नित्यग्रन्थ
Nitya-Grantha
Nitya Grantha
The Daily Manual — Bhagavad Ramanuja's guide to the daily worship (nitya-aradhana) of Sriman Narayana, systematizing the ritual discipline of the Sri Vaishnava devotee.
Original Sanskrit · click to toggle
चोन्सुल्तेद् एदितिओन्:
Link copied१। रामानुज ग्रन्थमाला, एदितेद् ब्य् अन्नन्गरछर्य स्wअम्य्, कन्छिपुरम्, १९५६।
Link copiedश्री-रामानुजाचार्य-विरचितः
Link copiedनित्य-ग्रन्थः
Link copiedअथ परमैकान्तिनो भगवद्-आराधन-प्रयोगꣳ वक्ष्ये---
Link copiedभगवत्-कैङ्कर्यैक-रतिः परमैकान्ती भूत्वा भगवान् एव स्व-शेष-भूतेन मया स्वकीयैश् च कल्याणतमैर् औपचारिक-साꣳस्पर्शिकाभ्यवहारिकैर् भोगैर् अखिल-परिजन-परिच्छान्वितꣳ स्वात्मानꣳ प्रीतꣳ कारयितुम् उपक्रमत इत्य् अनुसन्धाय तीर्थꣳ गत्वा शुचौ देशे पादौ प्रक्षाल्याचम्य, तीरꣳ सꣳशोध्य, शुचौ देशे मूल-मन्त्रेण मृदम् आदाय द्विधा कृत्वा शोधित-तीरे निधाय, एकेनाधिक-भागेन देह-मल-प्रक्षालनꣳ कृत्वा निमज्ज्य, आचम्य प्राणायाम-त्रयम् आसीनो भगवन्तꣳ ध्यायन् कृत्वा, अन्यꣳ मृद्-भागम् आदाय वाम-पाणि-तले त्रिधा कृत्वा पृथक् पृथक् सम्प्रोक्ष्य, अभिमन्त्र्य, एकेन दिग्-बन्धनम् अस्त्र-मन्त्रेण कुर्यात्। अन्येन तीर्थस्य पीठम्। इतरेण गात्रानुलेपनम्।
Link copiedततः पाणी प्रक्षाल्य, उदकाञ्जलिम् आदाय तीर्थस्यार्घ्यम् उत्क्षिप्य भगवद्-वाम-पादाङ्गुष्ठ- विनिःसृत-गङ्गा-जलꣳ सङ्कल्पित-पीठे आवाह्य, अर्घ्यꣳ दत्त्वा मूल-मन्त्रेणाभिमन्त्र्य, उदकाञ्जलिम् आदाय सप्त कृत्वोऽभिमन्त्र्य स्व-मूर्धनि सिञ्चेत्। एवꣳ त्रिः पञ्च कृत्वः सप्त कृत्वो वा।
Link copiedदक्षिणेन पाणिना जलम् आदाय अभिमन्त्र्य पीत्वा, आचम्य स्वात्मानꣳ सम्प्रोक्ष्य परिषिच्य तीर्थे निमग्नो भगवत्-पादारविन्द-विन्यस्त-शरस्को यावच्-छक्ति मूल-मन्त्रꣳ जपित्वा, उत्तीर्य शुक्ल-वस्त्र-धरो धृतोत्तरीयश् च आचम्य, ऊर्ध्व-पुण्ड्राꣳस् तत् तन् मन्त्रेण धारयित्वा भगवन्तम् अनुस्मृत्य, तत् तन् मन्त्रेण भगवत्-पर्यन्ताभिधायिना मूल-मन्त्रेण च जलꣳ पीत्वा, आचम्य, प्रोक्ष्य, परिषिच्य, उदकाञ्जलिम् आदाय भगवत्-पादयोर् निक्षिप्य, प्राणान् आयम्य भगवन्तꣳ ध्यात्वा, अष्टोत्तर-शतꣳ मूल-मन्त्रम् आवर्त्य परिक्रम्य नमस्कृत्य, आधार- शक्त्य्-आदि-पृथिव्य्-अन्तꣳ तर्पयित्वा, श्री-वैकुण्ठादि-पार्षदान्तꣳ तर्पयित्वा देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्य, शुचौ देशे वस्त्रꣳ सम्पीड्य, आचम्य, आवाहित-तीर्थꣳ मूल-मन्त्रेणात्मनि समाहृत्य याग-भूमिꣳ गच्छेत्।
Link copiedसुप्रक्षालित-पाणि-पादः स्वाचान्तः शुचौ देशेऽतिमनोहरे निःशब्दे भुवꣳ सङ्गृह्य ताꣳ शोषणादिभिर् विशोध्य गुरु-परम्परया परम-गुरुꣳ भगवन्तम् उपगम्य तम् एव प्राप्यत्वेन प्रापकत्वेनानिष्ट-निवारकत्वेनेष्ट-प्रापकत्वेन च यथावस्थित-स्वरूप-रूप-गुण-विभूति-लीलोपकरण-विस्तारम् अनुसन्धाय तम् एव शरणम् उपगच्छेद् अखिलेत्य्-आदिना।
Link copiedएवꣳ शरणम् उपगम्य तत्-प्रसादोपबृꣳहित-मनोवृत्तिः, तम् एव भगवन्तꣳ सर्वेश्वरेश्वरम् आत्मनः स्वामित्वेनानुसन्धाय, अत्यर्थ-प्रियाविरत-विशदतम-प्रत्यक्ष-रूपानुध्यानेन ध्यायन् आसीत्। ततस् तद्-अनुभव-जनितातिमात्र-प्रीति-कारित-परिपूर्ण-कैङ्कर्य-रूप-पूजाम् आरभेत्।
Link copiedभगवान् एव स्व-नियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषतैकरसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तःकरणैः स्वकीय-कल्याणतम-द्रव्य-मयान् औपचारिक-साꣳस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमत इत्य् अनुसन्धाय, स्व-देहे पञ्चोपनिषन्-मन्त्रान् सꣳहार-क्रमेण न्यस्य, प्राणायामेनैकेन दक्षिण-पाणिना नाभिदेशे मूल-मन्त्रꣳ न्यस्य, मन्त्रोद्भूत-चण्ड-वाय्व्-आप्यायित-नाभि-देश-स्थ-वायुना शरीरम् अन्तर् बहिश् च सर्व-तत्त्व-मयꣳ तत्त्व-क्रमेण विशोष्य, पुनः प्राणायामेनैकेन हृद्-देशे मूल-मन्त्रꣳ न्यस्य मन्त्रोद्भूत-चक्राग्नि-ज्वालोपबृꣳहित-जाठराग्निना दग्ध्व-तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्-वासनो भूत्वा भगवद्-दक्षिण-पादाङ्गुष्ठे मूल-मन्त्रेण स्वात्मानꣳ प्रवेशयेत्।
Link copiedअपरेण प्राणायामेन भगवत्-प्रसादेन भगवत्-किङ्करत्व-योग्यताम् आपाद्य तस्माद् आदाय, तद्-वाम-पादाङ्गुष्ठाधस्तान् मूल-मन्त्रेणात्मानꣳ विन्यस्य देव-वाम-पादाङ्गुष्ठ-नख-शीताꣳशु-मण्डल-निर्गलद्-दिव्यामृत-रसैर् आत्मानम् अभिषिच्य, भगवत्-प्रसादेन तद्-अमृत-मयꣳ सर्व-कैङ्कर्यैक-मनोहरꣳ सर्व-कैङ्कर्यैक-योग्यꣳ शरीरꣳ लब्ध्वा तस्मिञ् शरीरे पञ्चोपनिषन्-मन्त्रान् सृष्टि-क्रमेण विन्यस्येत्। ओꣳ षाꣳ नमः पराय परमेष्ठ्य्-आत्मने नम इति मूर्ध्नि स्पृशेत्। ओꣳ याꣳ नमः पराय पुरुषात्मने नम इति नासिकाग्रे। ओꣳ राꣳ नमः पराय विश्वात्मने नम इति हृदये। ओꣳ वाꣳ नमः पराय निवृत्त्य्-आत्मने नम इति गुह्ये। ओꣳ लाꣳ नमः पराय सर्वात्मने नम इति पादयोः। एवꣳ न्यासꣳ कुर्वꣳस् तत्-तच्-छक्ति-मयम् उद्भूतꣳ देहꣳ ध्यायेत्।
Link copiedपुनर् अपि प्राणायामेनैकेन भगवद्-वाम-पादाङ्गुष्ठ-विनिःसृतामृत-धारयात्मानम् अभिषिच्य कृतलाञ्छनो धृतोर्ध्व-पुण्ड्रो भगवद्-यागम् आरभेत्।
Link copiedभगवान् एव सर्वꣳ कारयतीति पूर्ववद् ध्यात्वा हृद्-यागꣳ कृत्वा सम्भारान् सम्भृत्य, आत्मनो वाम-पार्श्वे जल-कुम्भे तोयम् उत्पूर्य गन्ध-पुष्प-युतꣳ कृत्वा सप्त कृत्वोऽभिमन्त्र्य विशोष्य दग्ध्वा दिव्यामृत-मयꣳ तोयम् उत्पाद्य, अस्त्र-मन्त्रेण रक्षाꣳ कृत्वा सुरभि-मुद्राꣳ प्रदर्श्य, अन्यानि पूजा-द्रव्याण्य् आत्मनो दक्षिण-पार्श्वे निधाय, आत्मनः पुरतः स्वास्तीर्णे पीठे क्रमेणाग्नेयादिषु कोणेष्व् अर्घ्य-पाद्याचमनीय-स्नानीय-पात्राणि निधाय, अस्त्र-मन्त्रेण प्रक्षाल्य शोषणादिना पात्राणि विशोध्य सꣳस्कृत-तोयेन तानि पूरयित्वा, अर्घ्य-पात्रे-गन्ध-पुष्प-कुशाग्राक्षतादीनि निक्षिपेत्। दूर्वाꣳ विष्णु-पर्णाꣳ श्यामाकꣳ पद्मकꣳ पाद्य-पात्रे। एला-लवङ्ग-तक्कोल-लामज्जक-जाती-पुष्पाण्य् आचमनीये। (द्वे हरिद्रे मुरा-शैलेय-तक्कोल-जटामाꣳसी-मलयज-गन्ध-चम्पक-पुष्पाणि स्नानीये) सिद्धार्थकादीनि स्नानीये।
Link copiedअन्यस्मिन् पात्रे सर्वार्थ-तोयꣳ सङ्कल्प्य ततोऽर्घ्य-पात्रꣳ पाणिना स्पृष्ट्वा मूल-मन्त्रेणाभिमन्त्र्य, ओꣳ नमो भगवतेऽर्घ्यꣳ परिकल्पयामीत्य् अर्घ्यꣳ परिकल्पयेत्। एवꣳ पाद्यꣳ परिकल्पयामीति पाद्यम्। आचमनीयꣳ परिकल्पयामीत्य् आचमनीयम्। स्नानीयꣳ परिकल्पयामीति स्नानीयम्। शुद्धोदकꣳ परिकल्पयामीति शुद्धोदकम्। ततोऽर्घ्य-जलाज् जलम् अन्येन पात्रेणादाय याग-भूमिꣳ सर्वाणि याग-द्रव्याण्य् आत्मानꣳ च प्रत्येकꣳ सम्प्रोक्ष्य, आसनꣳ परिकल्पयेत्।
Link copiedओꣳ आधार-शक्त्यै नमः, ओꣳ मूल-प्रकृत्यै नमः, ओꣳ अखिल-जगद्-आधाराय कूर्म-रूपिणे नारायाणाय नमः, ओꣳ भगवतेऽनन्ताय नागराजाय नमः, ओꣳ भूꣳ भूम्यै नम इति यथास्थानम् उपर्य् उपरि ध्यात्वा प्रणम्य, ओꣳ श्री-वैकुण्ठाय दिव्य-लोकाय नम इति श्री-वैकुण्ठ-दिव्य-लोकꣳ प्रणम्य, ओꣳ श्री-वैकुण्ठाय दिव्य-जनपदाय नम इति दिव्य-जनपदꣳ प्रणम्य, ओꣳ श्री-वैकुण्ठाय दिव्य-नगराय नम इति दिव्य-नगरꣳ प्रणम्य, ओꣳ श्री-वैकुण्ठाय दिव्य-विमानाय नम इति दिव्य-विमानꣳ प्रणम्य, ओꣳ आनन्द-मयाय दिव्य-मण्टप-रत्नाय नम इति मण्टप-रत्नꣳ प्रणम्य, तस्मिन्, अनन्ताय (नारायणाय) नम इत्य् आस्तरणꣳ प्रणम्य, तस्मिन्न् उपरि, ओꣳ धर्माय नम इत्य् आग्नेय्याꣳ पादꣳ विन्यस्य, ओꣳ ज्ञानाय नम इति नैरृत्याꣳ, ओꣳ वैराग्याय नम इति वायव्याꣳ, ओꣳ ऐश्वर्याय नम इत्य् ऐशान्याम्, ओꣳ अघर्माय नम इति प्राच्याꣳ पीठ-गात्रꣳ विन्यस्य, ओꣳ अज्ञानाय नम इति दक्षिणस्याꣳ, ओꣳ अवैराग्याय नम इति प्रतीच्याꣳ, ओꣳ अनैश्वर्याय नम इत्य् उत्तरस्याम्, एभिः परिच्छिन्न-तनुꣳ पीठ-भूतꣳ सद्-आत्मकम् अनन्तꣳ विन्यस्य, सर्व-कार्योन्मुखꣳ विभुम् अनन्तꣳ, ओꣳ अनन्ताय नम इति विन्यस्य, तस्मिन्न् उपरि, ओꣳ पद्माय नम इति पद्मꣳ विन्यस्य, तत्-पूर्व-पत्रे, ओꣳ विमलायै (चामर-हस्तायै) नम इति विमलाꣳ चामर-हस्ताꣳ विन्यस्य, तत आरभ्य प्रादक्षिण्येनैशानान्तꣳ पन्नेषु, ओꣳ उत्कर्षिण्यै (चामर-हस्तायै) नमः, ओꣳ ज्ञानायै (चामर-हस्तायै) नमः, ओꣳ क्रियायै (चामर-हस्तायै) नमः, ओꣳ योगायै नमः, ओꣳ प्रह्व्यै (चामर-हस्तायै) नमः, ओꣳ सत्यायै (चामर-हस्तायै) नमः, ओꣳ ईशानायै (चामर-हस्तायै) नम इति सप्त शक्तीश् चामर-हस्ता विन्यस्य, ओꣳ अनुग्रहायै (चामर-हस्तायै) नम इति कर्णिका-पूर्व-भागेऽनुग्रहाꣳ चामर-हस्ताꣳ विन्यस्येत्, ओꣳ जगत्-प्रकृतये योग-पीठाय नम इति योग-पीठꣳ विन्यस्य, ओꣳ (दिव्याय योग-पर्यङ्काय) दिव्य-योग-पीठाय नमः, इति दिव्य-योग-(पीठ)पर्यङ्कꣳ विन्यस्य, तस्मिन्न् अनन्तꣳ नागराजꣳ सहस्र-फणा-शोभितꣳ, ओꣳ अनन्ताय नागराजाय नम इति न्यस्य, ओꣳ अनन्ताय नम इति पुरतः पाद-पीठꣳ विन्यस्य, सर्वाण्य् आधार-शक्त्य्-आदीनि पीठान्तानि तत्त्वानि प्रत्येकꣳ गन्ध-पुष्प-धूप-दीपैर् अभ्यर्च्य, सर्व-परिवाराणाꣳ तत्-तत्-स्थानेषु पद्मासनानि सङ्कल्प्य, अनन्त-गरुड-विष्वक्सेनानाꣳ सपीठकꣳ पद्मꣳ विन्यस्य, सर्वतः पुष्पाक्षतान्दीनि विकीर्य, योग-पीठस्य पश्चिमोत्तर-दिग्-भागे, ओꣳ अस्मद्-गुरुभ्यो नम इति गुरून् गन्ध-पुष्प-धूप-दीपैः सम्पूज्य प्रणम्यानुज्ञाप्य भगवद्-यागम् आरभेत्।
Link copiedकल्पिते नाग-भोगे समासीनꣳ भगवन्तꣳ नारायणꣳ पुण्डरीक-दलामलायताक्षꣳ किरीट-मकुट-केयूर-हार-कटकादि-सर्व-भूषणैर् भूषितम् आकुञ्चित-दक्षिण-पादꣳ, प्रसारित-वाम-पादꣳ जानु-विन्यस्त-प्रसरित-सारित-दक्षिण-भुजꣳ नाग-भोग-विन्यस्त-वाम-भुजम् ऊर्ध्व-भुज-द्वयेन शङ्ख-चक्र-धरꣳ सर्वेषाꣳ सृष्टि-स्थिति-प्रलय-हेतु-भूतम् अञ्जनाभꣳ, कौस्तुभेन विराजमानꣳ चकासतम् उदग्र-प्रबुद्ध-स्फुरद्-अपूर्वाचिन्त्य-परम-सत्त्व-पञ्च-शक्ति-मय-विग्रहꣳ पञ्चोपणिषदैर् ध्यात्वा, आराधनाभिमुखो भवेति (मूल-मन्त्रेण) प्रार्थ्य, मूल-मन्त्रेण दण्डवत् प्रणम्य, उत्थाय स्वागतꣳ निवेद्य, यावद् आराधन-समाप्ति-सान्निध्य-याचनꣳ कुर्यात्।
Link copiedअन्यत्र स्वाभिमत-देशे पूजा चेद् एवम् आवाहनम्---
Link copiedमन्त्र-योगः समाह्वानꣳ कर-पुष्पोप-दर्शनम्।
Link copiedबिम्बोपवेशनꣳ चैव योग-विग्रह-चिन्तनम्॥
Link copiedप्रणामश् च समुत्थानꣳ स्वागतꣳ पुष्पम् एव च।
Link copiedसान्निध्य-याचनꣳ चेति तत्राह्वानस्य सत्-क्रिया॥
Link copiedततो भगवन्तꣳ प्रणम्य दक्षिनतः, ओꣳ श्रीꣳ श्रियै नम इति श्रियम् आवाह्य प्रणम्य, वामतः, ओꣳ भूꣳ भूम्यै नम इति भुवम् आवाह्य तत्रैव ओꣳ नीम् नीलायै नम इति नीलाम् आवाह्य, किरीटाय मकुटाधिपतये नम इत्य् उपरि भगवतः पश्चिम-पार्श्वे चतुर्-बाहुꣳ चतुर्-वक्त्रꣳ कृताञ्जलि-पुटꣳ मूर्ध्नि भगवत्-किरीटꣳ धारयन्तꣳ किरीटाख्य-दिव्य-पुरुषꣳ प्रणम्य, एवम् एव, ओꣳ किरीट-माल्यायापीडात्मने नम इत्य् आपीडकꣳ तत्रैव पुरस्तात् प्रणम्य, ओꣳ दक्षिण-कुण्डलाय मकरात्मने नम इति दक्षिण-कुण्डलꣳ दक्षिणतः प्रणम्य, ओꣳ वाम-कुण्डलाय मकरात्मने नम इति वाम-कुण्डलꣳ वामतः प्रणम्य, ओꣳ वैजयन्त्यै वनमालायै नम इति वनमालाꣳ पुरतः प्रणम्य, ओꣳ श्री-तुलस्यै नम इति तुलसीꣳ देवीꣳ पुरतः प्रणम्य, ओꣳ श्रीवत्साय श्रीनिवासाय नम इति श्रीवत्सꣳ पुरतः प्रणम्य, ओꣳ हाराय सर्वाभरणाधिपतये नम इति हारꣳ पुरतः प्रणम्य, ओꣳ श्री-कौस्तुभाय सर्व-रत्नाधिपतये नम इति कौस्तुभꣳ पुरतः प्रणम्य, ओꣳ काञ्ची-गुणोज्ज्वलाय दिव्य-पीताम्बराय नम इति पीताम्बरꣳ पुरतः प्रणम्य, ओꣳ सर्वेभ्यो भगवद्-भूषणेभ्यो नम इति सर्व-भूषणानि सर्वतः प्रणम्य, ओꣳ श्री-सुदर्शनाय हेतिराजाय नम इति सुदर्शनꣳ रक्त-वर्णꣳ रक्त-नेत्रꣳ (द्वि-भुजꣳ) चतुर्-भुजꣳ कृताञ्जलि-पुटꣳ भगवन्तम् आलोकयन्तम् तद्-दर्शनानन्द-बृꣳहित-मुखꣳ मूर्ध्नि भगवच्-चक्रꣳ धारयन्तꣳ दक्षिणतः प्रणम्य, ओꣳ नन्दकाय खड्गाधिपतये नम इति नन्दकात्मानꣳ शिरसि भगवत्-खड्गꣳ धारयन्तꣳ तत्रैव प्रणम्य, ओꣳ पद्माय नम इति पद्मꣳ (शिरसि धारयन्तꣳ) प्रणम्य, ओꣳ पाञ्चजन्याय शङ्खाधिपतये नम इति शङ्खात्मानꣳ सित-वर्णꣳ रक्त-नेत्रꣳ द्वि-भुजꣳ कृताञ्जलि-पुटꣳ शिरसि भगवच्-छङ्खꣳ धारयन्तꣳ वामतः प्रणम्य, ओꣳ कौमोदक्यै गदाधिपतये नम इति गदात्मानꣳ तत्रैव प्रणम्य, तत्रैव ओꣳ शार्ङ्गाय चापाधिपतये नम इति शार्ङ्गात्मानꣳ प्रणम्य, ओꣳ सर्वेभ्यो भगवद्-दिव्यायुधेभ्यो नम इति सर्वायुधानि परितः प्रणम्य, ओꣳ सर्वाभ्यो भगवत्-पादारविन्द-सꣳवाहिनीभ्यो नम इति दिव्य-पादारविन्द-सꣳवाहिनीः समन्ततः प्रणम्य, ओꣳ अनन्ताय नागराजाय नम इति पृष्ठतोऽनन्तꣳ (भगवन्तꣳ) नागराजꣳ चतुर्-भुजꣳ हल-मुसल-धरꣳ कृताञ्जलि-पुटꣳ फणा-मणि-सहस्र-मण्डितोत्तमाङ्गꣳ भगवद्-स्पर्शनानन्द-बृꣳहित-सर्व-गात्रꣳ ध्यात्वा प्रणम्य, ओꣳ सर्वेभ्यो भगवत्-परिजनेभ्यो नम इत्य् अनुक्तानन्त-परिजनान् समन्ततः प्रणम्य, ओꣳ वैनतेयाय नम इत्य् अग्रतो (भगवतो भगवन्तꣳ) वैनतेयम् आसीनꣳ द्वि-भुजꣳ कृताञ्जलि-पुटꣳ ध्यात्वा प्रणम्य, ओꣳ भगवते विष्वक्सेनायेति भगवतः प्राग् उत्तर-पार्श्वे दक्षिणाभिमुखꣳ भगवन्तꣳ विष्वक्सेनम् आसीनꣳ चतुर्-भुजꣳ शङ्ख-चक्र-धरꣳ नील-मेघ-निभꣳ ध्यात्वा प्रणम्य, ओꣳ गꣳ गजाननाय नमः, ओꣳ जꣳ जयत्-सेनाय नमः, ओꣳ हꣳ हरि-वक्त्राय नमः, ओꣳ कꣳ काल-प्रकृति-सꣳज्ञाय नमः, ओꣳ सर्वेभ्यो भगवद्-विष्वक्सेन-परिजनेभ्यो नम इति विष्वक्सेन-परिजनान् प्रणम्य, ओꣳ चण्डाय द्वार-पालाय नमः, ओꣳ प्रचण्डाय द्वार-पालाय नम इति पूर्व-द्वार-पार्श्वयोः प्रणम्य, ओꣳ भद्राय द्वार-पालाय नमः, ओꣳ सुभद्राय द्वार-पालाय नम इति दक्षिण-द्वार-पार्श्वयोः प्रणम्य, ओꣳ जयाय द्वार-पालाय नमः, ओꣳ विजयाय द्वार-पालाय नम इति पश्चिम-द्वार-पार्श्वयोः प्रणम्य, ओꣳ धात्रे द्वार-पालाय नमः, ओꣳ विधात्रे द्वार-पालाय नम इति उत्तर-द्वार-पार्श्वयोः प्रणम्य, ओꣳ धात्रे द्वार-पालाय नमः, ओꣳ विधात्रे द्वार-पालाय नम इत्य् उत्तर-द्वार-पार्श्वयोः प्रणमेत्।
Link copiedएते द्वार-पालाः सर्वे शङ्ख-चक्र-गदाधरा आज्ञा-मुद्रायुता ध्यातव्याः॥
Link copiedओꣳ सर्वेभ्यो भगवद्-द्वार-पालेभ्यो नम इति सर्व-द्वारेषु सर्व-द्वार-पालान् प्रणम्य,
Link copiedओꣳ कुमुदाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति पूर्वस्याꣳ दिशि पार्षदेश्वरꣳ कुमुदꣳ प्रणम्य, ओꣳ कुमुदाक्षाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् आग्नेय्याꣳ कुमुदाक्षꣳ प्रणम्य, ओꣳ पुण्डरीकाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति दक्षिणस्याꣳ पुण्डरीकꣳ प्रणम्य, ओꣳ वामनाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति नैरृत्याꣳ वामनꣳ प्रणम्य, ओꣳ शङ्कुकर्णाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति पश्चिमस्याꣳ शङ्कुकर्णꣳ प्रणम्य, ओꣳ सर्प-नेत्राय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इति वायव्याꣳ सर्प-नेत्रꣳ प्रणम्य, ओꣳ सुमुखाय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् उदीच्याꣳ सुमुखꣳ प्रणम्य, ओꣳ सुप्रतिष्ठिताय गणाधिपतये सवाहन-परिवार-प्रहरणाय नम इत्य् ऐशान्याꣳ सुप्रतिष्ठितꣳ प्रणम्य, ओꣳ सर्वेभ्यो भगवत्-पारिषदेभ्यो नम इति सर्वस्माद् बहिः प्रणमेत्।
Link copiedअन्यत्रावाह्य पूजायाम् आवाहन-स्थानानि परम-व्योम-क्षीरार्णवादित्य-मण्डल-हृदयानि मधुरा-द्वारका-गोकुलायोध्यादीनि दिव्यावतार-स्थानानि चान्यानि पौराणिकानि श्री-रङ्गादीनि च यथारुचि।
Link copiedएवꣳ भगवन्तꣳ नारायणꣳ देवी-भूषणायुध-परिजन-परिच्छद-द्वार-पाल-पार्षदैः सेव्यमानꣳ स्वाधीन-त्रिविध-चेतनाचेतन-स्वरूप-स्थिति-प्रवृत्ति-भेदꣳ क्लेश-कर्माद्य्-अशेष-दोषासꣳस्पृष्टꣳ स्वाभाविकानवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः प्रभृत्य्-असङ्ख्येय-कल्पाण-गुण-गणौघ-महार्णवꣳ ध्यात्वा प्रणम्य, मूल-मन्त्रेण स्वात्मानꣳ देवाय निवेद्य, प्रणम्यानुज्ञाप्य, भगवत्-पूजाम् आरभेत्।
Link copiedपात्रेण पूर्वस्थापितादर्घ्य-पात्राद् अर्घ्य-जलम् आदाय पाणिभ्याꣳ मुख-समम् उद्धृत्य, भगवन्, इदꣳ प्रतिगृह्णीष्वेति चिन्तयन् भगवन्-मुखे दर्शयित्वा भगवद्-दक्षिण-हस्ते किञ्चित् प्रदायार्घ्यꣳ प्रतिग्रह-पात्रे प्रक्षिपेत्। हतौ प्रक्षाल्य पादयोः पुष्पाणि समर्प्य पाद्य-पात्रात् पाद्य-जलम् आदाय पादयोः किञ्चित् दत्वा मनसा पादौ प्रक्षाल्यन् पाद्यꣳ प्रतिग्रह-पात्रे निक्षिपेत्। हस्तौ प्रक्षाल्य वस्त्रेण पादौ सम्मृज्य गन्ध-पुष्पाणि दत्वा, आचमनीय-पात्राद् आचमनीयम् आदाय भगवद्-दक्षिण-हस्ते किञ्चित् समर्प्य, भगवद्-वदने आचमनीयꣳ समर्पितम् इति मनसा भावयञ् शेषम् आचमनीयꣳ प्रतिग्रह-पात्रे निक्षिपेत्। ततो गन्ध-पुष्प-धूप-दीपाचमन-मुख-वास-ताम्बूलादि-निवेदनꣳ कृत्वा प्रणम्य, आत्मानम् आत्मीयꣳ च सर्वꣳ भगवन् नित्य-किङ्करत्वाय स्वीकुर्व् इति भगवते निवेदयेत्। ततः स्नानार्थम् आसनम् आनीय गन्धादिभिर् अभ्यर्च्य भगवन्तꣳ प्रणम्य, अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे माल्य-भूषण-वस्त्राण्य् अपनीय विष्वक्सेनाय दत्वा स्नान-शाटिकाꣳ प्रदाय पाद्याचमनीय-पाद-पीठ-प्रदान-दन्त-काष्ठ-जिह्वानिर्लेहन-गण्डूष-मुख-प्रक्षालनाचमनादर्श-प्रदर्शन-हस्त-प्रक्षालन-मुख-वास-ताम्बूल-तैलाभ्यङ्गोद्वर्तामलक-तोय-कङ्कत-प्लोत-देह-शोधन-शाटिका-प्रदान-हरिद्रालेपन-प्रक्षालन-वस्त्रोत्तरीय-यज्ञोपवीत-प्रदान-पाद्याचमन-पवित्र-प्रदान-गन्ध-पुष्प- धूप-दीपाचमन-नृत-गीत-वाद्यादि-सर्व-मङ्गल-सꣳयुक्ताभिषेक-नीराजनाचमन-देह-शोधन-प्लोत-वस्त्रौत्तरीय-यज्ञोपवीताचमन-कूर्च-प्रसारण-सहस्र-धाराभिषेक-नीराजनाचमन-देह-शोधन-प्लोत-वस्त्रोत्तरीय-यज्ञोपवीताचमनानि दद्यात्।
Link copiedततोऽलङ्कारासनम् अभ्यर्च्य प्रणम्य, अनुज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे पूर्ववत् स्नानीय-वर्जम् अर्घ्य-पाद्याचमनीय-शुद्धोदकानि मन्त्रेण कल्पयित्वा भगवते गन्ध-पुष्प-पाद-सम्मर्दन-वस्त्रोत्तरीय-भूषणोपवीतार्घ्य-पाद्याचमनीयानि दत्वा सर्व-परिवाराणाꣳ स्नान-वस्त्रादि-भूषणान्तꣳ दत्वा गन्धादीन् देवानन्तरꣳ सर्व-परिवाराणाꣳ प्रत्येकꣳ प्रदाय धूप-दीपाचमनीयानि दद्यात्। अथवा सर्व-परिवाराणाꣳ गन्धादीन् एव दद्यात्।
Link copiedगन्ध-पुष्प-प्रदानालङ्काराञ्जनोर्ध्वपुण्ड्रादर्श-धूप-दीपाचमन- ध्वज-च्छत्र-चामर-वाहन-शङ्ख-चिह्न-काहल-भेर्यादि-सकल-नृत-गीत-वाद्यादिभिर् अभ्यर्च्य मूल-मन्त्रेण पुष्पꣳ प्रदाय प्रत्यक्षरꣳ पुष्पꣳ प्रदाय द्वादशाक्षरेण विष्णु-षड्-अक्षरेण विष्णु-गायत्र्या पञ्चोपनिषदैः पुरुषसूक्तर्ग्भिर् अन्यैश् च भगवन्-मन्त्रैः शक्तश् चेत् पुष्पꣳ प्रदाय देव्यादि-पारिषदान्तꣳ तत्-तन्-मन्त्रेण पुष्पꣳ दत्वा, प्रणम्य, प्रतिदिशꣳ प्रदक्षिण-प्रणाम-पूर्वकꣳ भगवते पुष्पाञ्जलिꣳ दत्वा पुरतः प्रणम्य, श्रुति-मुखैः स्तोत्रैः स्तुत्वा, आत्मानꣳ नित्य-किङ्करतया निवेद्य तथैव ध्यात्वा यथाशक्ति मूल-मन्त्रꣳ जपित्वा सर्व-भोग-प्रपूरनीꣳ मात्राꣳ दत्वा मुख-वास-ताम्बूले प्रदाय, अघ्यꣳ दत्वा, भोज्यासनम् अभ्यर्च्य, प्रणम्य, अनुज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे पाद्याचमनीयार्हणानि दत्वा, गुडꣳ माक्षिकꣳ सर्पिर् दधि क्षीरꣳ चेति पात्रे निक्षिप्य शोषणादिभिर् विशोध्य, अर्घ्य-जलेन सम्प्रोक्ष्य मधुपर्कम् अवनत-शिराः हर्षोत्फुल्ल-नयनो हृष्ट-मना भूत्वा प्रदाय, आचमनीयꣳ दद्यात्। यत् किञ्चिद् द्रव्यꣳ भगवते दीयते तत् सर्वꣳ शोषणादिभिर् विशोध्य, अर्घ्य-जलेन सम्प्रोक्ष्य दद्यात्।
Link copiedततश् च गाꣳ स्वर्ण-रत्नादिकꣳ च यथाशक्ति दद्यात्। ततः सुसꣳस्कृतान्नम् आज्याढ्यꣳ दधि-क्षीर-मधूनि च फल-मूल-व्यञ्जनानि मोदकाꣳश् चान्यानि च लोके प्रियतमान्य् आत्मनश् चेष्टानि शास्त्राविरुद्धानि सम्भृत्य शोषणादिभिर् विशोध्यार्घ्य-जलेन सम्प्रोक्ष्य, अस्त्र-मन्त्रेण रक्षाꣳ कृत्वा सुरभि-मुद्राꣳ प्रदर्श्य, अर्हण-पूर्वकꣳ हविर् निवेदयेत्। अतिप्रभूतम् अतिसमग्रम् अतिप्रियतमम् अत्यन्त-भक्ति-कृतम् इदꣳ स्वीकुर्व् इति प्रणाम-पूर्वकम् अत्यन्त-साध्वस-विनयावनतो भूत्वा निवेदयेत्।
Link copiedततश् चानुपान-तर्पणे प्रदाय हस्त-प्रक्षालनाचमन-हस्त-सम्मार्जन-चन्दन-मुख-वास-ताम्बूलादीनि दत्वा प्रणम्य पुनर् मन्त्रासनꣳ कूर्चेन मार्जयित्वा, अभ्यर्च्य, अनुज्ञाप्य पादुके प्रदाय तत्रोपविष्टे माल्यादिकम् अपोह्य विश्वक्सेनाय दत्वा पाद्याचमनीय-गन्ध-पुष्प-धूप-दीपाचमनापूप-फलादीनि दत्वा, आचमन-मुख-वास-ताम्बूल-नृत-गीत-वाद्यादिभिर् अभ्यर्च्य प्रदक्षिणीकृत्य दण्डवत् प्रणम्य पर्यङ्कासनम् अभ्यर्च्य पादुके प्रदाय तत्रोपविष्टे पाद्याचमने दत्वा, माल्य-भूषण-वस्त्राण्य् अपनीय विश्वक्सेनाय दत्वा सुख-शयनोचितꣳ सुख-स्पर्शꣳ च वासः तद्-उचितानि भूषणान्य् उपवीतꣳ च प्रदाय, आचमनीयꣳ दत्वा गन्ध-पुष्प-धूप-दीपाचमन-मुख-वास-ताम्बूलादिभिर् अभ्यर्च्य श्रुति-सुखैः स्तोत्रैर् अभिष्टूया, भगवान् एव स्व-नियाम्य-स्वरूप-स्थिति-प्रवृत्ति-स्व-शेषतैकरसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तःकरणैः स्वकीय-कल्याणतम-द्रव्य-मयान् औपचारिक-साꣳस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादितवान् इत्य् अनुसन्धाय भगवन्तम् अनुज्ञाप्य, भगवन् निवेदित-हविः-शेषाद् विश्वक्सेनाय किञ्चिद् उद्धृत्य निधाय, अन्यत् सर्वꣳ स्वाचार्य-प्रमुखेभ्यो वैष्णवेभ्यो दत्वा, भगवद्-यागावशिष्टैर् जलादिभिर् द्रव्यैर् विष्वक्सेनम् अभ्यर्च्य पूर्वोद्धृतꣳ हविश् च दत्वा तद्-अर्चनꣳ परिसमाप्य भगवन्तम् अष्टाङ्गेन प्रणामेन प्रणम्य शरणम् उपगच्छेत्।
Link copiedमनो-बुद्ध्यभिमानेन सह न्यस्य धरा-तले।
Link copiedकूर्मवच् चतुरः पादान् शिरस् तत्रैव पञ्चमम्॥
Link copiedप्रदक्षिण-समेतेन त्व् एवꣳ-रूपेण सर्वदा।
Link copiedअष्टाङ्गेन नमस्कृत्य ह्य् उपविश्याग्रतः प्रभो॥
Link copiedइत्य् उक्तोऽष्टाङ्ग-प्रणामः। शरणागति-प्रकारश् च पूर्वोक्तः।
Link copiedततोऽर्घ्य-जलꣳ प्रदाय भगवन्तम् अनुज्ञाप्य पूजाꣳ समापयेत्।
Link copiedइति श्री-रामानुजाचार्य-विरचितो नित्य ग्रन्थः॥
Link copiedచోన్సుల్తేద్ ఏదితిఓన్:
Link copied౧। రామానుజ గ్రన్థమాలా, ఏదితేద్ బ్య్ అన్నన్గరఛర్య స్wఅమ్య్, కన్ఛిపురమ్, ౧౯౫౬।
Link copiedశ్రీ-రామానుజాచార్య-విరచితః
Link copiedనిత్య-గ్రన్థః
Link copiedఅథ పరమైకాన్తినో భగవద్-ఆరాధన-ప్రయోగṁ వక్ష్యే---
Link copiedభగవత్-కైఙ్కర్యైక-రతిః పరమైకాన్తీ భూత్వా భగవాన్ ఏవ స్వ-శేష-భూతేన మయా స్వకీయైశ్ చ కల్యాణతమైర్ ఔపచారిక-సాṁస్పర్శికాభ్యవహారికైర్ భోగైర్ అఖిల-పరిజన-పరిచ్ఛాన్వితṁ స్వాత్మానṁ ప్రీతṁ కారయితుమ్ ఉపక్రమత ఇత్య్ అనుసన్ధాయ తీర్థṁ గత్వా శుచౌ దేశే పాదౌ ప్రక్షాల్యాచమ్య, తీరṁ సṁశోధ్య, శుచౌ దేశే మూల-మన్త్రేణ మృదమ్ ఆదాయ ద్విధా కృత్వా శోధిత-తీరే నిధాయ, ఏకేనాధిక-భాగేన దేహ-మల-ప్రక్షాలనṁ కృత్వా నిమజ్జ్య, ఆచమ్య ప్రాణాయామ-త్రయమ్ ఆసీనో భగవన్తṁ ధ్యాయన్ కృత్వా, అన్యṁ మృద్-భాగమ్ ఆదాయ వామ-పాణి-తలే త్రిధా కృత్వా పృథక్ పృథక్ సమ్ప్రోక్ష్య, అభిమన్త్ర్య, ఏకేన దిగ్-బన్ధనమ్ అస్త్ర-మన్త్రేణ కుర్యాత్। అన్యేన తీర్థస్య పీఠమ్। ఇతరేణ గాత్రానులేపనమ్।
Link copiedతతః పాణీ ప్రక్షాల్య, ఉదకాఞ్జలిమ్ ఆదాయ తీర్థస్యార్ఘ్యమ్ ఉత్క్షిప్య భగవద్-వామ-పాదాఙ్గుష్ఠ- వినిఃసృత-గఙ్గా-జలṁ సఙ్కల్పిత-పీఠే ఆవాహ్య, అర్ఘ్యṁ దత్త్వా మూల-మన్త్రేణాభిమన్త్ర్య, ఉదకాఞ్జలిమ్ ఆదాయ సప్త కృత్వోఽభిమన్త్ర్య స్వ-మూర్ధని సిఞ్చేత్। ఏవṁ త్రిః పఞ్చ కృత్వః సప్త కృత్వో వా।
Link copiedదక్షిణేన పాణినా జలమ్ ఆదాయ అభిమన్త్ర్య పీత్వా, ఆచమ్య స్వాత్మానṁ సమ్ప్రోక్ష్య పరిషిచ్య తీర్థే నిమగ్నో భగవత్-పాదారవిన్ద-విన్యస్త-శరస్కో యావచ్-ఛక్తి మూల-మన్త్రṁ జపిత్వా, ఉత్తీర్య శుక్ల-వస్త్ర-ధరో ధృతోత్తరీయశ్ చ ఆచమ్య, ఊర్ధ్వ-పుణ్డ్రాṁస్ తత్ తన్ మన్త్రేణ ధారయిత్వా భగవన్తమ్ అనుస్మృత్య, తత్ తన్ మన్త్రేణ భగవత్-పర్యన్తాభిధాయినా మూల-మన్త్రేణ చ జలṁ పీత్వా, ఆచమ్య, ప్రోక్ష్య, పరిషిచ్య, ఉదకాఞ్జలిమ్ ఆదాయ భగవత్-పాదయోర్ నిక్షిప్య, ప్రాణాన్ ఆయమ్య భగవన్తṁ ధ్యాత్వా, అష్టోత్తర-శతṁ మూల-మన్త్రమ్ ఆవర్త్య పరిక్రమ్య నమస్కృత్య, ఆధార- శక్త్య్-ఆది-పృథివ్య్-అన్తṁ తర్పయిత్వా, శ్రీ-వైకుణ్ఠాది-పార్షదాన్తṁ తర్పయిత్వా దేవాన్ ఋషీన్ పితౄన్ భగవద్-ఆత్మకాన్ ధ్యాత్వా సన్తర్ప్య, శుచౌ దేశే వస్త్రṁ సమ్పీడ్య, ఆచమ్య, ఆవాహిత-తీర్థṁ మూల-మన్త్రేణాత్మని సమాహృత్య యాగ-భూమిṁ గచ్ఛేత్।
Link copiedసుప్రక్షాలిత-పాణి-పాదః స్వాచాన్తః శుచౌ దేశేఽతిమనోహరే నిఃశబ్దే భువṁ సఙ్గృహ్య తాṁ శోషణాదిభిర్ విశోధ్య గురు-పరమ్పరయా పరమ-గురుṁ భగవన్తమ్ ఉపగమ్య తమ్ ఏవ ప్రాప్యత్వేన ప్రాపకత్వేనానిష్ట-నివారకత్వేనేష్ట-ప్రాపకత్వేన చ యథావస్థిత-స్వరూప-రూప-గుణ-విభూతి-లీలోపకరణ-విస్తారమ్ అనుసన్ధాయ తమ్ ఏవ శరణమ్ ఉపగచ్ఛేద్ అఖిలేత్య్-ఆదినా।
Link copiedఏవṁ శరణమ్ ఉపగమ్య తత్-ప్రసాదోపబృṁహిత-మనోవృత్తిః, తమ్ ఏవ భగవన్తṁ సర్వేశ్వరేశ్వరమ్ ఆత్మనః స్వామిత్వేనానుసన్ధాయ, అత్యర్థ-ప్రియావిరత-విశదతమ-ప్రత్యక్ష-రూపానుధ్యానేన ధ్యాయన్ ఆసీత్। తతస్ తద్-అనుభవ-జనితాతిమాత్ర-ప్రీతి-కారిత-పరిపూర్ణ-కైఙ్కర్య-రూప-పూజామ్ ఆరభేత్।
Link copiedభగవాన్ ఏవ స్వ-నియామ్య-స్వరూప-స్థితి-ప్రవృత్తి-స్వ-శేషతైకరసేనానేనాత్మనా స్వకీయైశ్ చ దేహేన్ద్రియాన్తఃకరణైః స్వకీయ-కల్యాణతమ-ద్రవ్య-మయాన్ ఔపచారిక-సాṁస్పర్శికాభ్యవహారికాది-సమస్త-భోగాన్ అతిప్రభూతాన్ అతిసమగ్రాన్ అతిప్రియతమాన్ అత్యన్త-భక్తి-కృతాన్ అఖిల-పరిజన-పరిచ్ఛదాన్వితాయ స్వస్మై స్వ-ప్రీతయే స్వయమ్ ఏవ ప్రతిపాదయితుమ్ ఉపక్రమత ఇత్య్ అనుసన్ధాయ, స్వ-దేహే పఞ్చోపనిషన్-మన్త్రాన్ సṁహార-క్రమేణ న్యస్య, ప్రాణాయామేనైకేన దక్షిణ-పాణినా నాభిదేశే మూల-మన్త్రṁ న్యస్య, మన్త్రోద్భూత-చణ్డ-వాయ్వ్-ఆప్యాయిత-నాభి-దేశ-స్థ-వాయునా శరీరమ్ అన్తర్ బహిశ్ చ సర్వ-తత్త్వ-మయṁ తత్త్వ-క్రమేణ విశోష్య, పునః ప్రాణాయామేనైకేన హృద్-దేశే మూల-మన్త్రṁ న్యస్య మన్త్రోద్భూత-చక్రాగ్ని-జ్వాలోపబృṁహిత-జాఠరాగ్నినా దగ్ధ్వ-తత్-తత్-సమష్టి-ప్రలీన-సర్వ-తత్త్వ-సర్వ-కిల్బిష-సర్వాజ్ఞాన-తద్-వాసనో భూత్వా భగవద్-దక్షిణ-పాదాఙ్గుష్ఠే మూల-మన్త్రేణ స్వాత్మానṁ ప్రవేశయేత్।
Link copiedఅపరేణ ప్రాణాయామేన భగవత్-ప్రసాదేన భగవత్-కిఙ్కరత్వ-యోగ్యతామ్ ఆపాద్య తస్మాద్ ఆదాయ, తద్-వామ-పాదాఙ్గుష్ఠాధస్తాన్ మూల-మన్త్రేణాత్మానṁ విన్యస్య దేవ-వామ-పాదాఙ్గుష్ఠ-నఖ-శీతాṁశు-మణ్డల-నిర్గలద్-దివ్యామృత-రసైర్ ఆత్మానమ్ అభిషిచ్య, భగవత్-ప్రసాదేన తద్-అమృత-మయṁ సర్వ-కైఙ్కర్యైక-మనోహరṁ సర్వ-కైఙ్కర్యైక-యోగ్యṁ శరీరṁ లబ్ధ్వా తస్మిఞ్ శరీరే పఞ్చోపనిషన్-మన్త్రాన్ సృష్టి-క్రమేణ విన్యస్యేత్। ఓṁ షాṁ నమః పరాయ పరమేష్ఠ్య్-ఆత్మనే నమ ఇతి మూర్ధ్ని స్పృశేత్। ఓṁ యాṁ నమః పరాయ పురుషాత్మనే నమ ఇతి నాసికాగ్రే। ఓṁ రాṁ నమః పరాయ విశ్వాత్మనే నమ ఇతి హృదయే। ఓṁ వాṁ నమః పరాయ నివృత్త్య్-ఆత్మనే నమ ఇతి గుహ్యే। ఓṁ లాṁ నమః పరాయ సర్వాత్మనే నమ ఇతి పాదయోః। ఏవṁ న్యాసṁ కుర్వṁస్ తత్-తచ్-ఛక్తి-మయమ్ ఉద్భూతṁ దేహṁ ధ్యాయేత్।
Link copiedపునర్ అపి ప్రాణాయామేనైకేన భగవద్-వామ-పాదాఙ్గుష్ఠ-వినిఃసృతామృత-ధారయాత్మానమ్ అభిషిచ్య కృతలాఞ్ఛనో ధృతోర్ధ్వ-పుణ్డ్రో భగవద్-యాగమ్ ఆరభేత్।
Link copiedభగవాన్ ఏవ సర్వṁ కారయతీతి పూర్వవద్ ధ్యాత్వా హృద్-యాగṁ కృత్వా సమ్భారాన్ సమ్భృత్య, ఆత్మనో వామ-పార్శ్వే జల-కుమ్భే తోయమ్ ఉత్పూర్య గన్ధ-పుష్ప-యుతṁ కృత్వా సప్త కృత్వోఽభిమన్త్ర్య విశోష్య దగ్ధ్వా దివ్యామృత-మయṁ తోయమ్ ఉత్పాద్య, అస్త్ర-మన్త్రేణ రక్షాṁ కృత్వా సురభి-ముద్రాṁ ప్రదర్శ్య, అన్యాని పూజా-ద్రవ్యాణ్య్ ఆత్మనో దక్షిణ-పార్శ్వే నిధాయ, ఆత్మనః పురతః స్వాస్తీర్ణే పీఠే క్రమేణాగ్నేయాదిషు కోణేష్వ్ అర్ఘ్య-పాద్యాచమనీయ-స్నానీయ-పాత్రాణి నిధాయ, అస్త్ర-మన్త్రేణ ప్రక్షాల్య శోషణాదినా పాత్రాణి విశోధ్య సṁస్కృత-తోయేన తాని పూరయిత్వా, అర్ఘ్య-పాత్రే-గన్ధ-పుష్ప-కుశాగ్రాక్షతాదీని నిక్షిపేత్। దూర్వాṁ విష్ణు-పర్ణాṁ శ్యామాకṁ పద్మకṁ పాద్య-పాత్రే। ఏలా-లవఙ్గ-తక్కోల-లామజ్జక-జాతీ-పుష్పాణ్య్ ఆచమనీయే। (ద్వే హరిద్రే మురా-శైలేయ-తక్కోల-జటామాṁసీ-మలయజ-గన్ధ-చమ్పక-పుష్పాణి స్నానీయే) సిద్ధార్థకాదీని స్నానీయే।
Link copiedఅన్యస్మిన్ పాత్రే సర్వార్థ-తోయṁ సఙ్కల్ప్య తతోఽర్ఘ్య-పాత్రṁ పాణినా స్పృష్ట్వా మూల-మన్త్రేణాభిమన్త్ర్య, ఓṁ నమో భగవతేఽర్ఘ్యṁ పరికల్పయామీత్య్ అర్ఘ్యṁ పరికల్పయేత్। ఏవṁ పాద్యṁ పరికల్పయామీతి పాద్యమ్। ఆచమనీయṁ పరికల్పయామీత్య్ ఆచమనీయమ్। స్నానీయṁ పరికల్పయామీతి స్నానీయమ్। శుద్ధోదకṁ పరికల్పయామీతి శుద్ధోదకమ్। తతోఽర్ఘ్య-జలాజ్ జలమ్ అన్యేన పాత్రేణాదాయ యాగ-భూమిṁ సర్వాణి యాగ-ద్రవ్యాణ్య్ ఆత్మానṁ చ ప్రత్యేకṁ సమ్ప్రోక్ష్య, ఆసనṁ పరికల్పయేత్।
Link copiedఓṁ ఆధార-శక్త్యై నమః, ఓṁ మూల-ప్రకృత్యై నమః, ఓṁ అఖిల-జగద్-ఆధారాయ కూర్మ-రూపిణే నారాయాణాయ నమః, ఓṁ భగవతేఽనన్తాయ నాగరాజాయ నమః, ఓṁ భూṁ భూమ్యై నమ ఇతి యథాస్థానమ్ ఉపర్య్ ఉపరి ధ్యాత్వా ప్రణమ్య, ఓṁ శ్రీ-వైకుణ్ఠాయ దివ్య-లోకాయ నమ ఇతి శ్రీ-వైకుణ్ఠ-దివ్య-లోకṁ ప్రణమ్య, ఓṁ శ్రీ-వైకుణ్ఠాయ దివ్య-జనపదాయ నమ ఇతి దివ్య-జనపదṁ ప్రణమ్య, ఓṁ శ్రీ-వైకుణ్ఠాయ దివ్య-నగరాయ నమ ఇతి దివ్య-నగరṁ ప్రణమ్య, ఓṁ శ్రీ-వైకుణ్ఠాయ దివ్య-విమానాయ నమ ఇతి దివ్య-విమానṁ ప్రణమ్య, ఓṁ ఆనన్ద-మయాయ దివ్య-మణ్టప-రత్నాయ నమ ఇతి మణ్టప-రత్నṁ ప్రణమ్య, తస్మిన్, అనన్తాయ (నారాయణాయ) నమ ఇత్య్ ఆస్తరణṁ ప్రణమ్య, తస్మిన్న్ ఉపరి, ఓṁ ధర్మాయ నమ ఇత్య్ ఆగ్నేయ్యాṁ పాదṁ విన్యస్య, ఓṁ జ్ఞానాయ నమ ఇతి నైరృత్యాṁ, ఓṁ వైరాగ్యాయ నమ ఇతి వాయవ్యాṁ, ఓṁ ఐశ్వర్యాయ నమ ఇత్య్ ఐశాన్యామ్, ఓṁ అఘర్మాయ నమ ఇతి ప్రాచ్యాṁ పీఠ-గాత్రṁ విన్యస్య, ఓṁ అజ్ఞానాయ నమ ఇతి దక్షిణస్యాṁ, ఓṁ అవైరాగ్యాయ నమ ఇతి ప్రతీచ్యాṁ, ఓṁ అనైశ్వర్యాయ నమ ఇత్య్ ఉత్తరస్యామ్, ఏభిః పరిచ్ఛిన్న-తనుṁ పీఠ-భూతṁ సద్-ఆత్మకమ్ అనన్తṁ విన్యస్య, సర్వ-కార్యోన్ముఖṁ విభుమ్ అనన్తṁ, ఓṁ అనన్తాయ నమ ఇతి విన్యస్య, తస్మిన్న్ ఉపరి, ఓṁ పద్మాయ నమ ఇతి పద్మṁ విన్యస్య, తత్-పూర్వ-పత్రే, ఓṁ విమలాయై (చామర-హస్తాయై) నమ ఇతి విమలాṁ చామర-హస్తాṁ విన్యస్య, తత ఆరభ్య ప్రాదక్షిణ్యేనైశానాన్తṁ పన్నేషు, ఓṁ ఉత్కర్షిణ్యై (చామర-హస్తాయై) నమః, ఓṁ జ్ఞానాయై (చామర-హస్తాయై) నమః, ఓṁ క్రియాయై (చామర-హస్తాయై) నమః, ఓṁ యోగాయై నమః, ఓṁ ప్రహ్వ్యై (చామర-హస్తాయై) నమః, ఓṁ సత్యాయై (చామర-హస్తాయై) నమః, ఓṁ ఈశానాయై (చామర-హస్తాయై) నమ ఇతి సప్త శక్తీశ్ చామర-హస్తా విన్యస్య, ఓṁ అనుగ్రహాయై (చామర-హస్తాయై) నమ ఇతి కర్ణికా-పూర్వ-భాగేఽనుగ్రహాṁ చామర-హస్తాṁ విన్యస్యేత్, ఓṁ జగత్-ప్రకృతయే యోగ-పీఠాయ నమ ఇతి యోగ-పీఠṁ విన్యస్య, ఓṁ (దివ్యాయ యోగ-పర్యఙ్కాయ) దివ్య-యోగ-పీఠాయ నమః, ఇతి దివ్య-యోగ-(పీఠ)పర్యఙ్కṁ విన్యస్య, తస్మిన్న్ అనన్తṁ నాగరాజṁ సహస్ర-ఫణా-శోభితṁ, ఓṁ అనన్తాయ నాగరాజాయ నమ ఇతి న్యస్య, ఓṁ అనన్తాయ నమ ఇతి పురతః పాద-పీఠṁ విన్యస్య, సర్వాణ్య్ ఆధార-శక్త్య్-ఆదీని పీఠాన్తాని తత్త్వాని ప్రత్యేకṁ గన్ధ-పుష్ప-ధూప-దీపైర్ అభ్యర్చ్య, సర్వ-పరివారాణాṁ తత్-తత్-స్థానేషు పద్మాసనాని సఙ్కల్ప్య, అనన్త-గరుడ-విష్వక్సేనానాṁ సపీఠకṁ పద్మṁ విన్యస్య, సర్వతః పుష్పాక్షతాన్దీని వికీర్య, యోగ-పీఠస్య పశ్చిమోత్తర-దిగ్-భాగే, ఓṁ అస్మద్-గురుభ్యో నమ ఇతి గురూన్ గన్ధ-పుష్ప-ధూప-దీపైః సమ్పూజ్య ప్రణమ్యానుజ్ఞాప్య భగవద్-యాగమ్ ఆరభేత్।
Link copiedకల్పితే నాగ-భోగే సమాసీనṁ భగవన్తṁ నారాయణṁ పుణ్డరీక-దలామలాయతాక్షṁ కిరీట-మకుట-కేయూర-హార-కటకాది-సర్వ-భూషణైర్ భూషితమ్ ఆకుఞ్చిత-దక్షిణ-పాదṁ, ప్రసారిత-వామ-పాదṁ జాను-విన్యస్త-ప్రసరిత-సారిత-దక్షిణ-భుజṁ నాగ-భోగ-విన్యస్త-వామ-భుజమ్ ఊర్ధ్వ-భుజ-ద్వయేన శఙ్ఖ-చక్ర-ధరṁ సర్వేషాṁ సృష్టి-స్థితి-ప్రలయ-హేతు-భూతమ్ అఞ్జనాభṁ, కౌస్తుభేన విరాజమానṁ చకాసతమ్ ఉదగ్ర-ప్రబుద్ధ-స్ఫురద్-అపూర్వాచిన్త్య-పరమ-సత్త్వ-పఞ్చ-శక్తి-మయ-విగ్రహṁ పఞ్చోపణిషదైర్ ధ్యాత్వా, ఆరాధనాభిముఖో భవేతి (మూల-మన్త్రేణ) ప్రార్థ్య, మూల-మన్త్రేణ దణ్డవత్ ప్రణమ్య, ఉత్థాయ స్వాగతṁ నివేద్య, యావద్ ఆరాధన-సమాప్తి-సాన్నిధ్య-యాచనṁ కుర్యాత్।
Link copiedఅన్యత్ర స్వాభిమత-దేశే పూజా చేద్ ఏవమ్ ఆవాహనమ్---
Link copiedమన్త్ర-యోగః సమాహ్వానṁ కర-పుష్పోప-దర్శనమ్।
Link copiedబిమ్బోపవేశనṁ చైవ యోగ-విగ్రహ-చిన్తనమ్॥
Link copiedప్రణామశ్ చ సముత్థానṁ స్వాగతṁ పుష్పమ్ ఏవ చ।
Link copiedసాన్నిధ్య-యాచనṁ చేతి తత్రాహ్వానస్య సత్-క్రియా॥
Link copiedతతో భగవన్తṁ ప్రణమ్య దక్షినతః, ఓṁ శ్రీṁ శ్రియై నమ ఇతి శ్రియమ్ ఆవాహ్య ప్రణమ్య, వామతః, ఓṁ భూṁ భూమ్యై నమ ఇతి భువమ్ ఆవాహ్య తత్రైవ ఓṁ నీమ్ నీలాయై నమ ఇతి నీలామ్ ఆవాహ్య, కిరీటాయ మకుటాధిపతయే నమ ఇత్య్ ఉపరి భగవతః పశ్చిమ-పార్శ్వే చతుర్-బాహుṁ చతుర్-వక్త్రṁ కృతాఞ్జలి-పుటṁ మూర్ధ్ని భగవత్-కిరీటṁ ధారయన్తṁ కిరీటాఖ్య-దివ్య-పురుషṁ ప్రణమ్య, ఏవమ్ ఏవ, ఓṁ కిరీట-మాల్యాయాపీడాత్మనే నమ ఇత్య్ ఆపీడకṁ తత్రైవ పురస్తాత్ ప్రణమ్య, ఓṁ దక్షిణ-కుణ్డలాయ మకరాత్మనే నమ ఇతి దక్షిణ-కుణ్డలṁ దక్షిణతః ప్రణమ్య, ఓṁ వామ-కుణ్డలాయ మకరాత్మనే నమ ఇతి వామ-కుణ్డలṁ వామతః ప్రణమ్య, ఓṁ వైజయన్త్యై వనమాలాయై నమ ఇతి వనమాలాṁ పురతః ప్రణమ్య, ఓṁ శ్రీ-తులస్యై నమ ఇతి తులసీṁ దేవీṁ పురతః ప్రణమ్య, ఓṁ శ్రీవత్సాయ శ్రీనివాసాయ నమ ఇతి శ్రీవత్సṁ పురతః ప్రణమ్య, ఓṁ హారాయ సర్వాభరణాధిపతయే నమ ఇతి హారṁ పురతః ప్రణమ్య, ఓṁ శ్రీ-కౌస్తుభాయ సర్వ-రత్నాధిపతయే నమ ఇతి కౌస్తుభṁ పురతః ప్రణమ్య, ఓṁ కాఞ్చీ-గుణోజ్జ్వలాయ దివ్య-పీతామ్బరాయ నమ ఇతి పీతామ్బరṁ పురతః ప్రణమ్య, ఓṁ సర్వేభ్యో భగవద్-భూషణేభ్యో నమ ఇతి సర్వ-భూషణాని సర్వతః ప్రణమ్య, ఓṁ శ్రీ-సుదర్శనాయ హేతిరాజాయ నమ ఇతి సుదర్శనṁ రక్త-వర్ణṁ రక్త-నేత్రṁ (ద్వి-భుజṁ) చతుర్-భుజṁ కృతాఞ్జలి-పుటṁ భగవన్తమ్ ఆలోకయన్తమ్ తద్-దర్శనానన్ద-బృṁహిత-ముఖṁ మూర్ధ్ని భగవచ్-చక్రṁ ధారయన్తṁ దక్షిణతః ప్రణమ్య, ఓṁ నన్దకాయ ఖడ్గాధిపతయే నమ ఇతి నన్దకాత్మానṁ శిరసి భగవత్-ఖడ్గṁ ధారయన్తṁ తత్రైవ ప్రణమ్య, ఓṁ పద్మాయ నమ ఇతి పద్మṁ (శిరసి ధారయన్తṁ) ప్రణమ్య, ఓṁ పాఞ్చజన్యాయ శఙ్ఖాధిపతయే నమ ఇతి శఙ్ఖాత్మానṁ సిత-వర్ణṁ రక్త-నేత్రṁ ద్వి-భుజṁ కృతాఞ్జలి-పుటṁ శిరసి భగవచ్-ఛఙ్ఖṁ ధారయన్తṁ వామతః ప్రణమ్య, ఓṁ కౌమోదక్యై గదాధిపతయే నమ ఇతి గదాత్మానṁ తత్రైవ ప్రణమ్య, తత్రైవ ఓṁ శార్ఙ్గాయ చాపాధిపతయే నమ ఇతి శార్ఙ్గాత్మానṁ ప్రణమ్య, ఓṁ సర్వేభ్యో భగవద్-దివ్యాయుధేభ్యో నమ ఇతి సర్వాయుధాని పరితః ప్రణమ్య, ఓṁ సర్వాభ్యో భగవత్-పాదారవిన్ద-సṁవాహినీభ్యో నమ ఇతి దివ్య-పాదారవిన్ద-సṁవాహినీః సమన్తతః ప్రణమ్య, ఓṁ అనన్తాయ నాగరాజాయ నమ ఇతి పృష్ఠతోఽనన్తṁ (భగవన్తṁ) నాగరాజṁ చతుర్-భుజṁ హల-ముసల-ధరṁ కృతాఞ్జలి-పుటṁ ఫణా-మణి-సహస్ర-మణ్డితోత్తమాఙ్గṁ భగవద్-స్పర్శనానన్ద-బృṁహిత-సర్వ-గాత్రṁ ధ్యాత్వా ప్రణమ్య, ఓṁ సర్వేభ్యో భగవత్-పరిజనేభ్యో నమ ఇత్య్ అనుక్తానన్త-పరిజనాన్ సమన్తతః ప్రణమ్య, ఓṁ వైనతేయాయ నమ ఇత్య్ అగ్రతో (భగవతో భగవన్తṁ) వైనతేయమ్ ఆసీనṁ ద్వి-భుజṁ కృతాఞ్జలి-పుటṁ ధ్యాత్వా ప్రణమ్య, ఓṁ భగవతే విష్వక్సేనాయేతి భగవతః ప్రాగ్ ఉత్తర-పార్శ్వే దక్షిణాభిముఖṁ భగవన్తṁ విష్వక్సేనమ్ ఆసీనṁ చతుర్-భుజṁ శఙ్ఖ-చక్ర-ధరṁ నీల-మేఘ-నిభṁ ధ్యాత్వా ప్రణమ్య, ఓṁ గṁ గజాననాయ నమః, ఓṁ జṁ జయత్-సేనాయ నమః, ఓṁ హṁ హరి-వక్త్రాయ నమః, ఓṁ కṁ కాల-ప్రకృతి-సṁజ్ఞాయ నమః, ఓṁ సర్వేభ్యో భగవద్-విష్వక్సేన-పరిజనేభ్యో నమ ఇతి విష్వక్సేన-పరిజనాన్ ప్రణమ్య, ఓṁ చణ్డాయ ద్వార-పాలాయ నమః, ఓṁ ప్రచణ్డాయ ద్వార-పాలాయ నమ ఇతి పూర్వ-ద్వార-పార్శ్వయోః ప్రణమ్య, ఓṁ భద్రాయ ద్వార-పాలాయ నమః, ఓṁ సుభద్రాయ ద్వార-పాలాయ నమ ఇతి దక్షిణ-ద్వార-పార్శ్వయోః ప్రణమ్య, ఓṁ జయాయ ద్వార-పాలాయ నమః, ఓṁ విజయాయ ద్వార-పాలాయ నమ ఇతి పశ్చిమ-ద్వార-పార్శ్వయోః ప్రణమ్య, ఓṁ ధాత్రే ద్వార-పాలాయ నమః, ఓṁ విధాత్రే ద్వార-పాలాయ నమ ఇతి ఉత్తర-ద్వార-పార్శ్వయోః ప్రణమ్య, ఓṁ ధాత్రే ద్వార-పాలాయ నమః, ఓṁ విధాత్రే ద్వార-పాలాయ నమ ఇత్య్ ఉత్తర-ద్వార-పార్శ్వయోః ప్రణమేత్।
Link copiedఏతే ద్వార-పాలాః సర్వే శఙ్ఖ-చక్ర-గదాధరా ఆజ్ఞా-ముద్రాయుతా ధ్యాతవ్యాః॥
Link copiedఓṁ సర్వేభ్యో భగవద్-ద్వార-పాలేభ్యో నమ ఇతి సర్వ-ద్వారేషు సర్వ-ద్వార-పాలాన్ ప్రణమ్య,
Link copiedఓṁ కుముదాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇతి పూర్వస్యాṁ దిశి పార్షదేశ్వరṁ కుముదṁ ప్రణమ్య, ఓṁ కుముదాక్షాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇత్య్ ఆగ్నేయ్యాṁ కుముదాక్షṁ ప్రణమ్య, ఓṁ పుణ్డరీకాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇతి దక్షిణస్యాṁ పుణ్డరీకṁ ప్రణమ్య, ఓṁ వామనాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇతి నైరృత్యాṁ వామనṁ ప్రణమ్య, ఓṁ శఙ్కుకర్ణాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇతి పశ్చిమస్యాṁ శఙ్కుకర్ణṁ ప్రణమ్య, ఓṁ సర్ప-నేత్రాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇతి వాయవ్యాṁ సర్ప-నేత్రṁ ప్రణమ్య, ఓṁ సుముఖాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇత్య్ ఉదీచ్యాṁ సుముఖṁ ప్రణమ్య, ఓṁ సుప్రతిష్ఠితాయ గణాధిపతయే సవాహన-పరివార-ప్రహరణాయ నమ ఇత్య్ ఐశాన్యాṁ సుప్రతిష్ఠితṁ ప్రణమ్య, ఓṁ సర్వేభ్యో భగవత్-పారిషదేభ్యో నమ ఇతి సర్వస్మాద్ బహిః ప్రణమేత్।
Link copiedఅన్యత్రావాహ్య పూజాయామ్ ఆవాహన-స్థానాని పరమ-వ్యోమ-క్షీరార్ణవాదిత్య-మణ్డల-హృదయాని మధురా-ద్వారకా-గోకులాయోధ్యాదీని దివ్యావతార-స్థానాని చాన్యాని పౌరాణికాని శ్రీ-రఙ్గాదీని చ యథారుచి।
Link copiedఏవṁ భగవన్తṁ నారాయణṁ దేవీ-భూషణాయుధ-పరిజన-పరిచ్ఛద-ద్వార-పాల-పార్షదైః సేవ్యమానṁ స్వాధీన-త్రివిధ-చేతనాచేతన-స్వరూప-స్థితి-ప్రవృత్తి-భేదṁ క్లేశ-కర్మాద్య్-అశేష-దోషాసṁస్పృష్టṁ స్వాభావికానవధికాతిశయ-జ్ఞాన-బలైశ్వర్య-వీర్య-శక్తి-తేజః ప్రభృత్య్-అసఙ్ఖ్యేయ-కల్పాణ-గుణ-గణౌఘ-మహార్ణవṁ ధ్యాత్వా ప్రణమ్య, మూల-మన్త్రేణ స్వాత్మానṁ దేవాయ నివేద్య, ప్రణమ్యానుజ్ఞాప్య, భగవత్-పూజామ్ ఆరభేత్।
Link copiedపాత్రేణ పూర్వస్థాపితాదర్ఘ్య-పాత్రాద్ అర్ఘ్య-జలమ్ ఆదాయ పాణిభ్యాṁ ముఖ-సమమ్ ఉద్ధృత్య, భగవన్, ఇదṁ ప్రతిగృహ్ణీష్వేతి చిన్తయన్ భగవన్-ముఖే దర్శయిత్వా భగవద్-దక్షిణ-హస్తే కిఞ్చిత్ ప్రదాయార్ఘ్యṁ ప్రతిగ్రహ-పాత్రే ప్రక్షిపేత్। హతౌ ప్రక్షాల్య పాదయోః పుష్పాణి సమర్ప్య పాద్య-పాత్రాత్ పాద్య-జలమ్ ఆదాయ పాదయోః కిఞ్చిత్ దత్వా మనసా పాదౌ ప్రక్షాల్యన్ పాద్యṁ ప్రతిగ్రహ-పాత్రే నిక్షిపేత్। హస్తౌ ప్రక్షాల్య వస్త్రేణ పాదౌ సమ్మృజ్య గన్ధ-పుష్పాణి దత్వా, ఆచమనీయ-పాత్రాద్ ఆచమనీయమ్ ఆదాయ భగవద్-దక్షిణ-హస్తే కిఞ్చిత్ సమర్ప్య, భగవద్-వదనే ఆచమనీయṁ సమర్పితమ్ ఇతి మనసా భావయఞ్ శేషమ్ ఆచమనీయṁ ప్రతిగ్రహ-పాత్రే నిక్షిపేత్। తతో గన్ధ-పుష్ప-ధూప-దీపాచమన-ముఖ-వాస-తామ్బూలాది-నివేదనṁ కృత్వా ప్రణమ్య, ఆత్మానమ్ ఆత్మీయṁ చ సర్వṁ భగవన్ నిత్య-కిఙ్కరత్వాయ స్వీకుర్వ్ ఇతి భగవతే నివేదయేత్। తతః స్నానార్థమ్ ఆసనమ్ ఆనీయ గన్ధాదిభిర్ అభ్యర్చ్య భగవన్తṁ ప్రణమ్య, అనుజ్ఞాప్య పాదుకే ప్రదాయ తత్రోపవిష్టే మాల్య-భూషణ-వస్త్రాణ్య్ అపనీయ విష్వక్సేనాయ దత్వా స్నాన-శాటికాṁ ప్రదాయ పాద్యాచమనీయ-పాద-పీఠ-ప్రదాన-దన్త-కాష్ఠ-జిహ్వానిర్లేహన-గణ్డూష-ముఖ-ప్రక్షాలనాచమనాదర్శ-ప్రదర్శన-హస్త-ప్రక్షాలన-ముఖ-వాస-తామ్బూల-తైలాభ్యఙ్గోద్వర్తామలక-తోయ-కఙ్కత-ప్లోత-దేహ-శోధన-శాటికా-ప్రదాన-హరిద్రాలేపన-ప్రక్షాలన-వస్త్రోత్తరీయ-యజ్ఞోపవీత-ప్రదాన-పాద్యాచమన-పవిత్ర-ప్రదాన-గన్ధ-పుష్ప- ధూప-దీపాచమన-నృత-గీత-వాద్యాది-సర్వ-మఙ్గల-సṁయుక్తాభిషేక-నీరాజనాచమన-దేహ-శోధన-ప్లోత-వస్త్రౌత్తరీయ-యజ్ఞోపవీతాచమన-కూర్చ-ప్రసారణ-సహస్ర-ధారాభిషేక-నీరాజనాచమన-దేహ-శోధన-ప్లోత-వస్త్రోత్తరీయ-యజ్ఞోపవీతాచమనాని దద్యాత్।
Link copiedతతోఽలఙ్కారాసనమ్ అభ్యర్చ్య ప్రణమ్య, అనుజ్ఞాప్య, పాదుకే ప్రదాయ, తత్రోపవిష్టే పూర్వవత్ స్నానీయ-వర్జమ్ అర్ఘ్య-పాద్యాచమనీయ-శుద్ధోదకాని మన్త్రేణ కల్పయిత్వా భగవతే గన్ధ-పుష్ప-పాద-సమ్మర్దన-వస్త్రోత్తరీయ-భూషణోపవీతార్ఘ్య-పాద్యాచమనీయాని దత్వా సర్వ-పరివారాణాṁ స్నాన-వస్త్రాది-భూషణాన్తṁ దత్వా గన్ధాదీన్ దేవానన్తరṁ సర్వ-పరివారాణాṁ ప్రత్యేకṁ ప్రదాయ ధూప-దీపాచమనీయాని దద్యాత్। అథవా సర్వ-పరివారాణాṁ గన్ధాదీన్ ఏవ దద్యాత్।
Link copiedగన్ధ-పుష్ప-ప్రదానాలఙ్కారాఞ్జనోర్ధ్వపుణ్డ్రాదర్శ-ధూప-దీపాచమన- ధ్వజ-చ్ఛత్ర-చామర-వాహన-శఙ్ఖ-చిహ్న-కాహల-భేర్యాది-సకల-నృత-గీత-వాద్యాదిభిర్ అభ్యర్చ్య మూల-మన్త్రేణ పుష్పṁ ప్రదాయ ప్రత్యక్షరṁ పుష్పṁ ప్రదాయ ద్వాదశాక్షరేణ విష్ణు-షడ్-అక్షరేణ విష్ణు-గాయత్ర్యా పఞ్చోపనిషదైః పురుషసూక్తర్గ్భిర్ అన్యైశ్ చ భగవన్-మన్త్రైః శక్తశ్ చేత్ పుష్పṁ ప్రదాయ దేవ్యాది-పారిషదాన్తṁ తత్-తన్-మన్త్రేణ పుష్పṁ దత్వా, ప్రణమ్య, ప్రతిదిశṁ ప్రదక్షిణ-ప్రణామ-పూర్వకṁ భగవతే పుష్పాఞ్జలిṁ దత్వా పురతః ప్రణమ్య, శ్రుతి-ముఖైః స్తోత్రైః స్తుత్వా, ఆత్మానṁ నిత్య-కిఙ్కరతయా నివేద్య తథైవ ధ్యాత్వా యథాశక్తి మూల-మన్త్రṁ జపిత్వా సర్వ-భోగ-ప్రపూరనీṁ మాత్రాṁ దత్వా ముఖ-వాస-తామ్బూలే ప్రదాయ, అఘ్యṁ దత్వా, భోజ్యాసనమ్ అభ్యర్చ్య, ప్రణమ్య, అనుజ్ఞాప్య, పాదుకే ప్రదాయ, తత్రోపవిష్టే పాద్యాచమనీయార్హణాని దత్వా, గుడṁ మాక్షికṁ సర్పిర్ దధి క్షీరṁ చేతి పాత్రే నిక్షిప్య శోషణాదిభిర్ విశోధ్య, అర్ఘ్య-జలేన సమ్ప్రోక్ష్య మధుపర్కమ్ అవనత-శిరాః హర్షోత్ఫుల్ల-నయనో హృష్ట-మనా భూత్వా ప్రదాయ, ఆచమనీయṁ దద్యాత్। యత్ కిఞ్చిద్ ద్రవ్యṁ భగవతే దీయతే తత్ సర్వṁ శోషణాదిభిర్ విశోధ్య, అర్ఘ్య-జలేన సమ్ప్రోక్ష్య దద్యాత్।
Link copiedతతశ్ చ గాṁ స్వర్ణ-రత్నాదికṁ చ యథాశక్తి దద్యాత్। తతః సుసṁస్కృతాన్నమ్ ఆజ్యాఢ్యṁ దధి-క్షీర-మధూని చ ఫల-మూల-వ్యఞ్జనాని మోదకాṁశ్ చాన్యాని చ లోకే ప్రియతమాన్య్ ఆత్మనశ్ చేష్టాని శాస్త్రావిరుద్ధాని సమ్భృత్య శోషణాదిభిర్ విశోధ్యార్ఘ్య-జలేన సమ్ప్రోక్ష్య, అస్త్ర-మన్త్రేణ రక్షాṁ కృత్వా సురభి-ముద్రాṁ ప్రదర్శ్య, అర్హణ-పూర్వకṁ హవిర్ నివేదయేత్। అతిప్రభూతమ్ అతిసమగ్రమ్ అతిప్రియతమమ్ అత్యన్త-భక్తి-కృతమ్ ఇదṁ స్వీకుర్వ్ ఇతి ప్రణామ-పూర్వకమ్ అత్యన్త-సాధ్వస-వినయావనతో భూత్వా నివేదయేత్।
Link copiedతతశ్ చానుపాన-తర్పణే ప్రదాయ హస్త-ప్రక్షాలనాచమన-హస్త-సమ్మార్జన-చన్దన-ముఖ-వాస-తామ్బూలాదీని దత్వా ప్రణమ్య పునర్ మన్త్రాసనṁ కూర్చేన మార్జయిత్వా, అభ్యర్చ్య, అనుజ్ఞాప్య పాదుకే ప్రదాయ తత్రోపవిష్టే మాల్యాదికమ్ అపోహ్య విశ్వక్సేనాయ దత్వా పాద్యాచమనీయ-గన్ధ-పుష్ప-ధూప-దీపాచమనాపూప-ఫలాదీని దత్వా, ఆచమన-ముఖ-వాస-తామ్బూల-నృత-గీత-వాద్యాదిభిర్ అభ్యర్చ్య ప్రదక్షిణీకృత్య దణ్డవత్ ప్రణమ్య పర్యఙ్కాసనమ్ అభ్యర్చ్య పాదుకే ప్రదాయ తత్రోపవిష్టే పాద్యాచమనే దత్వా, మాల్య-భూషణ-వస్త్రాణ్య్ అపనీయ విశ్వక్సేనాయ దత్వా సుఖ-శయనోచితṁ సుఖ-స్పర్శṁ చ వాసః తద్-ఉచితాని భూషణాన్య్ ఉపవీతṁ చ ప్రదాయ, ఆచమనీయṁ దత్వా గన్ధ-పుష్ప-ధూప-దీపాచమన-ముఖ-వాస-తామ్బూలాదిభిర్ అభ్యర్చ్య శ్రుతి-సుఖైః స్తోత్రైర్ అభిష్టూయా, భగవాన్ ఏవ స్వ-నియామ్య-స్వరూప-స్థితి-ప్రవృత్తి-స్వ-శేషతైకరసేనానేనాత్మనా స్వకీయైశ్ చ దేహేన్ద్రియాన్తఃకరణైః స్వకీయ-కల్యాణతమ-ద్రవ్య-మయాన్ ఔపచారిక-సాṁస్పర్శికాభ్యవహారికాది-సమస్త-భోగాన్ అతిప్రభూతాన్ అతిసమగ్రాన్ అతిప్రియతమాన్ అత్యన్త-భక్తి-కృతాన్ అఖిల-పరిజన-పరిచ్ఛదాన్వితాయ స్వస్మై స్వ-ప్రీతయే స్వయమ్ ఏవ ప్రతిపాదితవాన్ ఇత్య్ అనుసన్ధాయ భగవన్తమ్ అనుజ్ఞాప్య, భగవన్ నివేదిత-హవిః-శేషాద్ విశ్వక్సేనాయ కిఞ్చిద్ ఉద్ధృత్య నిధాయ, అన్యత్ సర్వṁ స్వాచార్య-ప్రముఖేభ్యో వైష్ణవేభ్యో దత్వా, భగవద్-యాగావశిష్టైర్ జలాదిభిర్ ద్రవ్యైర్ విష్వక్సేనమ్ అభ్యర్చ్య పూర్వోద్ధృతṁ హవిశ్ చ దత్వా తద్-అర్చనṁ పరిసమాప్య భగవన్తమ్ అష్టాఙ్గేన ప్రణామేన ప్రణమ్య శరణమ్ ఉపగచ్ఛేత్।
Link copiedమనో-బుద్ధ్యభిమానేన సహ న్యస్య ధరా-తలే।
Link copiedకూర్మవచ్ చతురః పాదాన్ శిరస్ తత్రైవ పఞ్చమమ్॥
Link copiedప్రదక్షిణ-సమేతేన త్వ్ ఏవṁ-రూపేణ సర్వదా।
Link copiedఅష్టాఙ్గేన నమస్కృత్య హ్య్ ఉపవిశ్యాగ్రతః ప్రభో॥
Link copiedఇత్య్ ఉక్తోఽష్టాఙ్గ-ప్రణామః। శరణాగతి-ప్రకారశ్ చ పూర్వోక్తః।
Link copiedతతోఽర్ఘ్య-జలṁ ప్రదాయ భగవన్తమ్ అనుజ్ఞాప్య పూజాṁ సమాపయేత్।
Link copiedఇతి శ్రీ-రామానుజాచార్య-విరచితో నిత్య గ్రన్థః॥
Link copiedConsulted edition:
Link copied- Rāmānuja Granthamālā, edited by Annangaracharya Swamy, Kanchipuram, 1956.
śrī-rāmānujācārya-viracitaḥ
Link copiednitya-granthaḥ
Link copiedatha paramaikāntino bhagavad-ārādhana-prayogaṁ vakṣye---
Link copiedbhagavat-kaiṅkaryaika-ratiḥ paramaikāntī bhūtvā bhagavān eva sva-śeṣa-bhūtena mayā svakīyaiś ca kalyāṇatamair aupacārika-sāṁsparśikābhyavahārikair bhogair akhila-parijana-paricchānvitaṁ svātmānaṁ prītaṁ kārayitum upakramata ity anusandhāya tīrthaṁ gatvā śucau deśe pādau prakṣālyācamya, tīraṁ saṁśodhya, śucau deśe mūla-mantreṇa mṛdam ādāya dvidhā kṛtvā śodhita-tīre nidhāya, ekenādhika-bhāgena deha-mala-prakṣālanaṁ kṛtvā nimajjya, ācamya prāṇāyāma-trayam āsīno bhagavantaṁ dhyāyan kṛtvā, anyaṁ mṛd-bhāgam ādāya vāma-pāṇi-tale tridhā kṛtvā pṛthak pṛthak samprokṣya, abhimantrya, ekena dig-bandhanam astra-mantreṇa kuryāt| anyena tīrthasya pīṭham| itareṇa gātrānulepanam|
Link copiedtataḥ pāṇī prakṣālya, udakāñjalim ādāya tīrthasyārghyam utkṣipya bhagavad-vāma-pādāṅguṣṭha- viniḥsṛta-gaṅgā-jalaṁ saṅkalpita-pīṭhe āvāhya, arghyaṁ dattvā mūla-mantreṇābhimantrya, udakāñjalim ādāya sapta kṛtvo'bhimantrya sva-mūrdhani siñcet| evaṁ triḥ pañca kṛtvaḥ sapta kṛtvo vā|
Link copieddakṣiṇena pāṇinā jalam ādāya abhimantrya pītvā, ācamya svātmānaṁ samprokṣya pariṣicya tīrthe nimagno bhagavat-pādāravinda-vinyasta-śarasko yāvac-chakti mūla-mantraṁ japitvā, uttīrya śukla-vastra-dharo dhṛtottarīyaś ca ācamya, ūrdhva-puṇḍrāṁs tat tan mantreṇa dhārayitvā bhagavantam anusmṛtya, tat tan mantreṇa bhagavat-paryantābhidhāyinā mūla-mantreṇa ca jalaṁ pītvā, ācamya, prokṣya, pariṣicya, udakāñjalim ādāya bhagavat-pādayor nikṣipya, prāṇān āyamya bhagavantaṁ dhyātvā, aṣṭottara-śataṁ mūla-mantram āvartya parikramya namaskṛtya, ādhāra- śakty-ādi-pṛthivy-antaṁ tarpayitvā, śrī-vaikuṇṭhādi-pārṣadāntaṁ tarpayitvā devān ṛṣīn pitṝn bhagavad-ātmakān dhyātvā santarpya, śucau deśe vastraṁ sampīḍya, ācamya, āvāhita-tīrthaṁ mūla-mantreṇātmani samāhṛtya yāga-bhūmiṁ gacchet|
Link copiedsuprakṣālita-pāṇi-pādaḥ svācāntaḥ śucau deśe'timanohare niḥśabde bhuvaṁ saṅgṛhya tāṁ śoṣaṇādibhir viśodhya guru-paramparayā parama-guruṁ bhagavantam upagamya tam eva prāpyatvena prāpakatvenāniṣṭa-nivārakatveneṣṭa-prāpakatvena ca yathāvasthita-svarūpa-rūpa-guṇa-vibhūti-līlopakaraṇa-vistāram anusandhāya tam eva śaraṇam upagacched akhilety-ādinā|
Link copiedevaṁ śaraṇam upagamya tat-prasādopabṛṁhita-manovṛttiḥ, tam eva bhagavantaṁ sarveśvareśvaram ātmanaḥ svāmitvenānusandhāya, atyartha-priyāvirata-viśadatama-pratyakṣa-rūpānudhyānena dhyāyan āsīt| tatas tad-anubhava-janitātimātra-prīti-kārita-paripūrṇa-kaiṅkarya-rūpa-pūjām ārabhet|
Link copiedbhagavān eva sva-niyāmya-svarūpa-sthiti-pravṛtti-sva-śeṣataikarasenānenātmanā svakīyaiś ca dehendriyāntaḥkaraṇaiḥ svakīya-kalyāṇatama-dravya-mayān aupacārika-sāṁsparśikābhyavahārikādi-samasta-bhogān atiprabhūtān atisamagrān atipriyatamān atyanta-bhakti-kṛtān akhila-parijana-paricchadānvitāya svasmai sva-prītaye svayam eva pratipādayitum upakramata ity anusandhāya, sva-dehe pañcopaniṣan-mantrān saṁhāra-krameṇa nyasya, prāṇāyāmenaikena dakṣiṇa-pāṇinā nābhideśe mūla-mantraṁ nyasya, mantrodbhūta-caṇḍa-vāyv-āpyāyita-nābhi-deśa-stha-vāyunā śarīram antar bahiś ca sarva-tattva-mayaṁ tattva-krameṇa viśoṣya, punaḥ prāṇāyāmenaikena hṛd-deśe mūla-mantraṁ nyasya mantrodbhūta-cakrāgni-jvālopabṛṁhita-jāṭharāgninā dagdhva-tat-tat-samaṣṭi-pralīna-sarva-tattva-sarva-kilbiṣa-sarvājñāna-tad-vāsano bhūtvā bhagavad-dakṣiṇa-pādāṅguṣṭhe mūla-mantreṇa svātmānaṁ praveśayet|
Link copiedapareṇa prāṇāyāmena bhagavat-prasādena bhagavat-kiṅkaratva-yogyatām āpādya tasmād ādāya, tad-vāma-pādāṅguṣṭhādhastān mūla-mantreṇātmānaṁ vinyasya deva-vāma-pādāṅguṣṭha-nakha-śītāṁśu-maṇḍala-nirgalad-divyāmṛta-rasair ātmānam abhiṣicya, bhagavat-prasādena tad-amṛta-mayaṁ sarva-kaiṅkaryaika-manoharaṁ sarva-kaiṅkaryaika-yogyaṁ śarīraṁ labdhvā tasmiñ śarīre pañcopaniṣan-mantrān sṛṣṭi-krameṇa vinyasyet| oṁ ṣāṁ namaḥ parāya parameṣṭhy-ātmane nama iti mūrdhni spṛśet| oṁ yāṁ namaḥ parāya puruṣātmane nama iti nāsikāgre| oṁ rāṁ namaḥ parāya viśvātmane nama iti hṛdaye| oṁ vāṁ namaḥ parāya nivṛtty-ātmane nama iti guhye| oṁ lāṁ namaḥ parāya sarvātmane nama iti pādayoḥ| evaṁ nyāsaṁ kurvaṁs tat-tac-chakti-mayam udbhūtaṁ dehaṁ dhyāyet|
Link copiedpunar api prāṇāyāmenaikena bhagavad-vāma-pādāṅguṣṭha-viniḥsṛtāmṛta-dhārayātmānam abhiṣicya kṛtalāñchano dhṛtordhva-puṇḍro bhagavad-yāgam ārabhet|
Link copiedbhagavān eva sarvaṁ kārayatīti pūrvavad dhyātvā hṛd-yāgaṁ kṛtvā sambhārān sambhṛtya, ātmano vāma-pārśve jala-kumbhe toyam utpūrya gandha-puṣpa-yutaṁ kṛtvā sapta kṛtvo'bhimantrya viśoṣya dagdhvā divyāmṛta-mayaṁ toyam utpādya, astra-mantreṇa rakṣāṁ kṛtvā surabhi-mudrāṁ pradarśya, anyāni pūjā-dravyāṇy ātmano dakṣiṇa-pārśve nidhāya, ātmanaḥ purataḥ svāstīrṇe pīṭhe krameṇāgneyādiṣu koṇeṣv arghya-pādyācamanīya-snānīya-pātrāṇi nidhāya, astra-mantreṇa prakṣālya śoṣaṇādinā pātrāṇi viśodhya saṁskṛta-toyena tāni pūrayitvā, arghya-pātre-gandha-puṣpa-kuśāgrākṣatādīni nikṣipet| dūrvāṁ viṣṇu-parṇāṁ śyāmākaṁ padmakaṁ pādya-pātre| elā-lavaṅga-takkola-lāmajjaka-jātī-puṣpāṇy ācamanīye| (dve haridre murā-śaileya-takkola-jaṭāmāṁsī-malayaja-gandha-campaka-puṣpāṇi snānīye) siddhārthakādīni snānīye|
Link copiedanyasmin pātre sarvārtha-toyaṁ saṅkalpya tato'rghya-pātraṁ pāṇinā spṛṣṭvā mūla-mantreṇābhimantrya, oṁ namo bhagavate'rghyaṁ parikalpayāmīty arghyaṁ parikalpayet| evaṁ pādyaṁ parikalpayāmīti pādyam| ācamanīyaṁ parikalpayāmīty ācamanīyam| snānīyaṁ parikalpayāmīti snānīyam| śuddhodakaṁ parikalpayāmīti śuddhodakam| tato'rghya-jalāj jalam anyena pātreṇādāya yāga-bhūmiṁ sarvāṇi yāga-dravyāṇy ātmānaṁ ca pratyekaṁ samprokṣya, āsanaṁ parikalpayet|
Link copiedoṁ ādhāra-śaktyai namaḥ, oṁ mūla-prakṛtyai namaḥ, oṁ akhila-jagad-ādhārāya kūrma-rūpiṇe nārāyāṇāya namaḥ, oṁ bhagavate'nantāya nāgarājāya namaḥ, oṁ bhūṁ bhūmyai nama iti yathāsthānam upary upari dhyātvā praṇamya, oṁ śrī-vaikuṇṭhāya divya-lokāya nama iti śrī-vaikuṇṭha-divya-lokaṁ praṇamya, oṁ śrī-vaikuṇṭhāya divya-janapadāya nama iti divya-janapadaṁ praṇamya, oṁ śrī-vaikuṇṭhāya divya-nagarāya nama iti divya-nagaraṁ praṇamya, oṁ śrī-vaikuṇṭhāya divya-vimānāya nama iti divya-vimānaṁ praṇamya, oṁ ānanda-mayāya divya-maṇṭapa-ratnāya nama iti maṇṭapa-ratnaṁ praṇamya, tasmin, anantāya (nārāyaṇāya) nama ity āstaraṇaṁ praṇamya, tasminn upari, oṁ dharmāya nama ity āgneyyāṁ pādaṁ vinyasya, oṁ jñānāya nama iti nairṛtyāṁ, oṁ vairāgyāya nama iti vāyavyāṁ, oṁ aiśvaryāya nama ity aiśānyām, oṁ agharmāya nama iti prācyāṁ pīṭha-gātraṁ vinyasya, oṁ ajñānāya nama iti dakṣiṇasyāṁ, oṁ avairāgyāya nama iti pratīcyāṁ, oṁ anaiśvaryāya nama ity uttarasyām, ebhiḥ paricchinna-tanuṁ pīṭha-bhūtaṁ sad-ātmakam anantaṁ vinyasya, sarva-kāryonmukhaṁ vibhum anantaṁ, oṁ anantāya nama iti vinyasya, tasminn upari, oṁ padmāya nama iti padmaṁ vinyasya, tat-pūrva-patre, oṁ vimalāyai (cāmara-hastāyai) nama iti vimalāṁ cāmara-hastāṁ vinyasya, tata ārabhya prādakṣiṇyenaiśānāntaṁ panneṣu, oṁ utkarṣiṇyai (cāmara-hastāyai) namaḥ, oṁ jñānāyai (cāmara-hastāyai) namaḥ, oṁ kriyāyai (cāmara-hastāyai) namaḥ, oṁ yogāyai namaḥ, oṁ prahvyai (cāmara-hastāyai) namaḥ, oṁ satyāyai (cāmara-hastāyai) namaḥ, oṁ īśānāyai (cāmara-hastāyai) nama iti sapta śaktīś cāmara-hastā vinyasya, oṁ anugrahāyai (cāmara-hastāyai) nama iti karṇikā-pūrva-bhāge'nugrahāṁ cāmara-hastāṁ vinyasyet, oṁ jagat-prakṛtaye yoga-pīṭhāya nama iti yoga-pīṭhaṁ vinyasya, oṁ (divyāya yoga-paryaṅkāya) divya-yoga-pīṭhāya namaḥ, iti divya-yoga-(pīṭha)paryaṅkaṁ vinyasya, tasminn anantaṁ nāgarājaṁ sahasra-phaṇā-śobhitaṁ, oṁ anantāya nāgarājāya nama iti nyasya, oṁ anantāya nama iti purataḥ pāda-pīṭhaṁ vinyasya, sarvāṇy ādhāra-śakty-ādīni pīṭhāntāni tattvāni pratyekaṁ gandha-puṣpa-dhūpa-dīpair abhyarcya, sarva-parivārāṇāṁ tat-tat-sthāneṣu padmāsanāni saṅkalpya, ananta-garuḍa-viṣvaksenānāṁ sapīṭhakaṁ padmaṁ vinyasya, sarvataḥ puṣpākṣatāndīni vikīrya, yoga-pīṭhasya paścimottara-dig-bhāge, oṁ asmad-gurubhyo nama iti gurūn gandha-puṣpa-dhūpa-dīpaiḥ sampūjya praṇamyānujñāpya bhagavad-yāgam ārabhet|
Link copiedkalpite nāga-bhoge samāsīnaṁ bhagavantaṁ nārāyaṇaṁ puṇḍarīka-dalāmalāyatākṣaṁ kirīṭa-makuṭa-keyūra-hāra-kaṭakādi-sarva-bhūṣaṇair bhūṣitam ākuñcita-dakṣiṇa-pādaṁ, prasārita-vāma-pādaṁ jānu-vinyasta-prasarita-sārita-dakṣiṇa-bhujaṁ nāga-bhoga-vinyasta-vāma-bhujam ūrdhva-bhuja-dvayena śaṅkha-cakra-dharaṁ sarveṣāṁ sṛṣṭi-sthiti-pralaya-hetu-bhūtam añjanābhaṁ, kaustubhena virājamānaṁ cakāsatam udagra-prabuddha-sphurad-apūrvācintya-parama-sattva-pañca-śakti-maya-vigrahaṁ pañcopaṇiṣadair dhyātvā, ārādhanābhimukho bhaveti (mūla-mantreṇa) prārthya, mūla-mantreṇa daṇḍavat praṇamya, utthāya svāgataṁ nivedya, yāvad ārādhana-samāpti-sānnidhya-yācanaṁ kuryāt|
Link copiedanyatra svābhimata-deśe pūjā ced evam āvāhanam---
Link copiedmantra-yogaḥ samāhvānaṁ kara-puṣpopa-darśanam|
Link copiedbimbopaveśanaṁ caiva yoga-vigraha-cintanam||
Link copiedpraṇāmaś ca samutthānaṁ svāgataṁ puṣpam eva ca|
Link copiedsānnidhya-yācanaṁ ceti tatrāhvānasya sat-kriyā||
Link copiedtato bhagavantaṁ praṇamya dakṣinataḥ, oṁ śrīṁ śriyai nama iti śriyam āvāhya praṇamya, vāmataḥ, oṁ bhūṁ bhūmyai nama iti bhuvam āvāhya tatraiva oṁ nīm nīlāyai nama iti nīlām āvāhya, kirīṭāya makuṭādhipataye nama ity upari bhagavataḥ paścima-pārśve catur-bāhuṁ catur-vaktraṁ kṛtāñjali-puṭaṁ mūrdhni bhagavat-kirīṭaṁ dhārayantaṁ kirīṭākhya-divya-puruṣaṁ praṇamya, evam eva, oṁ kirīṭa-mālyāyāpīḍātmane nama ity āpīḍakaṁ tatraiva purastāt praṇamya, oṁ dakṣiṇa-kuṇḍalāya makarātmane nama iti dakṣiṇa-kuṇḍalaṁ dakṣiṇataḥ praṇamya, oṁ vāma-kuṇḍalāya makarātmane nama iti vāma-kuṇḍalaṁ vāmataḥ praṇamya, oṁ vaijayantyai vanamālāyai nama iti vanamālāṁ purataḥ praṇamya, oṁ śrī-tulasyai nama iti tulasīṁ devīṁ purataḥ praṇamya, oṁ śrīvatsāya śrīnivāsāya nama iti śrīvatsaṁ purataḥ praṇamya, oṁ hārāya sarvābharaṇādhipataye nama iti hāraṁ purataḥ praṇamya, oṁ śrī-kaustubhāya sarva-ratnādhipataye nama iti kaustubhaṁ purataḥ praṇamya, oṁ kāñcī-guṇojjvalāya divya-pītāmbarāya nama iti pītāmbaraṁ purataḥ praṇamya, oṁ sarvebhyo bhagavad-bhūṣaṇebhyo nama iti sarva-bhūṣaṇāni sarvataḥ praṇamya, oṁ śrī-sudarśanāya hetirājāya nama iti sudarśanaṁ rakta-varṇaṁ rakta-netraṁ (dvi-bhujaṁ) catur-bhujaṁ kṛtāñjali-puṭaṁ bhagavantam ālokayantam tad-darśanānanda-bṛṁhita-mukhaṁ mūrdhni bhagavac-cakraṁ dhārayantaṁ dakṣiṇataḥ praṇamya, oṁ nandakāya khaḍgādhipataye nama iti nandakātmānaṁ śirasi bhagavat-khaḍgaṁ dhārayantaṁ tatraiva praṇamya, oṁ padmāya nama iti padmaṁ (śirasi dhārayantaṁ) praṇamya, oṁ pāñcajanyāya śaṅkhādhipataye nama iti śaṅkhātmānaṁ sita-varṇaṁ rakta-netraṁ dvi-bhujaṁ kṛtāñjali-puṭaṁ śirasi bhagavac-chaṅkhaṁ dhārayantaṁ vāmataḥ praṇamya, oṁ kaumodakyai gadādhipataye nama iti gadātmānaṁ tatraiva praṇamya, tatraiva oṁ śārṅgāya cāpādhipataye nama iti śārṅgātmānaṁ praṇamya, oṁ sarvebhyo bhagavad-divyāyudhebhyo nama iti sarvāyudhāni paritaḥ praṇamya, oṁ sarvābhyo bhagavat-pādāravinda-saṁvāhinībhyo nama iti divya-pādāravinda-saṁvāhinīḥ samantataḥ praṇamya, oṁ anantāya nāgarājāya nama iti pṛṣṭhato'nantaṁ (bhagavantaṁ) nāgarājaṁ catur-bhujaṁ hala-musala-dharaṁ kṛtāñjali-puṭaṁ phaṇā-maṇi-sahasra-maṇḍitottamāṅgaṁ bhagavad-sparśanānanda-bṛṁhita-sarva-gātraṁ dhyātvā praṇamya, oṁ sarvebhyo bhagavat-parijanebhyo nama ity anuktānanta-parijanān samantataḥ praṇamya, oṁ vainateyāya nama ity agrato (bhagavato bhagavantaṁ) vainateyam āsīnaṁ dvi-bhujaṁ kṛtāñjali-puṭaṁ dhyātvā praṇamya, oṁ bhagavate viṣvaksenāyeti bhagavataḥ prāg uttara-pārśve dakṣiṇābhimukhaṁ bhagavantaṁ viṣvaksenam āsīnaṁ catur-bhujaṁ śaṅkha-cakra-dharaṁ nīla-megha-nibhaṁ dhyātvā praṇamya, oṁ gaṁ gajānanāya namaḥ, oṁ jaṁ jayat-senāya namaḥ, oṁ haṁ hari-vaktrāya namaḥ, oṁ kaṁ kāla-prakṛti-saṁjñāya namaḥ, oṁ sarvebhyo bhagavad-viṣvaksena-parijanebhyo nama iti viṣvaksena-parijanān praṇamya, oṁ caṇḍāya dvāra-pālāya namaḥ, oṁ pracaṇḍāya dvāra-pālāya nama iti pūrva-dvāra-pārśvayoḥ praṇamya, oṁ bhadrāya dvāra-pālāya namaḥ, oṁ subhadrāya dvāra-pālāya nama iti dakṣiṇa-dvāra-pārśvayoḥ praṇamya, oṁ jayāya dvāra-pālāya namaḥ, oṁ vijayāya dvāra-pālāya nama iti paścima-dvāra-pārśvayoḥ praṇamya, oṁ dhātre dvāra-pālāya namaḥ, oṁ vidhātre dvāra-pālāya nama iti uttara-dvāra-pārśvayoḥ praṇamya, oṁ dhātre dvāra-pālāya namaḥ, oṁ vidhātre dvāra-pālāya nama ity uttara-dvāra-pārśvayoḥ praṇamet|
Link copiedete dvāra-pālāḥ sarve śaṅkha-cakra-gadādharā ājñā-mudrāyutā dhyātavyāḥ||
Link copiedoṁ sarvebhyo bhagavad-dvāra-pālebhyo nama iti sarva-dvāreṣu sarva-dvāra-pālān praṇamya,
Link copiedoṁ kumudāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama iti pūrvasyāṁ diśi pārṣadeśvaraṁ kumudaṁ praṇamya, oṁ kumudākṣāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama ity āgneyyāṁ kumudākṣaṁ praṇamya, oṁ puṇḍarīkāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama iti dakṣiṇasyāṁ puṇḍarīkaṁ praṇamya, oṁ vāmanāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama iti nairṛtyāṁ vāmanaṁ praṇamya, oṁ śaṅkukarṇāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama iti paścimasyāṁ śaṅkukarṇaṁ praṇamya, oṁ sarpa-netrāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama iti vāyavyāṁ sarpa-netraṁ praṇamya, oṁ sumukhāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama ity udīcyāṁ sumukhaṁ praṇamya, oṁ supratiṣṭhitāya gaṇādhipataye savāhana-parivāra-praharaṇāya nama ity aiśānyāṁ supratiṣṭhitaṁ praṇamya, oṁ sarvebhyo bhagavat-pāriṣadebhyo nama iti sarvasmād bahiḥ praṇamet|
Link copiedanyatrāvāhya pūjāyām āvāhana-sthānāni parama-vyoma-kṣīrārṇavāditya-maṇḍala-hṛdayāni madhurā-dvārakā-gokulāyodhyādīni divyāvatāra-sthānāni cānyāni paurāṇikāni śrī-raṅgādīni ca yathāruci|
Link copiedevaṁ bhagavantaṁ nārāyaṇaṁ devī-bhūṣaṇāyudha-parijana-paricchada-dvāra-pāla-pārṣadaiḥ sevyamānaṁ svādhīna-trividha-cetanācetana-svarūpa-sthiti-pravṛtti-bhedaṁ kleśa-karmādy-aśeṣa-doṣāsaṁspṛṣṭaṁ svābhāvikānavadhikātiśaya-jñāna-balaiśvarya-vīrya-śakti-tejaḥ prabhṛty-asaṅkhyeya-kalpāṇa-guṇa-gaṇaugha-mahārṇavaṁ dhyātvā praṇamya, mūla-mantreṇa svātmānaṁ devāya nivedya, praṇamyānujñāpya, bhagavat-pūjām ārabhet|
Link copiedpātreṇa pūrvasthāpitādarghya-pātrād arghya-jalam ādāya pāṇibhyāṁ mukha-samam uddhṛtya, bhagavan, idaṁ pratigṛhṇīṣveti cintayan bhagavan-mukhe darśayitvā bhagavad-dakṣiṇa-haste kiñcit pradāyārghyaṁ pratigraha-pātre prakṣipet| hatau prakṣālya pādayoḥ puṣpāṇi samarpya pādya-pātrāt pādya-jalam ādāya pādayoḥ kiñcit datvā manasā pādau prakṣālyan pādyaṁ pratigraha-pātre nikṣipet| hastau prakṣālya vastreṇa pādau sammṛjya gandha-puṣpāṇi datvā, ācamanīya-pātrād ācamanīyam ādāya bhagavad-dakṣiṇa-haste kiñcit samarpya, bhagavad-vadane ācamanīyaṁ samarpitam iti manasā bhāvayañ śeṣam ācamanīyaṁ pratigraha-pātre nikṣipet| tato gandha-puṣpa-dhūpa-dīpācamana-mukha-vāsa-tāmbūlādi-nivedanaṁ kṛtvā praṇamya, ātmānam ātmīyaṁ ca sarvaṁ bhagavan nitya-kiṅkaratvāya svīkurv iti bhagavate nivedayet| tataḥ snānārtham āsanam ānīya gandhādibhir abhyarcya bhagavantaṁ praṇamya, anujñāpya pāduke pradāya tatropaviṣṭe mālya-bhūṣaṇa-vastrāṇy apanīya viṣvaksenāya datvā snāna-śāṭikāṁ pradāya pādyācamanīya-pāda-pīṭha-pradāna-danta-kāṣṭha-jihvānirlehana-gaṇḍūṣa-mukha-prakṣālanācamanādarśa-pradarśana-hasta-prakṣālana-mukha-vāsa-tāmbūla-tailābhyaṅgodvartāmalaka-toya-kaṅkata-plota-deha-śodhana-śāṭikā-pradāna-haridrālepana-prakṣālana-vastrottarīya-yajñopavīta-pradāna-pādyācamana-pavitra-pradāna-gandha-puṣpa- dhūpa-dīpācamana-nṛta-gīta-vādyādi-sarva-maṅgala-saṁyuktābhiṣeka-nīrājanācamana-deha-śodhana-plota-vastrauttarīya-yajñopavītācamana-kūrca-prasāraṇa-sahasra-dhārābhiṣeka-nīrājanācamana-deha-śodhana-plota-vastrottarīya-yajñopavītācamanāni dadyāt|
Link copiedtato'laṅkārāsanam abhyarcya praṇamya, anujñāpya, pāduke pradāya, tatropaviṣṭe pūrvavat snānīya-varjam arghya-pādyācamanīya-śuddhodakāni mantreṇa kalpayitvā bhagavate gandha-puṣpa-pāda-sammardana-vastrottarīya-bhūṣaṇopavītārghya-pādyācamanīyāni datvā sarva-parivārāṇāṁ snāna-vastrādi-bhūṣaṇāntaṁ datvā gandhādīn devānantaraṁ sarva-parivārāṇāṁ pratyekaṁ pradāya dhūpa-dīpācamanīyāni dadyāt| athavā sarva-parivārāṇāṁ gandhādīn eva dadyāt|
Link copiedgandha-puṣpa-pradānālaṅkārāñjanordhvapuṇḍrādarśa-dhūpa-dīpācamana- dhvaja-cchatra-cāmara-vāhana-śaṅkha-cihna-kāhala-bheryādi-sakala-nṛta-gīta-vādyādibhir abhyarcya mūla-mantreṇa puṣpaṁ pradāya pratyakṣaraṁ puṣpaṁ pradāya dvādaśākṣareṇa viṣṇu-ṣaḍ-akṣareṇa viṣṇu-gāyatryā pañcopaniṣadaiḥ puruṣasūktargbhir anyaiś ca bhagavan-mantraiḥ śaktaś cet puṣpaṁ pradāya devyādi-pāriṣadāntaṁ tat-tan-mantreṇa puṣpaṁ datvā, praṇamya, pratidiśaṁ pradakṣiṇa-praṇāma-pūrvakaṁ bhagavate puṣpāñjaliṁ datvā purataḥ praṇamya, śruti-mukhaiḥ stotraiḥ stutvā, ātmānaṁ nitya-kiṅkaratayā nivedya tathaiva dhyātvā yathāśakti mūla-mantraṁ japitvā sarva-bhoga-prapūranīṁ mātrāṁ datvā mukha-vāsa-tāmbūle pradāya, aghyaṁ datvā, bhojyāsanam abhyarcya, praṇamya, anujñāpya, pāduke pradāya, tatropaviṣṭe pādyācamanīyārhaṇāni datvā, guḍaṁ mākṣikaṁ sarpir dadhi kṣīraṁ ceti pātre nikṣipya śoṣaṇādibhir viśodhya, arghya-jalena samprokṣya madhuparkam avanata-śirāḥ harṣotphulla-nayano hṛṣṭa-manā bhūtvā pradāya, ācamanīyaṁ dadyāt| yat kiñcid dravyaṁ bhagavate dīyate tat sarvaṁ śoṣaṇādibhir viśodhya, arghya-jalena samprokṣya dadyāt|
Link copiedtataś ca gāṁ svarṇa-ratnādikaṁ ca yathāśakti dadyāt| tataḥ susaṁskṛtānnam ājyāḍhyaṁ dadhi-kṣīra-madhūni ca phala-mūla-vyañjanāni modakāṁś cānyāni ca loke priyatamāny ātmanaś ceṣṭāni śāstrāviruddhāni sambhṛtya śoṣaṇādibhir viśodhyārghya-jalena samprokṣya, astra-mantreṇa rakṣāṁ kṛtvā surabhi-mudrāṁ pradarśya, arhaṇa-pūrvakaṁ havir nivedayet| atiprabhūtam atisamagram atipriyatamam atyanta-bhakti-kṛtam idaṁ svīkurv iti praṇāma-pūrvakam atyanta-sādhvasa-vinayāvanato bhūtvā nivedayet|
Link copiedtataś cānupāna-tarpaṇe pradāya hasta-prakṣālanācamana-hasta-sammārjana-candana-mukha-vāsa-tāmbūlādīni datvā praṇamya punar mantrāsanaṁ kūrcena mārjayitvā, abhyarcya, anujñāpya pāduke pradāya tatropaviṣṭe mālyādikam apohya viśvaksenāya datvā pādyācamanīya-gandha-puṣpa-dhūpa-dīpācamanāpūpa-phalādīni datvā, ācamana-mukha-vāsa-tāmbūla-nṛta-gīta-vādyādibhir abhyarcya pradakṣiṇīkṛtya daṇḍavat praṇamya paryaṅkāsanam abhyarcya pāduke pradāya tatropaviṣṭe pādyācamane datvā, mālya-bhūṣaṇa-vastrāṇy apanīya viśvaksenāya datvā sukha-śayanocitaṁ sukha-sparśaṁ ca vāsaḥ tad-ucitāni bhūṣaṇāny upavītaṁ ca pradāya, ācamanīyaṁ datvā gandha-puṣpa-dhūpa-dīpācamana-mukha-vāsa-tāmbūlādibhir abhyarcya śruti-sukhaiḥ stotrair abhiṣṭūyā, bhagavān eva sva-niyāmya-svarūpa-sthiti-pravṛtti-sva-śeṣataikarasenānenātmanā svakīyaiś ca dehendriyāntaḥkaraṇaiḥ svakīya-kalyāṇatama-dravya-mayān aupacārika-sāṁsparśikābhyavahārikādi-samasta-bhogān atiprabhūtān atisamagrān atipriyatamān atyanta-bhakti-kṛtān akhila-parijana-paricchadānvitāya svasmai sva-prītaye svayam eva pratipāditavān ity anusandhāya bhagavantam anujñāpya, bhagavan nivedita-haviḥ-śeṣād viśvaksenāya kiñcid uddhṛtya nidhāya, anyat sarvaṁ svācārya-pramukhebhyo vaiṣṇavebhyo datvā, bhagavad-yāgāvaśiṣṭair jalādibhir dravyair viṣvaksenam abhyarcya pūrvoddhṛtaṁ haviś ca datvā tad-arcanaṁ parisamāpya bhagavantam aṣṭāṅgena praṇāmena praṇamya śaraṇam upagacchet|
Link copiedmano-buddhyabhimānena saha nyasya dharā-tale|
Link copiedkūrmavac caturaḥ pādān śiras tatraiva pañcamam||
Link copiedpradakṣiṇa-sametena tv evaṁ-rūpeṇa sarvadā|
Link copiedaṣṭāṅgena namaskṛtya hy upaviśyāgrataḥ prabho||
Link copiedity ukto'ṣṭāṅga-praṇāmaḥ| śaraṇāgati-prakāraś ca pūrvoktaḥ|
Link copiedtato'rghya-jalaṁ pradāya bhagavantam anujñāpya pūjāṁ samāpayet|
Link copiediti śrī-rāmānujācārya-viracito nitya granthaḥ||
Link copiedEnglish · simplified for modern readers
About this summary
This is an original summary prepared by JETNJ for English-speaking devotees, not a translation of Bhagavad Ramanujacharya's Sanskrit text. The full original is available above. A literal English translation is not in the public domain; we plan to commission one or link to authoritative scholarly editions as they become permissible.
Link copiedWhat the work is
The Nitya-Grantha — "The Daily Manual" — is Bhagavad Ramanuja's practical handbook for the daily worship of Sriman Narayana. Where the Sri Bhashya, the Vedanta Dipa, the Vedanta Sara, and the Vedartha Sangraha set out the philosophical vision of Vishishtadvaita, the Nitya-Grantha is the living practice that matches it. It is the book a Sri Vaishnava keeps at hand — short, practical, and meant to be used every day.
Link copiedThe work belongs to the genre of nitya-ārādhana-paddhati — a guide to the obligatory daily worship of the Lord at one's own home shrine. It is addressed to the initiated Sri Vaishnava, whether householder or renunciate, and it assumes that the devotee has received pañca-saṁskāra (the five sacraments of formal initiation) from a qualified acharya. Tradition holds that Ramanuja composed it so that every Sri Vaishnava, however far from a temple, could keep an unbroken daily relationship with Sriman Narayana through worship offered to the archa-vigraha (the consecrated deity image) in the home shrine. At roughly fifteen to twenty-five pages of Sanskrit, it is the shortest of Ramanuja's major works — and among the most constantly used.
Link copiedStructure
The Nitya-Grantha is organized as a walk through the devotee's day, from waking to sleep.
Link copiedIt opens with the rites of early morning — the prātaḥ-sandhyā (dawn observance), the ritual bath, and the mental preparations that place the devotee in a state of fitness for worship. It then takes up pañca-saṁskāra — the five rites of initiation by which a soul becomes a Sri Vaishnava — and describes the sacred marks and mantras the devotee bears through life. It sets out bhagavad-ārādhana, the formal worship of the Lord at the home shrine: the purification of self and space, the invocation, the offering of the sixteen traditional services, the recitation of mantras, the meditative offering of self, and the concluding prayers. It treats the taking of consecrated food (prasāda), the afternoon and evening observances, and the closing rites before sleep. Interwoven throughout are instructions on posture, inner attitude, and the meanings of the mantras — so that the outer sequence is never mechanical but always carried by understanding.
Link copiedKey teachings
The body of the devotee is prepared for worship through pañca-saṁskāra. The five sacraments — tāpa (the marking of the shoulders with the sacred emblems of conch and discus), puṇḍra (wearing the ūrdhva-puṇḍra, the upright clay mark), nāma (receiving a servant-name from the acharya), mantra (initiation into the sacred mantras), and yāga (instruction in the daily worship) — constitute the devotee as a Sri Vaishnava. The Nitya-Grantha describes these briefly and places them at the foundation of all that follows: one worships the Lord not as a stranger approaching a distant sovereign, but as a marked, mantra-bearing servant already received into His household.
Link copiedWorship is offered to the archa-vigraha, the Lord's own accessible form. Sri Vaishnava theology recognizes five modes (pañca-prakāra) in which Sriman Narayana makes Himself available — para (the supreme in His transcendent glory), vyūha (the cosmic emanations), vibhava (the avatāras), antaryāmin (the inner ruler), and arca (the consecrated image). Of these, the arca is the form graciously given for daily, tangible worship. The Nitya-Grantha teaches the devotee to approach the home archa-vigraha not as an emblem but as the Lord Himself, present in full, having accepted this form out of love for those who would serve Him with their hands.
Link copiedThe sixteen services shape the body and mind to servitude. The core of the daily ārādhana is the offering of the traditional sixteen upacāras — welcome, a seat, water for the feet, water of greeting, water to sip, a ritual bath, fresh garments, the sacred thread, sandal paste, flowers, incense, lamp, food, betel, circumambulation, and salutation. The Nitya-Grantha sets out each with the accompanying mantras and the inner disposition it should carry. The point is never the external ritual alone: through these acts the devotee's whole life is schooled in kainkaryam (loving service), so that ordinary actions beyond the shrine begin to carry the same quality.
Link copiedMantra, meditation, and offering of self are the inward spine of worship. Three mantras stand at the heart of Sri Vaishnava life — the Tirumantra ("Om namo Narayanaya"), the Dvaya, and the Charama-Sloka of the Bhagavad Gita. The Nitya-Grantha weaves these into the flow of daily worship: the Tirumantra as the constant remembrance of the soul's nature as servant of Sriman Narayana, the Dvaya as the formal utterance of prapatti (surrender) and the prayer for eternal service, the Charama-Sloka as the Lord's own assurance to the surrendered soul. Around these, the Nitya-Grantha teaches meditative postures, the visualization of the Lord in the lotus of the heart, and the ātma-nivedana — the formal offering of oneself, one's body, one's karma, and all that one calls one's own at the feet of the divine couple.
Link copiedFood becomes prasāda; the day becomes service. Once worship is complete, the food offered to the Lord is received back as prasāda. The Nitya-Grantha teaches that no Sri Vaishnava eats what has not first been offered: every meal is a continuation of the morning's worship. The afternoon and evening observances — study, further meditation, the evening sandhya, and the concluding rites before sleep — extend this discipline through the whole day, so that the devotee's life itself becomes an unbroken ārādhana.
Link copiedWhy this work matters
Within the Vedic tradition, the Nitya-Grantha is the bridge between philosophy and practice. The longer works show what is true; this small book shows what the devotee does about it each morning. For centuries, Sri Vaishnava households have structured their day around its instructions — not by reading it cover to cover, but by absorbing it through the guidance of an acharya and letting its rhythm become the rhythm of daily life.
Link copiedFor devotees today, the Nitya-Grantha is a gift of astonishing concreteness. It answers the question that every earnest seeker eventually asks: given that Sriman Narayana is the Lord of all, given that I am His servant, given that devotion and surrender are the way — what do I actually do with this next hour, this morning, this day? Ramanuja's answer, carefully preserved in this little manual, is the answer the tradition has lived by ever since: you welcome Him into your home, you serve Him with your hands, you offer Him your food, your breath, and yourself — and you let that worship shape every moment that follows.
Link copiedText offered in original IAST Sanskrit from the Ramanuja Granthamala corpus. For cross-referenced study and search, visit netcausal.ai/veda.