक-ब्रह्म-परतामाश्रित्य प्रधान-कारणता-निरासः]
Link copiedयद् उक्तꣳ तद् धेदꣳ तर्ह्य् अव्याकृतम् आसीत् [बृहद्।, ३।४।७] इति प्रधानम् एव जगत्-कारणत्वेनाभिधीयत इति; नेत्य् उच्यते, तत्राप्य् अव्याकृत-शब्देनाव्याकृत-शरीरꣳ ब्रह्मैवाभिधीयते स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यꣳश् चक्षुः शृण्वञ् श्रोत्रꣳ मन्वानो मन आत्मेत्य् एवोपासीत [बृहद्।, ३।४।७] इत्य् अत्र स एषः [बृहद्। ३।४।७] इति तच्-छब्देनाव्याकृत-शब्द-निर्दष्टस्यान्तः प्रविश्य प्रशासितृत्वेनानुत्कर्षात्, तत् सृष्ट्वा तद् एवानुप्राविशद् अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इति स्रष्टुः सर्व-ज्ञस्य परस्य ब्रह्मणः कार्यानुप्रवेश-नाम-रूप-व्याकरण-प्रसिद्धेश् च। अन्तः प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, ३।११।१०] इति नियमनार्थत्वाद् अनुप्रवेशस्य प्रधानस्याचेतनस्यैवꣳरूपोऽनुप्रवेशो न सम्भवति। अतः अव्याकृतम्-- अव्याकृत-शरीरꣳ ब्रह्म तन् नामरूपाभ्याꣳ व्याक्रियत [बृहद्। ३।४।७] इति तद् एवाविभक्त-नाम-रूपꣳ ब्रह्म सर्व-ज्ञꣳ सत्य-सङ्कल्पꣳ स्वेनैव विभक्त-नाम-रूपꣳ स्वयम् एव व्याक्रियतेत्य् उच्यते। एवꣳ च सति ईक्षणादयो मुख्या एव भवन्ति। ब्रह्मात्म-शब्दाव् अपि निरतिशय-बृहत्त्व-नियमनार्थ-व्यापित्वाभावेन प्रधाने न कथञ्चिद् उपपद्येते। अतो ब्रह्मैक-कारणꣳ जगद् इति स्थितम्॥१५॥
Link copiedइति कारणत्वाधिकरणम्॥४॥
Link copiedजगद्वाचित्वाधिकरणम्॥५॥
Link copied[अधिकरणार्थः-- जगत् परब्रह्म-कारणकम् एव, न पुरुष-पद-वाच्य-जीव-कारणकम्]
Link copied[बालाकि-विद्या, कौषी। ४]
Link copied१२५ जगद्-वाचित्वात्॥१।४।१६॥
Link copied[सङ्गति-प्रदर्शनम्]
Link copied[वेदान्त-वाक्येषु चेतन-कारणत्व-बोधेऽपि जीव-परत्वेन निर्वाह्यत्व-शङ्का]
Link copiedपुनर् अपि साङ्ख्यः प्रत्यवतिष्ठते यद्य् अपि वेदान्त-वाक्यानि चेतनꣳ जगत्-कारणत्वेन प्रतिपादयन्ति, तथापि तन्त्र-सिद्ध-प्रधान-पुरुषातिरिक्तꣳ वस्तु जगत्-कारणꣳ वेद्यतया न तेभ्यः प्रतीयते। तथा हि भोक्तारम् एव पुरुषꣳ कारणꣳ वेद्यतयाधीयते कौषीतकिनो बालाक्य्-अजातशत्रु-सꣳवादे ब्रह्म ते ब्रवाणि [कौषी। ४।१८] इत्य् उपक्रम्य यो वै बालाक एतेषाꣳ पुरुषाणाꣳ कर्ता यस्य वैतत् कर्म स वै वेदितव्यः [कौषी। ४।१८] इति।
Link copied[पूर्व-पक्षः]
Link copied[तत्र क्षेत्रज्ञस्यैव वेदितव्यतोक्तिः]
Link copiedउपक्रमे वक्तव्यतया बालाकिनोपक्षिप्तꣳ ब्रह्माजानते तस्मा एवाजातशत्रुणा स वै वेदितव्यः [कौषी। ४।१८] इति ब्रह्मोपदिश्यते। यस्य वैतत् कर्म [कौषी। ४।१८] इति कर्म-सम्बन्धात् प्रकृत्य्-अध्यक्षो भोक्ता पुरुषो वेदितव्यतयोपदिष्टꣳ ब्रह्मेति निश्चीयते, नार्थान्तरम्, तस्य कर्म-सम्बन्धानभ्युपगमात्। कर्म च पुण्यापुण्य-लक्षणꣳ क्षेत्रज्ञस्यैव सम्भवति।
Link copied[क्षेत्रज्ञेतरस्य वेदितव्यत्वोक्ति-शङ्का]
Link copiedन च वाच्यम्-- क्रियत इति कर्मेति व्युत्पत्त्या प्रत्यक्षादि-प्रमाणोपस्थापितꣳ जगद् एतत् कर्मेति निर्दिश्यते, यस्यैतत् कृत्स्नꣳ जगत् कर्म, स वेदितव्य इति क्षेत्रज्ञाद् अर्थान्तरम् एव प्रतीयते-- इति;
Link copied[क्षेत्रज्ञेतरस्य वेदितव्यत्वोक्ति-शङ्का]
Link copiedयो वै बालाके एतेषाꣳ पुरुषाणाꣳ कर्ता यस्य वैतत् कर्म [कौषी। ४।१८] इति पृथङ् निर्देश-वैयर्थ्यात्, कर्म-शब्दस्य च लोक-वेदयोः पुण्य-पाप-रूप एव कर्मणि प्रसिद्धेः।
Link copied[जीवे सर्व-कर्तृत्वोपपत्तिः]
Link copiedतत्-तद्-भोक्तृ-कर्म-निमित्तत्वाज् जगद्-उत्पत्तेर् एतेषाꣳ पुरुषाणाꣳ कर्तेति च भोक्तुर् एवोपपद्यते। तद् अयम् अर्थः-- एतेषाम् आदित्य-मण्डलाद्य्-अधिकरणानाꣳ क्षेत्रज्ञ-भोग्य-भोगोपकरण-भूतानाꣳ पुरुषाणाꣳ यः कारण-भूतः, एतत् कारण-भाव-हेतु-भूतꣳ पुण्यापुण्य-लक्षणꣳ च कर्म यस्य, स वेदितव्यः-- तत्-स्वरूपꣳ प्रकृतेर् विविक्तꣳ वेदितव्यम् इति।
Link copied[जीवत्वस्य प्रकारान्तरेणोपपत्तिः]
Link copiedतथोत्तरत्र तौ ह सुप्तꣳ पुरुषम् ईयतुः तꣳ यष्टिना चिक्षेप [कौषी। ४।१८] इति सुप्त-पुरुष-गमन-यष्टि-घातोत्थापनादीनि च भोक्तृ-प्रतिपादन एव लिङ्गानि। तथोपरिष्टाद् अपि भोक्तैव प्रतिपाद्यते तद् यथा श्रेष्ठी स्वैर् भुङ्क्ते यथा वा स्वाः श्रेष्ठिनꣳ भुञ्जन्त्य् एवम् एवैष प्रज्ञात्मैतैर् आत्मभिर् भुङ्क्ते एवम् एवैत आत्मान एनꣳ भुञ्जन्ति [कौषी। ४।२०] इति। तथा क्वैष एतद् बालके पुरुषोऽशयिष्ट क्व वा एतद् अभूत् कुत एतद् आयात् [कौषी। ४।१८] इति पृष्टम् अर्थम् अजानते तस्मै स्वयम् एवाजातशत्रुर् उवाच हिता नाम नाड्यस् तासु तदा भवति यदा सुप्तः स्वप्नꣳ न कथञ्चन पश्यत्य् अथास्मिन् प्राण एवैकधा भवति तदैनꣳ वाक् सर्वैर् नामभिः सहाप्य् एति मनः सर्वैर् ध्यानैः सहाप्य् एति स यदा प्रतिबुध्यते यथाग्नेर् ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्न् एवम् एवैतस्माद् आत्मनः प्राणा यथायतनꣳ विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः [कौषी। ४।१९] इति सुषुप्त्य्-आधारतया स्वप्न-सुषुप्ति-जागरितावस्थासु वर्तमानꣳ वाग्-आदि-करणाप्ययोद्गम-स्थानम् एव जीवात्मानम् अथास्मिन् प्राण एवैकधा भवति [कौषी। ४।१९] इत्य् उक्तवान्। अस्मिन् जीवात्मनि प्राण-भृत्त्व-निबन्धनोऽयꣳ प्राण-शब्दः स यदा प्रतिबुध्यते [कौषी। ४।१९] इति प्राण-शब्द-निर्दिष्टस्य प्रबोध-श्रवणात् मुख्य-प्राणस्येश्वरस्य च सुषुप्ति-प्रबोधयोर् असम्भवात्। अथवा अस्मिन् प्राणे [कौषी। ४।१९] इति व्यधिकरणे सप्तम्यौ, अस्मिन्न् आत्मनि वर्तमाने प्राण एवैकधा भवति वाग्-आदि-करण-ग्राम इति। प्राण-शब्दस्य मुख्य-प्राण-परत्वेऽपि जीव एवास्मिन् प्रकरणे प्रतिपाद्यते, स्वतः प्राणस्य जीवोपकरणत्वात्।
Link copied[पूर्व-पक्षोपसꣳहारः]
Link copiedअतो वक्त-व्यतयोपक्रान्तꣳ ब्रह्म पुरुष एवेति तद्-व्यतिरिक्तेश्वरासिद्धिः। कारण-गताश् चेक्षणादयश् चेतन-धर्मा अस्मिन्न् एवोपपद्यन्त इत्य् एतद् अधिष्ठितꣳ प्रधानम् एव जगत्-कारणम्॥
Link copied[सिद्धान्तारम्भः]
Link copied[एतत्-सꣳवाद-प्रतिपाद्यता पुरुषोत्तमस्यैव, न जीवस्य]
Link copiedइति प्राप्ते प्रचक्ष्महे-- जगद्-वाचित्वात्-- अत्र पुण्यापुण्य-पर-वशः क्षुद्रः क्षेत्रज्ञः स्वस्मिन्, प्रकृति-धर्माध्यासेन तत्-परिणाम-हेतु-भूतः पुरुषो नाभिधीयते; अपि तु निरस्त-समस्ताविद्यादि--दोष-गन्धोऽनवधिकातिशयासङ्ख्येय-कल्याण-गुण-निधिर् निखिल-जगद्-एक-कारण-भूतः पुरुषोत्तमोऽभिधीयते।
Link copied[सौत्र-हेतु-वाचक-शब्दार्थ-विवरणम्]
Link copiedकुतः। यस्य वैतत् कर्म [कौषी। ४।१८] इत्य् अत्रैतच्-छब्दान्वितस्य कर्म-शब्दस्य परम-पुरुष-कार्य-भूत-जगद्-वाचित्वात्। एतच्-छब्दो ह्य् अर्थ-प्रकरणादिभिर् असङ्कुचित-- वृत्तिर् अविशेषेण प्रत्यक्षादि-प्रमाणोपस्थापित-निखिल-चिद्-अचिन्-मिश्र-जगद्-विषयः।
Link copied[पुण्यापुण्ययोः क्रियासामान्यस्य वा कर्म-पदावाच्यत्वम्]
Link copiedन च पुण्यापुण्य-लक्षणꣳ कर्मात्र कर्म-शब्दाभिधेयꣳ ब्रह्म ते ब्रवाणि [कौषी। ४।१८] इत्य् उपक्रम्य ब्रह्मत्वेन बालाकिना निर्दिष्टानाम् आदित्य-मण्डलाद्य्-अधिकरणानाꣳ पुरुषाणाम् अब्रह्मत्वेन मृषा वै खलु मा सꣳवादयिष्ठाः [कौषी। ४।१८] इति तम् अब्रह्म-वादिनम् अपोद्य तेनाविदित-ब्रह्म-ज्ञानायाजातशत्रुणेदꣳ वाक्यम् अवतारितꣳ यो वै बालाके [कौषी। ४।१७] इत्य् आदि। पुण्यापुण्य-लक्षण-कर्म-सम्बन्धिन आदित्याद्य्-अधिकरणास् तत्-सजातीयाश् च पुरुषास्तेनैव विदिता इति तद्-अविदित-पुरुष-विशेष-ज्ञापन-परोऽयꣳ कर्म-शब्दो न पुण्यापुण्य-मात्र-वाची; कर्म-मात्र-वाची वा; अपि तु कृत्स्नस्य जगतः कार्यत्व-वाची। एवम् एव खल्व् अविदितोऽर्थ उपदिष्टो भवति।
Link copied[पुरुषस्य चेतनाख्यस्य वेदित-व्यत्वोपदेशानौचित्यम्]
Link copiedपुरुषस्य कर्म-सम्बन्धोपलक्षित-स्वाभाविक-स्वरूपस्याज्ञातस्य वेदितव्यत्वोपदेशे च लक्षणा, कर्म-सम्बन्ध-मात्रस्यैव वेदितव्य-स्वरूप-लक्षणत्वाद् यस्य कर्म च वेदितव्य इत्य् एतावतैव तत्-सिद्धे; यस्य वैतत् कर्म [कौषी। ४।१८] इत्य् एतच्-छब्द-वैयर्थ्यꣳ च।
Link copied[मिथः कर्तृत्व-कर्मत्वयोः पृथङ्-निर्देशाशयः]
Link copiedय एतेषाꣳ कर्ता यस्य वैतत् कर्म [कौषी। ४।१८] इति पृथङ्-निर्देशस्य चायम् अभिप्रायः-- ये त्वया ब्रह्मत्वेन निर्दिष्टाः पुरुषाः तेषाꣳ यः कर्ता, ते यत् कार्य-भूताः, किꣳ विशिष्याभिधीयते, कृत्स्नꣳ जगद् यस्य कार्यम्, उत्कृष्टा अपकृष्टाश् चेतना अचेतनाश् च सर्वे पदार्था यत् कार्यत्वे तुल्याः, स परम-कारण-भूतः पुरुषोत्तमो वेदितव्यः-- इति।
Link copied[जीवीय-कर्मणाꣳ जगत्-स्रष्टौ हेतुत्वेऽपि न वेदितव्यता जीवस्य]
Link copiedजगद्-उत्पत्तेर् जीव-कर्म-निबन्धनत्वेऽपि न जीवः स्व-भोग्य-भोगोपकरणादेः स्वयम् उत्पादकः, अपि तु स्व-कर्मानुगुण्येनेश्वर-सृष्टꣳ सर्वꣳ भुङ्क्ते; अतो न तस्य पुरुषान् प्रति कर्तृत्वम् उपपद्यते। अतः सर्व-वेदान्तेषु परम-कारणतया प्रसिद्धꣳ परꣳ ब्रह्मैवात्र वेदितव्यतयोपदिश्यते॥१६॥
Link copied१२६ जीव-मुख्य-प्राण-लिङ्गान् नेति चेत् तद्-व्याख्यातम्॥१।४।१७॥
Link copied[उपरितन-वाक्य-गत-हेतोर् जीवादि-साधकत्व-शङ्का-परिहारौ]
Link copiedअथ यद् उक्तम्-- जीव-लिङ्गान् मुख्य-प्राण-सङ्कीर्तनाच् च-- लिङ्गाद् भोक्तैवास्मिन् प्रकरणे प्रतिपाद्यते, न परमात्मा-- इति; तद् व्याख्यातम्-- तस्य निर्वाहः प्रतर्दन-विद्यायाम् अभिहितः।
Link copied[प्रतर्दन-विद्यास्थपरिहारस्य, अतिदेष्टव्याꣳशस्य च विवरणम्]
Link copiedएतद् उक्तꣳ भवति-- यत्रोपक्रमोपसꣳहार-पर्यालोचनया ब्रह्म-परꣳ वाक्यम् इति निश्चितम्, तत्रान्य् अलिङ्गानि तद्-अनुरोधेन वर्णनीयानीति तत्र प्रतिपादितम्। अत्राप्य् उपक्रमे ब्रह्म ते ब्रवाणि [कौषी। ४।१८] इति ब्रह्मोपक्षिप्तम्, मध्ये च यस्य चैतत् कर्म [कौषी। ४।१८] इति निर्दिष्टꣳ न पुरुष-मात्रम्, अपि तु निखिल-जगद्-एक-कारणꣳ ब्रह्मैवेत्य् उक्तम्। उपसꣳहारे च सर्वान् पाप्मनोऽपहत्य सर्वेषाꣳ च भूतानाꣳ श्रैष्ठ्यꣳ स्वाराज्यम् आधिपत्यꣳ पर्येति य एवꣳ वेद [कौषी। ४।२०] इति ब्रह्मोपासनैकान्तꣳ सर्व-पापोपहति-पूर्वकꣳ स्वाराज्यꣳ च फलꣳ श्रुतम्; अतोऽस्य वाक्यस्य ब्रह्म-परत्व-निश्चयेन जीव-मुख्य-प्राण-लिङ्गान्य् अपि तत्परतया वर्णनीयानि-- इति।
Link copied[सविशेषꣳ प्रातर्दनो निर्वाह-प्रकारः]
Link copiedप्रातर्दने ह्य् उपासा-त्रैविध्येन जीव-मुख्य-प्राण-लिङ्गानाꣳ ब्रह्म-परत्वम् उक्तम्। अत्राप्य् अथास्मिन् प्राण एवैकधा भवति [कौषी। ४।१९] इति सामानाधिकरण्य-सम्भवे वैयधिकरण्य-समाश्रयणायोगाद् ब्रह्मण्य् एव प्राण-शब्द-प्रयोग-निश्चयेन च प्राण-शरीरक-ब्रह्मोपासनार्थꣳ प्राण-सङ्कीर्तनꣳ लिङ्गꣳ युज्यते॥१७॥
Link copiedजीव-लिङ्गानाꣳ पुनः कथꣳ ब्रह्म-परत्वम् इत्य् अत्राह--
Link copied[जैमिनि-मतेनोक्तानुपपत्ति-परिहारः]
Link copied१२७ अन्यार्थꣳ तु जैमिनिः प्रश्न-व्याख्यानाभ्याम् अपि चैवम् एके॥१।४।१८॥
Link copiedतु-शब्दः, जीव-सङ्कीर्तनेन वाक्यस्य तत्परत्व-सम्भावनाव्यावृत्त्य्-अर्थः। अन्यार्थꣳ जीव-सङ्कीर्तनꣳ जीवातिरिक्त-ब्रह्म-स्वरूप-प्रतिबोधनार्थम् इति जैमिनिराचार्यो मन्यते। कुतः।
Link copied[परमात्म-ज्ञापक-प्रश्नोत्तर-विधानम्]
Link copiedप्रश्न-व्याख्यानाभ्याम्। प्रश्नस् तावत् तौ ह सुप्तꣳ पुरुषम् आजग्मतुः [कौषी। ४।१८] इत्य् आदिना सुप्तस्य प्रबुद्ध-प्राणस्यैव प्राण-नामभिर् आमन्त्रणाश्रवण-यष्टि-घातोत्थापनाभ्याꣳ प्राणादि-व्यतिरिक्तꣳ जीवꣳ प्रतिबोध्य पुनर्जीव-व्यतिरिक्त-ब्रह्म-प्रतिबोधन-परो दृश्यते क्वैष एतद् बालाके पुरुषोऽशयिष्ट क्व वा एतद् अभूत् कुत एतद् आगात् [कौषी। ४।१८] इति। व्याख्यानम् अपि यदा सुप्तः स्वप्नꣳ न कथञ्चन पश्यत्य् अथास्मिन् प्राण एवैकधा भवति एतस्माद् आत्मनः प्राणा यथायतनꣳ विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः [कौषी। ४।१९] इति जीवाद् अर्थान्तर-भूत-परमात्म-परम् एव।
Link copied[उक्तस्य परमात्म-परत्वस्योपपादनम्]
Link copiedसुषुप्तस्य हि जीवस्य यत्रोषितस्य जागरित-स्वप्न-दशासम्बन्धि विचित्र-सुख-दुःखानुभव-कालुष्य-विरहेण सम्प्रसन्न् अस्य स्वस्थतापत्तिः, पुनर् अप्य् अस्य यस्माद् भोगाय निष्क्रमणम्, सोऽयꣳ परमात्मा। तथा हि---
Link copied[प्रश्न-व्याख्यानयोः जीव-परता-पूर्व-पक्ष-तन्-निरासौ]
Link copiedसता सोम्य तदा सम्पन्नो भवति [छान्।, ६।८।१] प्राज्ञेनात्मना सम्पिरष्वक्तो न बाह्यꣳ किञ्चन वेद नान्तरम् [बृहद्।, ६।३।२१] इति सुषुप्त्य्-आधारतया प्रसिद्धो जीवाद् अर्थान्तर-भूतः प्राज्ञः परमात्मा। अतः प्रश्न-प्रतिवचनाभ्याꣳ जीव-सङ्कीर्तनꣳ जीवाद् अर्थान्तर-भूत-परमात्म-प्रतिपादनार्थम् इति निश्चीयते।
Link copied[उक्तार्थ-स्थापक-शास्त्रान्तर-पाठ-प्रदर्शनम्]
Link copiedयद् उक्तꣳ प्रश्न-व्याख्याने जीव-परे सुषुप्ति-स्थानꣳ च नाड्य एव, करण-ग्रामश् च प्राण-शब्द-निर्दिष्टे जीव एवैकधा भवति-- इति;
Link copiedतद् अयुक्तम्, नाडीनाꣳ स्वप्न-स्थानत्वात्, उक्त-रीत्या ब्रह्मण एव सुषुप्ति-स्थानत्वाच् च। प्राण-शब्द-निर्दिष्टे ब्रह्मण्य् एव जीवस्य तद्-उपकरण-भूतवागादिकरण-ग्रामस्य चैकतापत्ति-विभाग-वचनाच् च।
Link copied[उक्तार्थ-स्थापक-शास्त्रान्तर-पाठ-प्रदर्शनम्]
Link copiedअपि चैवम् एके-- वाजसनेयिनोऽस्मिन्न् एव बालाक्य्-अजातशत्रु-सꣳवादे सुषुप्ताद् विज्ञान-मयाद् भेदेन तदाश्रय-भूतꣳ परमात्मानम् आमनन्ति-- य एष विज्ञान-मयः पुरुषः क्वैष तद् आभूत् कुत एतद् आगात् [बृहद्।, ४।१।१६], यत्रैष एतत् सुप्तोऽभूद्य एष विज्ञान-मयः पुरुषस् तद् ऐतेषाꣳ प्राणानाꣳ विज्ञानेन विज्ञानम् आदाय य एषोऽन्तर् हृदय आकाशस् तस्मिञ् शेते [बृहद्।, ४।१।१७] इति। आकाश-शब्दश् च परमात्मनि प्रसिद्धः, दहरोऽस्मिन्न् अन्तर आकाशः [छान्।, ८।१।१] इति। अतोऽत्र जीव-सङ्कीर्तनꣳ तस्माद् अर्थान्तर-भूतस्य प्राज्ञस्य परस्य ब्रह्मणः प्रतिबोधनार्थम् इत्य् अवगम्यते।
Link copied[अधिकरणार्थोपसꣳहारः]
Link copiedतस्माद् अस्मिन् वाक्ये पुरुषाद् अर्थान्तर-भूतस्य निखिल-जगत्-कारणस्य परस्यैव ब्रह्मणो वेदितव्यतयाभिधानान् न तन्त्र-सिद्धस्य पुरुषस्य तद्-अधिष्ठितस्य वा प्रधानस्य कारणत्वꣳ क्वचिद् अपि वेदान्ते प्रतीयत इति स्थितम्॥१८॥
Link copiedइति जगद्-वाचित्वाधिकरणम्॥५॥
Link copiedवाक्यान्वयाधिकरणम्॥६॥
Link copied[अधिकरणार्थः-- वाक्य-विशेषैर् उपास्यतया विहितꣳ ब्रह्मैव, न पुरुषः]
Link copied[मैत्रेयी-विद्या, बृहद्।, ६।५]
Link copied१२८ वाक्यान्वयात्॥१।४।१९॥
Link copied[सङ्गति-प्रतिपादनम्]
Link copiedअत्रापि कापिल-तन्त्र-सिद्ध-पुरुष-तत्त्वावेदन-परꣳ वाक्यꣳ क्वचिद् दृश्यत इति तद्-अतिरिक्त ईश्वरो नाम न कश्चित् सम्भवतीत्य् आशङ्क्य निराकरोति।
Link copied[विषय-प्रदर्शनम्]
Link copiedबृहदारण्यके मैत्रेयी-ब्राह्मणे श्रूयते-- न वा अरे पत्युः कामाय पतिः प्रियो भवति [बृहद्।, ६।५।६] इत्य् आरभ्य-- न वा अरे सर्वस्य कामाय सर्वꣳ प्रियꣳ भवति, आत्मनस् तु कामाय सर्वꣳ प्रियꣳ भवति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, मैत्रेय्य् आत्मनि खल्व् अरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वꣳ विदितम् [बृहद्।, ६।५।६] इति।
Link copied[सꣳशय-प्रदर्शनम्]
Link copiedतत्र सꣳशयः-- किम् अस्मिन् वाक्ये द्रष्टव्यतयोपदिश्यमानस् तन्त्र-सिद्धः पुरुषः एव अथवा सर्व-ज्ञः सत्य-सङ्कल्पः सर्वेश्वरः। इति।
Link copied[सयुक्तिकः पूर्वः पक्षः]
Link copiedकिꣳ युक्तम्। पुरुष इति। कुतः। आदि-मध्यावसानेषु पुरुषस्यैव प्रतीतेः। उपक्रमे तावत् पति-जाया-पुत्र-वित्त-पश्व्-आदि-प्रियत्व-योगाज् जीवात्मैव प्रतीयते, मध्येऽपि विज्ञान-घन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति न प्रेत्य सꣳज्ञास्ति [बृहद्।, ४।४।१२] इत्य् उत्पत्ति-विनाश-योगात् स एवावगम्यते; तथान्ते च विज्ञातारम् अरे केन विजानीयात् [बृहद्।, ६।५।१५] इति स एव ज्ञाता क्षेत्रज्ञ एव प्रतीयते, नेश्वरः। अतस् तन्त्र-सिद्ध-पुरुष-प्रतिपादन-परम् इदꣳ वाक्यम् इति निश्चीयते।
Link copied[पुरुष-प्रतिपादन-परत्वाक्षेप-परिहारौ]
Link copiedननु--- अमृतत्वस्य तु नाशास्ति वित्तेन [बृहद्।, ६।५।६] इत्य् उपक्रमामृतत्व-प्राप्त्य्-उपायोपदेश-परम् इदꣳ वाक्यम् इत्य् अवगम्यते। तत् कथꣳ पुरुष-प्रतिपादन-परत्वम् अस्य वाक्यस्य। तद् उच्यते-- अत एव ह्य् अत्र पुरुष-प्रतिपादनम्। तन्त्रे ह्य् अचिद्-धर्माध्यास-वियुक्त-पुरुष-स्वरूप-याथात्म्य-विज्ञानम् एवामृतत्व-हेतुत्वेनोच्यते। अतो जीवात्मनः प्रकृति-वियुक्तꣳ स्वरूपम् इहामृतत्वाय आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इत्य् आदिनोपदिश्यते।
Link copied[जीवात्म-विज्ञानेन सर्व-विज्ञान-सिद्ध्य्-उपपादनम्]
Link copiedसर्वेषाम् आत्मनाꣳ प्रकृति-वियुक्तꣳ स्वरूपम् एक-रूपम् एकम् इति स्वात्म-याथात्म्य-विज्ञानेन सर्व एवात्मानो विदिता भवन्तीत्य् आत्म-विज्ञानेन सर्व-विज्ञानम् उपपन्नम्;
Link copied[ऐक्योपदेशाशयः]
Link copiedदेवादि-स्थावरान्तेषु सर्वेषु भूतेष्व् आत्म-स्वरूपस्य ज्ञानैक-प्रकारत्वात्। इदꣳ सर्वꣳ यद् अयम् आत्मा [बृहद्।, ६।५।७] इत्य् ऐकात्म्योपदेशः; देवाद्य्-आकाराणाम् अनात्माकारत्वात् सर्वꣳ तꣳ परादात् [बृहद्।, ६।५।७] इत्य् आदिनान्यत्व-निषेधश् च यत्र हि द्वैतम् इव भवति [बृहद्।, ६।५।१५] इति च नानात्व-निषेधेनैक-स्वरूपे ह्य् आत्मनि देवादि-प्रकृति-परिणाम-भेदेन नानात्वꣳ मिथ्येत्य् उच्यते। तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदः [बृहद्।, ६।५।११] इत्य् आद्य् अपि प्रकृतेर् अधिष्ठातृत्वेन पुरुष-निमित्तत्वाज् जगद्-उत्पत्तेर् उपपद्यते।
Link copied[पूर्व-पक्ष-निगमनम्]
Link copiedएवम् अस्मिन् वाक्ये पुरुष-परे निश्चिते सति तद्-ऐकार्थ्यात् सर्वे वेदान्तास् तन्त्र-सिद्धꣳ पुरुषम् एवाभिदधतीति तद्-अधिष्ठाता प्रकृतिर् एव जगद्-उपादानम्, नेश्वरः- इति।
Link copied[सिद्धान्तारम्भः]
Link copiedएवꣳ प्राप्ते प्रचक्ष्महे-- वाक्यान्वयात्-- इति। सर्वेश्वर एवास्मिन् वाक्ये प्रतीयते। कुतः। एवम् एव हि वाक्यावयवानाम् अन्योन्यान्वयः समञ्जसो भवति।
Link copied[सामञ्जस्योपपादनम्]
Link copiedअमृतत्वस्य तु नाशास्ति वित्तेन [बृहद्।, ६।५।३] इति याज्ञवल्यक्येनाभिहिते येनाहꣳ नामृता स्याꣳ किम् अहꣳ तेन कुर्याꣳ तद् एव भगवान् वेद तद् एव मे ब्रूहि [बृहद्।, ६।५।४] इत्य् अमृतत्वानुपायतया वित्ताद्य्-अनादरेणामृतत्व-प्राप्त्य्-उपायम् एव प्रार्थयमानायै मैत्रेय्यै तद्-उपायतया द्रष्टव्यत्वेनोपदिष्टोऽयम् आत्मा परमात्मैव तम् एव विदित्वातिमृत्युम् एति [श्वे।, ३।८] तम् एवꣳ विद्वान् अमृत इह भवति नान्यः पन्थाः [पु। सू।] इत्य् आदिभिर् अमृतत्वस्य परम-पुरुष-वेदनैकोपायतया प्रतिपादनात्।
Link copied[प्राप्तृ-स्वरूपावगमोपयोगः, परमात्मन एव ज्ञातव्यता च]
Link copiedपरम-पुरुष-विभूति-भूतस्य प्राप्तुर् आत्मनः स्वरूप-याथात्म्यम् अपवर्ग-साधन-परम-पुरुष-वेदनोपयोगितया अवगन्तव्यम्; न स्वत एवोपायत्वेन। अतोऽत्र परमात्मैवामृतत्वोपायतया द्रष्टव्यः [बृहद्।, ६।५।६] इत्य् आदिनोपदिश्यते। तथा तस्य ह वा एतस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्-वेदः [बृहद्।, ६।५।११] इत्य् आदिना कृत्स्नस्य जगतः कारणत्वम् उच्यमानꣳ परम-पुरुषाद् अन्यस्य कर्म-पर-वशस्य मुक्तस्य निर्व्यापारस्य च पुरुष-मात्रस्य न सम्भवति। तथा आत्मनो वा अरे दर्शनेन [बृहद्।, ४।४।५] इत्य् आदिना एक-विज्ञानेन सर्व-विज्ञानम् अभिधीयमानꣳ सर्वात्म-भूते परमात्मन्य् एवावकल्पते।
Link copied[परोक्तस्य सर्व-विज्ञान-प्रतिज्ञानिर्वाह-प्रकारस्यानौचित्यम्]
Link copiedयत् त्व् एतद् एक-रूपत्वाद् आत्मनाम् एकात्म-विज्ञानेन सर्वात्म-विज्ञानम् उच्यत इति; तद् अयुक्तम्; अचेतन-प्रपञ्च-ज्ञानाभावेन सर्व-विज्ञानाभावात्। प्रतिज्ञोपपादनाय च इदꣳ ब्रह्मेदꣳ क्षत्रम् [बृहद्।, ६।५।७] इत्य् उपक्रम्य इदꣳ सर्वꣳ यद् अयम् आत्मा [बृहद्।, ६।५।७] इति प्रत्यक्षादि-सिद्धꣳ चिद्-अचिन्-मिश्रꣳ प्रपञ्चम् इदम् इति निर्दिश्य एतद् अयम् आत्मा इत्य् ऐकात्म्योपदेशश् च परमात्मन एवोपपद्यते। न हि इदꣳ-शब्द-वाच्यꣳ चिद्-अचिन्-मिश्रꣳ जगत्-पुरुषेणाचित्-सꣳसृष्टेन तद्-वियुक्तेन स्वरूपेण वावस्थितेन चैक्यम् उपगच्छति।
Link copied[आत्मेतरत्व-ज्ञान-निषेध-तात्पर्यम्]
Link copiedअत एव सर्वꣳ तꣳ परादाद्योऽन्यत्रात्मनः सर्वꣳ वेद [बृहद्।, ६।५।७] इति व्यतिरिक्तत्वेन सर्व-वेदन-निन्दा च; तथा प्रथमे च मैत्रेयी-ब्राह्मणे महद् भूतम् अनन्तम् अपारम् [बृहद्।, ४।४।१२] इति श्रुता महत्त्वादयो गुणाः परमात्मन एव सम्भवन्ति। अतः स एवात्र प्रतिपाद्यते।
Link copied[परोक्तार्थस्यानूद्य दूषणम्]
Link copiedयत् तूक्तꣳ पति-जाया-पुत्र-वित्त-पश्व्-आदि-प्रियान्वयिनो जीवात्मन उपक्रमे त्व् अन्वेष्टव्यतया प्रतिपादनात् तद्-विषयम् एवेदꣳ वाक्यम् इति; तद् अयुक्तम्, आत्मनस् तु कामाय [बृहद्।, ६।५।६] इत्य् आत्म-शब्देन जीवात्म-सꣳशब्दने तस्य आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इत्य् अनेनानन्वय-प्रसङ्गात्। आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इत्य् आत्मनो द्रष्टव्यत्वोपयोगितया आत्मनस् तु कामाय [बृहद्।, ६।५।६] इत्य् उपदिष्टम् इति प्रतीयते। आत्मनस् तु कामाय-- आत्मनः काम-सम्पत्तये; काम्यन्त इति कामाः; आत्मन इष्ट-सम्पत्तय इति यावत्।
Link copied[जीवात्म-स्वरूपस्यान्वेष्टव्यता-परत्वानुपपत्तिः]
Link copiedन च-- जीवात्मनः इष्ट-सम्पत्तये पत्य्-आदयः प्रिया भवन्ति-- इत्य् उक्ते सति तस्य जीवस्य स्वरूपम् अन्वेष्टव्यꣳ भवति। प्रियम् एव ह्य् अन्वेष्टव्यम्; न तु प्रियꣳ प्रति शेषिणः प्रिय-वियुक्तꣳ स्वरूपम्। यस्माद् आत्मन इष्ट-सम्पत्तये पत्य्-आदयः प्रिया भवन्ति, तस्मात् पत्य्-आदि-प्रियꣳ परित्यज्य तद्-वियुक्तम् आत्म-स्वरूपम् अन्वेष्टव्यम् इत्य् असङ्गतꣳ भवति। प्रत्युत न पत्य्-आदि-शेषतया पत्य्-आदीनाꣳ प्रियत्वम्; अपि त्व् आत्मनः शेषतया पत्य्-आदीनाꣳ प्रियत्वम् इत्य् उक्ते स्व-शेषतया त एवोपादेयाः स्युः।
Link copied[परोक्तानुरोधस्य वाक्य-भेदापादकत्वम्]
Link copiedआत्मनस् तु कामाय सर्वꣳ प्रियꣳ भवति [बृहद्।, ६।५।६] इत्य् अस्य परेणानन्वये वाक्य-भेदः प्रसज्यते। अभ्युपगम्यमानेऽपि वाक्य-भेदे पूर्व-वाक्यस्य न किञ्चित् प्रयोजनꣳ दृश्यते।
Link copied[स्वाभिमतोऽर्थः]
Link copiedअतः पत्य्-आदि सर्वꣳ प्रियꣳ परित्यज्यात्मन एवान्वेष्ठव्यत्वꣳ यथा प्रतीयते, तथा वाक्यार्थो वर्णनीयः; सोऽयम् उच्यते-- अमृतत्वस्य तु नाशास्ति वित्तेन [बृहद्।, ६।५।३] इति वित्तादीनाꣳ नित्य-निर्दोष-निरतिशयानन्द-रूपामृतत्व-प्राप्त्य्-अनुपायताम् उक्त्वा वित्त-पुत्र-पति-जायादीनाꣳ सातिशय-दुःख-मिश्र-कादाचित्क-प्रियत्वम् अनुभूयमानꣳ न पत्य्-आदि-स्वरूप-प्रयुक्तम्, अपि तु निरतिशयानन्द- स्वभाव-परमात्म-प्रयुक्तम्। अतो य एव स्वयꣳ निरतिशयानन्दः सन्न् अन्येषाम् अपि प्रियत्व-लेशास्पदत्वम् आपादयति, स परमात्मैव द्रष्टव्य इत्य् उपदिश्यते।
Link copied[उक्तस्यार्थस्य शब्दतो लाभः]
Link copiedतद् अयम् अर्थः-- न वा अरे पत्युः कामाय पतिः प्रियो भवति [बृहद्।, ६।५।६] न हि पति-जाया-पुत्र-वित्तादयो मत्-प्रयोजनायाहम् अस्य प्रियः स्याम् इति स्व-सङ्कल्पात् प्रिया भवन्ति; अपि त्व् आत्मनः कामाय परमात्मनः स्वाराधक-प्रिय-प्रतिलम्भन-रूपेष्ट-निर्वृत्तय इत्य् अर्थः। परमात्मा हि कर्मभिर् आराधितस् तत्-तत्-कर्मानुगुणꣳ प्रतिनियत-देश-काल-स्वरूप-परिमाणमाराधकानाꣳ तत्-तद्-वस्तु-गतꣳ प्रियत्वम् आपादयति एष ह्य् एवानन्दयाति [तै।, २।७] इति श्रुतेः। न तु तत् तद् वस्तु स्वरूपेण प्रियम् अप्रियꣳ वा। यथोक्तꣳ-- तद् एव प्रीतये भूत्वा पुनर् दुःखाय जायते। तद् एव कोपाय यतः प्रसादाय च जायते॥ तस्माद् दुःखात्मकꣳ नास्ति न च किञ्चित् सुखात्मकम् इति।
Link copied[द्वितीय-वाक्य-स्थात्म-शब्दस्य परमात्म-परतायाम् एव स्वारस्यम्]
Link copiedआत्मनस् तु कामाय [बृहद्।, ६।५।६] इत्य् अस्य जीवात्मपरत्वेऽपि, आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इति तु परमात्म-विषयम् एव। तत्रायम् अर्थः-- यस्मात् पत्य्-आदीनाम् इष्ट-सम्पत्तये तत्-पर-वशेन पत्य्-आदयः प्रियत्वेन नोपादीयन्ते, अपि त्व् आत्मेष्ट-सम्पत्तये स्व-तन्त्रेण स्व-प्रियत्वेनोपादीयन्ते; तस्माद् य एवात्मनो निरुपाधिक-निर्दोष-निरवधिक-प्रियः परमात्मा; स एव हि द्रष्टव्यः; न दुःख-मिश्राल्प-सुख-दुःखोदर्काः परायत्त-तत्-तत्-स्वभावाः पति-जाया-पुत्र-वितादयो विषयाः इति।
Link copied[आत्म-शब्दयोर् द्वयोर् अप्य् एक-विषतौचित्यम्]
Link copiedअस्मिꣳस् तु प्रकरणे जीवात्म-वाचि-शब्देनापि परमात्मन एवाभिधानाद् आत्मनस् तु कामाय [बृहद्।, ६।५।६] आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इति पूर्वोक्त-प्रक्रिययोभयत्रात्म-शब्दाव् एक-विषयौ॥१९॥
Link copied[उत्तर-सूत्रावतरणम्]
Link copiedमतान्तरेणापि जीव-शब्देन परमात्माभिधानोपपादनायाह--
Link copied१२९ प्रतिज्ञा-सिद्धेर् लिङ्गम् आश्मरथ्यः॥१।४।२०॥
Link copied[यादव-प्रकाश-मत-निदान-सूत्रार्थ-विवरणम्]
Link copiedएक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा सिद्धेर् इदꣳ लिङ्गम्, यज् जीवात्म-वाचि-शब्दैः परमात्मनोऽभिधानम्-- इत्य् आश्मरथ्य आचार्यो मन्यते स्म। यद्य् अयꣳ जीवः परमात्म-कार्यतया परमात्मैव न भवेत् तदा तद्-व्यतिरिक्ततया परमात्म-विज्ञानाद् एतद् विज्ञानꣳ न सेत्स्यति। आत्मा वा इदम् एक एवाग्र आसीत् [ऐत। १।१।१] इति प्राक्सृष्टेर् एकत्वावधारणात्
Link copied[परमात्मनो जीवोत्पत्त्यादेर् औपनिषदत्वाज् जीव-ब्रह्मैक्यम्]
Link copiedयथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति [मुण्ड्।, २।१।१] इत्य् आदिभिर् ब्रह्मणो जीवानाम् उत्पत्ति-श्रवणात् तस्मिन्न् एव लय-श्रवणाच् च जीवानाꣳ ब्रह्म-कार्यत्वेन ब्रह्मणैक्यम् अवगम्यते। अतो जीव-शब्देन परमात्माभिधानम् इति॥२०॥
Link copied१३० उत्क्रमिष्यत एवम्भावाद् इत्य् औडुलोमिः॥१।४।२१॥
Link copied[आश्मर्थ्य-मतानुवाद-पूर्वकꣳ दूषणम्]
Link copiedयद् उक्तꣳ जीवस्य ब्रह्म-कार्यतया ब्रह्मणैक्येनैक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञोपपादनार्थꣳ ब्रह्मणो जीव-शब्देन प्रतिपादनम् इति, तद् अयुक्तꣳ न जायते म्रियते वा विपश्चित् [कठ।, २।२।१८] इत्य् आदिनाजत्वश्रुतेर् जीवात्मनाꣳ प्राचीन-कर्म-फल-भोगाय जगत्-सृष्ट्य्-अभ्युपगमाच् च, अन्यथा विषम-सृष्ट्य्-अनुपपत्तेश् च, ब्रह्म-कार्यस्य जीवस्य ब्रह्मतापत्ति-लक्षणो मोक्ष आकाशादिवद् अवर्जनीय इति तद्-उपाय-विधानानुष्ठानानर्थक्याच् च, घटादिवत् कारण-प्राप्तेर् विनाश-रूपत्वेन मोक्षस्यापुरुषार्थत्वाच् च। जीवात्मन उत्पत्ति-प्रलय-वादोपपत्तिर् उत्तरत्र प्रपञ्चयिष्यते।
Link copied[सूत्रार्थ-विवरणम्]
Link copiedअतः एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परꣳ ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते [छान्।, ८।३।४] यथा नद्यः स्यन्दमानाः समुद्रे अस्तꣳ गच्छन्ति नाम-रूपे विहाय। तथा विद्वान् नाम-रूपाद् विमुक्तः परात्परꣳ पुरुषम् उपैति दिव्यम् [मुण्ड्।, ३।२।८] इत्य् उत्क्रमिष्यतः परमात्म-भावाज् जीव-शब्देन परमात्मनोऽभिधानम् इत्य् औडुलोमिर् आचार्यो मन्यते स्म॥२१॥
Link copied१३१ अवस्थितेर् इति काशकृत्स्नः॥१।४।२२॥
Link copied[औडुलोमि-मतानुवाद-पूर्वकꣳ दूषणम्]
Link copiedयद् उक्तम् उत्क्रमिष्यतो जीवस्य ब्रह्म-भावाद् ब्रह्मणस् तच्-छब्देनाभिधानम् इति; तद् अप्य् अयुक्तम्, विकल्पासहत्वात्। अस्य जीवात्मन उत्क्रान्तेः पूर्वम् अनेवम्भावः किꣳ स्वाभाविकः; उतौपाधिक; तत्रापि पारमार्थिकः, अपारमाथिको वेति। स्वाभाविकत्वे ब्रह्म-भावो नोपपद्यते, भेदस्य स्वरूप-प्रयुक्तत्वेन स्वरूपे विद्यमाने तद्-अनपायात्। अथ भेदेन सह स्वरूपम् अप्य् अपैतीति, तथा सति विनष्टत्वाद् एव तस्य न ब्रह्म-भावः, अपुरुषार्थत्वादि-दोष-प्रसङ्गश् च। पारमार्थिकौपाधिकत्वे प्राग् अपि ब्रह्मैवेत्य् उत्क्रमिष्यत एवम्भावात् इति विशेषो न युज्यते वक्तुम्। अस्मिन् पक्षेऽह्य् उपाधि-ब्रह्म-व्यतिरेकेण वस्त्व्-अन्तराभावान् निरवयवस्य ब्रह्मण उपाधिना च्छेदाद्य-सम्भवाच् चोपाधिगत एव भेद इत्य् उत्क्रान्तेः प्राग् अपि ब्रह्मैव। औपाधिकस्य भेदस्यापारमार्थिकत्वे कस्यायम् उत्क्रान्तौ ब्रह्म-भाव इति वक्तव्यम्; ब्रह्मण एवाविद्योपाधि-तिरोहित-स्वस्वरूपस्येति चेन् न, नित्य-मुक्त-स्व-प्रकाश-ज्ञान-स्वरूपस्य अविद्योपाधि-तिरोधानासम्भवात्। तिरोधानꣳ नाम वस्तु-स्वरूपे विद्यमाने तत्-प्रकाश-निवृत्तिः। प्रकाश एव वस्तु-स्वरूपम् इत्य् अङ्गीकारे तिरोधानाभावः स्वरूप-नाशो वा स्यात्। अतो नित्याविर्भूत-स्व-स्वरूपत्वात् तस्योत्क्रान्तौ ब्रह्म-भावे न कश्चिद् विशेष इत्य् उत्क्रिमष्यतः इति विशेषणꣳ व्यर्थम् एव।
Link copied[स्वरूपाभिनिष्पत्ति-श्रुत्य्-अर्थ-निर्णयः]
Link copiedअस्माच् छरीरात् समुत्थाय [छान्।, ८।३।४] इति पूर्वम् अनेवꣳरूपस्य न तदानीꣳ ब्रह्मतापत्तिम् आह, अपि तु पूर्व-सिद्ध-स्वरूपस्याविर्भावम्। तथा हि वक्ष्यते सम्पद्याविर्भावः स्वेन-शब्दात् [ब्र। सू। ४।४।२] इत्य् आदिभिः।
Link copied[सूत्र-व्याख्यानम्]
Link copiedअतः अनेन जीवेनात्मनानुप्रविश्य [छान्।, ६।३।२], य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्। ५।७।२२], योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरꣳ शरीरꣳ यम् अक्षरꣳ न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७], अन्तः-प्रविष्टः शास्ता जनानाꣳ सर्वात्मा [तै।, आ।, १।३।२१] इति स्व-शरीर-भूते जीवात्मन्य् आत्मतयावस्थितेर् जीव-शब्देन ब्रह्म-प्रतिपादनम् इति काशकृत्स्न आचार्यो मन्यते स्म। जीव-शब्दश् च जीवस्य परमात्म-पर्यन्तस्यैव वाचको न जीव-मात्रस्येति पूर्वम् एवोक्तꣳ नाम-रूपे व्याकरवाणि [छान्।, ६।३।२] इत्य् अत्र।
Link copied[उक्तार्थस्यैव सूत्र-कार-सम्मतत्वम् इति प्रतिपादनम्]
Link copiedएवमात्म-शरीर-भावेन तादात्म्योपपादने परस्य ब्रह्मणोऽपहत-पाप्मत्व-सर्व-ज्ञत्वादि-गोचरा जीवस्याविदुषः शोचतो ब्रह्मोपासनान् मोक्ष-वादिन्यो जगत्-सृष्टि-प्रलयाभिधायिन्यो जगतो ब्रह्म-तादात्म्योपदेश-पराश् च सर्वाः श्रुतयः सम्यग् उपपादिता भवन्तीति काशकृत्स्नीयम् एव मतꣳ सूत्र-कारः स्वीकृतवान्।
Link copied[काशकृत्स्नानुरोधेन श्रुति-वाक्यार्थः]
Link copiedअयम् अत्र वाक्यार्थः-- अमृतत्वोपाये मैत्रेय्या पृष्टे याज्ञवल्क्यः- आत्मा वा अरे द्रष्टव्यः [बृहद्।, ६।५।६] इत्य् आदिना परमात्मोपासनम् अमृतत्वोपायम् उक्त्वा आत्मनि खल्व् अरे दृष्टे [बृहद्।, ६।५।६] इत्य् आदिनोपास्य-लक्षणम्, दुन्दुभ्य्-आदि-दृष्टान्तैश् चोपासनोपकरण-भूतमनः प्रभृति-करण-नियमनꣳ च सामान्येनाभिधाय स यथार्द्रैधाग्नेः [बृहद्।, ४।४।१०] इत्य् आदिना स यथा सर्वासामपाꣳ समुद्र एकायनम् [बृहद्।, ४।४।११] इत्य् आदिना चोपास्य-भूतस्य परस्य ब्रह्मणो निखिल-जगद्-एक-कारणत्वम्, सकल-विषय-प्रवृत्ति-मूल-करण-ग्राम-नियमनꣳ च विस्तीर्णम् उपदिश्य स यथा सैन्धवघनः [बृहद्।, ६।५।१३] इत्य् आदि नामृतत्वोपाय-प्रवृत्ति-प्रोत्साहनाय जीवात्म-स्वरूपेणावस्थितस्य परमात्मनोऽपरिच्छिन्न-ज्ञानैकाकारताम् उपपाद्य तस्यैवापरिच्छन्न-ज्ञानैकाकारस्य सꣳसार-दशायाꣳ भूत-परिणामानुवृत्तिꣳ विज्ञान-घन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति [बृहद्।, ४।४।१२] इत्य् अभिधाय न प्रेत्य सꣳज्ञास्ति [बृहद्।, ५।५।१२] इति मोक्ष-दशायाꣳ स्वाभाविकापरिच्छिन्न-ज्ञान-सङ्कोचाभावेन भूत-सङ्घातेनैकीकृत्यात्मनि देवादि-रूप-ज्ञानाभावम् उक्त्वा पुनर् अपि यत्र हि द्वैतम् इव भवति [बृहद्।, ४।४।१४] इत्य् आदिना अब्रह्मात्मकत्वेन नाना-भूत-वस्तु-दर्शनम् अज्ञान-कृतम् इति निरस्त-निखिलाज्ञानस्य ब्रह्मात्मकꣳ कृत्स्नꣳ जगद्-अनुभवतो ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तराभावेन भेद-दर्शनꣳ निरस्य येनेदꣳ सर्वꣳ विजानाति तꣳ केन विजानीयात् [बृहद्।, ६।५।१४] इति च जीवात्मा स्वात्मतयावस्थितेन येन परमात्मा आहित-ज्ञानः सन्न् इदꣳ सर्वꣳ विजानाति, अयꣳ तꣳ केन विजानीयात्, न केनापीति परमात्मनो दुरवगमत्वम् उपपाद्य स एष नेति नेति [बृहद्।, ६।५।१५] इत्य् आदिनायꣳ सर्वेश्वरः स्वेतर-समस्त-चिद्-अचिद्-वस्तु-विलक्षण-स्वरूप एव सर्व-शरीरः सर्वस्यात्मतयावस्थित इति स्व-शरीर-भूत-चिद्-अचिद्-वस्तु-गतैर् दोषैर् न स्पृश्यत इत्य् अभिधाय विज्ञातारमरे केन विजानीयात् इत्य् उक्तानुशासनासि मैत्रेय्येतावदरे खल्व् अमृतत्वम् [बृहद्।, ४।४।१५] इति समस्त-वस्तु-विसजातीयꣳ निखिल-जगद्-एक-कारण-भूतꣳ सर्वस्य विज्ञातारꣳ पुरुषोत्तमम् उक्त-प्रकाराद् उपासनादृते केन विजानीयाद् इतीदम् एवोपासनम् अमृतत्वोपायः; ब्रह्म-प्राप्तिर् एव चामृतत्वम् अभिधीयते-- इत्य् उक्तवान्।
Link copied[अधिकरणार्थोपसꣳहारः]
Link copiedअतः परꣳ ब्रह्मैवास्मिन् वाक्ये प्रतिपाद्यत इति परम् एव ब्रह्म जगत्-कारणम्, न पुरुषस् तद्-अधिष्ठाता च प्रकृतिर् इति स्थितम्॥२२॥
Link copiedइति वाक्यान्वयाधिकरणम्॥६॥
Link copiedप्रकृत्य्-अधिकरणम्॥७॥
Link copied[अधिकरणार्थः-- ब्रह्मण एव जगन्-निमित्तता, जगद्-उपादानता च]
Link copied[सद्-विद्या, छान्।, ६]
Link copied१३२ प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात्॥१।४।२३॥
Link copied[पेटिका-सङ्गतिः]
Link copiedएवꣳ निरीश्वर-साङ्ख्ये निरस्ते सति सेश्वर-साङ्ख्यः प्रत्यवतिष्ठते-- यद्य् अपीक्षणादि-गुण-योगात् सर्व-ज्ञम् ईश्वरꣳ जगत्-कारणत्वेन वेदान्ताः प्रतिपादयन्ति तथापि वेदान्तैर् एव जगद्-उपादानतया प्रधानम् एव प्रतिपाद्यत इति प्रतीयते। न हि वेदान्ताः सर्व-ज्ञस्यापरिणामिनोऽधिष्ठातुर् ईश्वरस्याधिष्ठेयेनाचेतनेन परिणामिना प्रधानेन विना जगतः कारणत्वम् अवगमयन्ति।
Link copied[उक्तार्थे श्रुति-स्मृति-प्रदर्शन-पूर्वकꣳ पूर्वः पक्षः]
Link copiedतथा ह्य् अपरिणामिनम् एनꣳ प्रकृतिꣳ चैतद्-अधिष्ठिताꣳ परिणामिनीम् अधीयते निष्कलꣳ निष्क्रियꣳ शान्तꣳ निरवद्यꣳ निरञ्जनम् [श्वे।, ६।१९] स वा एष महान् अज आत्माजरोऽमरः [बृहद्।, ६।४।२५] विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजाꣳ ध्रुवाम्, ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः। सूयते पुरुषार्थꣳ च तेनैवाधिष्ठिता जगत्। गौर् अनाद्य् अन्तवती सा जनित्री भूत-भाविनी [मन्त्रिका] इति। तथा प्रकृतिम् उपादान-भूताम् अधिष्ठायैवेश्वरो विश्वꣳ जगत् सृजतीति श्रूयते अस्मान् मायी सृजते विश्वम् एतत् [श्वे।, ४।९], मायाꣳ तु प्रकृतिꣳ विद्यान् मायिनꣳ तु महेश्वरम् [श्वे।, ४।१०] इति। स्मृतिर् अपि मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् [भ। गी।, ९।१०] इति। एवम् अश्रुतेऽपि प्रधानोपादानत्वे ब्रह्मणो जगत्-कारणत्व-श्रुत्य्-अन्यथानुपपत्त्यैव प्रधान-स्वरूपꣳ तस्येश्वराधिष्ठितस्य जगद्-उपादानत्वꣳ च सिद्ध्यति॥
Link copied[तत्र वेदान्त्य्-अभिमत-निमित्तोपादानैक्य-दूषणम्]
Link copiedएवम् एव हि लोके निमित्तोपादानयोर् अत्यन्त-भेदो दृश्यते। मृत्-सुवर्णादेर् अचेतनस्य घट-कटकाद्य्-उपादानत्वꣳ चेतनस्य कुलाल-सुवर्ण-कारादेर् निमित्तत्वꣳ च नियतम् उपलभ्यते कार्य-निष्पत्तिश् च नियमेनानेक-कारक-सव्यपेक्षा दृष्टा। एवꣳ निमित्तोपादानयोर् भेद नियमꣳ कार्य-निष्पत्तेर् अनेक-कारक-सव्यपेक्षत्व-नियमꣳ चातिक्रम्यैकम् एव ब्रह्मोपादानꣳ निमित्तꣳ च प्रतिपादयितुꣳ न प्रभवन्ति वेदान्त-वाक्यानि। अतो ब्रह्म निमित्त-कारणम् एव, नोपादानम्। उपादानꣳ तु तद्-अधिष्ठितꣳ प्रधानम् एव-- इति॥
Link copied[सिद्धान्त-प्रदर्शनम्]
Link copiedएवꣳ प्राप्तेऽभिधीयते-- प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुपरोधात्-- इति। प्रकृतिश् च-- उपादानꣳ च। न निमित्त-कारण-मात्रꣳ ब्रह्म, उपादान-कारणꣳ च ब्रह्मैवेत्य् अर्थः। कुतः। प्रतिज्ञा-दृष्टान्तानुपरोधात्। एवम् एव हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते। प्रतिज्ञा तावत् स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यः येनाश्रुतꣳ श्रुतꣳ भवत्य् अमतꣳ मतम् अविज्ञातꣳ विज्ञातम् [छान्।, ६।१।३] इत्य् एक-विज्ञानेन सर्व-विज्ञान-विषया। दृष्टान्तश् च यथा सोम्यैकेन मृत्-पिण्डेन सर्वꣳ मृण्-मयꣳ विज्ञातꣳ स्यात् [छान्।, ६।१।४], यथा सोम्यैकेन लोह-मणिना [छान्।, ६।१।६], यथा सौम्यैकेन नख-निकृन्तनेन [छान्।, ६।१।६] इति कारण-विज्ञानात् कार्य-विज्ञान-विषयः।
Link copied[ब्रह्मणो निमित्त-मात्रत्वे एक-विज्ञानेन सर्व-विज्ञानानुपपत्तिः]
Link copiedयदि निमित्त-कारणम् एव जगतो ब्रह्म, तदा तद्-विज्ञानान् न समस्तꣳ जगद् विज्ञातꣳ स्यात्। न हि कुलालादि-विज्ञानेन घटादिर् विज्ञायते। अतः प्रतिज्ञादृष्टान्तयोर् बाध एव। ब्रह्मण एवोपादानत्वे उपादान-भूत-मृत्-पिण्ड-लोह-मणि-नखनि-कृन्तनविज्ञानेन घट-मणिक-कटक-मुकुट-वासी-परश्वथादि-तत्-कार्य-विज्ञानवत् निखिल-जगद्-उपादान-भूते ब्रह्मणि विज्ञाते तत्-कार्यꣳ निखिलꣳ जगद् विज्ञातꣳ स्यात्। कारणम् एवावस्थान्तरापन्नꣳ कार्यम्, न द्रव्यान्तरम् इति कार्य-कारण-रूपेण अवस्थित-मृत्-तद्-विकारादि-निदर्शनेन प्रतिज्ञा-समर्थनाद् ब्रह्म जगद् उपादानꣳ चेति निश्चीयते।
Link copied[निमित्तोपादानयोर् भेदस्य श्रौतत्व-निरासः]
Link copiedयत् तु निमित्तोपादनयोर् भेदः श्रुत्यैव प्रतीयत इति; तद् असत्, निमित्तोपादानयोर् ऐक्य-प्रतीतेः। उत तम् आदेशम् अप्राक्ष्यः येनाश्रुतꣳ श्रुतꣳ भवति [छान्।, ६।१।३] आदिश्यते प्रशिष्यतेऽनेनेत्य् आदेशः, एतस्य वा अक्षरस्य प्रशासने गार्गि [बृहद्।, ५।८।९] इत्य् आदि श्रुतेः। साधकतमत्वेन कर्ता विवक्षितः। तम् आदेष्टारम् अप्राक्ष्यः, येनाश्रुतꣳ श्रुतꣳ भवति, येनादेष्ट्राधिष्ठात्रा श्रुतेनाश्रुतम् अपि श्रुतꣳ भवतीति निमित्तोपादनयोर् ऐक्यꣳ प्रतीयते, सद् एव सोम्येदम् अग्र आसीद् एकम् एव [छान्।, ६।२।१] इति प्राक्सृष्टेर् एकत्वावधारणाद् अद्वितीय-पदेनाधिष्ठात्रन्तर-निवारणाच् च।
Link copied[उक्तेऽर्थे मन्त्रिकोपनिषद्-विरोध-शङ्का-परिहारौ]
Link copiedनन्व् एवꣳ सति विकार-जननीम् [मन्त्रिका] गौर् अनाद्य् अन्तवती [मन्त्रिका] इत्य् आदिभिः प्रकृतेर् आद्य्-अन्त-विरहेण नित्यत्वꣳ जगद्-उपादानत्वꣳ च श्रूयमाणꣳ कथम् उपपद्यते तद् उच्यते-- तत्राप्य् अविभक्त-नाम-रूपꣳ कारणावस्थꣳ ब्रह्मैव प्रकृति-शब्देनाभिधीयते। ब्रह्म-व्यतिरिक्त-वस्त्व्-अन्तराभावात्। तथा हि श्रुतयः सर्वꣳ तꣳ परादाद्योऽन्यत्रात्मनः सर्वꣳ वेद [बृहद्।, ६।५।७], यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कꣳ पश्येत् [बृहद्।, ६।५।१५] इत्य् आद्याः; सर्वꣳ खल्व् इदꣳ ब्रह्म [छान्।, ३।१४।१], ऐतदात्म्यम् अदꣳ सर्वम् [छान्।, ६।८।७] इति कार्यावस्थꣳ कारणावस्थꣳ च सर्वꣳ जगद् ब्रह्मात्मकम् इति श्रवणाच् च।
Link copied[उक्तार्थस्यैव सर्व-श्रुति-सिद्धत्व-दृढीकरणम्]
Link copiedएतद् उक्तꣳ भवति-- यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरꣳ यꣳ पृथिवी न वेद [सुबाल, ७] इत्य् आरभ्य योऽव्यक्तम् अन्तरे सञ्चरन् यस्याव्यक्तꣳ शरीरꣳ यम् अव्यक्तꣳ न वेद [सुबाल, ७], योऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरꣳ शरीरꣳ यम् अक्षरꣳ न वेद यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयति [बृहद्।, ५।७।३] इत्य् आरभ्य य आत्मनि तिष्ठान्न् आत्मनोऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरꣳ य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः [बृहद्।, ५।७।२२] इति च सर्व-चिद्-अचिद्-वस्तु-शरीरतया सर्वदा सर्वात्म-भूतꣳ परꣳ ब्रह्म कदाचिद् विभक्त-नाम-रूपम्, कदाचिच् चाविभक्त-नाम-रूपम्; यदा विभक्त-नाम-रूपꣳ तदा तद् एव बहुत्वेन कार्यत्वेन चोच्यते; यदा चाविभक्त-नाम-रूपꣳ तदैकम् अद्वितीयꣳ कारणम् इति च।
Link copied[मन्त्रिकोपनिषद्-वाक्य-तात्पर्यम्]
Link copiedएवꣳ सर्वदा चिद्-अचिद्-वस्तु-शरीरस्य परस्य ब्रह्मणोऽविभक्त-नाम-रूपा या कारणावस्था सा गौर् अनाद्य् अन्तवती, विकार-जननीम् अज्ञाम् [मन्त्रिका] अजाम् एकाम् [श्वे।, ४।५] इत्य् आदिभिर् अभिधीयते-- इति।
Link copied[उक्त-तात्पर्यस्य सुबाल-श्रुत्य्-आदि-विरोध-परिहारः]
Link copiedननु च महान् अव्यक्ते लीयते अव्यक्तम् अक्षरे लीयते [सुबाल, २] इति प्रलय-श्रुतेर् अव्यक्तस्योत्पत्ति-प्रलयौ प्रतीयेते; तथा च महाभारते तस्माद् अव्यक्तम् उत्पन्नꣳ त्रि-गुणꣳ द्विज-सत्तम [महाभा। शाल्य। ८।१३] अव्यक्तꣳ पुरुषे ब्रह्मन् निष्क्रिये सम्प्रलीयते इति। [महाभा। शाल्य। ८।१४] नैष दोषः, अचिद्-वस्तु-शरीरस्य ब्रह्मणोऽव्यक्त-शब्द-वाच्यायास् त्रि-गुणावस्थायाः कार्यत्वात्। यदा तम् अस्तन् न दिवा न रात्रिः इति कृत्स्न-प्रलय-दशायाम् अपि ब्रह्मात्मकस्यातिसूक्ष्मस्य अचिद्-वस्तुनः स्थित्य्-अभिधानाज् जगत्-कारणस्य परस्य ब्रह्मणः प्रकार-भूतम् अतिसूक्ष्मꣳ चाचिद् वस्तु नित्यम् एवेति तत् प्रकारꣳ ब्रह्मैव गौर् अनाद्य् अन्तवती [मान्त्रिका] इत्य् आदिष्व् अभिधीयते।
Link copied[मन्त्रिकोपनिषद्-वाक्य-तात्पर्यम्]
Link copiedअत एव च अक्षरꣳ तमसि लीयते तमः परे देव एकीभवति [सुबाल, २] इति तमस एकीभाव-मात्रम् एव श्रूयते; न तु लयः। एकीभाव इति तमो-ऽभिधानातिसूक्ष्माचित्-प्रकारस्य ब्रह्मणोऽविभक्त-नाम-रूपतयावस्थानम् अभिधीयते। तम आसीत् तमसा गूढम् अग्रे प्रकेतꣳ तमसस् तन्-महिमा जायतैकम् [तै।, ब्रा। २।८।९] इत्य् आद्य् अप्य् एतद् एव वदति। तथा च मानवꣳ वचः आसीद् इदꣳ तमो-भूतम् अप्रज्ञातम् अलक्षणम्। अप्रतर्क्यम् अविज्ञेयꣳ प्रसुप्तम् इव सर्वतः [मनु। २।५] इति। अस्मान् मायी सृजते विश्वम् एतत् [श्वे।, ४।९] इत्य् आद्य् अनन्तरम् एवोपपादयिष्यते; ब्रह्मणोऽपरिणामित्व-श्रुतयश् च।
Link copied[उक्तार्थस्य तर्काननुगृहीतत्व-शङ्का-निरासौ]
Link copiedयत् त्व् एकस्य निमित्तत्वम् उपादानत्वꣳ च न सम्भवति, एक-कारक-निष्पाद्यत्वꣳ च कार्यस्य; लोके तथा नियम-दर्शनात्। अतोऽग्निना सिञ्चेद् इतिवद् वेदान्त-वाक्यान्य् एकस्माद् एवोत्पत्तिꣳ प्रतिपादयितुꣳ न प्रभवन्तीति॥
Link copiedअत्रोच्यते-- सकलेतर-विलक्षणस्य परस्य ब्रह्मणः सर्व-शक्तेः सर्व-ज्ञस्यैकस्यैव सर्वम् उपपद्यते। मृदादेर् अचेतनस्य ज्ञानाभावेनाधिष्ठातृत्वायोगाद् अधिष्ठातुः कुलालादेर् विचित्र-परिणाम-शक्ति-विरहाद् असत्य-सङ्कल्पतया च तथा दर्शन-नियमः। अतो ब्रह्मैव जगतो निमित्तम् उपादानꣳ च॥२३॥
Link copied१३३ अभिध्योपदेशाच् च॥१।४।२४॥
Link copied[बहु-भवन-सङ्कल्प-श्रुत्या निमित्तोपादानैक्यम्]
Link copiedइतश् चोभयꣳ ब्रह्मैव सोऽकामायत बहु स्याꣳ प्रजायेयेति [तै।, २।६।२] तद् ऐक्षत बहु स्याꣳ प्रजायेय [छान्।, ६।२।३] इति स्रष्टुर् ब्रह्मणः स्वस्यैव बहु-भवन-सङ्कल्पोपदेशात्। विचित्र-चिद्-अचिद्-रूपेणाहम् एव बहु स्याꣳ तथा प्रजायेयेति सङ्कल्प-पूर्विका हि सृष्टिर् उपदिश्यते॥२४॥
Link copied१३४ साक्षाच् चोभयाम्नानात्॥१।४।२५॥
Link copied[श्रुति-कण्ठोक्त्या निमित्तोपादानैक्यम्]
Link copiedन केवलꣳ प्रतिज्ञा-दृष्टान्ताभिध्योपदेशादिभिर् अयम् अर्थो निश्चीयते, ब्रह्मण एव निमित्तत्वम् उपादानत्वꣳ च साक्षाद् आम्नायते किꣳ स्विद् वनꣳ क उ स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्टतक्षुः। मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद्-भुवनानि धारयन्। ब्रह्म वनꣳ ब्रह्म स वृक्ष आसीद् यतो द्याव् आपृथिवी निष्ठतक्षुः। मनीषिणो मनसा विब्रवीमि वो ब्रह्माध्यतिष्ठद्-भुवनानि धारयन् [तै।, ब्रा। २।८।९] इति। अत्र हि स्रष्टुर् ब्रह्मणः किम् उपादानꣳ कानि चोपकरणानीति लोक-दृष्ट्या पृष्टे सकलेतर-विलक्षणस्य ब्रह्मणः सर्व-शक्ति-योगो न विरुद्ध इति ब्रह्मैवोपादानम् उपकरणानि चेति परिहृतम्। अतश् चोभयꣳ ब्रह्म॥२५॥
Link copied१३५ आत्मकृतेः॥१।४।२६॥
Link copied[स्वस्यैव स्वयꣳ सृष्टि-कारण-श्रुत्या तदैक्यम्]
Link copiedसोऽकामयत बहु स्याꣳ प्रजायेय [तै।, २।६।२] इति सिसृक्षुत्वेन प्रकृतस्य ब्रह्मणः तद् आत्मानꣳ स्वयम् अकुरुत [तै।, २।७।१] इति सृष्टेः कर्मत्वꣳ कर्तृत्वꣳ च प्रतीयत इत्य् आत्मन एव बहुत्व-करणात् तस्यैव निमित्तत्वम् उपादानत्वꣳ च प्रतीयते। अविभक्त-नाम-रूप आत्मा कर्ता, स एव विभक्त-नाम-रूपः कार्यम् इति कर्तृत्व-कर्मत्वयोर् न विरोधः। स्वयम् एवात्मानꣳ तथाकुरुतेति निमित्तम् उपादानꣳ च॥२६॥
Link copied[उत्तर-सूत्रावतारिका शङ्का]
Link copied[निमित्तोपादानैक्यस्य ब्रह्मण्य् अपुरुषार्थावहत्व-शङ्का]
Link copiedसत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।२।१] आनन्दो ब्रह्म [तै।, २।३।६] अपहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सोऽपिपासः [छान्।, ८।१।५] निष्कलꣳ निष्क्रियꣳ शान्तꣳ निरवद्यꣳ निरञ्जनम् [श्वे।, ६।१९] स वा एष महान् अज आत्माजरोऽमरः [बृहद्।, ६।५।२५] इति स्वभावतो निरस्त-समस्त-चेतनाचेतन-वर्ति-दोष-गन्धस्य निरतिशय-ज्ञानानन्दैकतानस्य परस्य ब्रह्मणो विचित्रानन्तापुरुषार्थास्पद-चिद्-अचिन्-मिश्र-प्रपञ्च-रूपेणात्मनो बहु-भवन-सङ्कल्प-पूर्वकꣳ बहुत्व-करणꣳ कथम् उपपद्यत इत्य् आशङ्क्याह--
Link copied१३६ परिणामात्॥१।४।२७॥
Link copied[अपुरुषार्थतानावह-परिणाम-स्वभावोक्त्या शङ्का-निरासः]
Link copiedपरिणाम-स्वाभाव्यात्; नात्रोपदिश्यमानस्य परिणामस्य परस्मिन् ब्रह्मणि दोषावहत्वꣳ स्वभावः प्रत्युत निरङ्कुशैश्वर्यावहत्वम् एवेत्य् अभिप्रायः। एवम् एव हि परिणाम उपदिश्यते; अशेष-हेय-प्रत्यनीक-कल्याणैकतानꣳ स्वेतर-समस्त-वस्तु-विलक्षणꣳ सर्व-ज्ञꣳ सत्य-सङ्कल्पम् अवाप्त-समस्त-कामम् अनवधिकातिशयानन्दꣳ स्व-लीलोपकरण-भूत-समस्त-चिद्-अचिद्-वस्तु-जात-शरीरतया तद्-आत्म-भूतꣳ परꣳ ब्रह्म स्व-शरीर-भूते प्रपञ्चे तन्मात्राहङ्कारादि-कारण-परम्परया तमः-शब्द-वाच्यातिसूक्ष्माचिद्-वस्त्व्-एक-शेषे सति, तमसि च स्व-शरीरतयापि पृथङ्-निर्देशानर्हातिसूक्ष्म-दशापत्त्या स्वस्मिन्न् एकताम् आपन्ने सति, तथाभूततमः शरीरꣳ ब्रह्म पूर्ववद् विभक्त-नाम-रूप-चिद्-अचिन्-मिश्र-प्रपञ्च-शरीरꣳ स्याम् इति सङ्कल्प्याप्यय-क्रमेण जगच्-छरीरतया आत्मानꣳ परिणमयतीति सर्वेषु वेदान्तेषु परिणामोपदेशः।
Link copied[बृहदारण्यक-सौबालादि-वाक्यार्थ-विशदीकरणेनोक्तार्थ-दृढीकारः]
Link copiedतथैव बृहदारण्यके कृत्स्नस्य जगतो ब्रह्म-शरीरत्वꣳ ब्रह्मणस् तदात्मत्वꣳ चाम्नायते यः पृथिव्याꣳ तिष्ठन् पृथिव्या अन्तरो यꣳ पृथिवी न वेद यस्य पृथिवी शरीरꣳ यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः इत्य् आरभ्य यस्यापः शशरीरꣳ यस्याग्निः शरीरꣳ यस्यान्तरिक्षꣳ शरीरꣳ यस्य वायुः शरीरꣳ यस्य द्यौः शरीरꣳ यस्यादित्यः शरीरꣳ यस्य दिशः शरीरꣳ यस्य चन्द्र-तारकꣳ शरीरꣳ यस्याकाशः शरीरꣳ यस्य तमः शरीरꣳ यस्य तेजः शरीरꣳ यस्य सर्वाणि भूतानि शरीरꣳ यस्य प्राणः शरीरꣳ यस्य वाक् छरीरꣳ यस्य चक्षुः शरीरꣳ यस्य श्रोत्रꣳ शरीरꣳ यस्य मनः शरीरꣳ यस्य त्वक् छरीरꣳ यस्य विज्ञानꣳ शरीरꣳ यस्य रेतः शरीरꣳ [बृहद्।, ५।७।३] इत्य् एवम् अन्तेन काण्व-पाठे; माध्यन्दिने तु पाठे विज्ञान-स्थाने यस्यात्मा शरीरम् इति विशेषः। लोक-यज्ञ-वेदानाꣳ परमात्म-शरीरत्वम् अधिकम्। सुबालोपनिषदि च पृथिव्य्-आदीनाꣳ तत्त्वानाꣳ परमात्म-शरीरत्वम् अभिधाय वाजसनेयकेऽनुक्तानाम् अपि तत्वानाꣳ शरीरत्वꣳ ब्रह्मण आत्मत्वꣳ च श्रूयते यस्य बुद्धिः शरीरꣳ यस्याहङ्कारः शरीरꣳ, यस्य चित्तꣳ शरीरꣳ, यस्याव्यक्तꣳ शरीरम्, यस्याक्षरꣳ शरीरम्, यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युः शरीरꣳ यꣳ मृत्युर् न वेद एष सर्व-भूतान्तरात्मापहत-पाप्मा दिव्यो देव एको नारायणः [सुबाल, ७] इति। अत्र मृत्यु-शब्देन परम-सूक्ष्मम् अचिद्-वस्तुतमः शब्द-वाच्यम् अभिधीयते, अव्यक्तम् अक्षरे लीयते अक्षरꣳ तमसि लीयते [सुबाल, २] इति तस्याम् एवोपनिषदि क्रम-प्रत्यभिज्ञानात्। सर्वेषाम् आत्मनाꣳ ज्ञानावरणानर्थ-मूलत्वेन तद् एव हि तमो मृत्यु-शब्द-व्यपदेश्यम्। सुबालोपनिषद्य् एव ब्रह्म-शरीरतया तदात्मकानाꣳ तत्त्वानाꣳ ब्रह्मण्य् एव प्रलय आम्नायते पृथिव्य् अप्सु प्रलीयते आपस् तेजसि लीयन्ते तेजो वायौ लीयते वायुर् आकाशे लीयते आकाशम् इन्द्रयेष्व् इन्द्रयाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादिर् महति लीयते महान् अव्यक्ते लीयते अव्यक्तम् अक्षरे लीयते अक्षरꣳ तमसि लीयते तमः परे देव एकी भवति [सुबाल, २] इति। अविभागापत्ति-दशायाम् अपि चिद्-अचिद्-वस्त्व्-अतिसूक्ष्मꣳ सकर्म-सꣳस्कारꣳ तिष्ठतीत्य् उत्तरत्र वक्ष्यते-- न कर्माविभागाद् इति चेन् नानादित्वाद् उपपद्यते चाप्युपलभ्यते च [ब्र। सू। २।१।३५] इति।
Link copied[उक्तस्येदृशार्थस्यैव तैत्तिरीय-श्रुति-तात्पर्य-विषयता]
Link copiedएवꣳ स्वस्माद् विभाग-व्यपदेशानर्हातया परमात्मनैकीभूतात्यन्तसूक्ष्म-चिद्-अचिद्-वस्तु-शरीराद् एकस्माद् एव अद्वितीयात् निरतिशयानन्दात् सर्व-ज्ञात् सत्य-सङ्कल्पाद् ब्रह्मणो नाम-रूप-विभागार्ह-स्थूल-चिद्-अचिद्-वस्तु-शरीरतया बहु-भवन-सङ्कल्प-पूर्वको जगद्-आकारेण परिणामः श्रूयते। सत्यꣳ ज्ञानम् अनन्तꣳ ब्रह्म [तै।, २।१।१] तस्माद् वा एतस्माद् विज्ञान-मयात्। अन्योन्तर आत्मानन्द-मयः। [तै।, २।५।२], एष ह्य् एवानन्दयाति [तै।, २।७।७], सोऽकामयत बहु स्याꣳ प्रजायेयेति स तपोऽतप्यत स तपस् तप्त्वा इदꣳ सर्वम् असृजत यद् इदꣳ किꣳ च तत् सृष्ट्वा तद् एवानुप्राविशत् तद् अनु प्रविश्य सच् च त्यच् चाभवत् निरुक्तꣳ चानिरुक्तꣳ च निलयनꣳ चानिलयनꣳ च विज्ञानꣳ चाविज्ञानꣳ च सत्यꣳ चानृतꣳ च सत्यम् अभवत् [तै।, २।६।३] इति।
Link copied[परब्रह्मणस् तपस आलोचन-रूपता-वर्णनम्]
Link copiedअत्र तपः शब्देन प्राचीन-जगद्-आकार-पर्यालोचन-रूपꣳ ज्ञानम् अभिधीयते यस्य ज्ञान-मयꣳ तपः [मुण्ड्।, १।१।९] इत्य् आदि श्रुतेः। प्राक्सृष्टꣳ जगत् सꣳस्थानम् आलोच्येदानीम् अपि तत् सꣳस्थानꣳ जगद् असृजद् इत्य् अर्थः; तथैव हि ब्रह्म सर्वेषु कल्पेष्व् एक-रूपम् एव जगत् सृजति सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयत्। दिवꣳ च पृथिवीꣳ चान्तिरक्षम् अथो सुवः [तै।, २।६।२४] यथर्तुष्व् ऋतु-लिङ्गानि नाना-रूपाणि पर्यये। दृश्यन्ते तानि तान्य् एव तथा भावा युगादिषु [वि। पु।, १।५।६५] इति श्रुति-स्मृतिभ्यः।
Link copied[परब्रह्मणो जगद्-रूपता-प्राप्ति-विशदीकरणम्]
Link copiedतद् अयम् अर्थः-- स्वयम् अपरिच्छन्न-ज्ञानानन्द-स्वभावः अत्यन्त-सूक्ष्मतयासत्-कल्प-स्व-लीलोपकरण-चिद्-अचिद्-वस्तु-शरीरतया तन्-मयः परमात्मा विचित्रानन्त-क्रीडनकोपादित्सया स्व-शरीर-भूत-प्रकृति-पुरुष-समष्टि-परम्परया महाभूत-पर्यन्तम् आत्मानꣳ तत्-तच्-छरीरकꣳ परिणमय्य तन्-मयः पुनः सत्-त्यच्-छब्द-वाच्य-विचित्र-चिद्-अचिन्-मिश्र-देवादिस्थावरान्त-जगद्-रूपोऽभवत् इति तद् एवानुप्राविशत् तद् अनुप्रविश्य [तै।, २।६।३] इति। कारणावस्थायाम् आत्मतयावस्थितः परमात्मैव कार्य-रूपेण विक्रियमाण-द्रव्यस्याप्य् आत्मतयावस्थाय तत् तद् अभवद् इत्य् उच्यते।
Link copied[विशिष्ट-परिणामेऽपुरुषार्थ-तद्-अभावयोर् आश्रय-निष्कर्षः]
Link copiedएवꣳ परमात्म-चिद्-अचित्-सङ्घात-रूप-जगद्-आकार-परिणामे परमात्म-शरीर-भूत-चिद्-अꣳश-गताः सर्व एवापुरुषार्थाः; तथाभूताचिद्-अꣳश-गताश् च सर्वे विकाराः; परमात्मनि कार्यत्वम्; तद्-अवस्थयोस् तयोः नियन्तृत्वेनात्मत्वम्; परमात्मा तु तयोः स्व-शरीर-भूतयोर् नियन्तृतयात्म-भूतस् तद्-गतापुरुषार्थैर् विकारैश् च न स्पृश्यते; अपरिच्छिन्न-ज्ञानानन्द-मयः सर्वदैक-रूप एव जगत्-परिवर्तन-लीलयावतिष्ठते। तद् एतद् आह सत्यꣳ चानृतꣳ च सत्यम् अभवत् [तै।, २।६।३] इति। विचित्र-चिद्-अचिद्-रूपेण विक्रियमाणम् अपि ब्रह्म सत्यम् एवाभवत्-- निरस्त-निखिल-दोष-गन्धम् अपरिच्छिन्न-ज्ञानानन्दम् एक--रूपम् एवाभवद् इत्य् अर्थः।
Link copied[सृष्टेर् भगवल्-लीलात्वम्]
Link copiedसर्वाणि चिद्-अचिद्-वस्तूनि सूक्ष्म-दशापन्नानि स्थूल-दशापन्नानि च परस्य ब्रह्मणो लीलोपकरणानि; सृष्ट्यादयश् च लीलेति भगवद्-द्वैपायन-पराशरादिभिर् उक्तम्, अव्यक्तादि-विशेषान्तꣳ परिणामर्द्धि-सꣳयुतम्। क्रीडा हरेर् इदꣳ सर्वꣳ क्षरम् इत्य् उपधार्यताम्। क्रीडतो बालकस्येव चेष्टाꣳ तस्य निशामय [वि। पु।, १।८।१८], बालः क्रीडनकैर् इव [वायु। पु। उत्तर। ३६।९६] इत्य् आदिभिः। वक्ष्यति च लोकवत् तु लीला-कैवल्यम् [ब्र। सू। २।१।३३] इति। अस्मान् मायी सृजते विश्वम् एतत् तस्मिꣳश् चान्यो मायया सन्निरुद्धः [श्वे।, ४।९] इति ब्रह्मणि जगद्-रूपतया विक्रियमाणेऽपि तत्-प्रकार-भूताचिद्-अꣳश-गताः सर्वे विकारास् तत्-प्रकार-भूत-क्षेत्रज्ञ-गताश् चापुरुषार्था इति विवेक्तुꣳ प्रकृति-पुरुषयोर् ब्रह्म-शरीर-भूतयोस् तदानीꣳ तथा निर्देशानर्हातिसूक्ष्म-दशापत्त्या ब्रह्मणैकीभूतयोर् अपि भेदेन व्यपदेशः तदात्मानꣳ स्वयम् अकुरुत [तै।, २।७] इत्य् आदिभिर् ऐकार्थ्यात्। तथा च मानवꣳ वचः-- सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यम् अपासृजत् [मनु। १।८] अत एव ब्रह्मणो निर्दोषत्व-निर्विकारत्व-श्रुतयश् चोपपन्नाः। अतो ब्रह्मैव जगतो निमित्तम् उपादानꣳ च॥२७॥
Link copied१३७ योनिश् च हि गीयते॥१।४।२८॥
Link copied[उपादान-वाचक-योनि-व्यपदेशाद् उपादानत्वोपसꣳहारः]
Link copiedइतश् च जगतो निमित्तम् उपादानꣳ च ब्रह्म, यस्माद् योनित्वेनाप्यभिधीयते कर्तारम् ईशꣳ पुरुषꣳ ब्रह्म योनिम् [मुण्ड्।, ३।१।३] इति। यद् भूत-योनिꣳ परिपश्यन्ति धीराः [मुण्ड्।, १।१।७] इति च योनि-शब्दश् चोपादान-वचन इति यथोर्णनाभिः सृजते गृह्णते च [मुण्ड्।, १।१।७] इति वाक्य-शेषाद् अवगम्यते॥२८॥
Link copiedइति प्रकृत्य्-अधिकरणम्॥७॥
Link copiedसर्व-व्याख्यानाधिकरणम्॥८॥
Link copied[अधिकरणार्थः-- सर्व-वेदान्त-गतानाꣳ सर्वेषाꣳ जगत्-कारणत्व-परवाक्यानाꣳ, ब्रह्म-परत्वम् एव]
Link copied[सर्व-विद्या-सम्बन्धि-विचार-रूपम्]
Link copied१३८ एतेन सर्वे व्याख्याता व्याख्याताः॥१।४।२९॥
Link copied[उक्तेनार्थेन सर्व-वेदान्त-तात्पर्य-निर्णयः]
Link copiedएतेन पाद-चतुष्टयोक्त-न्याय-कलापेन, सर्व-वेदान्तेषु जगत्-कारण-प्रतिपादन-पराः सर्वे वाक्य-विशेषाश् चेतनाचेतन-विलक्षण-सर्व-ज्ञ-सर्व-शक्ति-ब्रह्म-प्रतिपादन-परा व्याख्याताः। व्याख्याताः इति पदाभ्यासोऽध्याय-परिसमाप्ति-द्योतनार्थः॥२९॥
Link copiedइति सर्व-व्याख्यानाधिकरणम्॥८॥
Link copiedइति श्री-रामानुजाचार्य-रचिते ब्रह्मसूत्र-भाष्ये प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥
Link copied॥ समाप्तश् च प्रथमोऽध्यायः॥
Link copiedప్రథమః పాదః
అఖిల-భువన-జన్మ-స్థేమ-భఙ్గాది-లీలే
Link copiedవినత-వివిధ-భూత-వ్రాత-రక్షైక-దీక్షే।
Link copiedశ్రుతి-శిరసి విదీప్తే బ్రహ్మణి శ్రీనివాసే
Link copiedభవతు మమ పరస్మిన్ శేముషీ భక్తి-రూపా॥౧॥
Link copiedపారాశర్య-వచః-సుధామ్ ఉపనిషద్-దుగ్ధాబ్ధి-మధ్యోద్ధృతాṁ
Link copiedసṁసారాగ్ని-విదీపన-వ్యపగత-ప్రాణాత్మ-సఞ్జీవనీమ్।
Link copiedపూర్వాచార్య-సురక్షితాṁ బహు-మతి-వ్యాఘాత-దూర-స్థితామ్
Link copiedఆనీతాṁ తు నిజాక్షరైః సుమనసో భౌమాః పిబన్త్వ్ అన్వ్ అహమ్॥౨॥
Link copiedభగవద్-బోధాయన-కృతాṁ విస్తీర్ణాṁ బ్రహ్మసూత్ర-వృత్తిṁ పూర్వాచార్యాః సఞ్చిక్షిపుః, తన్-మతానుసారేణ సూత్రాక్షరాణి వ్యాఖ్యాస్యన్తే---
Link copied[ప్రథమṁ సమన్వయాధ్యాయే, ఆద్యే అయోగ-వ్యవచ్ఛేద-పాదే సిద్ధే వ్యుత్పత్తి-సమర్థన-పరమ్]
Link copiedఅథ జిజ్ఞాసాధికరణమ్॥౧॥
Link copied[బ్రహ్మైవ జిజ్ఞాస్యమ్]
Link copied౧ అథాతో బ్రహ్మ-జిజ్ఞాసా॥౧।౧।౧॥
Link copiedఅత్రాయమ్ అథ-శబ్ద ఆనన్తర్యే భవతి। అతః-శబ్దో వృత్తస్య హేతు-భావే। అధీత-సాఙ్గ-సశిరస్క-వేదస్యాధిగతాల్పాస్థిర-ఫల-కేవల-కర్మ-జ్ఞానతయా సఞ్జాత-మోక్షాభిలాషస్యానన్త-స్థిర-ఫల-బ్రహ్మ-జిజ్ఞాసా హ్య్ అనన్తర-భావినీ। బ్రహ్మణో జిజ్ఞాసా బ్రహ్మ-జిజ్ఞాసా। బ్రహ్మణ ఇతి కర్మణి షష్ఠీ। కర్తృ కర్మణోః కృతి [అష్టా, ౨।౨।౬౫] ఇతి విశేష-విధానాత్। యద్య్ అపి సమ్బన్ధ-సామాన్య-పరిగ్రహేఽపి జిజ్ఞాసాయాః కర్మాపేక్షత్వేన కర్మార్థత్వ-సిద్ధిః, తథాప్యాక్షేపతః ప్రాప్తాద్ ఆభిధానికస్యైవ గ్రాహ్యత్వాత్ కర్మణి షష్ఠీ గృహ్యతే। న చ ప్రతిపద-విధానా షష్ఠీ న సమస్యతే [అష్టా, ౨।౨।౧౦, సూ।వా।] ఇతి కర్మణి షష్ఠ్యాః సమాస-నిషేధః శఙ్కనీయః, కృద్-యోగా చ షష్ఠీ సమస్యత, [అష్టా, ౨।౨।౫, సూ।వా।] ఇతి ప్రతిప్రసవ-సద్-భావాత్। బ్రహ్మ-శబ్దేన చ స్వభావతో నిరస్త-నిఖిలదోషోఽనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణః పురుషోత్తమోఽభిధీయతే। సర్వత్ర బృహత్త్వ-గుణ-యోగేన హి బ్రహ్మ-శబ్దః। బృహత్త్వṁ చ స్వరూపేణ గుణైశ్ చ యత్రానవధికాతిశయṁ సోఽస్య ముఖ్యోఽర్థః; స చ సర్వేశ్వర ఏవ। అతో బ్రహ్మ-శబ్దస్ తత్రైవ ముఖ్య-వృత్తః। తస్మాద్ అన్యత్ర తద్-గుణ-లేశ-యోగాద్ ఔపచారికః, అనేకార్థ-కల్పనాయోగాత్, భగవచ్-ఛబ్దవత్। తాప-త్రయాతురైర్ అమృతత్వాయ స ఏవ జిజ్ఞాస్యః। అతః సర్వేశ్వర ఏవ జిజ్ఞాసా-కర్మ-భూతṁ బ్రహ్మ। జ్ఞాతుమ్ ఇచ్ఛా జిజ్ఞాసా। ఇచ్ఛాయా ఇష్యమాణ-ప్రధానత్వాద్ ఇష్యమాణṁ జ్ఞానమ్ ఇహ విధీయతే॥
Link copiedమీమాṁసా-పూర్వ-భాగ-జ్ఞాతస్య కర్మణోఽల్పాస్థిర-ఫలత్వాద్ ఉపరితన-భాగావసేయస్య బ్రహ్మ-జ్ఞానస్యానన్తాక్షయ-ఫలత్వాచ్ చ పూర్వ-వృత్తాత్ కర్మ-జ్ఞానాద్ అనన్తరṁ తత ఏవ హేతోర్ బ్రహ్మ జ్ఞాతవ్యమ్ ఇత్య్ ఉక్తṁ భవతి। తద్ ఆహ వృత్తి-కారః-- వృత్తాత్ కర్మాధిగమాద్ అనన్తరṁ బ్రహ్మ-వివిదిషా ఇతి। వక్ష్యతి చ కర్మ-బ్రహ్మ-మీమాṁసయోర్ ఐకశాస్త్ర్యమ్--
Link copied[పూర్వోత్తర-మీమాṁసయోః ఏక-శాస్త్రతా]
Link copiedసṁహితమ్ ఏతచ్ ఛారీరకṁ జైమినీయేన షోడశ-లక్షణేనేతి శాస్త్రైకత్వ-సిద్ధిః ఇతి। అతః ప్రతిపిపాదయిషతార్థ-భేదేన షట్క-భేదవద్ అధ్యాయ-భేదవచ్ చ పూర్వోత్తర-మీమాṁసయోర్ భేదః। మీమాṁసా-శాస్త్రమ్-- అథాతో ధర్మ-జిజ్ఞాసా [పూర్వ। మీ। ౧।౧।౧] ఇత్య్ ఆరభ్య, అనావృత్తిః శబ్దాద్ అనావృత్తిః శబ్దాత్ [బ్ర। సూ। ౪।౪।౨౨] ఇత్య్ ఏవమ్ అన్తṁ సఙ్గతి-విశేషేణ విశిష్ట-క్రమమ్। తథా హి ప్రథమṁ తావత్ స్వాధ్యాయోఽధ్యేతవ్యః [యజురారణ్యకే, ౨, ప్ర। ౧౫] ఇత్య్ అధ్యయనేనైవ స్వాధ్యాయ-శబ్ద-వాచ్య-వేదాఖ్యాక్షర-రాశేర్ గ్రహణṁ విధీయతే॥
Link copied[అధ్యయన-స్వరూప-ప్రకారౌ]
Link copiedతచ్ చాధ్యయనṁ కిṁ-రూపṁ కథṁ చ కర్తవ్యమ్ ఇత్య్ అపేక్షాయామ్ అష్ట-వర్షṁ బ్రాహ్మణమ్ ఉపనయీత తమ్ అధ్యాపయేత్ [శతపథ-బ్రాహ్మణమ్] ఇత్య్ అనేన,
Link copiedశ్రావణ్యాṁ ప్రౌష్ఠ-పద్యాṁ వా ఉపాకృత్య యథావిధి।
Link copiedయుక్తశ్ ఛన్దాṁస్య్ అధీయీత మాసాన్ విప్రోఽర్ధ-పఞ్చమాన్॥ [మను, ౪।౬౫]
Link copiedఇత్య్ ఆది వ్రత-నియమ-విశేషోపదేశైశ్ చాపేక్షితాని విధీయన్తే॥
Link copiedఏవṁ సత్-సన్తాన-ప్రసూత-సదాచార-నిష్ఠాత్మ-గుణోపేత-వేదవిద్-ఆచార్యోపనీతస్య వ్రత-నియమ-విశేష-యుక్తస్యాచార్యోచ్చారణానూచ్చారణ-రూపమ్ అక్షర-రాశి-గ్రహణ-ఫలమ్ అధ్యయనమ్ ఇత్య్ అవగమ్యతే॥
Link copied[అధ్యయన-విధిః నియమ-విధిః]
Link copiedఅధ్యయనṁ చ స్వాధ్యాయ-సṁస్కారః, స్వాధ్యాయోఽధ్యేతవ్యః [యజురారణ్యకమ్, ౨। ప్ర।౧౫] ఇతి స్వాధ్యాయస్య కర్మత్వావగమాత్। సṁస్కారో హి నామ కార్యాన్తర-యోగ్యతా-కరణమ్। సṁస్కార్యత్వṁ చ స్వాధ్యాయస్య యుక్తమ్, ధర్మార్థ-కామ-మోక్ష-రూప-పురుషార్థ-చతుష్టయ-తత్-సాధనావబోధిత్వాత్, జపాదినా స్వరూపేణాపి తత్-సాధనత్వాచ్ చ। ఏవమ్ అధ్యయన-విధిర్ మన్త్రవన్ నియమవద్ అక్షర-రాశి-గ్రహణ-మాత్రే పర్యవస్యతి।
Link copied[వేదార్థ-జ్ఞానే స్వతః ప్రవృత్తిః]
Link copiedఅధ్యయన-గృహీతస్య స్వాధ్యాయస్య స్వభావత ఏవ ప్రయోజనవద్-అర్థావబోధిత్వ-దర్శనాత్, గృహీతాత్స్వాధ్యాయాద్ అవగమ్యమానాన్ ప్రయోజనవతోఽర్థానాపాతతో దృష్ట్వా తత్-స్వరూప-ప్రకార-విశేష-నిర్ణయ-ఫల-వేద-వాక్య-విచార-రూప-మీమాṁసాశ్రవణే అధీత-వేదః పురషః స్వయమ్ ఏవ ప్రవర్తతే। తత్ర కర్మ-విధి-స్వరూపే నిరూపితే కర్మణామ్ అల్పాస్థిర-ఫలత్వṁ దృష్ట్వా అధ్యయన-గృహీత-స్వాధ్యాయైకదేశోపనిషద్-వాక్యేషు చామృతత్వ-రూపానన్త-స్థిర-ఫలాపాత-ప్రతీతేస్ తన్-నిర్ణయ-ఫల-వేదాన్త-వాక్య-విచార-రూప-శారీరక-మీమాṁసాయామ్ అధికరోతి।
Link copied[ఉక్తార్థస్య శ్రుతి-సిద్ధతా]
Link copiedతథా చ వేదాన్త-వాక్యాని కేవల-కర్మ-ఫలస్య క్షయిత్వṁ బ్రహ్మ-జ్ఞానస్య చాక్షయ-ఫలత్వṁ చ దర్శయన్తి--- తద్ యథేహ కర్మ-చితో లోకః క్షీయతే, ఏవమ్ ఏవాముత్ర పుణ్య-చితో లోకః క్షీయతే [ఛాన్, ౮।౧।౬] అన్తవద్ ఏవాస్య తద్ భవతి [బృహద్।, ౫।౮।౧౦] న హ్య్ అధ్రువైః ప్రాప్యతే [కఠ।, ౨।౧౦] ప్లవా హ్య్ ఏతే అదృఢా యజ్ఞ-రూపాః [ముణ్డ్।, ౧।౨।౭] పరీక్ష్య లోకాన్ కర్మ-చితాన్ బ్రాహ్మణో నిర్వేద-మాయాత్ నాస్త్య్ అకృతః కృతేన తద్-విజ్ఞానార్థṁ స గురుమ్ ఏవాభిగచ్ఛేత్ సమిత్-పాణిః శ్రోత్రియṁ బ్రహ్మ-నిష్ఠమ్। తస్మై స విద్వాన్ ఉపసన్నాయ సమ్యక్-ప్రశాన్త-చిత్తాయ శమాన్వితాయ। యేనాక్షరṁ పురుషṁ వేద సత్యṁ ప్రోవాచ తాṁ తత్త్వతో బ్రహ్మ-విద్యామ్। [ముణ్డ్।, ౧।౨।౧౨।౧౩] బ్రహ్మవిద్ ఆప్నోతి పరమ్ [తై।, ౨।౧] న పునర్ మృత్యవే తద్ ఏకṁ పశ్యతి న పశ్యో మృత్యుṁ పశ్యతి [బృహద్।, ౭।౨౬।౨] స స్వరాడ్ భవతి [ఛాన్।, ౭।౨౫।౨] తమ్ ఏవṁ విద్వాన్ అమృత ఇహ భవతి నాన్యః పన్థా అయనాయ విద్యతే [పు। సూ।, ౧౭] పృథగ్ ఆత్మానṁ ప్రేరితారṁ చ మత్వా జుష్టస్ తతస్ తేనామృతత్వమ్ ఏతి [శ్వే।, ౧।౬] ఇత్య్ ఆదీని॥
Link copied[కర్మ-విచారనైరపేక్ష్య-శఙ్కా-సమాధానే]
Link copiedనను చ సాఙ్గ-వేదాధ్యయనాద్ ఏవ కర్మణాṁ స్వర్గాది-ఫలత్వమ్, స్వర్గాదీనాṁ చ క్షయిత్వṁ, బ్రహ్మోపాసనస్యామృతత్వ-ఫలత్వṁ చ జ్ఞాయత ఏవ। అనన్తరṁ ముముక్షుర్ బ్రహ్మ-జిజ్ఞాసాయామ్ ఏవ ప్రవర్తతామ్; కిమ్-అర్థా ధర్మ-విచారాపేక్షా ఏవṁ తర్హి శారీరక-మీమాṁసాయామ్ అపి న ప్రవర్తతామ్, సాఙ్గాధ్యయనాద్ ఏవ కృత్స్నస్య జ్ఞాతత్వాత్। సత్యమ్। ఆపాత-ప్రతీతిర్ విద్యత ఏవ, తథాపి న్యాయానుగృహీతస్య వాక్యస్య అర్థ-నిశ్చాయకత్వాద్ ఆపాత-ప్రతీతోఽప్య్ అర్థః సṁశయ-విపర్యయౌ నాతివర్తతే; అతస్ తన్-నిర్ణయాయ వేదాన్త-వాక్య-విచారః కర్తవ్య ఇతి చేత్; తథైవ ధర్మ-విచారోఽపి కర్తవ్య ఇతి పశ్యతు భవాన్॥
Link copiedలఘు-పూర్వ-పక్షః
Link copied[సాధన-చతుష్టయ-పూర్వ-వృత్తత్వ-ప్రతిపాదనాయ భూమికా]
Link copiedనను చ బ్రహ్మ-జిజ్ఞాసా యద్ ఏవ నియమేనాపేక్షతే, తద్ ఏవ పూర్వ-వృత్తṁ వక్తవ్యమ్। న ధర్మ-విచారాపేక్షా బ్రహ్మ-జిజ్ఞాసాయాః, అధీత-వేదాన్తస్యానధిగత-కర్మణోఽపి వేదాన్త-వాక్యార్థ-విచారోపపత్తేః। కర్మాఙ్గాశ్రయాణ్య్ ఉగీథాద్య్-ఉపాసనాన్య్ అత్రైవ చిన్త్యన్తే; తద్-అనధిగత-కర్మణో న శక్యṁ కర్తుమ్ ఇతి చేత్--
Link copied[కర్మణో జ్ఞానానఙ్గత్వమ్]
Link copiedఅనభిజ్ఞో భవాన్ శారీరక-శాస్త్ర-విజ్ఞానస్య। అస్మిఞ్ శాస్త్రేఽనాద్య్-అవిద్యా-కృత-వివిధ-భేద-దర్శన-నిమిత్త-జన్మ-జరా-మరణాది-సాṁసారిక-దుఃఖ-సాగర-నిమగ్నస్య నిఖిల-దుఃఖ-మూల-మిథ్యాజ్ఞాన-నిబర్హాణాయ ఆత్మైకత్వ-విజ్ఞానṁ ప్రతిపిపాదయిషితమ్। అస్య హి భేదావలమ్బి కర్మ-జ్ఞానṁ క్వోపయుజ్యతే ప్రత్యుత విరుద్ధమ్ ఏవ। ఉద్గీథాది-విచారస్ తు కర్మ-శేష-భూత ఏవ జ్ఞాన-రూపత్వావిశేషాద్ ఇహైవ క్రియతే। స తు న సాక్షాత్ సఙ్గతః। అతో యత్ ప్రధానṁ శాస్త్రṁ, తద్-అపేక్షితమ్ ఏవ పూర్వ-వృత్తṁ కిమ్ అపి వక్తవ్యమ్॥
Link copiedబాఢమ్। తద్-అపేక్షితṁ చ కర్మ-విజ్ఞానమ్ ఏవ, కర్మ-సముచ్చితాత్ జ్ఞానాద్ అపవర్గ-శ్రుతేః। వక్ష్యతి చ-- సర్వాపేక్షా చ యజ్ఞాది-శ్రుతేర్ అశ్వవత్ [బ్ర। సూ।, ౩।౪।౨౬] ఇతి। అపేక్షితే చ కర్మణ్య్ అజ్ఞాతే కేన సముచ్చయః కేన నేతి విభాగో న శక్యతే జ్ఞాతుమ్। అతస్ తద్ ఏవ పూర్వ-వృత్తమ్॥
Link copied[కర్మణో మోక్ష-విరోధిత్వమ్]
Link copiedనైతద్ యుక్తమ్। సకల-విశేష-ప్రత్యనీక-చిన్-మాత్ర-బ్రహ్మ-విజ్ఞానాద్ ఏవావిద్యా-నివృత్తేః। అవిద్యా-నివృత్తిర్ ఏవ హి మోక్షః। వర్ణాశ్రమ-విశేషసాధ్య-సాధనేతికర్తవ్యతాద్య్-అనన్త-వికల్పాస్పదṁ కర్మ సకల-భేద-దర్శన-నివృత్తి-రూపాజ్ఞాన-నివృత్తేః కథమ్ ఇవ సాధనṁ భవేత్। శ్రుతయశ్ చ కర్మణామ్ అనిత్య-ఫలత్వేన మోక్ష-విరోధిత్వṁ, జ్ఞానస్యైవ మోక్ష-సాధనత్వṁ చ దర్శయన్తి-- అన్తవద్ ఏవాస్య తద్ భవతి [బృహద్।, ౫।౮।౧౦], తద్ యథేహ కర్మ-చితో లోకః క్షీయతే। ఏవమ్ ఏవాముత్ర పుణ్య-చితో లోకః క్షీయతే [ఛాన్।, ౮।౧।౬], బ్రహ్మవిద్ ఆప్నోతి పరమ్ [తై।, ౨।౧।౧], బ్రహ్మ వేద బ్రహ్మైవ భవతి [ముణ్డ్।, ౩।౨।౯], తమ్ ఏవ విదత్వాతిమృత్యుమ్ ఏతి [శ్వే।, ౩।౮]-- ఇత్య్ ఆద్యాః॥
Link copied[జ్ఞాన-కర్మ-సముచ్చయ-వాద-నిరాసః]
Link copiedయద్ అపి చేద్ అముక్తṁ యజ్ఞాది-కర్మాపేక్షా విద్యేతి, తద్-వస్తు-విరోధాత్ శ్రుత్య్-అక్షర-పర్యాలోచనయా చాన్తఃకరణ-నైర్మల్య-ద్వారేణ వివిదషోత్పత్తావ్ ఉపయుజ్యతే, న ఫలోత్పత్తౌ, వివిదిషన్తి ఇతి శ్రవణాత్। వివిదిషాయాṁ జాతాయాṁ జ్ఞానోత్పత్తౌ శమాదీనామ్ ఏవాన్తరఙ్గోపాయతాṁ శ్రుతిర్ ఏవాహ-- శాన్తో దాన్త ఉపరతస్ తితిక్షుః సమాహితో భూత్వాత్మన్య్ ఏవాత్మానṁ పశ్యేత్-- [బృహద్।, ౬।౪।౨౩] ఇతి॥
Link copied[వాక్య-జన్య-జ్ఞానాద్ అవిద్యా-నివృత్తిః]
Link copiedతద్ ఏవṁ జన్మాన్తర-శతానుష్ఠితానభిసṁహిత-ఫల-విశేష-కర్మ-మృదిత-కషాయస్య వివిదిషోత్పత్తౌ సత్యాṁ సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ [ఛాన్।, ౬।౨।౧] సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౨।౧।౧] అయమ్ ఆత్మా బ్రహ్మ [బృహద్।, ౬।౪।౫] తత్త్వమ్ అసి [ఛాన్।, ౬।౮।౭] ఇత్య్ ఆది వాక్య-జన్య-జ్ఞానాద్ అవిద్యా నివర్తతే।
Link copied[అవిద్యా-నివర్తక-జ్ఞాన-సహకారీణి]
Link copiedవాక్యార్థ-జ్ఞానోపయోగీని చ శ్రవణ-మనన-నిదిధ్యాసనాని। శ్రవణṁ నామ వేదాన్త-వాక్యాన్య్ ఆత్మైకత్వ-విద్యా-ప్రతిపాదకానీతి తత్త్వ-దర్శిన ఆచార్యాత్ న్యాయ-యుక్తార్థగ్రహణమ్। ఏవమ్ ఆచార్యోపదిష్టస్యార్థస్య స్వాత్మన్య్ ఏవమ్ ఏవ యుక్తమ్ ఇతి హేతుతః ప్రతిష్ఠాపనṁ మననమ్। ఏతద్-విరోధ్య్ అనాది-భేద-వాసనా-నిరసనాయాస్యైవార్థస్యానవరత-భావనా నిదిధ్యాసనమ్।
Link copied[శారీరక-పూర్వ-వృత్త-నిగమనమ్]
Link copiedశ్రవణాదిభిర్ నిరస్త-సమస్త-భేద-వాసనస్య వాక్యార్థ-జ్ఞానమ్ అవిద్యాṁ నివర్తయతీత్య్ ఏవṁ-రూపస్య శ్రవణస్యావశ్యాపేక్షితమ్ ఏవ పూర్వ-వృత్తṁ వక్తవ్యమ్।
Link copiedతచ్ చ-- నిత్యానిత్య-వస్తు-వివేకః, శమ-దమాది-సాధన-సమ్పత్, ఇహాముత్ర-ఫల-భోగ-విరాగః, ముముక్షుత్వṁ చేత్య్ ఏతత్ సాధన-చతుష్టయమ్। అనేన వినా జిజ్ఞాసానుపపత్తేః, అర్థ-స్వభావాద్ ఏవేదమ్ ఏవ పూర్వ-వృత్తమ్ ఇతి జ్ఞాయతే॥
Link copied[బన్ధ-తత్-కారణ-తన్-నివర్తకానాṁ నిగమనమ్]
Link copiedఏతద్ ఉక్తṁ భవతి-- బ్రహ్మ-స్వరూపాచ్ఛాదికావిద్యా-మూలమ్ అపారమార్థికṁ భేద-దర్శనమ్ ఏవ బన్ధ-మూలమ్। బన్ధశ్ చాపారమార్థికః। స చ సమూలోఽపారమార్థికత్వాద్ ఏవ జ్ఞానేనైవ నివర్త్యతే। నివర్తకṁ చ జ్ఞానṁ తత్ త్వమ్ అస్యాది వాక్య-జన్యమ్। తస్యైతస్య వాక్య-జన్యస్య జ్ఞానస్య స్వరూపోత్పత్తౌ కార్యే వా కర్మణాṁ నోపయోగః। వివిదిషాయామ్ ఏవ తు కర్మణామ్ ఉపయోగః। స చ పాప-మూల-రజస్-తమో-నిబర్హాణ-ద్వారేణ సత్త్వ-వివృద్ధ్యా భవతీతీమమ్ ఉపయోగమ్ అభిప్రేత్య బ్రాహ్మణా వివిదిషన్తి ఇత్య్ ఉక్తమ్ ఇతి॥
Link copiedఅతః కర్మ-జ్ఞానస్యానుపయోగాద్ ఉక్తమ్ ఏవ సాధన-చతుష్టయṁ పూర్వ-వృత్తమ్ ఇతి వక్తవ్యమ్।
Link copied[ఇతి లఘు-పూర్వపక్షః]
Link copiedలఘు-సిద్ధాన్తః
Link copied[వాక్యార్థ-జ్ఞానస్య మోక్ష-హేతుత్వమ్ శాస్త్ర-ప్రత్యక్ష-విరుద్ధమ్]
Link copiedఅత్రోచ్యతే-- యద్ ఉక్తమ్ అవిద్యా-నివృత్తిర్ ఏవ మోక్షః; సా చ బ్రహ్మ-విజ్ఞానాద్ ఏవ భవతి ఇతి తద్ అభ్యుపగమ్యతే। అవిద్యా-నివృత్తయే వేదాన్త-వాక్యైర్ విధిత్సితṁ జ్ఞానṁ కిṁ-రూపమ్ ఇతి వివేచనీయమ్-- కిṁ వాక్యాద్ వాక్యార్థ-జ్ఞాన-మాత్రమ్, ఉత తన్-మూలమ్ ఉపాసనాత్మకṁ జ్ఞానమ్ ఇతి; న తావద్ వాక్య-జన్యṁ జ్ఞానṁ, తస్య విధానమ్ అన్తరేణాపి వాక్యాద్ ఏవ సిద్ధేః; తావన్ మాత్రేణావిద్యా-నివృత్త్య్-అనుపలబ్ధేశ్ చ।
Link copiedన చ వాచ్యమ్-- భేద-వాసనాయామ్ అనిరస్తాయాṁ వాక్యమ్ అవిద్యా-నివర్తకṁ జ్ఞానṁ న జనయతి, జాతేఽపి సర్వస్య సహసైవ భేద-జ్ఞానానివృత్తిర్ న దోషాయ, చన్ద్రైకత్వే జ్ఞాతేఽపి ద్వి-చన్ద్ర-జ్ఞానానివృత్తివత్। అనివృత్తమ్ అపి ఛిన్న-మూలత్వేన న బన్ధాయ భవతి, ఇతి। సత్యాṁ సామగ్ర్యాṁ జ్ఞానానుత్పత్త్య్-అనుపపత్తేః; సత్యామ్ అపి విపరీత-వాసనాయామ్ ఆప్తోపదేశ-లిఙ్గాదిభిర్ బాధక-జ్ఞానోత్పత్తి-దర్శనాత్।
Link copiedసత్య్ అపి వాక్యార్థ-జ్ఞానేఽనాది-వాసనయా మాత్రయా భేద-జ్ఞానమ్ అనువర్తత ఇతి భవతా న శక్యతే వక్తుమ్; భేద-జ్ఞాన-సామగ్ర్యా అపి వాసనాయా మిథ్యా-రూపత్వేన జ్ఞానోత్పత్త్యైవ నివృత్తత్వాత్। జ్ఞానోత్పత్తావ్ అపి మిథ్యా-రూపాయాస్ తస్యా అనివృత్తౌ నివర్తకాన్తరాభావాత్ కదాచిద్ అపి నాస్యా వాసనాయా నివృత్తిః।
Link copiedవాసనా-కార్యṁ భేద-జ్ఞానṁ ఛిన్న-మూలమ్ అథ చానువర్తత ఇతి బాలిశ-భాషితమ్। ద్వి-చన్ద్ర-జ్ఞానాదౌ తు బాధక-సన్నిధావ్ అపి మిథ్యా-జ్ఞాన-హేతోః పరమార్థ-తిమిరాది-దోషస్య జ్ఞాన-బాధ్యత్వాభావేన అవినష్టత్వాత్ మిథ్యా-జ్ఞానానివృత్తిర్ అవిరుద్ధా। ప్రబల-ప్రమాణ-బాధితత్వేన భయాది-కార్యṁ తు నివర్తతే।
Link copied[అద్వైత-రీత్యా జ్ఞానోత్పత్త్య్-అనుపపత్తిః]
Link copiedఅపి చ భేద-వాసనా-నిరసన-ద్వారేణ జ్ఞానోత్పత్తిమ్ అభ్యుపగచ్ఛతాṁ కదాచిద్ అపి జ్ఞానోత్పత్తిర్ న సేత్స్యతి; భేద-వాసనాయా అనాదికాలోపచితత్వేనాపరిమితత్వాత్, తద్-విరోధి-భావనాయాశ్ చాల్పత్వాద్ అనయా తన్-నిరసనానుపపత్తేః।
Link copied[అపవర్గ-సాధనీభూత-జ్ఞాన-స్వరూపమ్]
Link copiedఅతో వాక్యార్థ-జ్ఞానాద్ అన్యద్ ఏవ ధ్యానోపాసనాది-శబ్ద-వాచ్యṁ జ్ఞానṁ వేదాన్త-వాక్యైర్ విధిత్సితమ్। తథా చ శ్రుతయః-- విజ్ఞాయ ప్రజ్ఞాṁ కుర్వీత [బృహద్।, ౬।౪।౨౧] అనువిద్య విజానాతి [ఛాన్।, ౮।౧౨।౬] ఓమ్ ఇత్య్ ఏవాత్మానṁ ధ్యాయథ [ముణ్డ్।, ౨।౨।౬] నిచాయ్య తṁ మృత్యు-ముఖాత్ ప్రముచ్యతే [కఠ, ౧।౩।౧౫] ఆత్మానమ్ ఏవ లోకమ్ ఉపాసీత [బృహద్।, ౩।౪।౧౪] ఆత్మా వా అరే ద్రష్టవ్యః శ్రోతవ్యో మన్తవ్యో నిదిధ్యాసితవ్యః [బృహద్।, ౬।౪।౬] సోఽన్వేష్టవ్యః స విజిజ్ఞాసతివ్యః [ఛాన్।, ౮।౭।౧] ఇత్య్ ఏవమ్ ఆద్యాః॥
Link copied[అపవర్గ-సాధనṁ చ జ్ఞానṁ ధ్యాన-రూపమ్]
Link copiedఅత్ర నిదిధ్యాసితవ్యః ఇత్య్ ఆదినైకార్థ్యాద్ అనువిద్య విజానాతి, విజ్ఞాయ ప్రజ్ఞాṁ కుర్వీత ఇత్య్ ఏవమ్ ఆదిభిర్ వాక్యార్థ-జ్ఞానṁ ధ్యానోపకారకత్వాద్ అనువిద్య, విజ్ఞాయ ఇత్య్ అనూద్య ప్రజ్ఞాṁ కుర్వీత, విజానాతి ఇతి ధ్యానṁ విధీయతే। శ్రోతవ్యః ఇతి చానువాదః స్వాధ్యాయస్యార్థ-పరత్వేనాధీత-వేదః పురుషః ప్రయోజనవద్-అర్థావబోధిత్వ-దర్శనాత్ తన్-నిర్ణయాయ స్వయమ్ ఏవ శ్రవణే ప్రవర్తత ఇతి శ్రవణస్య ప్రాప్తత్వాత్। శ్రవణ-ప్రతిష్ఠార్థత్వాన్ మననస్య మన్తవ్యః ఇతి చానువాదః। తస్మాద్ ధ్యానమ్ ఏవ విధీయతే। వక్ష్యతి చావృత్తిర్ అసకృద్ ఉపదేశాత్ [బ్ర। సూ। ౪।౧।౧] ఇతి।
Link copied[ధ్యానస్య వేదనోపాసనాత్మకత్వమ్]
Link copiedతద్ ఇదమ్ అపవర్గోపాయతయా విధిత్సితṁ వేదనమ్ ఉపాసనమ్ ఇత్య్ అవగమ్యతే విద్యోపాస్యోర్ వ్యతికరేణ ఉపక్రమోపసṁహార-దర్శనాన్ మనో బ్రహ్మేత్య్ ఉపాసీత [ఛాన్।, ౩।౧౮।౧] ఇత్య్ అత్ర భాతి చ తపతి చ కీర్త్యా యశసా బ్రహ్మ-వర్చసేన య ఏవṁ వేద, [ఛాన్।, ౩।౧౮।౫] న స వేద అకృత్స్నో హ్య్ ఏషః ఆత్మేత్య్ ఏవోపాసీత, [బృహద్।, ౩।౪।౭] యస్ తద్ వేద యత్ స వేద స మయైతద్ ఉక్తః [ఛాన్।, ౪।౧।౪] ఇత్య్ అత్ర అను మ ఏతాṁ భగవో దేవతాṁ శాధి యాṁ దేవతామ్ ఉపాస్సే [ఛాన్।, ౪।౨।౨] ఇతి॥
Link copied[ధ్యానస్య ధ్రువానుస్మృతి-దర్శన-రూపతా]
Link copiedధ్యానṁ చ తైల-ధారావద్-అవిచ్ఛిన్న-స్మృతి-సన్తాన-రూపṁ ధ్రువా స్మృతిః। స్మృతి-లమ్భే సర్వ-గ్రన్థీనాṁ విప్రమోక్షః [ఛాన్।, ౭।౨౬।౨] ఇతి ధ్రువాయాః స్మృతేర్ అపవర్గోపాయత్వ-శ్రవణాత్। సా చ స్మృతిర్ దర్శన-సమానాకారాభిద్యతే హృదయ-గ్రన్థిశ్ ఛిద్యన్తే సర్వ-సṁశయాః। క్షీయన్తే చాస్య కర్మాణి తస్మిన్ దృష్టే పరావరే [ముణ్డ్।, ౨।౧।౮] ఇత్య్ అనేనైకార్థ్యాత్। ఏవṁ చ సత్య్ ఆత్మా వా అరే ద్రష్టవ్యః [బృహద్।, ౬।౪।౬] ఇత్య్ అనేన నిదిధ్యాసనస్య దర్శన-సమానాకారతా విధీయతే। భవతి చ స్మృతేర్ భావనా-ప్రకర్షాద్ దర్శన-రూపతా। వాక్య-కారేణ ఏతత్ సర్వṁ ప్రపఞ్చితమ్-- వేదనమ్ ఉపాసనṁ స్యాత్ తద్-విషయే శ్రవణాద్ ఇతి। సర్వాసూపనిషత్సు మోక్ష-సాధనతయా విహితṁ వేదనమ్ ఉపాసనమ్ ఇత్య్ ఉక్తమ్। సకృత్-ప్రత్యయṁ కుర్యాచ్ ఛబ్దార్థస్య కృతత్వాత్ ప్రయాజాదివత్ ఇతి పూర్వపక్షṁ కృత్వా సిద్ధṁ తూపాసన-శబ్దాత్ ఇతి వేదనమ్ అసకృద్ ఆవృత్తṁ మోక్ష-సాధనమ్ ఇతి నిర్ణీతమ్। ఉపాసనṁ స్యాద్ ధ్రువానుస్మృతేర్ దర్శనాన్ నిర్వచనాచ్ చ ఇతి తస్యైవ వేదనస్యోపాసన-రూపస్యాసకృద్ ఆవృత్తస్య ధ్రువానుస్మృతిత్వమ్ ఉపవర్ణితమ్॥
Link copiedసేయṁ స్మృతిర్ దర్శన-రూపా ప్రతిపాదితా। దర్శన-రూపతా చ ప్రత్యక్షతాపత్తిః।
Link copied[అపవర్గ-సాధనీభూత-స్మృతి-గతṁ వైశిష్ట్యమ్]
Link copiedఏవṁ ప్రత్యక్షతాపన్నామ్ అపవర్గ-సాధన-భూతాṁ స్మృతిṁ విశినష్టి-- నాయమ్ ఆత్మా ప్రవచనేన లభ్యో న మేధయా న బహునా శ్రుతేన। యమ్ ఏవైష వృణుతే తేన లభ్యస్ తస్యైష ఆత్మా వివృణుతే తనూṁ స్వామ్ [ముణ్డ్।, ౩।౨।౩] ఇతి। అనేన కేవల-శ్రవణ-మనన-నిదిధ్యాసనానామ్ ఆత్మ-ప్రాప్త్య్-అనుపాయత్వమ్ ఉక్త్వా యమ్ ఏవైష ఆత్మా వృణుతే తేనైవ లభ్య ఇత్య్ ఉక్తమ్। ప్రియతమ ఏవ హి వరణీయో భవతి। యస్యాయṁ నిరతిశయ-ప్రియః స ఏవాస్య ప్రియతమో భవతి। యథాయṁ ప్రియతమ ఆత్మానṁ ప్రాప్నోతి, తథా స్వయమ్ ఏవ భగవాన్ ప్రయతత ఇతి భగవతైవోక్తమ్। తేషాṁ సతతయుక్తానాṁ భజతాṁ ప్రీతి-పూర్వకమ్। దదామి బుద్ధి-యోగṁ తṁ యేన మామ్ ఉపయాన్తి తే [భ। గీ।, ౧౦।౧౦] ఇతి। ప్రియో హి జ్ఞానినోఽత్యర్థమ్ అహṁ స చ మమ ప్రియః [భ। గీ। ౭।౧౭] ఇతి చ॥
Link copiedఅతః సాక్షాత్కార-రూపా స్మృతిః స్మర్యమాణాత్యర్థ-ప్రియత్వేన స్వయమ్ అప్య్ అత్యర్థ-ప్రియా యస్య, స ఏవ పరేణాత్మనా వరణీయో భవతీతి తేనైవ లభ్యతే పర ఆత్మేత్య్ ఉక్తṁ భవతి।
Link copied[దర్శన-సమానాకారాయాః స్మృతేర్ భక్తి-శబ్దాభిధేయతా]
Link copiedఏవṁ-రూపా ధ్రువానుస్మృతిర్ ఏవ భక్తి-శబ్దేనాభిధీయతే, ఉపాసన-పర్యాయత్వాద్ భక్తి-శబ్దస్య। అత ఏవ శ్రుతి-స్మృతిభిర్ ఏవమ్ అభిధీయతే--
Link copiedతమ్ ఏవ విదత్వాతిమృత్యుమ్ ఏతి [శ్వే।, ౩।౮] తమ్ ఏవṁ విద్వాన్ అమృత ఇహ భవతి। నాన్యః పన్థా అయనాయ విద్యతే [పు। సూ।, ౧౭]
Link copiedనాహṁ వేదైర్ న తపసా న దానేన న చేజ్యయా। శక్య ఏవṁ-విధో ద్రష్టుṁ దృష్టవాన్ అసి మాṁ యథా॥ భక్త్యా త్వ్ అనన్యయా శక్య అహమ్ ఏవṁ-విధోఽర్జున। జ్ఞాతుṁ ద్రష్టుṁ చ తత్త్వేన ప్రవేష్టుṁ చ పరన్తప॥[భ। గీ।, ౧౧।౫౩।౫౪] పురుషః స పరః పార్థ భక్త్యా లభ్యస్ త్వ్ అనన్యయా [భ। గీ।, ౮।౨౨] ఇతి॥
Link copied[భక్తేః కర్మాఙ్గకత్వమ్]
Link copiedఏవṁరూపాయా ధ్రువానుస్మృతేః సాధనాని యజ్ఞాదీని కర్మాణీతి యజ్ఞాది-శ్రుతేర్ అశ్వవత్ [బ్ర। సూ। ౩।౪।౨౬] ఇత్య్ అభిధాస్యతే। యద్య్ అపి వివిదషన్తీతి యజ్ఞాదయో వివిదషోత్పత్తౌ వినియుజ్యన్తే తథాపి తస్యైవ వేదనస్య ధ్యాన-రూపస్యాహర్-అహర్-అనుష్ఠీయమానస్య అభ్యాసాధేయాతిశయస్య ఆప్రయాణాద్ అనువర్తమానస్య బ్రహ్మ-ప్రాప్తి-సాధనత్వాత్ తద్-ఉత్పత్తయే సర్వాణ్య్ ఆశ్రమ-కర్మాణి యావజ్-జీవమ్ అనుష్ఠేయాని। వక్ష్యతి చ-- ఆప్రయాణాత్ తత్రాపి హి దృష్టమ్ [బ్ర। సూ। ౪।౧।౧౨] అగ్నిహోత్రాది తు తత్-కార్యాయైవ తద్-దర్శనాత్ [బ్ర। సూ। ౪।౧।౧౬] సహకారిత్వేన చ [బ్ర। సూ। ౩।౪।౩౩] ఇత్యాదిషు।
Link copied[ధ్రువానుస్మృతేః సాధన-సప్తక-నిష్పాద్యత్వమ్]
Link copiedవాక్యకారశ్ చ ధ్రువానుస్మృతేర్ వివేకాదిభ్య ఏవ నిష్పత్తిమ్ ఆహ-- తల్-లబ్ధిర్ వివేక-విమోకాభ్యాస-క్రియా-కల్యాణానవసాదానుద్ధర్షేభ్యః సమ్భవాన్ నిర్వచనాచ్ చ[^౧] ఇతి। వివేకాదీనాṁ స్వరూపṁ చాహ-- జాత్య్-ఆశ్రయ-నిమిత్తాదుష్టాద్ అన్నాత్ కాయ-శుద్ధిర్ వివేకః[^౨] ఇతి। అత్ర నిర్వచనమ్-- ఆహార-శుద్ధౌ సత్త్వ-శుద్ధిః సత్త్వ-శుద్ధౌ ధ్రువా స్మృతిః [ఛాన్।, ౭।౨౬।౨] ఇతి। విమోకః కామానభిష్వఙ్గః[^౩] ఇతి। శాన్త ఉపాసీత [ఛాన్।, ౩।౧౪।౧] ఇతి నిర్వచనమ్। ఆరమ్భణ-సṁశీలనṁ పునః పునర్ అభ్యాసః[^౪] ఇతి। నిర్వచనṁ చ స్మార్తమ్ ఉదాహృతṁ భాష్య-కారేణ-- సదా తద్-భావ-భావితః [భ। గీ।, ౮।౬] ఇతి। పఞ్చమ-హాయజ్ఞాద్య్-అనుష్ఠానṁ శక్తితః క్రియా[^౫]। నిర్వచనṁ క్రియావాన్ ఏష బ్రహ్మ-విదాṁ వరిష్ఠః [ముణ్డ్।, ౩।౧।౪] తమ్ ఏతṁ వేదానువచనేన బ్రాహ్మణా వివిదిషన్తి యజ్ఞేన దానేన తపసానాశకేన [బృహద్।, ౬।౪।౨౨] ఇతి చ। సత్యార్జవ-దయా-దానా-హిṁసానభిధ్యాః కల్యాణాని[^౬] ఇతి। నిర్వచనṁ సత్యేన లభ్యః [ముణ్డ్।, ౩।౧।౫] తేషామ్ ఏవైష విరజో బ్రహ్మ-లోకః [ప్రశ్।, ౧।౧౫।౧౬] ఇత్య్ ఆది। దేశ-కాలవైగుణ్యాత్ శోక-వస్త్వ్-ఆద్య్-అనుస్మృతేశ్ చ తజ్-జṁ దైన్యమ్ అభాస్వరత్వṁ మనసోఽవసాదః[^౭] ఇతి, తద్-విపర్యయో అనవసాదః[^౮]। నిర్వచనṁ నాయమ్ ఆత్మా బల-హీనేన లభ్యః [ముణ్డ్।, ౩।౪] ఇతి। తద్-విపర్య-యజా తుష్టిర్ ఉద్ధర్షః[^౯] ఇతి। తద్-విపర్యయోఽనుద్ధర్షః[^౧౦]। అతిసన్తోషశ్ చ విరోధీత్య్ అర్థః। నిర్వర్చనమ్ అపి-- శాన్తో దాన్తః [బృహద్।, ౬।౪।౨౩] ఇతి।
Link copied[విద్యా-నిష్పత్తేర్ ఆశ్రమ-కర్మావినాభావితా]
Link copiedఏవṁ నియమ-యుక్తస్యాశ్రమ-విహిత-కర్మానుష్ఠానేనైవ విద్యా-నిష్పత్తిర్ ఇత్య్ ఉక్తṁ భవతి। తథా చ శ్రుత్య్-అన్తరమ్-- విద్యాṁ చావిద్యాṁ చ యస్ తద్ వేదోభయṁ సహ। అవిద్యయా మృత్యుṁ తీర్త్వా విద్యయామృతమ్ అశ్నుతే॥ [ఈశ, ౧౧] అత్రావిద్యా-శబ్దాభిహితṁ వర్ణాశ్రమ-విహితṁ కర్మ। అవిద్యయా-- కర్మణా, మృత్యుṁ-- జ్ఞానోత్పత్తి-విరోధి ప్రాచీనṁ కర్మ, తీర్త్వా-- అపోహ్య, విద్యయా-- జ్ఞానేన, అమృతమ్-- బ్రహ్మ। అశ్నుతే-- ప్రాప్నోతీత్య్ అర్థః। మృత్యుతరణోపాయతయా ప్రతీతా అవిద్యా విద్యేతరద్-విహితṁ కర్మైవ, యథోక్తమ్-- ఇయాజ సోఽపి సుబహూన్ యజ్ఞాన్ జ్ఞాన-వ్యపాశ్రయః। బ్రహ్మ-విద్యామ్ అధిష్ఠాయ తర్తుṁ మృత్యుమ్ అవిద్యయా॥ ఇతి॥ [వి। పు।, ౬।౬।౧౨]
Link copiedజ్ఞాన-విరోధి చ కర్మ పుణ్య-పాప-రూపమ్। బ్రహ్మ-జ్ఞానోత్పత్తి-విరోధిత్వేనానిష్ట-ఫలతయా ఉభయోర్ అపి పాప-శబ్దాభిధేయత్వమ్। అస్య చ జ్ఞాన-విరోధిత్వṁ జ్ఞానోత్పత్తి-హేతు-భూత-శుద్ధ-సత్త్వ-విరోధి-రజస్-తమో-వివృద్ధి-ద్వారేణ। పాపస్య చ జ్ఞానోదయ-విరోధిత్వమ్-- ఏష ఏవాసాధు కర్మ కారయతి తṁ యమ్ అధో నినీషతి [కౌ।, ౩।౬] ఇతి శ్రుత్యావగమ్యతే।
Link copied[యథార్థ-జ్ఞాన-తద్-ఆవరణయోః సత్త్వాది-గుణాయత్తతా]
Link copiedరజస్-తమసోర్ యథార్థ-జ్ఞానావరణత్వṁ సత్త్వస్య చ యథార్థ-జ్ఞాన-హేతుత్వṁ భగవతైవ ప్రతిపాదితṁ-- సత్త్వాత్ సఞ్జాయతే జ్ఞానమ్ [భ। గీ।, ౧౪।౧౭] ఇత్య్ ఆదినా। అతశ్ చ జ్ఞానోత్పత్తయే పాపṁ కర్మ నిరసనీయమ్। తన్-నిరసనṁ చానభిసṁహిత-ఫలేనానుష్ఠితేన ధర్మేణ। తథా చ శ్రుతిః-- ధర్మేణ పాపమ్ అపనుదతి [బృహద్।, ౧।౫] ఇతి।
Link copied[కర్మ-మీమాṁసాయా బ్రహ్మ-మీమాṁసా-పూర్వ-వృత్తత్వ-నిగమనమ్]
Link copiedతద్ ఏవṁ బ్రహ్మ-ప్రాప్తి-సాధనṁ జ్ఞానṁ సర్వాశ్రమ-కర్మాపేక్షమ్। అతోఽపేక్షిత-కర్మ-స్వరూప-జ్ఞానṁ, కేవల-కర్మణామ్ అల్పాస్థిర-ఫలత్వ-జ్ఞానṁ చ కర్మ-మీమాṁసావసేయమ్ ఇతి, సైవాపేక్షితా బ్రహ్మ-జిజ్ఞాసాయాః పూర్వ-వృత్తా వక్తవ్యా॥
Link copied[సాధన-చతుష్టయ-సమ్పత్తేర్ మీమాṁసా-ద్వయ-శ్రవణ-పశ్చాద్-భావిత్వమ్]
Link copiedఅపి చ నిత్యానిత్య-వస్తు-వివేకాదయశ్ చ, మీమాṁసా-శ్రవణమ్ అన్తరేణ న సమ్పత్స్యన్తే, ఫల-కరణ-ఇతికర్తవ్యతాధికారి-విశేష-నిశ్చయాద్ ఋతే, కర్మ-స్వరూప-తత్-ఫల-స్థిరత్వాత్మ-నిత్యత్వాదీనాṁ దురవబోధత్వాత్। ఏషాṁ సాధనత్వṁ చ వినియోగావసేయమ్। వినియోగశ్ చ శ్రుతి-లిఙ్గాదిభ్యః। స చ తార్తీయః। ఉద్గీథాద్య్-ఉపాసనాని కర్మ-సమృద్ధ్య్-అర్థాన్య్ అపి బ్రహ్మ-దృష్టి-రూపాణి, బ్రహ్మ-జ్ఞానాపేక్షాణీతి, ఇహైవ చిన్తనీయాని। తాన్య్ అపి కర్మాణ్య్ అనభిసṁహిత-ఫలాని బ్రహ్మ-విద్యోత్పాదకానీతి తత్-సాద్గుణ్యాపాదనాన్య్ ఏతాని సుతరామ్ ఇహైవ సఙ్గతాని। తేషాṁ చ కర్మ-స్వరూపాధిగమాపేక్షా సర్వ-సమ్మతా॥
Link copied॥ ఇతి లఘు-సిద్ధాన్తః॥
Link copiedఅథ మహా-పూర్వ-పక్షః
Link copied[బ్రహ్మణ ఏవ సత్యత్వమ్, తద్-అతిరిక్త-సర్వ-మిథ్యాత్వṁ చ]
Link copiedయద్ అప్య్ ఆహుః-- అశేష-విశేష-ప్రత్యనీక-చిన్-మాత్రṁ బ్రహ్మైవ పరమార్థస్ తద్-అతిరేకి నానా-విధ-జ్ఞాతృ-జ్ఞేయ-తత్-కృత-జ్ఞాన-భేదాది-సర్వṁ తస్మిన్న్ ఏవ పరికల్పితṁ మిథ్యా-భూతṁ--
Link copied[నిర్విశేష-వస్తునః శ్రౌతతా]
Link copiedసద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ [ఛాన్।, ౬।౨।౧] అథ పరా యయా తద్-అక్షరమ్ అధిగమ్యతే యత్ తద్ అద్రేశ్యమ్ అగ్రాహ్యమ్ అగోత్రమ్ అవర్ణమ్ అచక్షుః శ్రోత్రṁ తద్ అపాణి-పాదṁ నిత్యṁ విభుṁ సర్వ-గతṁ సుసూక్ష్మṁ తద్ అవ్యయṁ యద్ భూత-యోనిṁ పరిపశ్యన్తి ధీరాః [ముణ్డ్।, ౧।౧।౬] సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౧।౧] నిష్కలṁ నిష్క్రియṁ శాన్తṁ నిరవద్యṁ నిరఞ్జనమ్ [శ్వే।, ౬।౧౯] యస్యామతṁ తస్య మతṁ మతṁ యస్య న వేద సః। అవిజ్ఞాతṁ విజానతాṁ విజ్ఞాతమ్ అవిజానతామ్ [కేన, ౨।౩] న దృష్టేర్ ద్రష్టారṁ పశ్యేః న మతేర్మన్తారṁ మన్వీథాః [బృహద్।, ౫।౪।౨] ఆనన్దో బ్రహ్మ [తై।, ౩।౬] ఇదṁ సర్వṁ యద్ అయమ్ ఆత్మా [బృహద్।, ౪।౪।౬] నేహ నానాస్తి కిఞ్చన। మృత్యోః స మృత్యుమ్ ఆప్నోతి య ఇహ నానేవ పశ్యతి [బృహద్।, ౬।౪।౧౯] యత్ర హి ద్వైతమ్ ఇవ భవతి తద్ ఇతర ఇతరṁ పశ్యతి యత్ర త్వ్ అస్య సర్వమ్ ఆత్మైవాభూత్ తత్ కేన కṁ పశ్యేత్ తత్ కేన కṁ విజానీయాత్ [బృహద్।, ౪।౪।౧౪] వాచారమ్భణṁ వికారో నామధేయṁ మృత్తికేత్య్ ఏవ సత్యమ్ [ఛాన్।, ౬।౧।౪] యదా హ్య్ ఏవైష ఏతస్మిన్న్ ఉదరమ్ అన్తరṁ కురుతే అథ తస్య భయṁ భవతి [తై।, ౨।౭।౨] న స్థానతోఽపి పరస్యోభయ-లిఙ్గṁ సర్వత్ర హి [బ్ర। సూ। ౩।౨।౧౧] మాయా-మాత్రṁ తు కార్త్స్న్యేన అనభివ్యక్త-స్వరూపత్వాత్ [బ్ర। సూ। ౩।౨।౩],
Link copied[నిర్విశేషవస్తుని పరాశరసమ్మతిః]
Link copiedప్రత్యస్తమిత-భేదṁ యత్ సత్తా-మాత్రమ్ అగోచరమ్। వచసామ్ ఆత్మ-సṁవేద్యṁ తజ్ జ్ఞానṁ బ్రహ్మ సṁజ్ఞితమ్॥ [వి। పు।, ౬।౭।౪౩] జ్ఞాన-స్వరూపమ్ అత్యన్త-నిర్మలṁ పరమార్థతః। తమ్ ఏవార్థ-స్వరూపేణ భ్రాన్తి-దర్శనతః స్థితమ్॥ [వి। పు।, ౧।౨।౬] పరమార్థస్ త్వమ్ ఏవైకో నాన్యోఽస్తి జగతః పతే॥ [వి। పు।, ౧।౪।౩౮] యద్ ఏతద్ దృశ్యతే మూర్తమ్ ఏతజ్ జ్ఞానాత్మనస్ తవ। భ్రాన్తి-జ్ఞానేన పశ్యన్తి జగద్-రూపమ్ అయోగినః॥ జ్ఞాన-స్వరూపమ్ అఖిలṁ జగద్-ఏతద్-అబుద్ధయః। అర్థ-స్వరూపṁ పశ్యన్తో భ్రామ్యన్తే మోహ-సమ్ప్లవే॥ యే తు జ్ఞానవిదః శుద్ధ-చేతసస్ తేఽఖిలṁ జగత్। జ్ఞానాత్మకṁ ప్రపశ్యన్తి త్వద్-రూపṁ పరమేశ్వర॥ [వి। పు।, ౧।౪।౩౯-౪౧] తస్యాత్మ-పర-దేహేషు సతోఽప్య్ ఏకమ్ అయṁ హి యత్। విజ్ఞానṁ పరమార్థో హి ద్వైతినోఽతథ్య-దర్శినః॥ [వి। పు।, ౨।౧౪।౩౧] యద్య్ అన్యోఽస్తి పరః కోఽపి మత్తః పార్థివసత్తమ। తదైషోఽహమ్ అయṁ చాన్యో వక్తుమ్ ఏవమ్ అపీష్యతే॥ [వి। పు।, ౨।౧౩।౯౦] వేణు-రన్ధ్ర-విభేదేన భేదః షడ్జాది-సṁజ్ఞితః। అభేద-వ్యాపినో వాయోస్ తథాసౌ పరమాత్మనః॥ [వి। పు।, ౨।౧౪।౩౨] సోఽహṁ స చ త్వṁ స చ సర్వమ్ ఏతద్ ఆత్మ-స్వరూపṁ త్యజ భేద-మోహమ్। ఇతీరితస్ తేన స రాజ-వర్యస్ తత్యాజ భేదṁ పరమార్థ-దృష్టిః॥ [వి। పు।, ౨।౧౬।౨౩] విభేద-జనకేఽజ్ఞానే నాశమ్ ఆత్యన్తికṁ గతే। ఆత్మనో బ్రహ్మణో భేదమ్ అసన్తṁ కః కరిష్యతి॥ [వి। పు।, ౬।౭।౯౬] అహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః। [భ। గీ।, ౧౦।౨౦] క్షేత్రజ్ఞṁ చాపి మాṁ విద్ధి సర్వ-క్షేత్రేషు భారత। [భ। గీ।, ౧౩।౩] న తద్ అస్తి వినా యత్ స్యాన్ మయా భూతṁ చరాచరమ్॥ [భ। గీ।, ౧౦।౯౩] ఇత్య్ ఆదిభిర్ వస్తు-స్వరూపోపదేశ-పరైః శాస్త్రైః నిర్విశేష-చిన్-మాత్రṁ బ్రహ్మైవ సత్యమ్ అన్యత్ సర్వṁ మిథ్యా ఇత్య్ అభిధానాత్।
Link copied[మిథ్యాత్వ-స్వరూపమ్, లక్ష్యే తద్-అన్వయశ్ చ]
Link copiedమిథ్యాత్వṁ నామ ప్రతీయమానత్వ-పూర్వక-యథావస్థిత-వస్తు-జ్ఞాన-నివర్త్యత్వమ్, యథా రజ్జ్వ్-ఆద్య్-అధిష్ఠాన-సర్పాదేః। దోష-వశాద్ ధి తత్ర తత్-కల్పనమ్। ఏవṁ చిన్-మాత్ర-వపుషి పరే బ్రహ్మణి దోష-పరికల్పితమ్ ఇదṁ దేవ-తిర్యఙ్-మనుష్య-స్థావరాది-భేదṁ సర్వṁ జగద్ యథావస్థిత-బ్రహ్మ-స్వరూపావబోధ-బాధ్యṁ మిథ్యా-రూపమ్।
Link copied[అవిద్యాయాః స్వరూపమ్, తత్ర శ్రుతయశ్ చ]
Link copiedదోషశ్ చ స్వరూప-తిరోధాన-వివిధ-విచిత్ర-విక్షేప-కరీ సద్-అసద్-అనిర్వచనీయానాద్య్-అవిద్యా। అనృతేన హి ప్రత్యూఢాః [ఛాన్।, ౮।౩।౨] తేషాṁ సత్యానాṁ సతామ్ అనృతమ్ అపిధానమ్ [ఛాన్।, ౮।౩।౧] నాసద్ ఆసీన్ నో సద్ ఆసీత్ తదానీṁ తమ ఆసీత్ తమసా గూఢమ్ అగ్రే ప్రకేతమ్ [యజుర్, ౨।౮।౯] మాయాṁ తు ప్రకృతిṁ విద్యాన్ మాయినṁ తు మహేశ్వరమ్ [శ్వే।, ౪।౧౦] ఇన్ద్రో మాయాభిః పురు-రూప ఈయతే [బృహద్।, ౪।౫।౧౯] మమ మాయా దురత్యయా [భ। గీ।, ౭।౧౪] అనాది-మాయయా సుప్తో యదా జీవః ప్రబుధ్యతే [మాణ్డ్।, ౨।౨౧] ఇత్య్ ఆదిభిః నిర్విశేష-చిన్-మాత్రṁ బ్రహ్మైవానాద్య్-అవిద్యయా సద్-అసద్-అనిర్వాచ్యయా తిరోహిత-స్వరూపṁ స్వగత-నానాత్వṁ పశ్యతీత్య్ అవగమ్యతే। యథోక్తమ్--
Link copied[బ్రహ్మాతిరిక్తస్య ఆవిద్యకత్వే పౌరాణికాని ప్రమాణాని]
Link copiedజ్ఞాన-స్వరూపో భగవాన్ యతోఽసావ్ అశేష-మూర్తిర్న తు వస్తు-భూతః। తతో హి శైలాబ్ధి-ధరాది-భేదాఞ్ జానీహి విజ్ఞాన-విజృమ్భితాని॥ యదా తు శుద్ధṁ నిజ-రూపి సర్వ-కర్మ-క్షయే జ్ఞానమ్ అపాస్త-దోషమ్। తదా హి సఙ్కల్ప-తరోః ఫలాని భవన్తి నో వస్తుషు వస్తు-భేదాః॥ [వి। పు।, ౨।౧౨।౩౯-౪౦] తస్మాన్ న విజ్ఞానమ్ ఋతేఽస్తి కిఞ్చిత్ క్వచిత్ కదాచిద్ ద్విజ వస్తు-జాతమ్। విజ్ఞానమ్ ఏకṁ నిజ-కర్మ-భేద-విభిన్న-చిత్తైర్ బహుధాభ్యుపేతమ్॥ జ్ఞానṁ విశుద్ధṁ విమలṁ విశోకమ్ అశేష-లోభాది-నిరస్త-సఙ్గమ్। ఏకṁ సద్ ఐకṁ పరమః పరేశః స వాసుదేవో న యతోఽన్యద్ అస్తి॥ [వి। పు।, ౨।౧౨।౪౩।౪౪] సద్-భావ ఏవṁ భవతో మయోక్తో జ్ఞానṁ యథా సత్యమ్ అసత్యమ్ అన్యత్। ఏతత్ తు యత్ సṁవ్యవహార-భూతṁ తత్రాపి చోక్తṁ భువనాశ్రితṁ తే॥ [వి। పు।, ౧।౧౨।౪౫]
Link copied[అవిద్యా-నివృత్తిః తద్ ధేతుశ్ చ]
Link copiedఅస్యాశ్ చావిద్యాయా నిర్విశేష-చిన్-మాత్ర-బ్రహ్మాత్మైకత్వ-విజ్ఞానేన నివృత్తిṁ వదన్తి-- న పునర్ మృత్యవే తద్ ఏకṁ పశ్యతి, న పశ్యో మృత్యుṁ పశ్యతి [బృహద్।, ౭।౨౬।౨] యదా హ్య్ ఏవైష ఏతస్మిన్న్ అదృశ్యేఽనాత్మ్యేఽనిరుక్తేఽనిలయనేఽభయṁ ప్రతిష్ఠాṁ విన్దతే। అథ సోఽభయṁ గతో భవతి [తై।, ౧।౭।౨] భిద్యతే హృదయ-గ్రన్థిశ్ ఛిద్యన్తే సర్వ-సṁశయాః। క్షీయన్తే చాస్య కర్మాణి తస్మిన్ దృష్టే పరావరే [ముణ్డ్।, ౨।౨।౮] బ్రహ్మ వేద బ్రహ్మైవ భవతి [ముణ్డ్।, ౩।౨।౯] తమ్ ఏవ విదిత్వాతిమృత్యుమ్ ఏతి నాన్యః పన్థాః [శ్వే।, ౩।౮]-- ఇత్య్ ఆద్యాః శ్రుతయః। అత్ర మృత్యు-శబ్దేనావిద్యాభిధీయతే। యథా సనత్సుజాత-వచనమ్-- ప్రమాదṁ వై మృత్యుమ్ అహṁ బ్రవీమి సదాప్రమాదమ్ అమృతత్వṁ బ్రవీమి [మహాభారత, ఉద్యో-పర్వ, ౪౧।౪] ఇతి।
Link copied[నిర్విశేష-బ్రహ్మాత్మైకత్వ-విజ్ఞానṁ ప్రమాణ-సిద్ధమ్]
Link copiedసత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౨।౧।౧] విజ్ఞానమ్ ఆనన్దṁ బ్రహ్మ [బృహద్।, ౫।౯।౨౮] ఇత్య్ ఆది శోధక-వాక్యావసేయ-నిర్విశేష-స్వరూప-బ్రహ్మాత్మైకత్వ-విజ్ఞానṁ చ-- అథ యోఽన్యాṁ దేవతామ్ ఉపాస్తే-అన్యోఽసావన్యోఽహమ్ అస్మీతి న స వేద [బృహద్।, ౩।౪।౧౦] అకృత్స్నో హ్య్ ఏషః [బృహద్।, ౩।౪।౭] ఆత్మేత్య్ ఏవోపాసీత [బృహద్।, ౩।౪।౭] తత్ త్వమ్ అసి [ఛాన్।, ౬।౮।౭] త్వṁ వా అహమ్ అస్మి భగవో దేవతే అహṁ వై త్వమ్ అసి భగవో దేవతే తద్ యోఽహṁ సోఽసౌ యోఽసౌ సోఽహమ్ అస్మి [ఐ।ఆ।, ౪।౨] ఇత్య్ ఆది వాక్య-సిద్ధమ్। వక్ష్యతి చైతద్ ఏవ-- ఆత్మేతి తూపగచ్ఛన్తి గ్రాహయన్తి చ [బ్ర। సూ। ౪।౧।౩] ఇతి। తథా చ వాక్య-కారః- ఆత్మేత్య్ ఏవ తు గృహ్ణీయాత్ సర్వస్య తన్-నిష్పత్తేః ఇతి। అనేన చ బ్రహ్మాత్మైకత్వ-విజ్ఞానేన మిథ్యా-రూపస్య సకారణస్య బన్ధస్య నివృత్తిర్ యుక్తా॥
Link copied[నివర్త్య-నివర్తక-భావః సదృష్టాన్తః]
Link copiedనను చ సకల-భేద-నివృత్తిః ప్రత్యక్ష-విరుద్ధా కథమ్ ఇవ శాస్త్ర-జన్య-విజ్ఞానేన క్రియతే కథṁ వా రజ్జుర్ ఏషా న సర్పః ఇతి జ్ఞానేన ప్రత్యక్ష-విరుద్ధా సర్ప-నివృత్తిః క్రియతే తత్ర ద్వయోః ప్రత్యక్షయోర్ విరోధః; ఇహ తు ప్రత్యక్ష-మూలస్య శాస్త్రస్య ప్రత్యక్షస్య చేతి చేత్; తుల్యయోర్ విరోధే వా కథṁ బాధ్య-బాధక-భావః పూర్వోత్తరయోర్ దుష్ట-కారణ-జన్యత్వ-తద్-అభావాభ్యామ్-- ఇతి చేత్, శాస్త్ర-ప్రత్యక్షయోర్ అపి సమానమ్ ఏతత్।
Link copiedఏతద్ ఉక్తṁ భవతి-- బాధ్య-బాధక-భావే తుల్యత్వ-సాపేక్షత్వ-నిరపేక్షత్వాది న కారణమ్; జ్వాలాభేదానుమానేన ప్రత్యక్షోపమర్దాయోగాత్। తత్ర హి జ్వాలైక్యṁ ప్రత్యక్షేణావగమ్యతే। ఏవṁ చ సతి ద్వయోః ప్రమాణయోర్ విరోధే యత్ సమ్భావ్యమానాన్యథాసిద్ధి, తద్-బాధ్యమ్; అనన్యథాసిద్ధమ్ అనవకాశమ్ ఇతరద్ బాధకమ్-- ఇతి సర్వత్ర బాధ్య-బాధక-భావ-నిర్ణయః-- ఇతి॥
Link copied[సయుక్తికమ్ శాస్త్ర-ప్రాబల్యమ్]
Link copiedతస్మాద్ అనాది-నిధనావిచ్ఛిన్న-సమ్ప్రదాయాసమ్భావ్యమాన-దోష-గన్ధానవకాశ-శాస్త్ర-జన్య-నిర్విశేష-నిత్య-శుద్ధ-ముక్త-బుద్ధ-స్వ-ప్రకాశ-చిన్-మాత్ర-బ్రహ్మాత్మ-భావావబోధేన సమ్భావ్యమాన-దోష-సావకాశ-ప్రత్యక్షాది-సిద్ధ-వివిధ-వికల్ప-రూప-బన్ధ-నివృత్తిర్ యుక్తైవ। సమ్భావ్యతే చ వివిధ-వికల్ప-భేద-ప్రపఞ్చ-గ్రాహి-ప్రత్యక్షస్యానాది-భేద-వాసనాది-రూపావిద్యాఖ్యో దోషః।
Link copied[శాస్త్రేషు మోక్ష-శాస్త్రస్య ప్రాబల్యమ్]
Link copiedనన్వ్ అనాది-నిధనావిచ్ఛిన్న-సమ్ప్రదాయతయా నిర్దోషస్యాపి శాస్త్రస్య జ్యోతిష్టోమేన స్వర్గ-కామో యజేత ఇత్య్ ఏవమ్ ఆదేర్ భేదావలమ్బినో బాధ్యత్వṁ ప్రసజ్యేత। సత్యమ్। పూర్వాపరాపచ్ఛేదే పూర్వ-శాస్త్రవన్ మోక్ష-శాస్త్రస్య నిరవకాశత్వాత్ తేన బాధ్యత ఏవ। వేదాన్త-వాక్యేష్వ్ అపి సగుణ-బ్రహ్మోపాసన-పరాణాṁ శాస్త్రణామ్ అయమ్ ఏవ న్యాయః, నిర్గుణత్వాత్ పరస్య బ్రహ్మణః।
Link copied[స్వరూప-పరేషు సగుణ-నిర్గుణ-వాక్యేషు బాధ్య-బాధక-భావ-చిన్తా]
Link copiedనను చ-- యః సర్వజ్ఞః సర్వవిత్ [ముణ్డ్।, ౨।౨।౭] పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ [శ్వే।, ౬।౮] సత్య-కామః సత్య-సఙ్కల్పః [ఛాన్।, ౮।౧।౫] ఇత్య్ ఆది బ్రహ్మ-స్వరూప-ప్రతిపాదన-పరాణాṁ శాస్త్రాణాṁ కథṁ బాధ్యత్వṁ నిర్గుణ-వాక్య-సామర్థ్యాత్ ఇతి బ్రూమః।
Link copiedఏతద్ ఉక్తṁ భవతి-- అస్థూలమ్ అనణ్వ్ అహ్రస్వమ్ అదీర్ఘమ్ [బృహద్।, ౫।౮।౮] సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౨।౧] నిర్గుణమ్ [ఆత్మోపనిషత్] నిరఞ్జనమ్ [శ్వే।, ౬।౧౯]-- ఇత్య్ ఆది వాక్యాని నిరస్త-సమస్త-విశేష-కూటస్థ-నిత్య-చైతన్యṁ బ్రహ్మ-- ఇతి ప్రతిపాదయన్తి ఇతరాణి చ సగుణమ్। ఉభయ-విధ-వాక్యానాṁ విరోధే తేనైవాపచ్ఛేద-న్యాయేన నిగుర్ణ-వాక్యానాṁ గుణాపేక్షత్వేన పరత్వాద్ బలీయస్త్వమ్ ఇతి న కిఞ్చిద్ అపహీనమ్॥
Link copied[సత్యాది-వాక్య-విచారః, సామానాధికరణ్యṁ చ]
Link copiedనను చ-- సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ ఇత్య్ అత్ర సత్య-జ్ఞానాదయో గుణాః ప్రతీయన్తే॥ నేత్య్ ఉచ్యతే, సామానాధికరణ్యేనైకార్థత్వ-ప్రతీతేః। అనేక-గుణ-విశిష్టాభిధానేఽప్య్ ఏకార్థత్వమ్ అవిరుద్ధమ్-- ఇతి చేత్, అనభిధానజ్ఞో దేవానాṁ ప్రియః। ఏకార్థత్వṁ నామ సర్వ-పదానామ్ అర్థైక్యమ్; విశిష్ట-పదార్థాభిధానే విశేషణ-భేదేన పదానామ్ అర్థ-భేదోఽవర్జనీయః; తతశ్ చైకార్థత్వṁ న సిధ్యతి। ఏవṁ తర్హి సర్వ-పదానాṁ పర్యాయతా స్యాత్, అవిశిష్టార్థ అభిధాయిత్వాత్। ఏకార్థాభిధాయిత్వేఽప్య్ అపర్యాయత్వమ్ అవహితమనాః శృణు; ఏకత్వ-తాత్పర్య-నిశ్చయాద్ ఏకస్యైవార్థస్య తత్-తత్-పదార్థ-విరోధి-ప్రత్యనీకత్వ-పరత్వేన సర్వ-పదానామ్ అర్థవత్వమ్ ఏకార్థత్వమ్ అపర్యాయతా చ॥
Link copied[సత్యాది-వాక్యార్థస్య పరిష్కృతṁ నిగమనమ్]
Link copiedఏతద్ ఉక్తṁ భవతి। లక్షణతః ప్రతిపత్తవ్యṁ బ్రహ్మ సకలేతర-పదార్థ-విరోధి-రూపమ్। తద్-విరోధి-రూపṁ సర్వమ్ అనేన పద-త్రయేణ ఫలతో వ్యుదస్యతే। తత్ర సత్య-పదṁ వికారాస్పదత్వేనాసత్యాద్ వస్తునో వ్యావృత్త-బ్రహ్మ-పరమ్। జ్ఞాన-పదṁ చాన్యాధీన-ప్రకాశ-జడ-రూపాద్ వస్తునో వ్యావృత్త-పరమ్। అనన్త-పదṁ చ దేశతః కాలతో వస్తుతశ్ చ పరిచ్ఛిన్నాత్ వ్యావృత్త-పరమ్। న చ వ్యావృత్తిర్ భావ-రూపోఽభావ-రూపో వా ధర్మః। అపి తు సకలేతర-విరోధి బ్రహ్మైవ। యథా శౌక్ల్యాదేః కార్ష్ణ్యాది-వ్యావృత్తిస్ తత్-పదార్థ-స్వరూపమ్ ఏవ, న ధర్మాన్తరమ్। ఏవమ్ ఏకస్యైవ వస్తునః సకలేతర-విరోధ్య్-ఆకారతామ్ అవగమయద్ అర్థవత్తరమ్ ఏకార్థమ్ అపర్యాయṁ చ పద-త్రయమ్॥
Link copied[బ్రహ్మణః నిర్విశేషత్వ-స్థాపనమ్, కారణ-వాక్యైకార్థ్య-వర్ణనṁ చ]
Link copiedతస్మాద్ ఏకమ్ ఏవ బ్రహ్మ స్వయఞ్జ్యోతిర్-నిర్ధూత-నిఖిల-విశేషమ్ ఇత్య్ ఉక్తṁ భవతి। ఏవṁ వాక్యార్థ-ప్రతిపాదనే సత్య్ ఏవ సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయమ్ [ఛాన్।, ౬।౨।౧]-- ఇత్య్ ఆదిభిర్ ఐకార్థ్యమ్।
Link copied[బ్రహ్మ-లక్షణ-వాక్యస్య అఖణ్డైక-రస-వస్తు-ప్రతిపాదకత్వమ్]
Link copiedయతో వా ఇమాని భూతాని జాయన్తే [తై।, ౩।౧] సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీత్ [ఛాన్।, ౬।౨।౧] ఆత్మా వా ఇదమ్ ఏక ఏవాగ్ర ఆసీత్ [ఐ।, ౧।౧।౧] ఇత్య్ ఆదిభిర్ జగత్-కారణతయోపలక్షితస్య బ్రహ్మణః స్వరూపమ్ ఇదమ్ ఉచ్యతే-- సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౨।౧] ఇతి। తత్ర సర్వ-శాఖా-ప్రత్యయ-న్యాయేన కారణ-వాక్యేషు సర్వేషు సజాతీయ-విజాతీయ-వ్యావృత్తమ్ అద్వితీయṁ బ్రహ్మావగతమ్। జగత్-కారణతయోపలక్షితస్య బ్రహ్మణోఽద్వితీయస్య ప్రతిపాదయిషితṁ స్వరూపṁ తద్-అవిరోధేన వక్తవ్యమ్। అద్వితీయత్వ-శ్రుతిర్ గుణతోఽపి సద్వితీయతాṁ న సహతే। అన్యథా నిరఞ్జనమ్ [శ్వే।, ౬।౧౯] నిర్గుణమ్ [ఆత్మోపనిషత్] ఇత్య్ ఆదిభిశ్ చ విరోధః। అతశ్ చైతల్-లక్షణ-వాక్యమ్ అఖణ్డైకరసమ్ ఏవ ప్రతిపాదయతి।
Link copied[లక్షణాయా దోషత్వాదోషత్వ-విచారః]
Link copiedనను చ సత్య-జ్ఞానాది-పదానాṁ స్వార్థ-ప్రహాణేన స్వార్థ-విరోధి-వ్యావృత్త-వస్తు-స్వరూపోపస్థాపన-పరత్వే లక్షణా స్యాత్। నైష దోషః, అభిధాన-వృత్తేర్ అపి తాత్పర్య-వృత్తేర్ బలీయస్త్వాత్। సామానాధికరణ్యస్య హ్య్ ఐక్య ఏవ తాత్పర్యమ్ ఇతి సర్వ-సమ్మతమ్।
Link copiedనను చ-- సర్వ-పదానాṁ లక్షణా న దృష్ట-చరీ। తతః కిṁ వాక్య-తాత్పర్యావిరోధే సత్య్ ఏకస్యాపి న దృష్టా। సమభివ్యాహృత-పద-సముదాయస్యైతత్-తాత్పర్యమ్ ఇతి నిశ్చితే సతి ద్వయోస్ త్రయాణాṁ సర్వేషాṁ వా తద్-అవిరోధాయ ఏకస్యేవ లక్షణా న దోషాయ। తథా చ శాస్త్ర-స్థైర్ అభ్యుపగమ్యతే॥
Link copied[సర్వ-పద-లక్షణాయా అప్య్ అదోషత్వ-వర్ణనṁ ప్రాభాకరైః]
Link copiedకార్య-వాక్యార్థవాదిభిః లౌకిక-వాక్యేషు సర్వేషాṁ పదానాṁ లక్షణా సమాశ్రీయతే। అపూర్వ-కార్య ఏవ లిఙ్-ఆదేర్ ముఖ్యవృత్తత్వాత్ లిఙ్-ఆదిభిః క్రియా-కార్యṁ లక్షణయా ప్రతిపాద్యతే। కార్యాన్విత-స్వార్థాభిధాయినాṁ చేతరేషాṁ పదానామ్ అపూర్వ-కార్యాన్విత ఏవ ముఖ్యార్థ ఇతి క్రియా-కార్యాన్విత-ప్రతిపాదనṁ లాక్షణికమ్ ఏవ। అతో వాక్య-తాత్పర్యావిరోధాయ సర్వ-పదానాṁ లక్షణాపి న దోషః। అత ఇదమ్ ఏవార్థ-జాతṁ ప్రతిపాదయన్తో వేదాన్తాః ప్రమాణమ్॥
Link copied[శాస్త్ర-ప్రత్యక్షయోర్ అవిరోధః]
Link copiedప్రత్యక్షాది-విరోధే చ శాస్త్రస్య బలీయస్త్వమ్ ఉక్తమ్। సతి చ విరోధే బలీయస్త్వṁ వక్తవ్యమ్। విరోధ ఏవ న దృశ్యతే, నిర్విశేష-సన్-మాత్ర-బ్రహ్మ-గ్రాహిత్వాత్ ప్రత్యక్షస్య। నను చ-- ఘటోఽస్తి పటోఽస్తి ఇతి నానాకార-వస్తు-విషయṁ ప్రత్యక్షṁ కథమ్ ఇవ సన్-మాత్ర-గ్రాహీత్య్ ఉచ్యతే। విలక్షణ-గ్రహణాభావే సతి సర్వేషాṁ జ్ఞానానామ్ ఏక-విషయత్వేన ధారావాహిక-విజ్ఞానవద్ ఏక-వ్యవహార-హేతుతైవ స్యాత్। సత్యమ్। తథైవాత్ర వివిచ్యతే। కథṁ
Link copied[ప్రత్యక్షస్య సన్-మాత్ర-గ్రాహిత్వ-సమర్థనమ్]
Link copiedఘటోఽస్తీత్య్ అత్రాస్తిత్వṁ తద్-భేదశ్ చ వ్యవహ్రియతే। న చ ద్వయోర్ అపి వ్యవహారయోః ప్రత్యక్ష-మూలత్వṁ సమ్భవతి, తయోర్ భిన్న-కాల-జ్ఞాన-ఫలత్వాత్, ప్రత్యక్ష-జ్ఞానస్య చైక-క్షణ-వర్తిత్వాత్। తత్ర స్వరూపṁ వా భేదో వా ప్రత్యక్షస్య విషయ ఇతి వివేచనీయమ్। భేద-గ్రహణస్య స్వరూప-గ్రహణ-తత్-ప్రతియోగి-స్మరణ-సవ్యపేక్షత్వాద్ ఏవ స్వరూప-విషయత్వమ్ అవశ్యాశ్రయణీయమ్ ఇతి న భేదః ప్రత్యక్షేణ గృహ్యతే। అతో భ్రాన్తి-మూల ఏవ భేద-వ్యవహారః॥
Link copied[భేదస్య దుర్నిరూపత్వమ్]
Link copiedకిṁ చ భేదో నామ కశ్చిత్ పదార్థో న్యాయ-విద్భిర్ నిరూపయితుṁ న శక్యతే। భేదస్ తావన్ న వస్తు-స్వరూపమ్, వస్తు-స్వరూపే గృహీతే స్వరూప-వ్యహారవత్ సర్వస్మాద్ భేద-వ్యవహార-ప్రసక్తేః। న చ వాచ్యṁ-- స్వరూపే గృహీతేఽపి భిన్న ఇతి వ్యవహారస్య ప్రతియోగి-స్మరణ-సవ్యపేక్షత్వాత్, తత్-స్మరణాభావేన తదానీమ్ ఏవ న భేద-వ్యవహారః-- ఇతి। స్వరూప-మాత్ర-భేద-వాదినో హి ప్రతియోగ్య్-అపేక్షా చ నోత్ప్రేక్షితుṁ క్షమా, స్వరూప-భేదయోః స్వరూపత్వావిశేషాత్। యథా స్వరూప-వ్యవహారో న ప్రతియోగ్య్-అపేక్షః, భేద-వ్యవహారోఽపి తథైవ స్యాత్। హస్తః కరః ఇతివత్ ఘటో భిన్న ఇతి పర్యాయత్వṁ చ స్యాత్। నాపి ధర్మః। ధర్మత్వే సతి తస్య స్వరూపాద్భేదోఽవశ్యాశ్రయణీయః, అన్యథా స్వరూపమ్ ఏవ స్యాత్। భేదే చ తస్యాపి భేదస్ తద్-ధర్మస్ తస్యాపీత్య్ అనవస్థా। కిṁ చ జాత్య్-ఆది-విశిష్ట-వస్తు-గ్రహణే సతి భేద-గ్రహణమ్, భేద-గ్రహణే సతి జాత్య్-ఆది-విశిష్ట-వస్తు-గ్రహణమ్ ఇత్య్ అన్యోన్యాశ్రయణమ్। అతో భేదస్య దుర్నిరూపత్వాత్ సన్-మాత్రస్యైవ ప్రకాశకṁ ప్రత్యక్షమ్॥
Link copied[అనువర్తమానṁ సన్-మాత్రṁ పరమార్థః]
Link copiedకిṁ చ ఘటోఽస్తి పటోఽస్తి ఘటోఽనుభూయతే పటోఽనుభూయతే ఇతి సర్వే పదార్థాః సత్తానుభూతి-ఘటితా ఏవ దృశ్యన్తే। అత్ర సర్వాసు ప్రతిపత్తిషు సన్-మాత్రమ్ అనువర్తమానṁ దృశ్యత ఇతి తద్ ఏవ పరమార్థః।
Link copied[ఆశ్రమ-కర్మావినాభావితా]
Link copiedవిశేషాస్ తు వ్యావర్తమానతయా అపరమార్థాః, రజ్జు-సర్పాదివత్। యథా రజ్జుర్ అధిష్ఠానతయానువర్తమానా పరమార్థా సతీ; వ్యావర్తమానాః సర్ప-భూ-దలనామ్బు-ధారాదయోఽపరమార్థాః।
Link copied[అబాధితత్వ-బాధితత్వయోః ప్రయోజకోపాధితా]
Link copiedనను చ రజ్జు-సర్పాదౌ రజ్జుర్ ఇయṁ న సర్పః ఇత్య్ ఆది రజ్జ్వ్-ఆద్య్-అధిష్ఠాన-యాథార్థ్య-జ్ఞానేన బాధితత్వాత్ సర్పాదేర్ అపారమార్థ్యమ్, న వ్యావర్తమానత్వాత్। రజ్జ్వ్-ఆదేర్ అపి పారమార్థ్యṁ నానువర్తమానతయా, కిన్త్వ్ అబాధితత్వాత్। అత్ర తు ఘటాదీనామ్ అబాధితానాṁ కథమ్ అపారమార్థ్యమ్ ఉచ్యతే, ఘటాదౌ దృష్టా వ్యావృత్తిః సా కిṁరూపేతి వివేచనీయమ్। కిṁ ఘటోఽస్తీత్య్ అత్ర పటాద్య్-అభావః సిద్ధṁ తర్హి ఘటోఽస్తీత్య్ అనేన పటాదీనాṁ బాధితత్వమ్। అతో బాధ-ఫల-భూతా విషయ-నివృత్తిర్ వ్యావృత్తిః। సా వ్యావర్తమానానామ్ అపారమార్థ్యṁ సాధయతి। రజ్జువత్ సన్-మాత్రమ్ అబాధితమ్ అనువర్తతే। తస్మాత్ సన్-మాత్రాతిరేకి సర్వమ్ అపరమార్థః। ప్రయోగశ్ చ భవతి-- సత్-పరమార్థః, అనువర్తమానత్వాత్, రజ్జు-సర్పాదౌ రజ్జ్-వాదివత్। ఘటాదయోఽపరమార్థాః, వ్యావర్తమానత్వాత్, రజ్జ్వ్-ఆద్య్-అధిష్ఠాన-సర్పాదివద్ ఇతి।
Link copied[సద్-అనుభూత్యోర్ ఐక్యమ్, అనుభూతేః స్వతః సిద్ధతా చ]
Link copiedఏవṁ సత్య్ అనువర్తమానానుభూతిర్ ఏవ పరమార్థః, సైవ సతీ॥
Link copiedనను చ సన్-మాత్రమ్ అనుభూతేర్ విషయతయా తతో భిన్నమ్। నైవమ్, భేదో హి ప్రత్యక్షావిషయత్వాద్ దుర్నిరూపత్వాచ్ చ పురస్తాద్ ఏవ నిరస్తః। అత ఏవ సతోఽనుభూతి-విషయ-భావోఽపి న ప్రమాణ-పదవీమ్ అనుసరతి। తస్మాత్ సద్ అనుభూతిర్ ఏవ।
Link copiedసా చ స్వతః సిద్ధా, అనుభూతిత్వాత్। అన్యతః సిద్ధౌ ఘటాదివద్ అననుభూతిత్వ-ప్రసఙ్గః।
Link copied[అనుభూతేర్ అనుభూత్య్-అన్తరానపేక్షా]
Link copiedకిṁ చ, అనుభవాపేక్షా చానుభూతేర్ న శక్యా కల్పయితుṁ, సత్తయైవ ప్రకాశమానత్వాత్। న హ్య్ అనుభూతిర్ వర్తమానా ఘటాదివద్ అప్రకాశా దృశ్యతే, యేన పరాయత్త-ప్రకాశాభ్యుపగమ్యేత॥
Link copied[అనుభూతేర్ జ్ఞాతతానుమేయత్వవాదః]
Link copiedఅథైవṁ మనుషే-- ఉత్పన్నాయామ్ అప్య్ అనుభూతౌ విషయ-మాత్రమ్ అవభాసతే ఘటోఽనుభూయతే ఇతి। న హి కశ్చిద్ ఘటోఽయమ్ ఇతి జానన్ తదానీమ్ ఏవావిషయభూతామ్ అనిదమ్-భావామ్ అనుభూతిమ్ అప్య్ అనుభవతి। తస్మాద్ ఘటాది-ప్రకాశ-నిష్పత్తౌ చక్షుర్-ఆది-కరణ-సన్నికర్షవద్ అనుభూతేః సద్-భావ ఏవ హేతుః। తద్-అనన్తరమ్ అర్థ-గత-కాదాచిత్క-ప్రకాశాతిశయ-లిఙ్గేనానుభూతిర్ అనుమీయతే।
Link copied[అనుభూతేర్ జడత్వ-శఙ్కాపరిహారౌ]
Link copiedఏవṁ తర్హ్య్ అనుభూతేర్ అజడాయా అర్థవజ్ జడత్వమ్ ఆపద్యత ఇతి చేత్, కిమ్ ఇదమ్ అజడత్వṁ నామ న తావత్ స్వ-సత్తాయాః ప్రకాశావ్యభిచారః, సుఖాదిష్వ్ అపి తత్-సమ్భవాత్। న హి కదాచిద్ అపి సుఖాదయః సన్తో నోపలభ్యన్తే। అతోఽనుభూతిః స్వయమ్ ఏవ నానుభూయతే, అర్థాన్తరṁ స్పృశతోఽఙ్గుల్య్-అగ్రస్య స్వాత్మ-స్పర్శవద్ అశక్యత్వాద్ ఇతి॥
Link copied[అనుభూతేర్ జ్ఞాతతానుమేయత్వ-నిరాసః]
Link copiedతద్ ఇదమ్ అనాకిలతానుభవ-విభవస్య స్వ-మతి-విజృమ్భితమ్, అనుభూతి-వ్యతిరేకిణో విషయ-ధర్మస్య ప్రకాశస్య రూపాదివద్ అనుపలబ్ధేః; ఉభయాభ్యుపేతానుభూత్యైవాశేష-వ్యవహారోపపత్తౌ ప్రకాశాఖ్య-ధర్మ-కల్పనానుపపత్తేశ్ చ। అతో నానుభూతిర్ అనుమీయతే। నాపి జ్ఞానాన్తర-సిద్ధా। అపి తు సర్వṁ సాధయన్త్య్ అనుభూతిః స్వయమ్ ఏవ సిద్ధ్యతి। ప్రయోగశ్ చ-- అనుభూతిర్ అనన్యాధీన-స్వ-ధర్మ-వ్యవహారా స్వ-సమ్బన్ధాద్ అర్థాన్తరే తద్-ధర్మ-వ్యవహార-హేతుత్వాత్; యః స్వ-సమ్బన్ధాద్ అర్థాన్తరే యద్-ధర్మ-వ్యవహార-హేతుః స తయోః స్వస్మిన్న్ అనన్యాధీనో దృష్టః; యథా రూపాదిశ్ చాక్షుషత్వాదౌ। రూపాదిర్ హి పృథివ్యాదౌ స్వ-సమ్బన్ధాచ్ చాక్షుషత్వాది జనయన్ స్వస్మిన్ న రూపాది-సమ్బన్ధాధీనశ్ చాక్షుషత్వాదౌ। అతోఽనుభూతిర్ ఆత్మనః ప్రకాశమానత్వే ప్రకాశత ఇతి వ్యవహారే చ స్వయమ్ ఏవ హేతుః॥
Link copied[అనుభూతేర్ నిత్యతా, తత్-ప్రాగ్-అభావాసిద్ధిశ్ చ]
Link copiedసేయṁ స్వయమ్ప్రకాశానుభూతిర్ నిత్యా చ, ప్రాగ్-అభావాద్య్-అభావాత్। తద్-అభావశ్ చ స్వతః సిద్ధత్వాద్ ఏవ। న హ్య్ అనుభూతేః స్వతః సిద్ధాయాః ప్రాగ్-అభావః స్వతోఽన్యతో వావగన్తుṁ శక్యతే। అనుభూతిః స్వాభావమ్ అవగమయన్తీ, సతీ తావన్ నావగమయతి। తస్యాః సత్త్వే విరోధాద్ ఏవ తద్-అభావో నాస్తీతి కథṁ సా స్వాభావమ్ అవగమయతి ఏవమ్ అసత్య్ అపి నావగమయతి; అనుభూతిః స్వయమ్ అసతీ స్వాభావే కథṁ ప్రమాణṁ భవేత్, నాప్యన్యతోఽవగన్తుṁ శక్యతే, అనుభూతేర్ అనన్య-గోచరత్వాత్। అస్యాః ప్రాగ్-అభావṁ సాధయత్ ప్రమాణమ్ అనుభూతిర్ ఇయమ్ ఇతి విషయీకృత్య తద్-అభావṁ సాధయేత్; స్వతః సిద్ధత్వేన ఇయమ్ ఇతి విషయీకారానర్హాత్వాత్, న తత్-ప్రాగ్-అభావోఽన్యతః శక్యావగమః।
Link copied[అనుభూతౌ భావ-వికారాణామ్ అసమ్బన్ధః]
Link copiedఅతోఽస్యాః ప్రాగ్-అభావాభావాద్ ఉత్పత్తిర్ న శక్యతే వక్తుమ్ ఇత్య్ ఉత్పత్తి-ప్రతిసమ్బద్ధాశ్ చాన్యేఽపి భావ-వికారాస్ తస్యా న సన్తి॥
Link copied[అనుభూతిర్ న నానా]
Link copiedఅనుత్పన్నేయమ్ అనుభూతిర్ ఆత్మని నానాత్వమ్ అపి న సహతే, వ్యాపక-విరుద్ధోపలబ్ధేః॥ న హ్య్ అనుత్పన్నṁ నానా-భూతṁ దృష్టమ్। భేదాదీనామ్ అనుభావ్యత్వేన చ రూపాదేర్ ఇవానుభూతి-ధర్మత్వṁ న సమ్భవతి। అతోఽనుభూతేర్ అనుభవ-స్వరూపత్వాద్ ఏవాన్యోఽపి కశ్చిద్ అనుభావ్యో నాస్యా ధర్మః॥
Link copied[సṁవిద్ ఏవాత్మా]
Link copiedయతో నిర్ధూత-నిఖిల-భేదా సṁవిత్, అత ఏవ నాస్యాః స్వరూపాతిరిక్త ఆశ్రయో జ్ఞాతా నామ కశ్చిద్ అస్తీతి స్వ-ప్రకాశ-రూపా సైవాత్మా, అజడత్వాచ్ చ। అనాత్మత్వ-వ్యాప్తṁ జడత్వṁ సṁవిది వ్యావర్తమానమ్ అనాత్మత్వమ్ అపి హి సṁవిదో వ్యావర్తయతి।
Link copied[జ్ఞాతృత్వṁ నాత్మార్థః]
Link copiedనను చ-- అహṁ జానామీతి జ్ఞాతృతా ప్రతీతి-సిద్ధా। నైవమ్, సా భ్రాన్తి-సిద్ధా, రజతతేవ శుక్తి-శకలస్య, అనుభూతేః స్వాత్మని కర్తృత్వాయోగాత్। అతో మనుష్యోఽహమ్ ఇత్య్ అత్యన్త-బహిర్-భూత-మనుష్యత్వాది-విశష్ట-పిణ్డాత్మాభిమానవజ్ జ్ఞాతృత్వమ్ అప్య్ అధ్యస్తమ్। జ్ఞాతృత్వṁ హి జ్ఞాన-క్రియా-కర్తృత్వమ్। తచ్ చ విక్రియాత్మకṁ జడṁ వికారి-ద్రవ్యాహఙ్కార-గ్రన్థిస్థమ్ అవిక్రియే సాక్షిణి చిన్-మాత్రాత్మని కథమ్ ఇవ సమ్భవతి। దృశ్య్-అధీన-సిద్ధిత్వాద్ ఏవ రూపాదేర్ ఇవ కర్తృత్వాదేర్ నాత్మ-ధర్మత్వమ్।
Link copied[ఆత్మనోఽహమ్-ప్రత్యయాగోచరతా]
Link copiedసుషుప్తి-మూర్చ్ఛాదావ్ అహమ్-ప్రత్యయాపాయేఽప్య్ ఆత్మానుభవ-దర్శనేన నాత్మనోఽహమ్-ప్రత్యయ-గోచరత్వమ్। కర్తృత్వేఽహమ్-ప్రత్యయ-గోచరత్వే చాత్మనోఽభ్యుపగమ్యమానే దేహస్యేవ జడత్వ-పరాక్త్వానాత్మత్వాది-ప్రసఙ్గో దుష్పరిహరః। అహమ్-ప్రత్యయ-గోచరాత్ కర్తృతయా ప్రసిద్ధాద్ దేహాత్ తత్-క్రియా-ఫల-స్వర్గాదేర్ భోక్తుర్ ఆత్మనోఽన్యత్వṁ ప్రామాణికానాṁ ప్రసిద్ధమ్ ఏవ। తథాహమ్-అర్థాత్ జ్ఞాతుర్ అపి విలక్షణః సాక్షీ ప్రత్యాగ్-ఆత్మేతి ప్రతిపత్తవ్యమ్।
Link copied[అనుభూతిర్ అహఙ్కారాభివ్యఙ్గ్యా]
Link copiedఏవమ్ అవిక్రియానుభవ-స్వరూపస్యైవాభివ్యఞ్జకో జడోఽప్య్ అహఙ్కారః స్వాశ్రయతయా తమ్ అభివ్యనక్తి। ఆత్మ-స్థతయాభివ్యఙ్గ్యాభివ్యఞ్జనమ్ అభివ్యఞ్జకానాṁ స్వభావః। దర్పణ-జల-ఖణ్డాదిర్ హి ముఖ-చన్ద్ర-బిమ్బ-గోత్వాది-కమాత్మ-స్థతయాభివ్యనక్తి। తత్-కృతోఽయṁ జానామ్య్ అహమ్ ఇతి భ్రమః।
Link copied[అభివ్యఙ్గ్యేనాపి స్వాభివ్యఙ్గయస్య అభివ్యఞ్జనమ్]
Link copiedస్వ-ప్రకాశాయాః అనుభూతేః కథమ్ ఇవ తద్-అభివ్యఙ్గ్య-జడ-రూపాహఙ్కారేణాభివ్యఙ్గ్యత్వమ్ ఇతి మా వోచః, రవి-కరనికరాభివ్యఙ్గ్య-కర-తలస్య తద్-అభివ్యఞ్జకత్వ-దర్శనాత్; జాల-కరన్ధర-నిష్క్రాన్త-ద్యుమణి-కిరణానాṁ తద్-అభివ్యఙ్గ్యేనాపి కర-తలేన స్ఫుటతర-ప్రకాశో హి దృష్ట-చరః॥
Link copied[ఆత్మనోఽనుభవ-మాత్రతా, నానుభావ్యతా]
Link copiedయతోఽహṁ జానామీతి జ్ఞాతాయమ్ అహమ్-అర్థః చిన్-మాత్రాత్మనో న పారమార్థికో ధర్మః, అత ఏవ సుషుప్తి-ముక్త్యోర్ నాన్వేతి। తత్ర హ్య్ అహమ్-అర్థోల్లేఖ-విగమేన స్వాభావికానుభవ-మాత్ర-రూపేణాత్మావభాసతే। అత ఏవ సుప్తోత్థితః కదాచిన్ మామ్ అప్య్ అహṁ న జ్ఞాతవాన్ ఇతి పరామృశతి। తస్మాత్ పరమార్థతో నిరస్త-సమస్త-భేద-వికల్ప-నిర్విశేష-చిన్-మాత్రైకరస-కూటస్థ-నిత్య-సṁవిద్ ఏవ భ్రాన్త్యా జ్ఞాతృ-జ్ఞేయ-జ్ఞాన-రూప-వివిధ-విచిత్ర-భేదా వివర్తత ఇతి తన్-మూల-భూతావిద్యానిబర్హాణాయ నిత్య-శుద్ధ-బుద్ధ-ముక్త-స్వ-భావ-బ్రహ్మాత్మైకత్వ-విద్యా-ప్రతిపత్తయే సర్వే వేదాన్తా ఆరభ్యన్తే ఇతి॥
Link copied[ఇతి మహా-పూర్వ-పక్షః]
Link copied[మహా-సిద్ధాన్తః]
Link copied[పరోక్తానామ్ ఉపాయోపేయ-నివర్త్యానాṁ ప్రమాణ-తర్కాభాస-మూలత్వమ్ అనాదరణీయతా చ]
Link copiedతద్ ఇదమ్ ఔపనిషద్ అపరమ్ అపురుష-వరణీయతా-హేతు-గుణ-విశేష-విరహిణామ్ అనాది పాప-వాసనా-దూషితాశేష-శేముషీ-కాణామ్ అనధిగత-పద-వాక్య-స్వరూప-తద్-అర్థ-యాథాత్మ్య-ప్రత్యక్షాది-సకల-ప్రమాణ-వృత్త-తద్-ఇతికర్తవ్యతా-రూప-సమీచీన-న్యాయ-మార్గాణాṁ వికల్పాసహ-వివిధ-కుతర్క-కల్క-కల్పితమ్ ఇతి న్యాయానుగృహీత-ప్రత్యక్షాది-సకల-ప్రమాణ-వృత్త-యాథాత్మ్యవిద్భిర్ అనాదరణీయమ్॥
Link copied[నిర్విశేషస్య వస్తునః ప్రమాణతోఽసిద్ధిః]
Link copiedతథా హి నిర్విశేష-వస్తు-వాదిభిర్ నిర్విశేషే వస్తునీదṁ ప్రమాణమ్ ఇతి న శక్యతే వక్తుమ్, సవిశేష-వస్తు-విషయత్వాత్ సర్వ-ప్రమాణానామ్। యస్ తు స్వానుభవ-సిద్ధమ్ ఇతి స్వ-గోష్ఠీ-నిష్ఠః సమయః, సోఽప్య్ ఆత్మ-సాక్షిక-సవిశేషానుభవాద్ ఏవ నిరస్తః। ఇదమ్ అహమ్ అదర్శమ్ ఇతి కేనచిద్ విశేషేణ విశిష్ట-విషయత్వాత్ సర్వేషామ్ అనుభవానామ్॥
Link copied[నిర్విశేషత్వ-వ్యవస్థాపకత్వాభిమత-యుక్తైర్ ఆభాసతా]
Link copiedసవిశేషోఽప్య్ అనుభూయమానోఽనుభవః కేనచిద్ యుక్త్యాభాసేన నిర్విశేష ఇతి నిష్కృష్యమాణః సత్తాతిరేకిభిః స్వాసాధారణైః స్వభావ-విశేషైర్ నిష్క్రష్టవ్య ఇతి నిష్కర్ష-హేతు-భూతైః సత్తాతిరేకిభిః స్వాసాధారణైః స్వభావ-విశేషైః సవిశేష ఏవావతిష్ఠతే। అతః కైశ్చిద్ విశేషైర్ విశష్టస్యైవ వస్తునోఽన్యే విశేషా నిరస్యన్త ఇతి, న క్వచిన్ నిర్విశేష-వస్తు-సిద్ధిః।
Link copied[నిర్విశేషత్వానుమానస్య బాధిత్వమ్]
Link copiedధియో హి ధీత్వṁ స్వ-ప్రకాశతా చ జ్ఞాతుర్ విషయ-ప్రకాశన-స్వభావతయోపలబ్ధేః। స్వాపమద-మూర్చ్ఛాసు చ సవిశేష ఏవానుభవ ఇతి స్వావసరే నిపుణతరమ్ ఉపపాదయిష్యామః।
Link copiedస్వాభ్యుపగతాశ్ చ నిత్యత్వాదయో హ్య్ అనేకే విశేషాః సన్త్య్ ఏవ। తే చ న వస్తు-మాత్రమ్ ఇతి శక్యోపపాదనాః, వస్తు-మాత్రాభ్యుపగమే సత్య్ అపి విధాభేద-వివాద-దర్శనాత్ స్వాభిమత-తద్-విధాభేదైశ్ చ స్వ-మతోపపాదనాత్। అతః ప్రామాణిక-విశేషైర్ విశిష్టమ్ ఏవ వస్త్వ్ ఇతి వక్తవ్యమ్॥
Link copied[నిర్విశేషత్వṁ వస్తుని న శబ్ద-గమ్యమ్]
Link copiedశబ్దస్య తు విశేషేణ సవిశేష ఏవ వస్తున్య్ అభిధాన-సామర్థ్యమ్, పద-వాక్య-రూపేణ ప్రవృత్తేః। ప్రకృతి-ప్రత్యయ-యోగేన హి పదత్వమ్। ప్రకృతి-ప్రత్యయోర్ అర్థ-భేదేన పదస్యైవ విశిష్టార్థ-ప్రతిపాదనమ్ అవర్జనీయమ్। పద-భేదశ్ చార్థ-భేద-నిబన్ధనః। పద-సఙ్ఘాత-రూపస్య వాక్యస్యానేక-పదార్థ-సṁసర్గ-విశేషాభిధాయిత్వేన నిర్విశేష-వస్తు-ప్రతిపాదనాసామర్థ్యాత్, న నిర్విశేష-వస్తుని శబ్దః ప్రమాణమ్।
Link copied[నిర్విశేషత్వṁ న ప్రత్యక్షగమ్యమ్]
Link copiedప్రత్యక్షస్య నిర్వికల్పక-సవికల్పక-భేద-భిన్నస్య న నిర్విశేష-వస్తుని ప్రమాణ-భావః। సవికల్పకṁ జాత్య్-ఆద్య్-అనేక-పదార్థ-విశిష్ట-విషయత్వాద్ ఏవ సవిశేష-విషయమ్। నిర్వికల్పకమ్ అపి సవిశేష-విషయమ్ ఏవ, సవికల్పకే స్వస్మిన్న్ అనుభూత-పదార్థ-విశిష్ట-ప్రతిసన్ధాన-హేతుత్వాత్।
Link copied[నిర్వికల్పక-సవికల్పకయోర్ నిష్కృష్టṁ స్వరూపమ్]
Link copiedనిర్వికల్పకṁ నామ కేనచిద్ విశేషేణ వియుక్తస్య గ్రహణమ్, న సర్వ-విశేష-రహితస్య, తథాభూతస్య కదాచిద్ అపి గ్రహణాదర్శనాద్ అనుపపత్తేశ్ చ।
Link copiedకేనచిద్ విశేషేణ ఇదమ్ ఇత్థమ్ ఇతి హి సర్వా ప్రతీతిర్ ఉపజాయతే, త్రికోణ-సాస్నాది-సṁస్థాన-విశేషేణ వినా కస్యచిద్ అపి పదార్థస్య గ్రహణాయోగాత్। అతో నిర్వికల్పకమ్ ఏకజాతీయ-ద్రవ్యేషు ప్రథమ-పిణ్డ-గ్రహణమ్। ద్వితీయాది-పిణ్డ-గ్రహణṁ సవికల్పకమ్ ఇత్య్ ఉచ్యతే॥
Link copied[ఉక్త-వివిక్తాకారస్య సమర్థనమ్]
Link copiedతత్ర ప్రథమ-పిణ్డ-గ్రహణే గోత్వాదేర్ అనువృత్తాకారతా న ప్రతీయతే। ద్వితీయాది-పిణ్డ-గ్రహణేషు ఏవానువృత్తి-ప్రతీతిః। ప్రథమ-ప్రతీత్య్-అనుసṁహిత-వస్తు-సṁస్థాన-రూప-గోత్వాదేర్ అనువృత్తి-ధర్మ-విశిష్టత్వṁ ద్వితీయాది-పిణ్డ-గ్రహణావసేయమ్ ఇతి, ద్వితీయాది-గ్రహణస్య సవికల్పకత్వమ్। సాస్నాది-వస్తు-సṁస్థాన-రూప-గోత్వాదేర్ అనువృత్తిర్ న ప్రథమ-పిణ్డ-గ్రహణే గృహ్యత ఇతి, ప్రథమ-పిణ్డ-గ్రహణస్య నిర్వికల్పకత్వమ్, న పునః సṁస్థాన-రూప-జాత్య్-ఆదేర్ అగ్రహణాత్। సṁస్థాన-రూప-జాత్య్-ఆదేర్ అప్య్ ఐన్ద్రియికత్వావిశేషాత్, సṁస్థానేన వినా సṁస్థానినః ప్రతీత్య్-అనుపపత్తేశ్ చ ప్రథమ-పిణ్డ-గ్రహణేఽపి ససṁస్థానమ్ ఏవ వస్త్వ్ ఇత్థమ్ ఇతి గృహ్యతే।
Link copiedఅతో ద్వితీయాది-పిణ్డ-గ్రహణేషు గోత్వాదేర్ అనువృత్తి-ధర్మ-విశిష్టతా సṁస్థానివత్ సṁస్థానవచ్ చ సర్వదైవ గృహ్యత ఇతి తేషు సవికల్పకత్వమ్ ఏవ। అతః ప్రత్యక్షస్య కదాచిద్ అపి న నిర్విశేష-విషయత్వమ్॥
Link copied[భేదాభేద-వాది-నిరాసః]
Link copiedఅత ఏవ సర్వత్ర భిన్నాభిన్నత్వమ్ అపి నిరస్తమ్। ఇదమ్ ఇత్థమ్ ఇతి ప్రతీతావ్ ఇదమ్ ఇత్థమ్భావయోర్ ఐక్యṁ కథమ్ ఇవ ప్రత్యేతుṁ శక్యతే। తత్రేత్థమ్భావః సాస్నాది-సṁస్థాన-విశేషః, తద్-విశేష్యṁ ద్రవ్యమ్ ఇదమ్ అṁశ ఇత్య్ అనయోర్ ఐక్యṁ ప్రతీతి-పరాహతమ్ ఏవ। తథాహి-- ప్రథమమ్ ఏవ వస్తు ప్రతీయమానṁ సకలేతర-వ్యావృత్తమ్ ఏవ ప్రతీయతే। వ్యావృత్తిశ్ చ గోత్వాది-సṁస్థాన-విశేష-విశిష్టతయేత్థమ్ ఇతి ప్రతీతేః। సర్వత్ర విశేషణ-విశేష్య-భావ-ప్రతిపత్తౌ తయోర్ అత్యన్త-భేదః ప్రతీత్యైవ సువ్యక్తః। తత్ర దణ్డ-కుణ్డలాదయః పృథక్-సṁస్థాన-సṁస్థితాః స్వనిష్ఠాశ్ చ కదాచిత్ క్వచిద్ ద్రవ్యాన్తర-విశేషణతయావతిష్ఠన్తే। గోత్వాదయస్ తు ద్రవ్య-సṁస్థానతయైవ పదార్థ-భూతాః సన్తో ద్రవ్య-విశేషణతయా అవస్థితాః। ఉభయత్ర విశేషణ-విశేష్య-భావః సమానః। తత ఏవ తయోర్ భేద-ప్రతిపత్తిశ్ చ। ఇయాṁస్ తు విశేషః పృథక్ స్థితి-ప్రతిపత్తి-యోగ్యా దణ్డాదయః, గోత్వాదయస్ తు నియమేన తద్-అనర్హా ఇతి। అతో వస్తు-విరోధః ప్రతీతి-పరాహత ఇతి ప్రతీతి-ప్రకార-నిహ్నవాద్ ఏవోచ్యతే। ప్రతీతి-ప్రకారో హి ఇదమ్ ఇత్థమిత్య్ ఏవ సర్వ-సమ్మతః। తద్ ఏతత్ సూత్ర-కారేణ నైకస్మిన్న్ అసమ్భవాత్ [బ్ర। సూ। ౨।౨।౩౧] ఇతి సువ్యక్తమ్ ఉపపాదితమ్॥
Link copied[నిర్విశేషస్య ప్రమాణావిషయత్వ-నిగమనమ్]
Link copiedఅతః ప్రత్యక్షస్య సవిశేష-విషయత్వేన ప్రత్యక్షాది-దృష్ట-సమ్బన్ధ-విశిష్ట-విషయత్వాద్ అనుమానమ్ అపి సవిశేష-విషయమ్ ఏవ। ప్రమాణ-సఙ్ఖ్యా-వివాదేఽపి సర్వాభ్యుపగత-ప్రమాణానామ్ అయమ్ ఏవ విషయ ఇతి న కేనాపి ప్రమాణేన నిర్విశేష-వస్తు-సిద్ధిః। వస్తు-గత-స్వభావ-విశేషైస్ తద్ ఏవ వస్తు నిర్విశేషమ్ ఇతి వదన్ జననీ-బన్ధ్యాత్వ-ప్రతిజ్ఞాయామ్ ఇవ స్వ-వాగ్-విరోధమ్ అపి న జానాతి।
Link copied[ప్రత్యక్షస్య సన్-మాత్ర-గ్రాహితా నిర్యుక్తికీ]
Link copiedయత్ తు ప్రత్యక్షṁ సన్-మాత్ర-గ్రాహిత్వేన న భేది-విషయమ్, భేదశ్ చ వికల్పాసహత్వాద్ దుర్నిరూపః-- ఇత్య్ ఉక్తమ్, తద్ అపి జాత్య్-ఆది-విశిష్టస్యైవ వస్తునః ప్రత్యక్ష-విషయత్వాజ్ జాత్య్-ఆదేర్ ఏవ ప్రతియోగ్య్-అపేక్షయా వస్తునః స్వస్య చ భేద-వ్యవహార-హేతుత్వాచ్ చ దూరోత్సారితమ్। సṁవేదనవద్ రూపాదివచ్ చ పరత్ర వ్యవహార-విశేష-హేతోః స్వస్మిన్న్ అపి తద్-వ్యవహార-హేతుత్వṁ యుష్మాభిర్ అభ్యుపేతṁ భేదస్యాపి సమ్భవత్య్ ఏవ।
Link copiedఅత ఏవ చ నానవస్థాన్యోన్యాశ్రయణṁ చ। ఏక-క్షణ-వర్తిత్వేఽపి ప్రత్యక్ష-జ్ఞానస్య తస్మిన్న్ ఏవ క్షణే వస్తు-భేద-రూప-తత్-సṁస్థాన-రూప-గోత్వాదేర్ గృహీతత్వాత్ క్షణాన్తర-గ్రాహ్యṁ న కిఞ్చిద్ ఇహ తిష్ఠతి॥
Link copied[ప్రత్యక్షస్య సన్-మాత్ర-గ్రాహితాయాṁ ప్రతిపత్తి-వ్యవహార-శబ్ద-విరోధాః]
Link copiedఅపి చ సన్-మాత్ర-గ్రాహిత్వే ఘటోఽస్తి, పటోఽస్తి ఇతి విశిష్ట-విషయా ప్రతీతిర్ విరుధ్యతే। యది చ సన్-మాత్రాతిరేకి-వస్తు-సṁస్థాన-రూప-జాత్య్-ఆది-లక్షణో భేదః ప్రత్యక్షేణ న గృహీతః కిమ్ ఇత్య్ అశ్వార్థీ మహిష-దర్శనే నివర్తతే। సర్వాసు ప్రతిపత్తిషు సన్-మాత్రమ్ ఏవ విషయశ్ చేత్, తత్-తత్-ప్రతిపత్తి-విషయ-సహచారిణః సర్వే శబ్దా ఏకైక-ప్రతిపత్తిషు కిమ్ ఇతి న స్మర్యన్తే।
Link copied[సన్మాత్రగ్రహణే ప్రతీత్యవాన్తరజాతివిరోధః]
Link copiedకిṁ చ, అశ్వే హస్తిని చ సṁవేదనయోర్ ఏక-విషయత్వేన ఉపరితనస్య గృహీత-గ్రాహిత్వాద్ విశేషాభావాచ్ చ స్మృతి-వైలక్షణ్యṁ న స్యాత్। ప్రతిసṁవేదనṁ విశేషాభ్యుపగమే ప్రత్యక్షస్య విశిష్టార్థ-విషయత్వమ్ ఏవాభ్యుపగతṁ భవతి। సర్వేషాṁ సṁవేదనానామ్ ఏక-విషయతాయామ్ ఏకేనైవ సṁవేదనేన అశేష-గ్రహణాద్ అన్ధ-బధిరాద్య్-అభావశ్ చ ప్రసజ్యేత।
Link copied[కరణ-వ్యవస్థార్థṁ విషయ-భేదోపపాదనమ్]
Link copiedన చ చక్షుషా సన్-మాత్రṁ గృహ్యతే, తస్య రూప-రూపి-రూపైకార్థ-సమవేత-పదార్థ-గ్రాహిత్వాత్। నాపి త్వచా స్పర్శవద్ వస్తు-విషయత్వాత్। శ్రోత్రాదీన్య్ అపి న సన్-మాత్ర-విషయాణి కిన్తు శబ్ద-రస-గన్ధ-లక్షణ-విశేష-విషయాణ్య్ ఏవ। అతః సన్-మాత్రస్య గ్రాహకṁ న కిఞ్చిద్ ఇహ దృశ్యతే॥
Link copied[సన్-మాత్ర-గ్రాహిత్వే శాస్త్రానుత్థానమ్]
Link copiedనిర్విశేష-సన్-మాత్రస్య చ ప్రత్యక్షేణైవ గ్రహణే తద్-విషయాగమస్య ప్రాప్త-విషయత్వేనానువాదకత్వమ్ ఏవ స్యాత్। సన్-మాత్ర-బ్రహ్మణః ప్రమేయ-భావశ్ చ। తతో జడత్వనాశిత్వాదయస్ త్వయైవోక్తాః। అతో వస్తు-సṁస్థాన-రూప-జాత్య్-ఆది-లక్షణ-భేద-విశిష్టమ్ ఏవ ప్రత్యక్షమ్॥
Link copied[సṁస్థానమ్ ఏవ జాతిర్ భేదశ్ చ]
Link copiedసṁస్థానాతిరేకిణోఽనేకేష్వ్ ఏకాకార-బుద్ధి-బోధ్యస్యాదర్శనాత్, తావతైవ గోత్వాది-జాతి-వ్యవహారోపపత్తేః। అతిరేక-వాదేఽపి సṁస్థానస్య సమ్ప్రతిపన్నత్వాచ్ చ సṁస్థానమ్ ఏవ జాతిః। సṁస్థానṁ నామ స్వాసాధారణṁ రూపమ్ ఇతి యథావస్తు సṁస్థానమ్ అనుసన్ధేయమ్। జాతి-గ్రహణేనైవ భిన్న ఇతి వ్యవహార-సమ్భవాత్, పదార్థాన్తరాదర్శనాత్, అర్థాన్తర-వాదినాప్య్ అభ్యుపగతత్వాచ్ చ గోత్వాదిర్ ఏవ భేదః।
Link copied[భేద-వ్యవహారస్య ప్రతియోగి-సాపేక్షత్వోపపత్తిః]
Link copiedనను చ జాత్య్-ఆదిర్ ఏవ భేదశ్ చేత్ తస్మిన్ గృహీతే తద్-వ్యవహారవద్ భేద-వ్యహారోఽపి స్యాత్। సత్యమ్। భేదశ్ చ వ్యవహ్రియత ఏవ, గోత్వాది-వ్యవహారాత్। గోత్వాదిర్ ఏవ హి సకలేతర-వ్యావృత్తిః, గోత్వాదౌ గృహీతే సకలేతర-సజాతీయ-బుద్ధి-వ్యవహారయోర్ నివృత్తేః। భేద-గ్రహణేనైవ హ్య్ అభేద-నివృత్తిః। అయమ్ అస్మాద్ భిన్నః ఇతి తు వ్యవహారే ప్రతియోగి-నిర్దేశస్య తద్-అపేక్షత్వాత్ ప్రతియోగ్య్-అపేక్షయా భిన్న ఇతి వ్యవహార ఇత్య్ ఉక్తమ్।
Link copied[పారమార్థ్యాపారమార్థ్య-సాధకానుమాన-దూషణమ్]
Link copiedయత్ పునర్ ఘటాదీనాṁ విశేషాణాṁ వ్యావర్తమానత్వేనాపారమార్థ్యమ్ ఉక్తṁ తద్ అనాలోచిత-బాధ్య-బాధక-భావ-వ్యావృత్త్య్-అనువృత్తి-విశేషస్య భ్రాన్తి-పరికల్పితమ్। ద్వయోర్ జ్ఞానయోర్ విరోధే హి బాధ్య-బాధక-భావః। బాధితస్యైవ వ్యావృత్తిః। అత్ర ఘట-పటాదిషు దేశ-కాల-భేదేన విరోధ ఏవ నాస్తి। యస్మిన్ దేశే యస్మిన్ కాలే యస్య సద్-భావః ప్రతిపన్నః, తస్మిన్ దేశే తస్మిన్ కాలే తస్యాభావః ప్రతిపన్నశ్ చేత్ తత్ర విరోధాత్ బలవతో బాధకత్వṁ బాధితస్య చ నివృత్తిః। దేశాన్తర-కాలాన్తర-సమ్బన్ధితయానుభూతస్యాన్య-దేశ-కాలయోర్ అభావ-ప్రతిపత్తౌ న విరోధ ఇతి కథమ్ అత్ర బాధ్య-బాధక-భావః। అన్యత్ర నివృత్తస్యాన్యత్ర నివృత్తిర్ వా కథమ్ ఉచ్యతే। రజ్జు-సర్పాదిషు తు తద్-దేశ-కాల-సమ్బన్ధితయైవాభావప్రతీతేః, విరోధో బాధకత్వṁ వ్యావృత్తిశ్ చేతి దేశ-కాలాన్తర-దృష్టస్య దేశాన్తర-కాలాన్తర-వ్యావర్తమానత్వṁ మిథ్యాత్వ-వ్యాప్తṁ న దృష్టమ్ ఇతి న వ్యావర్తమానత్వ-మాత్రమ్ అపారమార్థ్య-హేతుః।
Link copiedయత్ త్వ్ అనువర్తమానత్వాత్ సత్-పరమార్థ ఇతి, తత్ సిద్ధమ్ ఏవేతి న సాధనమ్ అర్హతి। అతో న సన్-మాత్రమ్ ఏవ వస్తు॥
Link copied[సద్-అనుభూత్యోర్ నానాత్వమ్]
Link copiedఅనుభూతి-సద్-విశేషయోశ్ చ విషయ-విషయి-భావేన భేదస్య ప్రత్యక్ష-సిద్ధత్వాద్ అబాధితత్వాచ్ చ అనుభూతిర్ ఏవ సతీత్య్ ఏతద్ అపి నిరస్తమ్॥
Link copied[అనుభూతేః స్వయమ్ప్రకాశత్వ-పరిమితిః]
Link copiedయత్ త్వ్ అనుభూతేః స్వయమ్ప్రకాశత్వమ్ ఉక్తమ్, తద్-విషయ-ప్రకాశన-వేలాయాṁ జ్ఞాతు రాత్మనస్ తథైవ। న తు సర్వేషాṁ సర్వదా తథైవేతి నియమోఽస్తి, పరానుభవస్య హానోపాదానాది-లిఙ్గకానుమాన-జ్ఞాన-విషయత్వాత్, స్వానుభవస్యాప్య్ అతీతస్య అజ్ఞాసిషమ్ ఇతి జ్ఞాన-విషయత్వ-దర్శనాచ్ చ। అతోఽనుభూతిశ్ చేత్ స్వతః సిద్ధేతి వక్తుṁ న శక్యతే॥
Link copied[అనుభూతిత్వానుభావ్యత్వయోర్ అవిరోధః]
Link copiedఅనుభూతేర్ అనుభావ్యత్వే, అననుభూతిత్వమ్ ఇత్య్ అపి దురుక్తమ్, స్వగతాతీతానుభవానాṁ పరగతానుభవానాṁ చానుభావ్యత్వేనాననుభూతిత్వ-ప్రసఙ్గాత్। పరానుభవానుమానానభ్యుపగమే చ శబ్దార్థ-సమ్బన్ధ-గ్రహణాభావేన సమస్త-శబ్ద-వ్యవహారోచ్ఛేద-ప్రసఙ్గః। ఆచార్యస్య జ్ఞానవత్త్వమ్ అనుమాయ తద్-ఉపసత్తిశ్ చ క్రియతే। సా చ నోపపద్యతే।
Link copied[వేద్యత్వానుభూతిత్వయోర్ న వ్యాప్తిః]
Link copiedన చాన్య-విషయత్వేఽననుభూతిత్వమ్। అనుభూతిత్వṁ నామ వర్తమాన-దశాయాṁ స్వ-సత్తయైవ స్వాశ్రయṁ ప్రతి ప్రకాశమానత్వమ్, స్వ-సత్తయైవ స్వ-విషయ-సాధనత్వṁ వా। తే చానుభవాన్తరానుభావ్యత్వేఽపి స్వానుభవ-సిద్ధే నాపగచ్ఛత ఇతి నానుభూతిత్వమ్ అపగచ్ఛేత్। ఘటాదేస్ త్వ్ అననుభూతిత్వమ్ ఏతత్ స్వభావ-విరహాత్, నానుభావ్యత్వాత్। తథానుభూతేర్ అననుభావ్యత్వేఽప్య్ అననుభూతిత్వ-ప్రసఙ్గో దుర్వారః, గగన-కుసుమాదేర్ అననుభావ్యస్య అననుభూతిత్వాత్॥
Link copiedగగన-కుసుమాదేర్ అననుభూతితత్వమ్ అసత్త్వ-ప్రయుక్తమ్, నాననుభావ్యత్వ-ప్రయుక్తమ్ ఇతి చేద్ ఏవṁ తర్హి ఘటాదేర్ అప్య్ అజ్ఞానావిరోధిత్వమ్ ఏవాననుభూతిత్వ-నిబన్ధనమ్, నానుభావ్యత్వమ్ ఇత్య్ ఆస్థీయతామ్॥
Link copiedఅనుభూతేర్ అనుభావ్యత్వే, అజ్ఞానావిరోధిత్వమ్ అపి తస్యా ఘటాదేర్ ఇవ ప్రసజ్యత ఇతి చేద్ అననుభావ్యత్వేఽపి గగన-కుసుమాదేర్ ఇవాజ్ఞానావిరోధిత్వమ్ అపి ప్రసజ్యత ఏవ। అతోఽనుభావ్యత్వే అననుభూతిత్వమ్ ఇత్య్ ఉపహాస్యమ్॥
Link copied[సṁవిదః పరాభిమత-నిత్యత్వ-నిరాసః]
Link copiedయత్ తు సṁవిదః స్వతః సిద్ధాయాః ప్రాగ్-అభావాద్య్-అభావాద్ ఉత్పత్తిర్ నిరస్యతే। తద్-అన్ధస్య జాత్య్-అన్ధేన యష్టిః ప్రదీయతే। ప్రాగ్-అభావస్య గ్రాహకాభావాద్ అభావో న శక్యతే వక్తుమ్, అనుభూత్యైవ గ్రహణాత్।
Link copiedకథమ్ అనుభూతిః సతీ తదానీమ్ ఏవ స్వాభావṁ విరుద్ధమ్ అవగమయతీతి చేన్ న హ్య్ అనుభూతిః స్వ-సమ-కాల-వర్తినమ్ ఏవ విషయీకరోతీత్య్ అస్తి నియమః, అతీతానాగతయోర్ అవిషయత్వ-ప్రసఙ్గాత్॥
Link copied[గ్రాహ్య-విశేషస్యాప్య్ అనుభూతి-యౌగపద్యానియమః]
Link copiedఅథ మన్యసే అనుభూతి-ప్రాగ్-అభావాదేః సిద్ధ్యతస్ తత్-సమ-కాల-భావ-నియమోఽస్తీతి। కిṁ త్వయా క్వచిద్ ఏవṁ దృష్టṁ యేన నియమṁ బ్రవీషి। హన్త తర్హి తత ఏవ దర్శనాత్ ప్రాగ్-అభావాదిః సిద్ధ ఇతి న తద్-అపహ్నవః। తత్-ప్రాగ్-అభావṁ చ తత్-సమ-కాల-వర్తినమ్ అనున్మత్తః కో బ్రవీతి। ఇన్ద్రియ-జన్మనః ప్రత్యక్షస్య హ్య్ ఏష స్వభావ-నియమో యత్ స్వ-సమ-కాల-వర్తినః పదార్థస్య గ్రాహకత్వమ్। న సర్వేషాṁ జ్ఞానానాṁ ప్రమాణానాṁ చ, స్మరణానుమానాగమ-యోగి-ప్రత్యక్షాదిషు కాలాన్తర-వర్తినోఽపి గ్రహణ-దర్శనాత్।
Link copied[ప్రమాణాప్రమాణ-జ్ఞానయోర్ వైషమ్యమ్]
Link copiedఅత ఏవ చ ప్రమాణస్య ప్రమేయావినాభావః। న హి ప్రమాణస్య స్వ-సమ-కాల-వర్తినా అవినాభావోఽర్థ-సమ్బన్ధః, అపి తు యద్-దేశ-కాలాది-సమ్బన్ధితయా యోఽర్థోఽవభాసతే తస్య తథావిధాకార-మిథ్యాత్వ-ప్రత్యనీకతా। అత ఇదమ్ అపి నిరస్తṁ స్మృతిర్ న బాహ్య-విషయా నష్టేఽప్య్ అర్థే స్మృతి-దర్శనాద్ ఇతి॥
Link copied[సṁవిత్-ప్రాగ్-అభావే ప్రమాణాభావ-నిరసనమ్]
Link copiedఅథోచ్యేత-- న తావత్ సṁవిత్-ప్రాగ్-అభావః ప్రస్యక్షావసేయః, అవర్తమానత్వాత్। న చ ప్రమాణాన్తరావసేయో లిఙ్గాద్య్-అభావాత్। న హి సṁవిత్-ప్రాగ్-అభావ-వ్యాప్తమ్ ఇహ లిఙ్గమ్ ఉపలభ్యతే। న చాగమస్ తావత్ తద్-విషయో దృష్ట-చరః। అతస్ తత్-ప్రాగ్-అభావః ప్రమాణాభావాద్ ఏవ న సేత్స్యతి-- ఇతి। యద్య్ ఏవṁ స్వతః సిద్ధత్వ-విభవṁ పరిత్యజ్య ప్రమాణాభావేఽవరూఢశ్ చేత్, యోగ్యానుపలధ్యైవాభావః సమర్థిత ఇత్య్ ఉపశామ్యతు భవాన్॥
Link copied[జ్ఞాన-నిత్యత్వ-సాధనమ్]
Link copiedకిṁ చ ప్రత్యక్ష-జ్ఞానṁ స్వ-విషయṁ ఘటాదికṁ స్వ-సత్తా-కాలే సన్తṁ సాధయత్ తస్య న సర్వదా సత్తామ్ అవగమయద్ దృశ్యత ఇతి ఘటాదేః పూర్వోత్తర-కాల-సత్తా న ప్రతీయతే। తద్-అప్రతీతిశ్ చ సṁవేదనస్య కాల-పరిచ్ఛిన్నతయా ప్రతీతేః। ఘటాది-విషయమ్ ఏవ సṁవేదనṁ స్వయṁ కాలానవచ్ఛిన్నṁ ప్రతీతṁ చేత్, సṁవేదన-విషయో ఘటాదిర్ అపి కాలానవచ్ఛిన్నః ప్రతీయేతేతి నిత్యః స్యాత్। నిత్యṁ చేత్ సṁవేదనṁ స్వతః సిద్ధṁ నిత్యమ్ ఇత్య్ ఏవ ప్రతీయేత। న చ తథా ప్రతీయతే।
Link copiedఏవమ్ అనుమానాది-సṁవిదోఽపి కాలానవచ్ఛిన్నాః ప్రతీతాశ్ చేత్ స్వ-విషయాన్ అపి కాలానవచ్ఛిన్నాన్ ప్రకాశయన్తీతి తే చ సర్వే కాలానవచ్ఛిన్నా నిత్యాః స్యుః, సṁవిద్-అనురూపత్వాద్ విషయాణామ్।
Link copied[నిర్విషయానుభవ-నిత్యత్వ-పక్ష-దూషణమ్]
Link copiedన చ నిర్విషయా కాచిత్ సṁవిద్ అస్తి, అనుపలబ్ధేః। విషయ-ప్రకాశనతయైవోపలబ్ధేర్ ఏవ హి సṁవిదః స్వయమ్ప్రకాశతా సమర్థితా, సṁవిదో విషయ-ప్రకాశనతా-స్వభావ-విరహే సతి స్వయమ్ప్రకాశత్వాసిద్ధేః, అనుభూతేర్ అనుభవాన్తరాననుభావ్యత్వాచ్ చ సṁవిదస్ తుచ్ఛతైవ స్యాత్॥
Link copied[స్వాపాదిష్వ్ అనుభూతేర్ అస్ఫురణమ్]
Link copiedన చ స్వాప-మద-మూర్చ్ఛాదిషు సర్వ-విషయ-శూన్యా కేవలైవ సṁవిత్-పరిస్ఫురతీతి వాచ్యమ్, యోగ్యానుపలబ్ధి-పరాహతత్వాత్। తాస్వ్ అపి దశాస్వ్ అనుభూతిర్ అనుభూతా చేత్ తస్యాః ప్రబోధ-సమయేఽనుసన్ధానṁ స్యాత్। న చ తద్ అస్తి॥
Link copied[అస్మరణ-నియమోఽనుభవాభావ-సాధకః]
Link copiedనన్వ్ అభూతస్య పదార్థస్య స్మరణ-నియమో న దృష్ట-చరః। అతః స్మరణాభావః కథమ్ అనుభవాభావṁ సాధయేత్। ఉచ్యతే--- నిఖిల-సṁస్కార-తిరస్కృతి-కర-దేహ-విగమాది-ప్రబల-హేతు-విరహేఽప్య్ అస్మరణ-నియమోఽనుభవాభావమ్ ఏవ సాధయతి॥
Link copiedన కేవలమ్ అస్మరణ-నియమాద్ అనుభవాభావః, సుప్తోత్థితస్య ఇయన్తṁ కాలṁ న కిఞ్చద్ అహమ్ అజ్ఞాసిషమ్ ఇతి ప్రత్యవమర్శేనైవ సిద్ధేః। న చ సత్య్ అప్య్ అనుభవే తద్-అస్మరణ-నియమో విషయావచ్ఛేద-విరహాద్ అహఙ్కార-విగమాద్ వా ఇతి శక్యతే వక్తుమ్, అర్థాన్తరాననుభవస్యార్థాన్తరాభావస్య చానుభూతార్థాన్తరాస్మరణ-హేతుత్వాభావాత్। తాస్వ్ అపి దశాస్వ్ అహమ్-అర్థోఽనువర్తత ఇతి చ వక్ష్యతే॥
Link copied[పూర్వోక్తార్థ-వ్యాఘాత-శఙ్కాపరిహారౌ]
Link copiedనను స్వాపాది-దశాస్వ్ అపి సవిశేషోఽనుభవోఽస్తీతి పూర్వమ్ ఉక్తమ్। సత్యమ్ ఉక్తమ్। స త్వ్ ఆత్మానుభవః। స చ సవిశేష ఏవేతి స్థాపయిష్యతే। ఇహ తు సకల-విషయ-విరహిణీ నిరాశ్రయా చ సṁవిన్ నిషిధ్యతే। కేవలైవ సṁవిద్ ఆత్మానుభవ ఇతి చేత్ సా చ సాశ్రయేతి హ్య్ ఉపపాదయిష్యతే।
Link copied[ఉక్తార్థ-నిగమనమ్]
Link copiedఅతోఽనుభూతిః సతీ స్వయṁ స్వ-ప్రాగ్-అభావṁ న సాధయతీతి ప్రాగ్-అభావాసిద్ధిర్ న శక్యతే వక్తుమ్। అనుభూతేర్ అనుభావ్యత్వ-సమ్భవోపపాదనేన అన్యతోఽప్య్ అసిద్ధిర్ నిరస్తా। తస్మాన్ న ప్రాగ్-అభావాద్య్-అసిద్ధ్యా సṁవిదోఽనుత్పత్తిర్ ఉపపత్తిమతీ॥
Link copied[సṁవిద ఉత్పత్తేర్ అభావాత్ తత్-కృత-వికారస్యాప్య్ అభావ ఇత్య్ ఏతద్ దూషణమ్]
Link copiedయద్ అప్య్ అస్యా అనుత్పత్త్యా వికారాన్తర-నిరసనṁ తద్ అప్య్ అనుపపన్నమ్, ప్రాగ్-అభావే వ్యభిచారాత్। తస్య హి జన్మాభావేఽపి వినాశో దృశ్యతే। భావేష్వ్ ఇతి విశేషణే తర్క-కుశలతావిష్కృతా భవతి। తథా చ భవద్-అభిమతావిద్యానుత్పన్నైవ వివిధ-వికారాస్పదṁ తత్త్వ-జ్ఞానోదయాద్ అన్తవతీ చేతి తస్యామ్ అనైకాన్త్యమ్। తద్-వికారాః సర్వే మిథ్యా-భూతా ఇతి చేత్, కిṁ భవతః పరమార్థ-భూతోఽప్య్ అస్తి వికారః యేనైతద్ విశేషణమ్ అర్థవద్ భవతి। న హ్య్ అసావ్ అభ్యుపగమ్యతే॥
Link copied[అజత్వస్య నానాత్వాభావ-వ్యాప్యతాదూషణమ్]
Link copiedయద్ అప్య్ అనుభూతిర్ అజత్వాత్ స్వస్మిన్ విభాగṁ న సహతే ఇతి తద్ అపి నోపపద్యతే, అజస్యైవాత్మనో దేహేన్ద్రియాదిభ్యో విభక్తత్వాద్ అనాదిత్వేన చాభ్యుపగతాయా అవిద్యాయా ఆత్మనో వ్యతిరేకస్యావశ్యాశ్రయణీయత్వాత్। స విభాగో మిథ్యా-రూప ఇతి చేత్, జన్మ-ప్రతిబద్ధః పారమార్థిక-విభాగః కిṁ క్వచిద్ దృష్టస్ త్వయా। అవిద్యాయా ఆత్మనః పరమార్థతో విభాగాభావే వస్తుతో హ్య్ అవిద్యైవ స్యాద్ ఆత్మా। అబాధిత-ప్రతిపత్తి-సిద్ధ-దృశ్య-భేద-సమర్థనేన దర్శన-భేదోఽపి సమర్థిత ఏవ, ఛేద్య-భేదాచ్ ఛేదన-భేదవత్॥
Link copied[దృశిత్వ-దృశ్యత్వ-హేతుకానుమాన-దూషణమ్]
Link copiedయద్ అపి నాస్యా దృశేర్ దృశి-స్వరూపాయా దృశ్యః కశ్చిద్ అపి ధర్మోఽస్తి, దృశ్యత్వాద్ ఏవ తేషాṁ న దృశి-ధర్మత్వమ్ ఇతి చ। తద్ అపి స్వాభ్యుపగతైః ప్రమాణ-సిద్ధైర్ నిత్యత్వ-స్వయమ్ప్రకాశత్వాది-ధర్మైర్ ఉభయమ్ అనైకాన్తికమ్। న చ తే సṁవేదన-మాత్రమ్, స్వరూప-భేదాత్। స్వ-సత్తయైవ స్వాశ్రయṁ ప్రతి కస్యచిద్ విషయస్య ప్రకాశనṁ హి సṁవేదనమ్। స్వయమ్ప్రకాశతా తు స్వ-సత్తయైవ స్వాశ్రయాయ ప్రకాశమానతా। ప్రకాశశ్ చ చిద్-అచిద్-అశేష-పదార్థ-సాధారణṁ వ్యవహారానుగుణ్యమ్।
Link copiedసర్వ-కాల-వర్తమానత్వṁ హి నిత్యత్వమ్। ఏకత్వమ్ ఏక-సఙ్ఖ్యావచ్ఛేద ఇతి। తేషాṁ జడత్వాద్య్-అభావ-రూపతాయామ్ అపి తథాభూతైర్ అపి చైతన్య-ధర్మ-భూతైస్ తైర్ అనైకాన్త్యమ్ అపరిహార్యమ్। సṁవిది తు స్వరూపాతిరేకేణ జడత్వాది-ప్రత్యనీకత్వమ్ ఇత్య్ అభావ-రూపో భావ-రూపో వా ధర్మో నాభ్యుపేతశ్ చేత్, తత్-తన్-నిషేధోక్త్యా కిమ్ అపి నోక్తṁ భవేత్॥
Link copied[సṁవిద ఆత్మత్వ-నిరాసోపక్రమః]
Link copiedఅపి చ సṁవిత్ సిద్ధ్యతి వా న వా। సిద్ధ్యతి చేత్, సధర్మతా స్యాత్। న చేత్, తుచ్ఛతా, గగన-కుసుమాదివత్। సిద్ధిర్ ఏవ సṁవిద్ ఇతి చేత్, కస్య కṁ ప్రతీతి వక్తవ్యమ్। యది న కస్యచిత్ కిఞ్చిత్ ప్రతి సా తర్హి న సిద్ధిః। సిద్ధిర్ హి పుత్రత్వమ్ ఇవ కస్యచిత్ కిఞ్చిత్ ప్రతి భవతి। ఆత్మన ఇతి చేత్, కోఽయమ్ ఆత్మా నను సṁవిద్ ఏవేత్య్ ఉక్తమ్। సత్యమ్ ఉక్తమ్। దురుక్తṁ తు తత్। తథాహి--- కస్యచిత్ పురుషస్య కిఞ్చిద్-అర్థ-జాతṁ ప్రతి సిద్ధి-రూపా తత్-సమ్బన్ధినీ సా సṁవిత్ స్వయṁ కథమ్ ఇవాత్మ-భావమ్ అనుభవేత్॥
Link copied[సṁవిద అనాత్మత్వ-నిష్కర్షణమ్]
Link copiedఏతద్ ఉక్తṁ భవతి-- అనుభూతిర్ ఇతి స్వాశ్రయṁ ప్రతి స్వ-సద్-భావేనైవ కస్యచిద్ వస్తునో వ్యవహారానుగుణ్యాపాదన-స్వభావో జ్ఞానావగతి-సṁవిద్-ఆద్య్-అపర-నామా సకర్మకోఽనుభవితుర్ ఆత్మనో ధర్మ-విశేషో ఘటమ్ అహṁ జానామీమమ్ అర్థమ్ అవగచ్ఛామి పటమ్ అహṁ సṁవేద్మి ఇతి సర్వేషామ్ ఆత్మ-సాక్షికః ప్రసిద్ధః। ఏతత్ స్వభావతయా హి తస్యాః స్వయమ్ప్రకాశతా భవతాప్య్ ఉపపాదితా। అస్య సకర్మకస్య కర్తృ-ధర్మ-విశేషస్య కర్మత్వవత్ కర్తృత్వమ్ అపి దుర్ఘటమ్ ఇతి॥
Link copied[స్థిరత్వాస్థిరత్వేఽపి సṁవిద్ అనాత్మత్వ-సాధకే]
Link copiedతథాహి--- అస్య కర్తుః స్థిరత్వṁ కర్తృ-ధర్మస్య సṁవేదనాఖ్యస్య సుఖ-దుఃఖాదేర్ ఇవోత్పత్తి-స్థితి-నిరోధాశ్ చ ప్రత్యక్షమ్ ఈక్ష్యన్తే। కర్తృ-స్థైర్యṁ తావత్ స ఏవాయమ్ అర్థః పూర్వṁ మయానుభూతః ఇతి ప్రత్యభిజ్ఞా-ప్రత్యక్ష-సిద్ధమ్। అహṁ జానామి, అహమ్ అజ్ఞాసిషṁ, జ్ఞాతుర్ ఏవ మమేదానీṁ జ్ఞానṁ నష్టమ్ ఇతి చ సṁవిద్-ఉత్పత్త్య్-ఆదయః ప్రత్యక్ష-సిద్ధా ఇతి కుతస్ తద్-ఐక్యమ్। ఏవṁ క్షణ-భఙ్గిన్యాః సṁవిద ఆత్మత్వాభ్యుపగమే పూర్వేద్యుర్ దృష్టమ్ అపరేద్యుర్ ఇదమ్ అహమ్ అదర్శమ్ ఇతి ప్రత్యభిజ్ఞా చ న ఘటతే। అన్యేనానుభూతస్య న హ్య్ అన్యేన ప్రత్యభిజ్ఞాన-సమ్భవః॥
Link copied[సṁవిదః స్థిరత్వేఽప్య్ అనాత్మతా]
Link copiedకిṁ చ--- అనుభూతేర్ ఆత్మత్వాభ్యుపగమే తస్యా నిత్యత్వేఽపి ప్రతిసన్ధానాసమ్భవస్ తద్-అవస్థః। ప్రతిసన్ధానṁ హి పూర్వాపర-కాల-స్థాయినమ్ అనుభవితారమ్ ఉపస్థాపయతి, నానుభూతి-మాత్రమ్। అహమ్ ఏవేదṁ పూర్వమ్ అప్య్ అన్వభూవమ్ ఇతి। భవతోఽప్య్ అనుభూతేర్ న హ్య్ అనుభవితృత్వమ్ ఇష్టమ్।
Link copied[క్రియాయా అకర్తృత్వాత్ సṁవిద అనాత్మత్వమ్]
Link copiedఅనుభూతిర్ అనుభూతి-మాత్రమ్ ఏవ। సṁవిన్ నామ కాచిన్ నిరాశ్రయా నిర్విషయా వాత్యన్తానుపలబ్ధేర్ న సమ్భవతీత్య్ ఉక్తమ్। ఉభయాభ్యుపేతా సṁవిద్ ఏవాత్మేత్య్ ఉపలబ్ధి-పరాహతమ్। అనుభూతి-మాత్రమ్ ఏవ పరమార్థ ఇతి నిష్కర్షక-హేత్వాభాసాశ్ చ నిరాకృతాః॥
Link copied[ఆత్మనోఽహమ్-అర్థత్వṁ ప్రత్యక్త్వాబాధకమ్]
Link copiedనను చ, అహṁ జానామి ఇత్య్ అస్మత్-ప్రత్యయే యోఽనిదమ్-అṁశః ప్రకాశైకరసశ్ చిత్-పదార్థః స ఆత్మా। తస్మిṁస్ తద్-బల-నిర్భాసితతయా యుష్మద్-అర్థ-లక్షణోఽహṁ జానామీతి సిధ్యన్న్ అహమ్-అర్థశ్ చిన్-మాత్రాతిరేకీ యుష్మద్-అర్థ ఏవ। నైతద్ ఏవమ్। అహṁ జానామి ఇతి ధర్మ-ధర్మితయా ప్రత్యక్ష-ప్రతీతి-విరోధాద్ ఏవ॥
Link copied[ప్రత్యక్త్వాద్ అహమ్-అర్థ ఏవాత్మా]
Link copiedకిṁ చ---
Link copiedఅహమ్-అర్థో న చేద్ ఆత్మా ప్రత్యక్త్వṁ నాత్మనో భవేత్।
Link copiedఅహṁ బుద్ధ్యా పరాగర్థాత్ ప్రత్యగర్థో హి భిద్యతే॥
Link copied[ముముక్షోర్ అభిసన్ధిః]
Link copiedనిరస్తాఖిల-దుఃఖోఽహమ్ అనన్తానన్ద-భాక్ స్వరాట్।
Link copiedభవేయమ్ ఇతి మోక్షార్థీ శ్రవణాదౌ ప్రవర్తతే॥
Link copied[శాస్త్ర-ప్రామాణ్యాన్యథానుపపత్త్యా అహమ్-అర్థ ఆత్మా]
Link copiedఅహమ్-అర్థ-వినాశశ్ చేన్ మోక్ష ఇత్య్ అధ్యవస్యతి।
Link copiedఅపసర్పేద్ అసౌ మోక్ష-కథా-ప్రస్తావ-గన్ధతః॥
Link copiedమయి నష్టేఽపి మత్తోఽన్యా కాచిజ్ జ్ఞప్తిర్ అవస్థితా।
Link copiedఇతి తత్-ప్రాప్తయే యత్నః కస్యాపి న భవిష్యతి॥
Link copiedస్వ-సమ్బన్ధితయా హ్య్ అస్యాః సత్తా విజ్ఞప్తితాది చ।
Link copiedస్వ-సమ్బన్ధ-వియోగే తు జ్ఞప్తిర్ ఏవ న సిద్ధ్యతి॥
Link copiedఛేత్తుశ్ ఛేద్యస్య చాభావే ఛేదనాదేర్ అసిద్ధివత్।
Link copiedఅతోఽహమ్-అర్థో జ్ఞాతైవ ప్రత్యగ్-ఆత్మేతి నిశ్చితమ్॥
Link copiedవిజ్ఞాతారమ్ అరే [బృహద్।, ౪।౪।౧౪] కేన జానాత్య్ ఏవేతి చ శ్రుతిః।
Link copiedఏతద్యో వేత్తి తṁ ప్రాహుః క్షేత్రజ్ఞ [భ। గీ।, ౧౩।౧] ఇతి చ స్మృతిః॥
Link copiedనాత్మా శ్రుతేః [బ్ర। సూ। ౨।౩।౧౮] ఇత్య్ ఆరభ్య సూత్ర-కారోఽపి వక్ష్యతి।
Link copiedజ్ఞోఽత ఏవ [బ్ర। సూ। ౨।౩।౧౯] ఇత్య్ అతో నాత్మా జ్ఞప్తి-మాత్రమ్ ఇతి స్థితమ్॥
Link copied[యుష్మద్-అస్మద్-అర్థయోర్ ఐక్యṁ వ్యాహతమ్]
Link copiedఅహṁ-ప్రత్యయ-సిద్ధో హ్య్ అస్మద్-అర్థః, యుష్మత్-ప్రత్యయ-విషయో యుష్మద్-అర్థః। తత్రాహṁ జానామీతి సిద్ధో జ్ఞాతా యుష్మద్-అర్థ ఇతి వచనṁ జననీ మే బన్ధ్యేతివద్ వ్యాహతార్థṁ చ। న చాసౌ జ్ఞాతాహమ్-అర్థోఽన్యాధీన-ప్రకాశః స్వయమ్ప్రకాశత్వాత్। చైతన్య-స్వభావతా హి స్వయమ్ప్రకాశతా। యః ప్రకాశ-స్వభావః, సోఽనన్యాధీన-ప్రకాశః దీపవత్।
Link copied[దీపస్య స్వయమ్ప్రకాశతా-భఙ్గ-పరిహారౌ]
Link copiedన హి దీపాదేః స్వ-ప్రభా-బల-నిర్భాసితత్వేనాప్రకాశత్వమ్ అన్యాధీన-ప్రకాశత్వṁ చ। కిṁ తర్హి దీపః స్వయమ్ప్రకాశ-స్వభావః స్వయమ్ ఏవ ప్రకాశతే, అన్యాన్ అపి ప్రకాశయతి ప్రభయా॥
Link copied[ధర్మ-ధర్మిణోర్ ద్వయోర్ అపి జ్ఞాన-రూపతా]
Link copiedఏతద్ ఉక్తṁ భవతి-- యథైకమ్ ఏవ తేజో-ద్రవ్యṁ ప్రభా-ప్రభావద్ రూపేణావతిష్ఠతే। యద్య్ అపి ప్రభా ప్రభావద్ ద్రవ్య-గుణ-భూతా తథాపి తేజో-ద్రవ్యమ్ ఏవ, న శౌక్ల్యాదివద్ గుణః। స్వాశ్రయాద్ అన్యత్రాపి వర్తమానత్వాద్ రూపవత్త్వాచ్ చ శౌక్ల్యాది-వైధర్మ్యాత్, ప్రకాశవత్త్వాచ్ చ తేజో-ద్రవ్యమ్ ఏవ, నార్థాన్తరమ్। ప్రకాశవత్త్వṁ చ స్వ-స్వరూపస్యాన్యేషాṁ చ ప్రకాశకత్వాత్।
Link copiedఅస్యాస్తు గుణత్వ-వ్యవహారో నిత్య-తద్-ఆశ్రయత్వ-తచ్-ఛేషత్వ-నిబన్ధనః। న చాశ్రయావయవా ఏవ విశీర్ణాః ప్రచరన్తః ప్రభేత్య్ ఉచ్యన్తే, మణి-ద్యుమణి-ప్రభృతీనాṁ వినాశ-ప్రసఙ్గాత్॥
Link copiedదీపేఽప్య్ అవయవి-ప్రతిపత్తిః కదాచిద్ అపి న స్యాత్। న హి విశరణ-స్వభావావయవా దీపాశ్ చతుర్-అఙ్గుల-మాత్రṁ నియమేన పిణ్డీభూతా ఊర్ధ్వమ్ ఉద్గమ్య తతః పశ్చాద్ యుగపద్ ఏవ తిర్యగ్ ఊర్ధ్వమ్ అధశ్ చైకరూపా విశీర్ణాః ప్రచరన్తీతి శక్యṁ వక్తుమ్। అతః సప్రభాకా ఏవ దీపాః ప్రతిక్షణమ్ ఉత్పన్నా వినశ్యన్తీతి పుష్కల-కారణ-క్రమోపనిపాతాత్ తద్-వినాశే వినాశాచ్ చావగమ్యతే। ప్రభాయాః స్వాశ్రయ-సమీపే ప్రకాశాధిక్యమ్ ఔష్ణ్యాధిక్యమ్ ఇత్య్ ఆద్య్ ఉపలబ్ధి-వ్యవస్థాప్యమ్ అగ్న్య్-ఆదీనామ్ ఔష్ణ్యాదివత్। ఏవమ్ ఆత్మా చిద్-రూప ఏవ చైతన్య-గుణ ఇతి।
Link copied[చిద్-రూపతా స్వయమ్ప్రకాశతా-రూపా]
Link copiedచిద్-రూపతా హి స్వయమ్ప్రకాశతా। తథా హి శ్రుతయః-- స యథా సైన్ధవ-ఘనోఽనన్తరోఽబాహ్యః కృత్స్నో రస-ఘన ఏవ, ఏవṁ వా అరేఽయమ్ ఆత్మానన్తరోఽబాహ్యః కృత్స్నః ప్రజ్ఞాన-ఘన ఏవ [బృహద్।, ౬।౪।౧౩], విజ్ఞాన-ఘన ఏవ [బృహద్।, ౪।౪।౧౨], అత్రాయṁ పురుషః స్వయఞ్జ్యోతిర్ భవతి [బృహద్।, ౬।౩।౯], న విజ్ఞాతుర్ విజ్ఞాతేర్ విపరిలోపో విద్యతే [బృహద్।, ౬।౩।౧౦], అథ యో వేదేదṁ జిఘ్రాణీతి స ఆత్మా [బృహద్।, ౬।౩।౩౦], కతమ ఆత్మా యోఽయṁ విజ్ఞాన-మయః ప్రాణేషు హృద్యన్తర్-జ్యోతిః పురుషః [ఛాన్।, ౮।౧౨।౪], ఏష హి ద్రష్టా శ్రోతా రసియతా ఘ్రాతా మన్తా బోద్ధా కర్తా విజ్ఞానాత్మా పురుషః [బృహద్।, ౬।౩।౭], విజ్ఞాతారమ్ అరే కేన విజానీయాత్ [ప్రశ్। ౪], జానాత్య్ ఏవాయṁ పురుషః, న పశ్యో మృత్యుṁ పశ్యతి న రోగṁ నోత దుఃఖతాṁ స ఉత్తమః పురుషః [ఛాన్।, ౭।౨౬।౨], నోపజనṁ స్మరన్న్ ఇదṁ శరీరమ్ [ఛాన్।, ౮।౧౨।౩], ఏవమ్ ఏవాస్య పరిద్రష్టుర్ ఇమాః షోడశ-కలాః పురుషాయణాః పురుషṁ ప్రాప్యాస్ తṁ గచ్ఛన్తి [ప్రశ్।, ౬।౫] తస్మాద్ వా ఏతస్మాన్ మనో-మయాద్ అన్యోఽన్తర ఆత్మా విజ్ఞాన-మయః [తై।, ౨।౪।౧] ఇత్య్ ఆద్యాః। వక్ష్యతి చ జ్ఞోఽత ఏవ [బ్ర। సూ। ౨।౩।౧౯] ఇతి। అతః స్వయమ్ప్రకాశోఽయమ్ ఆత్మా జ్ఞాతైవ, న ప్రకాశ-మాత్రమ్।
Link copied[సṁవిద అనాత్మత్వోపపాదకాః తర్కాః]
Link copiedప్రకాశత్వాద్ ఏవ కస్యచిద్ ఏవ భవేత్ ప్రకాశః, దీపాది-ప్రకాశవత్। తస్మాన్న్ ఆత్మా భవితుమ్ అర్హతి సṁవిత్। సṁవిద్-అనుభూతి-జ్ఞానాది-శబ్దాః సమ్బన్ధి-శబ్దా ఇతి చ శబ్దార్థ-విదః। న హి లోక-వేదయోర్ జానాతీత్య్ ఆదేర్ అకర్మకస్యాకర్తృకస్య చ ప్రయోగో దృష్ట-చరః।
Link copied[సṁవిద్-ఆత్మత్వేఽజడత్వṁ న హేతుః]
Link copiedయచ్ చోక్తమ్ అజడత్వాత్ సṁవిద్ ఏవాత్మేతి తత్రేదṁ ప్రష్టవ్యమ్--- అజడత్వమ్ ఇతి కిమ్ అభిప్రేతṁ స్వ-సత్తా-ప్రయుక్త-ప్రకాశత్వమ్ ఇతి చేత్ తథా సతి దీపాదిష్వ్ అనైకాన్త్యమ్। సṁవిద్-అతిరిక్త-ప్రకాశ-ధర్మాన్ అభ్యుపగమేనాసిద్ధిర్ విరోధశ్ చ। అవ్యభిచరిత-ప్రకాశ-సత్తాకత్వమ్ అపి సుఖాదిషు వ్యభిచారాన్ నిరస్తమ్।
Link copiedయద్య్ ఉచ్యేత-- సుఖాదిర్ అవ్యభిచరిత-ప్రకాశోఽప్య్ అన్యస్మై ప్రకాశమానతయా ఘటాదివజ్ జడత్వేన అనాత్మా-- ఇతి। జ్ఞానṁ న కిṁ స్వస్మై ప్రకాశతే తద్ అపి హ్య్ అన్యస్యైవాహమ్-అర్థస్య జ్ఞాతుర్ అవభాసతే, అహṁ సుఖీతివజ్ జానామ్య్ అహమ్ ఇతి। అతః స్వస్మై ప్రకాశమానత్వ-రూపమ్ అజడత్వṁ సṁవిద్య్ అసిద్ధమ్। తస్మాత్ స్వాత్మానṁ ప్రతి స్వ-సత్తయైవ సిద్ధ్యన్న్ అజడోఽహమ్-అర్థ ఏవాత్మా।
Link copied[జ్ఞానస్య ప్రకాశ-రూపతాయాṁ హేతుః]
Link copiedజ్ఞానస్యాపి ప్రకాశతా తత్-సమ్బన్ధాయత్తా। తత్-కృతమ్ ఏవ హి జ్ఞానస్య సుఖాదేర్ ఇవ స్వాశ్రయ-చేతనṁ ప్రతి ప్రకటత్వమ్ ఇతరṁ ప్రత్య్ అప్రకటత్వṁ చ। అతో న జ్ఞప్తి-మాత్రమ్ ఆత్మా, అపి తు జ్ఞాతైవాహమ్-అర్థః।
Link copied[అహమ్-అర్థో న భ్రాన్తి-సిద్ధః]
Link copiedఅథ యద్ ఉక్తమ్-- అనుభూతిః పరమార్థతో నిర్విషయా నిరాశ్రయా చ సతీ భ్రాన్త్యా జ్ఞాతృతయావభాసతే, రజతతయేవ శుక్తిర్ నిరధిష్ఠాన-భ్రమానుపపత్తేః ఇతి తద్ అయుక్తమ్। తథా సత్య్ అనుభవ-సామానాధికరణ్యేనానుభవితాహమ్-అర్థః ప్రతీయేత, అనుభూతిర్ అహమ్ ఇతి పురోఽవస్థిత-భాస్వర-ద్రవ్యాకారతయా రజతాదిర్ ఇవ। అత్ర తు పృథగ్ అవభాసమానైవేయమ్ అనుభూతిర్ అర్థాన్తరమ్ అహమ్-అర్థṁ విశినష్టి, దణ్డ ఇవ దేవదత్తమ్। తథా హి--- అనుభవామ్య్ అహమ్ ఇతి ప్రతీతిః। తద్ ఏవమ్ అస్మద్-అర్థమ్ అనుభూతి-విశిష్టṁ ప్రకాశయన్న్ అనుభవామ్య్ అహమ్ ఇతి ప్రత్యయో దణ్డ-మాత్రే దణ్డీ దేవదత్తః ఇతి ప్రత్యయవద్ విశేషణ-భూతానుభూతి-మాత్రావలమ్బనః కథమ్ ఇవ ప్రతిజ్ఞాయేత।
Link copied[జ్ఞాతృత్వṁ మిథ్యేత్య్ ఏతత్ నిర్యుక్తికమ్]
Link copiedయద్ అప్య్ ఉక్తṁ స్థూలోఽహమ్ ఇత్య్ ఆది దేహాత్మాభిమానవత ఏవ జ్ఞాతృత్వ-ప్రతిభాసనాత్ జ్ఞాతృత్వమ్ అపి మిథ్యా-- ఇతి తద్ అయుక్తమ్। ఆత్మతయా అభిమతాయా అనుభూతేర్ అపి మిథ్యాత్వṁ స్యాత్, తద్వత ఏవ ప్రతీతేః। సకలేతరోపమర్ది-తత్త్వ-జ్ఞానాబాధితత్వేనానుభూతేర్ న మిథ్యాత్వమ్ ఇతి చేత్, హన్తైవṁ సతి తద్-అబాధాద్ ఏవ జ్ఞాతృత్వమ్ అపి న మిథ్యా।
Link copied[జ్ఞాతృత్వస్య విక్రియాత్మకత్వానువాదః]
Link copiedయద్ అప్య్ ఉక్తమ్-- అవిక్రియస్యాత్మనో జ్ఞాన-క్రియా-కర్తృత్వ-రూపṁ జ్ఞాతృత్వṁ న సమ్భవతి। అతో జ్ఞాతృత్వṁ విక్రియాత్మకṁ జడṁ వికారాస్పదావ్యక్త-పరిణామాహఙ్కార-గ్రన్థి-స్థమ్ ఇతి న జ్ఞాతృత్వమ్ ఆత్మనః, అపి త్వ్ అన్తఃకరణ-రూపస్యాహఙ్కారస్య। కర్తృత్వాదిర్ హి రూపాదివద్ దృశ్య-ధర్మః। కర్తృత్వేఽహమ్-ప్రత్యయ-గోచరత్వే చాత్మనోఽభ్యుపగమ్యమానే దేహస్యేవానాత్మత్వ-పరాక్త్వ-జడత్వాది ప్రసఙ్గశ్ చేతి।
Link copied[అనూదితార్థ-దూషణమ్]
Link copiedనైతద్ ఉపపద్యతే--- దేహస్యేవాచేతనత్వ-ప్రకృతి-పరిణామత్వ-దృశ్యత్వ-పరాక్త్వ-పరార్థత్వాది-యోగాత్ అన్తఃకరణ-రూపస్య అహఙ్కారస్య, చేతనాసాధారణ-స్వభావత్వాచ్ చ జ్ఞాతృత్వస్య।
Link copiedఏతద్ ఉక్తṁ భవతి యథా దేహాదిర్ దృశ్యత్వ-పరాక్త్వాదిహేతుభిస్ తత్-ప్రత్యనీక-ద్రష్టృత్వ-ప్రత్యక్త్వాదేర్ వివిచ్యతే, ఏవమ్ అన్తఃకరణ-రూపాహఙ్కారోఽపి తద్-ద్రవ్యత్వాద్ ఏవ తైర్ ఏవ హేతుభిస్ తస్మాద్ వివిచ్యతే-- ఇతి।
Link copiedఅతో విరోధాద్ ఏవ న జ్ఞాతృత్వమ్ అహఙ్కారస్య, దృశిత్వవత్। యథా దృశిత్వṁ తత్-కర్మణోఽహఙ్కారస్య నాభ్యుపగమ్యతే, తథా జ్ఞాతృత్వమ్ అపి న తత్-కర్మణోఽభ్యుగన్తవ్యమ్।
Link copied[జ్ఞాతృత్వṁ న విక్రియాత్మకమ్]
Link copiedన చ జ్ఞాతృత్వṁ విక్రియాత్మకమ్, జ్ఞాతృత్వṁ హి జ్ఞాన-గుణాశ్రయత్వమ్। జ్ఞానṁ చాస్య నిత్యస్య స్వాభావిక-ధర్మత్వేన నిత్యమ్। నిత్యత్వṁ చాత్మనో నాత్మా శ్రుతేః [బ్ర। సూ। ౨।౩।౧౮] ఇత్య్ ఆదిషు వక్ష్యతి। జ్ఞోఽత ఏవ [బ్ర। సూ। ౨।౩।౧౯] ఇత్య్ అత్ర జ్ఞ ఇతి వ్యపదేశేన జ్ఞానాశ్రయత్వṁ చ స్వాభావికమ్ ఇతి వక్ష్యతి। అస్య జ్ఞాన-స్వరూపస్యైవ మణి-ప్రభృతీనాṁ ప్రభాశ్రయత్వమ్ ఇవ జ్ఞానాశ్రయత్వమ్ అప్య్ అవిరుద్ధమ్ ఇత్య్ ఉక్తమ్।
Link copied[స్వభావతో జ్ఞానవాన్ అపి న సర్వజ్ఞో జీవః]
Link copiedస్వయమ్ అపరిచ్ఛిన్నమ్ ఏవ జ్ఞానṁ సఙ్కోచ-వికాసార్హామ్ ఇత్య్ ఉపపాదయిష్యామః। అతః క్షేత్రజ్ఞావస్థాయాṁ కర్మణా సఙ్కుచిత-స్వరూపṁ తత్-తత్-కర్మానుగుణ-తరతమ-భావేన వర్తతే। తచ్ చ ఇన్ద్రియ-ద్వారేణ వ్యవస్థితమ్। తమ్ ఇమమ్ ఇన్ద్రియ-ద్వారా జ్ఞాన-ప్రసరమ్ అపేక్ష్య ఉదయాస్తమయ-వ్యపదేశః ప్రవర్తతే।
Link copied[ఆత్మనో జ్ఞాన-సఙ్కోచ-వికాసాత్మక-వికారిత్వ-సమ్మతిః]
Link copiedజ్ఞాన-ప్రసరే తు కర్తృత్వమ్ అస్త్య్ ఏవ। తచ్ చ న స్వాభావికమ్, అపి తు కర్మ-కృతమ్ ఇతి, అవిక్రియ-స్వరూప ఏవ ఆత్మా। ఏవṁ రూప-విక్రియాత్మకṁ జ్ఞాతృత్వṁ జ్ఞాన-స్వరూపస్యాత్మన ఏవ ఇతి న కదాచిద్ అపి జడస్య అహఙ్కారస్య జ్ఞాతృత్వ-సమ్భవః।
Link copied[చిచ్-ఛాయాపత్త్యా జ్ఞాతృత్వ-నిర్వాహ-నిరాసః]
Link copiedజడ-స్వరూపస్యాప్య్ అహఙ్కారస్య చిత్-సన్నిధానేన తచ్-ఛాయాపత్త్యా తత్-సమ్భవ ఇతి చేత్; కేయṁ చిచ్-ఛాయాపత్తిః కిమ్ అహఙ్కార-చ్ఛాయాపత్తిః సṁవిదః, ఉత సṁవిచ్-ఛాయాపత్తిర్ అహఙ్కారస్య। న తావత్ సṁవిదః, సṁవిదో జ్ఞాతృత్వానభ్యుపగమాత్। నాప్య్ అహఙ్కారస్య, ఉక్త-రీత్యా తస్య జడస్య జ్ఞాతృత్వాయోగాత్, ద్వయోర్ అప్య్ అచాక్షుషత్వాచ్ చ, న హ్య్ అచాక్షుషాణాṁ ఛాయా దృష్టా॥
Link copied[చిత్-సమ్పర్కేణ జ్ఞాతృత్వ-నిర్వాహ-నిరాసః]
Link copiedఅథ-- అగ్ని-సమ్పర్కాదయః పిణ్డౌష్ణ్యవచ్ చిత్-సమ్పర్కాజ్ జ్ఞాతృత్వోపలబ్ధిః-- ఇతి చేన్ నైతత్। సṁవిది వస్తుతో జ్ఞాతృత్వానభ్యుపగమాద్ ఏవ న తత్-సమ్పర్కాద్ అహఙ్కారే జ్ఞాతృత్వṁ తద్-ఉపలబ్ధిర్ వా। అహఙ్కారస్య త్వ్ అచేతనస్య జ్ఞాతృత్వాసమ్భవాద్ ఏవ సుతరాṁ న తత్-సమ్పర్కాత్ సṁవిది జ్ఞాతృత్వṁ తద్-ఉపలబ్ధిర్ వా।
Link copied[అభివ్యక్తి-పక్షస్య దూషణమ్]
Link copiedయద్ అప్య్ ఉక్తమ్-- ఉభయత్ర న వస్తుతో జ్ఞాతృత్వమ్ అస్తి। అహఙ్కారస్ త్వ్ అనుభూతేర్ అభివ్యఞ్జకః స్వాత్మస్థామ్ ఏవ అనుభూతిమ్ అభివ్యనక్తి, ఆదర్శాదివత్, ఇతి తద్ అయుక్తమ్, ఆత్మనః స్వయఞ్జ్యోతిషో జడ-స్వరూపాహఙ్కారాభివ్యఙ్గ్యత్వాయోగాత్। తదుక్తమ్-- శాన్తాఙ్గార ఇవాదిత్యమ్ అహఙ్కారో జడాత్మకః। స్వయఞ్జ్యోతిషమ్ ఆత్మానṁ వ్యనక్తీతి న యుక్తిమత్॥[ఆత్మసిద్ధిః] ఇతి
Link copiedస్వయమ్ప్రకాశానుభవాధీన-సిద్ధయో హి సర్వే పదార్థాః। తత్ర తదాయత్త-ప్రకాశోఽచిద్-అహఙ్కారోఽనుదితానస్తమిత-స్వరూప-ప్రకాశమ్-అశేషార్థ-సిద్ధి-హేతు-భూతమ్ అనుభవమ్ అభివ్యనక్తీత్య్ ఆత్మ-విదః పరిహసన్తి।
Link copied[ఉక్త-వ్యఙ్క్తృ-వ్యఙ్గ్య-భావస్ తయోర్ మిథోఽనుపపన్నః]
Link copiedకిṁ చ--- అహఙ్కారానుభవయోః స్వభావ-విరోధాద్ అనుభూతేర్ అననుభూతిత్వ-ప్రసఙ్గాచ్ చ న వ్యఙ్క్తృ-వ్యఙ్గ్య-భావః। యథోక్తమ్---
Link copiedవ్యఙ్క్తృ-వ్యఙ్గ్యత్వమ్ అన్యోన్యṁ న చ స్యాత్ ప్రాతికూల్యతః।
Link copiedవ్యఙ్గ్యత్వేఽననుభూతిత్వమ్ ఆత్మని స్యాద్ యథా ఘటే॥ [ఆత్మసిద్ధిః] ఇతి॥
Link copiedన చ రవి-కర-నికరాణాṁ స్వాభివ్యఙ్గ్య-కర-తలాభివ్యఙ్గ్యత్వవత్ సṁవిద్-అభివ్యఙ్గ్యాహఙ్కారాభివ్యఙ్గ్యత్వṁ సṁవిదః సాధీయః, తత్రాపి రవి-కర-నికరాణాṁ కర-తలాభివ్యఙ్గ్యత్వాభావాత్। కర-తల-ప్రతిహత-గతయో హి రశ్మయో బహులాః స్వయమ్ ఏవ స్ఫుటతరమ్ ఉపలభ్యన్త ఇతి తద్-బాహుల్య-మాత్ర-హేతుత్వాత్ కర-తలస్య నాభివ్యఞ్జకత్వమ్।
Link copied[అభివ్యక్తి-కల్పానాṁ దూషణమ్]
Link copiedకిṁ చాస్య సṁవిత్-స్వరూపస్య ఆత్మనోఽహఙ్కార-నిర్వర్త్యా అభివ్యక్తిః కిṁ-రూపా। న తావద్ ఉత్పత్తిః, స్వతః సిద్ధతయానన్యోత్పాద్యత్వాభ్యుపగమాత్। నాపి తత్-ప్రకాశనమ్, తస్యానుభవాన్తరాననుభావ్యత్వాత్।
Link copiedతత ఏవ చ న తద్-అనుభవ-సాధనానుగ్రహః। స హి ద్విధా, జ్ఞేయస్యేన్ద్రియ-సమ్బన్ధ-హేతుత్వేన వా, యథా జాతిర్ నిజ-ముఖాది-గ్రహణే వ్యక్తి-దర్పణాదీనాṁ నయనాదీన్ద్రియ-సమ్బన్ధ-హేతుత్వేన; బోద్ధృ-గత-కల్మషాపనయనేన వా, యథా పర-తత్త్వావబోధన-సాధనస్య శాస్త్రస్య శమ-దమాదినా। యథోక్తమ్-- కరణానామ్ అభూతిత్వాన్ న తత్-సమ్బన్ధ-హేతుతా [ఆత్మసిద్ధిః] ఇతి॥
Link copied[అనుభూతేర్ అనుభావ్యత్వమ్ అభ్యుపగమ్య అనుగ్రహ-పక్ష-దూషణమ్]
Link copiedకిṁ చ--- అనుభూతేర్ అనుభావ్యత్వాభ్యుపగమేఽప్య్ అహమ్-అర్థేన న తద్-అనుభవ-సాధనానుగ్రహః సువచః। స హ్య్ అనుభావ్యానుభవోత్పత్తి-ప్రతిబన్ధ-నిరసనేన భవేత్। యథా రూపాది-గ్రహణోత్పత్తి-నిరోధి-సన్తమస-నిరసనేన చక్షుషో దీపాదినా। న చేహ తథావిధṁ నిరసనీయṁ సమ్భావ్యతే। న తావత్ సṁవిద్-ఆత్మ-గతṁ తజ్-జ్ఞానోత్పత్తి-నిరోధి కిఞ్చిద్ అప్య్ అహఙ్కారాపనేయమ్ అస్తి। అస్తి హ్య్ అజ్ఞానమ్ ఇతి చేన్ న, అజ్ఞానస్యాహఙ్కారాపనోద్యత్వానభ్యుపగమాత్। జ్ఞానమ్ ఏవ హ్య్ అజ్ఞానస్య నివర్తకమ్।
Link copied[అజ్ఞానస్య సṁవిద్-ఆశ్రయత్వాభావః]
Link copiedన చ సṁవిద్-ఆశ్రయత్వమ్ అజ్ఞానస్య సమ్భవతి, జ్ఞాన-సమానాశ్రయత్వాత్ తత్-సమాన-విషయత్వాచ్ చ జ్ఞాతృ-భావ-విషయ-భావ-విరహితే జ్ఞాన-మాత్రే సాక్షిణి నాజ్ఞానṁ భవితుమ్ అర్హతి। యథా జ్ఞానాశ్రయత్వ-ప్రసక్తి-శూన్యత్వేన ఘటాదేర్ నాజ్ఞానాశ్రయత్వమ్। తథా జ్ఞాన-మాత్రేఽపి జ్ఞానాశ్రయత్వాభావేన నాజ్ఞానాశ్రయత్వṁ స్యాత్॥
Link copied[సṁవిద్-ఆశ్రితత్వమ్ అభ్యుపగమ్యాపి దూషణమ్]
Link copiedసṁవిదోఽజ్ఞానాశ్రయత్వాభ్యుపగమేఽప్య్ ఆత్మతయాభ్యుపగతాయాస్ తస్యా జ్ఞాన-విషయత్వాభావేన జ్ఞానేన న తద్-గతాజ్ఞాన-నివృత్తిః। జ్ఞానṁ హి స్వ-విషయ ఏవాజ్ఞానṁ నివర్తయతి, యథా రజ్జ్వ్-ఆదౌ। అతో న కేనాపి కదాచిత్ సṁవిదాశ్రయమ్ అజ్ఞానమ్ ఉచ్ఛిద్యేత।
Link copied[అజ్ఞానṁ నానిర్వచనీయమ్, నాపి జ్ఞాన-ప్రాగ్-అభావః]
Link copiedఅస్య చ సద్-అసద్-అనిర్వచనీయస్యాజ్ఞానస్య స్వరూపమ్ ఏవ దుర్నిరూపమ్ ఇత్య్ ఉపరిష్టాద్ వక్ష్యతే। జ్ఞాన-ప్రాగ్-అభావ-రూపస్య చాజ్ఞానస్య జ్ఞానోత్పత్తి-విరోధిత్వాభావేన న తన్-నిరసనేన తజ్-జ్ఞాన-సాధనానుగ్రహః। అతో న కేనాపి ప్రకారేణాహఙ్కారేణానుభూతేర్ అభివ్యక్తిః।
Link copied[స్వాత్మస్థతయా అభివ్యక్తేర్ దూషణమ్]
Link copiedన చ స్వాశ్రయతయాభివ్యఙ్గ్యాభివ్యఞ్జనమ్ అభివ్యఞ్జకానాṁ స్వభావః, ప్రదీపాదిష్వ్ అదర్శనాత్, యథావస్థిత-పదార్థ-ప్రతీత్య్-అనుగుణ-స్వాభావ్యాచ్ చ జ్ఞాన-తత్-సాధనయోర్ అనుగ్రాహకస్య చ। తచ్ చ స్వతః ప్రామాణ్య-న్యాయ-సిద్ధమ్। న చ దర్పణాదిర్ ముఖాదేర్ అభివ్యఞ్జకః, అపి తు చాక్షుష-తేజః-ప్రతిఫలన-రూప-దోష-హేతుః। తద్-దోష-కృతశ్ చ తత్రాన్యథావభాసః। అభివ్యఞ్జకస్ త్వాలోకాదిర్ ఏవ। న చేహ తథాహఙ్కారేణ సṁవిది స్వ-ప్రకాశాయాṁ తాదృశ-దోషాపాదనṁ సమ్భవతి। వ్యక్తేస్ తు జాతిర్ ఆకార ఇతి తద్-ఆశ్రయతయా ప్రతీతిర్ న తు వ్యక్తి-వ్యఙ్గ్యత్వాత్।
Link copiedఅతోఽన్తఃకరణ-భూతాహఙ్కార-స్థతయా సṁవిద్-ఉపలబ్ధేర్ వస్తుతో దోషతో వా న కిఞ్చిద్ ఇహ కారణమ్ ఇతి నాహఙ్కారస్య జ్ఞాతృత్వṁ తథోపలబ్ధిర్ వా। తస్మాత్ స్వత ఏవ జ్ఞాతృతయా సిద్ధ్యన్న్ అహమ్-అర్థ ఏవ ప్రత్యగాత్మా, న జ్ఞప్తి-మాత్రమ్ అహమ్-భావ-విగమే తు జ్ఞప్తేర్ అపి న ప్రత్యక్త్వ-సిద్ధిర్ ఇత్య్ ఉక్తమ్॥
Link copied[సుప్తౌ అహమ్-అర్థస్యావిశద-స్ఫురణమ్]
Link copiedతమో-గుణాభిభవాత్ పరాగర్థానుభవాభావాచ్ చాహమ్-అర్థస్య వివిక్త-స్ఫుట-ప్రతిభాసాభావేఽప్య్ ఆప్రబోధాద్ అహమ్ ఇత్య్ ఏకాకారేణాత్మనః స్ఫురణాత్సుషుప్తావ్ అపి నాహమ్-భావ-విగమః। భవద్-అభిమతాయా అనుభూతేర్ అపి తథైవ ప్రథేతి వక్తవ్యమ్।
Link copied[స్వ-పక్షే ప్రమాణానురోధః, పర-పక్షే తద్-అననురోధశ్ చ]
Link copiedన హి సుషుప్తోత్థితః కశ్చిద్ అహమ్-భావ-వియుక్తార్థాన్తర-ప్రత్యనీకాకారా జ్ఞప్తిర్ అహమ్ అజ్ఞాన-సాక్షితయా అవతిష్ఠత ఇత్య్ ఏవṁవిధాṁ స్వాపసమకాలామనుభూతిṁ పరామృశతి। ఏవṁ హి సుప్తోత్థితస్య పరామర్శః, సుఖమ్ అహమ్ అస్వాప్సమ్ ఇతి। అనేన ప్రత్యవమర్శేన తదానీమ్ అప్య్ అహమ్ అర్థస్యైవాత్మనః సుఖిత్వṁ జ్ఞాతృత్వṁ చ జ్ఞాయతే॥
Link copied[ఉక్తే పరామర్శే పరోక్తాయా అన్యాసిద్ధేః పరిహారః]
Link copiedన చ వాచ్యṁ, యథేదానీṁ సుఖṁ భవతి। తథా తదానీమ్ అస్వాప్సమ్ ఇత్య్ ఏషా ప్రతిపత్తిర్ ఇతి, అతద్రూపత్వాత్ ప్రతిపత్తేః। న చాహమర్థస్యాత్మనోఽస్థిరత్వేన తదానీమ్ అహమ్-అర్థస్య సుఖిత్వానుసన్ధానానుపపత్తిః। యతః సుషుప్తి-దశాయాః ప్రాగ్ అనుభూతṁ వస్తు సుప్తోత్థితో మయేదṁ కృతṁ, మయేదమ్ అనుభూతమ్ అహమ్ ఏతద్ అవోచమ్ ఇతి పరామృశతి।
Link copied[అహమ్-అర్థాననుభవ-సాధక-నిషేధ-సామాన్య-విషయ-పరామర్శమాదాయ శఙ్కా-సమాధానే]
Link copiedఏతావన్తṁ కాలṁ న కిఞ్చిద్ అహమ్ అజ్ఞాసిషమ్ ఇతి చ పరామృశతీతి చేత్, తతః కిṁ న కిఞ్చిద్ ఇతి కృత్స్న-ప్రతిషేధ ఇతి చేన్ న, నాహమ్ అవేదిషమ్ ఇతి వేదితుర్ అహమ్-అర్థస్యైవానువృత్తేర్ వేద్య-విషయో హి స ప్రతిషేధః। న కిఞ్చిద్ ఇతి నిషేధస్య కృత్స్న-విషయత్వే భవద్-అభిమతా అనుభూతిర్ అపి ప్రతిషిద్ధా స్యాత్।
Link copied[అనుభూతేర్ న నిషేధః, కిన్తు తద్-అనువృత్తేః, ఇత్య్ ఆశఙ్కా-పరిహారౌ]
Link copiedసుషుప్తి-సమయే త్వ్ అనుసన్ధీయమానమ్ అహమ్-అర్థమ్ ఆత్మనṁ జ్ఞాతారమ్ అహమ్ ఇతి పరామృశ్య న కిఞ్చిద్ అవేదిషమ్ ఇతి వేదనే తస్య ప్రతిషిధ్యమానే తస్మిన్ కాలే నిషిధ్యమానాయా విత్తేః సిద్ధిమ్ అనువర్తమానస్య జ్ఞాతుర్ అహమ్-అర్థస్య చాసిద్ధిమ్ అనేనైవ న కిఞ్చిద్ అహమ్ అవేదిషమ్ ఇతి పరామర్శేన సాధయṁస్ తమ్ ఇమమ్ అర్థṁ దేవానామ్ ఏవ సాధయతు।
Link copied[నిషేధ-విశేష-విషయ-పరామర్శమ్ ఆదాయ శఙ్కా-సమాధానే]
Link copiedమామ్ అప్య్ అహṁ న జ్ఞాతవాన్ ఇత్య్ అహమ్-అర్థస్యాపి తదానీమ్ అననుసన్ధానṁ ప్రతీయత ఇతి చేత్ స్వానుభవ-స్వ-వచనయోర్ విరోధమ్ అపి న జానన్తి భవన్తః। అహṁ మాṁ న జ్ఞాతవాన్ ఇతి హ్య్ అనుభవ-వచనే। మామ్ ఇతి కిṁ నిషిధ్యత ఇతి చేత్ సాధు పృష్టṁ భవతా। తద్ ఉచ్యతే, అహమ్-అర్థస్య జ్ఞాతుర్ అనువృత్తేః న స్వరూపṁ నిషిధ్యతే, అపి తు ప్రబోధ-సమయేఽనుసన్ధీయమానస్యాహమ్-అర్థస్య వర్ణాశ్రమాది-విశిష్టతా।
Link copied[అహṁ మామ్ ఇతి పదయోర్ విశిష్ట-విషయతా]
Link copiedఅహṁ మాṁ న జ్ఞాతవాన్ ఇత్య్ ఉక్తే విషయో వివేచనీయః। జాగరితావస్థానుసṁహిత-జాత్య్-ఆది-విశిష్టోఽస్మద్-అర్థో మామ్ ఇత్య్ అṁశస్య విషయః। స్వాప్యయావస్థా-ప్రసిద్ధావిశద-స్వానుభవైకతానశ్ చ అహమ్-అర్థోఽహమ్ ఇత్య్ అṁశస్య విషయః। అత్ర సుప్తోఽహమ్ ఈదృశోఽహమ్ ఇతి చ మామ్ అపి న జ్ఞాతవాన్ అహమ్ ఇత్య్ ఏవ ఖల్వ్ అనుభవ-ప్రకారః॥
Link copied[ఉక్తాṁశస్య పరమతేన ఉపపాదన్]
Link copiedకిṁ చ, సుషుప్తావ్ ఆత్మాజ్ఞాన-సాక్షిత్వేనాస్త ఇతి హి భవదీయా ప్రక్రియా। సాక్షిత్వṁ చ సాక్షాజ్ జ్ఞాతృత్వమ్ ఏవ। న హ్య్ అజానతః సాక్షిత్త్వమ్। జ్ఞాతైవ హి లోక-వేదయోః సాక్షీతి వ్యపదిశ్యతే, న జ్ఞాన-మాత్రమ్। స్మరతి చ భగవాన్ పాణినిః సాక్షాద్ ద్రష్టరి సṁజ్ఞాయామ్ [అష్టా, ౫।౨।౯౧] ఇతి సాక్షాజ్ జ్ఞాతర్య్ ఏవ సాక్షి-శబ్దమ్। స చాయṁ సాక్షీ జానామీతి ప్రతీయమానోఽస్మద్-అర్థ ఏవేతి కుతస్ తదానీమ్ అహమ్-అర్థో న ప్రతీయేత। ఆత్మనే స్వయమ్ అవభాసమానోఽహమ్ ఇత్య్ ఏవావభాసత ఇతి స్వాపాద్య్-అవస్థాస్వ్ అప్య్ ఆత్మా ప్రకాశమానోఽహమ్ ఇత్య్ ఏవావభాసత ఇతి సిద్ధమ్॥
Link copied[ముక్తావ్ అహమ్-అర్థానువృత్తేర్ అనూద్య దూషణమ్]
Link copiedయత్ తు-- మోక్ష-దశాయామ్ అహమ్-అర్థో నానువర్తతే-- ఇతి తద్ అపేశలమ్। తథా సత్యాత్మనాశ ఏవాపవర్గః ప్రకారాన్తరేణ ప్రతిజ్ఞాతః స్యాత్। న చాహమ్-అర్థో ధర్మ-మాత్రమ్; యేన తద్-విగమేఽప్య్ అవిద్యా-నివృత్తావ్ ఇవ స్వరూపమ్ అవతిష్ఠతే। ప్రత్యుత స్వరూపమ్ ఏవాహమ్-అర్థ ఆత్మనః। జ్ఞానṁ తు తస్య ధర్మోఽహṁ జానామి, జ్ఞానṁ మే జాతమ్ ఇతి చాహమ్-అర్థ-ధర్మతయా జ్ఞాన-ప్రతీతేర్ ఏవ॥
Link copied[శ్రుత్య్-అర్థాపత్త్యా ఉక్తార్థ-సమర్థనమ్]
Link copiedఅపి చ యః పరమార్థతో భ్రాన్త్యా వాధ్యాత్మికాది-దుఃఖైర్ దుఃఖితయా స్వాత్మానమ్ అనుసన్ధత్తే అహṁ దుఃఖీ ఇతి। సర్వమ్ ఏతద్ దుఃఖ-జాతమ్ అపునర్ భవమ్ అపోహ్య కథమ్ అహమ్ అనాకులః స్వస్థో భవేయమ్ ఇత్య్ ఉత్పన్న-మోక్ష-రాగః స ఏవ తత్-సాధనే ప్రవర్తతే। స సాధనానుష్ఠానేన యద్య్ అహమ్ ఏవ న భవిష్యామీత్య్ అవగచ్ఛేత్; అపసర్పేదేవాసౌ మోక్ష-కథా-ప్రస్తావాత్। తతశ్ చాధికారి-విరహాద్ ఏవ సర్వṁ మోక్ష-శాస్త్రమ్ అప్రమాణṁ స్యాత్। అహమ్ ఉపలక్షితṁ ప్రకాశ-మాత్రమ్ అపవర్గేఽవతిష్ఠత ఇతి చేత్ కిమ్ అనేన మయి నష్టేఽపి కిమ్ అపి ప్రకాశ-మాత్రమ్ అపవర్గేఽవతిష్ఠత ఇతి మత్వా న హి కశ్చిత్ బుద్ధి-పూర్వ-కారీ ప్రయతతే। అతోఽహమ్-అర్థస్యైవ జ్ఞాతృతయా సిద్ధ్యతః ప్రత్యగ్-ఆత్మత్వమ్।
Link copied[ఉక్తార్థే అనుమానమ్]
Link copiedస చ ప్రత్యగ్-ఆత్మా ముక్తావ్ అప్య్ అహమ్ ఇత్య్ ఏవ ప్రకాశతే, స్వస్మై ప్రకాశమానత్వాత్, యో యః స్వస్మై ప్రకాశతే స సర్వోఽహమ్ ఇత్య్ ఏవ ప్రకాశతే యథా తథావభాసమానత్వేనోభయవాది-సమ్మతః సṁసార్యాత్మా। యః పునర్ అహమ్ ఇతి న చకాస్తి; నాసౌ స్వస్మై ప్రకాశతే, యథా ఘటాదిః। స్వస్మై ప్రకాశతే చాయṁ ముక్తాత్మా। తస్మాద్ అహమ్ ఇత్య్ ఏవ ప్రకాశతే॥
Link copied[ఉక్తానుమానే హేతోః సాధ్య-విశేష-విరుద్ధత్వాశఙ్కాపరిహారౌ]
Link copiedన చాహమ్ ఇతి ప్రకాశమానత్వేన తస్యాజ్ఞత్వ-సṁసారిత్వాది-ప్రసఙ్గః। మోక్ష-విరోధాద్ అజ్ఞత్వాద్య్-అహేతుత్వాచ్ చాహమ్-ప్రత్యయస్య। అజ్ఞానṁ నామ స్వరూపాజ్ఞానమ్ అన్యథా జ్ఞానṁ విపరీత-జ్ఞానṁ వా। అహమ్ ఇత్య్ ఏవాత్మనః స్వరూపమ్ ఇతి స్వరూప-జ్ఞాన-రూపోఽహమ్-ప్రత్యయో నాజ్ఞత్వమ్ ఆపాదయతి। కుతః సṁసారిత్వమ్ అపి తు త-ద్విరోధిత్వాన్ నాశయత్య్ ఏవ।
Link copied[నివృత్తావిద్యానామ్ అప్య్ అహమ్-ప్రత్యయః]
Link copiedబ్రహ్మాత్మ-భావాపరోక్ష్య-నిర్ధూత-నిరవశేషావిద్యానామ్ అపి వామదేవాదీనామ్ అహమ్ ఇత్య్ ఏవ ఆత్మానుభవ-దర్శనాచ్ చ। శ్రూయతే హి-- తద్ ధైతత్ పశ్యన్న్ ఋషిర్ వామదేవః ప్రతిపేదే అహṁ మనుర్ అభవṁ సూర్యశ్ చ [బృహద్।, ౩।౪।౧౦] ఇతి, అహమ్ ఏకః ప్రథమ-మాసṁ వర్తామి చ భవిష్యామి చ [అథర్వశిరః ౯] ఇత్య్ ఆది।
Link copied[బ్రహ్మణోఽప్య్ అహṁ ప్రత్యయః శ్రుతి-స్మృతిషు]
Link copiedసకలేతరాజ్ఞాన-విరోధినః సచ్-ఛబ్ద-ప్రత్యయ-మాత్ర-భాజః పరస్య బ్రహ్మణో వ్యవహారోఽప్య్ ఏవమ్ ఏవ హన్తాహమ్ ఇమాస్ తిస్రో దేవతాః [ఛాన్।, ౬।౩।౨], బహు స్యాṁ ప్రజాయేయ [తై।, ౨।౬।౨], స ఈక్షత లోకాన్ ను సృజా ఇతి [ఐత। ౧।౧।౧], తథా యస్మాత్ క్షరమ్ అతీతోఽహమ్ అక్షరాద్ అపి చోత్తమః। అతోఽస్మి లోకే వేదే చ ప్రథితః పురుషోత్తమః [భ। గీ।, ౧౫।౧౮], అహమ్ ఆత్మా గుడాకేశ [భ। గీ।, ౧౦।౨౦], న త్వ్ ఏవాహṁ జాతు నాసమ్ [భ। గీ।, ౨।౧౨], అహṁ కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా [భ। గీ।, ౭।౬], అహṁ సర్వస్య ప్రభవో మత్తః సర్వṁ ప్రవర్తతే [భ। గీ।, ౧౦।౮], తేషామ్ అహṁ సముద్ధర్తా మృత్యు-సṁసార-సాగరాత్ [భ। గీ।, ౧౨।౭], అహṁ బీజ-ప్రదః పితా [భ। గీ।, ౧౪।౪], వేదాహṁ సమతీతాని-- [భ। గీ।, ౭।౨౬] ఇత్య్ ఆదిషు॥
Link copied[ఉక్తార్థే గీతోక్తి-విరోధ-శఙ్కా-పరిహారౌ]
Link copiedయద్య్ అహమ్ ఇత్య్ ఏవాత్మనః స్వరూపమ్, కథṁ తర్హ్య్ అహఙ్కారస్య క్షేత్రాన్తర్భావో భగవతోపదిశ్యతే। మహాభూతాన్య్ అహఙ్కారో బుద్ధిర్ అవ్యక్తమ్ ఏవ చ [భ। గీతా, ౧౩।౫] ఇతి। ఉచ్యతే, స్వరూపోపదేశేషు సర్వేష్వ్ అహమ్ ఇత్య్ ఏవోపదేశాత్ తథైవాత్మ-స్వరూప-ప్రతిపత్తేశ్ చాహమ్ ఇత్య్ ఏవ ప్రత్యగ్-ఆత్మనః స్వరూపమ్। అవ్యక్త-పరిణామ-భేదస్య అహఙ్కారస్య క్షేత్రాన్తర్భావో భగవతైవోపదిశ్యతే। స త్వ్ అనాత్మని దేహేఽహమ్-భావ-కరణ-హేతుత్వేన అహఙ్కార ఇత్య్ ఉచ్యతే। అస్య త్వ్ అహఙ్కార-శబ్దస్య అభూత-తద్-భావేఽర్థే చ్వి-ప్రత్యయమ్ ఉత్పాద్య వ్యుత్పత్తిర్ ద్రష్టవ్యా। అయమ్ ఏవ త్వ్ అహఙ్కారః ఉత్కృష్ట-జనావమాన-హేతుర్ గర్వాపర-నామా శాస్త్రేషు బహుశో హేయతయా ప్రతిపాద్యతే। తస్మాద్ బాధకాపేతాహమ్-బుద్ధిః సాక్షాద్ ఆత్మ-గోచరైవ। శరీర-గోచరా త్వ్ అహṁ బుద్ధిర్ అవిద్యైవ। యథోక్తṁ భగవతా పరాశరేణ శ్రూయతాṁ చాప్య్ అవిద్యాయాః స్వరూపṁ కులనన్దన। అనాత్మన్య్ ఆత్మ-బుద్ధిర్ యా [వి। పు।, ౬।౭।౧౦-౧౧]-- ఇతి।
Link copied[అహమ్-అర్థాత్మత్వోపసṁహారః]
Link copiedయది జ్ఞప్తి-మాత్రమ్ ఏవాత్మా, తదానాత్మన్యాత్మాభిమానే శరీరే జ్ఞప్తి-మాత్ర-ప్రతిభాసః స్యాత్, న జ్ఞాతృత్వ-ప్రతిభాసః। తస్మాజ్ జ్ఞాతాహమ్ అర్థ ఏవాత్మా తద్ ఉక్తమ్--
Link copiedఅతః ప్రత్యక్ష-సిద్ధత్వాద్ ఉక్త-న్యాయాగమాన్వయాత్।
Link copiedఅవిద్యా-యోగతశ్ చాత్మా జ్ఞాతాహమ్ ఇతి భాసతే॥ ఇతి॥
Link copiedతథా చ
Link copiedదేహేన్ద్రియమనః ప్రాణధీభ్యోఽన్యోఽనన్య-సాధనః।
Link copiedనిత్యో వ్యాపీ ప్రతిక్షేత్రమ్ ఆత్మా భిన్నః స్వతః సుఖీ॥ [ఆత్మసిద్ధౌ] ఇతి।
Link copiedఅనన్య-సాధనః-- స్వ-ప్రకాశః। వ్యాపీ-- అతిసూక్ష్మతయా సర్వాచేతనాన్తః-ప్రవేశన-స్వభావః॥
Link copied[శాస్త్ర-ప్రత్యక్ష-విరోధే శాస్త్ర-ప్రాబల్యస్యానూద్య-నిరాసః]
Link copiedయద్ ఉక్తమ్-- దోష-మూలత్వేనాన్యథాసిద్ధి-సమ్భావనయా సకల-భేదావలమ్బి-ప్రత్యక్షస్య శాస్త్ర-బాధ్యత్వమ్-- ఇతి॥
Link copiedకోఽయṁ దోష ఇతి వక్తవ్యṁ యన్ మూలతయా ప్రత్యక్షస్యాన్యథాసిద్ధిః। అనాదిభేద-వాసనైవ హి దోష ఇతి చేద్ భేద-వాసనాయాస్తిమిరాదివద్ యథావస్థిత-వస్తు-విపరీత-జ్ఞాన-హేతుత్వṁ కిమ్ అన్యత్ర జ్ఞాత-పూర్వమ్ అనేనైవ శాస్త్ర-విరోధేన జ్ఞాస్యత ఇతి చేన్ న, అన్యోన్యాశ్రయణాత్, శాస్త్రస్య నిరస్త-నిఖిల-విశేష-వస్తు-బోధిత్వ-నిశ్చయే సతి భేద-వాసనాయా దోషత్వ-నిశ్చయః, భేద-వాసనాయా దోషత్వ-నిశ్చయే సతి శాస్త్రస్య నిరస్త-నిఖిల-విశేష-వస్తు-బోధిత్వ-నిశ్చయ ఇతి। కిṁ చ యది భేద-వాసనా-మూలత్వేన ప్రత్యక్షస్య విపరీతార్థత్వమ్, శాస్త్రమ్ అపి తన్-మూలత్వేన తథైవ స్యాత్।
Link copiedఅథోచ్యేత-- దోష-మూలత్వేఽపి శాస్త్రస్య ప్రత్యక్షావగత-సకల-భేద-నిరసన-జ్ఞాన-హేతుత్వేన పరత్వాత్ తత్-ప్రత్యక్షస్య బాధకమ్ ఇతి। తన్ న, దోషమూలత్వే జ్ఞాతే సతి పరత్వమ్ అకిఞ్చిత్కరమ్। రజ్జు-సర్ప-జ్ఞాన-నిమిత్త-భయే సతి భ్రాన్తోఽయమ్ ఇతి పరిజ్ఞాతేన కేనచిన్ నాయṁ సర్పో మా భైషీః ఇత్య్ ఉక్తేఽపి భయానివృత్తి-దర్శనాత్। శాస్త్రస్య చ దోష-మూలత్వṁ శ్రవణ-వేలాయామ్ ఏవ జ్ఞాతమ్। శ్రవణావగత-నిఖిల-భేదోపమర్ది-బ్రహ్మాత్మైకత్వ-విజ్ఞానాభ్యాస-రూపత్వాన్ మననాదేః॥
Link copiedఅపి చ, ఇదṁ శాస్త్రమ్ ఏతచ్ చాసమ్భావ్యమాన-దోషమ్, ప్రత్యక్షṁ తు సమ్భావ్యమాన-దోషమ్ ఇతి కేనావగతṁ త్వయా న తావత్ స్వతః సిద్ధా నిర్ధూత-నిఖిల-విశేషానుభూతిర్ ఇమమ్ అర్థమ్ అవగమయతి, తస్యాః సర్వ-విషయ-విరక్తత్వాత్, శాస్త్ర-పక్షపాత-విరహాచ్ చ। నాప్య్ ఐన్ద్రియకṁ ప్రత్యక్షమ్, దోష-మూలత్వేన విపరీతార్థత్వాత్। తన్-మూలత్వాద్ ఏవ నాన్యాన్య్ అపి ప్రమాణాని। అతః స్వ-పక్ష-సాధన-ప్రమాణానభ్యుపగమాన్ న స్వాభిమతార్థ-సిద్ధిః॥
Link copiedనను వ్యావహారిక-ప్రమాణ-ప్రమేయ-వ్యవహారోఽస్మాకమ్ అప్య్ అస్త్యేవ, కోఽయṁ వ్యావహారికో నామ ఆపాత-ప్రతీతి-సిద్ధో యుక్తిభిర్ నిరూపితో న తథావస్థిత ఇతి చేత్, కిṁ తేన ప్రయోజనṁ ప్రమాణతయా ప్రతిపన్నేఽపి యౌక్తిక-బాధాద్ ఏవ ప్రమాణ-కార్యాభావాత్। అథోచ్యేత-- శాస్త్ర-ప్రత్యక్షయోర్ ద్వయోర్ అప్య్ అవిద్యా-మూలత్వేఽపి ప్రత్యక్షవిషయస్య శాస్త్రేణ బాధో దృశ్యతే; శాస్త్రవిషయస్య సదద్వితీయబ్రహ్మణః పశ్చాత్తన-బాధాదర్శనేన నిర్విశేషానుభూతి-మాత్రṁ బ్రహ్మైవ పరమార్థః-- ఇతి తద్ అయుక్తమ్, అబాధితస్యాపి దోష-మూలస్యాపారమార్థ్య-నిశ్చయాత్।
Link copiedఏతద్ ఉక్తṁ భవతి-- యథా సకలేతర-కాచాది-దోష-రహిత-పురుషాన్తరాగోచర-గిరి-గుహాసు వసతస్ తైమిరిక-జనస్య అజ్ఞాత-స్వ-తిమిరస్య సర్వస్య తిమిర-దోషావిశేషేణ ద్వి-చన్ద్ర-జ్ఞానమ్ అవిశిష్టṁ జాయతే। న తత్ర బాధక-ప్రత్యయోఽస్తీతి న తన్ మిథ్యా న భవతీతి తద్-విషయ-భూతṁ ద్వి-చన్ద్రత్వమ్ అపి మిథ్యైవ। దోషో హ్య్ అయథార్థ-జ్ఞాన-హేతుః। తథా బ్రహ్మ-జ్ఞానమ్ అవిద్యా-మూలత్వేన బాధక-జ్ఞాన-రహితమ్ అపి స్వ-విషయేణ బ్రహ్మణా సహ మిథ్యైవ-- ఇతి।
Link copied[శాస్త్రస్యావిద్యా-మూలత్వాభ్యుపగమే దోష-ప్రసఞ్జనమ్]
Link copiedభవన్తి చాత్ర ప్రయోగాః, వివాదాధ్యాసితṁ బ్రహ్మ మిథ్యా, అవిద్యావత ఉత్పన్న-జ్ఞాన-విషయత్వాత్, ప్రపఞ్చవత్। బ్రహ్మ మిథ్యా, జ్ఞాన-విషయత్వాత్, ప్రపఞ్చవత్। బ్రహ్మ మిథ్యా, అసత్య-హేతు-జన్య-జ్ఞాన-విషయత్వాత్, ప్రపఞ్చవద్ ఏవ।
Link copied[అసత్యాత్ సత్య-ప్రతిపత్తి-నిదర్శనైః ప్రత్యక్షాత్ శాస్త్ర-ప్రాబల్యోక్తేః దూషణమ్]
Link copiedన చ వాచ్యṁ స్వాప్నస్య హస్త్యాది-విజ్ఞానస్యాసత్యస్య పరమార్థ-శుభాశుభ-ప్రతిపత్తి-హేతు-భావవద్ అవిద్యా-మూలత్వేనాసత్యస్యాపి శాస్త్రస్య పరమార్థ-భూత-బ్రహ్మ-విషయ-ప్రతిపత్తి-హేతు-భావో న విరుద్ధః-- ఇతి, స్వాప్న-జ్ఞానస్యాసత్యత్వాభావాత్। తత్ర హి విషయాణామ్ ఏవ మిథ్యాత్వమ్; తేషామ్ ఏవ హి బాధో దృశ్యతే; న జ్ఞానస్య, న హి మయా స్వప్న-వేలాయామ్ అనుభూతṁ జ్ఞానమ్ అపి న విద్యత ఇతి కస్యచిద్ అపి ప్రత్యయో జాయతే। దర్శనṁ తు విద్యతే, అర్థా న సన్తీతి హి బాధక-ప్రత్యయః। మాయావినో మన్త్రౌషధాది-ప్రభవṁ మాయా-మయṁ జ్ఞానṁ సత్యమ్ ఏవ ప్రీతేర్ భయస్య చ హేతుస్ తత్రాపి జ్ఞానస్యాబాధితత్వాత్। విషయేన్ద్రియాది-దోష-జన్యṁ రజ్జ్వ్-ఆదౌ సర్పాది-విజ్ఞానṁ సత్యమ్ ఏవ, భయాది-హేతుః। సత్యైవాదష్టేఽపి స్వాత్మని సర్ప-సన్నిధానాద్ దష్ట-బుద్ధిః, సత్యైవ శఙ్కా-విష-బుద్ధిర్ మరణ-హేతు-భూతా। వస్తు-భూత ఏవ జలాదౌ ముఖాది-ప్రతిభాసో వస్తు-భూత-ముఖ-గత-విశేష-నిశ్చయ హేతుః। ఏషాṁ సṁవేదనానామ్ ఉత్పత్తిమత్త్వాద్ అర్థ-క్రియా-కారిత్వాచ్ చ సత్యత్వమ్ అవసీయతే।
Link copied[జ్ఞాన-సత్యత్వṁ విషయ-సత్యతావ్యాప్తమ్ ఇతి, తన్-నివృత్త్యా తన్-నివృత్తిర్ ఇతి శఙ్కా, తత్-పరిహారశ్ చ]
Link copiedహస్త్య్-ఆదీనామ్ అభావేఽపి కథṁ తద్-బుద్ధయః సత్యా భవన్తీతి చేత్న్ నైతత్, బుద్ధీనాṁ సాలమ్బనత్వ-మాత్ర-నియమాత్।
Link copiedఅర్థస్య ప్రతిభాసమానత్వమ్ ఏవ హ్య్ ఆలమ్బనత్వేఽపేక్షితమ్; ప్రతిభాసమానతా చాస్త్య్ ఏవ దోష-వశాత్। స తు బాధితోఽసత్య ఇత్య్ అవసీయతే। అబాధితా హి బుద్ధిః సత్యైవేత్య్ ఉక్తమ్॥
Link copiedరేఖయా వర్ణ-ప్రతిపత్తావ్ అపి నాసత్యాత్ సత్య-బుద్ధిర్ రేఖాయాః సత్యత్వాత్॥
Link copied[అసత్యాత్ సత్య-బుద్ధేర్ ఆపాద్య-నిరాసః]
Link copiedనను వర్ణాత్మనా ప్రతిపన్నా రేఖా వర్ణ-బుద్ధి-హేతుః। వర్ణాత్మతా త్వ్ అసత్యా। నైవమ్, వర్ణాత్మతాయా అసత్యాయా ఉపాయత్వాయోగాత్। అసతో నిరుపాఖ్యస్య హ్య్ ఉపాయత్వṁ న దృష్టమ్ అనుపపన్నṁ చ। అథ తస్యాṁ వర్ణ-బుద్ధేర్ ఉపాయత్వమ్। ఏవṁ తర్హ్య్ అసత్యాత్ సత్య-బుద్ధిర్ న స్యాద్ బుద్ధేః సత్యత్వాద్ ఏవ। ఉపాయోపేయయోర్ ఏకత్వ-ప్రసక్తేశ్ చ, ఉభయోర్ వర్ణ-బుద్ధిత్వావిశేషాత్। రేఖాయా అవిద్యమాన-వర్ణాత్మనోపాయత్వే చైకస్యామ్ ఏవ రేఖాయామ్ అవిద్యమాన-సర్వ-వర్ణాత్మకత్వస్య సులభత్వాద్ ఏక-రేఖా-దర్శనాత్ సర్వ-వర్ణ-ప్రతిపత్తిః స్యాత్। అథ పిణ్డ-విశేషే దేవదత్తాది-శబ్ద-సఙ్కేతవచ్ చక్షుర్-గ్రాహ్య-రేఖావిశేషే శ్రోత్ర-గ్రాహ్య-వర్ణ-విశేష-సఙ్కేత-వశాద్ రేఖా-విశేషో వర్ణ-విశేష-బుద్ధి-హేతుర్ ఇతి। హన్త తర్హి సత్యాద్ ఏవ సత్య-ప్రతిపత్తిః, రేఖాయాః సఙ్కేతస్య చ సత్యత్వాత్, రేఖా-గవయాద్ అపి సత్య-గవయ-బుద్ధిః సాదృశ్య-నిబన్ధనా, సాదృశ్యṁ చ సత్యమ్ ఏవ॥
Link copied[స్ఫోటవాదావలమ్బ్య్ ఉదాహరణమ్ ఆదాయ శఙ్కా-పరిహారౌ]
Link copiedన చైక-రూపస్య శబ్దస్య నాదవిశేషేణార్థ-భేద-బుద్ధి-హేతుత్వేఽప్య్ అసత్యాత్ సత్య-ప్రతిపత్తిః, నానా-నాదాభివ్యక్తస్యైకస్యైవ శబ్దస్య తత్-తన్-నాదాభివ్యఙ్గ్య-స్వరూపేణార్థ-విశేషైః సహ సమ్బన్ధ-గ్రహణ-వశాద్ అర్థ-భేద-బుద్ధ్య్-ఉత్పత్తి-హేతుత్వాత్। శబ్దస్యైక-రూపత్వమ్ అపి న సాధీయః, గకారాదేర్ బోధకస్యైవ శ్రోత్ర-గ్రాహ్యత్వేన శబ్దత్వాత్। అతోఽసత్యాచ్ ఛాస్త్రాత్ సత్య-బ్రహ్మ-విషయ-ప్రతిపత్తిర్ దురుపపాదా॥
Link copied[శాస్త్రేష్వ్ అసత్యతా నాత్యన్తాసత్యత్వ-రూపా, కిన్తు విలక్షణా ఇత్య్ ఆశఙ్కా-పరిహారౌ]
Link copiedనను న శాస్త్రస్య గగన-కుసుమవద్ అసత్యత్వమ్; ప్రాగ్ అద్వైత-జ్ఞానాత్ సద్-బుద్ధి-బోధ్యత్వాత్। ఉత్పన్నే తత్త్వ-జ్ఞానే హ్య్ అసత్యత్వṁ శాస్త్రస్య। న తదా శాస్త్రṁ నిరస్త-నిఖిల-భేద-చిన్-మాత్ర-బ్రహ్మ-జ్ఞానోపాయః। యదోపాయస్ తదా అస్త్య్ ఏవ శాస్త్రమ్, అస్తీతి బుద్ధేః। నైవమ్ అసతి శాస్త్రే, అస్తి శాస్త్రమ్ ఇతి బుద్ధేర్ మిథ్యాత్వాత్। తతః కిమ్ ఇదṁ తతఓ మిథ్యాభూత-శాస్త్ర-జన్య-జ్ఞానస్య మిథ్యాత్వేన తద్-విషయస్యాపి బ్రహ్మణో మిథ్యాత్వమ్; యథా ధూమ-బుద్ధ్యా గృహీత-బాష్ప-జన్యాగ్ని-జ్ఞానస్య మిథ్యాత్వేన తద్-విషయస్యాగ్నేర్ అపి మిథ్యాత్వమ్। పశ్చాత్తన-బాధాదర్శనṁ చాసిద్ధమ్। శూన్యమ్ ఏవ తత్త్వమ్ ఇతి వాక్యేన తస్యాపి బాధ-దర్శనాత్। తత్ తు భ్రాన్తి-మూలమ్ ఇతి చేద్ ఏతద్ అపి భ్రాన్తి-మూలమ్ ఇతి త్వయైవోక్తమ్। పాశ్చత్త్య-బాధాదర్శనṁ తు తస్యైవేత్య్ అలమ్ అప్రతిష్ఠిత-కుతర్క-పరిహసనేన॥
Link copiedశ్రుతి-ఘట్టః
Link copied[నిర్విశేష-పరతయా పరాభిమతానాṁ శ్రుతీనామ్ అపి స్వరసతయా సవిశేష-పరతాప్రతిపాదనమ్]
Link copiedయద్ ఉక్తṁ వేదాన్త-వాక్యాని నిర్విశేష-జ్ఞానైకరస-వస్తు-మాత్ర-ప్రతిపాదన-పరాణి, సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీత్ ఇత్య్ ఏవమ్ ఆదీని-- ఇతి తద్ అయుక్తమ్, ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞోపపాదన-ముఖేన సచ్-ఛబ్ద-వాచ్యస్య పరస్య బ్రహ్మణో జగద్-ఉపాదానత్వమ్, జగిన్-నిమత్తత్వమ్, సర్వజ్ఞతా, సర్వ-శక్తి-యోగః, సత్య-సఙ్కల్పత్వమ్, సర్వాన్తరత్వమ్, సర్వాధారత్వమ్, సర్వ-నియమనమ్ ఇత్య్ ఆద్య్ అనేక-కల్యాణ-గుణ-విశిష్టతామ్, కృత్స్నస్య జగతస్ తద్-ఆత్మకతాṁ చ ప్రతిపాద్య, ఏవమ్భూత-బ్రహ్మాత్మకస్ త్వమ్ అసీతి శ్వేతకేతుṁ ప్రత్యుపదేశాయ ప్రవృత్తత్వాత్ ప్రకరణస్య। ప్రపఞ్చితశ్ చాయమ్ అర్థో వేదార్థసఙ్గ్రహే। అత్రాప్య్ ఆరమ్భణాధికరణే నిపుణతరమ్ ఉపపాదియష్యతే॥
Link copied[పర-విద్యాయాః సవిశేషత్వ-వ్యవస్థాపనమ్]
Link copiedఅథ పరా యయా తద్ అక్షరమ్ [ముణ్డ్।, ౧।౧।౫] ఇత్య్ అత్రాపి ప్రాకృతాన్ హేయ-గుణాన్ ప్రతిషిధ్య నిత్యత్వ-విభుత్వ-సూక్ష్మత్వ-సర్వ-గతత్వావ్యయత్వ-భూత-యోనిత్వ-సార్వజ్ఞ్యాది-కల్యాణ-గుణ-యోగౌ పరస్య బ్రహ్మణః ప్రతిపాదితః॥
Link copied[శోధక-వాక్యాన్తర్గత-సత్యాది-వాక్యానాṁ సవిశేష-పరతా]
Link copiedసత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ [తై।, ౨।౧।౧] ఇత్య్ అత్రాపి సామానాధికరణ్యస్యానేక-విశేషణ-విశష్టైకార్థాభిధాన-వ్యుత్పత్త్యా న నిర్విశేష-వస్తు-సిద్ధిః। ప్రవృత్తి-నిమిత్త-భేదేనైకార్థ-వృత్తిత్వṁ హి సామానాధికరణ్యమ్। తత్ర సత్య-జ్ఞానాది-పద-ముఖ్యార్థైర్ గుణైస్ తత్-తద్-గుణ-విరోధ్యాకార-ప్రత్యనీకాకారైర్ వా ఏకస్మిన్న్ ఏవార్థే పదానాṁ ప్రవృత్తౌ నిమిత్త-భేదోఽవశ్యాశ్రయణీయః। ఇయాṁస్ తు విశేషః-- ఏకస్మిన్ పక్షే పదానాṁ ముఖ్యార్థతా; అపరస్మిṁశ్ చ తేషాṁ లక్షణా। న చాజ్ఞానాదీనాṁ ప్రత్యనీకతా వస్తు-స్వరూపమ్ ఏవ, ఏకేనైవ పదేన స్వరూపṁ ప్రతిపన్నమ్ ఇతి పదాన్తర-ప్రయోగ-వైయర్థ్యాత్। తథా సతి సామానాధికరణ్యాసిద్ధిశ్ చ, ఏకస్మిన్ వస్తుని వర్తమానానాṁ పదానాṁ నిమిత్త-భేదానాశ్రయణాత్। న చైకస్యైవార్థస్య విశేషణ-భేదేన విశిష్టతాభేదాద్ అనేకార్థత్వṁ పదానాṁ సామానాధికరణ్య-విరోధి; ఏకస్యైవ వస్తునోఽనేక-విశేషణ-విశిష్టతా-ప్రతిపాదన-పరత్వాత్ సామానాధికరణ్యస్య, భిన్న-ప్రవృత్తి-నిమిత్తానాṁ శబ్దానామ్ ఏకస్మిన్న్ అర్థే వృత్తిః సామానాధికరణ్యమ్ ఇతి హి శాబ్దికాః।
Link copied[కారణ-వాక్యైకార్థ్యాత్ శ్రుతీనాṁ నిర్విశేష-పరతాయా అనూద్య నిరాసః]
Link copiedయద్ ఉక్తమ్, ఏకమ్ ఏవాద్వితీయమ్ ఇత్య్ అత్రాద్వితీయ-పదṁ గుణతోఽపి, సద్వితీయతాṁ న సహతే। అతః సర్వ-శాఖా-ప్రత్యయ-న్యాయేన కారణ-వాక్యానామ్ అద్వితీయ-వస్తు-ప్రతిపాదన-పరత్వమ్ అభ్యుపగమనీయమ్; కారణతయోపలిక్షతస్యాద్వితీయస్య బ్రహ్మణో లక్షణమ్ ఇదమ్ ఉచ్యతే సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ ఇతి। అతో లిలక్షయిషితṁ బ్రహ్మ నిర్గుణమ్ ఏవ। అన్యథా నిర్గుణమ్ [మన్త్రికోపనిషత్] నిరఞ్జనమ్ [శ్వే।, ౬।౧౯] ఇత్య్ ఆదిభిర్ విరోధశ్ చ-- ఇతి తద్ అనుపపన్నమ్। జగద్-ఉపాదానస్య బ్రహ్మణః స్వ-వ్యతిరిక్తాధిష్ఠాత్రన్తర-నివారణేన విచిత్ర-శక్తి-యోగ-ప్రతిపాదన-పరత్వాద్ అద్వితీయ-పదస్య। తథైవ విచిత్ర-శక్తి-యోగమ్ ఏవావగమయతి-- తద్ ఐక్షత బహుస్యాṁ ప్రజాయేయేతి తత్ తేజోఽసృజత [ఛాన్।, ౬।౨।౩] ఇత్య్ ఆది। అవిశేషేణాద్వితీయమ్ ఇత్య్ ఉక్తే నిమిత్తాన్తర-మాత్ర-నిషేధః కథṁ జ్ఞాయత ఇతి చేత్, సిసృక్షోర్ బ్రహ్మణ ఉపాదాన-కారణత్వṁ సదేవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవ ఇతి ప్రతిపాదితమ్। కార్యోత్పత్తి-స్వాభావ్యేన బుద్ధి-స్థṁ నిమిత్తాన్తరమ్ ఇతి తద్ ఏవాద్వితీయ-పదేన నిషిద్ధ్యత ఇత్య్ అవగమ్యతే। సర్వ-నిషేధే హి స్వాభ్యుపగతాః సిషాధాయిషితా నిత్యత్వాదయశ్ చ నిషిద్ధాః స్యుః॥
Link copied[సర్వ-శాఖా-ప్రత్యయ-న్యాయస్య నిర్విశేష-వాద-విపరీతత్వమ్]
Link copiedసర్వ-శాఖా-ప్రత్యయన్యాయశ్ చాత్ర భవతో విపరీత-ఫలః, సర్వ-శాఖాసు కారణాన్వయినా సర్వజ్ఞత్వాదీనాṁ గుణానామ్ అత్రోపసṁహార-హేతుత్వాత్। అతః కారణ-వాక్య-స్వభావాద్ అపి సత్యṁ జ్ఞానమ్ అనన్తṁ బ్రహ్మ ఇత్య్ అనేన సవిశేషమ్ ఏవ ప్రతిపాద్యత ఇతి విజ్ఞాయతే॥
Link copied[శోధక-వాక్యాన్తరైకార్థ్యస్య నిర్విశేష-పరత్వ-జ్ఞాపకతా-నిరాసః]
Link copiedన చ నిర్గుణ-వాక్య-విరోధః, ప్రాకృత-హేయ-గుణ-విషయత్వాత్ తేషాṁ నిర్గుణṁ, నిరఞ్జనṁ, నిష్కలṁ, నిష్క్రియṁ, శాన్తమ్ ఇత్య్ ఆదీనామ్। జ్ఞాన-మాత్ర-స్వరూప-వాదిన్యోఽపి శ్రుతయో బ్రహ్మణో జ్ఞాన-స్వరూపతామ్ అభిదధతి; న తావతా నిర్విశేష-జ్ఞాన-మాత్రమ్ ఏవ తత్త్వమ్, జ్ఞాతుర్ ఏవ జ్ఞాన-స్వరూపత్వాత్। జ్ఞాన-స్వరూపస్యైవ తస్య జ్ఞానాశ్రయత్వṁ మణి-ద్యుమణి-దీపాదివద్ యుక్తమ్ ఏవేత్య్ ఉక్తమ్। జ్ఞాతృత్వమ్ ఏవ హి సర్వాః శ్రుతయో వదన్తి యః సర్వజ్ఞః సర్వవిత్ [ముణ్డ్।, ౧।౧।౯] తద్ ఐక్షత సేయṁ దేవతైక్షత [ఛాన్।, ౬।౩।౨], స ఈక్షత లోకాన్ ను సృజా ఇతి [ఐ।, ౧।౧।౧], నిత్యో నిత్యానాṁ చేతనశ్ చేతనానామ్ ఏకో బహూనాṁ యో విదధాతి కామాన్ [కఠ।, ౨।౫।౧౩], జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశానీశౌ [శ్వే।, ౧।౯], తమ్ ఈశ్వరాణాṁ పరమṁ మహేశ్వరṁ తṁ దేవతానాṁ పరమṁ చ దైవతమ్। పతిṁ పతీనాṁ పరమṁ పరస్తాద్ విదామ దేవṁ భువనేశమ్ ఈడ్యమ్ [శ్వే।, ౬।౭], న తస్య కార్యṁ కరణṁ చ విద్యతే న తత్-సమశ్ చాభ్యిధకశ్ చ దృశ్యతే। పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ [శ్వే।, ౬।౮], ఏష ఆత్మాపహత-పాప్మా విజరో విమృత్యుర్ విశోకో విజిఘత్సోఽపిపాసః సత్య-కామః సత్య-సఙ్కల్పః-- [ఛాన్।, ౮।౧।౫]-- ఇత్య్ ఆద్యాః శ్రుతయో జ్ఞాతృత్వ-ప్రముఖాన్ కల్యాణ-గుణాన్ జ్ఞాన-స్వరూపస్యైవ బ్రహ్మణః స్వాభావికాన్ వదన్తి, సమస్త-హేయ-రహితతాṁ చ॥
Link copied[శ్రుత్యైవ సగుణ-నిర్గుణ-వాక్యయోర్ విషయ-విభాగ-సిద్ధిః]
Link copiedనిర్గుణ-వాక్యానాṁ సగుణ-వాక్యానాṁ చ విషయమ్ అపహత-పాప్మా ఇత్య్ ఆద్య్ అపిపాస ఇత్య్ అన్తేన హేయ-గుణాన్ ప్రతిషిద్ధ్య సత్య-కామః సత్య-సఙ్కల్పః ఇతి బ్రహ్మణః కల్యాణ-గుణాన్ విదధతీయṁ శ్రుతిర్ ఏవ వివినక్తీతి సగుణ-నిర్గుణ-వాక్యయోర్ విరోధాభావాద్ అన్యతరస్య మిథ్యా-విషయతాశ్రయణమ్ అపి నాశఙ్కనీయమ్॥
Link copied[శ్రుత్యా బ్రహ్మణి వాఙ్-మనో-నివృత్తి-జ్ఞాపనాత్ నిర్విశేష-సిద్ధిర్ ఇత్య్ అస్య నిరాసః]
Link copiedభీషాస్మాద్ వాతః పవతే [తై।, ౨।౮।౧] ఇత్య్ ఆదినా బ్రహ్మ-గుణాన్ ఆరభ్య తే యే శతమ్ [తై।, ౨।౮।౧] ఇత్య్ అనుక్రమేణ క్షేత్ర-జ్ఞానన్దాతిశయమ్ ఉక్త్వా యతో వాచో నివర్తన్తే। అప్రాప్య మనసా సహ। ఆనన్దṁ బ్రహ్మణో విద్వాన్ [తై।, ౨।౯।౧] ఇతి బ్రహ్మణః కల్యాణగుణానన్త్యమత్యాదరేణ వదతీయṁ శ్రుతిః॥
Link copied[స్వవాక్యైకదేశేనాపి బ్రహ్మణః సవిశేషతా]
Link copiedసోఽశ్నుతే సర్వాన్ కామాన్ సహ బ్రహ్మణా విపిశ్చతా [తై।, ౨।౧।౨] ఇతి బ్రహ్మ-వేదన-ఫలమ్ అవగమయద్ వాక్యṁ పరస్య విపిశ్చతో బ్రహ్మణో గుణానన్త్యṁ బ్రవీతి। విపశ్చితా బ్రహ్మణా సహ సర్వాన్ కామాన్ సమశ్నుతే। కామ్యన్త ఇతి కామాః-- కల్యాణ-గుణాః। బ్రహ్మణా సహ తద్-గుణాన్ సర్వాన్ అశ్నుత ఇత్య్ అర్థః। దహర-విద్యాయాṁ తస్మిన్ యద్-అన్తస్ తద్-అన్వేష్టవ్యమ్ [ఛాన్।, ౮।౧।౧] ఇతివద్ గుణ-ప్రాధాన్యṁ వక్తుṁ సహశబ్దః। ఫలోపాసనయోః ప్రకారైక్యṁ యథాక్రతుర్ అస్మిన్ లోకే పురుషో భవతి తథేతః ప్రేత్య భవతి [ఛాన్।, ౩।౧౪।౧] ఇతి శ్రుత్యైవ సిద్ధమ్॥
Link copied[జ్ఞేయత్వ-నిషేధ-పర-శ్రుత్యా నిర్విశేషతా-సిద్ధిర్ ఇత్య్ అస్య నిరాసః]
Link copiedయస్యామతṁ తస్య మతమ్ అవిజ్ఞాతṁ విజానతామ్ [కేన। ౨।౩] ఇతి బ్రహ్మణో జ్ఞానావిషయత్వమ్ ఉక్తṁ చేద్ బ్రహ్మవిద్ ఆప్నోతి పరమ్ [తై।, ౧।౧] బ్రహ్మ వేద బ్రహ్మైవ భవతి [ముణ్డ్।, ౩।౨।౯] ఇతి జ్ఞానాన్ మోక్షోపదేశో న స్యాత్। అసన్న్ ఏవ స భవతి, అసద్ బ్రహ్మేతి వేద చేద్ అస్తి బ్రహ్మేతి చేద్ వేద, సన్తమ్ ఏనṁ తతో విదుః [తై।, ౨।౬।౧౧] ఇతి బ్రహ్మ-విషయ-జ్ఞానాసద్భావ-సద్భావాభ్యాత్మ-నాశమ్ ఆత్మ-సత్తాṁ చ వదతి। అతో బ్రహ్మ-విషయ-వేదనమ్ ఏవాపవర్గోపాయṁ సర్వాః శ్రుతయో విదధతి॥
Link copied[ఉపాసనాత్మక-జ్ఞానావిషయత్వ-పక్ష-దూషణమ్]
Link copiedజ్ఞానṁ చోపాసనాత్మకమ్। ఉపాస్యṁ చ బ్రహ్మ సగుణమ్ ఇత్య్ ఉక్తమ్।
Link copiedయతో వాచో నివర్తన్తే। అప్రాప్య మనసా సహ [తై।, ౨।౯।౧] ఇతి బ్రహ్మణోఽనన్తస్య అపరిచ్ఛిన్న-గుణస్య వాఙ్-మనసయోర్ ఏతావద్ ఇతి పరిచ్ఛేదాయోగ్యత్వ-శ్రవణేన బ్రహ్మైతావద్ ఇతి బ్రహ్మ-పరిచ్ఛేద-జ్ఞానవతాṁ బ్రహ్మావిజ్ఞాత-మమతమ్ ఇత్య్ ఉక్తమ్, అపరిచ్ఛిన్నత్వాద్ బ్రహ్మణః। అన్యథా యస్యామతṁ తస్య మతమ్, విజ్ఞాతమ్ అవిజానతామ్ ఇతి మతత్వ-విజ్ఞాతత్వ-వచనṁ తత్రైవ విరుధ్యతే॥
Link copied[జ్ఞాతృత్వ-నిషేధ-శఙ్కా-పరిహారః]
Link copiedయత్ తు-- న దృష్టేర్ ద్రష్టారṁ-- న మతేర్ మన్తారమ్ [బృహద్।, ౫।౪] ఇతి శ్రుతిర్ దృష్టేర్ మతేర్ వ్యతిరిక్తṁ ద్రష్టారṁ మన్తారṁ చ ప్రతిషేధతి-- ఇతి; తదాగన్తుక-చైతన్య-గుణ-యోగితయా జ్ఞాతుర్ అజ్ఞాన-స్వరూపతాṁ కుతర్క-సిద్ధాṁ మత్వా న తథాత్మానṁ పశ్యేః, న మన్వీథాః; అపి తు ద్రష్టారṁ మన్తారమ్ అప్య్ ఆత్మానṁ దృష్టి-మతి-రూపమ్ ఏవ పశ్యేర్ ఇత్య్ అభిదధాతీతి పరిహృతమ్। అథవా దృష్టేర్ ద్రష్టారṁ మతేర్ మన్తారṁ జీవాత్మానṁ ప్రతిషిధ్య సర్వ-భూతాన్తరాత్మానṁ పరమాత్మానమ్ ఏవోపాస్వేతి వాక్యార్థః; అన్యథా విజ్ఞాతారమ్ అరే కేన విజానీయాత్ [బృహద్।, ౪।౪।౧౪] ఇత్య్ ఆదిజ్ ఞాతృత్వ-శ్రుతి-విరోధశ్ చ॥
Link copiedఆనన్దత్వానన్దిత్వయోర్ అవిరోధత్వ-భేద-తన్-నిషేధ-శ్రుతీనామ్ అవిరోధత్వ-సమర్థనమ్
Link copied[ఆర్థ-గుణ-నిషేధాన్తర-పరిహారః]
Link copiedఆనన్దో బ్రహ్మ [తై।, ౩।౬।౧] ఇత్య్ ఆనన్దమాత్రమేవ బ్రహ్మ-స్వరూపṁ ప్రతీయత ఇతి యద్ ఉక్తమ్-- తజ్-జ్ఞానాశ్రయస్య బ్రహ్మణో జ్ఞానṁ స్వరూపమ్ ఇతి వదతీతి పరిహృతమ్। జ్ఞానమ్ ఏవ హ్య్ అనుకూలమ్ ఆనన్ద ఇత్య్ ఉచ్యతే। విజ్ఞానమ్ ఆనన్దṁ బ్రహ్మ [బృహద్।, ౫।౯।౨౮] ఇత్య్ ఆనన్ద-రూపమ్ ఏవ జ్ఞానṁ బ్రహ్మేత్య్ అర్థః। అత ఏవ భవతామ్ ఏకరసతా। అస్య జ్ఞాన-స్వరూపస్యైవ జ్ఞాతృత్వమ్ అపి శ్రుతి-శత-సమధిగతమ్ ఇత్య్ ఉక్తమ్। తద్వద్ ఏవ స ఏకో బ్రహ్మణ ఆనన్దః [తై।, ౨।౮।౪], ఆనన్దṁ బ్రహ్మణో విద్వాన్ [తై।, ౨।౯।౧] ఇతి వ్యతిరేక-నిర్దేశాచ్ చ నానన్ద-మాత్రṁ బ్రహ్మ, అపి త్వ్ ఆనన్ది। జ్ఞాతృత్వమ్ ఏవ హ్య్ ఆనన్దిత్వమ్॥
Link copied[భేద-నిషేధ-పరతయా శఙ్కితానాṁ శ్రుతీనాṁ సమీచీనా యోజనా]
Link copiedయద్ ఇదమ్ ఉక్తṁ యత్ర హి ద్వైతమ్ ఇవ భవతి [బృహద్।, ౪।౪।౧౪], నేహ నానాస్తి కిఞ్చన [బృహద్।, ౬।౪।౧౯], మృత్యోః స మృత్యుమ్ ఆప్నోతి య ఇహ నానేవ పశ్యతి, యత్ర త్వ్ అస్య సర్వమ్ ఆత్మైవాభూత్ తత్ కేన కṁ పశ్యేత్ [బృహద్।, ౪।౪।౧౪] ఇతి భేద-నిషేధో బహుధా దృశ్యత ఇతి, తత్ కృత్స్నస్య జగతో బ్రహ్మ-కార్యతయా తద్-అన్తర్యామికతయా చ తద్-ఆత్మకత్వేనైక్యాత్, తత్-ప్రత్యనీక-నానాత్వṁ ప్రతిషిద్ధ్యతే। న పునర్ బహు స్యాṁ ప్రజాయేయ ఇతి బహు-భవన-సఙ్కల్ప-పూర్వకṁ బ్రహ్మణో నానాత్వṁ శ్రుతి-సిద్ధṁ ప్రతిషిధ్యత ఇతి పరిహృతమ్। నానాత్వ-నిషేధాది-యమ-పరమార్థ-విషయేతి చేన్ న, ప్రత్యక్షాది-సకల-ప్రమాణానవగతṁ నానాత్వṁ దురారోహṁ బ్రహ్మణః ప్రతిపాద్య తద్ ఏవ బాధ్యత ఇత్య్ ఉపహాస్యమ్ ఇదమ్॥
Link copiedయదా హ్య్ ఏవైష ఏతస్మిన్న్ ఉదరమ్ అన్తరṁ కురుతే అథ తస్య భయṁ భవతి [తై।, ౨।౭।౨], ఇతి బ్రహ్మణి నానాత్వṁ పశ్యతో భయ-ప్రాప్తిర్ ఇతి యద్ ఉక్తమ్; తద్ అసత్ సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మ తజ్ జలాన్ ఇతి శాన్త ఉపాసీత [ఛాన్।, ౩।౧౪।౧] ఇతి తన్-నానాత్వానుసన్ధానస్య శాన్తి-హేతుత్వోపదేశాత్। తథా హి సర్వస్య జగతస్ తద్-ఉత్పత్తి-స్థితి-లయ-కర్మతయా తద్-ఆత్మకత్వానుసన్ధానేనాత్ర శాన్తిర్ విధీయతే। అతో యథావస్థిత-దేవ-తిర్యఙ్-మనుష్య-స్థావరాది-భేద-భిన్నṁ జగద్ బ్రహ్మాత్మకమ్ ఇత్య్ అనుసన్ధానస్య శాన్తి-హేతుతయా అభయ-ప్రాప్తి-హేతుత్వేన న భయ-హేతుత్వ-ప్రసఙ్గః। ఏవṁ తర్హి, అథ తస్య భయṁ భవతి ఇతి కిమ్ ఉచ్యతే। ఇదమ్ ఉచ్యతే--- యదా హ్య్ ఏవైష ఏతస్మిన్న్ అదృశ్యేఽనాత్మ్యేఽనిరుక్తేఽనిలయనేఽభయṁ ప్రతిష్ఠాṁ విన్దతే। అథ సోఽభయṁ గతో భవతి [తై।, ౨।౭।౨] ఇత్య్ ఉభయ-ప్రాప్తి-హేతుత్వేన బ్రహ్మణి యా ప్రతిష్ఠాభిహితా; తస్యా విచ్ఛేదే భయṁ భవతీతి। యథోక్తṁ మహర్షిభిః--
Link copiedయన్ ముహూర్తṁ క్షణṁ వాపి వాసుదేవో న చిన్త్యతే।
Link copiedసా హానిస్ తన్ మహచ్ ఛిద్రṁ సా భ్రాన్తిః సా చ విక్రియా॥ [గ।పు।పూర్వ, ౨।౨౨।౨౨]
Link copiedఇత్య్ ఆది। బ్రహ్మణి ప్రతిష్ఠాయా అన్తరమ్ అవకాశో విచ్ఛేద ఏవ॥
Link copied[గీతోక్తి-విరోధ-శఙ్కా-పరిహారౌ]
Link copiedయద్ ఉక్తṁ న స్థానతోఽపి [బ్ర। సూ। ౩।౩।౧౧] ఇతి సర్వ-విశేష-రహితṁ బ్రహ్మేతి చ వక్ష్యతీతి; తన్ న సవిశేషṁ బ్రహ్మేత్య్ ఏవ హి తత్ర వక్ష్యతి। మాయా మాత్రṁ తు [బ్ర। సూ। ౩।౩।౩] ఇతి చ స్వాప్నానామ్ అప్య్ అర్థానాṁ జాగిరతావస్థానుభూత-పదార్థ-వైధర్మ్యేణ మాయా-మాత్రత్వమ్ ఉచ్యత ఇతి జాగరితావస్థానుభూతానామ్ ఇవ పారమార్థికత్వమ్ ఏవ వక్ష్యతి॥
Link copiedఅథ స్మృతి-పురాణ-ఘట్టః
Link copied[స్మృతి-పురాణయోర్ అపి సవిశేష-పరత్వమ్]
Link copiedస్మృతి-పురాణయోర్ అపి నిర్విశేష-జ్ఞాన-మాత్రమ్ ఏవ పరమార్థోఽన్యద్ అపారమార్థికమ్ ఇతి ప్రతీయత ఇతి యద్ అభిహితṁ తద్ అసత్--
Link copiedయో మామ్ అజమ్ అనాదిṁ చ వేత్తి లోక-మహేశ్వరమ్॥ [భ। గీ।, ౧౦।౩ ]
Link copiedమత్-స్థాని సర్వ-భూతాని న చాహṁ తేష్వ్ అవస్థితః॥
Link copiedన చ మత్-స్థాని భూతాని పశ్య మే యోగమ్ ఐశ్వరమ్।
Link copiedభూత-భృన్ న చ భూత-స్థో మమాత్మా భూత-భావనః॥ [భ। గీ।, ౯।౪।౫]
Link copiedఅహṁ కృత్స్నస్య జగతః ప్రభవః ప్రలయస్ తథా॥
Link copiedమత్తః పరతరṁ నాన్యత్ కిఞ్చిద్ అస్తి ధనఞ్జయ।
Link copiedమయి సర్వమ్ ఇదṁ ప్రోతṁ సూత్రే మణి-గణా ఇవ॥ [భ। గీ।, ౭।౬-౭]
Link copiedవిష్టభ్యాహమ్ ఇదṁ కృత్స్నమ్ ఏకాṁశేన స్థితో జగత్॥ [భ। గీ।, ౧౦।౪౨]
Link copiedఉత్తమః పురుషస్ త్వ్ అన్యః పరమాత్మేత్య్ ఉదాహృతః।
Link copiedయో లోక-త్రయమ్ ఆవిశ్య బిభర్త్య్ అవ్యయ ఈశ్వరః॥
Link copiedయస్మాత్ క్షరమ్ అతీతోఽహమ్ అక్షరాద్ అపి చోత్తమః।
Link copiedఅతోఽస్మి లోకే వేదే చ ప్రథితః పురుషోత్తమః॥ [భ। గీ।, ౧౫।౧౭-౧౮]
Link copiedస సర్వ-భూత-ప్రకృతిṁ వికారాన్ గుణాది-దోషాṁశ్ చ మునే వ్యతీతః॥
Link copiedఅతీత-సర్వావరణోఽఖిలాత్మా తేనాస్తృతṁ యద్ భువనాన్తరాలే॥
Link copiedసమస్త-కల్యాణ-గుణాత్మకోఽసౌ స్వ-శక్తి-లేశోద్ధృత-భూత-సర్గః।
Link copiedఇచ్ఛా-గృహీతాభిమతోరు-దేహః సṁసాధితాశేష-జగద్-ధితోఽసౌ॥
Link copiedతేజో-బలైశ్వర్య-మహావబోధ-సువీర్య-శక్త్య్-ఆది-గుణైక-రాశిః।
Link copiedపరః పరాణాṁ సకలా న యత్ర క్లేశాదయః సన్తి పరావరేశే॥
Link copiedస ఈశ్వరో వ్యష్టి-సమష్టి-రూపోఽవ్యక్త-స్వరూపః ప్రకట-స్వరూపః।
Link copiedసర్వేశ్వరః సర్వ-దృక్ సర్వ-వేత్తా సమస్త-శక్తిః పరమేశ్వరాఖ్యః॥
Link copiedసṁజ్ఞాయతే యేన తద్ అస్త-దోషṁ శుద్ధṁ పరṁ నిర్మలమ్ ఏక-రూపమ్।
Link copiedసన్దృశ్యతే వాప్య్ అధిగమ్యతే వా తజ్-జ్ఞానమ్ అజ్ఞానమ్ అతోఽన్యద్ ఉక్తమ్। [వి। పు।, ౬।౫।౮౩।౮౭]
Link copiedశుద్ధే మహా-విభూత్య్-ఆఖ్యే పరే బ్రహ్మణి శబ్ద్యతే।
Link copiedమైత్రేయ భగవచ్-ఛబ్దః సర్వ-కారణ-కారణే॥
Link copiedసమ్భర్తేతి తథా భర్తా భకారోఽర్థ-ద్వయాన్వితః।
Link copiedనేతా గమియతా స్రష్టా గకారార్థస్ తథా మునే॥
Link copiedఐశ్వర్యస్య సమగ్రస్య వీర్యస్య యశసః శ్రియః।
Link copiedజ్ఞాన-వైరాగ్యయోశ్ చైవ షణ్ణాṁ భగ ఇతీరణా॥
Link copiedవసన్తి తత్ర భూతాని భూతాత్మన్య్ అఖిలాత్మని।
Link copiedస చ భూతేష్వ్ అశేషేషు వకారార్థస్ తతోఽవ్యయః॥ [వి। పు।, ౬।౫౯;౭౨।,౭౫]
Link copiedజ్ఞాన-శక్తి-బలైశ్వర్య-వీర్య-తేజాṁస్య్ అశేషతః।
Link copiedభగవచ్-ఛబ్ద-వాచ్యాని వినా హేయైర్ గుణాదిభిః॥ [వి। పు।, ౬।౫।౭౯]
Link copiedఏవమ్ ఏష మహా-శబ్దో మైత్రేయ భగవాన్ ఇతి।
Link copiedపరమ-బ్రహ్మ-భూతస్య వాసుదేవస్య నాన్యగః॥
Link copiedతత్ర పూజ్య-పదార్థోక్తిః పరిభాషా-సమన్వితః।
Link copiedశబ్దోఽయṁ నోపచారేణ హ్య్ అన్యత్ర హ్య్ ఉపచారతః॥ [వి। పు।, ౬।౫।౭౬-౭౭]
Link copiedసమస్తాః శక్తాయశ్ చైతా నృప యత్ర ప్రతిష్ఠితాః।
Link copiedతద్-విశ్వ-రూప-వైరూప్యṁ రూపమ్ అన్యద్ ధరేర్ మహత్।
Link copiedసమస్త-శక్తి-రూపాణి తత్ కరోతి జనేశ్వర।
Link copiedదేవ-తిర్యఙ్-మనుష్యాఖ్యాశ్ చేష్టావన్తి స్వ-లీలయా।
Link copiedజగతామ్ ఉపకారాయ న సా కర్మ-నిమిత్త-జా।
Link copiedచేష్టా తస్యాప్రమేయస్య వ్యాపి-న్యవ్యాహతాత్మికా॥ [వి। పు।, ౬।౭।౭౦-౭౨]
Link copiedఏవṁ ప్రకారమ్ అమలṁ నిత్యṁ వ్యాపకమ్ అక్షయమ్।
Link copiedసమస్త-హేయ-రహితṁ విష్ణ్వ్-ఆఖ్యṁ పరమṁ పదమ్॥ [వి। పు।, ౧।౨౨।౫౩]
Link copiedపరః పరాణాṁ పరమః పరమాత్మాత్మ-సṁస్థితః।
Link copiedరూప-వర్ణాది-నిర్దేశ-విశేషణ-వివర్జితః॥
Link copiedఅపక్ష్య-వినాశాభ్యాṁ పరిణామర్ద్ధి-జన్మభిః।
Link copiedవర్జితః శక్యతే వక్తుṁ యః సదాస్తీతి కేవలమ్॥
Link copiedసర్వత్రాసౌ సమస్తṁ చ వసత్య్ అత్రేతి వై యతః।
Link copiedతతః స వాసుదేవేతి విద్వద్భిః పరిపఠ్యతే॥ [వి। పు।, ౧।౨।౧౦-౧౨]
Link copiedతద్ బ్రహ్మ పరమṁ నిత్యమ్ అజమ్ అక్షరమ్ అవ్యయమ్।
Link copiedఏక-స్వరూపṁ చ సదా హేయాభావాచ్ చ నిర్మలమ్॥
Link copiedతద్ ఏవ సర్వమ్ ఏవైతద్ వ్యక్తావ్యక్తస్య రూపవత్।
Link copiedతథా పురుష-రూపేణ కాల-రూపేణ చ స్థితమ్॥ [వి। పు।౧।౨।౧౩।౧౪]
Link copiedప్రకృతిర్ యా మయాఖ్యాతా వ్యక్తావ్యక్త-స్వరూపిణీ।
Link copiedపురుషశ్ చాప్య్ ఉభావ్ ఏతౌ లీయేతే పరమాత్మని॥
Link copiedపరమాత్మా చ సర్వేషామ్ ఆధారః పరమేశ్వరః।
Link copiedవిష్ణు-నామా స వేదేషు వేదాన్తేషు చ గీయతే॥ [వి। పు।, ౬।౪।౩౯-౪౦]
Link copiedద్వే రూపే బ్రహ్మణస్ తస్య మూర్తṁ చామూర్తమ్ ఏవ చ।
Link copiedక్షరాక్షర-స్వరూపే తే సర్వ-భూతేషు చ స్థితే॥
Link copiedఅక్షరṁ తత్ పరṁ బ్రహ్మ క్షరṁ సర్వమ్ ఇదṁ జగత్।
Link copiedఏక-దేశ-స్థితస్యాగ్నేర్ జ్యోత్స్నా విస్తారిణీ యథా॥
Link copiedపరస్య బ్రహ్మణః శక్తిస్ తథేదమ్ అఖిలṁ జగత్॥ [వి। పు।, ౧।౨౨।౫౫-౫౭]
Link copiedవిష్ణు-శక్తిః పరా ప్రోక్తా క్షేత్ర-జ్ఞాఖ్యా తథాపరా।
Link copiedఅవిద్యా కర్మ-సṁజ్ఞాన్యా తృతీయా శక్తిర్ ఇష్యతే॥
Link copiedయయా క్షేత్రజ్ఞ-శక్తిః సా వేష్టితా నృప సర్వగా।
Link copiedసṁసార-తాపాన్ అఖిలాన్ అవాప్నోత్య్ అతిసన్తతాన్॥
Link copiedతయా తిరోహితత్వాచ్ చ శక్తిః క్షేత్రజ్ఞ-సṁజ్ఞితా।
Link copiedసర్వ-భూతేషు భూపాల తారతమ్యేన వర్తతే॥ [వి। పు।, ౬।౭।౬౧।౬౩]
Link copiedప్రధానṁ చ పుమాṁశ్ చైవ సర్వ-భూతాత్మ-భూతయా।
Link copiedవిష్ణు-శక్త్యా మహా-బుద్ధే వృతౌ సṁశ్రయ-ధర్మిణౌ॥
Link copiedతయోః సైవ పృథగ్-భావ-కారణṁ సṁశ్రయస్య చ॥
Link copiedయథా సక్తṁ జలే వాతో బిభర్తి కణికా-శతమ్।
Link copiedశక్తిః సాపి తథా విష్ణోః ప్రధాన-పురుషాత్మనః॥ [వి। పు। ౨।౭।౨౯-౩౧]
Link copiedతద్ ఏతద్ అక్షయṁ నిత్యṁ జగన్ ముని-వరాఖిలమ్।
Link copiedఆవిర్భావ-తిరోభావ-జన్మ-నాశ-వికల్పవత్॥ [వి। పు।, ౧।౨౨।౬౦ ]
Link copiedఇత్య్ ఆదినా పరṁ బ్రహ్మ స్వభావత ఏవ నిరస్త-నిఖిల-దోష-గన్ధṁ సమస్త-కల్యాణ-గుణాత్మకṁ జగద్-ఉత్పత్తి-స్థితి-సṁహారాన్తః-ప్రవేశ-నియమనాది-లీలṁ ప్రతిపాద్య కృత్స్నస్య చిద్-అచిద్-వస్తునః సర్వావస్థా-వస్థితస్య, పారమార్థికస్యైవ పరస్య బ్రహ్మణః శరీరతయా రూపత్వమ్, శరీర-రూప-తన్వ్-అṁశ-శక్తి-విభూత్య్-ఆది-శబ్దైస్ తత్-తచ్-ఛబ్ద-సామానాధికరణ్యేన చాభిధాయ తద్-విభూతి-భూతస్య చిద్-వస్తునః స్వరూపేణ అవస్థితమ్ అచిన్-మిశ్రతయా క్షేత్రజ్ఞ-రూపేణ స్థితిṁ చోక్త్వా, క్షేత్రజ్ఞావస్థాయాṁ పుణ్య-పాపాత్మక-కర్మ-రూపావిద్యా-వేష్టితత్వేన స్వాభావిక-జ్ఞాన-రూపత్వాననుసన్ధానమ్ అచిద్-రూపార్థాకారతయా అనుసన్ధానṁ చ ప్రతిపాదితమ్ ఇతి, పరṁ బ్రహ్మ సవిశేషమ్, తద్-విభూతి-భూతṁ జగద్ అపి పారమార్థికమ్ ఏవేతి జ్ఞాయతే॥
Link copiedపరోక్త-స్మృతి-పురాణ-వచనానాṁ సమీచీనార్థ-కథనమ్
Link copied[ప్రత్యస్తమితేత్య్ ఆది శ్లోకార్థః]
Link copiedప్రత్యస్తమిత-భేదమ్ [వి। పు।, ౬।౭।౫౩] ఇత్య్ అత్ర దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేష-సṁసృష్టస్య అప్య్ ఆత్మనః స్వరూపṁ తద్-గత-భేద-రహితత్వేన తద్-భేద-వాచి-దేవాది-శబ్దాగోచరṁ జ్ఞాన-సత్తైక-లక్షణṁ స్వ-సṁవేద్యṁ యోగ-యుఙ్-మనసో న గోచర ఇత్య్ ఉచ్యత ఇతి, అనేన న ప్రపఞ్చాపలాపః। కథమ్ ఇదమ్ అవగమ్యత ఇతి చేత్;
Link copied[ప్రకరణాద్ ఉక్తార్థ-నిశ్చయః]
Link copiedతద్ ఉచ్యతే-- అస్మిన్ ప్రకరణే సṁసారైక-భేష-జతయా యోగమ్ అభిధాయ యోగావయవాన్ ప్రత్యాహార-పర్యన్తాṁశ్ చోక్త్వా, ధారణా-సిద్ధ్య్-అర్థṁ శుభాశ్రయṁ వక్తుṁ పరస్య బ్రహ్మణో విష్ణోః శక్తి-శబ్దాభిధేయṁ రూప-ద్వయṁ మూర్తామూర్త-విభాగేన ప్రతిపాద్య, తృతీయ-శక్తి-రూప-కర్మాఖ్యా-విద్యావేష్టితమ్ అచిద్-విశిష్టṁ క్షేత్రజ్ఞṁ మూర్తాఖ్య-విభాగṁ భావనా-త్రయాన్వయాద్ అశుభమ్ ఇత్య్ ఉక్త్వా, ద్వితీయస్య కర్మాఖ్యా-విద్యా-విరహిణః అచిద్-వియుక్తస్య జ్ఞానైకాకారస్యామూర్తాఖ్య-విభాగస్య నిష్పన్న-యోగి-ధ్యేయతయా యోగ-యుఙ్-మనసోఽనాలమ్బనతయా స్వతః శుద్ధి-విరహాచ్ చ శుభాశ్రయత్వṁ ప్రతిషిధ్య, పర-శక్తి-రూపమ్ ఇదమ్ అమూర్తమ్ అపర-శక్తి-రూపṁ క్షేత్రజ్ఞాఖ్య-మూర్తṁ చ పర-శక్తి-రూపస్యాత్మనః క్షేత్రజ్ఞతాపత్తి-హేతు-భూత-తృతీయ-శక్త్యాఖ్య-కర్మ-రూపావిద్యా చేత్య్ ఏతచ్-ఛక్తి-త్రయాశ్రయో భగవద్-అసాధారణమ్ ఆదిత్య-వర్ణమ్ ఇత్య్ ఆది వేదాన్త-సిద్ధṁ మూర్త-రూపṁ శుభాశ్రయ ఇత్య్ ఉక్తమ్। అత్ర పరిశుద్ధాత్మ-స్వరూపస్య శుభాశ్రయతానర్హాతాṁ వక్తుṁ ప్రత్యస్తమిత-భేదṁ యత్ ఇత్య్ ఉచ్యతే। తథా హి--
Link copiedన తద్ యోగ-యుజాṁ శక్యṁ నృప చిన్తయితుṁ యతః। ద్వితీయṁ విష్ణు-సṁజ్ఞస్య యోగి-ధ్యేయṁ పరṁ పదమ్॥
Link copiedసమస్తాః శక్తయశ్ చైతా నృప యత్ర ప్రతిష్ఠితాః। తద్ విశ్వరూప-వైరూప్యṁ రూపమ్ అన్యద్ ధరేర్ మహత్॥ [వి। పు। ౬।౭।౫౫;౬౯-౭౦]
Link copiedఇతి చ వదతి।
Link copied[శుభాశ్రయ-స్వరూప-నిష్కర్షః]
Link copiedతథా చతుర్ముఖ-సనక-సనన్దనాదీనాṁ జగద్-అన్తర్వర్తినామ్ అవిద్యావేష్టితత్వేన శుభాశ్రయతానర్హాతామ్ ఉక్త్వా బద్ధానామ్ ఏవ పశ్చాద్ యోగేనోద్భూత-బోధానాṁ స్వ-స్వరూపాపన్నానాṁ చ స్వతః శుద్ధి-విరహాద్ భగవతా శౌనకేన శుభాశ్రయతా నిషిద్ధా--
Link copiedఆబ్రహ్మ-స్తమ్భ-పర్యన్తా జగద్-అన్తర్-వ్యవస్థితాః।
Link copiedప్రాణినః కర్మ-జనిత-సṁసార-వశ-వర్తినః॥
Link copiedయతస్ తతో న తే ధ్యానే ధ్యానినామ్ ఉపకారకాః।
Link copiedఅవిద్యాన్తర్గతాః సర్వే తే హి సṁసార-గోచరాః॥
Link copiedపశ్చాద్ ఉద్భూత-బోధాశ్ చ ధ్యానే నైవోపకారకాః।
Link copiedనైసర్గికో న వై బోధస్ తేషామ్ అప్య్ అన్యతో యతః॥
Link copiedతస్మాత్ తద్ అమలṁ బ్రహ్మ నిసర్గాద్ ఏవ బోధవత్॥ [భవిష్య పు। ౧౦౪।౨౩।౨౬]
Link copiedఇత్య్ ఆదినా పరస్య బ్రహ్మణో విష్ణోః స్వరూపṁ స్వాసాధారణమ్ ఏవ శుభాశ్రయ ఇత్య్ ఉక్తమ్। అతోఽత్ర న భేదాపలాపః ప్రతీయతే॥
Link copiedజ్ఞాన-స్వరూపమ్ [వి। పు।, ౧।౪।౪౦] ఇత్య్ అత్రాపి జ్ఞాన-వ్యతిరిక్తస్యార్థ-జాతస్య కృత్స్నస్య న మిథ్యాత్వṁ ప్రతిపాద్యతే, జ్ఞాన-స్వరూపస్యాత్మనో దేవ-మనుష్యాద్య్-అర్థాకారేణావభాసో భ్రాన్తిర్ ఇత్య్ ఏతావన్ మాత్ర-వచనాత్। న హి శుక్తికాయా రజతతయావభాసో భ్రాన్తిర్ ఇత్య్ ఉక్తే జగతి కృత్స్నṁ రజత-జాతṁ మిథ్యా భవతి। జగద్-బ్రహ్మణోః సామానాధికరణ్యేనైక్య-ప్రతీతేః, బ్రహ్మణో జ్ఞాన-స్వరూపస్యార్థాకారతా భ్రాన్తిర్ ఇత్య్ ఉక్తే సత్యర్థ-జాతస్య కృత్స్నస్య మిథ్యాత్వమ్ ఉక్తṁ స్యాద్ ఇతి చేత్; తద్ అసత్; అస్మిఞ్ శాస్త్రే పరస్య బ్రహ్మణో విష్ణోర్ నిరస్తాజ్ఞానాది-నిఖిల-దోష-గన్ధస్య సమస్త-కల్యాణ-గుణాత్మకస్య మహా-విభూతేః ప్రతిపన్నతయా తస్య భ్రాన్తి-దర్శనాసమ్భవాత్। సామానాధికరణ్యేనైక్య-ప్రతిపాదనṁ చ బాధాసహమ్, అవిరుద్ధṁ చేత్య్ అనన్తరమ్ ఏవోపపాదియష్యతే। అతోఽయమ్ అపి శ్లోకో నార్థ-స్వరూపస్య బాధకః॥
Link copiedఉపబృṁహణ-విధి-నిరూపణమ్
Link copiedతథా హి-- యతో వా ఇమాని భూతాని జాయన్తే। యేన జాతాని జీవన్తి। యత్ ప్రయన్త్య్ అభిసṁవిశన్తి। తద్ విజిజ్ఞాసస్వ। తద్ బ్రహ్మ [తై।, ౩।౧] ఇతి జగజ్-జన్మాది-కారణṁ బ్రహ్మేత్య్ అవసితే సతి, ఇతిహాసపురాణాభ్యాṁ వేదṁ సముపబృṁహయేత్। బిభేత్య్ అల్ప-శ్రుతాద్ వేదో మామయṁ ప్రతరిష్యతి॥ [భారతమ్, ౧।౧।౨౭౩] ఇతి శాస్త్రేణార్థస్య ఇతిహాస-పురాణాభ్యామ్ ఉపబృṁహణṁ కార్యమ్ ఇతి విజ్ఞాయతే। ఉపబృṁహణṁ నామ విదిత-సకల-వేద-తద్-అర్థానాṁ స్వయోగ-మహిమ-సాక్షాత్-కృత-వేద-తత్త్వార్థానాṁ వాక్యైః స్వావగత-వేద-వాక్యార్థ-వ్యక్తీ-కరణమ్। సకల-శాఖాగతస్య వాక్యార్థస్యాల్ప-భాగశ్రవణాద్ దురవగమత్వేన తేన వినా నిశ్చయాయోగాద్ ఉపబృṁహణṁ హి కార్యమ్ ఏవ॥
Link copied[విష్ణు-పురాణ-ప్రాశస్త్యమ్]
Link copiedతత్ర పులస్త్య-వసిష్ఠ-వర-ప్రదాన-లబ్ధ-పర-దేవతా-పారమార్థ్య-జ్ఞానవతో భగవతః పరాశరాత్ స్వావగత వేదార్థోపబృṁహణమ్ ఇచ్ఛన్ మైత్రేయః పరిపప్రచ్ఛ--
Link copiedసోఽహమ్ ఇచ్ఛామి ధర్మ-జ్ఞ శ్రోతుṁ త్వత్తో యథా జగత్। బభూవ భూయశ్ చ యథా మహా-భాగ భవిష్యతి॥
Link copiedయన్ మయṁ చ జగద్ బ్రహ్మన్ యతశ్ చైతచ్ చరాచరమ్। లీనమ్ ఆసీద్ యథా యత్ర లయమ్ ఏష్యతి యత్ర చ॥ [వి। పు।, ౧।౧।౪।౫] ఇత్య్ ఆదినా॥
Link copiedఅత్ర బ్రహ్మ-స్వరూప-విశేష-తద్-విభూతి-భేద-ప్రకార-తద్-ఆరాధన-స్వరూప-ఫల-విశేషాశ్ చ పృష్టాః। బ్రహ్మ-స్వరూప-విశేష-ప్రశ్నేషు యతశ్ చైతచ్ చరాచరమ్ ఇతి నిమిత్తోపాదానయోః పృష్టత్వాద్ యన్-మయమ్ ఇత్య్ అనేన సృష్టి-స్థితి-లయ-కర్మ-భూతṁ జగత్ కిమ్-ఆత్మకమ్ ఇతి పృష్టమ్। తస్య చోత్తరṁ జగచ్ చ స ఇతి। ఇదṁ చ తాదాత్మ్యమ్ అన్తర్యామి-రూపేణాత్మతయా వ్యాప్తి-కృతమ్। న తు వ్యాప్య-వ్యాపకయోర్ వస్త్వ్ ఐక్య-కృతమ్। యన్-మయమ్ ఇతి ప్రశ్నస్యోత్తరత్వాజ్ జగచ్ చ స ఇతి సామానాధికరణ్యస్య। యన్-మయమ్ ఇతి మయడ్ అత్ర న వికారార్థః, పృథక్-ప్రశ్న-వైయర్థ్యాత్। నాపి ప్రాణ-మయాదివత్ స్వార్థికః, జగచ్ చ స ఇత్య్ ఉత్తరానుపపత్తేస్ తదా హి విష్ణుర్ ఏవేత్య్ ఉత్తరమ్ అభివష్యత్। అతః ప్రాచుర్యార్థ ఏవ। తత్-ప్రకృత-వచనే మయట్ [అష్టా, ౫।౪।౨౧] ఇతి మయట్। కృత్స్నṁ చ జగత్ తచ్-ఛరీరతయా తత్-ప్రచురమ్ ఏవ। తస్మాద్ యన్-మయమ్ ఇత్య్ అస్య ప్రతివచనṁ జగచ్ చ స ఇతి సామానాధికరణ్యṁ జగద్ బ్రహ్మణోః శరీరాత్మ-భావ-నిబన్ధనమ్ ఇతి నిశ్చీయతే। అన్యథా నిర్విశేష-వస్తు-ప్రతిపాదన-పరే శాస్త్రేఽభ్యుపగమ్యమానే సర్వాణ్య్ ఏతాని ప్రశ్న-ప్రతివచనాని న సఙ్గచ్ఛన్తే। తద్-వివరణ-రూపṁ కృత్స్నṁ చ శాస్త్రṁ న సఙ్గచ్ఛతే। తథా హి సతి ప్రపఞ్చ-భ్రమస్య కిమ్ అధిష్ఠానమ్ ఇత్య్ ఏవṁ రూపస్యైకస్య ప్రశ్నస్య నిర్విశేష-జ్ఞాన-మాత్రమ్ ఇత్య్ ఏవṁ రూపమ్ ఏకమ్ ఏవోత్తరṁ స్యాత్॥
Link copied[సామానాధికరణ్యస్యైక్య-పరత్వే విరోధః]
Link copiedజగద్ బ్రహ్మణోర్ ఏక-ద్రవ్యత్వ-పరే చ సామానాధికరణ్యే సత్య-సఙ్కల్పత్వాది-కల్యాణ-గుణైకతానతా నిఖిల-హేయ-ప్రత్యనీకతా చ బాధ్యేత। సర్వాశుభాస్పదṁ చ బ్రహ్మ భవేత్। ఆత్మ-శరీర-భావ ఏవేదṁ సామానాధికరణ్యṁ ముఖ్య-వృత్తమ్ ఇతి స్థాప్యతే॥ అతో విష్ణోః సకాశాద్ ఉద్భూతṁ జగత్ తత్రైవ చ స్థితమ్।
Link copiedస్థితి-సṁయమ-కర్తాసౌ జగతోఽస్య జగచ్ చ సః॥ [వి। పు।, ౧।౧।౩౧]
Link copiedఇతి సఙ్గ్రహేణోక్తమ్ అర్థṁ పరః పరాణామ్ ఇత్య్ ఆరభ్య విస్తరేణ వక్తుṁ పర-బ్రహ్మ-భూతṁ భగవన్తṁ విష్ణుṁ స్వేనైవ స్వరూపేణావస్థితమ్ అవికారాయ ఇతి శ్లోకేన ప్రథమṁ ప్రణమ్య తమ్ ఏవ హిరణ్యగర్భస్వావతార-శఙ్కర-రూప-త్రి-మూర్తి-ప్రధాన-కాల-క్షేత్రజ్ఞ-సమష్టి-వ్యష్టి-రూపేణావస్థితṁ చ నమస్కరోతి। తత్ర జ్ఞాన-స్వరూపమ్ ఇత్య్ అయṁ శ్లోకః క్షేత్రజ్ఞ-వ్యష్ట్య్-ఆత్మనావస్థితస్య పరమాత్మనః స్వభావమ్ ఆహ। తస్మాన్ నాత్ర నిర్విశేష-వస్తు-ప్రతీతిః॥
Link copied[నిర్విశేష-జ్ఞాన-పరత్వే పశ్చాత్తన-ప్రశ్నోత్తరాననుగుణత్వమ్]
Link copiedయది నిర్విశేష-జ్ఞాన-రూప-బ్రహ్మాధిష్ఠాన-భ్రమ-ప్రతిపాదన-పరṁ శాస్త్రమ్; తర్హి---
Link copiedనిర్గుణస్యాప్రమేయస్య శుద్ధస్యాప్య్ అమలాత్మనః।
Link copiedకథṁ సర్గాది-కర్తృత్వṁ బ్రహ్మణోఽభ్యుపగమ్యతే॥ ఇతి చోద్యṁ,
Link copiedశక్తయః సర్వ-భవానామ్ అచిన్త్య-జ్ఞాన-గోచరాః।
Link copiedయతోఽతో బ్రహ్మణస్ తాస్ తు సర్గాద్యా భావ-శక్తయః॥
Link copiedభవన్తి తపతాṁ శ్రేష్ఠ పావకస్య యథోష్ణతా॥ [వి। పు।, ౧।౩।౧।౨]
Link copiedఇతి పరిహారశ్ చ న ఘటతే। తథా హి సతి-- నిర్గుణస్య బ్రహ్మణః కథṁ సర్గాది-కర్తృత్వṁ న బ్రహ్మణః పారమార్థికః సర్గః; అపి తు భ్రాన్తి-పరికల్పితః-- ఇతి చోద్యపరిహారౌ స్యాతామ్॥
Link copied[ప్రశ్న-తద్-ఉత్తరయోర్ నైజ ఆశయః]
Link copiedఉత్పత్త్య్-ఆది-కార్యṁ సత్త్వాది-గుణ-యుక్తాపరిపూర్ణ-కర్మ-వశ్యేషు దృష్టమ్ ఇతి సత్త్వాది-గుణ-రహితస్య పరిపూర్ణస్యాకర్మ-వశ్యస్య కర్మ-సమ్బన్ధానర్హాస్య కథṁ సర్గాది-కర్తృత్వమ్ అభ్యుపగమ్యత ఇతి చోద్యమ్। దృష్ట-సకల-విసజాతీయస్య బ్రహ్మణో యథోదిత-స్వభావస్యైవ జలాది-విసజాతీయస్యాగ్న్యాదేర్ ఔష్ణ్యాది-శక్తి-యోగవత్ సర్వ-శక్తి-యోగో న విరుధ్యత ఇతి పరిహారః॥
Link copied[వరాహ-చతుః-శ్లోకీ-వ్యాఖ్యానమ్]
Link copiedపరమార్థస్ త్వమ్ ఏవైకః [వి। పు।, ౧।౪।౩౮] ఇత్య్ ఆద్య్ అపి న కృత్స్నస్యాపారమార్థ్యṁ వదతి। అపి తు కృత్స్నస్య తద్-ఆత్మకతయా తద్-వ్యతిరేకేణావస్థితస్యాపారమార్థ్యమ్। తద్ ఏవోపపాదయతి-- తవైష మహిమా యేన వ్యాప్తమ్ ఏతచ్ చరాచరమ్ [వి। పు।, ౧।౪।౩౮] ఇతి। యేన త్వయేదṁ చరాచరṁ వ్యాప్తమ్; అతస్ త్వద్-ఆత్మకమ్ ఏవేదṁ సర్వమ్ ఇతి త్వద్-అన్యః కోఽపి నాస్తి। అతః సర్వాత్మతయా త్వమ్ ఏవైకః పరమార్థః। అత ఇదమ్ ఉచ్యతే తవైష మహిమా, యా సర్వ-వ్యాప్తిః, ఇతి। అన్యథా తవైషా భ్రాన్తిర్ ఇతి వక్తవ్యమ్। జగతః పతే త్వమ్ ఇత్య్ ఆదీనాṁ పదానాṁ లక్షణా చ స్యాత్। లీలయా మహీముద్ధరతో భగవతో మహావరాహస్య స్తుతి-ప్రకరణ-విరోధశ్ చ॥
Link copiedయతః కృత్స్నṁ జగజ్ జ్ఞానాత్మనా త్వయాత్మతయా వ్యాప్తత్వేన తవ మూర్తమ్। తస్మాత్ త్వద్-ఆత్మకత్వానుభవ-సాధన-యోగ-విరహిణ ఏతత్ కేవల-దేవ-మనుష్యాది-రూపమ్ ఇతి భ్రాన్తి-జ్ఞానేన పశ్యన్తీత్య్ ఆహ యద్ ఏతద్ దృశ్యతే ఇతి॥ న కేవలṁ వస్తుతస్ త్వద్-ఆత్మకṁ జగద్-దేవ-మనుష్యాద్య్-ఆత్మకమ్ ఇతి దర్శనమ్ ఏవ భ్రమః; జ్ఞానాకారాణామాత్మనాṁ దేవ-మనుష్యాద్య్-అర్థాకారత్వ-దర్శనమ్ అపి భ్రమ ఇత్య్ ఆహ జ్ఞాన-స్వరూపమ్ అఖిలమ్ ఇతి॥
Link copiedయే పునర్ బుద్ధిమన్తో జ్ఞాన-స్వరూపాత్మవిదః సర్వస్య భగవద్-ఆత్మకత్వానుభవ-సాధన-యోగ-యోగ్య-పరిశుద్ధ-మనసశ్ చ తే దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేష-శరీర-రూపమ్ ఇదమ్ అఖిలṁ జగచ్-ఛరీరాతిరిక్త-జ్ఞాన-స్వరూపాత్మకṁ త్వచ్-ఛరీరṁ చ పశ్యన్తీత్య్ ఆహ యే తు జ్ఞాన-విదః ఇతి। అన్యథా శ్లోకానాṁ పౌనరుక్త్యమ్, పదానాṁ లక్షణా, అర్థ-విరోధః, ప్రకరణ-విరోధః, శాస్త్ర-తాత్పర్య-విరోధశ్ చ॥
Link copied[ప్రకార్య్-అద్వైత-ప్రకారాద్వైత-వివేకః]
Link copiedతస్యాత్మ-పర-దేహేషు సతోఽప్య్ ఏక-మయమ్ [వి। పు।, ౨।౧౪।౩౧] ఇత్య్ అత్ర సర్వేష్వ్ ఆత్మసు జ్ఞానైకాకారతయా సమానేషు సత్సు దేవ-మనుష్యాది-ప్రకృతి-పరిణామ-విశేష-రూప-పిణ్డ-సṁసర్గ-కృతమ్ ఆత్మసు దేవాద్య్-ఆకారేణ ద్వైత-దర్శనమ్ అతథ్యమ్ ఇత్య్ ఉచ్యతే। పిణ్డ-గతమ్ ఆత్మగతమ్ అపి ద్వైతṁ న ప్రతిషిధ్యతే। దేవ-మనుష్యాది-వివిధ-విచిత్ర-పిణ్డేషు వర్తమానṁ సర్వమ్ ఆత్మ-వస్తు సమమ్ ఇత్య్ అర్థః। యథోక్తṁ భగవతా శుని చైవ శ్వ-పాకే చ పణ్డితాః సమ-దర్శినః [భ। గీ।, ౫।౧౮] నిర్దోషṁ హి సమṁ బ్రహ్మ [భ। గీ।, ౫।౧౯] ఇత్య్ ఆదిషు। తస్యాత్మ-పర-దేహేషు సతోఽపి, ఇతి దేహాతిరిక్తే వస్తుని స్వ-పర-విభాగస్యోక్తత్వాత్॥
Link copiedయద్య్ అన్యోఽస్తి పరః కోఽపి, ఇత్య్ అత్రాపి నాత్మైక్యṁ ప్రతీయతే। యది మత్తః పరః కోఽప్య్ అన్య ఇత్య్ ఏకస్మిన్న్ అర్థే పర-శబ్దాన్య-శబ్దయోః ప్రయోగాయోగాత్ తత్ర పర-శబ్దః స్వ-వ్యతిరిక్తాత్మ-వచనః। అన్య-శబ్దస్ తస్యాపి జ్ఞానైకాకారత్వాద్ అన్యాకారత్వ-ప్రతిషేధార్థః। ఏతద్ ఉక్తṁ భవతి-- యది మద్-వ్యతిరిక్తః కోఽప్య్ ఆత్మా మద్-ఆకార-భూత-జ్ఞానాకారాద్ అన్యాకారోఽస్తి, తదాహమ్ ఏవమాకారః; అయṁ చాన్యాదృశాకార ఇతి శక్యతే వ్యపదేష్టుమ్; న చైవమ్ అస్తి; సర్వేషాṁ జ్ఞానైకాకారత్వేన సమానత్వాద్ ఏవేతి॥
Link copiedవేణు-రన్ధ్ర-విభేదేన ఇత్య్ అత్రాప్యాకార-వైషమ్యమ్ ఆత్మనాṁ న స్వరూప-కృతమ్। అపి తు దేవాది-పిణ్డ-ప్రవేశ-కృతమ్ ఇత్య్ ఉపదిశ్యతే; నాత్మైక్యమ్। దృష్టాన్తే చానేక-రన్ధ్ర-వర్తినాṁ వాయ్వṁశానాṁ న స్వరూపైక్యమ్; అపిత్వాకార-సామ్యమ్ ఏవ। తేషాṁ వాయుత్వేనైకాకారాణాṁ రన్ధ్ర-భేద-నిష్క్రమణ-కృతో హి షడ్జాది-సṁజ్ఞా-భేదః। ఏవమ్ ఆత్మనాṁ దేవాది-సṁజ్ఞా-భేదః యథా తైజసాప్య్ అపార్థివ-ద్రవ్యాṁశ-భూతానాṁ పదార్థానాṁ తత్-తద్-ద్రవ్యత్వేనైక్యమ్ ఏవ; న స్వరూపైక్యమ్। తథా వాయవీయానామ్ అṁశానామ్ అపి స్వరూప-భేదోఽవర్జనీయః॥
Link copied[ఆది-భరత-నిగమన-శ్లోకార్థః]
Link copiedసోఽహṁ స చ త్వమ్ ఇతి సర్వాత్మనాṁ పూర్వోక్తṁ జ్ఞానాకారత్వṁ తచ్-ఛబ్దేన పరామృశ్య తత్-సామానాధికరణ్యేనాహṁ త్వమ్ ఇత్య్ ఆదీనామ్ అర్థానాṁ జ్ఞానమ్ ఏవాకార ఇత్య్ ఉపసṁహరన్ దేవాద్య్-ఆకార-భేదేనాత్మసు భేద-మోహṁ పరిత్యజేత్య్ ఆహ। అన్యథా దేహాతిరరిక్తాత్మోపదేశ్య-స్వరూపే అహṁ త్వṁ సర్వమ్ ఏతద్ ఆత్మ-స్వరూపమ్ ఇతి భేద-నిర్దేశో న ఘటతే। అహṁ త్వమ్ ఆది-శబ్దానామ్ ఉపలక్ష్యేణ సర్వమ్ ఏతద్ ఆత్మ-స్వరూపమ్ ఇత్య్ అనేన సామానాధికరణ్యాద్ ఉపలక్షణత్వమ్ అపి న సఙ్గచ్ఛతే। సోఽపి యథోపదేశమ్ అకరోద్ ఇత్య్ ఆహ తత్యాజ భేదṁ పరమార్థ-దృష్టిః, ఇతి॥
Link copied[వాక్యానామ్ అద్వైత-పరత్వాద్య్-అభావ-సాధకోపపాదనమ్]
Link copiedకుతశ్ చైష నిర్ణయ ఇతి చేద్ దేహాత్మ-వివేక-విషయత్వాద్ ఉపదేశస్య। తచ్ చ పిణ్డః పృథగ్ యతః పుṁసః శిరః పాణ్యాది-లక్షణః [వి। పు।, ౨।౧౩।౮౯] ఇతి ప్రక్రమాత్॥
Link copiedవిభేద-జనకేఽజ్ఞానే [వి। పు।, ౬।౭।౯౬] ఇతి చ నాత్మ-స్వరూపైక్య-పరమ్। నాపి జీవ-పరయోర్ ఆత్మ-స్వరూపైక్యమ్ ఉక్త-రీత్యా నిషిద్ధమ్। జీవ-పరయోర్ అపి స్వరూపైక్యṁ దేహాత్మనోర్ ఇవ న సమ్భవతి। తథా చ శ్రుతిర్ ద్వా సుపర్ణా సయుజా సఖాయా సమానṁ వృక్షṁ పరిషస్వజాతే। తయోర్ అన్యః పిప్పలṁ స్వాద్వ్ అత్త్య్ అనశ్నన్న్ అన్యో అభిచాకశీతి [ముణ్డ్।, ౩।౧।౧], ఋతṁ పిబన్తౌ సుకృతస్య లోకే గుహాṁ ప్రవిష్టౌ పరమే పరార్ధ్యే। ఛాయాతపౌ బ్రహ్మ-విదో వదన్తి పఞ్చాగ్నయో యే చ త్రిణాచికేతాః॥ [కఠ।, ౨।౧] అన్తః ప్రవిష్టః శాస్తా జనానాṁ సర్వాత్మా [యజుర్ ఆరణ్యకే, ౩।౨౦] ఇత్య్ ఆద్యాః। అస్మిన్న్ అపి శాస్త్రే స సర్వ-భూత-ప్రకృతిṁ వికారాన్ గుణాది-దోషాṁశ్ చ మునే వ్యతీతః। అతీత-సర్వావరణోఽఖిలాత్మా తేనాస్తృతṁ యద్ భువనాన్తరాలే, సమస్త-కల్యాణ-గుణాత్మకోఽసౌ, పరః పరాణాṁ సకలా న యత్ర క్లేశాదయః సన్తి పరావరేశే [వి। పు।, ౬।౫।౮౩।౮౫] అవిద్యా కర్మ-సṁజ్ఞాన్యా తృతీయా శక్తిర్ ఇష్యతే। యయా క్షేత్రజ్ఞ-శక్తిః సా వేష్టితా నృప సర్వగా [వి। పు।, ౬।౭।౬౧।౬౨] ఇతి భేద-వ్యపదేశాత్, ఉభయేఽపి హి భేదేనైనమ్ అధీయతే [బ్ర। సూ। ౧।౨।౨౧], భేద-వ్యపదేశాచ్ చాన్యః [బ్ర। సూ। ౧।౨।౨౨], అధికṁ తు భేద-నిర్దేశాత్ [బ్ర। సూ। ౨।౧।౨౧] ఇత్య్ ఆది-సూత్రేషు చ య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తో యమయతి [బృహద్।, ౫।౭।౨౨], ప్రాజ్ఞేనాత్మనా సమ్పరిష్వక్తః [బృహద్।, ౬।౩।౨౧], ప్రాజ్ఞేనాత్మనాన్వారూఢః [బృహద్।, ౬।౩।౩౫] ఇత్య్ ఆదిభిర్ ఉభయోర్ అన్యోన్య-ప్రత్యనీకాకారేణ స్వరూప-నిర్ణయాత్।
Link copied[ముక్తౌ జీవ-బ్రహ్మణోః స్వరూపైక్య-నిరాసః]
Link copiedనాపి సాధనానుష్ఠానేన నిర్ముక్తావిద్యస్య పరేణ స్వరూపైక్య-సమ్భవః; అవిద్యాశ్రయత్వ-యోగ్యస్య తద్-అనర్హాత్వాసమ్భవాత్। యథోక్తమ్--
Link copiedపరమాత్మాత్మనోర్ యోగః పరమార్థ ఇతీష్యతే।
Link copiedమిథ్యైతద్ అన్యద్ ద్రవ్యṁ హి నైతి తద్-ద్రవ్యతాṁ యతః॥ ఇతి॥ [వి। పు।, ౨।౧౪।౨౭]
Link copied[జీవస్య ముక్తావ్ అపి న స్వరూపైక్యṁ, పరేణ పరమ-సామ్యమ్ ఏవ]
Link copiedముక్తస్య తు తద్-ధర్మతాపత్తిర్ ఏవేతి భగవద్గీతాసూక్తమ్--
Link copiedఇదṁ జ్ఞానమ్ ఉపాశ్రిత్య మమ సాధర్మ్య్ అమాగతాః।
Link copiedసర్గేఽపి నోపజాయన్తే ప్రలయే న వ్యథన్తి చ॥ ఇతి॥ [భ। గీ।, ౧౪।౨]
Link copiedఇహాపి
Link copiedఆత్మ-భావṁ నయత్య్ ఏనṁ తద్ బ్రహ్మ ధ్యాయినṁ మునే।
Link copiedవికార్యమ్ ఆత్మనః శక్త్యా లోహమ్ ఆకర్షకో యథా॥ ఇతి॥ [వి। పు।, ౬।౭।౩]
Link copiedఆత్మ-భావమ్-- ఆత్మనః స్వభావమ్। నహ్య్ ఆకర్షక-స్వరూపాపత్తిర్ ఆకృష్యమాణస్య। వక్ష్యతి చ జగద్-వ్యాపార-వర్జṁ ప్రకరణాద్ అసన్నిహితత్వాచ్ చ [బ్ర। సూ। ౪।౪।౧౭], భోగ-మాత్ర-సామ్య-లిఙ్గాచ్ చ [బ్ర। సూ ౪।౪।౨౧], ముక్తోపసృప్య-వ్యపదేశాచ్ చ [బ్ర। సూ। ౧।౩।౨] ఇతి। వృత్తిర్ అపి జగద్-వ్యాపార-వర్జṁ సమానో జ్యోతిషా [బోధాయనవృత్తిః] ఇతి। ద్రమిడ-భాష్య-కారశ్ చ దేవతా-సాయుజ్యాద్ అశరీరస్యాపి దేవతావత్ సర్వార్థసిద్ధిః స్యాత్ [బ్రహ్మానన్దీ] ఇత్య్ ఆహ। శ్రుతయశ్ చ య ఇహాత్మానమ్ అనువిద్య వ్రజన్త్య్ ఏతాṁశ్ చ సత్యాన్ కామాṁస్ తేషాṁ సర్వేషు లోకేషు కామ-చారో భవతి [ఛాన్।, ౮।౧।౬], బ్రహ్మవిద్ ఆప్నోతి పరṁ సోఽశ్నుతే సర్వాన్ కామాన్ సహ। బ్రహ్మణా విపిశ్చతా [తై।, ౨।౧।౨], ఏతమ్ ఆనన్ద-మయమ్ ఆత్మానమ్ ఉపసఙ్క్రమ్య। ఇమాన్ లోకాన్ కామాన్నీ కామ-రూప్య్ అనుసఞ్చరన్ [తై।, ౩।౩।౫], స తత్ర పర్యేతి [ఛాన్।, ౮।౧౨।౩], రసో వై సః। రసṁ హ్య్ ఏవాయṁ లబ్ధ్వానన్దీ భవతి [తై। ఆ।, ౭।౧], యథా నద్యః స్యన్దమానాః సముద్రే అస్తṁ గచ్ఛన్తి నామ-రూపే విహాయ। తథా విద్వాన్ నామ-రూపాద్ విముక్తః పరాత్ పరṁ పురుషమ్ ఉపైతి దివ్యమ్ [ముణ్డ్।, ౩।౨।౮], తదా విద్వాన్ పుణ్య-పాపే విధూయ నిరఞ్జనః పరమṁ సామ్యమ్ ఉపైతి [ముణ్డ్।, ౩।౧।౩] ఇత్య్ ఆద్యాః।
Link copied[ఉపాసనṁ సగుణ-బ్రహ్మణ ఏవ]
Link copiedపర-విద్యాసు సర్వాసు సగుణమ్ ఏవ బ్రహ్మోపాస్యమ్। ఫలṁ చైకరూపమ్ ఏవ। అతో విద్యా-వికల్ప ఇతి సూత్ర-కారేణైవ ఆనన్దాదయః ప్రధానస్య [బ్ర। సూ। ౩।౩।౧౧], వికల్పోఽవిశిష్ట-ఫలత్వాత్ [బ్ర। సూ। ౩।౩।౭౫] ఇత్య్ ఆదిషూక్తమ్। వాక్య-కారేణ చ సగుణస్యైవోపాస్యత్వṁ విద్యా-వికల్పశ్ చోక్తః-- యుక్తṁ తద్-గుణకోపాసనాత్ ఇతి। భాష్య-కృతా వ్యాఖ్యాతṁ చ యద్య్ అపి సచ్-చిత్తః ఇత్య్ ఆదినా। బ్రహ్మ వేద బ్రహ్మైవ భవతి [ముణ్డ్।, ౩।౨।౯] ఇత్య్ అత్రాపి నామ-రూపాద్ విముక్తః పరాత్పరṁ పురుషమ్ ఉపైతి దివ్యమ్ [ముణ్డ్।, ౩।౨।౮], నిరఞ్జనః పరమṁ సామ్యమ్ ఉపైతి [ముణ్డ్।, ౩।౧।౩], పరṁ జ్యోతిర్ ఉపసమ్పద్య స్వేన రూపేణాభినిష్పద్యతే [ఛాన్।, ౮।౧౨।౨] ఇత్య్ ఆదిభిర్ ఐకార్థ్యాత్ ప్రాకృత-నామ-రూపాభ్యాṁ వినిర్ముక్తస్య నిరస్త-తత్-కృత-భేదస్య జ్ఞానైకాకారతయా బ్రహ్మ-ప్రకారతోచ్యతే। ప్రకారైక్యే చ తత్త్వ-వ్యవహారో ముఖ్య ఏవ; యథా సేయṁ గౌర్ ఇతి॥
Link copiedఅత్రాపి విజ్ఞానṁ ప్రాపకṁ ప్రాప్యే పరే బ్రహ్మణి పార్థివ। ప్రాపణీయస్ తథైవాత్మా ప్రక్షీణాశేష-భావనః॥ [వి। పు।, ౬।౭।౯౩] ఇతి॥ పర-బ్రహ్మ-ధ్యానాద్ ఆత్మా పర-బ్రహ్మవత్ ప్రక్షీణాశేష-భావనః-- కర్మ-భావనా-బ్రహ్మాభావనోభయ-భావనేతి భావనా-త్రయ-రహితః ప్రాపణీయ ఇత్య్ అభిధాయ, క్షేత్రజ్ఞః కరణీ జ్ఞానṁ కరణṁ తస్య వై ద్విజ। నిష్పాద్య ముక్తి-కార్యṁ హి కృతకృత్యṁ నివర్తయేత్॥ [వి। పు।, ౬।౭।౯౪] ఇతి కరణస్య పర-బ్రహ్మ-ధ్యాన-రూపస్య ప్రక్షీణాశేష-భావనాత్మ-స్వరూప-ప్రాప్త్యా కృతకృత్యత్వేన నివృత్తి-వచనాద్ యావత్-సిద్ధ్య్-అనుష్ఠేయమ్ ఇత్య్ ఉక్త్వా తద్-భావ-భావమ్ ఆపన్నస్ తదాసౌ పరమాత్మనా। భవత్య్ అభేదీ భేదశ్ చ తస్యాజ్ఞాన-కృతో భవేత్॥ [వి। పు।, ౬।౭।౯౩।౯౫] ఇతి ముక్తస్య స్వరూపమ్ ఆహ। తద్-భావో బ్రహ్మణో భావః స్వభావః। న తు స్వరూపైక్యమ్, తద్-భావ-భావమ్ ఆపన్న ఇతి ద్వితీయ-భావ-శబ్దాన్ అన్వయాత్ పూర్వోక్తార్థ-విరోధాచ్ చ। యద్ బ్రహ్మణః ప్రక్షీణాశేష-భావనత్వṁ తదాపత్తిః తద్-భావ-భావాపత్తిః। యదైవమ్ ఆపన్నస్ తదాసౌ పరమాత్మనా అభేదీ భవతి భేద-రహితో భవతి। జ్ఞనైకాకారతయా పరమాత్మనైక-ప్రకారస్యాస్య తస్మాద్ భేదో దేవాది-రూపః। తద్-అన్వయోఽస్య కర్మ-రూపాజ్ఞాన-మూలః। న స్వరూప-కృతః స తు దేవాదిభేదః పర-బ్రహ్మ-ధ్యానేన మూల-భూతాజ్ఞాన-రూపే కర్మణి వినష్టే హేత్వ్-అభావాన్ నివర్తత ఇత్య్ అభేదీ భవతి। యథోక్తమ్-- ఏక-స్వరూప-భేదస్ తు బాహ్య-కర్మ-వృతి-ప్రజః। దేవాది-భేదేఽపధ్వస్తే నాస్త్య్ ఏవావరణో హి సః॥ [వి। పు।, ౨।౧౪।౩౩] ఇతి॥
Link copiedఏతద్ ఏవ వివృణోతి విభేద-జనకేఽజ్ఞానే నాశమాత్య్ అన్తికṁ గతే। ఆత్మానో బ్రహ్మణో భేదమ్ అసన్తṁ కః కరిష్యతి, ఇతి। విభేదః-- వివిధో భేదః-- దేవ-తిర్యఙ్-మనుష్య-స్థావరాత్మకః। యథోక్తṁ శౌనకేనాపి చతుర్-విధోఽపి భేదోఽయṁ మిథ్యా-జ్ఞాన-నిబన్ధనః [విష్ణు-ధర్మ,౧౦౦।౨౧] ఇతి। ఆత్మని జ్ఞాన-రూపే దేవాది-రూప-వివిధ-భేద-హేతు-భూత-కర్మాఖ్యా-జ్ఞానే పర-బ్రహ్మ-ధ్యానేనాత్యన్తిక-నాశṁ గతే సతి హేత్వ్-అభావాద్ అసన్తṁ పరస్మాద్ బ్రహ్మణ ఆత్మనో దేవాది-రూప-భేదṁ కః కరిష్యతీత్య్ అర్థః। అవిద్యా కర్మ-సṁజ్ఞాన్యా ఇతి హ్య్ అత్రైవోక్తమ్॥
Link copied[అద్వైత-పరత్వేన పరాభిమత-గీతోక్తి-వివరణమ్]
Link copiedక్షేత్రజ్ఞṁ చాపి మాṁ విద్ధి [భ। గీ।, ౧౩।౨] ఇత్య్ ఆదినాన్తర్యామి-రూపేణ సర్వస్యాత్మతయా ఐక్యాభిధానమ్। అన్యథా-- క్షరః సర్వాణి భూతాని కూటస్థోఽక్షర ఉచ్యతే। ఉత్తమః పురుషస్ త్వ్ అన్యః, ఇత్య్ ఆదిభిర్ విరోధః। అన్తర్యామి-రూపేణ సర్వేషామ్ ఆత్మత్వṁ తత్రైవ భగవతాభిహితమ్ ఈశ్వరః సర్వ-భూతానాṁ హృద్-దేశేఽర్జున తిష్ఠతి [భ। గీ।, ౧౮।౬౧], సర్వస్య చాహṁ హృది సన్నివిష్టః [భ। గీ।, ౧౫।౧౫] ఇతి చ। అహమ్ ఆత్మా గుడాకేశ సర్వ-భూతాశయ-స్థితః, ఇతి చ తద్ ఏవోచ్యతే। భూత-శబ్దో హ్య్ ఆత్మ-పర్యన్త-దేహ-వచనః। యతః సర్వేషామ్ అయమ్ ఆత్మా తత ఏవ సర్వేషాṁ తచ్-ఛరీరతయా పృథగ్-అవస్థానṁ ప్రతిషిధ్యతే న తద్ అస్తి వినా యత్ స్యాత్ ఇతి; భగవద్-విభూత్య్ ఉపసṁహారశ్ చాయమ్ ఇతి తథైవాభ్యుపగన్తవ్యమ్। తత ఇదమ్ ఉచ్యతే-- యద్ యద్ విభూతిమత్ సత్త్వṁ శ్రీమద్ ఊర్జితమ్ ఏవ వా। తత్ తద్ ఏవావగచ్ఛ త్వṁ మమ తేజోṁఽశ-సమ్భవమ్। విష్టభ్యాహమ్ ఇదṁ కృత్స్నమ్ ఏకాṁశేన స్థితో జగత్॥ [భ। గీ।, ౧౦।౪౧।౪౨] ఇతి॥
Link copiedఅతః శాస్త్రేషు న నిర్విశేష-వస్తు-ప్రతిపాదనమ్ అస్తి। నాప్య్ అర్థ-జాతస్య భ్రాన్తత్వ-ప్రతిపాదనమ్। నాపి చిద్-అచిద్-ఈశ్వరాణాṁ స్వరూప-భేద-నిషేధః॥
Link copied[అవిద్యాయాṁ సప్త-విధా అనుపపత్తయః]
Link copied[అవిద్యా-దూషణార్థṁ పరోక్తార్థానువాదః]
Link copiedయద్ అప్య్ ఉచ్యతే నిర్విశేషే స్వయమ్-ప్రకాశే వస్తుని దోష-పరికల్పితమ్ ఈశేశితవ్యాద్య్-అనన్త-వికల్పṁ సర్వṁ జగత్। దోషశ్ చ స్వరూప-తిరోధాన-వివిధ-విచిత్ర-విక్షేపకరీ సద్-అసద్-అనిర్వచనీయానాద్య్-అవిద్యా। సా చావశ్యాభ్యుపగమనీయా; అనృతేన హి ప్రత్యూఢాః [ఛాన్।, ౮।౩।౨] ఇత్య్ ఆదిభిః శ్రుతిభిః, బ్రహ్మణస్ తత్ త్వమ్ అస్య్ ఆది వాక్య-సామానాధికరణ్యావగత-జీవైక్యానుపపత్త్యా చ। సా తు న సతీ, భ్రాన్తి-బాధయోర్ అయోగాత్। నాప్య్ అసతీ, ఖ్యాతి-బాధయోశ్ చాయోగాత్। అతః కోటి-ద్వయ-వినిర్ముక్తేయమ్ అవిద్యేతి తత్త్వ-విదః-- ఇతి।
Link copied[తత్రాశ్రయానుపపత్తిః]
Link copiedతద్ అయుక్తమ్। సా హి కిమ్ ఆశ్రిత్య భ్రమṁ జనయతి న తావజ్ జీవమ్ ఆశ్రిత్య, అవిద్యా-పరికల్పితత్వాజ్ జీవ-భావస్య। నాపి బ్రహ్మాశ్రిత్య, తస్య స్వయమ్-ప్రకాశ-జ్ఞాన-స్వరూపత్వేనావిద్యావిరోధిత్వాత్। సా హి జ్ఞాన-బాధ్యాభిమతా॥
Link copiedజ్ఞాన-రూపṁ పరṁ బ్రహ్మ తన్ నివర్త్యṁ మృషాత్మకమ్।
Link copiedఅజ్ఞానṁ చేత్ తిరస్కుర్యాత్కః ప్రభుస్ తన్-నివర్తనే॥
Link copiedజ్ఞానṁ బ్రహ్మేతి చేజ్ జ్ఞానమ్ అజ్ఞానస్య నివర్తకమ్।
Link copiedబ్రహ్మవత్ తత్-ప్రకాశత్వాత్ తద్ అపి హ్య్ అనివర్తకమ్॥
Link copiedజ్ఞానṁ బ్రహ్మేతి విజ్ఞానమ్ అస్తి చేత్ స్యాత్ ప్రమేయతా।
Link copiedబ్రహ్మణోఽననుభూతిత్వṁ త్వద్-ఉక్త్యైవ ప్రసజ్యతే॥ [శ్రీ-నాథమునిః]
Link copiedజ్ఞాన-స్వరూపṁ బ్రహ్మేతి జ్ఞానṁ తస్యా అవిద్యాయా బాధకమ్, న స్వరూప-భూతṁ జ్ఞానమ్ ఇతి చేన్ న, ఉభయోర్ అపి బ్రహ్మ-స్వరూప-ప్రకాశత్వే సత్య్ అన్యతరస్యావిద్యా-విరోధిత్వమ్ అన్యతరస్య నేతి విశేషానవగమాత్।
Link copiedఏతద్ ఉక్తṁ భవతి-- జ్ఞాన-స్వరూపṁ బ్రహ్మేత్య్ అనేన జ్ఞానేన బ్రహ్మణి యః స్వభావోఽవగమ్యతే; స బ్రహ్మణః స్వయమ్-ప్రకాశత్వేన స్వయమ్ ఏవ ప్రకాశత ఇత్య్ అవిద్యా-విరోధిత్వే న కశ్చిద్ విశేషః స్వరూప-తద్-విషయ-జ్ఞానయోః-- ఇతి।
Link copied[బ్రహ్మ-విషయ-ప్రమాణ-జ్ఞానṁ భ్రమ-నివర్తకమ్ ఇతి కల్పస్యయ దూషణమ్]
Link copiedకిṁ చ, అనుభవ-స్వరూపస్య బ్రహ్మణోఽనుభవాన్తరాననుభావ్యత్వేన భవతో న తద్-విషయṁ జ్ఞానమ్ అస్తి। అతో జ్ఞానమ్ అజ్ఞాన-విరోధి చేత్ స్వయమ్ ఏవ విరోధి భవతీతి నాస్యా బ్రహ్మాశ్రయత్వ-సమ్భవః। శుక్త్య్-ఆదయస్ తు స్వయాథాత్మ్య-ప్రకాశే స్వయమ్ అసమర్థాః స్వాజ్ఞానావిరోధినస్ తన్-నివర్తనే చ జ్ఞానాన్తరమ్ అపేక్షన్తే। బ్రహ్మ తు స్వానుభవ-సిద్ధ-స్వయాథాత్మ్యమ్ ఇతి స్వాజ్ఞాన-విరోధ్య్ ఏవ। తత ఏవ నివర్తకాన్తరṁ చ నాపేక్షతే॥
Link copied[ప్రపఞ్చ-మిథ్యాత్వ-విషయకṁ జ్ఞానṁ భ్రమ-నివర్తకమ్ ఇతి పక్షస్య దూషణమ్]
Link copiedఅథోచ్యేత-- బ్రహ్మ-వ్యతిరిక్తస్య మిథ్యాత్వ-జ్ఞానమ్ అజ్ఞాన-విరోధి-- ఇతి। న, ఇదṁ బ్రహ్మ-వ్యతిరిక్త-మిథ్యాత్వ-జ్ఞానṁ కిṁ బ్రహ్మ యాథాత్మ్యాజ్ఞాన-విరోధ్య్ ఉత ప్రపఞ్చ-సత్యత్వ-రూపాజ్ఞాన-విరోధీతి వివేచనీయమ్। న తావద్ బ్రహ్మ-యాథాత్మ్యాజ్ఞాన-విరోధి, అతద్-విషయత్వాజ్ జ్ఞానాజ్ఞానయోర్ ఏక-విషయత్వేన హి విరోధః। ప్రపఞ్చ-మిథ్యాత్వ-జ్ఞానṁ తత్-సత్యత్వ-రూపాజ్ఞానేన విరుధ్యతే। తేన ప్రపఞ్చ-సత్యత్వ-రూపాజ్ఞానమ్ ఏవ బాధితమ్ ఇతి బ్రహ్మ-స్వరూపాజ్ఞానṁ తిష్ఠత్య్ ఏవ। బ్రహ్మ-స్వరూపాజ్ఞానṁ నామ తస్య సద్వితీయత్వమ్ ఏవ। తత్ తు తద్-వ్యతిరిక్తస్య మిథ్యాత్వ-జ్ఞానేన నివృత్తమ్। స్వరూపṁ తు స్వానుభవ-సిద్ధమ్ ఇతి చేన్ న। బ్రహ్మణోఽద్వితీయత్వṁ స్వరూపṁ స్వానుభవ-సిద్ధమ్ ఇతి తద్-విరోధి సద్వితీయత్వ-రూపాజ్ఞానṁ తద్-బాధశ్ చ న స్యాతామ్। అద్వితీయత్వṁ ధర్మ ఇతి చేన్ న, అనుభవ-స్వరూపస్య బ్రహ్మణోఽనుభావ్య-ధర్మ-విరహస్య భవతైవ ప్రతిపాదితత్వాత్। అతో జ్ఞాన-స్వరూపస్య బ్రహ్మణో విరోధాద్ ఏవ నాజ్ఞానాశ్రయత్వమ్॥
Link copied[అవిద్యయా బ్రహ్మణస్ తిరోధానానుపపత్తిః]
Link copiedకిṁ చ, అవిద్యయా ప్రకాశైక-స్వరూపṁ బ్రహ్మ తిరోహితమ్ అతి వదతా స్వరూప-నాశ ఏవోక్తః స్యాత్। ప్రకాశ-తిరోధానṁ నామ ప్రకాశోత్పత్తి-ప్రతిబన్ధో విద్యమానస్య వినాశో వా। ప్రకాశస్యానుత్పాద్యత్వాభ్యుపగమేన ప్రకాశతిరోధానṁ ప్రకాశనాశ ఏవ॥
Link copied[అవిద్యా-స్వరూపానుపపత్తిః]
Link copiedఅపి చ నిర్విషయా నిరాశ్రయా స్వ-ప్రకాశేయమ్ అనుభూతిః స్వాశ్రయ-దోష-వశాద్ అనన్తాశ్రయమ్ అనన్త- విషయమ్ ఆత్మానమ్ అనుభవతీత్య్ అత్ర కిమ్ అయṁ స్వాశ్రయ-దోషః పరమార్థ-భూతః ఉతాపరమార్థ-భూత ఇతి వివేచనీయమ్। న తావత్ పరమార్థః, అనభ్యుపగమాత్। నాప్య్ అపరమార్థః, తథా సతి హి ద్రష్టృత్వేన వా దృశ్యత్వేన వా దృశిత్వేన వాభ్యుపగమనీయః। న తావద్ దృశిః, దృశి-స్వరూప-భేదానభ్యుపగమాత్। భ్రమాధిష్ఠాన-భూతాయాస్ తు సాక్షాద్ దృశేర్ మాధ్యమిక-పక్ష-ప్రసఙ్గేనాపారమార్థ్యానభ్యుపగమాచ్ చ। ద్రష్టృ-దృశ్యయోస్ తద్-అవచ్ఛిన్నాయా దృశేశ్ చ కాల్పనికత్వేన మూల-దోషాన్తరాపేక్షయానవస్థా స్యాత్। అథైతత్-పరిజిహీర్షయా పరమార్థసత్య్ అనుభూతిర్ ఏవ బ్రహ్మ-రూపో దోష ఇతి చేద్ బ్రహ్మైవ చేద్ దోషః, ప్రపఞ్చ-దర్శనస్యైవ తన్-మూలṁ స్యాత్। కిṁ ప్రపఞ్చ-తుల్యావిద్యాన్తర-పరికల్పనేన బ్రహ్మణో దోషత్వే సతి తస్య నిత్యత్వేనానిర్మోక్షశ్ చ స్యాత్। అతో యావద్ బ్రహ్మ-వ్యతిరిక్త-పారమార్థిక-దోషానభ్యుపగమః, న తావద్ భ్రాన్తిర్ ఉపపాదితా భవతి।
Link copied[అనిర్వచనీయత్వానుపపత్తిః]
Link copiedఅనిర్వచనీయత్వṁ చ కిమ్ అభిప్రేతమ్। సద్-అసద్-విలక్షణత్వమ్ ఇతి చేత్, తథావిధస్య వస్తునః ప్రమాణ-శూన్యత్వేనానిర్వచనీయతైవ స్యాత్। ఏతద్ ఉక్తṁ భవతి-- సర్వṁ హి వస్తు-జాతṁ ప్రతీతి-వ్యవస్థాప్యమ్। సర్వా చ ప్రతీతిః సద్-అసద్-ఆకారా। సద్-అసద్-ఆకారాయాస్ తు ప్రతీతేః సద్-అసద్-విలణṁ విషయ ఇత్య్ అభ్యుపగమ్యమానే సర్వṁ సర్వ-ప్రతీతేర్ విషయః స్యాత్-- ఇతి॥
Link copied[అవిద్యాయాṁ ప్రమాణానుపపత్తి-ప్రదర్శనార్థṁ పూర్వ-పక్షోపన్యాసః]
Link copiedఅథ స్యాత్-- వస్తు-స్వరూప-తిరోధాన-కరమ్ ఆన్తర-బాహ్య-రూప-వివిధాధ్యాసోపాదానṁ సద్-అసద్-అనిర్వచనీయమ్ అవిద్యా అజ్ఞానాది-పద-వాచ్యṁ వస్తు-యాథాత్మ్య-జ్ఞాన-నివర్త్యṁ జ్ఞాన-ప్రాగ్-అభావాతిరేకేణ భావ-రూపమ్ ఏవ కిఞ్చిద్ వస్తు ప్రత్యక్షానుమానాభ్యాṁ ప్రతీయతే। తద్-ఉపహిత-బ్రహ్మోపాదానశ్ చావికారే స్వ-ప్రకాశ-చిన్-మాత్ర-వపుషి తేనైవ తిరోహిత-స్వరూపే ప్రత్యగ్-ఆత్మన్య్ అహఙ్కార-జ్ఞాన-జ్ఞేయ-విభాగ-రూపోఽధ్యాసః। తస్యైవావస్థా-విశేషేణాధ్యాస-రూపే జగతి జ్ఞాన-బాధ్య-సర్ప-రజతాది-వస్తు తత్-తజ్-జ్ఞాన-రూపాధ్యాసోఽపి జాయతే। కృత్స్నస్య మిథ్యా-రూపస్య తద్-ఉపాదానత్వṁ చ మిథ్యా-భూతస్యార్థస్య మిథ్యా-భూతమ్ ఏవ కారణṁ భవితుమ్ అర్హతీతి హేతు-బలాద్ అవగమ్యతే।
Link copied[అవిద్యా-విషయే ప్రత్యక్షస్య ప్రమాణతా]
Link copiedకారణాజ్ఞాన-విషయṁ ప్రత్యక్షṁ తావద్ అహమ్ అజ్ఞో మామ్ అన్యṁ చ న జానామి ఇత్య్ అపరోక్షావభాసః। అయṁ తు న జ్ఞాన-ప్రాగ్-అభావ-విషయః స హి షష్ఠ-ప్రమాణ-గోచరః। అయṁ తు అహṁ సుఖీతివద్ అపరోక్షః అభావస్య ప్రత్యక్షత్వాభ్యుపగమేఽప్య్ అయమ్ అనుభవో నాత్మజ్ఞానాభావ-విషయః, అనుభవ-వేలాయామ్ అపి జ్ఞానస్య విద్యమానత్వాత్, అవిద్యమానత్వే జ్ఞానాభావ-ప్రతీత్య్-అనుపపత్తేశ్ చ॥
Link copiedఏతద్ ఉక్తṁ భవతి-- అహమ్ అజ్ఞ ఇత్య్ అస్మిన్న్ అనుభవే అహమ్ ఇత్య్ ఆత్మనోఽభావ-ధర్మితయా జ్ఞానస్య చ ప్రతియోగితయావగతిర్ అస్తి వా, న వా అస్తి చేద్ విరోధాద్ ఏవ న జ్ఞానాభావానుభవ-సమ్భవః। నో చేద్ ధర్మి-ప్రతియోగి-జ్ఞాన-సవ్యపేక్షా జ్ఞానాభావానుభవః సుతరాṁ న సమ్భవతి। జ్ఞానాభావస్యానుమేయత్వేఽభావాఖ్య-ప్రమాణ-విషయత్వే చేయమ్ అనుపపత్తిః సమానా। అస్యాజ్ఞానస్య భావ-రూపత్వే ధర్మి-ప్రతియోగి-జ్ఞాన-సద్-భావేఽపి విరోధాభావాద్ అయమ్ అనుభవో భావ-రూపాజ్ఞాన-విషయ ఏవాభ్యుపగన్తవ్యః-- ఇతి।
Link copied[భావ-రూపాజ్ఞానస్య సాక్షి-చైతన్య-విరోధిత్వ-శఙ్కాపరిహారౌ]
Link copiedనను చ-- భావ-రూపమ్ అప్య్ అజ్ఞానṁ వస్తు-యాథాత్మ్యావభాస-రూపేణ సాక్షి-చైతన్యేన విరుధ్యతే। మైవమ్-- సాక్షి-చైతన్యṁ న వస్తు-యాథాత్మ్య-విషయమ్, అపి తు అజ్ఞాన-విషయమ్, అన్యథా మిథ్యార్థావభాసానుపపత్తేః। న హ్య్ అజ్ఞాన-విషయేణ జ్ఞానేనాజ్ఞానṁ నివర్త్యత ఇతి న విరోధః।
Link copiedనను చేదṁ భావ-రూపమ్ అప్య్ అజ్ఞానṁ విషయ-విశేష-వ్యావృత్తమ్ ఏవ సాక్షి-చైతన్యస్య విషయో భవతి। స విషయః ప్రమాణానధీన-సిద్ధిర్ ఇతి కథమ్ ఇవ సాక్షి-చైతన్యేనాస్మద్-అర్థ-వ్యావృత్తమ్ అజ్ఞానṁ విషయీక్రియతే। నైష దోషః, సర్వమ్ ఏవ వస్తు-జాతṁ జ్ఞాతతయా, అజ్ఞాతతయా వా సాక్షి-చైతన్యస్య విషయ-భూతమ్। తత్ర జడత్వేన జ్ఞాతతయా సిధ్యత ఏవ ప్రమాణ-వ్యవధానాపేక్షా। అజడస్య తు ప్రత్యగ్ వస్తునః స్వయṁ సిధ్యతో న ప్రమాణ-వ్యవధానాపేక్షేతి సదైవాజ్ఞానస్య వ్యావర్తకత్వేనావభాసో యుజ్యతే। తస్మాన్ న్యాయోపబృṁహితేన ప్రత్యక్షేణ భావ-రూపమ్ ఏవాజ్ఞానṁ ప్రతీయతే।
Link copied[భావ-రూపస్యాజ్ఞానస్యానుమానతః సిద్ధి-శఙ్కా]
Link copiedతద్ ఇదṁ భావ-రూపమ్ అజ్ఞామ్ అనుమానేనాపి సిద్ధ్యతి। వివాదాధ్యాసితṁ ప్రమాణ-జ్ఞానṁ స్వ-ప్రాగ్-అభావ-వ్యతిరిక్త-స్వ-విషయావరణ-స్వ-నివర్త్య-స్వ-దేశ-గత-వస్త్వ్-అన్తర-పూర్వకమ్, అప్రకాశితార్థ-ప్రకాశకత్వాత్, అన్ధకారే ప్రథమోత్పన్న-ప్రదీప-ప్రభావత్ ఇతి।
Link copied[తమసో ద్రవ్యత్వ-సమర్థనమ్]
Link copiedఆలోకాభావ-మాత్రṁ వా రూపṁ దర్శనాభావ-మాత్రṁ వా తమో న ద్రవ్యాన్తరమ్, తత్ కథṁ భావ-రూపాజ్ఞాన-సాధనే నిదర్శనతయోపన్యస్యత ఇతి చేత్, ఉచ్యతే--- బహులత్వ-విరలత్వాద్య్-అవస్థాయోగేన రూపవత్తయా చోపలబ్ధేర్ ద్రవ్యాన్తరమ్ ఏవ తమ ఇతి నిరవద్యమ్ ఇతి॥
Link copied[భావ-రూపాజ్ఞాన-నిరాసారమ్భః, తత్ర నివర్త్య-నివర్తక-విరోధశ్ చ]
Link copiedఅత్రోచ్యతే-- అహమ్ అజ్ఞో మామ్ అన్యṁ చ న జానామి ఇత్య్ అత్రోపపత్తి-సహితేన కేవలేన చ ప్రత్యక్షేణ న భావ-రూపమ్ అజ్ఞానṁ ప్రతీయతే। యస్ తు జ్ఞాన-ప్రాగ్-అభావ-విషయత్వే విరోధ ఉక్తః, స హి భావ-రూపాజ్ఞానేఽపి తుల్యః। విషయత్వేనాశ్రయత్వేన చాజ్ఞానస్య వ్యావర్తకయా ప్రత్యగ్-అర్థః ప్రతిపన్నో వా, అప్రతిపన్నో వా। ప్రతిపన్నశ్ చేత్, తత్-స్వరూప-జ్ఞాన-నివర్త్యṁ తద్-అజ్ఞానṁ తస్మిన్ ప్రతిపన్నే కథమ్ ఇవ తిష్ఠతి। అప్రతిపన్నశ్ చేద్ వ్యావర్తకాశ్రయ-విషయ-జ్ఞాన శూన్యమ్ అజ్ఞానṁ కథమ్ అనుభూయేత॥
Link copied[విశదావిశద-విభాగాద్ అవిరోధ-శఙ్కా, తత్-పరిహారశ్ చ]
Link copiedఅథ విశద-స్వరూపావభాసోఽజ్ఞాన-విరోధీ, అవిశద-స్వరూపṁ తు ప్రతీయత ఇత్య్ ఆశ్రయ-విషయ-జ్ఞానే సత్య్ అపి నాజ్ఞానానుభవ-విరోధః--- ఇతి। హన్త తర్హి జ్ఞాన-ప్రాగ్-అభావోఽపి విశద-స్వరూప-విషయః। ఆశ్రయ-ప్రతియోగి-జ్ఞానṁ త్వ్ అవిశద-స్వరూప-విషయమ్ ఇతి న కశ్చిద్ విశేషోఽన్యత్రాభినివేశాత్॥
Link copied[అజ్ఞానస్య భావ-రూపత్వేఽపి సాపేక్షతా]
Link copiedభావ-రూపస్యాజ్ఞానస్యాపి హ్య్ అజ్ఞానమ్ ఇతి సిధ్యతః ప్రాగ్-అభావ-సిద్ధావ్ ఇవ సాపేక్షత్వమ్ అస్త్య్ ఏవ, తథా హి--- అజ్ఞానమ్ ఇతి జ్ఞానాభావస్ తద్-అన్యస్ తద్-విరోధీ వా త్రయాణామ్ అపి తత్-స్వరూప-జ్ఞానాపేక్షావశ్యాశ్రయణీయా। యద్య్ అపి తమః స్వరూప-ప్రతిపత్తౌ ప్రకాశాపేక్షా న విద్యతే; తథాపి ప్రకాశ-విరోధీత్య్ అనేనాకారేణ ప్రతిపత్తౌ ప్రకాశ-ప్రతిపత్త్య్ అపేక్షాస్త్య్ ఏవ। భవద్-అభిమతాజ్ఞానṁ న కదాచిత్ స్వరూపేణ సిద్ధ్యతి, అపి త్వ్ అజ్ఞానమ్ ఇత్య్ ఏవ। తథా సతి జ్ఞానాభావవత్ తద్-అపేక్షత్వṁ సమానమ్॥
Link copied[అజ్ఞానస్య జ్ఞాన-ప్రాగ్-అభావతాసమర్థనమ్]
Link copiedజ్ఞాన-ప్రాగ్-అభావస్ తు భవతాప్య్ అభ్యుపగమ్యతే। ప్రతీయతే చేత్య్ ఉభయాభ్యుపేతో జ్ఞాన-ప్రాగ్-అభావ ఏవ అహమ్ అజ్ఞో మామ్ అన్యṁ చ న జానామి, ఇత్య్ అనుభూయత ఇత్య్ అభ్యుపగన్తవ్యమ్॥
Link copied[అజ్ఞః ఇతి ప్రత్యక్షస్య భావ-రూపాజ్ఞాన-విషయత్వే ప్రతికూల-తర్కః]
Link copiedనిత్యమ్ ఉక్త-స్వ-ప్రకాశ-చైతన్యైక-స్వరూపస్య బ్రహ్మణోఽజ్ఞానానుభవశ్ చ న సమ్భవతి, స్వానుభవ-స్వరూపత్వాత్। స్వానుభవ-స్వరూపమ్ అపి తిరోహిత-స్వరూపమ్ అజ్ఞానమ్ అనుభవతీతి చేత్, కిమ్ ఇదṁ తిరోహిత-స్వరూపత్వమ్। అప్రకాశిత-స్వరూపత్వమ్ ఇతి చేత్, స్వానుభవ-స్వరూపస్య కథమ్ అప్రకాశిత-స్వరూపత్వమ్। స్వానుభవ-స్వరూపస్యాప్య్ అన్యతోఽప్రకాశిత-స్వరూపత్వమ్ ఆపద్యత ఇతి చేద్ ఏవṁ తర్హి ప్రకాశాఖ్య-ధర్మానభ్యుపగమేన ప్రకాశస్యైవ స్వరూపత్వాద్ అన్యతః స్వరూప-నాశ ఏవ స్యాద్ ఇతి పూర్వమ్ ఏవోక్తమ్॥
Link copied[భావ-రూపాజ్ఞాన-విషయత్వే దూషణాన్తరమ్]
Link copiedకిṁ చ-- బ్రహ్మ-స్వరూప-తిరోధాన-హేతు-భూతమ్ ఏతద్ అజ్ఞానṁ స్వయమ్ అనుభూతṁ సద్ బ్రహ్మ తిరస్కరోతి। బ్రహ్మ తిరస్కృత్య స్వయṁ తద్-అనుభవ-విషయో భవతీత్య్ అన్యోన్యాశ్రయణమ్॥
Link copiedఅనుభూతమ్ ఏవ తిరస్కరోతీతి చేద్ యద్య్ అతిరోహిత-స్వరూపమ్ ఏవ బ్రహ్మాజ్ఞానమ్ అనుభవతి; తదా తిరోధాన-కల్పనా నిష్ప్రయోజనా స్యాద్ అజ్ఞాన-స్వరూప-కల్పనా చ। బ్రహ్మణోఽజ్ఞానాదర్శనవద్ అజ్ఞాన-కార్యతయాభిమత-ప్రపఞ్చ-దర్శనస్యాపి సమ్భవాత్। కిṁ చ-- బ్రహ్మణోఽజ్ఞానానుభవః కిṁ స్వతోఽన్యతో వా స్వతశ్ చేద్ అజ్ఞానానుభవస్య స్వరూప-ప్రయుక్తత్వేన అనిర్మోక్షః స్యాత్। అనుభూతి-స్వరూపస్య బ్రహ్మణోఽజ్ఞానానుభవ-స్వరూపత్వేన మిథ్యా-రజత-బాధక-జ్ఞానేన రజతానుభవస్యాపి నివృత్తివన్ నివర్తక-జ్ఞానేనాజ్ఞానానుభూతి-రూప-బ్రహ్మ-స్వరూప-నివృత్తిర్ వా। అన్యతశ్ చేత్ కిṁ తద్-అన్యజ్ అజ్ఞానాన్తరమ్ ఇతి చేద్ అనవస్థా స్యాత్। బ్రహ్మ తిరస్కృత్యైవ స్వయమ్ అనుభవ-విషయో భవతీతి చేత్ తథా సతీదమ్ అజ్ఞానṁ కాచాదివత్ స్వ-సత్తయా బ్రహ్మ తిరస్కరోతీతి జ్ఞాన-బాధ్యత్వమ్ అజ్ఞానస్య న స్యాత్॥
Link copiedఅథేదమ్ అజ్ఞానṁ స్వయమ్ అనాది, బ్రహ్మణః స్వ-సాక్షిత్వṁ బ్రహ్మ-స్వరూప-తిరస్కృతిṁ చ యుగపద్ ఏవ కరోతి। అతో నానవస్థాదయో దోషా ఇతి నైతత్; స్వానుభవ-స్వరూపస్య బ్రహ్మణః స్వరూప-తిరస్కృతిమ్ అన్తరేణ సాక్షిత్వాపాదనాయోగాత్। హేత్వ్-అన్తరేణ తిరస్కృతమ్ ఇతి చేత్, తర్హ్య్ అస్యానాదిత్వమ్ అపాస్తమ్। అనవస్థా చ పూర్వోక్తా। అతిరస్కృత-స్వరూపస్యైవ సాక్షిత్వాపాదనే బ్రహ్మణః స్వానుభవైకతానతా చ న స్యాత్॥
Link copied[పూర్వోక్త-విశదావిశదావ్ అభాస-దూషణమ్]
Link copiedఅపి చ-- అవిద్యయా బ్రహ్మణి తిరోహితే తద్ బ్రహ్మ న కిఞ్చిద్ అపి ప్రకాశతే ఉత కిఞ్చిత్ ప్రకాశతే పూర్వస్మిన్ కల్పే ప్రకాశ-మాత్ర-స్వరూపస్య బ్రహ్మణోఽప్రకాశే తుచ్ఛతాపత్తిర్ అసకృద్ ఉక్తా। ఉత్తరస్మిన్ కల్పే సచ్-చిద్-ఆనన్దైకరసే బ్రహ్మణి కోఽయమ్ అṁశస్ తిరస్క్రియతే, కో వా ప్రకాశతే నిరṁశే నిర్విశేషే ప్రకాశ-మాత్రే వస్తున్య్ ఆకార-ద్వయాసమ్భవేన తిరస్కారః ప్రకాశశ్ చ యుగపన్ న సఙ్గచ్ఛేతే। అథ సచ్-చిద్-ఆనన్దైకరసṁ బ్రహ్మ అవిద్యయా తిరోహిత-స్వరూపమ్ అవిశదమ్ ఇవ లక్ష్యత ఇతి ప్రకాశ-మాత్ర-స్వరూపస్య విశదతావిశదతా వా కిṁ-రూపా। ఏతద్ ఉక్తṁ భవతి-- యః సాṁశః సవిశేషః ప్రకాశ-విషయః; తస్య సకలావభాసో విశదావభాసః, కతిపయ-విశేష-రహితావభాసశ్ చావిశదావభాసః। తత్ర య ఆకారోఽప్రతిపన్నస్ తస్మిన్న్ అṁశే ప్రకాశాభావాద్ ఏవ ప్రకాశావైశద్యṁ న విద్యతే। యచ్ చాṁశః ప్రతిపన్నస్ తస్మిన్న్ అṁశే తద్-విషయ-ప్రకాశో విశద ఏవ। అతః సర్వత్ర ప్రకాశాṁశేఽవైశద్యṁ న సమ్భవతి। విషయేఽపి స్వరూపే ప్రతీయమానే తద్-గత-కతిపయ-విశేషాప్రతీతిర్ ఏవావైశద్యమ్। తస్మాద్ అవిషయే నిర్విశేషే ప్రకాశ-మాత్రే బ్రహ్మణి స్వరూపే ప్రకాశమానే తద్-గత-కతిపయ-విశేషాప్రతీతి-రూపావైశద్యṁ నామాజ్ఞాన-కార్యṁ న సమ్భవతి।
Link copied[విశదావిశదావభాసస్యైవ ముఖాన్తరేణ దూషణమ్]
Link copiedఅపి చ-- ఇదమ్ అవిద్యా-కార్యమ్ అవైశద్యṁ తత్త్వ-జ్ఞానోదయాన్ నివర్తతే న వా అనివృత్తావపవర్గాభావః। నివృత్తౌ చ వస్తు కిṁ-రూపమ్ ఇతి వివేచనీయమ్। విశద-స్వరూపమ్ ఇతి చేత్ తద్-విశద-స్వరూపṁ ప్రాగ్ అస్తి న వా అస్తి చేద్ అవిద్యా-కార్యమ్ అవైశద్యṁ తన్-నివృత్తిశ్ చ న స్యాతామ్। నో చేన్ మోక్షస్య కార్యతయా అనిత్యతా స్యాత్॥
Link copied[దూషణాన్తరాణి]
Link copiedఅస్యాజ్ఞానస్యాశ్రయానిరూపణాద్ ఏవాసమ్భవః పూర్వమ్ ఏవోక్తః। అపి చ-- అపరమార్థ-దోష-మూల-భ్రమ-వాదినా నిరధిష్ఠాన-భ్రమాసమ్భవోఽపి దురుపపాదః; భ్రమ-హేతు-భూత-దోషాశ్రయత్వవద్ అధిష్ఠానాపారమార్థ్యేఽపి భ్రమోపపత్తేః। తతశ్ చ సర్వ-శూన్యత్వమ్ ఏవ స్యాత్॥
Link copied[ఉక్తాజ్ఞానేఽనుమాన-ప్రమాణ-దూషణమ్]
Link copiedయద్ ఉక్తమ్ అనుమానేనాపి భావ-రూపమ్ అజ్ఞానṁ సిధ్యతీతి; తద్ అయుక్తమ్; అనుమానాసమ్భవాత్। ననూక్తమనుమానమ్। సత్యమ్ ఉక్తమ్। దురుక్తṁ తు తత్, అజ్ఞానేఽప్య్ అనభిమతాజ్ఞానాన్తర-సాధనేన విరుద్ధత్వాద్ ధేతోః। తత్రాజ్ఞానాన్తరాసాధనే హేతోర్ అనైకాన్త్యమ్। సాధనే చ తద్-అజ్ఞానమ్ అజ్ఞాన-సాక్షిత్వṁ నివారయతి। తతశ్ చాజ్ఞాన-కల్పనా నిష్ఫలా స్యాత్॥
Link copied[అనుమానే దూషణాన్తరమ్]
Link copiedదృష్టాన్తశ్ చ సాధన-వికలః; దీప-ప్రభాయా అప్రకాశితార్థ-ప్రకాశకత్వాభావాత్। సర్వత్ర జ్ఞానస్యైవ హి ప్రకాశకత్వమ్। సత్య్ అపి దీపే జ్ఞానేన వినా విషయ-ప్రకాశాభావాత్। ఇన్ద్రియాణామ్ అపి జ్ఞానోత్పత్తి-హేతుత్వమ్ ఏవ; న ప్రకాశకత్వమ్। ప్రదీప-ప్రభాయాస్ తు చక్షుర్-ఇన్ద్రియస్య జ్ఞానమ్ ఉత్పాదయతో విరోధితమో-నిరసన-ద్వారేణ ఉపకారకత్వ-మాత్రమ్ ఏవ। ప్రకాశక-జ్ఞానోత్పత్తౌ వ్యాప్రియమాణ-చక్షుర్-ఇన్ద్రియోపకారక-హేతుత్వమ్ అపేక్ష్య దీపస్య ప్రకాశకత్వ-వ్యవహారః। నాస్మాభిర్ జ్ఞాన-తుల్య-ప్రకాశకత్వాభ్యుపగమేన దీప-ప్రభా నిదర్శితా। అపి తు జ్ఞానస్యైవ స్వ-విషయావరణ-నిరసన-పూర్వక-ప్రకాశకత్వమ్ అఙ్గీకృత్యేతి చేన్ న, న హి విరోధి-నిరసన-మాత్రṁ ప్రకాశకత్వమ్; అపి త్వ్ అర్థ-పరిచ్ఛేదః। వ్యవహార-యోగ్యతాపాదానమ్ ఇతి యావత్। తత్ తు జ్ఞానస్యైవ। యద్య్ ఉపకారకాణామ్ అప్య్ అప్రకాశితార్థ-ప్రకాశకత్వమ్ అఙ్గీకృతṁ, తర్హీన్ద్రియాణామ్ ఉపకారకతమత్వేనాప్రకాశితార్థ-ప్రకాశకత్వమ్ అఙ్గీకరణీయమ్। తథా సతి తేషాṁ స్వ-నివర్త్య-వస్త్వ్-అన్తర-పూర్వకత్వాభావాద్ ధేతోర్ అనైకాన్త్యమ్ ఇత్య్ అలమ్ అనేన॥
Link copied[భావ-రూపాజ్ఞానానుమానస్య ప్రతికూలతర్క-పరాహతిః]
Link copiedప్రతిప్రయోగాశ్ చ-- ౧) వివాదాధ్యాసితమ్ అజ్ఞానṁ న జ్ఞాన-మాత్ర-బ్రహ్మాశ్రయమ్; అజ్ఞానత్వాత్; శుక్తికాద్య్-అజ్ఞానవత్। జ్ఞాత్రాశ్రయṁ హి తత్। ౨) వివాదాధ్యాసితమ్ అజ్ఞానṁ న జ్ఞాన-మాత్ర-బ్రహ్మావరణమ్; అజ్ఞానత్వాత్, శుక్తికాద్య్-అజ్ఞానవత్। విషయావరణṁ హి తత్। ౩) వివాదాధ్యాసితమ్ అజ్ఞానṁ న జ్ఞాన-నివర్త్యమ్; జ్ఞాన-విషయానావరణత్వాత్; యజ్ జ్ఞాన-నివర్త్యమ్ అజ్ఞానṁ తజ్ జ్ఞాన-విషయావరణమ్। యథా శుక్తికాద్య్-అజ్ఞానమ్। ౪। బ్రహ్మ నాజ్ఞానాస్పదమ్, జ్ఞాతృత్వ-విరహాత్; ఘటాదివత్। ౫) బ్రహ్మ నాజ్ఞానావరణమ్; జ్ఞానా-విషయత్వాత్। యద్ అజ్ఞానావరణṁ తజ్ జ్ఞాన-విషయ-భూతమ్, యథా శుక్తికాది। ౬) బ్రహ్మ న జ్ఞాన-నివర్త్యాజ్ఞానమ్; జ్ఞానావిషయత్వాత్। యజ్ జ్ఞాననిర్త్యాజ్ఞానṁ తజ్ జ్ఞాన-విషయ-భూతమ్, యథా శుక్తికాది। ౭) వివాదాధ్యాసితṁ ప్రమాణ-జ్ఞానṁ స్వ-ప్రాగ్-అభావాతిరక్తాజ్ఞాన-పూర్వకṁ న భవతి, ప్రమాణ-జ్ఞానత్వాత్, భవద్-అభిమతాజ్ఞాన-సాధన-ప్రమాణ-జ్ఞానవత్। ౮) జ్ఞానṁ న వస్తునో వినాశకమ్, శక్తి-విశేషోపబృṁహణ-విరహే సతి జ్ఞానత్వాత్। యద్ వస్తునో వినాశకṁ తచ్-ఛక్తి-విశేషోపబృṁహితṁ జ్ఞానమ్ అజ్ఞానṁ చ దృష్టమ్; యథేశ్వర-యోగి-ప్రభృతి-జ్ఞానమ్; యథా చ ముద్గరాది। ౯) భావ-రూపమ్ అజ్ఞానṁ న జ్ఞాన-వినాశ్యమ్; భావ-రూపత్వాత్, ఘటాదివద్ ఇతి।
Link copied[అన్తిమే ప్రతికూల-తర్కే వ్యాప్తి-భఙ్గ-శఙ్కాపరిహారౌ]
Link copiedఅథోచ్యేత-- బాధక-జ్ఞానేన పూర్వ-జ్ఞానోత్పన్నానాṁ భయాదీనాṁ వినాశో దృశ్యతే-- ఇతి। నైవమ్-- న హి జ్ఞానేన తేషాṁ వినాశః; క్షణికత్వేన తేషాṁ స్వయమ్ ఏవ వినాశాత్; కారణ-నివృత్త్యా చ పశ్చాద్ అనుత్పత్తేః। క్షణికత్వṁ చ తేషాṁ జ్ఞానవద్ ఉత్పత్తికారణ-సన్నిధాన ఏవోపలబ్ధేః; అన్యథానుపలబ్ధేశ్ చావగమ్యతే। అక్షణికత్వే చ భయాదీనాṁ భయాది-హేతు-భూత-జ్ఞాన-సన్తతావవిశేషేణ సర్వేషాṁ జ్ఞానానాṁ భయాద్య్-ఉత్పత్తి-హేతుత్వేనానేక-భయోపలబ్ధి-ప్రసఙ్గాచ్ చ॥
Link copied[అవిద్యానుమాన-ప్రయోగ-దూషణమ్]
Link copiedస్వ-ప్రాగ్-అభావ-వ్యతిరిక్త-వస్త్వ్-అన్తర-పూర్వకమ్ ఇతి వ్యర్థ-విశేషణోపాదానేన ప్రయోగ-కుశలతా చావిష్కృతా। అతోఽనుమానేనాపి న భావ-రూపాజ్ఞాన-సిద్ధిః।
Link copied[అవిద్యాయాṁ ప్రమాణాన్తరస్యాప్య్ అభావః]
Link copiedశ్రుతి-తద్-అర్థాపత్తిభ్యామ్ అజ్ఞానాసిద్ధిర్ అనన్తరమ్ ఏవ వక్ష్యతే। మిథ్యార్థస్య హి మిథ్యైవోపాదానṁ భవితుమ్ అర్హతీత్య్ ఏతద్ అపి న విలక్షణత్వాత్ [బ్ర। సూ। ౨।౧।౪] ఇత్య్ అధికరణ-న్యాయేన పరిహ్రియతే। అతోఽనిర్వచనీయాజ్ఞాన-విషయా న కాచిద్ అపి ప్రతీతిర్ అస్తి।
Link copied[ఖ్యాతి-విచారారమ్భః]
Link copiedప్రతీతి-భ్రాన్తి-బాధైర్ అపి న తథాభ్యుపగమనీయమ్। ప్రతీయమానమ్ ఏవ హి ప్రతీతి-భ్రాన్తి-బాధ-విషయః। ఆభిః ప్రతీతిభిః ప్రతీత్య్-అన్తరేణ చానుపలబ్ధమ్ ఆసాṁ విషయ ఇతి న యుజ్యతే కల్పయితుమ్॥
Link copied[అనిర్వచనీయ-ఖ్యాతిః]
Link copiedశుక్త్య్-ఆదిషు రజతాది-ప్రతీతేః, ప్రతీతి-కాలేఽపి తన్ నాస్తీతి బాధేన చాన్యస్యాన్యథాభానాయోగాచ్ చ సద్-అసద్-అనిర్వచనీయమ్ అపూర్వమ్ ఏవేదṁ రజతṁ దోష-వశాత్ ప్రతీయత ఇతి కల్పనీయమ్ ఇతి చేత్;
Link copied[అన్యథాఖ్యాతేర్ అపరిహార్యతా]
Link copiedన, తత్-కల్పనాయామ్ అప్య్ అన్యస్యాన్యథాభానస్యావర్జనీయత్వాత్; అన్యథాభానాభ్యుపగమాద్ ఏవ ఖ్యాతి-ప్రవృత్తి-బాధ-భ్రమత్వానామ్ ఉపపత్తేర్ అత్యన్తాపరిదృష్టాకారణక-వస్తు-కల్పనాయోగాత్। కల్ప్యమానṁ హీదమ్ అనిర్వచనీయమ్, న తావద్ అనిర్వచనీయమ్ ఇతి ప్రతీయతే, అపి తు పరమార్థ-రజతమ్ ఇత్య్ ఏవ। అనిర్వచనీయమ్ ఇత్య్ ఏవ ప్రతీతṁ చేద్ భ్రాన్తి-బాధయోః ప్రవృత్తేర్ అప్య్ అసమ్భవః। అతోఽన్యస్యాన్యథాభాన-విరహే ప్రతీతి-ప్రవృత్తి-బాధ-భ్రమత్వానామ్ అనుపపత్తేస్ తస్యాపరిహార్యత్వాచ్ చ; శుక్త్య్-ఆదిర్ ఏవ రజతాద్య్-ఆకారేణావభాసత ఇతి భవతాభ్యుపగన్తవ్యమ్। ఖ్యాత్య్-అన్తరవాదినాṁ చ సుదూరమ్ అపి గత్వాన్యథావభాసోఽవశ్యాశ్రయణీయః--- అసత్-ఖ్యాతి-పక్షే సద్-ఆత్మనా; ఆత్మ-ఖ్యాతి-పక్షేఽర్థాత్మనా; అఖ్యాతి-పక్షేఽప్య్ అన్య-విశేషణమ్ అన్య-విశేషణత్వేన; జ్ఞాన-ద్వయమ్ ఏకత్వేన చ; విషయాసద్-భావ-పక్షేఽపి విద్యమానత్వేన॥
Link copied[అనిర్వచనీయోత్పత్తేర్ అకారణకతా]
Link copiedకిṁ చ-- అనిర్వచనీయమ్ అపూర్వ-రజతమ్ అత్ర జాతమ్ ఇతి వదతా తస్య జన్మ-కారణṁ వక్తవ్యమ్; న తావత్ తత్-ప్రతీతిస్ తస్యాస్ తద్-విషయత్వేన తద్-ఉత్పత్తేః ప్రాగ్-ఆత్మ-లాభాయోగాత్। నిర్విషయా జాతా తద్-ఉత్పాద్య తద్ ఏవ విషయీకరోతీతి మహతామ్ ఇదమ్ ఉపపాదనమ్। అథేన్ద్రియాది-గతో దోషః, తన్ న, తస్య పురుషాశ్రయత్వేనార్థ-గత-కార్యస్యోత్పాదకత్వాయోగాత్। నాపీన్ద్రియాణి, తేషాṁ జ్ఞాన-కారణత్వాత్। నాపి దుష్టానీన్ద్రియాణి, తేషామ్ అపి స్వ-కార్య-భూతే జ్ఞాన ఏవ హి విశేష-కరత్వమ్ అనాది-మిథ్యాజ్ఞానోపాదానత్వṁ తు పూర్వమ్ ఏవ నిరస్తమ్॥
Link copied[అనిర్వచనీయస్య బుద్ధి-శబ్దాన్వయ-నియమానుపపత్తిః]
Link copiedకిṁ చ-- అపూర్వమ్ అనిర్వచనీయమ్ ఇదṁ వస్తు-జాతṁ రజతాది-బుద్ధి-శబ్దాభ్యాṁ కథమ్ ఇవ విషయీక్రియతే, న ఘటాది-బుద్ధి-శబ్దాభ్యామ్। రజతాది-సాదృశ్యాద్ ఇతి చేత్ తర్హి తత్-సదృశమ్ ఇత్య్ ఏవ ప్రతీతి-శబ్దౌ స్యాతామ్। రజతాది-జాతి-యోగాద్ ఇతి చేత్ సా కిṁ పరమార్థ-భూతా; అపరమార్థ-భూతా వా; న తావత్ పరమార్థ-భూతా, తస్యా అపరమార్థాన్వయాయోగాత్। నాప్యపరమార్థ-భూతా, పరమార్థాన్వయాయోగాత్। అపరమార్థే పరమార్థ-బుద్ధి-శబ్దయోర్ నిర్వాహకత్వాయోగాచ్ చేత్య్ అలమ్ అపరిణత-కుతర్క-నిరసనేన॥
Link copied[సర్వత్రాబాధితా యథార్థ-ఖ్యాతిః]
Link copiedఅథవా
Link copiedయథార్థṁ సర్వ-విజ్ఞానమ్ ఇతి వేద-విదాṁ మతమ్।శ్రుతి-స్మృతిభ్యః సర్వస్య సర్వాత్మత్వ-ప్రతీతితః॥
Link copiedబహుస్యాṁ [ఛాన్।, ౬।౨।౩] ఇతి సఙ్కల్ప-పూర్వ-సృష్ట్య్-ఆద్య్-ఉపక్రమే।
Link copiedతాసాṁ త్రివృతమ్ ఏకైకాṁ [ఛాన్।, ౬।౩।౩] ఇతి శ్రుత్యైవ చోదితమ్॥
Link copiedత్రివృత్-కరణమ్ ఏవṁ హి ప్రత్యక్షేణోపలభ్యతే। యద్ అగ్నే రోహితṁ రూపṁ తేజసస్ తద్ అపామ్ అపి॥
Link copiedశుక్లṁ కృష్ణṁ పృథివ్యాశ్ చేత్య్ అగ్నావ్ ఏవ త్రిరూపతా।
Link copiedశ్రుత్యైవ దర్శితా తస్మాత్ సర్వే సర్వత్ర సఙ్గతాః॥
Link copiedపురాణే చైవమ్ ఏవోక్తṁ వైష్ణవే సృష్ట్య్-ఉపక్రమే॥
Link copiedనానా-వీర్యాః పృథగ్ భూతాస్ తతస్ తే సṁహతిṁ వినా।
Link copiedనాశక్నువన్ ప్రజాః స్రష్టుమ్ అసమాగమ్య కృత్స్నశః॥
Link copiedసమేత్యాన్యోన్య-సṁయోగṁ పరస్పర-సమాశ్రయాః।
Link copiedమహద్-ఆద్యా విశేషాన్తా హ్య్ అణ్డమ్ ఇత్య్ ఆదినా తతః॥ [వి। పు।, ౧।౨।౫౨।౫౪]
Link copiedసూత్ర-కారోఽపి భూతానాṁ త్రి-రూపత్వṁ తథావదత్।
Link copiedత్రయాత్మకత్వాత్ తు భూయస్త్వాత్ [బ్ర। సూ। ౩।౧।౨] ఇతి తేనాభిధాభిదా॥
Link copiedసోమాభావే చ పూతీక-గ్రహణṁ శ్రుతి-చోదితమ్।
Link copiedసోమావయవ-సద్-భావాద్ ఇతి న్యాయ-విదో విదుః॥
Link copiedవ్రీహ్య్-అభావే చ నీవార-గ్రహణṁ వ్రీహి-భావతః।
Link copiedతద్ ఏవ సదృశṁ తస్య యత్ తద్ ద్రవ్యైకదేశ-భాక్॥
Link copiedశుక్త్య్-ఆదౌ రజతాదేశ్ చ భావః శ్రుత్యైవ బోధితః।
Link copiedరూప్య-శుక్త్య్-ఆది-నిర్దేశ-భేదో భూయస్త్వ-హేతుకః॥
Link copiedరూప్యాది-సదృశశ్ చాయṁ శుక్త్య్-ఆదిర్ ఉపలభ్యతే।
Link copiedఅతస్ తస్యాత్ర సద్-భావః ప్రతీతేర్ అపి నిశ్చితః॥
Link copiedకదాచిచ్ చక్షుర్-ఆదేస్ తు దోషాచ్ ఛుక్త్య్ అṁశ-వర్జితః।
Link copiedరజతాṁశో గృహీతోఽతో రజతార్థీ ప్రవర్తతే॥ దోషహానౌ తు శుక్త్య్-అṁశే గృహీతే తన్-నివర్తతే।
Link copiedఅతో యథార్థṁ రూప్యాది-విజ్ఞానṁ శుక్తికాదిషు॥ బాధ్య-బాధక-భావోఽపి భూయస్త్వేనోపపద్యతే।
Link copiedశుక్తి-భూయస్త్వ-వైకల్య-సాకల్య-గ్రహ-రూపతః॥
Link copiedనాతో మిథ్యార్థ-సత్యార్థ-విషయత్వ-నిబన్ధనః। ఏవṁ సర్వస్య సర్వత్వే వ్యవహార-వ్యవస్థితిః॥
Link copied[స్వాప్నార్థ-సత్యతా-సమర్థనమ్]
Link copiedస్వప్నే చ ప్రాణినాṁ పుణ్య-పాపానుగుణṁ భగవతైవ తత్-తత్-పురుష-మాత్రానుభావ్యాస్ తత్-తత్-కాలావసానాస్ తథాభూతాశ్ చార్థాః సృజ్యన్తే। తథా హి శ్రుతిః స్వప్న-విషయా న తత్ర రథా న రథ-యోగా న పన్థానో భవన్తి। అథ రథాన్ రథ-యోగాన్ పథః సృజతే। న తత్రానన్దా ముదః ప్రముదో భవన్తి। అథానన్దాన్ ముదః ప్రముదః సృజతే। న తత్ర వేశాన్తాః పుష్కరిణ్యః స్రవన్త్యో భవన్తి। అథ వేశాన్తాన్ పుష్కరిణ్యః స్రవన్త్యః సృజతే। స హి కర్తా [బృహద్।, ౬।౩।౧౦] ఇతి। యద్య్ అపి సకలేతర-పురుషానుభావ్యతయా తదానీṁ న భవన్తి। తథాపి తత్-తత్-పురుష-మాత్రానుభావ్యతయా తథావిధానర్థానీశ్వరః సృజతి। స హి కర్తా। తస్య సత్య-సఙ్కల్పస్యాశ్చర్య-శక్తేస్ తథావిధṁ కర్తృత్వṁ సమ్భవతీత్య్ అర్థః। య ఏషు సుప్తేషు జాగర్తి కామṁ కామṁ పురుషో నిర్మిమాణః। తద్ ఏవ శుక్రṁ తద్ బ్రహ్మ తద్ ఏవామృతమ్ ఉచ్యతే। తస్మిṁల్ లోకాః శ్రితాః సర్వే తద్ ఉ నాత్యేతి కశ్చన [కఠ।, ౨।౫।౮] ఇతి చ। సూత్ర-కారోఽపి సన్ధ్యే సృష్టిర్ ఆహ హి [బ్ర। సూ। ౩।౨।౧] నిర్మాతారṁ చైకే పుత్రాదయశ్ చ [బ్ర। సూ। ౩।౨।౨] ఇతి సూత్ర-ద్వయేన స్వాప్నేష్వ్ అర్థేషు జీవస్య స్రష్టృత్వమ్ ఆశఙ్క్య మాయా-మాత్రṁ తు కార్త్స్న్యేనానభివ్యక్త-స్వరూపత్వాత్ [బ్ర। సూ। ౩।౨।౩] ఇత్య్ ఆదినా-- న జీవస్య సఙ్కల్ప-మాత్రేణ స్రష్టృత్వమ్ ఉపపద్యతే। జీవస్య స్వాభావిక-సత్య-సఙ్కల్పత్వాదేః కృత్స్నస్య సṁసార-దశాయామ్ అనభివ్యక్త-స్వరూపత్వాత్, ఈశ్వరస్యైవ తత్-తత్-పురుష-మాత్రానుభావ్యతయా ఆశ్చర్య-భూతా సృష్టిర్ ఇయమ్। తస్మిṁల్ లోకాః శ్రితాః సర్వే తద్ ఉ నాత్యేతి కశ్చన ఇతి పరమాత్మైవ తత్ర స్రష్టేత్య్ అవగమ్యత ఇతి పరిహరతి॥
Link copied[స్వాప్నార్థ-సత్యత్వానుపపత్తి-శఙ్కా-పరిహారః]
Link copiedఅపవరకాదిషు శయానస్య స్వప్న-దృశః స్వ-దేహేనైవ దేశాన్తర-గమన-రాజ్యాభిషేక-శిరశ్-ఛేదాదయశ్ చ పుణ్య-పాప-ఫల-భూతాః శయాన-దేహ-సరూప-సṁస్థాన-దేహాన్తర-సృష్ట్యోపపద్యన్తే॥
Link copied[భ్రమ-విశేషేషు యాథార్థ్యోపపాదనమ్]
Link copiedపీత-శఙ్ఖాదౌ తు నయన-వర్తి-పిత్త-ద్రవ్య-సమ్భిన్నా నాయన-రశ్మయః శఙ్ఖాదిభిః సṁయుజ్యన్తే। తత్ర పిత్త-గత-పీతిమాభిభూతః శఙ్ఖ-గత-శుక్లిమా న గృహ్యతే। అతః సువర్ణానులిప్త-శఙ్ఖవత్ పీతః శఙ్ఖ ఇతి ప్రతీయతే। పిత్త-ద్రవ్యṁ తద్-గతపీతిమా చాతిసౌక్ష్మ్యాత్ పార్శ్వ-స్థైర్ న గృహ్యతే। పిత్తోపహతేన తు స్వ-నయన-నిష్క్రాన్తతయాతి-సామీప్యాత్ సూక్ష్మమ్ అపి గృహ్యతే। తద్-గ్రహణ-జనిత-సṁస్కార-సచివ-నాయన-రశ్మిభిర్ దూరస్థమ్ అపి గృహ్యతే॥
Link copiedజపా-కుసుమ-సమీప-వర్తి-స్ఫటిక-మణిర్ అపి తత్-ప్రభాభిభూతతయా రక్త ఇతి గృహ్యతే। జపా-కుసుమ-ప్రభా వితతాపి స్వచ్ఛ-ద్రవ్య-సṁయుక్తతయా స్ఫుటతరమ్ ఉపలభ్యత ఇత్య్ ఉపలబ్ధి-వ్యవస్థాప్యమ్ ఇదమ్। మరీచికాజల-జ్ఞానేఽపి తేజః పృథివ్యోర్ అప్య్ అమ్బునో విద్యమానత్వాద్ ఇన్ద్రియ-దోషేణ తేజః పృథివ్యోర్ అగ్రహణాద్ అదృష్టవశాచ్ చామ్బునో గ్రహణాద్య్-అథార్థత్వమ్। అలాత-చక్రేఽప్య్ అలాతస్య ద్రుతతర-గమనేన సర్వ-దేశ-సṁయోగాద్ అన్తరాలాగ్రహణాత్ తథా ప్రతీతిర్ ఉపపద్యతే। చక్ర-ప్రతీతావ్ అప్య్ అన్తరాలాగ్రహణ-పూర్వక-తత్-తద్-దేశ-సṁయుక్త-తత్-తద్-వస్తు-గ్రహణమ్ ఏవ। క్వచిద్ అన్తరాలాభావాద్ అన్తరాలాగ్రహణమ్, క్వచిచ్ ఛైఘ్ర్యాద్ అగ్రహణమ్ ఇతి విశేషః। అతస్ తద్ అపి యథార్థమ్।
Link copiedదర్పణాదిషు నిజ-ముఖాది-ప్రతీతిర్ అపి యథార్థా। దర్పణాది-ప్రతిహత-గతయో హి నాయన-రశ్మయో దర్పణాది-దేశ-గ్రహణ-పూర్వకṁ నిజ-ముఖాది గృహ్ణన్తి। తత్రాప్య్ అతిశైఘ్ర్యాద్ అన్తరాలాగ్రహణాత్ తథా ప్రతీతిః॥
Link copiedదిఙ్-మోహేఽపి దిగ్-అన్తరస్యాస్యాṁ దిశి విద్యమానత్వాద్ అదృష్ట-వశేనైతద్-దిగ్-అṁశ-వియుక్తో దిగ్-అన్తరాṁశో గృహ్యతే। అతో దిగ్-అన్తర-ప్రతీతిర్ యథార్థైవ। ద్వి-చన్ద్ర-జ్ఞానాదావ్ అప్య్ అఙ్గుల్య్-అవష్టమ్భ-తిమిరాదిభిర్ నాయన-తేజో-గతి-భేదేన సామగ్రీభేదాత్ సామగ్రీ-ద్వయమ్ అన్యోన్య-నిరపేక్షṁ చన్ద్ర-గ్రహణ-ద్వయ-హేతుర్ భవతి। తత్రైకా సామగ్రీ స్వ-దేశ-విశిష్టṁ చన్ద్రṁ గృహ్ణాతి। ద్వితీయా తు కిఞ్చిద్ వక్ర-గతిశ్ చన్ద్ర-సమీప-దేశ-గ్రహణ-పూర్వకṁ చన్ద్రṁ స్వ-దేశ-వియుక్తṁ గృహ్ణాతి। అతః సామగ్రీ-ద్వయేన యుగపద్ దేశ-ద్వయ-విశిష్ట-చన్ద్ర-గ్రహణే గ్రహణ-భేదేన గ్రాహ్యాకార-భేదాద్ ఏకత్వ-గ్రహణాభావాచ్ చ ద్వౌ చన్ద్రావ్ ఇతి భవతి ప్రతీతి-విశేషః। దేశాన్తరస్య తద్-విశేషణత్వṁ దేశాన్తరస్య, అగృహీత-స్వ-దేశ-చన్ద్రస్య చ నిరన్తర-గ్రహణేన భవతి। తత్ర సామగ్రీ-ద్విత్వṁ పారమార్థికమ్। తేన దేశ-ద్వయ-విశిష్ట-చన్ద్ర-గ్రహణ-ద్వయṁ చ పారమార్థికమ్।
Link copiedగ్రహణ-ద్విత్వేన చన్ద్రస్యైవ గ్రాహ్యాకారద్విత్వṁ చ పారమార్థికమ్। తత్ర విశేషణ-ద్వయ-విశిష్ట-చన్ద్ర-గ్రహణ-ద్వయస్యైక ఏవ చన్ద్రో గ్రాహ్య ఇతి గ్రహణే ప్రత్యభిజ్ఞానవత్ కేవల-చక్షుషః సామర్థ్యాభావాచ్ చాక్షుష-జ్ఞానṁ తథైవావతిష్ఠతే। ద్వయోశ్ చక్షుషోర్ ఏక-సామగ్ర్య్-అన్తర్భావేఽపి తిమిరాది-దోష-భిన్నṁ చాక్షుషṁ తేజః సామగ్రీ-ద్వయṁ భవతీతి కార్య-కల్ప్యమ్। అపగతే తు దోషే స్వ-దేశ-విశిష్టస్య చన్ద్రస్యైక-గ్రహణ-వేద్యత్వాద్ ఏకశ్ చన్ద్ర ఇతి భవతి ప్రత్యయః। దోష-కృతṁ తు సామగ్రీ-ద్విత్వṁ తత్-కృతṁ గ్రహణ-ద్విత్వṁ తత్-కృతṁ గ్రాహ్యాకార-ద్విత్వṁ చేతి నిరవద్యమ్।
Link copiedఅతః సర్వṁ విజ్ఞాన-జాతṁ యథార్థమ్ ఇతి సిద్ధమ్। ఖ్యాత్య్-అన్తరాణాṁ దూషణాని తైస్ తైర్ వాదిభిర్ ఏవ ప్రపఞ్చితానీతి న తత్ర యత్నః క్రియతే।
Link copiedఅథవా కిమ్ అనేన బహునోపపాదాన-ప్రకారేణ।
Link copiedప్రత్యక్షానుమానాగమాఖ్యṁ ప్రమాణ-జాతమ్ ఆగమ-గమ్యṁ చ నిరస్తి-నిఖిల-దోష-గన్ధమ్ అనవధికాతిశయాసఙ్ఖ్యేయ-కల్యాణ-గుణ-గణṁ సర్వజ్ఞṁ, సత్య-సఙ్కల్పṁ పరṁ బ్రహ్మాభ్యుపగచ్ఛతాṁ కిṁ న సేత్స్యతి। కిṁ నోపపద్యతే।
Link copiedభగవతా హి పరేణ బ్రహ్మణా క్షేత్రజ్ఞ-పుణ్య-పాపానుగుణṁ తద్-భోగ్యత్వాయాఖిలṁ జగత్ సృజతా సుఖ-దుఃఖోపేక్షాఫలానుభవానుభావ్యాః పదార్థాః సర్వ-సాధారణానుభవ-విషయాః, కేచన తత్-తత్-పురుష-మాత్రానుభవ-విషయాః తత్-తత్-కాలావసానాస్ తథా తథానుభావ్యాః సృజ్యన్తే। తత్ర బాధ్య-బాధక-భావః సర్వానుభవ-విషయతయా తద్-రహితతయా చోపపద్యత ఇతి సర్వṁ సమఞ్జసమ్॥
Link copied[శ్రుత్య్-ఆదిభిః నానిర్వచనీయాజ్ఞాన-సిద్ధిః]
Link copiedయత్ పునః సద్-అసద్-అనిర్వచనీయమ్ అజ్ఞానṁ శ్రుతి-సిద్ధమ్ ఇతి; తద్ అసద్ అనృతేన హి ప్రత్యూఢాః [ఛాన్।, ౮।౩।౨] ఇత్య్ ఆదిష్వ్ అనృత-శబ్దస్యానిర్వచనీయానభిధాయిత్వాత్। ఋతేతర-విషయో హ్య్ అనృత-శబ్దః। ఋతమ్ ఇతి కర్మ-వాచి। ఋతṁ పిబన్తౌ [కఠ।, ౧।౩।౧] ఇతి వచనాత్। ఋతమ్-- కర్మ-ఫలాభిసన్ధి-రహితṁ పరమ-పురుషారాధన-వేషṁ తత్-ప్రాప్తి-ఫలమ్। అత్ర తద్-వ్యతిరిక్తṁ సాṁసారిక-ఫలṁ కర్మ అనృతṁ బ్రహ్మ-ప్రాప్తి-విరోధి ఏతṁ బ్రహ్మ-లోకṁ న విన్దన్తి, అనృతేన హి ప్రత్యూఢాః [ఛాన్।, ౮।౩।౧] ఇతి వచనాత్॥
Link copiedనాసద్ ఆసీన్నో సద్ ఆసీత్ [యజుర్, ౨।౮।౯] ఇత్య్ అత్రాపి సద్-అసచ్-ఛబ్దౌ చిద్-అచిద్-వ్యష్టి-విషయౌ। ఉత్పత్తి-వేలాయాṁ సత్-త్యచ్-ఛబ్దాభిహితయోశ్ చిద్-అచిద్-వ్యష్టి-భూతయోర్ వస్తునోర్ అప్యయ-కాలే అచిత్-సమష్టి-భూతే తమః శబ్దాభిధేయే వస్తుని ప్రలయ-ప్రతిపాదన-పరత్వాద్ అస్య వాక్యస్య। నాత్ర కస్యచిత్ సద్-అసద్-అనిర్వచనీయతోచ్యతే; సద్-అసతోః కాల-విశేషే అసద్-భావ-మాత్ర-వచనాత్। అత్ర తమః శబ్దాభిహితస్యాచిత్-సమష్టిత్వṁ శ్రుత్య్-అన్తరాద్ అవగమ్యతే-- అవ్యక్తమ్ అక్షరే లీయతే। అక్షరṁ తమసి లీయతే [సుబాల, ౨] ఇతి॥
Link copied[తమః-శబ్దస్య శ్రుతి-గతస్యానిర్వచనీయాజ్ఞాన-పరత్వ-శఙ్కా-పరిహారౌ]
Link copiedసత్యమ్। తమః-శబ్దేనాచిత్-సమష్టి-రూపాయాః ప్రకృతేః సూక్ష్మావస్థోచ్యతే। తస్యాస్ తు మాయాṁ తు ప్రకృతిṁ విద్యాత్ [శ్వే।, ౪।౧౦] ఇతి మాయా-శబ్దేనాభిధానాద్ అనిర్వచనీయత్వమ్ ఇతి చేన్ నైతద్ ఏవమ్-- మాయా-శబ్దస్యానిర్వచనీయ-వాచిత్వṁ న దృష్టమ్ ఇతి। మాయా-శబ్దస్య మిథ్యా-పర్యాయత్వేనానిర్వచనీయ-వాచిత్వమ్ ఇతి చేత్ తద్ అపి నాస్తి। న హి సర్వత్ర మాయా-శబ్దో మిథ్యా-విషయః, ఆసుర-రాక్షసాస్త్రాదిషు సత్యేష్వ్ ఏవ మాయా-శబ్ద-ప్రయోగాత్। యథోక్తమ్--
Link copiedతేన మాయా-సహస్రṁ తచ్-ఛమ్బరస్యాశు-గామినా।
Link copiedబాలస్య రక్షతా దేహమ్ ఏకైకశ్యేన సూదితమ్॥ ఇతి॥ [వి। పు। ౧।౧౯।౧౦]
Link copied[మాయా-శబ్దః సప్రమాణః]
Link copiedఅతో మాయా-శబ్దో విచిత్రార్థ-సర్గ-కరాభిధాయీ। ప్రకృతేశ్ చ మాయా-శబ్దాభిధానṁ విచిత్రార్థ-సర్గ-కరత్వాద్ ఏవ। అస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్ తస్మిṁశ్ చాన్యో మాయయా సన్నిరుద్ధః [శ్వే।, ౪।౯] ఇతి మాయా-శబ్ద-వాచ్యాయాః ప్రకృతేర్ విచిత్రార్థ-సర్గ-కరత్వṁ దర్శయతి। పరమ-పురుషస్య చ తద్వత్తా-మాత్రేణ మాయిత్వమ్ ఉచ్యతే, నాజ్ఞత్వేన। జీవస్యైవ హి మాయయా నిరోధః శ్రూయతే। తస్మిṁశ్ చాన్యో మాయయా సన్నిరుద్ధః ఇతి, అనాది-మాయయా సుప్తో యదా జీవః ప్రబుధ్యతే [మాణ్డ్।, ౨।౨౧] ఇతి చ। ఇన్ద్రో మాయాభిః పురు-రూప ఈయతే [బృహద్, ౪।౬।౧౯] ఇత్య్ అత్రాపి విచిత్రాః శక్తయోఽభిధీయన్తే। అత ఏవ హి భూరి త్వష్టేవ రాజతి ఇత్య్ ఉచ్యతే। న హి మిథ్యాభిభూతః కశ్చిద్ విరాజతే। మమ మాయా దురత్యయా [భ। గీతా ౭।౧౪] ఇత్య్ అత్రాపి గుణ-మయీతి వచనాత్ సైవ త్రి-గుణాత్మికా ప్రకృతిర్ ఉచ్యత ఇతి న శ్రుతిభిః సద్-అసద్-అనర్వచనీయాజ్ఞాన-ప్రతిపాదనమ్॥
Link copied[శ్రుత్య్-అర్థాపత్త్యానిర్వచనీయాజ్ఞాన-సిద్ధేర్ దూషణమ్]
Link copiedనాప్య్ ఐక్యోపదేశానుపపత్యా, న హి తత్ త్వమ్ అసి [ఛాన్।, ౬।౮।౭] ఇతి జీవ-పరయోర్ ఐక్యోపదేశే సతి సర్వజ్ఞే సత్య-సఙ్కల్పే సకల-జగత్-సర్గ-స్థితి-వినాశ-హేతు-భూతే తచ్-ఛబ్దాద్ అవగతే ప్రకృతే బ్రహ్మణి విరుద్ధాజ్ఞాన-పరికల్పనాహేతు-భూతా కాచిద్ అప్య్ అనుపపత్తిర్ దృశ్యతే। ఐక్యోపదేశస్ తు త్వṁ శబ్దేనాపి జీవ-శరీరకస్య బ్రహ్మణ ఏవాభిధానాద్ ఉపపన్నతరః। అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణి [ఛాన్।, ౬।౩।౨] ఇతి సర్వస్య వస్తునః పరమాత్మ-పర్యన్తస్యైవ హి నామ-రూప-భాక్త్వమ్ ఉక్తమ్। అతో న బ్రహ్మాజ్ఞాన-పరికల్పనమ్॥
Link copied[బ్రహ్మాజ్ఞానస్యేతిహాస-పురాణాభ్యామ్ అసిద్ధిః]
Link copiedఇతిహాస-పురాణయోర్ అపి న బ్రహ్మాజ్ఞాన-వాదః క్వచిద్ అపి దృశ్యతే। నను జ్యోతీṁషి విష్ణుః [వి। పు।, ౨।౧౨।౩౭] ఇతి బ్రహ్మైకమ్ ఏవ తత్ త్వమ్ ఇతి ప్రతిజ్ఞాయ, జ్ఞాన-స్వరూపో భగవన్ యతోఽసౌ [వి। పు।, ౨।౧౨।౩౮] ఇతి శైలాబ్ధిధరాది-భేద-భిన్నస్య జగతో జ్ఞానైక-స్వరూప-బ్రహ్మాజ్ఞాన-విజృమ్భితత్వమ్ అభిధాయ యదా తు శుద్ధṁ నిజ-రూపి [వి। పు।, ౨।౧౨।౩౯] ఇతి జ్ఞాన-స్వరూపస్యైవ బ్రహ్మణః స్వ-స్వరూపావస్థితి-వేలాయాṁ వస్తు-భేదాభావ-దర్శనేనాజ్ఞాన-విజృమ్భితత్వమ్ ఏవ స్థిరీకృత్య వస్త్వ్ అస్తి కిṁ [వి। పు।, ౨।౧౨।౪౦], మహీ ఘటత్వమ్ [వి। పు।, ౨।౧౨।౪౧] ఇతి శ్లోక-ద్వయేన జగద్-ఉపలబ్ధి-ప్రకారేణాపి వస్తు-భేదానామ్ అసత్యత్వమ్ ఉపపాద్య తస్మాన్ న విజ్ఞానమ్ ఋతే [వి। పు।, ౨।౧౨।౪౨] ఇతి ప్రతిజ్ఞాతṁ బ్రహ్మ-వ్యతిరక్తస్యాసత్యత్వమ్ ఉపసṁహృత్య విజ్ఞానమ్ ఏకమ్ [వి। పు।, ౨।౧౨।౪౩] ఇతి జ్ఞాన-స్వరూపే బ్రహ్మణి భేద-దర్శన-నిమిత్తాజ్ఞాన-మూలṁ నిజ-కర్మైవేతి స్ఫుటీకృత్య జ్ఞానṁ విశుద్ధమ్ [వి। పు।, ౨।౧౨।౪౪] ఇతి జ్ఞాన-స్వరూపస్య బ్రహ్మణః స్వరూపṁ విశోధ్య సద్-భావ ఏవṁ భవతో మయోక్తః [వి। పు।, ౨।౧౨।౪౫] ఇతి జ్ఞాన-స్వరూపస్య బ్రహ్మణ ఏవ సత్యత్వṁ నాన్యస్య; అన్యస్య చాసత్యత్వమ్ ఏవ; తస్య భువనాదేః సత్యత్వṁ వ్యావహారికమ్ ఇతి తత్త్వṁ తవోపదిష్టమ్ ఇతి హ్య్ ఉపదేశో దృశ్యతే।
Link copiedనైతద్ ఏవమ్; అత్ర భువన-కోశస్య విస్తీర్ణṁ స్వరూపమ్ ఉక్త్వా, పూర్వమ్ అనుక్తṁ రూపాన్తరṁ సఙ్క్షేపతః శ్రూయతామ్ [వి। పు।, ౨।౧౨।౩౬] ఇత్య్ ఆరభ్యాభిధీయతే।
Link copied[బ్రహ్మణః పూర్వమ్ అనుక్త-రూపాన్తరమ్]
Link copiedచిద్-అచిన్-మిశ్రే జగతి చిద్-అṁశో వాఙ్-మనసాగోచర-స్వ-సṁవేద్య-స్వరూప-భేదో జ్ఞానైకాకారతయా అస్పృష్ట-ప్రాకృత-భేదోఽవినాశిత్వేనాస్తి-శబ్ద-వాచ్యః। అచిద్-అṁశస్ తు చిద్-అṁశ-కర్మ-నిమిత్త-పరిణామ-భేదో వినాశీతి నాస్తి-శబ్దాభిధేయః। ఉభయṁ తు పర-బ్రహ్మ-భూత-వాసుదేవ-శరీరతయా తద్-ఆత్మకమ్ ఇత్య్ ఏతద్-రూపṁ సఙ్క్షేపేణాత్రాభిహితమ్॥
Link copied[ప్రతిజ్ఞాతార్థోపపాదనమ్]
Link copiedతథా హి-- యద్ అమ్బు వైష్ణవః కాయస్ తతో విప్ర వసున్ధరా।
Link copiedపద్మాకారా సముద్భూతా పర్వతాబ్ధ్యాది-సṁయుతా॥ [వి। పు। ౨।౧౨।౩౭]
Link copiedఇత్య్ అమ్బునో విష్ణోః శరీరత్వేనామ్బు-పరిణామ-భూతṁ బ్రహ్మాణ్డమ్ అపి విష్ణోః కాయః, తస్య చ విష్ణుర్ ఆత్మేతి సకల-శ్రుతి-గత-తాదాత్మ్యోపదేశోపబృṁహణ-రూపస్య సామానాధికరణ్యస్య జ్యోతీṁషి విష్ణుః ఇత్య్ ఆరభ్య వక్ష్యమాణస్య శరీరాత్మ-భావ ఏవ నిబన్ధనమ్ ఇత్య్ ఆహుః।
Link copiedఅస్మిఞ్ శాస్త్రే పూర్వమ్ అప్య్ ఏతద్ అసకృద్ ఉక్తమ్-- తాని సర్వాణి తద్-వపుః [వి। పు।, ౧।౨।౮౬], తత్ సర్వṁ వై హరేస్ తనుః, స ఏవ సర్వ-భూతాత్మా విశ్వ-రూపో యతోఽవ్యయః [వి। పు।, ౧।౨।౬౯] ఇతి। తద్ ఇదṁ శరీరాత్మ్ అభావాయత్తṁ తాదాత్మ్యṁ సామానాధికరణ్యేన వ్యపదిశ్యతే జ్యోతీṁషి విష్ణుః ఇతి।
Link copied[అస్తి నాస్త్యాత్మకతయా జగద్-విభాగ-విధా]
Link copiedఅత్రాస్త్య్ ఆత్మకṁ నాస్త్య్ ఆత్మకṁ చ జగద్-అన్తర్గతṁ వస్తు విష్ణోః కాయతయా విష్ణ్వ్-ఆత్మకమ్ ఇత్య్ ఉక్తమ్। ఇదమ్ అస్త్యాత్మకమ్, ఇదṁ నాస్త్య్ ఆత్మకమ్, అస్య చ నాస్త్య్ ఆత్మకత్వే హేతుర్ అయమ్ ఇత్య్ ఆహ జ్ఞాన-స్వరూపో భగవాన్ యతోఽసౌ ఇతి। అశేష-క్షేత్రజ్ఞాత్మనావస్థితస్య భగవతో జ్ఞానమ్ ఏవ స్వాభావికṁ రూపమ్। న దేవ-మనుష్యాది-వస్తు-రూపమ్। యత ఏవṁ, తత ఏవాచిద్-రూప-దేవ-మనుష్య-శైలాబ్ధి-ధరాదయశ్ చ తద్-విజ్ఞాన-విజృమ్భితాః; తస్య జ్ఞానైకాకారస్య సతో దైవాద్య్-ఆకారేణ స్వాత్మ-వైవిధ్యానుసన్ధాన-మూలా దేవాద్యాకారానుసన్ధాన-మూల-కర్మ-మూలా ఇత్య్ అర్థః। యతశ్ చాచిద్-వస్తు క్షేత్రజ్ఞ-కర్మానుగుణ-పరిణామాస్పదṁ, తతస్ తన్ నాస్తి-శబ్దాభిధేయమ్, ఇతరద్ అస్తి-శబ్దాభిధేయమ్ ఇత్య్ అర్థాద్ ఉక్తṁ భవతి। తద్ ఏవ వివృణోతి-- యదా తు శుద్ధṁ నిజరూపి ఇతి। యదైతజ్ జ్ఞానైకాకారమ్ ఆత్మ-వస్తు దేవాద్య్-ఆకారేణ స్వాత్మని వైవిధ్యానుసన్ధాన-మూల-సర్వ-కర్మ-క్షయాన్ నిర్దోషṁ పరిశుద్ధṁ నిజరూపి భవతి, తదా దేవాద్య్-ఆకారేణైకీకృత్యాత్మ-కల్పనా-మూల-కర్మ-ఫల-భూతాస్ తద్-భోగార్థా వస్తుషు వస్తు-భేదా న భవన్తి। యే దేవాదిషు వస్తుష్వ్ ఆత్మతయాభిమతేషు భోగ్య-భూతా దేవ-మనుష్య-శైలాబ్ధిధరాది-వస్తు-భేదాః; తే తన్-మూల-భూత-కర్మసు వినష్టేషు న భవన్తీత్య్ అచిద్-వస్తునః కాదాచిత్కావస్థా-విశేష-యోగితయా నాస్తి-శబ్దాభిధేయత్వమ్, ఇతరస్య సర్వదా నిజ-సిద్ధ-జ్ఞానైకాకారత్వేన అస్తి-శబ్దాభిధేయత్వమ్ ఇత్య్ అర్థః। ప్రతిక్షణమ్ అన్యథా-భూతతయా కాదాచిత్కావస్థా-యోగినోఽచిద్-వస్తునో నాస్తి-శబ్దాభిధేయత్వమ్ ఏవేత్య్ ఆహ-- వస్త్వ్ అస్తి కిమ్ ఇతి। అస్తి-శబ్దాభిధేయో హ్య్ ఆది-మధ్య-పర్యన్త-హీనః సతతైక-రూపః పదార్థస్ తస్య కదాచిద్ అపి నాస్తి-బుద్ధ్య్-అనర్హాత్వాత్। అచిద్-వస్తు కిఞ్చిత్ క్వచిద్ అపి తథాభూతṁ న దృష్ట-చరమ్। తతః కిమ్ ఇత్య్ అత్రాహ-- యచ్ చాన్యథాత్వమ్ [వి। పు।, ౨।౧౨।౪౧] ఇతి। యద్ వస్తు ప్రతిక్షణమ్ అన్యథాత్వṁ యాతి; తద్-ఉత్తరోత్తరావస్థా-ప్రాప్త్యా పూర్వ-పూర్వావస్థాṁ జహాతీతి తస్య పూర్వావస్థస్యోత్తరావస్థాయాṁ న ప్రతిసన్ధానమ్ అస్తి। అతః సర్వదా తస్య నాస్తి-శబ్దాభిధేయత్వమ్ ఏవ। తథా హ్య్ ఉపలభ్యత ఇత్య్ ఆహ మహీ ఘటత్వమ్ ఇతి। స్వ-కర్మణా దేవ-మనుష్యాది-భావేన స్తిమితాత్మ-నిశ్చయైః స్వ-భోగ్య-భూతమ్ అచిద్-వస్తు ప్రతిక్షణమ్ అన్యథాభూతమ్ ఆలక్ష్యతే-- అనుభూయత ఇత్య్ అర్థః। ఏవṁ సతి కిమ్ అప్య్ అచిద్-వస్త్వ్ అస్తి-శబ్దార్హామ్ ఆది-మధ్య-పర్యన్త-హీనṁ సతతైక-రూపమ్ ఆలక్షితమ్ అస్తి కిṁ న హ్య్ అస్తీత్య్ అభిప్రాయః। యస్మాద్ ఏవమ్, తస్మాజ్ జ్ఞాన-స్వరూపాత్మ-వ్యతిరిక్తమ్ అచిద్-వస్తు కదాచిత్ కిఞ్చిత్ కేవలాస్తిశబ్దవాచ్యṁ న భవతీత్యాహ-- తస్మాన్న విజ్ఞానమృతే ఇతి। ఆత్మా తు సర్వత్ర జ్ఞానైకాకారతయా దేవాది-భేద-ప్రత్యనీక-స్వరూపోఽపి దేవాది-శరీర-ప్రవేశ-హేతు-భూత-స్వకృత-వివిధ-కర్మ-మూల-దేవాది-భేద-భిన్నాత్మ-బుద్ధిభిస్ తేన తేన రూపేణ బహుధానుసṁహిత ఇతి తద్-భేదానుసన్ధానṁ నాత్మస్వరూప-ప్రయుక్తమ్ ఇత్య్ ఆహ-- విజ్ఞానమ్ ఏకమ్ ఇతి॥
Link copiedఆత్మ-స్వరూపṁ తు కర్మ-రహితమ్, తత ఏవ మల-రూప-ప్రకృతి-స్పర్శ-రహితమ్। తతశ్ చ తత్-ప్రయుక్త-శోక-మోహ-లోభాద్య్-అశేష-హేయ-గుణాసఙ్గి, ఉపచయాపచయానర్హాతయైకమ్, తత ఏవ సదైక-రూపమ్। తచ్ చ వాసుదేవ-శరీరమ్ ఇతి తద్-ఆత్మకమ్, అతద్-ఆత్మకస్య కస్యచిద్ అప్య్ అభావాద్ ఇత్య్ ఆహ-- జ్ఞానṁ విశుద్ధమ్ ఇతి। చిద్-అṁశః సదైక-రూపతయా సర్వదాస్తి-శబ్ద-వాచ్యః। అచిద్-అṁశస్ తు క్షణ-పరిణామిత్వేన సర్వదా నాశ-గర్భ ఇతి సర్వదా నాస్తి-శబ్దాభిధేయః। ఏవṁరూప-చిద్-అచిద్-ఆత్మకṁ జగద్-వాసుదేవ-శరీరṁ తద్-ఆత్మకమ్ ఇతి జగద్-యాథాత్మ్యṁ సమ్యగ్ ఉక్తమ్ ఇత్య్ ఆహ-- సద్-భావ ఏవమ్ ఇతి। అత్ర సత్యమ్, అసత్యమ్ ఇతి యద్ అస్తి యన్ నాస్తి ఇతి ప్రక్రాన్తస్యోపసṁహారః। ఏతజ్ జ్ఞానైకాకారతయా సమమ్, అశబ్ద-గోచర-స్వరూప-భేదమ్ ఏవాచిన్-మిశ్రṁ భువనాశ్రితṁ దేవ-మనుష్యాది-రూపేణ సమ్యగ్ వ్యవహారార్హ-భేదṁ యద్ వర్తతే; తత్ర హేతుః కర్మైవేత్య్ ఉక్తమ్ ఇత్య్ ఆహ-- ఏతత్ తు యత్ [వి। పు।, ౨।౧౩।౪౫] ఇతి। తద్ ఏవ వివృణోతి-- యజ్ఞః పశుః [వి। పు।, ౨।౧౨।౪౭] ఇతి। జగద్-యాథాత్మ్య-జ్ఞాన-ప్రయోజనṁ మోక్షోపాయతనమ్ ఇత్య్ ఆహ యచ్ చైతత్ [వి। పు।, ౨।౧౨।౪౬] ఇతి।
Link copied[శ్లోకానాṁ పరోక్తార్థాననుగుణతా]
Link copiedఅత్ర నిర్విశేషే పరే బ్రహ్మణి తద్-ఆశ్రయే సద్-అసద్-అనిర్వచనీయే చాజ్ఞానే, జగతస్ తత్-కల్పితత్వే చానుగుణṁ కిఞ్చిద్ అపి పదṁ న దృశ్యతే॥
Link copiedఅస్తి-నాస్తి-శబ్దాభిధేయṁ చిద్-అచిద్-ఆత్మకṁ కృత్స్నṁ జగత్ పరమస్య పరేశస్య పరస్య బ్రహ్మణో విష్ణోః కాయత్వేన తద్-ఆత్మకమ్; జ్ఞానైకాకారస్యాత్మనో దేవాది-వివిధాకారానుభవేఽచిత్-పరిణామే చ హేతుర్ వస్తు-యాథాత్మ్య-జ్ఞాన-విరోధి-క్షేత్రజ్ఞానాṁ కర్మైవేతి ప్రతిపాదనాద్ అస్తి-నాస్తి-సత్యాసత్య-శబ్దానాṁ చ సద్-అసద్-అనిర్వచనీయ-వస్త్వ్-అభిధానాసామర్థ్యాచ్ చ। నాస్త్య్-అసత్య్-అశబ్దావ్ అస్తి-సత్య-శబ్ద-విరోధినౌ। అతశ్ చ తాభ్యామ్ అసత్త్వṁ హి ప్రతీయతే; నానిర్వచనీయత్వమ్।
Link copiedఅత్ర చాచిద్-వస్తుని నాస్త్య్-అసత్య-శబ్దౌ న తుచ్ఛత్వ-మిథ్యాత్వ-పరౌ ప్రయుక్తౌ, అపి తు వినాశిత్వ-పరౌ। వస్త్వ్ అస్తి కిమ్, మహీ ఘటత్వమ్ ఇత్య్ అత్రాపి వినాశిత్వమ్ ఏవ హ్య్ ఉపపాదితమ్; న నిష్ప్రమాణకత్వṁ జ్ఞాన-బాధ్యత్వṁ వా; ఏకేనాకారేణైకస్మిన్ కాలేఽనుభూతస్య కాలాన్తరే పరిణామ-విశేషేణాన్యథోపలబ్ధ్యా నాస్తిత్వోపపాదనాత్। తుచ్ఛత్వṁ హి ప్రమాణ-సమ్బన్ధానర్హాత్వమ్। బాధోఽపి యద్ దేశ-కాలాది-సమ్బన్ధితయా యద్ అస్తీత్య్ ఉపలబ్ధమ్, తస్య తద్ దేశ-కాలాది-సమ్బన్ధితయా నాస్తీత్య్ ఉపలబ్ధిః, న తు కాలాన్తరేఽనుభూతస్య కాలాన్తరే పరిణామాదినా నాస్తీత్య్ ఉపలబ్ధిః, కాల-భేదేన విరోధాభావాత్। అతో న మిథ్యాత్వమ్॥
Link copiedఏతద్ ఉక్తṁ భవతి-- జ్ఞాన-స్వరూపమ్ ఆత్మ-వస్తు ఆది-మధ్య-పర్యన్త-హీనṁ సతతైక-స్వరూపమ్ ఇతి స్వత ఏవ సదాస్తి-శబ్దవాచ్యమ్। అచేతనṁ తు క్షేత్రజ్ఞ-భోగ్య-భూతṁ తత్-కర్మానుగుణ-పరిణామి వినాశీతి సర్వదా నాస్త్య్-అర్థ-గర్భమ్ ఇతి నాస్త్య్-అసత్య-శబ్దాభిధేయమ్ ఇతి॥ యథోక్తమ్---
Link copiedయత్ తు కాలాన్తరేణాపి నాన్య-సṁజ్ఞామ్ ఉపైతి వై।
Link copiedపరిణామాది-సమ్భూతాṁ తద్ వస్తు నృప తచ్ చ కిమ్॥ [వి। పు।, ౨।౧౩।౧౦౦]
Link copiedఅనాశీ పరమార్థశ్ చ ప్రాజ్ఞైర్ అభ్యుపగమ్యతే।
Link copiedతత్ తు నాస్తి న సన్దేహో నాశి-ద్రవ్యోపపాదితమ్॥ [వి। పు।, ౨।౧౪।౨౪] ఇతి॥
Link copiedదేశ-కాల-కర్మ-విశేషాపేక్షయా అస్తిత్వ-నాస్తిత్వ-యోగిని వస్తుని కేవలాస్తి-బుద్ధి-బోధ్యత్వమ్ అపరమార్థ ఇత్య్ ఉక్తమ్। ఆత్మన ఏవ కేవలాస్తి-బుద్ధి-బోధ్యత్వమ్ ఇతి స పరమార్థ ఇత్య్ ఉక్తమ్।
Link copied[దశ-శ్లోక్య్-ఉక్తార్థానువాదః]
Link copiedశ్రోతుశ్ చ మైత్రేయస్య--
Link copiedవిష్ణ్వ్-ఆధారṁ యథా చైతత్ త్రైలోక్యṁ సమవస్థితమ్।
Link copiedపరమార్థశ్ చ మే ప్రోక్తో యథాజ్ఞానṁ ప్రధానతః॥ [వి। పు।, ౨।౨।౨]
Link copiedఇత్య్ అనుభాషణాచ్ చ, జ్యోతీṁషి విష్ణుః ఇత్య్ ఆది సామానాధికరణ్యస్యాత్మ-శరీర-భావ ఏవ నిబన్ధనమ్; చిద్-అచిద్-వస్తునోశ్ చాస్తి-నాస్తి-శబ్ద-ప్రయోగ-నిబన్ధనṁ జ్ఞానస్యాకర్మ-నిమిత్త-స్వాభావిక-రూపత్వేన ప్రాధాన్యమ్; అచిద్-వస్తునశ్ చ తత్-కర్మ-నిమిత్త-పరిణామిత్వేనాప్రాధాన్యమ్ ఇతి ప్రతీయతే॥
Link copied[వేదాన్తానాṁ నిర్విశేష-బ్రహ్మ-విజ్ఞానేన అవిద్యా-నివృత్తి-పరత్వ-శఙ్కా-పరిహారౌ]
Link copiedయద్ ఉక్తṁ-- నిర్విశేష-బ్రహ్మ-విజ్ఞానాద్ ఏవావిద్యా-నివృత్తిṁ వదన్తి శ్రుతయః-- ఇతి। తద్ అసత్, వేదాహమ్ ఏతṁ పురుషṁ మహాన్తమ్। ఆదిత్య-వర్ణṁ తమసః పరస్తాత్। తమ్ ఏవṁ విద్వాన్ అమృత ఇహ భవతి। నాన్యః పన్థా విద్యతేఽయనాయ [తై।, ౩।౧౨।౧౩], సర్వే నిమేషా జజ్ఞిరే విద్యుతః పురుషాద్ అధి [మహానారా। ఉప్।], న తస్యేశే కశ్చన తస్య నామ మహద్ యశః [మహానారా। ఉప్।], య ఏనṁ విదుర్ అమృతాస్తే భవన్తి [మహానారా। ఉప్। ౧।౮।౯] ఇత్య్ ఆద్య్ అనేక-వాక్య-విరోధాత్। బ్రహ్మణః సవిశేషత్వాద్ ఏవ సర్వాణ్య్ అపి వాక్యాని సవిశేష-జ్ఞానాద్ ఏవ మోక్షṁ వదన్తి। శోధక-వాక్యాన్య్ అపి సవిశేషమ్ ఏవ బ్రహ్మ ప్రతిపాదయన్తీత్య్ ఉక్తమ్॥
Link copied[తత్ త్వమ్ అస్యాది సామానాధికరణ్యాన్యథానుపపత్త్యా నిర్విశేష-సిద్ధేర్ నిరాసః]
Link copiedతత్ త్వమ్ అస్యాది వాక్యేషు సామానాధికరణ్యṁ న నిర్విశేష-వస్త్వ్-ఐక్య-పరమ్, తత్-త్వమ్-పదయోః సవిశేష-బ్రహ్మాభిధాయిత్వాత్। తత్-పదṁ హి సర్వజ్ఞṁ సత్య-సఙ్కల్పṁ జగత్-కారణṁ బ్రహ్మ పరామృశతి తద్ ఐక్షత బహు స్యామ్ ఇత్య్ ఆదిషు తస్యైవ ప్రకృతత్వాత్। తత్-సమానాధికరణṁ త్వṁ పదṁ చ అచిద్-విశిష్ట-జీవ-శరీరకṁ బ్రహ్మ ప్రతిపాదయతి, ప్రకార-ద్వయావస్థితైక-వస్తు-పరత్వాత్ సామానాధికరణ్యస్య। ప్రకార-ద్వయ-పరిత్యాగే ప్రవృత్తి-నిమిత్త-భేదాసమ్భవేన సామానాధికరణ్యమ్ ఏవ పరిత్యక్తṁ స్యాత్; ద్వయోః పదయోర్ లక్షణా చ।
Link copiedసోఽయṁ దేవదత్తః ఇత్య్ అత్రాపి న లక్షణా, భూత-వర్తమాన-కాల-సమ్బన్ధితయైక్య-ప్రతీత్య్-అవిరోధాత్। దేశ-భేద-విరోధశ్ చ కాల-భేదేన పరిహృతః।
Link copied[పర-పక్షే దూషణాన్తరమ్]
Link copiedతద్ ఐక్షత బహు స్యామ్ ఇత్య్ ఉపక్రమ-విరోధశ్ చ। ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞానṁ చ న ఘటతే। జ్ఞాన-స్వరూపస్య నిరస్త-నిఖిల-దోషస్య సర్వజ్ఞస్య సమస్త-కల్యాణ-గుణాత్మకస్యాజ్ఞానṁ తత్-కార్యానన్తాపురుషార్థాశ్రయత్వṁ చ భవతి॥
Link copied[సామానాధికరణ్యస్య బాధార్థతా-నిరాసః]
Link copiedబాధార్థత్వే చ సామానాధికరణ్యస్య త్వṁ-తత్-పదయోర్ అధిష్ఠాన-లక్షణా నివృత్తి-లక్షణా చేతి లక్షణాదయస్ త ఏవ దోషాః॥
Link copiedఇయాṁస్ తు విశేషః-- నేదṁ రజతమ్ ఇతివద్ అప్రతిపన్నస్యైవ బాధస్యాగత్యా పరికల్పనమ్; తత్-పదేనాధిష్ఠానాతిరేకి-ధర్మానుపస్థాపనేన బాధానుపపత్తిశ్ చ। అధిష్ఠానṁ తు ప్రాక్ తిరోహితమ్ అతిరోహిత-స్వరూపṁ తత్-పదేనోపస్థాప్యత ఇతి చేన్ న, ప్రాగ్ అధిష్ఠానాప్రకాశే తద్-ఆశ్రయ-భ్రమ-బాధయోర్ అసమ్భవాత్। భ్రమాశ్రయమ్ అధిష్ఠానమ్ అతిరోహితమ్ ఇతి చేత్ తద్ ఏవాధిష్ఠాన-స్వరూపṁ భ్రమ-విరోధీతి తత్-ప్రకాశే సుతరాṁ న తద్-ఆశ్రయ-భ్రమ-బాధౌ। అతోఽధిష్ఠానాతిరేకి-పారమార్థిక-ధర్మ-తత్-తిరోధానానభ్యుపగమే భ్రాన్తి-బాధౌ దురుపపాదౌ। అధిష్ఠానే హి పురుష-మాత్రాకారే ప్రతీయమానే తద్-అతిరేకిణి పారమార్థికే రాజత్వే తిరోహితే సత్య్ ఏవ వ్యాధత్వ-భ్రమః। రాజత్వోపదేశేన చ తన్-నివృత్తిర్ భవతి; నాధిష్ఠాన-మాత్రోపదేశేన; తస్య ప్రకాశమానత్వేనానుపదేశ్యత్వాత్; భ్రమానుపమర్దిత్వాచ్ చ॥
Link copied[స్వ-పక్షే ఉక్త-దోషాణామ్ అభావః]
Link copiedజీవ-శరీరక-జగత్-కారణ-బ్రహ్మ-పరత్వే ముఖ్య-వృత్తṁ పద-ద్వయమ్। ప్రకార-ద్వయ-విశష్టైక-వస్తు-ప్రతిపాదనేన సామానాధికరణ్యṁ చ సిద్ధమ్। నిరస్త-నిఖిల-దోషస్య సమస్త-కల్యాణ-గుణాత్మకస్య బ్రహ్మణో జీవాన్తర్యామిత్వమ్ అప్య్ ఐశ్వర్యమ్ అపరṁ ప్రతిపాదితṁ భవతి। ఉపక్రమానుకూలతా చ। ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞోపపత్తిశ్ చ; సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరస్యైవ బ్రహ్మణః స్థూల-చిద్-అచిద్-వస్తు-శరీరత్వేన కార్యత్వాత్ తమ్ ఈశ్వరాణాṁ పరమṁ మహేశ్వరమ్ [శ్వే।, ౬।౭] పరాస్య శక్తిర్ వివిధైవ శ్రూయతే [శ్వే।, ౬।౮] అపహత-పాప్మా ॥।। సత్య-కామః సత్య-సఙ్కల్పః [ఛాన్।, ౮।౧।౬] ఇత్య్ ఆది శ్రుత్య్-అన్తరావిరోధశ్ చ॥
Link copied[తత్ త్వమ్ అసి ఇత్య్ అత్ర ఉద్దేశ్యోపాదేయ-విభాగ-చిన్తయాపి న నిర్విశేష-వస్త్వ్-ఐక్య-సిద్ధిః]
Link copiedతత్ త్వమ్ అసి ఇత్య్ అత్రోద్దేశ్యోపాదేయ-విభాగః కథమ్ ఇతి చేన్ నాత్ర కిఞ్చిద్ ఉద్దిశ్య కిమ్ అపి విధీయతే; ఐతదాత్మ్యమ్ ఇదṁ సర్వమ్ [ఛాన్।, ౬।౮।౭] ఇత్య్ అనేనైవ ప్రాప్తత్వాత్। అప్రాప్తే హి శాస్త్రమ్ అర్థవత్। ఇదṁ సర్వమ్ ఇతి సజీవṁ జగన్ నిర్దిశ్య ఐతదాత్మ్యమ్ ఇతి తస్యైష ఆత్మేతి తత్ర ప్రతిపాదితమ్। తత్ర చ హేతుర్ ఉక్తః-- సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః [ఛాన్।, ౬।౮।౩] ఇతి; సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మ తజ్ జలాన్ ఇతి, శాన్తః [ఛాన్।, ౩।౧౪।౧] ఇతివత్॥
Link copied[బ్రహ్మ-తద్-ఇతరయోస్ తాదాత్మ్యస్య శరీరాత్మ-భావకృతత్వే శ్రుతయః]
Link copiedతథా శ్రుత్య్-అన్తరాణి చ బ్రహ్మణస్ తద్-వ్యతిరిక్తస్య చిద్-అచిద్-వస్తునశ్ చ శరీరాత్మ-భావమ్ ఏవ తాదాత్మ్యṁ వదన్తి-- అన్తః ప్రవిష్టః శాస్తా జనానాṁ సర్వాత్మా [తై।, ఆర।, ౩।౧౧।౨౦], యః పృథివ్యాṁ తిష్ఠన్ పృథివ్యా అన్తరో యṁ పృథివీ న వేద యస్య పృథివీ శరీరṁ యః పృథివీమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [బృహద్।, ౫।౭।౩], య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమ్ ఆత్మా న వేద యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [బృహద్।, ౫।౭।౨౨], యః పృథివీమ్ అన్తరే సఞ్చరన్ ఇత్య్ ఆరభ్య యస్య మృత్యుః శరీరṁ యṁ మృత్యుర్ న వేద ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః [సుబాల, ౭], తత్ సృష్ట్వా। తద్ ఏవానుప్రావిశత్। తద్ అనుప్రవిశ్య। సచ్ చత్యచ్ చాభవత్ [తై।, ౨।౬।౨] ఇత్య్ ఆదీని। అత్రాపి-- అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణి [ఛాన్।, ౬।౩।౨] ఇతి బ్రహ్మాత్మక-జీవానుప్రవేశేనైవ సర్వేషాṁ వస్తుత్వṁ శబ్ద-వాచ్యత్వṁ చ ప్రతిపాదితమ్। తద్ అనుప్రవిశ్య। సచ్ చ త్యచ్ చాభవత్ [తై।, ౨।౬।౨] ఇత్య్ అనేనైకార్థ్యాజ్ జీవస్యాపి బ్రహ్మాత్మకత్వṁ బ్రహ్మానుప్రవేశాద్ ఏవేత్య్ అవగమ్యతే।
Link copied[ఐతదాత్మ్య-శబ్దార్థ-వ్యాఖ్యా-నిగమనమ్]
Link copiedఅతశ్ చిద్-అచిద్-ఆత్మకస్య సర్వస్య వస్తు-జాతస్య బ్రహ్మ-తాదాత్మ్యమాత్మ-శరీర-భావాద్ ఏవ ఇత్య్ అవగమ్యతే। తస్మాద్ బ్రహ్మ-వ్యతిరిక్తస్య కృత్స్నస్య తచ్-ఛరీత్వేనైవ వస్తుత్వాత్ తస్య ప్రతిపాదకోఽపి శబ్దస్ తత్-పర్యన్తమ్ ఏవ స్వార్థమ్ అభిదధాతి। అతః సర్వ-శబ్దానాṁ లోక-వ్యుత్పత్త్య్-అవగత-తత్-తత్-పదార్థ-విశిష్ట-బ్రహ్మాభిధాయిత్వṁ సిద్ధమ్ ఇత్య్ ఐతదాత్మ్యమ్ ఇదṁ సర్వమ్ ఇతి ప్రతిజ్ఞాతార్థస్య తత్ త్వమ్ అసి ఇతి సామానాధికరణ్యేన విశేషే ఉపసṁహారః॥
Link copiedఅతో నిర్విశేష-వస్త్వ్-ఐక్య-వాదినః, భేదాభేద-వాదినః, కేవల-భేద-వాదినశ్ చ వైయధికరణ్యేన సామానాధికరణ్యేన చ బ్రహ్మాత్మ-భావోపదేశాః సర్వే పరిత్యక్తాః స్యుః। ఏకస్మిన్ వస్తుని కస్య తాదాత్మ్యమ్ ఉపదిశ్యతే తస్యైవేతి చేత్ తత్-స్వ-వాక్యేనైవావగతమ్ ఇతి న తాదాత్మ్యోపదేశావసేయమ్ అస్తి కిఞ్చిత్। కల్పిత-భేద-నిరసనమ్ ఇతి చేత్ తత్ తు న సామానాధికరణ్య-తాదాత్మ్యోపదేశావసేయమ్ ఇత్య్ ఉక్తమ్। సామానాధికరణ్యṁ తు బ్రహ్మణి ప్రకార-ద్వయ-ప్రతిపాదనేన విరోధమ్ ఏవావహేత్। భేదాభేద-వాదే తు బ్రహ్మణ్య్ ఏవోపాధిసṁసర్గాత్ తత్-ప్రయుక్తా జీవ-గతా దోషా బ్రహ్మణ్య్ ఏవ ప్రాదుఃష్యుర్ ఇతి నిరస్త-నిఖిల-దోష-కల్యాణ-గుణాత్మక-బ్రహ్మాత్మ-భావోపదేశా హి విరోధాద్ ఏవ పరిత్యక్తాః స్యుః। స్వాభావిక-భేదాభేద-వాదేఽపి బ్రహ్మణః స్వత ఏవ జీవ-భావాభ్యుపగమాద్ గుణవద్ దోషాశ్ చ స్వాభావికా భవేయుర్ ఇతి నిర్దోష-బ్రహ్మ-తాదాత్మ్యోపదేశో విరుద్ధ ఏవ। కేవల-భేద-వాదినాṁ చాత్యన్త-భిన్నయోః కేనాపి ప్రకారేణైక్యాసమ్భవాద్ ఏవ బ్రహ్మాత్మ-భావోపదేశా న సమ్భవన్తీతి సర్వ-వేదాన్త-పరిత్యాగః స్యాత్॥
Link copied[పూర్వ-పక్షాపేక్షయా స్వ-పక్షే వైలక్షణ్యమ్]
Link copiedనిఖిలోపనిషత్-ప్రసిద్ధṁ కృత్స్నస్య బ్రహ్మ-శరీర-భావమ్ ఆతిష్ఠమానైః కృత్స్నస్య బ్రహ్మాత్మ-భావోపదేశాః సర్వే సమ్యగ్ ఉపపాదితా భవన్తి। జాతి-గుణయోర్ ఇవ ద్రవ్యాణామ్ అపి శరీర-భావేన విశేషణత్వేన గౌరశ్వో మనుష్యో దేవో జాతః పురుషః కర్మభిః ఇతి సామానాధికరణ్యṁ లోక-వేదయోర్ ముఖ్యమ్ ఏవ దృష్ట-చరమ్।
Link copiedజాతి-గుణయోర్ అపి ద్రవ్య-ప్రకారత్వమ్ ఏవ ఖణ్డో గౌః, శుక్లః పటః ఇతి సామానాధికరణ్య-నిబన్ధనమ్। మనుష్యత్వాది-విశిష్ట-పిణ్డానామ్ అప్య్ ఆత్మనః ప్రకారతయైవ పదార్థత్వాన్ మనుష్యః పురుషః షణ్డో యోషిద్ ఆత్మా జాతః ఇతి సామానాధికరణ్యṁ సర్వత్రానుగతమ్ ఇతి ప్రకారత్వమ్ ఏవ సామానాధికరణ్య-నిబన్ధనమ్, న పరస్పర-వ్యావృత్తా జాత్య్-ఆదయః॥
Link copiedస్వనిష్ఠానామ్ ఏవ హి ద్రవ్యాణాṁ కదాచిత్ క్వచిద్ ద్రవ్య-విశేషణత్వే మత్వర్థీయ-ప్రత్యయో దృష్టః, దణ్డీ కుణ్డలీ ఇతి; న పృథక్ ప్రతిపత్తి-స్థిత్య్-అనర్హాణాṁ ద్రవ్యాణామ్; తేషాṁ విశేషణత్వṁ సామానాధికరణ్యావసేయమ్ ఏవ॥
Link copied[శరీర-శరీరి-భావ-స్థలే సామానాధికరణ్యస్య లాక్షణికత్వ-శఙ్కా-పరిహారౌ]
Link copiedయది గౌర్ అశ్వో మనుష్యో దేవః పురుషో యోషిత్ షణ్డ ఆత్మా కర్మభిర్ జాతః ఇత్య్ అత్ర ఖణ్డో ముణ్డో గౌః, శుక్లః పటః, కృష్ణః పటః ఇతి జాతి-గుణవద్ ఆత్మ-ప్రకారత్వṁ మనుష్యాది-శరీరాణామ్ ఇష్యతే; తర్హి జాతి-వ్యక్త్యోర్ ఇవ ప్రకార-ప్రకారిణోః శరీరాత్మనోర్ అపి నియమేన సహ ప్రతిపత్తిః స్యాత్; న చైవṁ దృశ్యతే। న హి నియమేన గోత్వాదివద్ ఆత్మాశ్రయతయైవాత్మనా సహ మనుష్యాది-శరీరṁ పశ్యన్తి। అతో మనుష్య ఆత్మా ఇతి సామానాధికరణ్యṁ లాక్షణికమ్ ఏవ। నైతద్ ఏవమ్; మనుష్యాది-శరీరాణామ్ అప్య్ ఆత్మైకాశ్రయత్వమ్, తద్-ఏక-ప్రయోజనత్వమ్, తత్-ప్రకారత్వṁ చ జాత్య్-ఆది-తుల్యమ్। ఆత్మైకాశ్రయత్వమ్ ఆత్మ-విశ్లేషే శరీర-వినాశాద్ అవగమ్యతే। ఆత్మైక-ప్రయోజనత్వṁ చ తత్-కర్మ-ఫల-భోగార్థతయైవ సద్-భావాత్। తత్-ప్రకారత్వమ్ అపి దేవో మనుష్య ఇత్య్ ఆత్మ-విశేషణతయైవ ప్రతీతేః। ఏతద్ ఏవ హి గవాది-శబ్దానాṁ వ్యక్తి-పర్యన్తత్వే హేతుః। ఏతత్-స్వభావ-విరహాద్ ఏవ దణ్డ-కుణ్డలాదీనాṁ విశేషణత్వే దణ్డీ, కుణ్డలీ ఇతి మత్వర్థీయ-ప్రత్యయః। దేవ-మనుష్యాది-పిణ్డానామ్ ఆత్మైకాశ్రయత్వ-తద్-ఏక-ప్రయోజనత్వ-తత్-ప్రకారత్వ-స్వభావాద్ దేవో మనుష్య ఆత్మా ఇతి లోక-వేదయోః సామానాధికరణ్యేన వ్యవహారః। జాతి-వ్యక్త్యోర్ నియమేన సహ ప్రతీతిర్ ఉభయోశ్ చాక్షుషత్వాత్। ఆత్మనస్ త్వచాక్షుషత్వాచ్ చక్షుషా శరీర-గ్రహణ-వేలాయామ్ ఆత్మా న గృహ్యతే। పృథగ్ గ్రహణ-యోగ్యస్య ప్రకారతైక-స్వరూపత్వṁ దుర్ఘటిమ్ ఇతి మా వోచః; జాత్య్-ఆదివత్ తద్-ఏకాశ్రయత్వ-తద్-ఏక-ప్రయోజనత్వ-తద్-విశేషణత్వైః శరీరస్యాపి తత్-ప్రకారతైక-స్వభావత్వావగమాత్। సహోపలమ్భ-నియమస్ త్వ్ ఏక-సామగ్రీ-వేద్యత్వ-నిబన్ధన ఇత్య్ ఉక్తమ్। యథా చక్షుషా పృథివ్య్-ఆదేర్ గన్ధ-రసాది-సమ్బన్ధిత్వṁ స్వాభావికమ్ అపి న గృహ్యతే ఏవṁ చక్షుషా గృహ్యమాణṁ శరీరమ్ ఆత్మ-ప్రకారతైక-స్వభావమ్ అపి న తథా గృహ్యతే; ఆత్మ-గ్రహణే చక్షుషః సామర్థ్యాభావాన్ నైతావతా శరీరస్య తత్-ప్రకారత్వ-స్వభావ-విరహః। తత్-ప్రకారతైక-స్వభావత్వమ్ ఏవ సామానాధికరణ్య-నిబన్ధనమ్। ఆత్మ-ప్రకారతయా ప్రతిపాదన-సమర్థస్ తు శబ్దః సహైవ ప్రకారతయా ప్రతిపాదయతి॥
Link copied[శబ్దస్య శరీరి-పర్యన్తానభిధాయిత్వ-శఙ్కా-పరిహారౌ]
Link copiedనను చ శాబ్దేఽపి వ్యవహారే శరీర-శబ్దేన శరీర-మాత్రṁ గృహ్యత ఇతి నాత్మ-పర్యన్తతా శరీర-శబ్దస్య। నైవమ్; ఆత్మ-ప్రకార-భూతస్యైవ శరీరస్య పదార్థ-వివేక-ప్రదర్శనాయ నిరూపణాన్ నిష్కర్షక-శబ్దోఽయమ్; యథా గోత్వṁ శుక్లత్వమ్ ఆకృతిర్ గుణః ఇత్య్ ఆది శబ్దాః॥
Link copiedఅతో గవాది-శబ్దవద్ దేవ-మనుష్యాది-శబ్దా ఆత్మ-పర్యన్తాః॥
Link copied[చిద్-అచిద్-వాచినాṁ శబ్దానాṁ పరమాత్మ-పర్యన్తాభిధాయితా]
Link copiedఏవṁ దేవ-మనుష్యాది-పిణ్డ-విశిష్టానాṁ జీవానాṁ పరమాత్మ-శరీరతయా తత్-ప్రకారత్వాజ్ జీవాత్మ-వాచినః శబ్దాః పరమాత్మ-పర్యన్తాః। అతః పరస్య బ్రహ్మణః ప్రకారతయైవ చిద్-అచద్-వస్తునః పదార్థత్వమ్ ఇతి తత్-సామానాధికరణ్యేన ప్రయోగః। అయమ్ అర్థో వేదార్థ-సఙ్గ్రహే సమర్థితః।
Link copied[మతాన్తరేషు సామానాధికరణ్యానుపపత్తిః]
Link copiedఇదమ్ ఏవ శరీరాత్మ-భావ-లక్షణṁ తాదాత్మ్యమ్ ఆత్మేతి తూపగచ్ఛన్తి గ్రాహయన్తి చ [బ్ర। సూ। ౪।౧।౩] ఇతి వక్ష్యతి, ఆత్మేత్య్ ఏవ తు గృహ్ణీయాత్ ఇతి చ వాక్య-కారః॥
Link copied[ఉక్తానామ్ అర్థానాṁ సఙ్క్షేపేణ ప్రతిపాదనమ్]
Link copiedఅత్రేదṁ తత్త్వమ్-- అచిద్-వస్తునః చిద్-వస్తునః పరస్య చ బ్రహ్మణో భోగ్యత్వేన భోక్తృత్వేన చేశితృత్వేన చ స్వరూప-వివేకమ్ ఆహుః కాశ్చన శ్రుతయః-- అస్మాన్ మాయీ సృజతే విశ్వమ్ ఏతత్ తస్మిṁశ్ చాన్యో మాయయా సన్నిరుద్ధః [శ్వే।, ౪।౯], మాయాṁ తు ప్రకృతిṁ విద్యాన్ మాయినṁ తు మహేశ్వరమ్ [శ్వే।, ౪।౧౦], క్షరṁ ప్రధానమ్ అమృతాక్షరṁ హరః క్షరాత్మానావీశతే దేవ ఏకః; [శ్వే।, ౧।౧౦], అమృతాక్షరṁ హర ఇతి భోక్తా నిర్దిశ్యతే, ప్రధానమ్ ఆత్మనో భోగ్యత్వేన హరతీతి హరః। స కారణṁ కరణాధిపాధిపో న చాస్య కశ్చిజ్ జనితా న చాధిపః [శ్వే।, ౬।౯], ప్రధాన-క్షేత్రజ్ఞ-పతిర్ గుణేశః [శ్వే।, ౬।౧౬], పతిṁ విశ్వస్యాత్మేశ్వరṁ శాశ్వతṁ శివమ్ అచ్యుతమ్ [తై।, ౧౧।౩], జ్ఞాజ్ఞౌ ద్వావ్ అజావ్ ఈశానీశౌ [శ్వే।, ౧।౯], నిత్యో నిత్యానాṁ చేతనశ్ చేతనానామ్ ఏకో బహూనాṁ యో విదధాతి కామాన్ [కఠ।, ౫।౧౩], భోక్తా భోగ్యṁ ప్రేరితారṁ చ మత్వా [శ్వే।, ౧।౧౨], తయోర్ అన్యః పిప్పలṁ స్వాద్వ్ అత్త్య్ అనశ్నన్ అన్యో అభిచాకశీతి [ముణ్డ్।, ౩।౧।౧], పృథగ్ ఆత్మానṁ ప్రేరితారṁ చ మత్వా జుష్టస్ తతస్ తేనామృతత్వమ్ ఏతి [శ్వే।, ౧।౬], అజామ్ ఏకాṁ లోహిత-శుక్ల-కృష్ణాṁ బహ్వీṁ ప్రజాṁ జనయన్తీṁ సరూపామ్। అజో హ్య్ ఏకో జుషమాణోఽనుశేతే జహాత్య్ ఏనాṁ భుక్త-భోగామ్ అజోఽన్యః [తై।, ౬।౧౦।౫], సమానే వృక్షే పురుషో నిమగ్నోఽనీశయా శోచతి ముహ్యమానః। జుష్టṁ యదా పశ్యత్య్ అన్యమ్ ఈశమస్య మహిమానమ్ ఇతి వీత-శోకః [శ్వే।, ౪।౭] ఇత్య్ ఆద్యాః॥
Link copiedస్మృతావ్ అప్య్ అహఙ్కార ఇతీయṁ మే భిన్నా ప్రకృతిర్ అష్టధా॥ అపరేయమ్ ఇతస్ త్వ్ అన్యాṁ ప్రకృతిṁ విద్ధి మే పరామ్। జీవ-భూతాṁ మహా-బాహో యయేదṁ ధార్యతే జగత్॥ [భ। గీ।, ౭।౪।౫], సర్వ-భూతాని కౌన్తేయ ప్రకృతిṁ యాన్తి మామికామ్। కల్ప-క్షయే పునస్ తాని కల్పాదౌ విసృజామ్య్ అహమ్॥ ప్రకృతిṁ స్వామ్ అవష్టభ్య విసృజామి పునః పునః। భూత-గ్రామమ్ ఇమṁ కృత్స్నామ్ అవశṁ ప్రకృతేర్ వశాత్॥ [భ। గీ।, ౯।౭-౮], మయాధ్యక్షేణ ప్రకృతిః సూయతే సచరాచరమ్। హేతునానేన కౌన్తేయ జగద్ ధి పరివర్తతే॥ [భ। గీ।, ౯।౧౦], ప్రకృతిṁ పురుషṁ చైవ విద్ధ్య్ అనాదీ ఉభావ్ అపి। [భ। గీ।, ౧౩।౧౯], మమ యోనిర్ మహద్ బ్రహ్మ తస్మిన్ గర్భṁ దధామ్య్ అహమ్। సమ్భవః సర్వ-భూతానాṁ తతో భవతి భారత॥ [భ। గీ।, ౧౪।౩] ఇతి॥ జగద్ యోని-భూతṁ మహద్ బ్రహ్మ మదీయṁ ప్రకృత్య్-ఆఖ్యṁ భూత-సూక్ష్మమ్ అచిద్-వస్తు యత్; తస్మిṁశ్ చేతనాఖ్యṁ గర్భṁ యత్ సṁయోజయామి, తతో మత్-కృతాచ్ చిద్-అచిత్-సṁసర్గాద్ దేవాదిస్థావరాన్తానామ్ అచిన్-మిశ్రాణాṁ సర్వ-భూతానాṁ సమ్భవో భవతీత్య్ అర్థః॥
Link copiedఏవṁ భోక్తృ-భోగ్య-రూపేణావస్థితయోః సర్వావస్థావస్థితయోశ్ చిద్-అచితోః పరమ-పురుష-శరీరతయా తన్-నియామ్యత్వేన తద్-అపృథక్-స్థితిṁ పరమ-పురుషస్య చాత్మత్వమ్ ఆహుః కాశ్చన శ్రుతయః-- యః పృథివ్యాṁ తిష్ఠన్ పృథివ్యా అన్తరో యṁ పృథివీ న వేద యస్య పృథివీ శరీరṁ యః పృథివీమ్ అన్తరో యమయతి [బృహద్।, ౫।౭।౩] ఇత్య్ ఆరభ్య య ఆత్మని తిష్ఠన్న్ ఆత్మనోఽన్తరో యమాత్మా న వేద యస్యాత్మా శరీరṁ య ఆత్మానమ్ అన్తరో యమయతి స త ఆత్మాన్తర్యామ్య్ అమృతః [బృహద్।, ౫।౭।౨౨] ఇతి। తథా-- యః పృథివీమ్ అన్తరే సఞ్చరన్ యస్య పృథివీ శరీరṁ యṁ పృథివీ న వేద [సుబాల, ౭] ఇత్య్ ఆరభ్య యోఽక్షరమ్ అన్తరే సఞ్చరన్ యస్యాక్షరṁ శరీరṁ యమక్షరṁ న వేద యో మృత్యుమ్ అన్తరే సఞ్చరన్ యస్య మృత్యుః శరీరṁ యṁ మృత్యుర్ న వేద ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః [సుబాల, ౭]। అత్ర మృత్యు-శబ్దేన తమః శబ్ద-వాచ్యṁ సూక్ష్మావస్థమ్ అచిద్-వస్త్వ్ అభిధీయతే; అస్యామ్ ఏవోపనిషది-- అవ్యక్తమ్ అక్షరే లీయతే। [సుబాల, ౨] ఇతి వచనాత్। అన్తః ప్రవిష్టః శాస్తా జనానాṁ సర్వాత్మా [తై।, ఆర, ౩।౧౧।౨౧] ఇతి చ॥
Link copied[భేద-శ్రుతి-ఘటక-శ్రుత్యోర్ అవిరోధేన ఐక్య-శ్రుతీనామ్ అర్థ-వర్ణనమ్]
Link copiedఏవṁ సర్వావస్థావస్థిత-చిద్-అచిద్-వస్తు-శరీరతయా తత్-ప్రకారః పరమ-పురుష ఏవ కార్యావస్థ-కారణావస్థ-జగద్-రూపేణావస్థిత ఇతీమమ్ అర్థṁ జ్ఞాపయితుṁ కాశ్చన శ్రుతయః కార్యావస్థṁ కారణావస్థṁ చ జగత్ స ఏవేత్య్ ఆహుః-- సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీద్ ఏకమ్ ఏవాద్వితీయṁ తద్ ఐక్షత బహుస్యాṁ ప్రజాయేయేతి తత్ తేజోఽసృజత [ఛాన్।, ౬।౨।౧] ఇత్య్ ఆరభ్య సన్-మూలాః సోమ్యేమాః సర్వాః ప్రజాః సద్-ఆయతనాః సత్-ప్రతిష్ఠాః। ఐతదాత్మ్యమ్ ఇదṁ సర్వṁ తత్ సత్యṁ స ఆత్మా తత్ త్వమ్ అసి శ్వేతకేతో [ఛాన్।, ౬।౮।౬] ఇతి। తథా సోఽకామయత। బహు స్యాṁ ప్రజాయేయేతి। స తపోఽతప్యత। స తపస్ తప్త్వా। ఇదṁ సర్వమ్ అసృజత ఇత్య్ ఆరభ్య సత్యṁ చానృతṁ చ సత్యమ్ అభవత్ [తై।, ౨।౬।౨।౩] ఇత్య్ ఆద్యాః॥
Link copiedఅత్రాపి శ్రుత్య్-అన్తర-సిద్ధశ్ చిద్-అచితోః పరమ-పురుషస్య చ స్వరూప-వివేకః స్మారితః-- హన్తాహమ్ ఇమాస్ తిస్రో దేవతా అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణి ఇతి, తత్ సృష్ట్వా, తద్ ఏవానుప్రావిశత్, తద్ అనుప్రవిశ్య, సచ్ చత్యచ్ చాభవత్ ॥। విజ్ఞానṁ చావిజ్ఞానṁ చ। సత్యṁ చానృతṁ చ సత్యమ్ అభవత్ ఇతి చ। అనేన జీవేనాత్మనానుప్రవిశ్య ఇతి జీవస్య బ్రహ్మాత్మకత్వṁ, తద్ అనుప్రవిశ్య సచ్ చత్యచ్ చాభవత్, విజ్ఞానṁ చావిజ్ఞానṁ చ ఇత్య్ అనేనైకార్థ్యాద్ ఆత్మ-శరీర-భావ-నిబన్ధనమ్ ఇతి విజ్ఞాయతే। ఏవṁ భూతమ్ ఏవ నామ-రూప-వ్యాకరణṁ తద్ ధేదṁ తర్హ్య్ అవ్యాకృతమ్ ఆసీత్। తన్-నామరూపాభ్యాṁ వ్యాక్రియత [బృహద్।, ౩।౪।౭] ఇత్య్ అత్రాప్య్ ఉక్తమ్।
Link copied[స్వ-మతే ఏక-విజ్ఞానేన సర్వ-విజ్ఞాన-ప్రతిజ్ఞోపపత్తిః]
Link copiedఅతః కార్యావస్థః కారణావస్థశ్ చ స్థూల-సూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరః పరమ-పురుష ఏవేతి, కారణాత్ కార్యస్యానన్యత్వేన కారణ-విజ్ఞానేన కార్యస్య జ్ఞాతతయైక-విజ్ఞానేన సర్వ-విజ్ఞానṁ సమీహితమ్ ఉపపన్నతరమ్। అహమ్ ఇమాస్ తిస్రో దేవతా అనేన జీవేనాత్మనానుప్రవిశ్య నామ-రూపే వ్యాకరవాణి [ఛాన్।, ౬।౩।౨] ఇతి, తిస్రో దేవతాః ఇతి సర్వమ్ అచిద్-వస్తు నిర్దిశ్య తత్ర స్వాత్మక-జీవానుప్రవేశేన నామ-రూప-వ్యాకరణ-వచనాత్ సర్వే వాచకాః శబ్దాః అచిద్-విశిష్ట-జీవ-విశిష్ట-పరమాత్మన ఏవ వాచకా ఇతి కారణావస్థ-పరమాత్మ-వాచినా శబ్దేన కార్య-వాచినః శబ్దస్య సామానాధికరణ్యṁ ముఖ్య-వృత్తమ్। అతః స్థూల-సూక్ష్మ-చిద్-అచిత్-ప్రకారṁ బ్రహ్మైవ కార్యṁ కారణṁ చేతి బ్రహ్మోపాదానṁ జగత్।
Link copied[బ్రహ్మణ ఉపాదానత్వే స్వ-భావాసాఙ్కర్యోపపాదనమ్]
Link copiedసూక్ష్మ-చిద్-అచిద్-వస్తు-శరీరకṁ బ్రహ్మైవ కారణమ్ ఇతి। బ్రహ్మోపాదానత్వేఽపి సఙ్ఘాతస్యోపాదానత్వేన చిద్-అచితోర్ బ్రహ్మణశ్ చ స్వభావాసఙ్కరోఽప్య్ ఉపపన్నతరః। యథా శుక్ల-కృష్ణ-రక్త-తన్తు-సఙ్ఘాతోపాదానత్వేఽపి చిత్ర-పటస్య తత్-తత్-తన్తు-ప్రదేశ ఏవ శౌక్ల్యాది-సమ్బన్ధ ఇతి కార్యావస్థాయామ్ అపి న సర్వత్ర వర్ణ-సఙ్కరః; తథా చిద్-అచిద్-ఈశ్వర-సఙ్ఘాతోపాదానత్వేఽపి జగతః కార్యావస్థాయామ్ అపి భోక్తృత్వ-భోగ్యత్వ-నియన్తృత్వాద్య్ అసఙ్కరః। తన్తూనాṁ పృథక్-స్థితి-యోగ్యానామ్ ఏవ పురుషేచ్ఛయా కదాచిత్ సṁహతానాṁ కారణత్వṁ కార్యత్వṁ చ। ఇహ తు చిద్-అచితోః సర్వావస్థయోః పరమ-పురుష-శరీరత్వేన తత్-ప్రకారతయైవ పదార్థత్వాత్ తత్-ప్రకారః పరమ-పురుషః సర్వదా సర్వ-శబ్ద-వాచ్య ఇతి విశేషః। స్వభావ-భేదస్ తద్-అసఙ్కరశ్ చ తత్ర చాత్ర చ తుల్యః।
Link copied[బ్రహ్మణోఽవికృతత్వ-కార్యత్వ-నిర్గుణత్వానాṁ శ్రుత్య్-ఉక్తానామ్ ఉపపత్తిః]
Link copiedఏవṁ చ సతి పరస్య బ్రహ్మణః కార్యానుప్రవేశేఽపి స్వరూపాన్యథాభావాభావాద్ అవికృతత్వమ్ ఉపపన్నతరమ్। స్థూలావస్థస్య నామ-రూప-విభాగ-విభక్తస్య చిద్-అచిద్-వస్తున ఆత్మతయావస్థానాత్ కార్యత్వమ్ అప్య్ ఉపపన్నతరమ్। అవస్థాన్తరాపత్తిర్ ఏవ హి కార్యతా॥
Link copiedనిర్గుణ-వాదాశ్ చ పరస్య బ్రహ్మణో హేయ-గుణాసమ్బన్ధాద్ ఉపపద్యన్తే। అపహత-పాప్మా విజరో విమృత్యుర్ విశోకో విజిఘత్సోఽపిపాసః [ఛాన్।, ౮।౧।౫] ఇతి హేయ-గుణాన్ ప్రతిషిధ్య సత్య-కామః సఙ్కల్పః ఇతి కల్యాణ-గుణాన్ విదధతీ ఇయṁ శ్రుతిర్ ఏవాన్యత్ర సామాన్యేనావగతṁ గుణ-నిషేధṁ హేయ-గుణ-విషయṁ వ్యవస్థాపయతి॥
Link copiedజ్ఞాన-స్వరూపṁ బ్రహ్మేతి వాదశ్ చ సర్వజ్ఞస్య సర్వ-శక్తేర్ నిఖల-హేయ-ప్రత్యనీక-కల్యాణ-గుణాకరస్య బ్రహ్మణః స్వరూపṁ జ్ఞానైక-నిరూపణీయṁ స్వయమ్ప్రకాశతయా జ్ఞాన-స్వరూపṁ చేత్య్ అభ్యుపగమాద్ ఉపపన్నతరః। యః సర్వ-జ్ఞః సర్వ-విత్ [ముణ్డ్।, ౧।౧।౯], పరాస్య శక్తిర్ వివిధైవ శ్రూయతే స్వాభావికీ జ్ఞాన-బల-క్రియా చ [శ్వే।, ౬।౮], విజ్ఞాతారమ్ అరే కేన విజానీయాత్ [బృహద్।, ౬।౫।౧౫], సత్యṁ జ్ఞానమ్ [తై।, ౨।౧।౧] ఇత్య్ ఆదికాః జ్ఞాతృత్వమ్ ఆవేదయన్తి సత్యṁ జ్ఞానమ్ ఇత్య్ ఆదికాశ్ చ జ్ఞానైక-నిరూపణీయతయా స్వ-ప్రకాశతయా చ జ్ఞాన-స్వరూపతామ్॥
Link copied[భేద-నిషేధ-శ్రుతీనామ్ అర్థ-వర్ణనమ్]
Link copiedసోఽకామయత బహు స్యామ్ [తై।, ఆ।, ౬।౨], తద్ ఐక్షత బహు స్యామ్ [ఛాన్।, ౬।౨।౩], తన్-నామ-రూపాభ్యాṁ వ్యాక్రియత [బృహద్।, ౩।౪।౭] ఇతి బ్రహ్మైవ స్వ-సఙ్కల్పాద్ విచిత్ర-స్థిర-త్రస-రూపతయా నానా-ప్రకారమ్ అవస్థితమ్ ఇతి తత్-ప్రత్యనీకాబ్రహ్మాత్మక-వస్తు-నానాత్వమ్ అతత్వమ్ ఇతి తత్ ప్రతిషిధ్యతే, మృత్యోః స మృత్యుమ్ ఆప్నోతి య ఇహ నానేవ పశ్యతి [కఠ।, ౪।౧౧], నేహ నానాస్తి కిఞ్చన [కఠ।, ౪।౧౦-౧౧], యత్ర హి ద్వైతమ్ ఇవ భవతి తద్ ఇతర ఇతరṁ పశ్యతి యత్ర త్వ్ అస్య సర్వమ్ ఆత్మైవాభూత్ తత్ కేన కṁ పశ్యేత్ తత్ కేన కṁ విజానీయాత్ [బృహద్।, ౪।౪।౧౪] ఇత్య్ ఆదినా। న పునర్ బహు స్యాṁ ప్రజాయేయ ఇత్య్ ఆది శ్రుతి-సిద్ధṁ స్వ-సఙ్కల్ప-కృతṁ బ్రహ్మణో నానా-నామ-రూప-భాక్త్వేన నానా-ప్రకారత్వమ్ అపి నిషిధ్యతే। యత్ర త్వ్ అస్య సర్వమ్ ఆత్మైవాభూత్ ఇత్య్ ఆది నిషేధ-వాక్యాదౌ చ తత్-స్థాపితమ్-- సర్వṁ తṁ పరాదాద్యోఽన్యత్రాత్మనః సర్వṁ వేద [బృహద్।, ౪।౪।౬] తస్య హ వా ఏతస్య మహతో భూతస్య నిశ్విసతమ్ ఏతద్ యద్ ఋగ్-వేదో యజుర్-వేదః [సుబాల, ౨, బృహద్।, ౪।౪।౧౦, ౬।౫-౧౧] ఇత్య్ ఆదినా॥
Link copied[పూర్వోక్త-వ్యాఖ్యా-విధానే శ్రుత్య్-ఆది-సర్వ-సామఞ్జస్యమ్]
Link copiedఏవṁ చిద్-అచిద్-ఈశ్వరాణాṁ స్వభావ-భేదṁ స్వరూప-భేదṁ చ వదన్తీనాṁ కార్య-కారణ-భావṁ కార్య-కారణయోర్ అనన్యత్వṁ చ వదన్తీనాṁ సర్వాసాṁ శ్రుతీనామ్ అవిరోధః, చిద్-అచితోః పరమాత్మనశ్ చ సర్వదా శరీరాత్మ-భావṁ శరీర-భూతయోః కారణ-దశాయాṁ నామ-రూప-విభాగానర్హ-సూక్ష్మ-దశాపత్తిṁ కార్య-దశాయాṁ చ తద్-అర్హ-స్థూల-దశాపత్తిṁ వదన్తీభిః శ్రుతిభిర్ ఏవ జ్ఞాయత ఇతి బ్రహ్మాజ్ఞాన-వాదస్యౌపాధిక-బ్రహ్మ-భేద-వాదస్యాన్యస్యాప్య్ అపన్యాయ-మూలస్య సకల-శ్రుతి-విరుద్ధస్య న కథఞ్చిద్ అప్య్ అవకాశో దృశ్యతే। చిద్-అచిద్-ఈశ్వరాణాṁ పృథక్-స్వభావతయా తత్-తచ్-ఛ్రుతి-సిద్ధానాṁ శరీరాత్మ-భావేన ప్రకార-ప్రకారితయా శ్రుతిభిర్ ఏవ ప్రతిపన్నానాṁ శ్రుత్య్-అన్తరేణ కార్య-కారణ-భావ-ప్రతిపాదనṁ కార్య-కారణయోర్ ఐక్య-ప్రతిపాదనṁ చ హ్య్ అవిరుద్ధమ్। యథాగ్నేయాదీన్ షడ్యాగానుత్పత్తి-వాక్యైః పృథగ్ ఉత్పన్నాన్ సముదాయానువాది-వాక్య-ద్వయేన సముదాయ-ద్వయత్వమ్ ఆపన్నాన్ దర్శపూర్ణమాసాభ్యామ్ [కాత్యా। శ్రౌ। సూ।, ౪।౨।౪౭] ఇత్య్ అధికార-వాక్యṁ కామినః కర్తవ్యతయా విదధాతి; తథా చిద్-అచిద్-ఈశ్వరాన్ వివిక్త-స్వరూప-స్వభావాన్; క్షరṁ ప్రధానమ్ అమృతాక్షరṁ హరః క్షరాత్మానావ్ ఈశతే దేవ ఏకః [శ్వే।, ౧।౧౦], పతిṁ విశ్వస్యాత్మేశ్వరమ్ [తై।, ఆ।, ౧౦।౧౧।౧], ఆత్మా నారాయణః పరః [తై।, ఆ।౧౦।౧౧।౧], ఇత్య్ ఆది వాక్యైః పృథక్ ప్రతిపాద్య యస్య పృథివీ శరీరṁ యస్యాత్మా శరీరమ్ [బృహద్।, ౫।౭।౩], యస్యావ్యక్తṁ శరీరమ్। యస్యాక్షరṁ శరీరమ్ [బృహద్।, ౫।౮], ఏష సర్వ-భూతాన్తరాత్మాపహత-పాప్మా దివ్యో దేవ ఏకో నారాయణః [సుబాల, ౭] ఇత్య్ ఆదిభిర్ వాక్యైశ్ చిద్-అచితోః సర్వావస్థావస్థితయోః పరమాత్మ-శరీరతాṁ పరమాత్మనస్ తద్-ఆత్మతాṁ చ ప్రతిపాద్య శరీర-భూత-పరమాత్మాభిధాయిభిః సద్-బ్రహ్మాత్మాది-శబ్దైః కారణావస్థః కార్యావస్థశ్ చ పరమాత్మైక ఏవేతి పృథక్ ప్రతిపన్నṁ వస్తు-త్రితయṁ సద్ ఏవ సోమ్యేదమ్ అగ్ర ఆసీత్ [ఛాన్।, ౬।౨।౧], ఐతదాత్మ్యమ్ ఇదṁ సర్వమ్ [ఛాన్।, ౬।౮।౭], సర్వṁ ఖల్వ్ ఇదṁ బ్రహ్మ [ఛాన్।, ౩।౧౪।౧] ఇత్య్ ఆది వాక్యṁ ప్రతిపాదయతి। చిద్-అచిద్-వస్తు-శరీరిణః పరమాత్మనః పరమాత్మ-శబ్దేనాభిధానే హి నాస్తి విరోధః యథా మనుష్య-పిణ్డ-శరీరకస్యాత్మ-విశేషస్య అయమ్ ఆత్మా సుఖీ ఇత్య్ ఆత్మ-శబ్దేనాభిధానే ఇత్య్ అలమ్ అతివిస్తరేణ॥
Link copied[భావ-రూపాజ్ఞానే నివృత్త్య్-అనుపపత్తి-వర్ణనమ్]
Link copiedయత్ పునర్ ఇదమ్ ఉక్తమ్-- బ్రహ్మాత్మైకత్వ-విజ్ఞానేనైవావిద్యా-నివృత్తిర్ యుక్తా ఇతి, తద్ అయుక్తమ్ , బన్ధస్య పారమార్థికత్వేన జ్ఞాన-నివర్త్యత్వాభావాత్ పుణ్యాపుణ్య-రూప-కర్మ-నిమిత్త-దేవాది-శరీర-ప్రవేశ-తత్-ప్రయుక్త-సుఖ-దుఃఖానుభవ-రూపస్య బన్ధస్య మిథ్యాత్వṁ కథమ్ ఇవ శక్యతే వక్తుమ్।
Link copied[ఏతన్-మతే నివృత్త్య్-ఉపపత్తి-వర్ణనమ్]
Link copiedఏవṁరూప-బన్ధ-నివృత్తిర్ భక్తి-రూపాపన్న ఉపాసన-ప్రీత-పరమ-పురుష-ప్రసాద-లభ్యేతి పూర్వమ్ ఏవోక్తమ్। భవద్-అభిమతస్యైక్యజ్ఞానస్య యథావస్థిత-వస్తు-విపరీత-విషయస్య మిథ్యా-రూపత్వేన బన్ధ-వివృద్ధిర్ ఏవ ఫలṁ భవతి మిథ్యైతద్ అన్యద్ ద్రవ్యṁ హి నైతి తద్ ద్రవ్యతాṁ యతః [వి। పు।, ౨।౧౪।౨౭] ఇతి శాస్త్రాత్। ఉత్తమః పురుషస్ త్వ్ అన్యః [భ। గీ।, ౧౫।౧౭], పృథగ్-ఆత్మానṁ ప్రేరితారṁ చ మత్వా [శ్వే।, ౧।౬] ఇతి జీవాత్మ-విసజాతీయస్య తద్-అన్తర్యామిణో బ్రహ్మణో జ్ఞానṁ పరమ-పురుషార్థ-లక్షణ-మోక్ష-సాధనమ్ ఇత్య్ ఉపదేశాచ్ చ॥
Link copiedఅపి చ భవద్-అభిమతస్యాపి నివర్తక-జ్ఞానస్య మిథ్యా-రూపత్వాత్ తస్య నివర్తకాన్తరṁ మృగ్యమ్। నివర్తక-జ్ఞానమ్ ఇదṁ స్వ-విరోధి సర్వṁ భేద-జ్ఞానṁ నివర్త్య క్షణికత్వాత్ స్వయమ్ ఏవ నశ్యతీతి చేన్ న, తత్-స్వరూప-తద్-ఉత్పత్తి-వినాశానాṁ కాల్పనికత్వేన వినాశ-తత్-కల్పనా-కల్పక-రూపావిద్యాయా నివర్తకాన్తరమ్ అన్వేషణీయమ్। తద్-వినాశో బ్రహ్మ-స్వరూపమ్ ఏవేతి చేత్, తథా సతి నివర్తక-జ్ఞానోత్పత్తిర్ ఏవ న స్యాత్, తద్-వినాశే తిష్ఠతి, తద్-ఉత్పత్త్య్-అసమ్భవాత్॥
Link copied[నివర్తక-జ్ఞానస్య జ్ఞాత్రనుపపత్తిః]
Link copiedఅపి చ-- చిన్-మాత్ర-బ్రహ్మ-వ్యతిరిక్త-కృత్స్న-నిషేధ-విషయ-జ్ఞానస్య కోఽయṁ జ్ఞాతా అధ్యాస-రూప ఇతి చేన్ న, తస్య నిషేధ్యతయా నివర్తక-జ్ఞాన-కర్మత్వాత్ తత్-కర్తృత్వానుపపత్తేః। బ్రహ్మ స్వరూపమ్ ఇతి చేద్ బ్రహ్మణో నివర్తక-జ్ఞానṁ ప్రతి జ్ఞాతృత్వṁ కిṁ స్వరూపమ్ ఉతాధ్యస్తమ్। అధ్యస్తṁ చేద్ అయమ్ అధ్యాసస్ తన్-మూలావిద్యాన్తరṁ చ నివర్తక-జ్ఞానావిషయతయా తిష్ఠత్య్ ఏవ। నివర్తక-జ్ఞానాన్తరాభ్యుపగమే తస్యాపి త్రి-రూపత్వాజ్ జ్ఞాత్రపేక్షయానవస్థా స్యాత్। బ్రహ్మ-స్వరూపస్యైవ జ్ఞాతృత్వేఽస్మదీయ ఏవ పక్షః పరిగృహీతః స్యాత్। నివర్తక-జ్ఞాన-స్వరూపṁ స్వస్య జ్ఞాతా చ బ్రహ్మ-వ్యతిరిక్తత్వేన స్వనివర్త్యాన్తర్గతమ్ ఇతి వచనṁ భూ-తల-వ్యతిరిక్తṁ కృత్స్నṁ దేవదత్తేన చ్ఛిన్నమ్ ఇత్య్ అస్యామ్ ఏవ చ్ఛేదన-క్రియాయామ్ అస్య చ్ఛేత్తుర్ అస్యాశ్ ఛేదన-క్రియాయాశ్ చ చ్ఛేద్యానుప్రవేశ-వచనవద్ ఉపహాస్యమ్। అధ్యస్తో జ్ఞాతా స్వనాశ-హేతు-భూత-నివర్తక-జ్ఞానే స్వయṁ కర్తా చ న భవతి, స్వ-నాశస్యాపురుషార్థత్వాత్। తన్-నాశస్య బ్రహ్మ-స్వరూపత్వాభ్యుపగమే భేద-దర్శన-తన్-మూలావిద్యాదీనాṁ కల్పనమ్ ఏవ న స్యాత్। ఇత్య్ అలమ్ అనేన దిష్ట-హతమ్ ఉద్గరాభిఘాతేన॥
Link copied[కర్మ-విచార-పూర్వ-వృత్తతాయుక్తతమత్వమ్]
Link copiedతస్మాద్ అనాది-కర్మ-ప్రవాహ-రూపాజ్ఞాన-మూలత్వాద్ బన్ధస్య తన్-నిబర్హాణమ్ ఉక్త-లక్షణ-జ్ఞానాద్ ఏవ। తద్-ఉత్పత్తిశ్ చ అహర్ అహర్ అనుష్ఠీయమాన-పరమ-పురుషారాధన-వేషాత్మ-యాథాత్మ్య-బుద్ధి-విశేష-సṁస్కృత-వర్ణాశ్రమోచిత-కర్మ-లభ్యా। తత్ర కేవల-కర్మణామ్ అల్పాస్థిర-ఫలత్వమ్, అనభిసṁహిత-ఫల-పరమ-పురుషారాధన-వేషాణాṁ కర్మణామ్ ఉపాసనాత్మక-జ్ఞానోత్పత్తి-ద్వారేణ బ్రహ్మ-యాథాత్మ్యానుభవ-రూపానన్త-స్థిర-ఫలత్వṁ చ కర్మ-స్వరూప-జ్ఞానాదృతే న జ్ఞాయతే। కేవలాకార-పరిత్యాగ-పూర్వక-యథోక్త-స్వరూప-కర్మోపాదానṁ చ న సమ్భవతీతి కర్మ-విచారానన్తరṁ తత ఏవ హేతోర్ బ్రహ్మ-విచారః కర్తవ్య ఇత్య్ అథాత ఇత్య్ ఉక్తమ్।
Link copied[ఇతి మహా-సిద్ధాన్తః]
Link copied[అథ సూత్ర-కారాభిమత-సూత్రార్థ-యోజనారమ్భః]
Link copied[వేదాన్తానాṁ బ్రహ్మణ్య్ అప్రమాణత్వాశఙ్కా]
Link copiedతత్ర పూర్వ-పక్ష-వాదీ మన్యతే వృద్ధ-వ్యవహారాద్ అన్యత్ర శబ్దస్య బోధకత్వ-శక్త్య్-అవధారణాసమ్భవాత్, వ్యవహారస్య చ కార్య-బుద్ధి-పరత్వేన కార్యార్థ ఏవ శబ్దస్య ప్రామాణ్యమ్ ఇతి కార్య-రూప ఏవ వేదార్థః। అతో న వేదాన్తాః పరినిష్పన్నే పరే బ్రహ్మణి ప్రమాణ-భావమ్ అనుభవితుమ్ అర్హన్తి।
Link copied[సిద్ధేఽర్థే శబ్దస్య వ్యుత్పత్తిర్ ఇత్య్ అṁశే భాట్టోక్తోదాహరణ-నిరాసః]
Link copiedన చ పుత్ర-జన్మాది-సిద్ధ-వస్తు-విషయ-వాక్యేషు హర్ష-హేతూనాṁ కాల-త్రయ-వర్తినామ్ అర్థానామ్ ఆనన్త్యాత్ సులగ్న-సుఖ-ప్రసవాది-హర్ష-హేత్వ్-అర్థాన్తరోపనిపాత-సమ్భావనయా చ ప్రియార్థ-ప్రతిపత్తి-నిమిత్త-ముఖ-వికాసాది-లిఙ్గేనార్థ-విశేష-బుద్ధి-హేతుత్వ-నిశ్చయః,
Link copied[సిద్ధేఽర్థే శబ్దస్య వ్యుత్పత్తిర్ ఇత్య్ అṁశే నైయాయికోక్తోదాహరణ-వ్యుదాసః]
Link copiedనాపి వ్యుత్పన్నేతర-పద-విభక్త్య్-అర్థస్య పదాన్తరార్థ-నిశ్చయేన ప్రకృత్య్-అర్థ-నిశ్చయేన వా శబ్దస్య సిద్ధ-వస్తున్య్ అభిధాన-శక్తి-నిశ్చయః; జ్ఞాత-కార్యాభిధాయి-పద-సముదాయస్య తద్-అṁశ-విశేష-నిశ్చయ-రూపత్వాత్ తస్య॥
Link copied[సిద్ధార్థ-వ్యుత్పత్తి-విషయే అద్వైత్య్-ఉక్తోదారహణ-నిరాసః]
Link copiedన చ సర్పాద్ భీతస్య నాయṁ సర్పో రజ్జుర్ ఏషా ఇతి శబ్ద-శ్రవణ-సమనన్తరṁ భయ-నివృత్తి-దర్శనేన సర్పాభావ-బుద్ధి-హేతుత్వ-నిశ్చయః। అత్రాపి నిశ్చేష్టṁ నిర్విశేషమ్ అచేతనమ్ ఇదṁ వస్త్వ్ ఇత్య్ ఆద్య్ అర్థ-బోధేషు బహుషు భయ-నివృత్తి-హేతుషు సత్సు విశేష-నిశ్చయాయోగాత్।
Link copied[పదానామ్ అన్యాన్విత-స్వార్థ-మాత్ర-బోధకత్వమ్ ఇతి మత-నిరాసః]
Link copiedకార్య-బుద్ధి-ప్రవృత్తి-వ్యాప్తి-బలేన శబ్దస్య ప్రవర్తకార్థావబోధిత్వమ్ ఉపగతమ్ ఇతి, సర్వ-పదానాṁ కార్య-పరత్వేన, సర్వైః పదైః కార్యస్యైవ విశిష్టస్య ప్రతిపాదనాన్ నాన్యాన్విత-స్వార్థ-మాత్రే పద-శక్తి-నిశ్చయః॥
Link copied[ఇష్ట-సాధనత్వṁ ప్రవర్తకోఽర్థః ఇతి మత-నిరాసః]
Link copiedఇష్ట-సాధనతా-బుద్ధిస్ తు కార్య-బుద్ధి-ద్వారేణ ప్రవృత్తి-హేతుః, న స్వరూపేణ, అతీతానాగత-వర్తమాన- ఇష్టోపాయ-బుద్ధిషు ప్రవృత్త్య్-అనుపలబ్ధేః। ఇష్టోపాయో హి మత్-ప్రయత్నాదృతే న సిద్ధ్యతి। అతో మత్-కృతి-సాధ్య ఇతి బుద్ధిర్ యావన్ న జాయతే తావన్ న ప్రవర్తతే॥
Link copied[కార్యార్థస్యైవ శబ్ద-వాచ్యతా-పూర్వ-పక్ష-నియమనమ్]
Link copiedఅతః కార్య-బుద్ధిర్ ఏవ ప్రవృత్తి-హేతుర్ ఇతి ప్రవర్తకస్యైవ శబ్ద-వాచ్యతయా కార్యస్యైవ వేద-వేద్యత్వాత్ పరినిష్పన్న-రూప-బ్రహ్మ-ప్రాప్తి-లక్షణానన్త-స్థిర-ఫలాప్రతిపత్తేర్ అక్షయ్యṁ హ వై చాతుర్మాస్య యాజినః సుకృతṁ భవతి [ఆ। శ్రౌ। సూ।, ౨।౧।౧] ఇత్య్ ఆదిభిః కర్మణామ్ ఏవ స్థిర-ఫలత్వ-ప్రతిపాదనాచ్ చ కర్మ-ఫలాల్పాస్థిరత్వ-బ్రహ్మ-జ్ఞాన-ఫలానన్త-స్థిరత్వ-జ్ఞాన-హేతుకో బ్రహ్మ-విచారారమ్భో న యుక్తః-- ఇతి॥
Link copied[సిద్ధాన్త-ప్రతిపాదనారమ్భః]
Link copied[తత్ర కార్యే ఏవ శబ్ద-వ్యుత్పత్తిర్ ఇత్య్ అత్ర ప్రామాణికాసమ్మతిః]
Link copiedఅత్రాభిధీయతే-- నిఖిల-లోక-విదిత-శబ్దార్థ-సమ్బన్ధావధారణ-ప్రకారమ్ అపనుద్య సర్వ శబ్దానామ్ అలౌకికైకార్థావబోధిత్వావధారణṁ ప్రామాణికా న బహు మన్వతే॥
Link copied[బుద్ధి-పూర్వక-వ్యుత్పత్త్యా సిద్ధేఽపి శబ్ద-శక్తి-గ్రహః]
Link copiedఏవṁ కిల బాలాః శబ్దార్థ-సమ్బన్ధమ్ అవధారయన్తి-- మాతా-పితృ-ప్రభృతిభిర్ అమ్బా-తాత-మాతులాదీన్ శశి-పశు-నర-మృగ-పక్షి-సర్పాదీṁశ్ చ ఏనమ్ అవేహి, ఇమṁ చావధారయ ఇత్య్ అభిప్రాయేణాఙ్గుల్యానిర్దిశ్య నిర్దిశ్య తైస్ తైః శబ్దైస్ తేషు తేష్వ్ అర్థేషు బహుశః శిక్షితాః శనైః శనైస్ తైస్ తైర్ ఏవ శబ్దైస్ తేషు తేష్వ్ అర్థేషు స్వాత్మనాṁ బుద్ధ్య్-ఉత్పత్తిṁ దృష్ట్వా శబ్దార్థయోః సమ్బన్ధాన్తరా-దర్శనాత్ సఙ్కేతయితృ-పురుషాజ్ఞానాచ్ చ తేష్వ్ అర్థేషు తేషాṁ శబ్దానాṁ ప్రయోగో బోధకత్వ-నిబన్ధన ఇతి నిశ్చిన్వన్తి॥
Link copiedపునశ్ చ వ్యుత్పన్నేతర-శబ్దేష్వ్ అస్య శబ్దస్యాయమ్ అర్థః ఇతి పూర్వ-వృద్ధైః శిక్షితాః సర్వ-శబ్దానామ్ అర్థమ్ అవగమ్య పర-ప్రత్యాయనాయ తత్-తద్-అర్థావబోధి వాక్య-జాతṁ ప్రయుఞ్జతే।
Link copied[యాదృచ్ఛిక్యా వ్యుత్పత్త్యాపి సిద్ధేఽపి శబ్ద-శక్తి-గ్రహః]
Link copiedప్రకారాన్తరేణాపి శబ్దార్థ-సమ్బన్ధావధారణṁ సుశకమ్-- కేనచిత్ పురుషేణ హస్త-చేష్టాదినా పితా తే సుఖమ్ ఆస్తే ఇతి దేవదత్తాయ జ్ఞాపయ ఇతి ప్రేషితః కశ్చిత్ తజ్-జ్ఞాపనే ప్రవృత్తః పితా తే సుఖమ్ ఆస్తే ఇతి శబ్దṁ ప్రయుఙ్క్తే। పార్శ్వ-స్థోఽన్యో వ్యుత్పిత్సుర్ మూకవచ్ చేష్టా-విశేష-జ్ఞస్ తజ్-జ్ఞాపనే ప్రవృత్తమ్ ఇమṁ జ్ఞాత్వానుగతస్ తజ్-జ్ఞాపనాయ ప్రయుక్తమ్ ఇమṁ శబ్దṁ శ్రుత్వా అయṁ శబ్దస్ తద్-అర్థ-బుద్ధి-హేతుః ఇతి నిశ్చినోతి ఇతి కార్యార్థ ఏవ వ్యుత్పత్తిర్ ఇతి నిర్బన్ధో నిర్నిబన్ధనః। అతో వేదాన్తాః పరినిష్పన్నṁ పరṁ బ్రహ్మ, తద్-ఉపాసనṁ చాపరిమత-ఫలṁ బోధయన్తీతి తన్-నిర్ణయ-ఫలో బ్రహ్మ-విచారః కర్తవ్యః॥
Link copied[వేదస్య కార్యార్థత్వేఽపి బ్రహ్మ-విచారారమ్భ-సమర్థనమ్]
Link copiedకార్యార్థత్వేఽపి వేదస్య బ్రహ్మ-విచారః కర్తవ్య ఏవ। కథమ్। ఆత్మా వా అరే ద్రష్టవ్యః శ్రోతవ్యో మన్తవ్యో నిదిధ్యాసతివ్యః [బృహద్।, ౪।౪।౫; ౬।౫।౬], సోఽన్వేష్టవ్యః సవిజిజ్ఞాసితవ్యః [ఛాన్।, ౮।౭।౧], విజ్ఞాయ ప్రజ్ఞాṁ కుర్వీత [బృహద్।, ౬।౪।౨౧], దహరోఽస్మిన్న్ అన్తరాకాశస్ తస్మిన్ యద్ అన్తస్ తద్ అన్వేష్టవ్యṁ తద్ వావ విజిజ్ఞాసతివ్యమ్ [ఛాన్।, ౮।౧।౧], తత్రాపి దహరṁ గగనṁ విశోకస్ తస్మిన్ యద్ అన్తస్ తద్ ఉపాసితవ్యమ్ [మహానా। ౪।౧౨] ఇత్య్ ఆదిభిః ప్రతిపన్నోపాసన-విషయ-కార్యాధికృత-ఫలత్వేన బ్రహ్మ-విద్ ఆప్నోతి పరమ్ [తై।, ౨।౧।౧] ఇత్య్ ఆదిభిర్ బ్రహ్మ ప్రాప్తిః శ్రూయత ఇతి బ్రహ్మ-స్వరూప-తద్-విశేషణానాṁ దుఃఖాసమ్భిన్న-దేశ-విశేష-రూప-స్వర్గాదివత్, రాత్రి-సత్ర-ప్రతిష్ఠాదివత్, అపగోరణ-శతయాతనాసాధ్యసాధన-భావావచ్ చ, కార్యోపయోగితయైవ సిద్ధేః॥
Link copied[అపూర్వ-ఖణ్డనమ్]
Link copied[కార్యస్య దుర్నిరూపతయా కార్యే వ్యుత్పత్తిర్ న సిధ్యతి]
Link copiedగామానయ ఇత్య్ ఆదిష్వ్ అపి వాక్యేషు న కార్యార్థే వ్యుత్పత్తిః, భవద్-అభిమత-కార్యస్య దుర్నిరూపత్వాత్। కృతి-భావ-భావి కృత్య్-ఉద్దేశ్యṁ హి భవతః కార్యమ్। కృత్య్-ఉద్దేశ్యత్వṁ చ కృతి-కర్మత్వమ్। కృతి-కర్మత్వṁ చ కృత్యా ప్రాప్తుమ్ ఇష్టతమత్వమ్। ఇష్టతమṁ చ సుఖṁ వర్తమాన-దుఃఖస్య తన్-నివృత్తిర్ వా। తత్రేష్ట-సుఖాదినా పురుషేణ స్వ-ప్రయత్నాద్ ఋతే యది తత్-సిద్ధిః ప్రతీతా, తతః ప్రయత్నేచ్ఛుః ప్రవర్తతే పురుష ఇతి న క్వచిద్ అపీచ్ఛా-విషయస్య కృత్య్-అధీన-సిద్ధిత్వమ్ అన్తరేణ కృత్య్-ఉద్దేశ్యత్వṁ నామ కిఞ్చిద్ అప్య్ ఉపలభ్యతే। ఇచ్ఛా-విషయస్య ప్రేరకత్వṁ చ ప్రయత్నాధీన-సిద్ధిత్వమ్ ఏవ, తత ఏవ ప్రవృత్తేః। న చ పురుషానుకూలత్వṁ కృత్య్-ఉద్దేశ్యత్వమ్, యతః సుఖమ్ ఏవ పురుషానుకూలమ్। న చ దుఃఖ-నివృత్తేః పురుషానుకూలత్వమ్; పురుషానుకూలṁ సుఖṁ తత్-ప్రతికూలṁ దుఃఖమ్ ఇతి హి సుఖ-దుఃఖయోః స్వరూప-వివేకః। దుఃఖస్య ప్రతికూలతయా తన్-నివృత్తిర్ ఇష్టా భవతి, నానుకూలతయా। అనుకూల-ప్రతికూలాన్వయ-విరహే స్వరూపేణావస్థితిర్ హి దుఃఖ-నివృత్తిః। అతః సుఖ-వ్యతిరిక్తస్య క్రియాదేర్ అనుకూలత్వṁ న సమ్భవతి। న సుఖార్థతయా తస్యాప్య్ అనుకూలత్వమ్, దుఃఖాత్మకత్వాత్ తస్య। సుఖార్థతయాపి తద్-ఉపాదానేచ్ఛా-మాత్రమ్ ఏవ భవతి। న చ కృతిṁ ప్రతి శేషిత్వṁ కృత్య్-ఉద్దేశ్యత్వమ్, భవత్-పక్షే శేషిత్వస్యానిరూపణాత్॥
Link copied[శేష-లక్షణమ్]
Link copiedన చ పరోద్దేశ-ప్రవృత్త-కృతి-వ్యాప్త్య్-అర్హత్వṁ శేషత్వమ్ ఇతి తత్-ప్రతిసమ్బన్ధీ శేషీత్య్ అవగమ్యతే, తథా సతి కృతేర్ అశేషత్వేన తాṁ ప్రతి తత్-సాధ్యస్య శేషిత్వాభావాత్। న చ పరోద్దేశ-ప్రవృత్త్య్-అర్హతాయాః శేషత్వేన పరః శేషీ, ఉద్దేశ్యత్వస్యైవ నిరూప్యమాణత్వాత్, ప్రధానస్యాపి భృత్యోద్దేశ-ప్రవృత్త్య్-అర్హత్వ-దర్శనాచ్ చ। ప్రధానస్ తు భృత్య-పోషణేఽపి స్వోద్దేశేన ప్రవర్తత ఇతి చేన్ న, భృత్యోఽపి హి ప్రధాన-పోషణే స్వోద్దేశేనైవ ప్రవర్తతే। కార్య-స్వరూపస్యైవానిరూపణాత్ కార్య-ప్రతిసమ్బన్ధీ శేషః, తత్-ప్రతిసమ్బన్ధీ శేషీ ఇత్య్ అప్య్ అసఙ్గతమ్॥
Link copiedనాపి కృతి-ప్రయోజనకత్వṁ కృత్య్-ఉద్దేశ్యత్వమ్; పురుషస్య కృత్య్-ఆరమ్భ-ప్రయోజనమ్ ఏవ హి కృతి-ప్రయోజనమ్। స చేచ్ఛా-విషయః। తస్మాద్ ఇష్టత్వాతిరేకి-కృత్య్-ఉద్దేశ్యత్వానిరూపణాత్ కృతి-సాధ్యతా-కృతి-ప్రధానత్వ-రూపṁ కార్యṁ దుర్నిరూపమ్ ఏవ॥
Link copied[అపూర్వే స్వతః ఇష్టత్వ-కృతి-సాధ్యత్వ-రూప-ప్రయోజనత్వయోర్ నిరాసః]
Link copiedనియోగస్యాపి సాక్షాదిషి-విషయ-భూత-సుఖ-దుఃఖ-నివృత్తిభ్యామ్ అన్యత్వాత్ తత్-సాధనతయైవేష్టత్వṁ కృతి-సాధ్యత్వṁ చ। అత ఏవ హి తస్య క్రియాతిరిక్తతా; అన్యథా క్రియైవ కార్యṁ స్యాత్; స్వర్గ-కామ-పద-సమభివ్యాహారానుగుణ్యేన లిఙ్-ఆది-వాచ్యṁ కార్యṁ స్వర్గ-సాధనమ్ ఏవేతి క్షణ-భఙ్గి-కర్మాతిరేకి స్థిరṁ స్వర్గ-సాధనమ్ అపూర్వమ్ ఏవ కార్యమ్ ఇతి స్వర్గ-సాధనతోల్లేఖేనైవ హ్య్ అపూర్వ-వ్యుత్పత్తిః। అతః ప్రథమమ్ అనన్యార్థతయా ప్రతిపన్నస్య కార్యస్యానన్యార్థత్వ-నిర్వహణాయాపూర్వమ్ ఏవ పశ్చాత్ స్వర్గ-సాధనṁ భవతీత్య్ ఉపహాస్యమ్, స్వర్గ-కామ-పదాన్విత-కార్యాభిధాయి-పదేన ప్రథమమ్ అప్య్ అనన్యార్థతానభిధానాత్; సుఖ-దుఃఖ-నివృత్తి-తత్-సాధనేభ్యోఽన్యస్య అనన్యార్థస్య కృతి-సాధ్యతా-ప్రతీత్య్-అనుపపత్తేశ్ చ॥
Link copied[నియోగాఖ్యస్యాపూర్వస్య సుఖత్వ-రూప-ప్రయోజనత్వ-నిరాసః]
Link copiedఅపి చ-- కిమ్ ఇదṁ నియోగస్య ప్రయోజనత్వṁ సుఖవన్ నియోగస్యాప్య్ అనుకూలత్వమ్ ఏవేతి చేత్, కిṁ నియోగః సుఖṁ సుఖమ్ ఏవ హ్య్ అనుకూలమ్। సుఖ-విశేషవన్ నియోగాపర-పర్యాయṁ విలక్షణṁ సుఖాన్తరమ్ ఇతి చేత్ కిṁ తత్ర ప్రమాణమ్ ఇతి వక్తవ్యమ్। స్వానుభవశ్ చేన్ న, విషయ-విశేషానుభవ-సుఖవన్ నియోగానుభవ-సుఖమ్ ఇదమ్ ఇతి భవతాపి నానుభూయతే। శాస్త్రేణ నియోగస్య పురుషార్థతయా ప్రతిపాదనాత్। పశ్చాత్ తు భోక్ష్యత ఇతి చేత్ కిṁ తన్ నియోగస్య పురుషార్థత్వ-వాచి శాస్త్రమ్। న తావల్ లౌకికṁ వాక్యమ్, తస్య దుఃఖాత్మక-క్రియా-విషయత్వాత్, తేన సుఖాది-సాధనతయైవ కృతి-సాధ్యతా-మాత్ర-ప్రతిపాదనాత్। నాపి వైదికమ్, తేనాపి స్వర్గాది-సాధనతయైవ కార్యస్య ప్రతిపాదనాత్। నాపి నిత్య-నైమిత్తిక-శాస్త్రమ్; తస్యాపి తద్-అభిధాయిత్వṁ స్వర్గ-కామ-వాక్య-స్థాపూర్వ-వ్యుత్పత్తి-పూర్వకమ్ ఇత్య్ ఉక్త-రీత్యా తేనాపి సుఖాది-సాధన-కార్యాభిధానమ్ అవర్జనీయమ్। నియతైహిక-ఫలస్య కర్మణోఽనుష్ఠితస్య ఫలత్వేన తదానీమ్ అనుభూయమానాన్ నాద్యరోగతాది-వ్యతిరేకేణ నియోగ-రూప-సుఖానుభవానుపలబ్ధేశ్ చ నియోగః సుఖమ్ ఇత్య్ అత్ర న కిఞ్చన ప్రమాణమ్ ఉపలభామహే। అర్థవాదాదిష్వ్ అపి స్వర్గాది-సుఖ-ప్రకార-కీర్తనవన్ నియోగ-రూప-సుఖ-ప్రకార-కీర్తనṁ భవతాపి న దృష్ట-చరమ్।
Link copied[లిఙ్-అర్థ-నిష్కర్షః]
Link copiedఅతో విధి-వాక్యేష్వ్ అపి ధాత్వ్-అర్థస్య కర్తృ-వ్యాపార-సాధ్యతా-మాత్రṁ శబ్దానుశాసన-సిద్ధమ్ ఏవ లిఙ్గాదేర్ వాచ్యమ్ ఇత్య్ అధ్యవసీయతే। ధాత్వ్-అర్థస్య చ యాగాదేర్ అగ్న్య్-ఆది-దేవతాన్తర్యామి పరమ-పురుషసమ్ ఆరాధన-రూపతా, సమారాధితాత్ పరమ-పురుషాత్ ఫల-సిద్ధిశ్ చేతి ఫలమ్ అత ఉపపత్తేః [బ్ర। సూ। ౩।౨।౩౭] ఇత్య్ అత్ర ప్రతిపాదయిష్యతే। అతో వేదాన్తాః పరినిష్పన్నṁ బ్రహ్మ బోధయన్తీతి బ్రహ్మోపాసన-ఫలానన్త్యṁ స్థిరత్వṁ చ సిద్ధమ్। చాతుర్మాస్యాది-కర్మస్వ్ అపి కేవలస్య కర్మణః క్షయి-ఫలత్వోపదేశాద్ అక్షయ-ఫల-శ్రవణṁ వాయుశ్ చాన్తరిక్షṁ చైతద్ అమృతమ్ [బృహద్।, ౪।౩।౩] ఇత్య్ ఆదివద్ ఆపేక్షికṁ మన్తవ్యమ్।
Link copiedఅతః కేవలానాṁ కర్మణామ్ అల్పాస్థిర-ఫలత్వాత్, బ్రహ్మ-జ్ఞానస్య చానన్త-స్థిర-ఫలత్వాత్ తన్-నిర్ణయ-ఫలో బ్రహ్మ-విచారారమ్భో యుక్త ఇతి స్థితమ్॥
Link copiedఇతి జిజ్ఞాసాధికరణమ్॥౧॥
Link copied[బ్రహ్మణి ప్రతిపత్తి-దౌఃస్థ్య-నిరాసపరమ్]
Link copiedజన్మాద్య్-అధికరణమ్॥౨॥
Link copied[అధికరణార్థః-- బ్రహ్మణః సర్వ-కర్తృత్వమ్]
Link copiedకిṁ పునస్ తద్ బ్రహ్మ యజ్ జిజ్ఞాస్యమ్ ఉచ్యత ఇత్య్ అత్రాహ--
Link copied౨ జన్మాద్య్ అస్య యతః॥౧।౧।౨॥
Link copied[సూత్రార్థ-వర్ణనమ్]
Link copiedజన్మాదీతి-- సృష్టి-స్థిత-ప్రలయమ్। తద్-గుణ-సṁవిజ్ఞానో బహువ్రీహిః। అస్యాచిన్త్య-వివిధ-విచిత్ర-రచనస్య నియత-దేశ-కాల-ఫల-భోగ-బ్రహ్మాది-స్తమ్బ-పర్యన్త-క్షేత్రజ్ఞ-మిశ్రస్య జగతః, యతః-- యస్మాత్ సర్వేశ్వరాత్ నిఖిల-హేయ-ప్రత్యనీక-స్వరూపాత్ సత్య-సఙ్కల్పాజ్ జ్ఞానానన్దాద్య్-అనన్త-కల్యాణ-గుణాత్ సర్వ-జ్ఞాత్ సర్వ-శక్తేః పరమ-కారుణికాత్ పరస్మాత్ పుṁసః సృష్టి-స్థితి-ప్రలయాః ప్రవర్తన్తే తద్ బ్రహ్మేతి సూత్రార్థః॥
Link copied[పూర్వ-పక్షః]
Link copied[అధికరణస్యాఙ్గ-భూత-విషయ-ప్రదర్శనమ్]
Link copiedభృగుర్ వై వారుణిః। వరుణṁ పితరమ్ ఉపససార। అధీహి భగవో బ్రహ్మ ఇత్య్ ఆరభ్య యతో వా ఇమాని భూతాని జాయన్తే। యేన జాతాని జీవన్తి। యత్ ప్రయన్త్య్ అభిసṁవిశన్తి। తద్ విజిజ్ఞాసస్వ। తద్ బ్రహ్మ [తై।, ౩।౩।౧] ఇతి శ్రూయతే।
Link copied[అధికరణస్యాఙ్గ-భూతః సṁశయః]
Link copiedతత్ర సṁశయః-- కిమ్ అస్మాద్ వాక్యాద్ బ్రహ్మ లక్షణతః ప్రతిపత్తుṁ శక్యతే, న వా-- ఇతి।